पूर्वम्: ७।३।१०९
अनन्तरम्: ७।३।१११
 
सूत्रम्
ऋतो ङिसर्वनामस्थानयोः॥ ७।३।११०
काशिका-वृत्तिः
ऋतो ङिसर्वनामस्थानयोः ७।३।११०

गुणः इति वर्तते। ऋकारान्तस्य अङ्गस्य ङौ परतः सर्वनामस्थाने च गुणो भवति। ङौ मातरि। पितरि। भ्रातरि। कर्तरि। सर्वनामस्थाने कर्तारौ। कर्तारः। मातरौ। पितरौ। भ्रातरौ। तपरकरणं मुखसुखार्थम्।
न्यासः
ऋतो ङिसर्वनामस्थानयोः। , ७।३।११०

"तपरकरणं मुखसुखार्थम्()" इति। न हि ङिसर्वनामस्थानयोर्दीर्घ ऋकारः सम्भवति यस्तपरेण निवर्त्त्येत॥
बाल-मनोरमा
ऋतो ङिसर्वनामस्थानयोः २७३, ७।३।११०

ऋतो ङि। "ह्यस्वस्य गुणः" इत्यतो"गुण" इत्यनुवर्तते। "अङ्गस्ये"त्यधिकृतम् "ऋत" इत्यनेन विशेष्यते, ततस्तदन्तविधिस्तदाह--ङाविति।

तत्त्व-बोधिनी
ऋतो ङिसर्वनामस्थानयोः २३७, ७।३।११०

ऋतो ङि। "कृ()" "तृ()" एतयोरनुकरणे ऋकारान्ते गुणवारणाय तपरकरणमिति बोध्यम्।

अप्तृन्। "तुरिष्ठेमेयस्स्वि"तिवृत्तृ इत्येवसिद्धे तृन्तृचोर्मभेदानोपादानं "क्वचित्सामान्योक्तावपि विशेष एव गृह्रते"इति ज्ञापनार्थन्। तेन "न कापधायाः"इत्यत्र सामान्योक्तावपि वुतद्धितयोरेव को गृह्रते, न कमात्रम्। तेन यदग्रे वक्ष्यति "कोपधप्रतषेधे तद्धितवुग्रहण"मिति, तदुपपन्नं भवतीत्येके। अन्ये त्वाहुः--"अप्तृ"--इत्योव वक्तव्ये "तृन्" "तृ"जिति भेदेनोपादानमर्वणस्तृव्।यावृत्तये। यद्यप्यर्थवत्परिभाषाया तन्निवृत्तिः सिध्यति, तथापि तस्याः परिभाषाया अनित्यत्वज्ञापनाय तयोः पृथगुपादानम्। तेन "अनिनस्मन्ग्रहणान्यर्थवता चानर्थकतेन त तदन्तविधिं पर्योजयन्ती"ति सिद्धमिति। व्युत्पत्तिपक्षे तृन्नन्तत्वात्तृजन्तत्वाद्वा सिद्धे नप्त्रादिग्रहणं व्यर्थमित्यत आह--नियमार्थमिति। औणादिकानामन्यषां संज्ञाशब्दानां मा भूदित्येतदर्थमित्यर्थः। धातृशब्दस्त्वौणादिकः संज्ञाशब्दो न भवतीति तत्र दीर्घो भवत्येव। धातारौ। धातारः। अव्युत्पत्तिपक्षे तु नप्त्रादिग्रहणं विध्यर्थमिति पितृभ्रातृप्रभृतीनां दीर्घशङ्कैव नास्तीति बोध्यम्।

तेनेति। पितरौ। पितरः।भ्रातरौ। भ्रातर इत्यादौ दीर्घे नेत्यर्थः। क्रोष्टेति। अनङ्। ह्ल्ङ्यादिलोपात्परत्वादुपधादीर्घः। स च "सर्वनामस्थाने चे"त्यनेन यद्यपि लभ्यते, तथापि परत्वात् "अप्तृ"न्नित्येवं न्याय्यः। कृतेऽप्यनङिएकदेशविकृतस्यानन्यत्वेन तृच्त्वात्। अन्यथा गुणे कृतेऽपि "क्रोष्टारा"वित्यादौ दीर्घे न स्यादिति भावः।