पूर्वम्: ८।१।१९
अनन्तरम्: ८।१।२१
 
सूत्रम्
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ॥ ८।१।२०
काशिका-वृत्तिः
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर् वान्नावौ ८।१।२०

युष्मदस्मदित्येतयोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यं वाम् नौ इत्येतावादेशौ भवतः, तौ चानुदात्तौ। पदस्य, पदात्, अनुदात्तं सर्वमपादादौ इति सर्वम् इह सम्बध्यते। ग्रामो वां स्वम्। जनपदो नौ स्वम्। ग्रामो वां दीयते। जनपदो नौ दीयते। ग्रामो वां पश्यति। जनपदो नौ पश्यति। एकवचनबहुवचनान्तयोरादेशान्तरविधानाद् द्विवचनान्तयोः एतावादेशौ विज्ञायेते। षष्ठीचतुर्थीद्वितीयास्थयोः इति किम्? ग्रामे युवाभ्यां कृतम्। स्थग्रहणं श्रूयमाणविभक्त्यर्थम्। इह मा भूत्, अयं युष्मत्पुत्रः अयम् अस्मत्पुत्रः इति।
लघु-सिद्धान्त-कौमुदी
साम आकम् ३३१, ८।१।२०

आभ्यां परस्य साम आकं स्यात्। युष्माकम्। अस्माकम्। त्वयि। मयि। युवयोः। आवयोः। युष्मासु। अस्मासु॥युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ॥ पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः॥
न्यासः
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ। , ८।१।२०

"षष्ठीचतुर्थीद्वितीयास्ययोः" इति। षष्ठ()आदिषु यौ तिष्ठतस्तौ तथोक्तौ। "सुपि स्था" ३।२।४ इति कः। कि पुनः कारणं द्विवचनान्तयोरेवोदाहरण पन्यस्तम्()? इत्याह--"एकवचनान्तबहुवचनान्तयोः" इत्यादि। अथ स्थग्रहणं किमर्थम्(), न "युष्मदस्मदोः षष्ठीचतुर्थीद्वितौयासु" इत्येवोच्येत, षष्ठ()आदिषु विधीयमानेध्ववश्यं युष्मदस्मदोस्तात्स्थ्यं भविष्यति? इत्यत आह--"स्थग्रहणम्()" इत्यादि। श्रूयमाणा विभक्तिरर्थः प्रयोजनं निमित्तं यस्य तत्? तथोक्तम्()। ["तथोक्तं भवति--कांउ।पाठः] एतदुक्तं भवति--श्रूयमाणाअ षष्ठ()आदिका विभक्तिरादेशस्य निमित्तं कथं नाम लभ्येतेत्येवमर्थं स्थग्रहणमिति? तेन विभक्तिर्यत्रन श्रूयते तत्र न भवतीति--अयं युष्मत्पुत्रोऽयमस्मत्पुत्र इति। असति तु स्थग्रहणे लुप्तायामपि विभक्तौ प्रत्ययलक्षणेन १।१।६१ स्यातामेवादेशौ। अश्रूयमाणरणं पुनरत्र विभक्तेः षष्ठीसमासे कृते "सुपो धातुप्रातिपदिकयोः" २।४।७१ इति लुप्तत्वात्()। कथम्()? पुनः स्थग्रहणे श्रूयमाणा [एष पंक्तिभागः का। मुद्रितेनोपलभ्यते] विभक्तिरादेशस्य निमित्तत्वेन लभ्यते? श्रूयमाणायामेव तस्यां तात्स्थ्यस्य सम्भवात्()। अथ वा--तिष्ठतिरयमपरिहाणावर्थे वत्र्तते, यथा--"समये तिष्ठ सुग्रीव" ["न च सङ्कुचितः पन्थाः येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥"] (वा।रा।किं।स।३०।श्लो।८१) इति। समयं न परिजहिहीत्यर्थः। तेनैवं विज्ञायते--षष्ठ#ईचतुर्थीद्वितीयामपरिजहतोर्युष्मदस्मदोरादेधाविति। एवं च विज्ञायमाने श्रूयमाणैव विभक्तिरादेशस्य निमित्तत्वेनोपात्ता भवतीति॥
तत्त्व-बोधिनी
युष्मादस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ ३५७, ८।१।२०

षष्ठीचतुर्थीदि। "अल्पाच्तर"मिति "षष्ठी"त्यस्य पूर्वनिपातः। षष्ठ()आदिविशिष्ययोरिति। ननु युष्मदस्मदोरित्युक्तत्वात्तयोरेव उक्तरूत्या वस्नसादौ दोषाऽभावेऽपि भ्यामादौ परतो युष्मदस्मदोः पदत्वात्केवलयोर्वानावादेशप्रसङ्गस्य दुर्वारत्वात्। तथा च "सुखं वां नौ ददात्वीशः"इति प्रयो#ओ न सह्गच्छेत। नापि "द्वितीयास्थयो"रिति स्थग्रङणसामथ्र्याद्विभक्तिविशिष्योरेव आदेशा भवेयुरिति वाच्यम्, "स्थग्रहणाच्छ()यमाणविभक्तिकयोरेवे"ति वक्ष्यमाणतया तत्सामथ्र्यस्योपक्षयात्। मैवम्, "अनुदात्तं सर्व"मिति सर्वग्रहणाधिकारात्सर्वस्यैव विभक्तिविशिष्टस्य आदेशा भवन्तीति आकरे स्पष्टत्वात्। यदि तु सर्वस्य द्वे"इत्यतः "सर्वस्ये ति पदमनुवर्तते, तदा सर्वग्रहणमिह त्यक्तुं शक्यमित्याहुः।