पूर्वम्: ८।३।१०३
अनन्तरम्: ८।३।१०५
 
सूत्रम्
यजुष्येकेषाम्॥ ८।३।१०४
काशिका-वृत्तिः
युजुष्येकेषाम् ८।३।१०२

यजुषि विषये युष्मत्तत्ततक्षुःषु परत एकेषाम् आचार्याणां मतेन सकारस्य मूर्धन्यादेशो भवति। अर्चिर्भिष्ट्वम्, अर्चिर्भिस्त्वम्। अग्निष्टे ऽग्रम्, अग्निस्ते ऽग्रम्। अग्निष्टत्, अग्निस्तत्। अर्चिर्भिष्टतक्षुः अर्चिर्भिस्ततक्षुः।
न्यासः
निसस्तपतावनासेवने। , ८।३।१०४

अयमपि पदान्तार्थ आरम्भः। "निष्डपति" इति। "तप धूप सन्तापे" (धा।पा।९८५,३९६)। रुत्वे विसर्जनीयः, "विसर्जनीयस्य सः" ८।३।३४, सस्य भूर्धन्यः, ष्टुत्वम्()। अथेह निष्टप्तं रक्षः, निष्टप्ता अरातयः इति निष्ठान्ते तपतौ कस्यान्न भवति, अस्ति ह्रत्रासेवनमिति? अत आह--निष्टप्तम्()" इत्यादि। न हीह वस्तुनः सत्तैव शब्दव्युत्पत्तेः प्रधानं कारणम्(), अपि तु तद्विवक्षा। न चेहासेवनविवक्षास्तीति भवति मूर्धन्यः। यदि तह्र्रासेवनं विवक्ष्यते तदा न भवितव्यं मूर्धन्येनेनत्यत आह--"च्छान्दसो वा" इत्यादि। समावे कृते "व्यत्ययो बहुलम्()" ३।१।८५ इति पुनः षकारः॥
तत्त्व-बोधिनी
निसस्तपतावनासेवने २०८, ८।३।१०४

निसस्तपता। "मूर्धन्य"इत्यनुवर्तमाने फलितमाह-- षः स्यादिति। आसेवने तु-- निस्तपति। पुनः पुनस्तपतीत्यर्थः।