पूर्वम्: ७।३।५०
अनन्तरम्: ७।३।५२
 
सूत्रम्
इसुसुक्तान्तात् कः॥ ७।३।५१
काशिका-वृत्तिः
इसुसुक्तान्तात् कः ७।३।५१

इसुसित्येवम् अन्तानाम् उगन्तानां तान्तानां चाङ्गानाम् उत्तरस्य ठस्य कः इत्ययम् आदेशो भवति। इस् सार्पिष्कः। उस् धानुष्कः। याजुष्कः। उक् नैषादकर्षुकः। शाबरजम्बुकः। मातृकम्। पैतृकम्। तान्तात् औदश्वित्कः। शाकृत्कः। याकृत्कः। इसुसोः प्रतिपदोक्तयोर् ग्रहणादिह न भवति, आशिषा चरति आशिषिकः। उषा चरति औषिकः। दोष उपसङ्ख्यानम्। दोर्भ्यां तरति दौष्कः।
लघु-सिद्धान्त-कौमुदी
इसुसुक्तान्तात्कः १०५५, ७।३।५१

इस् उस् उक्तान्तात्परस्य ठस्य कः। साक्तुकम्। हास्तिकम्। धैनुकम्॥
न्यासः
इसुसुक्तान्तात्? कः। , ७।३।५१

पूर्वेणेकादेशे प्राप्त इसाद्यन्तात्? कादेश उच्यते। "सर्पिष्कः" इति। "तदस्य पच्यम्()" ४।४।५१ इति प्राग्वहतीयष्ठक्(), रुत्वविसर्जनीयौ, विसर्जनीयस्य "इसुसोः सामर्थ्ये" ८।३।४४ इति षत्वम्()। "धानुष्कः" इति। "तदस्य ग्रहणम्()" ४।४।५७ इति ठक्()। "याजुष्कः" इति। "तेन दीव्यति" ४।४।२ इति ठक्()। "नैषादकर्षुकः, शाबरजम्बूकः" इति। निषादकर्ष्वां जातः, शाबरजम्बां जात इति "ओर्देशे ठञ्()" ४।२।११८, "केऽणः" ७।४।१३ इति ह्यस्वः। "मातृकम्()" पैतृकम्()" इति। मातुरागतम्(), पितुरागतमिति--"ऋतष्ठञ्()" ४।३।७८। "औद()इआत्कः" इति। "उद()इआवतोऽन्यतरस्याम्()" ४।२।१८ इति ठक्()। शाकृत्कः, याकृत्कः" इति। शकृता यकृता संसृष्टे ४।४।२२ इति ठक्()। अथेह कस्मान्न भवति--आशिषा चरतीत्याशिषिकः, उषा चरतीत्यौषिकः? इत्याह--"इसुसोः" इत्यादि। "अर्चिसुचिहुसृपिछादिछर्दिभ्य इसिः" (द।उ।९।३०), "जनेरुसिः" (द।उ।९।३७), "अर्त्तिपृ()वपियजितनिधनितपिभ्यो नित्()" (द।उ।९।३९) इत्यादिना प्रकरणेन यौ विहितौ तयोर्लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) प्रतिपदोक्तयोरिसुसोग्र्रहणम्()। तेनाशिषिकः, औषिक इत्यत्रापि न भवति; लाक्षणिकत्वादिसुसोः। तथा ह्राङपूर्वात्? "शासु इच्छायाम्()" (धा।पा।१०२२) इत्यस्मात्(), "वस निवासे" (धा।पा।१००५) इत्येतस्माच्च केवलात्? क्विपि कृते "शास इदङ्हलोः" ६।१।१५ सम्प्रसारणे परपूर्वत्वे च कृत इसुसति रूपं प्रतिपद्यते। "आशिषिकः, औषिकः" इति। "शासिवसिधसीनां च। ८।३।६० इति षत्वम्()। तस्य त्वसिद्धत्वात्? कादेश प्राप्तिराशङ्किता। "दोष उपसंख्यानम्()" इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्()--"नञ्पूर्वाणामपि" ७।३।४७ इत्यतोऽपगरहणमनुवत्र्तते; स चानुक्तसमुच्चयार्थः, तेन दोषोऽपि भविष्यति॥
बाल-मनोरमा
इसुसुक्तान्तात्कः १२०२, ७।३।५१

इसुसुक्तान्तात्कः। इसुसुक्ता अन्ता यस्येति विग्रहः। तकारादकार उच्चारणार्थः। ठस्य कः स्यादिति। ठकि ककार इत्। अकार उच्चारणार्थः, ठकारस्य शिष्यस्य ककार आदेश इति "ठस्येकः" इत्यत्रोक्तम्। "()आयती"त्यस्य विवरणम्--वर्धते इति। "टु ओ ()इआ गतिवृद्ध्योः" इति धातुरिह वृद्धयर्थक इति भावः। उद()इआदिति। क्विपि तुक्। "उदकस्योदः संज्ञाया"मित्युदादेशः। "तक्रं ह्रदु()इआन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्, इत्यमरः। प्रतिपदोक्तयोरिति। इत्त्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः। यथा सार्पिष्कः, धानुष्क इति। आशिषिक इति। "चरती"ति ठक्। शासुधातो क्विपि "आशासः क्वौ" इत्युपधाया इत्त्वम्। उषा चरति औषिक इति। वसधातोः क्विपि सम्प्रसारणे उषेति तृतीयान्त्य---सोमे मत्तेर् मिस्सिन्ग्।

---सोमे मत्तेर् मिस्सिन्ग् >

तत्त्व-बोधिनी
इसुसुक्तान्तात्कः ९९४, ७।३।५१

इसुसुक्तान्तात्। "ता"दित्युक्तेऽप्यङ्गविशेषणेनैव तान्तादिति लब्धेऽन्तग्रहणं प्रत्ययोपदेशकाले यस्तान्तस्तस्मात्परस्य ठस्य कादेशो न भवतीति "ठस्येकः"इति सूत्रे कैयटः। संनिपातपरिभाषयैव इकस्य कादेशो न स्यादित्यन्तग्रहणं त्युक्तं शक्यमित्यन्ये। उद()इआदिति। ()आयतेः क्विपि तुक्। "उदकस्योदः"इत्युदादेशः। इहैव निपातनात्संप्रसारणाऽभावः।