पूर्वम्: ८।२।५७
अनन्तरम्: ८।२।५९
 
सूत्रम्
वित्तो भोगप्रत्यययोः॥ ८।२।५८
काशिका-वृत्तिः
वित्तो भोगप्रत्यययोः ८।२।५८

वित्तः इति विदेर् लाभार्थातुत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये च अभिधेये। वित्तमस्य बहु। धनम् अस्य बहु इत्यर्थः। धनं हि भुज्यते इति भोगो ऽभिधीयते। प्रत्यये वित्तो ऽयं मनुष्यः। प्रतीतः इत्यर्थः। प्रतीयते इति प्रत्ययः। भोगप्रत्यययोः इति किम्? विन्नः।
न्यासः
वित्तो भोगप्रत्यययोः। , ८।२।५८

"धनमस्य बहवित्यर्थः" इति। कथं पुनर्भोगे व्यत्पादितस्य धने वृत्तिरर्थो भवति? इत्याह--"घनं हि" इत्यादि। अनेन कर्मसाधनत्वं भोगशब्दस्य दर्शयन्? धनेऽस्य वृतिं()त दर्शयति। "प्रतीत इत्यर्थः" इति। एतेन प्रत्ययशब्दस्य कर्मसाधनतामाचष्टे। प्रतीत इति कर्मणि निष्ठा। प्रतीत आख्यात इत्यर्थः। स चायमर्थः प्रत्यये व्युत्पाद्यमानेऽस्य कथं [नास्ति--कांउ।पाठे] भवति, यदि प्रत्यशब्दोऽपि कर्मसाधनो भवति--प्रतीयत इति प्रत्ययः। तेन प्रत्ययशब्दस्य कर्मसाधनता वेदितव्या॥
बाल-मनोरमा
वित्तो भोगप्रत्यययोः ८४८, ८।२।५८

वित्तो भोग। भुज्यत इति भोगः-- भोग्यम्। प्रतीयते इति प्रत्ययः-- प्रख्यातः। अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम्। तदाह-- विदन्तेरिति। निपातोयमिति। "नुदविदोन्दे" ति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः। तस्य भोगप्रत्यययोः कदाऽपि नत्वं नेत्यर्थः। प्रतीते इति। प्रख्याते इत्यर्थः। वित्तः पुरुष इति। प्रख्यात इत्यर्थः। विन्न इति। लब्धश्चोरादिरित्यर्थः। अत्र "यस्य विभाषे"ति इण्निषेदमुपपादयति-- विभाषा गमेति। "एकाच" इति निषेधाच्चेत्यपि बोध्यम्।

तत्त्व-बोधिनी
वित्तो भोगप्रत्यययोः ६९४, ८।२।५८

वित्तो। ज्ञानार्थकाद्विदेरिटा भाव्यं, सत्तार्थकविदेर्विचारणार्थकविदेश्च भोगप्रत्ययोर्वृत्तिर्न संभवतीत्याशयेनाह-- विन्दतेरिति। विद्लृ लाभ इत्यस्येत्यर्थः। भुज्यत इति भोगः। प्रतीयत इति प्रत्यय इति कर्मसाधनावेतावितिव्याचष्टे- भोगे प्रतीते चार्थ इति।