पूर्वम्: ८।२।१०
अनन्तरम्: ८।२।१२
 
सूत्रम्
संज्ञायाम्॥ ८।२।११
काशिका-वृत्तिः
संज्ञायाम् ८।२।११

संज्ञायां विषये मतोः वः इत्ययम् आदेशो भवति। अहीवती। कपीवती। ऋषीवती। मुनीवती।
न्यासः
संज्ञायाम्?। , ८।२।११

"अहीवती" इति। "नद्यां मतुप्()" ४।२।८४ इति चातुरर्थिको भतुप्(), "शरादीनाञ्च" ६।३।११९ दीर्घः॥