पूर्वम्: ८।२।१०३
अनन्तरम्: ८।२।१०५
 
सूत्रम्
क्षियाऽ‌ऽशीःप्रैषेषु तिङ् आकाङ्क्षम्॥ ८।२।१०४
काशिका-वृत्तिः
क्षियाऽअशीःप्रैषेषु तिङाकाङ्क्षम् ८।२।१०४

स्वरितः इति वर्तते। क्षिया आचरभेदः, आशीः प्रार्थनाविशेषः, शब्देन व्यापारणम् प्रैषः, एतेषु गम्यमानेषु तिङन्तम् आकाङ्क्षणं यत् तस्य स्वरितः प्लुतो भवति। आकाङ्क्षति इति आकाङ्क्षम्, तिङन्तम् उत्तरपदम् आकाङ्क्षति इत्यर्थः। क्षियायां तावत् स्वयं रथेन याति३, उपाध्यायं पदातिं गमयति इति। स्वयम् ओदनं ह भुङ्क्ते३, उपाध्यायं सक्तून् पाययति। पूर्वम् अत्र तिङन्तम् उत्तरपदम् आकाङ्क्षति इति साकाङ्क्षं भवति। आशिषि सुतांश्च लप्सीष्ट३ धनं च तात। छन्दो ऽध्येषीष्ट३ व्याकरणम् च भद्र। प्रैषे कटं कुरु३ ग्रामं च गच्छ। यवान् लुनीहि३ सक्तूंश्च पिब। आकाङ्क्षम् इति किम्? दीर्घं ते आयुरस्तु। अग्नीन् विहर।
न्यासः
क्षियाशीःप्रैषेषु तिङाकाङ्क्षम्?। , ८।२।१०४

क्षिया=आचारभेदः। इष्टाशंसनम्()ाशीः। नियोगः=प्रैषः। आकाङ्क्षत्यपरं तिङन्तमेव। कुत एतत्()? आकाङ्क्षाग्रहणादेव। सुबन्ते हि साधनादायिनी तिङन्तस्यावश्यम्भाविनी अपेक्षेति। "धनं च तात" इति। अत्र लप्सीष्टेत्येतदपेक्षते। "व्याकरणं च" इति। अत्राप्यध्येषीष्टेत्येतत्()। "लुनीहि३" इति। "ई हल्यधोः" ६।४।११३ इतीत्वम्()। "पिब" इति। पाध्रादिसूत्रेण ७।३।७८ पिबादेशः। "अस्तु" इति। अस्तेर्लोट्(), "एरुः" ३।४।८६ इत्युत्वम्(), अदादित्वाच्छपो लुक्(), एतच्चापरं तिङन्तं नापेक्षते। एवं "विहर" इत्येतदपि॥