पूर्वम्: ७।३।६५
अनन्तरम्: ७।३।६७
 
सूत्रम्
यजयाचरुचप्रवचर्चश्च॥ ७।३।६६
काशिका-वृत्तिः
यजयाचरुचप्रवचर्चश् च ७।३।६६

यज याच रुच प्रवच ऋच इत्येतेषां ण्ये परतः कवर्गादेशो न भवति। यज याज्यम्। याच याच्यम्। रुच रोच्यम्। प्रवच प्रवाच्यम्। ऋच अर्च्यम्। ऋदुपधादपि ऋचेरत एव निपातनात् ण्यत् भवति। प्रवचग्रहणं शब्दसंज्ञार्थम्। प्रवाच्यो नाम पाठविशेषोपलक्षितो ग्रन्थो ऽस्ति। अपरे पुनराहुः, उपसर्गपूर्वस्य नियमार्थम्, प्रपूर्वस्य एव वचेरशब्दसंज्ञायां कुत्वप्रतिषेधो यथा स्यात्, अन्योपसर्गपूर्वस्य मा भूतिति। अविवाक्यमहः इति पठन्ति। एतत् तु विशेष एव इष्यते, दशरात्रस्य यद् दशममहः। अन्यत्र अविवाच्यम् एव भवति। ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम्। त्याज्यम्।
न्यासः
यजयाचरुचप्रवचर्चश्च। , ७।३।६६

"ण्ये" इत्येव। अनावश्यकार्थमिदम्()। "याज्यम्()" इत्यादि। "यज देवपूजादौ" (धा।पा।१००२), "टुयाच्? याच्ञायाम्()" (धा।पा।८६३), "रुच दीप्तौ" (धा।पा।७४५), "वच परिभाषणे" (धा।पा।१८४२) प्रपूर्वः, "ऋच स्तुतौ" (धा।पा।१३०२)। कथं पुनॠचेण्र्यत्(), यावता "ऋदुपधाच्चाक्लृ()पि चृतेः" (३।१।११०) इति ण्यदपदादेव क्यपा भवितव्यम्()? इत्याह--ऋदुपधात्()" इत्यादि। अथ प्रवचिग्रहणं किमर्थम्(), यावता "वचोऽशब्दसंज्ञायाम्()" (७।३।६७) इत्यनेनैव प्रतिषेधो भविष्यति? इत्याह--"प्रवचिग्रहणं शब्दसंज्ञार्थम्()" इति। स्यादेतत्()। नास्त्येव कश्चिच्छब्दो यस्य वाच्यमिति नामधेयम्()? इत्याह--"प्रवाच्यो नाम" इत्यादि। "अपरे पुनः" इत्यादिना मतान्तरं दर्शयति। "एतत्तु" इति। अविवाक्यमेतद्रूपम्()। कः पुनरसौ विशेषः? इत्याह--"दशरात्रस्य" इत्यादि। यस्मिन्? याज्ञिका न विब्राउवते, तस्य दशरात्रस्य यद्दशमाहस्तत्रैवैतच्छशब्दरूपमिष्यते, नान्यत्र। यद्येवम्(), अनर्थकं नियमार्थं प्रवचिग्रहणम्(), अवश्यं तस्य विशिष्टविषये वुत्तिर्यथा स्यादित्यवमर्थो यत्नः कत्र्तव्यः, तत एव यत्नात्? तत्र कुत्वमपि भविष्यति? नैतदस्ति; नियमाद्ध्यन्योपसर्गस्य कुत्वप्रतिषेधो निवत्र्तते। अभिधेयव्यवस्था तु प्रसिद्धिवशादेव विज्ञास्यते। "ण्यति प्रतिषेधे" इत्यादि। ण्यति प्रतिषेधेऽस्मिन्? क्रियमाणे "त्यज हानौ" (धा।पा।९८६) इत्यस्योपसंख्यानं कत्र्तव्यम्()। उपसंख्यानशब्दसय प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्()---चकारोऽनुक्तसमुच्चयार्थः, तेन त्यजेरपि प्रतिषेधो भविष्यतीति॥
बाल-मनोरमा
यजयाचरुचप्रवचर्चश्च ६९९, ७।३।६६

यजयाच। ण्ये कुत्वं नेति। शेषपूरणमिदम्। यज, या, रुच, प्रवच, ऋच् एषां द्वन्द्वात् षष्ठी। एषां ण्ये परे "चजोः कु घिण्ण्यतो"रिति कुत्वं नेत्यर्थः। ननु अच्र्यमित्यत् र कथं ण्यत्, "ऋदुपधाच्चाऽक्लृपिचृते"रिति ऋदुपधत्वलक्षस्य ण्यदपवादत्वादित्यत आह-- ऋदुपधत्वेऽपीति। त्यजिपूज्योश्चेति। "ण्ये कुत्वं ने"ति शेषः।

तत्त्व-बोधिनी
यजयाजरुचप्रवचर्चश्च ५८१, ७।३।६६

यज। यज देवपूजादौ। टुयाचृ याच्ञायाम्। रुच दीप्तौ। प्रपूर्वो वच परिभाषणे। ऋच स्तुतौ। ग्रन्थविशेष इति। तथा च संज्ञेयमिति "वचोऽशब्दसंज्ञाया"मित्यस्याऽप्रसङ्गान्निषेधोऽयमिति भावः। ज्ञापकादिति। सरूपत्वाद्वासरपविधिना ण्यद्भवेदिति न शङ्कनीयमिति भावः।