पूर्वम्: ७।३।३०
अनन्तरम्: ७।३।३२
 
सूत्रम्
यथातथयथापुरयोः पर्यायेण॥ ७।३।३१
काशिका-वृत्तिः
यथातथयथापुरयोः पर्यायेण ७।३।३१

यथातथ यथापुर इत्येतयोः नञः उत्तरयोः पर्यायेण अचमादेरचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। आयथातथ्यम्, अयाथातथ्यम्। आयथापुर्यम् अयाथापुर्यम्। अयथातथ अय्थापुर इति ब्राह्मणादिषु नञ्समासौ एतौ द्रष्टव्यौ। सूत्रे यथातथायथापुरशब्दौ तु यथा ऽसादृश्ये २।१।७ इति अव्ययीभावसमासौ। तथा नपुंसकाश्रयं ह्रस्वत्वं कृतम्। भास्ये तु यथादर्शित अयथातथाभावः इति तथा सुप्सुपेति समासो लक्ष्यते।
न्यासः
यथातथयथापुरयोः पर्यायेण। , ७।३।३१

"ब्राआहृणादिषु नञ्समासावेतौ द्रष्टव्यौ" इति। तेन नञ्समासाभ्यां ष्यञ्? भवतीति भावः। "एतौ" इति। यथातथा--यथापुरशब्दौ। ""यथाऽसावृश्यते" इत्यव्ययीभावसमासौ" इति। ननु च "असादृश्य" (२।१।७) इति प्रतिषेधः प्राप्नोति? नैष दोषः; न ह्रत्र सादृश्यं गम्यते। तथा हि--यथातथमिति सत्यमुच्यते, यथा--पुरमिति पुरातनम्()। कथं पुनज्र्ञायतेऽवययीभावसमासौ? इत्याह--"तथा हि" इत्यादि। अत्र हि "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इति नपुंसकाश्रय ह्यस्वत्वं कृतम्()। नपुंसकत्वं चाव्ययीभावस्य विहितम्(), तस्मादव्ययीभावसमासाविति ज्ञायते। "भाष्ये तु" इत्यादि। अयथातथाभाव इति ह्यस्वत्वमकृत्वा वाक्यं यथा दर्शितां तथा "सुप्सुपा" २।१।४ इति समासो लक्ष्यते नाव्ययीभावः। अव्ययीभावे हि नपुंसकाश्रयं ह्यस्वत्वं स्यात्()। अ()स्मस्तु पक्षे सौत्रत्वान्निर्देशस्य--"छन्दोवत्सूत्राणि भवन्ति" (म।भा।) इति वर्णव्यत्ययेन दीर्घस्य स्थाने ह्यस्वो वेदितव्यः॥
बाल-मनोरमा
यथातथायथापुरयोः पर्यायेण १७६६, ७।३।३१

तयोः ष्यञि आदिवृद्धौ विशेषमाह--यथातथायथापुरयोः। आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य चेत्यधिकारे इदं सूत्रम्। "नञः शुची"त्यतो नञ इत्यनुवर्तते। तदाह--नञः परयोरेतयोरिति। यथातथा यथापुर इत्यनयोरित्यर्थः। पर्यायेणेति। कदाचित्पूर्वपदस्य, कदाचिदुत्तरपदस्येत्यर्थः। आयथातथ्यमिति। यथातथेति निपातनात्ष्यञि पूर्वपदस्यादिवृद्धिः। अयाथातथ्यमिति। उत्तरपदस्यादिवृद्धिः। आयथापुर्यमिति। यथापुरशब्दात्ष्यञि पूर्वपदस्यादिवृद्धिः। अयाथापुर्यमिति। उत्तरपदस्यादिवृद्धिः। आ पदासमाप्तेरिति। अत्र व्याख्यानमेव शरणम्।

चतुर्वर्णादीनामिति। चतुर्वर्णादीभ्यः स्वार्थे ष्यञ उपसङ्ख्यानमित्यर्थः। सर्ववेदा इति। "पूर्वकाल" इति समासः। लुगिति। "अध्येतृप्रत्ययस्ये"ति शेषः। स एव सार्ववैद्य इति। सर्ववेदशब्दात्स्वार्थे ष्यञिति भावः।

चतुर्वेदस्येति। वार्तिकमिदम्। "ष्य"ञिति शेषः। चतुर्वेद इति। "तद्धितार्थ" इति द्विगुः। ततोऽध्येतृप्रत्ययस्याऽणो "द्विगोर्लुगनपत्ये"[ इति लुक्। चतुर्विद्यस्येतीति। "चतुर्वेदस्योभयपदवृद्धिश्चे"ति वार्तिके चतुर्वेदस्येत्यस्य स्थाने चतुर्विद्यस्येति केचित्पठिन्तीत्यर्थः। चतरुआओ विद्या अधीते इत्यर्थे "तद्धितार्थ" इति द्विगौ "विद्यालक्षणकल्पान्ताच्चे"ति ठकि "द्विगोर्लुगनपत्ये" इति तस्य लुकि चतुर्विद्यशब्दात्स्वार्थे ष्यञि उभयपदवृद्धौ "चातुर्वैद्य" इति रूपमिति भावः।