पूर्वम्: ८।२।४८
अनन्तरम्: ८।२।५०
 
सूत्रम्
दिवोऽविजिगीषायाम्॥ ८।२।४९
काशिका-वृत्तिः
दिवो ऽविजिगीषायाम् ८।२।४९

दिवः उत्तरस्य निष्थातकारस्य नकारादेशो भवति अविजिगीषायम् अर्थे। अद्यूनः। परिद्यूनः। अविजिगीषायाम् इति किम्? द्यूतं वर्तते। विजिगीषया हि तत्र अक्षपातनादि क्रियते।
न्यासः
दिवोऽविजिगीषायाम्?। , ८।२।४९

"आद्यूनः, परिद्यूनः" इति। अविजिगीषुरित्यर्थः। "च्छवोः शूडनुनासिके च" ६।४।१९ इति ऊठ्()। "द्यूतं वत्र्तते" इति। विजिगीषार्थोऽत्र विवक्षित इति नत्वं न प्रवत्र्तते। कथं पुनरिह विजिगीषार्थः, यावता अक्षपातनलक्षणक्रोडा न प्रतीयते? इत्याह--विजिगीषायां हि"[इत्येतद्रूपम्()--काशीमुद्रितः पाठः] इत्यादि। विजेतुमिच्छा विजिगीषा, तस्याम्()। तत्र क्रोडायामक्षपातनादि क्रियते। तस्माद्विजिगीषार्थेऽवतिष्ठत इति भावः। आदिशब्देन शलाकापातादेग्र्रहणम्()॥
बाल-मनोरमा
दिवोऽविजिगीषाम् ८३६, ८।२।४९

दिवो। "अविजिगीषाया"मिति च्छेदः। द्यून इति। स्तुत इत्यर्थः। "च्छ्वो"रित्यूठ्। विजिगीषायां तु द्यूतमिति। द्यूतस्य विजिगीषया प्रवृत्तेरिति भाव-।

तत्त्व-बोधिनी
दिवोऽविजिगीषाम् ६८५, ८।२।४९

द्यून इति। "च्छ्वोः शू"डित्यूठ्। क्षीण इत्यर्थः। द्यूतमिति। विजिगीषया हि तत्राऽक्षाः पात्यन्ते इति गम्यते विजिगीषा।