पूर्वम्: ७।३।१०१
अनन्तरम्: ७।३।१०३
 
सूत्रम्
सुपि च॥ ७।३।१०२
काशिका-वृत्तिः
सुपि च ७।३।१०२

अतो दीर्घो यञि ७।३।१०१ इत्यनुवर्तते। सुपि च यञादौ परतो ऽकारान्तस्य अङ्गस्य दीर्घो भवति। वृक्षाय। प्लक्षाय। वृक्षाभ्याम्। प्लक्षाभ्याम्। अतः इत्येव, अग्निभ्याम्। यञि इत्येव, वृक्षस्य। प्लक्षस्य।
लघु-सिद्धान्त-कौमुदी
सुपि च १४१, ७।३।१०२

यञादौ सुपि अतोऽङ्गस्य दीर्घः। रामाभ्याम्॥
न्यासः
सुपि च। , ७।३।१०२

बाल-मनोरमा
सुपि च २००, ७।३।१०२

सुपि च। "अतो दीर्घो यञी"त्यनुवर्तते। "यञी"त्यनुवर्तते। "यञी"त्यनेन सुपीति विशेष्यते। "यस्मिन् विधि"रिति तदादिविधिरित्याह--यञा-दाविति। अतोङ्गस्येति। अदन्तस्याङ्गस्येत्यर्थः। राम-भिस् इति स्थिते, न विभक्ताविति सस्य नेत्त्वम्।

तत्त्व-बोधिनी
सुपि च १६८, ७।३।१०२

सुपि च। "यञी"त्यनुवर्तते। अल्ग्रहणात्तदादिविधिरित्याह--यञादौ सुपीति। यञि किम्?। रामः। अत इति किम्?। अग्निभ्याम्।