पूर्वम्: ७।४।९४
अनन्तरम्: ७।४।९६
 
सूत्रम्
अत् स्मृदृत्वरप्रथम्रदस्तॄस्पशाम्॥ ७।४।९५
काशिका-वृत्तिः
अत् स्मृदृ̄त्वरप्रथम्रदस्तृ̄स्पशाम् ७।४।९५

स्मृ दृ̄ त्वर प्रथ म्रद स्तृ̄ स्पश इत्येतेषाम् अभ्यासस्य अतित्ययम् आदेशो भवति चङ्परे णौ परतः। स्मृ असस्मरत्। दृ̄ अददरत्। त्वर अतत्वरत्। प्रथ अपप्रथत्। म्रद अमम्रदत्। स्तृ̄ अतस्तरत्। स्पश अपस्पशत्। सन्वद्भावातित्वं प्राप्तम् अनेन बाध्यते। तपरकरणसामर्थ्यातति कृते दीर्घो लघोः ७।४।९४ इत्येतदपि न भवति, अददरत्।
न्यासः
अत्स्मृदृ?त्वरप्रथम्रदस्तृस्पशाम्?। , ७।४।९५

"स्मृ चिन्तायाम्()" (धा।पा।९३३), "दृ भये" (धा।पा।८०८), "ञि त्वरा सम्भ्रमे" (धा।पा।७७५), "प्रथ प्रख्याने" (धा।पा।१५५३), "म्रद मर्दने" (धा।पा।७६७), "स्तृञ्? आच्छादने" (धा।पा।१४८४), "स्पशबाधनस्पर्शनयोः" (धा।पा।८८७)। अथ "अददरत्()" इत्यत्र "दीर्घो लघोः" ७।४।९४ इति दीर्घत्वं कस्मान्न भवतीत्याह--"तपरकरणसामथ्र्यात्()" इत्यादि। अनेनैव हि लक्षणेन दीर्घो औव प्राप्नोति, यस्य निवृत्तिस्तपरकरणेन क्रियते; "भाव्यमानोऽण्? सवर्णान्? न गृह्णाति" (व्या।पा।३५)। इति भाव्यमानानां सवर्णानामग्रहणात्? सर्वत्र स्थादिनो ह्यस्वत्वाच्च। तत्र यदि लक्षणान्तरेणापि प्राप्नुक्तो दीर्घस्य निवत्र्तकं तपरकरणं न स्यान्निरत्र्तकमेव तपरकरणं स्यात्()। तस्मात्? तपरकरणसामथ्र्यादिति कृते "दीर्घो लघोः" ७।४।९४ इति दीर्घो न भवतीति भावः॥
बाल-मनोरमा
अत्स्मृदृत्वरप्रथम्रदस्तृ?स्पशाम् ३९३, ७।४।९५

अत्स्मृ। अभ्यासस्येति। "अत्र लोपोऽभ्यासस्ये"त्यतस्तदनुवृत्तेरिति भावः। चङ्परे णाविति। "सन्वल्लघुनीत्यततश्चङ्परे इत्यनुवर्तते। चङ् परो यस्मादिति बहुव्रीहिः। अन्यपदार्थस्त्वर्ताण्णिरेवेति भावः। इत्त्वेति। "सन्यतः" इति इत्त्वस्यापवाद इत्यर्थः। अपप्रथदिति। अत्र अत्त्वविधानादेव सन्वत्त्वविधावनेकहल्व्यवधानेऽपि लघुपरकत्वमिति विज्ञायते। अन्यथा येन नाव्यवधानन्यायादेकहल्व्यवधानस्यैवाश्रयादत्र सन्वत्त्वविरहादेव इत्त्वाऽप्रवृत्त्या किं तेन?। संयोगे परे गुरुत्वान्नाऽभ्यासदीर्घः। पृथ प्रक्षेपे। ऋदुपधः। पर्थयतीति। णिचि लघूपधगुणः। रपरत्वम्।