पूर्वम्: ७।३।११५
अनन्तरम्: ७।३।११७
 
सूत्रम्
ङेराम्नद्याम्नीभ्यः॥ ७।३।११६
काशिका-वृत्तिः
ङेराम् नद्याम्नीभ्यः ७।३।११६

नद्यन्ताताबन्तात् नी इत्येतस्माच् च उत्तरस्य ङेः आम् आदेशो भवति। कुमार्याम्। गौर्याम्। ब्रह्मबन्ध्वाम्। धीबन्ध्वाम्। आपः खट्वायाम्। बहुराजायाम्। कारीषगन्ध्यायाम्। नी राजन्याम्। सेनान्याम्।
न्यासः
ङेराम्नद्याम्नीभ्यः। , ७।३।११६

"ङेः" इति सप्तम्येकवचनस्य ग्रहणम्()। एतच्च "स्त्रियाम्()" इत्येवमादिनिर्देशाद्विज्ञायते। "ग्रामण्याम्()" इति। ग्रामं नयतीति "सत्सूद्विष" ३।२।६१ इत्यादिना क्विप्(), "अग्रग्रामाभ्याञ्च" इति णत्वम्()। "एरनेकाचः" ६।४।७२ इति यणादेशः। अथ कुमार्याम्(), खट्वायाम्(), सर्वस्यामिति कथं सिध्यति, आमि कृते "ह्यस्वनद्यापो नुट्()" (७।१।५४) इति नुडागमेन भवितव्यम्()? नैष दोषः; नुटः परत्वादाट्()--याट्()--स्याटो भवन्ति। तेष कृतेषु नुटः प्राप्तिरेव नास्तीति, न हि द्वयोरादिलिङ्गयोः समुच्चय उपपद्यते॥
बाल-मनोरमा
ङेराम्नद्याम्नीभ्यः २६८, ७।३।११६

ङेराम्नद्याम्नीभ्यः। आङ्गत्वात्प्रत्ययग्रहणपरिभाषया च तदन्तविधिमभिप्रेत्य आह--नद्यन्तादित्यादिना। "ङे"रिति सप्तम्येकवचनं, व्याख्यानात्। नन्वामि कृते "ह्यस्वनद्यापः" इति नुटि "यदागमाः" इति न्यायेन नामोऽप्याम्ग्रहणेन ग्रहणात् "आण्नद्या" इति आडागमः स्यादित्याशङ्क्य आह--इह परत्वादिति। न च कृतेऽप्याडागमे नुट् किं न स्यादिति वाच्यं, विप्रतिषेधेन यद्बाधितं तद्बाधितमेवे"ति न्यायादिति भावः। शेषमीप्रत्ययान्तेति। वातप्रमीशब्दस्यापि इवर्णान्तधातुत्वाऽभावेन अमि शसि ङौ च "एरनेकाचः" इति यणः प्रात्प्यभावादिति भावः। लक्षेर्मुट् चे"ति लक्षधातोरीप्रत्यये तस्य मुटि च लक्ष्मीशब्दः। लक्ष्मीमतिक्रान्त इति विग्रहे "अत्यादयः क्रान्ताद्यर्थे" इति समासः। अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनह्यस्वः। अङ्यन्तत्वादिति। औणादिकप्रत्ययान्तत्वादिति बावः। शेषं बहुश्रेयसीवदिति। "प्रथमलिङ्गग्रहणं चे"ति नदीत्वादिति भावः। अथ धातुत्वमापन्ने कुमारीशब्दे पुँल्लिङ्गे श्रेयसीशब्दाद्वैलक्षण्यं दर्शयितुमाह-कुमारीमिच्छन्नित्यादिना। क्यजन्तादिति। कुमारीमात्मन इच्छतीत्यर्थे "सुपः आत्मनः क्य"जिति क्यच्। कचावितौ। "सन#आद्यन्ता" इति क्यजन्तस्य धातुत्वात्तदवयवसुपोऽमः "सुपो धातुप्रातिपदिकयो"रिति लुक्। ततः क्विप् चे"ति कर्तरि क्विप्। कपावितौ। इकार उच्चारणार्थः। "अतो लोपः,""लोपो व्योः" इति यलोपः। वेरपृक्तस्ये"ति वलोपः। "कुमारी"ति रूपम्। आचारक्विबन्तादिति। कुमारीवाचरतीत्यर्थे "सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः" इति क्विप्। कपावितौ। "वेरपृक्तस्ये"ति वलोपः। "सनाद्यन्ताः" इति धातुत्वात्कर्तरि क्विप्। तस्य च पूर्वत्कृत्स्नलोपः। "कुमारीति"रूपम्। नच क्विबर्थं प्रति कुमारीशब्दस्य उपसर्जनत्वात् "गोस्त्रियोः" इति ह्यस्वः शङ्क्यः, "गोस्त्रियो"रित्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात्, कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ग्रहणात्। हल्ङ्याबिति सुलोप इति। नच क्यजन्ते कथं सोर्लोपः, पूर्वस्माद्विधावल्लोपस्यस्थानिवद्भावादिति वाच्यं, "क्वौ लुप्तं न स्थानिव"दिति निषेधादिति भावः।

तत्त्व-बोधिनी
ङेराम्नद्याम्नीभ्यः २३०, ७।३।११६

ङेराम्। "ङे"रिति सप्तम्येकवचनस्य ग्रहणं, "समानाधिकरणे" "स्त्रिया"मित्यादिनिर्देशात्। आटा नुड्वाध्यत इति। आटि कृते तु पुनर्न पर्वर्तते। "सकृद्गतौ"इति न्यायाश्रयणादिति भावः। न सुलोप इति। "लक्षेर्मुट् चे"त्यैणादिक ईप्रत्ययान्तो लक्ष्मीशब्द इत्युपसर्जनह्यस्वोऽपि नेति बोध्यम्। कुमारीति। यद्यपि क्किबर्थं प्रति ङ्यन्तस्योपसर्जनरत्वाद्द्धस्तत्वं प्राप्तं,तथापि "गोस्त्रियोः"इत्यत्र कृत्रिमोपसर्जनत्वं गृह्रते न त्वप्रधानरूपमिति नात्र ह्यस्वः प्रवर्तते। अतएव हरीतक्याः फलानि हरीतक्य इत्यत्रापि ह्यस्वो न भवति। "लुक्तद्धितलुकी"त्यत्र त्वप्रधानरूपमुपसर्जनमेव गृह्रते, नतु कृत्रिमोपसर्जनमसम्भवादिति वक्ष्यामः।