पूर्वम्: ८।१।४०
अनन्तरम्: ८।१।४२
 
सूत्रम्
शेषे विभाषा॥ ८।१।४१
काशिका-वृत्तिः
शेषे विभाषा ८।१।४१

अहो इत्यनेन युक्तं तिङन्तं शेषे विभाषा नानुदात्तं भवति। कश्च शेषः? यदन्यत् पूजायाः। कटम् अहो करिष्यसि। मम गेहम् एष्यसि। असूयावचनम् एतत्। पूजायाम् इत्यसय् पूर्वत्र च अनुकृष्टत्वादनधिकारे सिद्धे शेषवचनं विस्पष्टार्थम्।
न्यासः
शेषे विभाषा। , ८।१।४१

"करिष्यसि" इत्यादि। लृडन्तं स्यस्वरेण मध्योदात्तम्()। ननु च पूजाग्रहणं पूर्वसूत्रे चानुकृष्टम्()। तत्र चानुकृष्टस्येहानुवृत्तेरविशेषे भविष्यति, तत्? किं शेषग्रहणेन? इत्यत आह--"पूजायामित्यस्य" इत्यादि॥