पूर्वम्: ७।३।११८
अनन्तरम्: ७।४।१
 
सूत्रम्
आङो नाऽस्त्रियाम्॥ ७।३।११९
काशिका-वृत्तिः
आङो ना ऽस्त्रियाम् ७।३।१२०

घेः उत्तरस्य आङः न अभावो भवति अस्त्रियाम्। अग्निना। वायुना। पटुना। पुंसि इति नोक्तम्, अमुना ब्राह्मणकुलेन। अस्त्रियाम् इति किम्? कृत्या। धेन्वा। इति काशिकायां वृत्तौ सप्तमाध्यायस्य तृतीयः पादः। । सप्तमाध्यायस्य चतुर्थः पादः।
लघु-सिद्धान्त-कौमुदी
आङो नास्त्रियाम् १७१, ७।३।११९

घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा। हरिभ्याम्। हरिभिः॥
न्यासः
आङो नाऽस्त्रियाम्?। , ७।३।११९

आङ इति स्थान्यन्तरनिर्देशादिहार्थाद्विभक्तिविपरिणामो भवतीति षष्ठ()न्तं यद्घेरिति प्रकृतं तदिह पञ्चम्यन्तमुपजायत इत्याह--"घेरुत्तरस्य" इत्यादि। अथ किमरथम्? "अस्त्रियाम्()" इत्युच्यते, "आङो ना पुंसि" इत्येवोच्येत; एवमुच्यमाने त्रपुणा जतुनेत्येतन्न सिध्यतीत्येतच्च नाशङ्कनीयम्(); "इकोऽचि विभक्तौ" (७।१।७३) इति नुमैव सिद्धत्वात्()? इति यो मन्येत, तं निराकर्त्तुम्()--"अमुना ब्राआहृणकुलेन इत्यस्योपन्यासः। अत्र हि त्यदाद्यत्वे कृते "अदसोऽसेर्दादु दो मः" ८।२।८० इत्युत्त्वमत्वे च। तत्र यदि पुंसीत्युच्यते, ततोऽमुनेति नपुंसके न सिध्येत्(); मुभावस्यासिद्धत्वात्()। नुमोऽभावात्? "अस्त्रियाम्()" इत्युच्यमाने नपुंसकेऽपि नाभावो भवतीत्यमुनेति सिद्धं भवति। न हि नाभावे कत्र्तव्ये मुभावस्यासिद्धत्वम्(); "न मु ने" ८।२।३ इति वचनादत्यभिप्रायः॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां सप्तमाध्यायस्य तृतीयः पादः - - - अथ सप्तमोऽध्यायः चतुर्थः पादः
बाल-मनोरमा
आङो नाऽस्त्रियाम् २४२, ७।३।११९

आङो। घेः परस्येति। "अच्च घेः" इत्यतो घिग्रहणानुवृत्तेरिति भावः। हरिणेति। नादेशे "अट्कुप्वा"ङिति णत्वम्। नन्वाङो विहितो नाभावः कथं टा इत्यस्य स्यादित्यत आह--आङितीति। प्राचामाचार्याणां शास्त्रे संञ्ज्ञैषेत्यर्थः। मत्येति। "स्त्रियां क्ति"निति क्तिन्नन्तमतिशब्दस्य स्त्रीलिङ्गत्वान्नाभावो नेति भावः। हरिभ्याम्। हरिभिः। हरि-ए इति स्थिते।

तत्त्व-बोधिनी
आङो नाऽस्त्रियाम् २०४, ७।३।११९

आङो ना। "पुंसी"ति तु नोक्तम्, "अमुना कुलेने"त्यत्र यथा स्यात्। न च नुमा रूपसिद्धिः, मुत्वास्याऽसिद्धत्वा "इकोऽची"ति नुमोऽप्रवृत्तेः। नादेशे तु नाऽसिद्धत्वम्। "न मुने" इति निषेधात्। नच "न मु ने" इति निषेधो नुम्येव किं न स्यात्,-"न" इत्यकारस्याऽविवक्षितत्वादिति वाच्यम्, "अमुना घटेने"त्याद्यसिद्ध्यापत्तेः। "अमुष्मै कुलाये"त्यादौ नुम्प्रसङ्गाच्च। न च तत्रस्मायादेशे सति नुमोऽप्रवृत्तिरिति शङ्क्यं, स्मायादेशं बाधित्वा परत्वान्नुमः प्रवृत्तेः। प्राचामिति। "आचार्याणा"मिति शेषः।