पूर्वम्: ७।४।८५
अनन्तरम्: ७।४।८७
 
सूत्रम्
जपजभदहदशभञ्जपशां च॥ ७।४।८६
काशिका-वृत्तिः
जपजभदहदशभञ्जपशां च ७।४।८६

जप जभ दह दश भञ्ज पश इत्येतेषाम् अभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः। जञ्जप्यते जञ्जपीति। जभ जञ्जभ्यते। जञ्जभीति। दह दन्दह्यते। दन्दहीति। दश दन्दश्यते। दन्दशीति दश इति दंशिः अयं नकारलोपार्थम् एव निर्दिष्टः। तेन यङ्लुक्यपि नकारलोपो भवति। भञ्ज बम्भज्यते। बम्भञ्जीति। पश इति सौत्रो धातुः पम्पश्यते। पम्पशीति।
न्यासः
जपजभदहदशभन्जपशां च। , ७।४।८६

अनुनासिकार्तोऽयमारम्भः। "जप जल्प व्यक्तायां वाचि" (धा।पा।३९७,३९८), "जभि जृभी गात्रविनामे" (धा।पा।३८८,३८९) "दह भस्मीकरणे" (धा।पा।९९१), "दन्श दशने" (धा।पा।९८९) "भव्जो आमर्दने" (धा।पा।१४५३), "पशिः" सौत्रो धातुः। "जञ्जप्यते" इत्यादिषु "दंदश्यते" इति पर्यन्तेषु "लुपसद" ३।१।२४ इत्यादिना यङ्()। इतरत्र सामान्यलक्षणेन" ३।१।२२