पूर्वम्: ८।१।४४
अनन्तरम्: ८।१।४६
 
सूत्रम्
लोपे विभाषा॥ ८।१।४५
काशिका-वृत्तिः
लोपे विभाषा ८।१।४५

किमो लोपे क्रियाप्रश्ने तिङन्तम् अनुपसर्गम् अप्रतिषिद्धं विभाषा नानुदात्तं भवति। क्व च अस्य लोपः? यत्र गम्यते चार्थः, न च प्रयुज्यते किंशब्दः। देवदत्तः पचति, आहोस्वित् पठति। विनैव किमा प्रश्नो ऽवगम्यते। प्राप्तविभाषेयम् किमर्थेन योगात्। पूर्ववत् प्रत्युदाहरणानि।
न्यासः
लोपे विभाषा। , ८।१।४५

किंशब्दस्य प्रकृतत्वात्? तस्यैव लोपो विज्ञायते, इत्याह--किमो लोपे इति। किंशब्दस्य शास्त्रे न क्वचिल्लोपो विहितः, इत्यतः पृच्छति--"क्व चास्य लोपः" इति। अदर्शनमात्रस्य "लोपः" १।१।५९ इति संज्ञा कृता न तु शास्त्रकृतस्यैवादर्शनस्येत्यभिप्रायेणाह--"यत्र" इत्यादि। "गम्यते चार्थः" इति। कुतश्चिदर्थप्रकरणादेः। "न च प्रयुज्यते" इति। गम्यमानार्थत्वात्()। "देवदत्तः पचत्याहोस्वित्? पठति" इति। अत्रायमाहोस्विच्छब्दः पक्षान्तरे वत्र्तते। पक्षान्तरोपन्यसनं किमर्थम्()? प्रश्नं न व्यभिचरतौति। अत्राप्रयुज्यमानस्यापि तस्यार्थो गम्यते। पञतिशब्दोऽयं पक्षे पचतिशब्देन तुल्यस्वरः॥