पूर्वम्: ७।३।३८
अनन्तरम्: ७।३।४०
 
सूत्रम्
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने॥ ७।३।३९
काशिका-वृत्तिः
लीलोर् नुग्लुकावन्यतरस्यां स्नेहविपातने ७।३।३९

ली ला इत्येतयोरङ्गयोः अन्यतरस्यां नुक् लुकियेतावागमौ भवतो णौ परतः स्नेहविपातने ऽर्थे। घृतं विलीनयति, घृतं विलाययति। विलालयति, विलापयति। ली ई इति ईकारः प्रश्लिष्यते, ततः ईकारान्तस्य एव नुक् भवति, न तु कृतात्वस्य विभाषा लीयतेः ६।१।५० इति। स्नेहविपातने इति किम्? जतु विलापयति। जटाभिरालापयते। ली इति लीलीङोर्ग्रहणम्। ला इति लातेः, कृतात्वस्य च लीयतेः।
न्यासः
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने। , ७।३।३९

"स्नेहविपातनेऽर्थे" इति। किमिदं स्नेहविपातनं नाम? विगच्छतः स्नेहसय पातनं व्यापारणम्()। तथा हि--पातेव्र्यन्तस्य भावे ल्युटि कृते वपीतनमिति। "विलीनयति" इति। गुणायादेशौ। अथ "विभाषा लीयतेः" (६।१।५१) इत्यत्त्वे कृत एकदेशविकृतस्यानन्यत्वाद्विलापयतीत्यत्र कस्मान्नुग्भवति? इत्याह--"ली" इत्यादि। ली+ई इति ईकारोऽत्र प्रश्लिष्यते--ईकारान्तस्यैव यथा स्यात्? कृतात्त्वस्य न भवति। "ली इति लीलीङोग्र्रहणम्()" इति। ननु च निरनुबन्धकपरिभाषया "ली श्लेषणे" (धा।पा।१५०१) इत्येतस्यैव क्रैयादिकस्य ग्रहणं युक्तम्(), न तु "लीङ्? श्लेषणे" (धा।पा।११३९) इत्येतस्य दैवादिकस्य? एवं मन्यते--एक एवायं धातुर्विकरणद्वयर्थमात्मनेपदार्थञ्च द्विरुपदिश्यते। एवञ्च कृत्वा "लियः सम्माननशलिनोकरणयोश्च" १।३।७० इत्युभाभ्यामात्मनेपदं भवतीति। "ला इति लातेः, कृतात्वस्य च लोयतेः" इति। ग्रहणमिति प्रकृतेन सम्बन्धः॥
बाल-मनोरमा
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ४१९, ७।३।३९

लीलोः। ली ला इत्यनयोः षष्ठीद्विवचनम्। णाविति। अर्तिह्यी"त्यतस्तदनुवृत्तेरिति भावः। स्नेहस्य = तैलस्य, निपातनं = द्रावणं, स्नेहनिपातनम्। तदाह -- स्नेहद्रवे इति। आत्त्वाऽभावपक्षे आह -- विलीनयतीति। लीलीङोरीकारान्तयोर्नुकि रूपम्। द्रवीकरोतीत्यर्थः। लीलीङोरात्त्वनुगभावपक्षे आह -- विलाययतीति। लुगागमाऽभावे रूपम्। नु कृतात्त्वस्य लीधातोरपि एकदेशविकृतन्यायेन लीत्वान्नुक्स्यादित्यत आह-- ली ई इति। लोहं विलापयतीति। नुग्लुकोरभावादात्त्वपक्षे पुक्। आत्वाऽभावे तु वृद्ध्यायादेशाविति नित्यमात्त्वं वक्तव्यमित्यर्थः

तत्त्व-बोधिनी
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ३६७, ७।३।३९

लीलोः। "लीङ् श्लेषणे" दिवादिः। "ली श्लेषणे" क्र्यादिओः। लाग्रहणेन "ला आदाने" अदादिःष कृतात्वौ लीलीङौ च त्रयोऽपि गृह्रन्ते। "लीयते"रिति औचित्यादिहापि यका निर्देश इत्युभयोरपि ग्रहणम्। न च "निरनुबन्धकग्रहणे न सानुबन्धकस्य ग्रहण"मिति परिभाषया सूत्रेऽपि लीङो न ग्रहणमिति वाच्यम्, इयं हि परिभाषा "वामदेवाड्()ङ्यड्()ड()औ" इत्यत्र डित्त्वेन ज्ञापिता। ज्ञापनं च उत्सर्गतः सजातीयापेक्षमिति प्रत्ययग्रहणविषयत्वमस्याः कल्प्यते। यथा "सदव्ययतव्यसमानाधिकरणेने"त्यत्र तव्यस्यैव ग्रहणं न तु तव्यतः, अत एव "जृ()ब्राश्च्योः क्त्वी"ति सूत्रे जृणातजीर्यत्योरुभयोग्र्रहणमिति न्यासकृतोक्तम्। अतोऽत्र लीलीङोग्र्रहणमिति सम्यगेव। न चैवं "दिव औ"दित्यत्र निरनुबन्धपरिभाषया दिविति प्रातिपदिकस्यैव ग्रहणं न तु धातोरिति ग्रन्थः कथं सङ्गच्छत इति वाच्यम्, उत्सर्गतः प्रत्ययग्रहणविषयत्वेन क्वचिदन्यत्रापि प्रवृत्तौ बाधकाऽभावादिति वदन्ति। विलीनयतीति। लीलीङोरिकारान्तयोर्नुकि रूपम्। विलाययतीति। नुगभावपक्षे तयोरेव रूपम्। विलालयतीति। लातेः कृतानुग्लुकोरभावादात्()वपक्षे पुक्। आत्वाऽभावे तु वृद्ध्यादेशौ। प्रलम्भनेति। प्रलम्भनं वञ्चनम्। अशिति किम?। लीयते। लिनाति।