पूर्वम्: ८।३।५३
अनन्तरम्: ८।३।५५
 
सूत्रम्
इडाया वा॥ ८।३।५४
काशिका-वृत्तिः
इडाया वा ८।३।५४

इडायाः षष्थीविसर्जनीयस्य वा सकार आदेशो भवति पत्यादिषु परतः छन्दसि विषये। इडायस्पतिः, इडायाः पतिः। इडायासुपुत्रः , इडायाः पुत्रः। इडायास्पृष्ठम्, इडायाः पृष्ठम्। इडायास्पारम्, इडायाः पारम्। इडायस्पदम्, इडायाः पदन्। इडायास्पयः, इदायाः पयः। इडायास्पोषम्, इडायाः पोषम्।
न्यासः
इडाया वा। , ८।३।५४

पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम्()। यद्येवम्(), वेत्यनर्थकम्(), आरम्भसामथ्र्यादेव विकल्पेनायं विधिर्विज्ञास्यते? नैतत्(); असति वाग्रहणे पूर्वो विधिर्बहुलं विज्ञायेत; बहुलग्रहणस्य प्रकृतत्वात्()। इह तु वाग्रहणे पूर्वो विधिर्नित्यो विज्ञायेतेति नानर्थकम्()॥