पूर्वम्: ८।३।५७
अनन्तरम्: ८।३।५९
 
सूत्रम्
नुम्विसर्जनीयशर्व्यवायेऽपि॥ ८।३।५८
काशिका-वृत्तिः
नम्विसर्जनीयशर्व्यवाये ऽपि ८।३।५८

नुंव्यवाये ऽपि विसर्जनीयव्यवाये ऽपि शर्व्यवाये ऽपि उत्तरस्य सकारस्य मूर्धन्यादेशो भवति। व्यवायशब्दः प्रत्येकम् अभिसम्बध्यते। नुंव्यवाये तावत् सर्पिंषि। यजूंषि हवींषि विसर्जनीयव्यवाये सर्पिःषु। यजुःषु। हविःषु। शर्व्यवाये सर्पिष्षु। यजुष्षु। हविष्षु। नुमादिभिः प्रत्येकं व्यवाये। षत्वमिष्यते, न समस्तैः। तेन इह न भवति, निंस्से, निंस्स्वः इति। णिसि चुम्बने इत्येतस्य एतद् रूपम्। अत्र हि नुमा, सकारेण शरा च व्यवधानम्।
लघु-सिद्धान्त-कौमुदी
नुम्विसर्जनीयशर्व्यवायेऽपि ३५४, ८।३।५८

एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः। ष्टुत्वेन पूर्वस्य षः। पिपठीष्षु, पिपठीःषु॥ चिकीः। चिकीर्षौ। चिकीर्भ्याम्। चिकीर्षु॥ विद्वान्। विद्वांसौ। हे विद्वन्॥ ,
न्यासः
नुम्विसर्जनीयशव्र्यवायेऽपि। , ८।३।५८

इण्कोरिति पञ्चमीनिर्देशान्निर्दिष्टग्रहणस्यान्तर्यार्थत्वाद्व्यवये सति पूर्वेण न प्राप्नोतीत्यस्यारम्भः। इष्कोरुत्तरस्य सकारस्य मूर्धन्यो भवति। एवं नुम्व्यवाये, विसरजनीयव्यवाये, शव्र्यवाये। "अपि" इत्येभिः प्रत्येकमभिसम्बध्यते, तेन त्रीणि वाक्यानि सम्पद्यन्ते। वाक्यत्रयस्य प्रयोजनं दर्शयिष्यामः नुम्ग्रहणं नुम्स्थानिकस्यानुस्वारस्योपलक्षणं द्रष्टव्यम्()। न हि नुमा क्यचिद्व्यवायोऽस्ति; सर्वत्र "नश्चापदान्तस्य झलि" ८।३।२४ इत्यनुस्वारविधानात्()। "सर्पीषि" इति। "नपुंसकस्य झलचः" ७।१।७२ इति नुम्(), "सान्तमहतः संयोगस्य" ६।४।१० इति दीर्घः। "सर्पिःषु" इति। "दा शरि" ८।३।३६ इति विसर्जतीयः। "सर्पिष्षु" इति। वाग्रहणाद्विसर्जनीयमुन्ते "विसर्जनीयस्य सः" ८।३।३४ इति पक्षे विसर्जनीयस्य सकारः, परस्य सकारस्य षत्वे कृते पूर्वस्य ८।४।४० ष्टुत्वम्()। अथेह कस्मान्न भवति--निस्से, निंस्स्वेति? अत आह--"नुमादिभिः" इत्यादि। एतच्च प्रत्येकं हि वाक्यपरिसमाप्तौ लभ्यते! प्रत्येक हि वाक्यपरिसमाप्तौ त्रीणि वाक्यानि भवन्ति--नुमा व्यवायेऽपीण्कोरुत्तरस्य मूर्धन्यो भवति, एवमन्यत्रापि। "नुम्विसर्जनीयशव्र्यवायेऽपि" इत्येतद्ग्रहणकवाक्यं तेषामेव निबन्धनम्()। तत्रैकेन वाक्येन नुमा व्यवाये मूर्धन्यो विधीयते, द्वितीयेन तु विसर्जनीयव्यवाये, तृतीयेन च शर्भिरिति। तेनेह न भवति--नुमा विसर्जनीयदिसहितेन मूर्धन्यः। "निंस्से" इति। "णिसि चुम्बने" (धा।पा।१०२५), इदित्त्वान्नुम्(), लट्(), थास्(), "थासः से" ३।४।८०, अदादित्वाच्छयो लुक्()। "निंस्स्वा" इति। लोट्(), टेरेत्त्वम्(), "सवाभ्यां वामौ" ३।४।९१ इत्येकारस्य वकारः। अथापिशब्दः किमर्थः? अव्यवायेऽपि यता स्यादिति चेत्()? नैतदस्ति; सिद्धं ह्रन्यवाये पूर्वेणैव, सिद्धे सत्यरम्भो नियमार्थो विज्ञायेत--नुमादिव्यवाय एव। तथा च सति नुमादिभिरव्यवहितादिण्कोर्न स्यात्()? नैतदस्ति; यदि हि नुमादिभिव्र्यवाये मूर्धन्योऽभिमतः स्यात्(), "इण्कोर्नुभ्विसर्जनीयशव्र्यवाये" इत्येकमेव योगं कुर्यात्(), कृतवांश्च, तस्माद्योगविभागकरणसामथ्र्यात्? पूर्वोऽव्यवायार्थो विज्ञास्यते, नार्थोऽपिशब्देन। यस्य तर्हि एवमर्थमवगच्छतः प्रतिपत्तिगौरवं भवति तं प्रति तत्परीहारार्थोऽपिशब्दः। सकरग्रहण एव कत्र्तव्ये शरिति प्रत्याहारग्रहणं वैचित्र्यार्थम्()। न हि शकारवकाराभ्यां निमित्तकार्यिणोव्र्यवधानमस्ति॥
बाल-मनोरमा
नुम्विसर्जनीयशव्र्यवायेऽपि , ८।३।५८

नुम्विसर्जनीय। "इण्को"रिति , "मूर्धन्यः" इति चानुवर्तते। तदाह--एतैः प्रत्येकमित्यादिना। अत्र प्रत्येकमेव नुमादिभिव्र्यवधानं विवक्षितं, न तु अटं कुप्वा"ङितिवद्यथासंभवं व्यवधानमिति भाष्ये स्पष्टम्। ततश्च प्रकृते विसर्जनीयपक्षे तेन व्यवधानेऽपि षत्वमिति भावः। विसर्जनीयस्य सत्वपक्षे आह--ष्टुत्वेनेति। पिपठीस्-सु इति स्थिते प्रथमसकारेण शरा व्यवायमाश्रित्य ईकारादिणः परत्वाद्द्वितीयसकारस्य षत्वे सति पूर्वस्य सकारस्य ष्टुत्वेन षकारः, नतु "आदेशप्रत्यययोः" इति षः, तत्र अपदान्तस्य इत्यनुवृत्तेरिति भावः। एवं च "नुम्शर्()व्यवायेऽपी"त्येव सिद्धे विसर्जनीयग्रहणं व्यर्थमित्याहुः। अयोगवाहानां शष्र्वपि पाठादिह विसर्जनीयग्रहणं भाष्ये प्रत्याख्यातम्। निंस्स्वेति। "णिसि चुम्बने" लुग्विकरणः। "णो नः" इति णस्य नः, इदत्त्वान्नुम्। अनुदात्तेत्त्वादात्मनेपदम्। लोण्मध्यमपुरुषैकवचनं थास्, "थासः से," "सवाभ्यां वामौ"इत्येकारस्य वत्वम्। निन्()स्स्व इति स्थिते "नश्चापदान्तस्ये"त्यनुस्वारे निंस्स्वेति रूपम्। अत्र यथासंभवं व्यवधानाश्रयणे तु नुम्स्थानिकानुस्वारेण सकारेण च व्यवहितस्य द्वितीयसकारस्य षत्वं स्यादतः प्रत्येकं व्यवधानमाश्रितमिति भावः। निंस्से इति। उक्तधातोर्लण्मध्यमपुरुषैकवचनं थास्। तस्य "थासः से" इति सेआदेशः। "निंस्से" इत्यत्रापि द्वितीयसकारस्य षत्वं न भवति, प्रत्येकमेव व्यवधानाश्रयणादिति भावः। "हिसि हिंसायाम्" सुपूर्वादस्मात्, क्विप्, इदित्त्वान्नुम्, ततः सप्तमीबहुवचने सुहिन्स्सु इति स्थिते प्रथमसकारस्य संयोगान्तलोपे "सुहिन्सु" इति रूपम्। "स्वादिषु" इति पदान्तत्वात् "नश्चापदान्तस्य " इत्यनुस्वारो न। किं च पुम्शब्दात् सप्तमीबहुवचने पुंस्सु इति स्थिते प्रथमसकारस्य संयोगान्तलोपे पुंसु #इति रूपम्। तत्र सुहिन्सु इत्यत्र नुमा व्यवधानात्षत्वं स्यात्। नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वे पुंसु इत्यत्र षत्वं स्यादित्यत आह--नुम्ग्रहणमिति। व्याख्यानादिति। प्रकृतसूत्रे, "हयवरट्" सूत्रे च भाष्ये तथा व्याख्यानादित्यर्थः। नुम्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थमित्येतत्सूत्राक्षरानुगतमित्याह--अत एवेति। नुम्ग्रहणस्य नुम्स्थानिकानुस्वारोपलक्षणार्थत्वादेव शग्र्रहणेनैव सिद्धत्वात्तद्ग्रहणमनर्थकं स्यात्, अनुस्वारस्य शष्र्वपि पाठादिति भावः। चिकीरिति। कृधातोः सनि "इको झल्" इति कित्त्वादृकारस्य गुणाऽभावे "अज्झनगमां सनी"ति दीर्घः। ततः "ऋ इद्धातोः" इति इत्त्वम्, "हलि चे"ति दीर्घः। ततः "सन्यङो"रिति द्वित्वम्। "हलादिः शेषः" "ह्यस्वः"। "कुहोश्चुः" इत्यभ्यासकककारस्य चुत्वं, सस्य षत्वम्। चिकीर्ष इति रूपम्। "सनाद्यन्ताः" इति धातुत्वात्ततः क्विप्। "अतो लोपः"। चिकीर्ष इत्यस्मात्षकारान्तात्सुबुत्पत्तौ सोर्हल्ङ्यादिलोपे चिकीर्ष इति स्थितम्। एतावत् सिद्धवत्कृत्य "रात्सस्ये"ति नियमात्षकारस्य संयोगन्तलोपाऽभावमाह्क्य आह--रात्सस्येति। षत्वस्याऽसिद्धत्वादिति भावः। एवं चिकीभ्र्यामित्याद्यूह्रम्। विसर्गमाशङ्क्य आह--रोः सुपीति। प्रकृते रपरत्वसम्पन्नस्य रस्य रुत्वाऽभावादिति भावः। दमेर्डोसिति। औणादिकमेतत्सूत्रम्। "दमु उपशमे" इत्येतस्माद्धातोर्डोस्प्रत्ययः स्यादित्यर्थः। डकार इत्। डित्त्वसामर्थायादिति। "टेः" इति भस्य विहितष्टिलोप इह भत्वाऽभावेऽपि डित्त्वसामथ्र्याद्भवतीत्यर्थः। सकारस्य प्रत्ययावयवत्वात्षत्वं, दोषिति षकारान्तं रूपम्। ततः सोर्हल्यङ्यादिलोपः। एतावत्सिद्धवत्कृत्य-आह--षत्वस्यासिद्धत्वादिति। षत्वस्याऽसिद्धत्वाद्रुत्वे सति विसर्गः। वा दोषन्निति। "शसादा"विति शेषः।

दोष्ण इति। शसि दोषन्नादेशे "अल्लोपोऽनः" इत्यकारलोपे "रषाभ्या"मिति णत्वमिति भावः। दोःषु दोष्षु। विविक्षशब्दं व्युत्पादयति--विशोत। सन्नन्तादिति। वेष्टुमिच्छतीति विग्रहे विशेः सन्। "हलन्ताच्च" इति सनः कित्त्वान्न लघूपधगुणः। "सन्यङो" इति द्वित्वम्। "हलादि शेषः"। शकारस्य झल्परकत्वात् "व्रश्चे"ति षः। "षढो कः कः सी"ति षस्य कः। प्रत्ययावयवत्वात्सस्य षत्वम्। "सनाद्यन्ताः" इति धातुत्वत्क्विप्। "अतो लोपः" विविक्ष् इति षकारान्तं रूपमित्यर्थः। कत्वस्येति। विविक्षित्यस्मात्सोर्हल्ङ्यादिलोपे षकारस्य संयोगान्तलोपः। "स्कोः" इति ककारलोपस्तु न शङ्क्यः, संयोगादिलोपे कर्तव्ये "षढोः तः सी"ति कत्वस्याऽसिद्धत्वादित्यर्थः। व्रश्चेति ष इति। संयोगान्तलोपे सति सकारस्य निमित्तस्य निवृत्त्या कत्वस्यापि निवृत्तौ, झल्परत्वनिवृत्त्या पूर्वप्रवृत्त्षत्वस्यापि निवृत्तौ, पदान्तत्वात् "व्रश्चे"ति शस्य ष इत्यर्थः। जश्त्वचर्त्वे इति। षस्य जश्त्वेन डः, तस्य चत्र्वविकल्प इत्यर्थः। सक्रोरिति। "तक्षू तनूकरणे" अस्मात् क्विप्। ततस्सोर्हल्ङ्यादिलोपे "स्कोः" इति कलोपे षस्य जश्त्वेन डः, तस्य चत्र्वविकल्प इत्यर्थः। तड्ङ्याम्। तट्त्सु-तट् सु। गोडिति। "रक्ष पालने" इत्यस्मात् कर्मण्युपपदेऽणि प्राप्ते, वाऽसरूपन्यायेन क्विपि सुबुत्पत्तौ तक्ष्()शब्दवद्रूपम्। तक्षिरक्षिभ्यामिति। इका निर्देशोऽयम्। तक्ष् रक्ष इति धातुभ्यां "हेतुमति चे"ति णिच, चकार इत्। "चुटू" इति णकार इत्। ततः "सनाद्यन्ताः" इति धातुत्वात् क्विपि "णेरनिटी"ति णिलोपे, क्विपि लुप्ते, तक्ष्, रक्षिति षकारान्ते रूपे। ततः सुलोपे सति संयोगान्तलोपापवादः "स्कोः संयोगाद्योः" इति ककारस्य जश्त्वचर्त्वे इत्यभिप्रेत्य आह--तक्()तग्(), गोरक्()गोरगिति। "डु पचष् पाके" अस्मात् सनि "सन्यङोः" इति द्वित्वम्। "हलादि शेषः"। "सन्यतः" इत्यभ्यासाऽकारस्य इत्त्वम्। "चोः कुः" इति चकारस्य कुत्वम्। प्रत्ययावयवत्वात्सस्य षः। पिपक्ष् इति रूपम्। ततः सोर्लोपः "स्कोः" इति ककारस्य लोपमाशङ्क्य आह--कुत्वस्यासिद्धत्वादिति। "चकारस्थानिकस्ये"ति शेषः। सति च षकारस्य संयोगान्तलोपे झल्परत्वनिवृत्त्या पूर्वप्रवृत्तककारस्य निवृत्तौ पदान्तत्वाकुत्वे जश्त्वचर्त्वे इत्यभिप्रेत्य आह--पिपक् पिपगिति। पिपक्षौ, पिपक्ष इत्यादि। एवं विवगिति। वक्तुमिच्छतीति विग्रहे "वच परिभाषणे" इत्यस्माद्विवक्षशब्दवदित्यर्थः। दिधगिति। दग्धुमिच्छतीत्यर्थे "दह भस्मीकरणे" इत्यस्मात्सनि, द्वित्वे, हलादिशेषे, अभ्यासेत्त्वे, दिदह्()स इति स्थिते "दादेर्धातोर्घः" इति हस्य घत्वे "एकाचो बशः" इति दकारस्य धत्वे दिधघ्स इति घकारस्य चर्त्वेन ककारे प्रत्ययावयवत्वात्सस्य षत्वे ततः क्विपि अतो लोपे दिधक्षिति रूपम्। तस्मात् सुबुत्पत्तौ सोर्लोपे चत्र्वस्याऽसिद्धत्वात् "स्कोः" इत्यभावे षकारस्यसंयोगान्तलोपे खर्परत्वाऽभावात्पूर्वप्रवृत्तककारस्य निवृत्तौ पदान्तत्वाज्जशत्वचर्त्वे इति भावः। दिधक्षौ दिधक्ष इत्यादि इति। षान्ताः। अथ सान्ताः। सुपीरिति। "वोरुपधाया" इति दीर्घः। एवं सुतूरिति। विद्वानिति। विद ज्ञाने। अदादिः लटः शत्रादेशे "विदेः शतुर्वसु" शित्त्वात्सार्वधातुकत्वात् शप्, लुक्। "सार्वधातुकमपित्" इति ङित्त्वान्न लधूपधगुणः। कृदन्तत्वात् प्रातिपदिकत्वं विद्वस्()शब्दः। तस्मात्सुः, उगित्त्वान्नुम्, "सान्तमहतः" इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो नेति भावः। सान्तत्वाऽभावात् "वसुरुआंसु" इति दत्वं न। विद्वांसाविति। सुटि नुमि कृते "सान्तमहतः" इति दीर्घः, "नश्चे"त्यनुस्वार इति भावः।

तत्त्व-बोधिनी
नुम्बिसर्जनीयशव्र्यवायेऽपि ३८६, ८।३।५८

नुम्बिसर्जनीय। "इण्को"रिति पञ्चमीनिर्देशाव्द्यवबितस्याऽप्राप्तौ वचनम्। ष्टुत्वेन पूर्वस्येति। सनः सस्य रुत्वविसर्गयोः कतयोः "वा शरी"ति विकल्पात्प७#ए सकारस्तेन शरा व्यवाये सुपः सस्य षत्वं। पूर्वस्य ष्टुत्वम्, न तु "आदेशप्रत्यययो"रिति षः, "अपदन्तस्ये"ति निषेधादिति भावः। एवं स्थिते शग्र्रहणे विसर्जनीयस्य लाभादित्यन्ये। निस्स्वेति। आद्यसकारारस्य प्रत्येकं व्यवधानेऽपि आदेशप्रत्ययावयवत्वनाऽभावात्षत्वं न भवति। न चाऽत्र "आदेशप्रत्यययो"रित्यनुवृत्त्यभावात् "नुम्बिसर्जनीये"त्यनेन धातुकारस्य षत्वं स्यादिति वाच्यम्, तस्य स्वातन्त्र्येण विधायकत्वाऽनङ्गीकारात्। "अपदान्तस्य मूर्धन्यः""इण्को"रितिवत् "नुम्बिसर्जनीये"त्यस्याप्यधिकारसूत्रत्वात्। विधाकत्वाऽनङ्गीकारात्। "अपदान्तस्य मूर्धन्यः" "इण्को"रितिवत् "नुम्वि#इ#इ#इसर्जनीये"त्यस्याप्यधिकारसूत्रत्वात्। कर्तुमिच्छति चिकीर्षतिष चिकीर्षतेः क्विप्प्र त्ययः--चिकीः। "एकाच उपदेशे"इति "सनिग्रहगुहोश्चे"ति वासन इडभावे "इको झ"लिति कित्वाद्गुणाऽभावे "अज्झनगमां सनी"ति दीर्घे "ऋत इ"दीतीत्वे रपरत्वं, ततो द्वित्वं, "हलादिः शेषः""कुहोश्चुः"अल्लोपः। सर्हल्ङ्यादिलोपे पदान्तत्वात् "र्वोरुपधायाः"इति दीर्घः। दोरिति। दाम्यतीति दोः। संयोगान्तलोप इति। न चाऽस्मिन्कर्तव्ये बहिरङ्गत्वेनाऽतोलोपस्याऽसिद्धत्वं शङ्क्यं, बहिर्निमित्तापेक्षपदसंज्ञासापेक्षत्वेन संयोगान्कलोपस्यैव बहिरङ्गत्वादिति दिक्। विविडिति। विशेः सन्। "एकाच"इतीण्निषेधे "हलन्ताच्चे"ति कित्त्वाद्गुणीऽभावः। द्वित्वाऽभ्यासकार्ये। तडिति। "तक्षू त्वक्षू तनूकरणे"इत्यस्मात् क्विप्। गां रक्षतीति---गोरट्। कर्मण्युपपदे "वा सरूप"न्यायेन क्विप्। कुत्वस्यासिद्धत्वादिति। इतरथा "स्को"रिति कलोपः स्यादिति भावः। पिपागति। पक्तुमिच्छति पिपक्। वक्तुमिच्छति विवक्। "दादे"रिति घः। "एकाचो बश"इति भाष्भावः। दग्धुमिच्छतीति दिधक्। इति षान्ताः। सुतूरिति। सुष्ठु तोसतीति सुतूः। वेत्तीति विद्वन्। "विदेः शतु र्वसुः"। अदादित्वाच्छपो लुक्। "सार्वधातुकमिपित्िति ङित्त्वान्नोपधागुणः। उगित्त्वान्नुम्। "सान्तमहतः"इति दीर्घः। संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न।