पूर्वम्: ७।४।२४
अनन्तरम्: ७।४।२६
 
सूत्रम्
अकृत्सार्वधातुकयोर्दीर्घः॥ ७।४।२५
काशिका-वृत्तिः
अकृत्सार्वधातुकयोर् दीर्घः ७।४।२५

अकृद्यकारे असार्वधातुकयकारे च क्ङिति परतो ऽजन्तस्य अङ्गस्य दीर्घो भवति। भृशायते। सुखायते। दुःखायते। चीयते। चेचीयते। स्तूयते। तोष्टूयते। चीयात्। स्तूयात्। अकृतिति किम्? प्रकृत्य। प्रहृत्य। परत्वात् दीर्घत्वेन तुको बाधः स्यात्। असार्वधातुके इति किम्? चिनुयात्। सुनुयात्। क्ङिति इत्येव, उरुया। धृष्णुया।
लघु-सिद्धान्त-कौमुदी
अकृत्सार्वधातुकयोर्दीर्घः ४८५, ७।४।२५

अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः। क्षीयात्॥
लघु-सिद्धान्त-कौमुदी
ह एति ५१८, ७।४।२५

तासस्त्योः सस्य हः स्यादेति परे। एधिताहे। एधितास्वहे। एधितास्महे। एधिष्यते। एधिष्येते। एधिष्यन्ते। एधिष्यसे। एधिष्येथे। एधिष्यध्वे। एधिष्ये। एधिष्यावहे। एधिष्यामहे॥
न्यासः
अकृत्सार्वधातुकयोर्दीर्घः। , ७।४।२५

"भृशायते" इति। "भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः" ३।१।१२ इति क्यङ्()। "सुखायते" इति। "सुखादिभ्यः कर्त्तृवेदनायाम्()" ३।१।१८ इति क्ङ्()। "चीयते" इति। कर्मणि लकारः, "सार्वधातुके यक्()" ३।१।६७। "चेचीयते" इति। "गुणो यङ्लुकोः" ७।४।८२ इत्यभ्यासस्य गुणः। "तोष्टूयते" इति। "ष्टुञ्? स्तुतौ" (धा।पा।१०४३), "शर्पूर्वाः खयः" ७।४।६१ इति खयः शेषः। "चीयात्(), स्तूयात्()" इति। आशिषि लिङ्()। "प्रकृत्य" इति। पूर्ववल्ल्यप्()। स च "कृदतिङ्()" ३।१।९३ इति कृत्संज्ञकः। ननु च दीर्घश्रुत्याऽजित्येतस्मिन्नुपस्थिते तेनाङ्गं विशिष्यते तत्र विशेषणेन च तदन्तविधिरित्यजन्तस्याङ्गस्य दीर्घत्वेन भवितव्यमिति, इह "ह्यस्वस्य पिति कृति" ६।१।६९ तुकि कृतेऽजन्तता नास्ति, ततश्चानजन्ततत्वादेव दीर्घत्वेन भवितव्यमिति, इह "ह्यस्वस्य पिति कृति" ६।१।६९ तुकि कृतेऽजन्तता नास्ति, ततश्चानजन्तत्वादेव दीर्घत्वं न भविष्यति, किमेतन्निवृत्त्यर्थेनाकृद्ग्रहणेन? इत्यत आह--"परत्वात्()" इत्यादि। तुकोऽवकाशः--अग्निचिदिति, दीर्घस्यावकाशः--चीयत इति; प्रकृत्य, प्रह्मतय--इत्यत्रोभयप्राप्तौ सति, असत्यकृद्ग्रहणे परत्वाद्दीर्घत्वेन तुग्बाध्येत। तस्मादकृद्ग्रहणं कत्र्तव्यम्()। "चिनुयात्()" इति। विध्यादिलिङ्(), स च "तिङशित्सार्वधातुकम्()" ३।४।११३ इति सार्वधातुकसंज्ञकः। "उरुया, धृष्णुया" इति। उरु धुष्णुशब्दयोस्तृतीयैकवचने "सुपां सुलुक्()" ७।१।३९ इत्यादिना याभावः॥
बाल-मनोरमा
अकृत्सार्वधातुकयोर्दीर्घः १४१, ७।४।२५

आशीर्लिङि विशेषमाह-- अकृत्सार्व। अङ्गस्येत्यधिकृतम्। "अयडि() क्ङिती"त्यतो यीतिसप्तम्यन्तमनुवृत्तमङ्गाक्षिप्तप्रत्ययविशेषणं, तदादिविधिः। दीर्घश्रुत्या "अच" इत्युपस्थितमङ्गविशेषणं। तदन्तविधिः।तदाह--अजन्तस्येत्यादिना। अकृत्सार्वधातुकयोरिति किम्?। प्रकृत्य। तुकं बाधित्वा परत्वाद्दीर्घो न। चिनुयात्। सार्वधातुकत्वान्न दीर्घः। क्षीजेति। ईदुपधः। कूजिनेति। "कूज अव्यक्ते शब्दे" इत्यनुपदमेव पठितं, तत्रैव "कुज क्षीज अव्यक्ते शब्दे" इति पठितुं युक्तमित्यर्थः, अर्थैक्यादिति भावः। लज लजि। भत्र्सन इति क्वचित्पाठः। "भत्र्सनं त्वपवादगी"रित्यमरः। द्वितीय इदित्। आशीर्लिङि--लञ्ज्यात्। लाज लाजि। भर्जन इति क्वचित्पाठः। आदुपधौ। द्वितीय इदित्। जज जजीत्यादि। स्पष्टम्। वज व्रजेति। आद्यस्य असंयुक्तहल्मद्यस्थाऽकारवत्त्वेऽपि "न शसददवादिगुणाना"मित्येत्त्वाभ्यासलोपौ नेत्याह-- ववजतुरिति। अवाजीत्। अवजीत्। द्वितीयस्य तु संयुक्तहल्मध्यस्थाऽकारवत्त्वादेवैत्त्वाऽभ्यासलोपयोर्न प्रसक्तिः। "अव्राजी"दित्यत्र "अतो हलादे"रिति वृद्धिविकल्पमाशङ्क्याह--- वदव्रजेति वृद्धिरिति। हलन्तत्वादेव सिद्धे व्रजग्रहणस्य "अतो हलादे"रिति विकल्पनिरासार्थत्वनादिति भावः। शुचादयो द्विसप्ततिर्वृत्ताः। शाड्रन्ता इति। "शाडृ श्याघाया"मित्यन्ता इत्यर्थः। "शाड()न्ता" इति क्वचित्पाठः। अट्टेति। तवर्गतृतीयोपधोऽयम्। चत्र्वष्टुत्वाभ्यां टोपधनिर्देशः। तदाह--दोपधोऽयमिति। तथा च अट्टधातोः सनि इटि अट्टिस् इति स्थिते ष्टुत्वचत्र्वयोरसिद्धत्वादजादेर्द्वितीयस्येति प्रवर्तमानं द्वित्वं "न न्द्राः संयोगादय" इति दकारं विहाय टिस् इत्यस्य भवति। ततो हलादिशेषे दकारस्य ष्टुत्वचत्र्वयोः "अट्टिटिषते" इतीष्टं सिध्यति। स्वाभावकमूर्धन्योपधत्वे "न न्द्रा" इति निषेधाऽभावाट्टकारद्वयसहितस्यैव द्वित्वे हलादिशेषेण द्वितीयटकारस्य निवृत्तौ अटिट्टिषते इत्यनिष्टं प्रसज्येतेति भावः। तोपध इत्यन्य इति। ष्टुत्वेन टोपधनिर्देश इति भावः। अस्मिन्पक्षे सनि द्वित्वे कर्तव्ये ष्टुत्वस्याऽसिद्धत्वेऽपि "न न्द्रा" इति निषेधाऽभावात्तकारविशिष्टस्य त्()टिस् इत्यस्य द्वित्वे हलादिशेषेण टकारस्य निवृत्त्या अतिट्टिषते इति रूपमिति भाव-। आनट्टे इति। इह "न न्द्रा" इति निषेधो न, तत्र द्वितीयस्यैकाच इत्यनुवृत्तेः। घट्ट चलन इति। अयं चुरादावपि। स्फुट विकसन इति। अयं कुटादावपि। अठि गताव#इति। लिटि नुमि द्वित्वे हलादिशेषे "अत आदे"रिति दीर्घे "तस्मान्नुड् द्विहल" इति नुडिति मत्वाह-- आनण्ठ इति। वठि एकचर्यायामिति। असहायचर्यायमित्यर्थः। मडि चेति। विभाजन इत्यनुषज्यते। "मडि भूषाया"मिति परस्मैपदेषु वक्ष्यते। शाडृ श्लाघायमिति। डलयोरैक्याच्छालत इति काश्यपः। इत्यट्टादयः षट्()तिं()रशद्गताः। अथ टवर्गीयान्ता [गड()न्ता] इति। "गडि वदनैकदेशे"इत्यन्ता इत्यर्थः। म्लेट्ट म्रेड्ट इति। एदुपधौ। द्वितीयो डान्त इति। टवर्गतृतीयान्त इत्यर्थः। ननु टान्तेष्वस्य कथं पाठः चुड्ड भावकरण इत्यारभ्यानुक्रम्यमाणेष्वेवास्य पठित्वं युक्तत्वादित्यत आह-- टान्तमध्ये इति। नाथतिवदि त। "एध वृद्धा" वित्यारभ्यानुक्रान्तेषु तवर्गचतुर्थान्तेषु यथा "नाथृ नाधृ याच्ञे"ति तवर्गद्वितीयान्तस्यापि अर्थसाम्यात्पाठः, तद्वदित्यर्थः। कटे इति। कण्ठ()आदिः। चटे इति। तालव्यादिः। आद्यस्य लिटि अभ्यासस्य चुत्वमित्याह-- चकाटेति। चकटतुः। द्वितीयस्य चेटतुः। वैरूप्यापादकाऽ‌ऽदेशादित्वाऽभावादेत्त्वाभ्यासलोपौ। प्राप्तायामिति। हलन्तलक्षणाया नित्यवृद्धेर्नेटीति निषेधात् "अतो हलादे"रिति वैकल्पिकवृद्धौ प्राप्तायामित्यर्थः।

तत्त्व-बोधिनी
अकृत्सार्वधातुकयोर्दीर्घः ११६, ७।४।२५

दीर्घग्रहणेन "अचश्चे"ति परिभाषोपस्थानादाह-- अजन्तेति। यादौ प्रत्यय इति। "अयङ् यि क्ङिती"त्यतो यीत्यनुवर्त्त्यं अङ्गाक्षिप्तप्रत्ययस्तेन विशेष्यते, विशेषणेन तदादिविधिः। "यस्मिन्विधि"रिति परिभाषोपस्थानादिति भावः। न त्विति। कृद्यकारे-- प्रकृत्य। प्रह्मत्य। उच्चैः कृत्य। तुकं बाधित्वापरत्वाद्दीर्घः स्यात्। तुग्विधिस्तु-- अग्निचित्। सोमसुदित्यादौ चरितार्थः। ल्यपः पित्त्वमप्यनुदात्तार्थकतया चरितार्थमित्याहुः। सार्वधातुकयकारे तु --चिनुयात्। सुनुयात्। कृजिनेति। अर्थैक्यादेकत्र पाठ उचित इति भावः। लज लजि। लज्यात्। लञ्ज्यात्। लज प्रकाशने इति कथादौ। भत्र्सने चेति। चाद्भर्जने। तुजि पालने। भाषार्थोऽयं युजादौ। गज गजि। "गञ्जा तु मदिरागृहम्"। गज मदने च। मदनं-- मदः - चित्तविकारः। वज व्रज। वादित्वादेत्वाभ्यासलोपौ न। ववजतुः। वव्रजतुः। शाड()न्ता इति। "शाडृ श्लाघाया"मित्यन्ता इत्यर्थः। दोपधोऽयमिति। तथा च ष्टुत्वशास्त्रस्याऽसिद्धत्वाटन्न न्द्राःर" इति द्वित्वनिषेधेन दकारं विहाय टिशब्दस्य द्वित्वे पश्चाद्दकारस्य ष्टुत्वे च अट्टिटिषते आट्टिटदित्यादि सिध्यति। टोपधत्वे तु अटिट्टिषते। आटिट्टदिति स्यादिति भावः। तोपध इति। अ()स्मस्तु पक्षे-- अतिट्टिषते आतिट्टदित्यादि बोध्यम्। हलादिः शेषेण टकारनिवृत्तौ तननिमित्तस्यापि ष्टुत्वस्य निवृत्तत्वादिति नव्याः। मनोरमायां तु "पूर्वत्रासिद्धीयमद्विर्वचने" इति ष्टुत्वस्याऽसिद्धत्वाऽभावट्टकारद्वयसहितस्य द्वित्वे हलादिः शेषे अटिट्टिषते आटिट्टदित्यादि सिध्यतीत्युक्तम्। "निमित्ताऽपाये नैमित्तिकस्याप्यपायः" इति त्विनित्यमिति तदाशयः। आनट्टे इति। इह "न न्द्राः" इति निषेधो न, तत्र द्वितीयस्येत्यनुवर्तनाद्द्वितीयैकाच एव नदराणां निषेधात्। घट्ट चलने। अयं चुरादावपि। स्फुट। अयं कुटादावपि। आनण्ठे इति। "तस्मान्नुड् द्विहलः"। इति नुट्। वण्ठते इति। सहायं विना चरतीत्यर्थः। मडि च। पृथक्पाठसामथ्र्यादयं वेष्टनेऽपीत्याहुः। "मडि भूषाया"मित्यग्रे परस्मैपदिषु। भडि। "यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषण"मित्यमरः।

शडि। "शण्डोऽसुरपुरोहितः"। दाड्ट। विशरणम्-- अवयवविभागः। शाड्ट। डलयोरैक्यात् "शालते" इति काश्यपः। शौट्ट गर्वे। अस्योणादुषु ईरन्वक्ष्यते। "तदेतदतिशौटीर्यमौडुलोमेर्न मृष्यति" इति कल्पतरुः। कटे।