पूर्वम्: ७।३।१
अनन्तरम्: ७।३।३
 
सूत्रम्
केकयमित्त्रयुप्रलयानां यादेरियः॥ ७।३।२
काशिका-वृत्तिः
केकयमित्रयुप्रलयानां याऽदेरियः ७।३।२

केकय मित्रयु प्रलय इत्येतेषां यकारादेः इय इत्ययम् आदेशो भवति तद्धिते ञिति, णिति, किति च परतः। केकयस्य अपत्यम् कैकेयः। जनपदशब्दात् क्षत्रियादञ् ४।१।१६६ इति अञ् प्रत्ययः। मित्रयुभावेन श्लाघते मैत्रेयिकया श्लाघते। गोत्रचरणाच् छ्लाघाऽत्याकारतदवेतेषु ५।१।१३३ इति वुञ्। लौकिकं हि तत्र गोत्रं गृह्यते। लोके च ऋषिशब्दो गोत्रम् इत्यभिधीयते। प्रलय प्रलयातागतम् प्रालेयम् उदकम्।
न्यासः
केकयमित्रयुप्रलयानां यादेरियः। , ७।३।२

केकयमित्रयुप्रलयानामिति याद्यपेक्षयाऽवयवषष्ठी। यादेरित्येषापीत्यादेशापेक्षया स्थानषष्ठी-य आदिर्यस्य स यादिः। अकारसहितो यकार उकारसहितश्च। केकयादीनां योऽवयवो यादिस्तस्येयादेशो भवति। ननु च मित्रयुशब्दः परमप्रकृतिः, न गोत्रम्(); "अपत्यं पोत्रप्रभृति गोत्रम्()" ४।१।१६२ इत्यपत्यविशेषस्य गोत्रसंज्ञाविधानात्(), तत्कथं गोत्रादुच्यमानः प्रत्ययः परमपरकृतेर्भवति? इत्यत आह--"लौकिकं हि" इत्यादि। किं पुनर्लौकिकं गोत्रम्()? इत्यत आह--"लोके च" इत्यादि। इह लौकिकं गोत्रं गृह्रते। लोके च ऋषिशब्दः "गोत्रम्()" इत्यभिधीयते। मित्रयुशब्दश्चायमुषिवचनः, तस्मात्? ततोऽपि गोत्रादुच्यमानः प्रत्ययो भवतीति। "प्रालेयम्()" इति। "अत आगतः" ४।३।७४ इत्यण्()॥
बाल-मनोरमा
केकयमित्रयुप्रलयानां यादेरियः ११२८, ७।३।२

केकयमित्रयु। "तद्धितेष्वचामादे"रित्यतस्तद्दितग्रहणमनुवर्तते। "अचो ञ्णिति" "किति चे"त्यतो ञ्णितीति, कितीति च। तदाह--एषामिति। आदेशे यकारादकार उच्चारणार्थः। केकयस्यापत्यं स्त्री कैकेयी। "जनपदशब्दात्" इत्यञ्। मैत्रेयिकया श्लाघते। मित्रयोर्भाव इत्यर्थे "गोत्रचरणा"दिति वुञ्। प्रलयादागतं प्रालेयम्।?ण्। अत्र सर्वत्र यादेरियादेश इत्युदाहरणानि। प्राप्ते इति। मित्रयोरपत्ये ढञि एयादेशे मित्रयु-एय इति स्थिते ओर्गुणं बाधित्वा यु इत्यस्य इयादेशे सति आद्गुणे मैत्रेयेय इति प्राप्ते सतीत्यर्थः।

तत्त्व-बोधिनी
केकयमित्रयुप्रलयानां यादेरियः ९३९, ७।३।२

केकय। केकयस्यापत्यं स्त्री "कैकेयी"। "जनपदशब्दात्क्षत्रियादञ्"। "मैत्रेयिकया शर्()लाध्यते"। मित्रयूनां भावेनेत्यर्थः। "गोत्रचरणाच्छ्लाघात्याकारे"ति वुञ्। तत्र हि लौकिकं गोत्रं गृह्रते, लोके च "ऋषिशब्दो गोत्रमिति प्रसिद्ध"मिति काशिका। एतच्च यदा मित्रयुशब्दोऽभेदोपचारात्तदपत्यसंताने वर्तते तदा बोध्यम्, अन्यथा "मित्र यूनामि"ति बहुवचनान्तेन विग्रहो न स्यात्। प्रलयादागतं "प्रालेयम्"। इयादेशो वृदिं()ध न बाधते, "अचामादेरचो वृद्धिः," "यादिरियादेशः" इति भिन्नविषयत्वात्, अङ्गं तूभयोर्विशेषणं न तु कार्यीति हरदत्तः। आदिवृद्धेरपीदमेव सूत्रं विधायकमस्तु, किमनेन विषयभेदविचारेणेत्यन्ये।