पूर्वम्: ८।२।८४
अनन्तरम्: ८।२।८६
 
सूत्रम्
हैहेप्रयोगे हैहयोः॥ ८।२।८५
काशिका-वृत्तिः
हैहेप्रयोगे हैहयोः ८।२।८५

हैहेप्रयोगे यद् वाक्यं वर्तते तत्र हैहयोः एव प्लुतो भवति। है३ देवदत्त। हे३ देवदत्त। देवदत्त है३। देवदत्त हे३। पुनर् हैहयोर् ग्रहणम् अन्त्ययोरपि यथा स्यात्।
न्यासः
हैहेप्रयोगे हैहयोः। , ८।२।८५

पूर्वसूत्रेण प्राधान्याद्? हूयमानस्यैव प्लुतो विहितः। प्राधान्यं तु तस्य तदभिमुखीकरणाय वाक्यप्रयोगात्()। अतो हैहयोर्न प्राप्नोति, एतदर्थोऽयमारम्भः। अथ पुनर्हैहयोग्र्रहणं किमर्थम्(), यावता विनापि तेन श्रुतत्वात्? तयोरेव भविष्यति? इत्याह--"पुनः" ["पुनस्त्वित्यादि"--कांउ।पाठः] इत्यादि। "हैहेप्रयोगे" इत्युच्यमाने "वाक्यस्य टेः प्लुत उदात्तः" ८।२।८२ इत्यधिकारादन्त्ययोरेव स्यात्(), नानन्त्ययोः; तयोरपि यता स्यादित्येवमर्थं पुनर्हैहेग्रहणम्(), हैहेग्रहणे प्रयोगग्रहणं चानर्थकयोरपि यथा स्यात्()। तदा चैतावनर्थको यदाऽ‌ऽमन्त्रितान्तम्()। तेनैवामन्त्रितार्थस्यावगमितत्वादर्थान्तस्य द्योत्यस्याभावात्? तावनर्थकौ भवतः। अन्ये त्वाहुः--निपातसमाहारावपि तौ स्तो हन्त हैह इति। तत्रासति प्रयोगग्रहणे तयोर्न स्यात्(); लाक्षणिकत्वात्()। तस्मात्? प्रयोगमात्रे लाक्षणिकयोरपि यथा स्यादित्येवमर्थं प्रयोगग्रहणमिति॥
बाल-मनोरमा
हैहेप्रयोगे हैहयोः ९७, ८।२।८५

हैहेप्रयोगे। है हे इत्यव्यये सम्बोधनद्योतके। तयोः प्रयोगे हैहयोः प्लुतः स्यादित्यर्थः। पूर्वसूत्रेण गुरोरनृत इत्यनेन च सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमिति व्याचष्टे--हैहयोरेवेति। हैहयोरेवेति नियमार्थमिति बावः। पाहि है३ राम, पाहि हे३ रामेत्यत्र हैहयोरेव प्लुतो न तु गुररोनृत इत्यन्त्यस्यापीत्येतद्धैहयोरित्यनेन लभ्यत इति यावत्। प्रयोगग्रहणाभावे वाक्यस्य टेरित्यधिकाराद्राम है३ राम हे३ इत्यत्रैव स्यादतः "प्रयोग"ग्रहणम्। ततश्चाऽनन्त्ययोरपि तयोः प्लुतो भवति।