"शुष शोषणे" (धा।पा।
११८३) इत्यस्मात्? परस्य निष्ठातकारस्य ष्टुत्वे प्राप्ते ककारो विधीयते। अकार उच्चारणार्थः। "शुष्कः, शुष्कवान्()" इति। युक्तं शुष्वानित्येतदुदाहरणम्(), शुष्क इत्येतत्त्वयुक्तम्(); न ह्रेतदर्थेऽस्य सूत्रस्यारम्भो युज्यते, "शुष्कधृष्टौ" (६।१।
२०६) इति निपातनेनैव सिद्धत्वात्()? नैतदस्ति; निपातनेन हि ककारे सति शुष्किकेत्यत्र "उदीचामातः स्थाने यकपूर्वायाः"
७।३।४६ इति विभाषेत्वं स्यात्(), शुष्कजङ्घेत्यत्र च "न कोपधायाः"
६।३।३६ इति पुंवद्भावप्रतिषेधः स्यात्(); इह तु ककारस्य विधाने सति तस्यासिद्धत्वादेतदुभयं न भवति। तस्माच्छुष्क इत्येतदर्थोऽप्यस्यारम्भो युक्तः॥