पूर्वम्: ७।४।१
अनन्तरम्: ७।४।३
 
सूत्रम्
नाग्लोपिशास्वृदिताम्॥ ७।४।२
काशिका-वृत्तिः
न अग्लोपिशास्वृदिताम् ७।४।२

अग्लोपिनाम् अङ्गानां शासेः ऋदितां च णौ चङि उपधाया ह्रस्वो न भवति। अग्लोपिनां तावत् मालामाख्यतममालत्। मातरमाख्यतममातरत्। राजानम् अतिक्रान्तवानत्यरराजत्। लोमान्यनुमृष्टवानन्वलुलोमत्। अगेव यत्र केवलो लुप्यते तत्र स्थानिवद्भावादपि सिद्धम्, हलचोरादेशे तु न सिध्यति इति तदर्थम् एतद् वचनम्। शासेः अशशासत्। ऋदिताम् बाधृ अबवाधत्। याचृ अययाचत्। ढौकृ अडुढौकत्।
न्यासः
नाग्लोपिशास्वृदिताम्?। , ७।४।२

अगिति प्रत्याहारग्रहणम्()। अको लोपोऽग्लोपः, स एषामस्तीति तान्यग्लोपीन्यङ्गानि। "शासु अनुशिष्टौ" (धा।पा।१०७५) ऋदिद्येषां तानि ऋदिन्ति "बाधृ विलोडने" (धा।पा।५) इत्येवमादीनि। "अममालत्(), अममातरत्()" इति। "तत्करोति तदाचष्टे" (ग।सू।१८७) इति णिच्(), "णाविष्ठवत्कार्यं प्रातिपदिकस्य" (वा।८१३) इतीष्ठवद्भावः, "तुरिष्ठेमेयःसु" ६।४।१५४ इति टिलोपः, ततो लुङादिः। "अतयरराजत्()" इत्यादौ, "प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च" (ग।सू।१८६) इति णिच्()। "अन्वलुलोमत्()" इति। "सत्यापपाशरूप" ३।१।२५ इत्यादिना णिच्()। "अगेव केवलो यत्र" इत्यादि। इह द्विविधमगलोपयङ्गम्()--क्वचिदगेव केवलो लुप्यते, अममालदित्यादौक्वचिद्धलचौ, अत्यरराजदित्यादौ। अगेव केवलो यत्र लुप्यते तत्राग्लोपस्य स्थानिवद्भावात्? सिद्धम्()। स्थानिवद्भावे सत्यग्लोपस्य व्यवधानादेव ह्यसवप्राप्तिः, तस्मान्न तदर्थमग्लोपीति वचनम्()। इतरत्र तु हलचोरुभयोरप्यादेश इति सिध्यति, अस्थानिवद्भावात्()। अजादेशसय हि परनिमित्तकस्य स्थानिवद्भाव उक्तः, न तु हलचोरादेशस्य। तस्माद्यत्र हलचोरादेशास्तदर्थमिदं वचनम्()। अन्यार्थमेतत्? क्रियमाणं यत्रागेव केवलो लुप्यते तदर्थमपि भविष्यतीति तदर्थमस्योदाहरणमुपन्यस्तम्()। "अडुढौकत्()" इत। "ककि वकि ()आकि त्रकि ढौकृ त्रौकृ ष्वष्क वस्क मस्क टिकृ टीकृ तिकृ रघि लघि गत्यर्थाः" (धा।पा।९४,९५,९६,९७,९८,९९,१००,१०१,१०२,१०३,१०४,१०५,१०६,१०७,१०८)। "अभ्यासे चचं" ८।४।५३ इति जश्त्वम्()--डकारः॥
बाल-मनोरमा
नाग्लोपिशास्वृदिताम् ४००, ७।४।२

नाग्लोपि। "णौ चङ्युपदायाः" इत्यनुवर्तते। णावित्यावर्तते। एकमग्लोपिन इत्यत्रान्वेति, द्वितीयं तु निषेधे परनिमित्तं। तदाह -- णिच्यग्लोपन इत्यादि। अलुलोकदिति। ऋदित्त्वाऽन्नाग्लोपीति निषेधेन उपधाह्यस्वाऽभावे सति लघुपरकत्वाऽभावान्नाऽभ्यासदीर्घ इति भावः। उदितत्वादिति। "वृतु वृधु" इत्युदितत्वम् "उदितो वे"त्यण्यन्तात् क्त्वायामिड्विकल्पार्थम्। ण्यन्तात्तु णिचा व्यवधानान्नेड्विकल्पप्रसक्तिः, अतो णिज्विकल्पो विज्ञायते इति भावः। पूरी आप्यायने। इण्निषेधायेति। अण्यन्तात्क्त्वायामिण्निषेधार्थमीदित्त्वम्। ण्यन्तात्तु णिचा व्यवधानादप्रसक्तेः। अतो णिज्विकल्पो विज्ञायते इत्यर्थः। स्वदधातुः षोपदेशः। तदाह - असिष्वददिति। आदेशसकारत्वात्षः। अभ्यासेऽकारस्य संयोगपरकत्वेन गुरुत्वान्नाऽभ्यासदीर्घः।दीर्घस्य त्विति।दीर्घमध्यस्य त्वित्यर्थः। अषोपदेशत्वादिति। ह्यस्वमध्यस्यैव स्वदेः षोपदेशेषु पररिगणनादिति भावः। इत्यास्वदीयाः। आ धृषाद्वेति। गणसूत्रम्। विभाषितणिच इति। विकल्पितणिच्काः प्रत्येतव्या इत्यर्थः। आङभिव्याप्ताविति मत्वा आह - धृषधातुमभिव्याप्येति। णिजभावपक्षे आह -- अयौक्षीदिति। अर्च पूजायामिति। अयमनुदात्तेदिति शाकटायनः। अर्चयते। अर्चते। अस्य भ्वादौ पाठोऽनार्षः, अनेनैव सिद्धेः। न च परस्मैपदार्थं भ्वादावर्चेः पाठ इति वाच्यम्, भ्वादौ तस्याप्यात्मनेपदीयतायाः शाकटायनसंमतत्वेन माधवोक्तेः। एवमत्रत्यानामाधृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिकएवेत्याहुः। ली द्रवीकरणे। लाययतीति। लीलोरिति नुक्तु न, लासाहचर्याद्धेतुमण्णावेवाऽस्य प्रवृत्तेः। लेतेति। "विभाषा लीयते"रित्यात्त्वं तु न, तत्र श्नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात्। वृञ् आवरणे। वरिता - वरीतेति। "वृ()तो वे"ति दीर्घः। आशीर्लिङि - व्रियात्। आत्मनेपदे तु "लिङिसचो"रितिवेट्। वृषीष्ट-- वरिषीष्ट। इडभावपक्षे "उश्चे"ति कित्त्वान्न गुणः। "न लिङी"ति इटो न दीर्घः। अवृत। ज्रि चेति। ह्यस्वान्तोऽयम्। रिच वियोजनेइति। अनिडयम्। ततश्च णिजभावपक्षे नेट्। तदाह -- रेक्तेति। शिष असर्वेति। अयमप्यनिट्। तदाह --शेष्टेति। अशिक्षदिति। "शल इगुपधा"दिति क्सः। अयं विपूर्वोऽतिशये इति। "वर्तते" इति शेषः। अयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते। तृप तृप्ताविति। अनिट्सु श्यना निर्देशादयं सेट्। तदाह -- तर्पितेति। छृदी संदीपने इति। ईदित्त्वं निष्ठायामिण्निषेधार्थम्। धुवति स्फुटितेति। शविकरणस्य रूपम्। शस्य ङित्त्वाद्गुणाऽभावे उवङ्। प्रीञ् तर्पणे। प्रीणयतीति। "धूञ्प्रीञो"रिति वार्तिकान्नुगिति भावः। हरदत्तेति। अनेन भाष्याऽसंमतत्वं सूचितम्। उपसर्गाच्चेति। दैघ्र्ये तूपसर्गादनुपसर्गाच्च परस्तनुधातुराधृषीयो वेदितव्य इत्यर्थः। श्रद्धोपकरमयोस्त्वनुपसर्गादेवेति भावः। वच परिभाषणे। अवाक्षीदिति। "अस्यातिवक्ती"ति लुका निर्देशादङ्नेति भावः। "वचिस्वपी"ति संप्रसारणम्- उच्यात्। इत्याधृषीयाः। अथाऽदन्ता इति। "वक्ष्यन्ते" इति शेषः। अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः। तत्र कथदातोर्णिचि अतोलोपे "कथि" इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति। तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह - अल्लोपस्य स्थानिवद्भावादिति। "अचः परस्मि"न्नित्यनेनेति भावः। अत्रेदमवधेयं-- स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः। अन्यथा "नायक" इत्यत्र ईकार स्थानिकस्य ऐकारस्य आयादेशानापत्तेः। ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात्। "अचः परस्मि"न्नित्यत्र तु स्थानिनि सति यच्छास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाऽशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम्। अतोऽत्र थकारादकारे सति प्रसक्तस्य उपधावृद्ध्यभावस्याऽशास्त्रीयत्वेऽप्यतिदेश इति इति सिद्धम्। लुङि चङि "अचकथ" दित्यत्र सन्वत्त्वमाशङ्क्याह-- अग्लोपित्वादिति। सन्वत्वविषये जायमानोऽभ्यासदीर्घः सन्वत्त्वं नापेक्षत इति पृथगुक्तिः। एवं वरादौ सर्वत्र ज्ञेयम्। गण सङ्ख्याने। चङि अल्लोपस्य स्थानिवत्त्वाद्दीर्घसन्वद्भावयोरभावे "अजगण"दित्येव प्राप्ते आह --

तत्त्व-बोधिनी
नाग्लोपिशास्वृदिताम् ३४९, ७।४।२

स्वाद इत्येके इति। अस्मिन्मते पूर्वत्राप्यास्वादः सकर्मकादिति पाठ()म्। ननु दीर्घपाठो व्यर्थः, ह्यस्वपाठेऽप्युपधावृद्ध्या स्वादयतीति रूपाणां तुल्यत्वादत आह--- दीर्घस्य त्विति। "सः स्विदिस्वदिसहीनां चे"ति सूत्रेण अभ्यासेणः परस्य सस्य सकारो न तु षत्वमिति वक्ष्यमाणत्वात्सन्नन्तेऽपि सिस्वादयिषतीत्यादि रूपं तुल्यमेवेत्यभिप्रेत्याह--- असिस्वददिति। इत्यास्वदीयाः। आधृषाद्वा। व्याख्यानात्, योग्यताबलाद्वा णिजिति संबध्यते। अयौक्षीदिति। णिजभावपक्षे अनिट्कोऽयमिति भावः। ली द्रवीकरणे। "लिनातिलीयत्योर्यका निर्देश" इति भाष्यकारोक्त्या "विभाषा लीयते"रित्यात्वमिह न प्रवर्तत इति ध्वनयति--लेतेति। वरीतेति। "वृ()तो वे"ति वा दीर्घः। लिङि-- वूर्यात्। आत्मनेपदे तु वृषीष्ट। वरिषीष्ट। "लिङ्सिचोरात्मनेपदेषु" इति वेट्। "न लिङी"ति इटो दीर्घनिषेधः। इडभावपक्षे "उश्चे"ति कित्त्वान्न गुणः। लुङि अवारीत्। अवारिष्टाम्। अवारिषुः। "सिचि च परस्मैपदेषु" इति दीर्घनिषेधः। आत्मनेपदे तु अवरिष्ठ। अवरीष्ट। इडभावे सिचो लोपः। अवृत। रिच।णिजभावे अयमनिडित्याह--रेक्तेति। अशिक्षदिति। "शल इगुपधा"दिति क्सः। तृप। अनिट्सु श्यना निर्देशादयं सेडिति ध्वनयति-- तर्पितेति। छृदी। ईदित्वान्निष्ठायां नेट्। ऋवर्णान्नस्य णत्वम्। छृण्णः। छृण्णवान्।

*धूञ्प्रीञोर्नुग्वक्तव्यः। ह्यस्वश्चेति। धुञ् कम्पने इत्यर्थः। अवाक्षीदिति। "अस्यतिवक्ती"ति लुका निर्देशादङ् नेति भावः। "वचिस्वपी"ति संप्रसारणम्। उच्यात्। धृष प्रसहने। केचित्त्वादितमाहुस्तन्मते धृष्टो, मुख्यमते तु धृषितः। नन्वत्र "निष्ठा शीङि"त्यादिना सेण्निष्ठायाः कित्त्वनिषेधाद्गुणेन भाव्यमिति चेत्। अत्राहुः-- आदित्साहचर्यादादित एव। ञिधृषेत्यस्य तत्र ग्रहणात्।न च आदितो निष्टाया इड् दुर्लभ इति शङ्क्यं, "विभाषा भावादिकर्मणो"रिति तत्संभवादिति। इत्याधृषीया युजादयः। अथाऽदन्ता इति। वक्ष्यमाणेषु धातुषु अन्त्यावयवोऽकारो न तूच्चारणार्थ इत्यर्तः। स्थानिवत्त्वान्न वृद्धिरिति। "अचः परस्मिन्" इति सूत्रेणेत्यर्थः। न च स्थानिनि सति यत्कार्यं तदेव स्थानवदित्यनेनातिदिश्यते नत्वादेशप्रयुक्तं वार्यते, अन्यथा नायक पावक इत्यादि न सिध्येदिति वृद्धिरत्र दुर्वारेति वाच्यम्, "अचः परस्मिन्" इत्यत्र स्थानिवदित्यनुवर्त्त्य शब्दाधिकारपक्षाश्रयेण भावाऽभावावुभावप्यतिदिश्यते इति सिद्धान्तात्। स्थानिनि सत्यभवन्त्या वृद्धेरादेशेऽप्यभावात्। "स्थानिनि सति यन्न भवति तदादेशेऽपि न भवती"त्यत्र तु "न पदान्ते"ति सूत्रस्थलोपादिग्रहणमेव लिङ्गिमिति दिक्।