पूर्वम्: ८।३।१७
अनन्तरम्: ८।३।१९
 
सूत्रम्
व्योर्लघुप्रयत्नतरः शाकटायनस्य॥ ८।३।१८
काशिका-वृत्तिः
व्योर् लघुप्रयत्नतरः शाकटायनस्य ८।३।१८

वकारयकारयोः भोभगोअघोअवर्णपूर्वयोः पदान्तयो लघुप्रयत्नतर आदेशो भवति अशि परतः शाकटायनस्य आचर्यस्य मतेन। भोयत्र, भो अत्र। भगोयत्र, भगो अत्र। अघोयत्र, अभो अत्र। कयास्ते, क आस्ते। अस्मायुद्धर, अस्मा उद्धर। असवादित्यः, असा आदित्यः। द्वावत्र, द्वा अत्र। द्ववानय, द्वा आनय। लघुप्रयत्नतरत्वम् उच्चारणे स्थानकरणशैथिल्यम्। स्थानं ताल्वादि। करणं जिह्वामूलादि। तयोरुच्चारणे शैथिल्यं मन्दप्रयत्नता।
न्यासः
व्योर्लघुप्रयत्नतरः शाकटायनस्य। , ८।३।१८

"लघुप्रयत्नतरः" इति। प्रयत्नः प्रयतनम्()। "यजयाच" ३।३।९० इत्यादिना नङ्()। लघुः प्रयत्नो यस्य स लघुप्रयत्नः, अतिशयेन लघुप्रयत्नो लघुप्रयत्नतरः। किं पुनरिदं लघुप्रयत्नतरत्वम्(), यद्योगाल्लघुप्रयत्नतरो भवतीत्याह--"लघुप्रयत्नतरत्वम्()" इत्यादि। स्थानम्()--ताल्वादि, करणम्()--झ्वामूलादि, तयोरुच्चारणे शैथिल्यं लघुप्रयत्नतरत्वम्()" इत्यादि। स्थानम्()--ताल्वादि, करणम्()--जिह्वामूलादि, तयोरुच्चारणे शैथिल्यं लधुप्रयत्नतरत्वम्()। उदाहरमेष्वान्तरतम्याद्वकारस्य वकार एव भवति, यकारस्य यकार एव। शाकटायनग्रहणं पूजार्थम्()। अनेन हि व्योर्लघुप्रयत्नतरत्वं विधीयते, उत्तरसूत्रेणापि लोपः; तत्रोभयोविधानसामथ्र्यादेव पक्षे विधिर्विज्ञास्यते॥
तत्त्व-बोधिनी
व्योर्लघुप्रयत्नतरः शाकटायनस्य १३७, ८।३।१८

व्योर्लघु। वकारयकारयोरिति। भोभगोअघोअपूर्वयोरित्यर्थः। लघुप्रयत्नतरः=लघूच्चारणतरः। स चान्तरतम्याद्वस्य वः;यस्य य इत्याह-वयाविति।