पूर्वम्: ८।३।६०
अनन्तरम्: ८।३।६२
 
सूत्रम्
स्तौतिण्योरेव षण्यभ्यासात्॥ ८।३।६१
काशिका-वृत्तिः
स्तौतिण्योरेव षण्यभ्यासात् ८।३।६१

स्तौतेः ण्यन्तानां च षभूते सनि परतः अभ्यासातिणः उत्तरस्य आदेशसकारस्य मूर्धन्यादेशो भवति। तुष्टूषति। ण्यन्तानाम् सिषेवयिषति। सिषञ्जयिषति। सुष्वापयिषति। सिद्धे सत्यारम्भो नियमार्थः, स्तौतिण्योः एव षणि अभ्यासाद् यथा स्यात्, अन्यस्य मा भूत्। सिसिक्षति। सुसूषति। एवकारकरणमिष्ततो ऽवधारणार्थम्। स्तौतिण्योः षणि एव इति हि विज्ञायमाने तुष्टाव इत्यत्र न स्यात्, इह च स्यादेव सिसिक्षति इति। षणि इति किम्? अन्यत्र नियमो मा भूत्, सिषेच। को विनते ऽनुरोधः? अविनते नियमो मा भूत्, सुषुप्सति। तिष्ठासति। कः सानुबन्धे ऽनुरोधः? षशब्दमात्रे नियमो मा भूत्, सुषुपिष इन्द्रम्। अभ्यासातिति किम्? अभ्यासात् या प्राप्तिः तस्या नियमो यथा स्यात्, धातोः या प्राप्तिस् तस्या नियमो मा भूत्, प्रतीषिषति। अधीषिषति।
न्यासः
स्तौतिण्योरेव षण्यभ्यासात्?। , ८।३।६१

"षभूते" इति। "ष" इतीदं रूपमापन्न इत्यर्थः। "तुष्टुषति" इति। "इको झल्()" १।२।९ इति सनः कित्त्वम्()" "अज्झनगमां सनि" ६।४।१६ इति दीर्घः, दिर्वचनम्(), "शपूर्वाः खयः" ७।४।६१ इति खयः शेषः। "सिवेचयिषति" इति। सिचेः "हेतुमति च" ३।१।२६ इति णिच्(), सन्(), इट्(), गुणायादेशौ। "णौ कृतं स्थानिवद्भवति" (चां।प।२१) इति सिचो द्विर्वचनम्()। "सिषञ्जयिषति" इति। "सन्ज सङ्गे" (धा।पा।९८७), सन्(), द्विर्वचनम्(), "सन्यतः" ७।४।७९ इतीत्त्वम्()। "सुष्वापयिषति" इति। स्वापेण्र्यन्तस्य "द्युतिस्वाप्योः सम्प्रसारणम्()" ७।४।६७ इत्यभ्यासस्य सम्प्रसारणम्()। ननु च सिद्धोऽत्र भूर्धन्यः पूर्वणैव, तत्? किमर्थोऽस्यारम्भ,? इत्याह--"सिद्धे सति" इत्यादि। "सिसिक्षति" इति। सिचः सन्(), "इको झल्()" १।२।९ इत्यनुवत्र्तमाने "हलन्ताच्च" १।२।१० इति कित्त्वाद्गुणाभावः, "चोः कुः" ८।२।३० इति कुत्वम्()। "सुसूषते"[सुसूषति--काशिका] इति। "षूङ प्राणिगर्भविभोचने" (धा।पा।१०३१), "पूर्ववत्सनः" १।३।६२ इत्यात्मनेपदम्()। क्वचित्? तिप्प्रत्ययान्तं सुसूषतीति प्रत्युधरणम्(), तत्? "षू प्रेरणे" (धा।पा।१४०८) इत्यस्य द्रष्टव्यम्()। अथैवकारकरणं किमर्थम्(), सिद्धे सत्यारम्भसामथ्र्यादेव नियमो विज्ञास्यते? इत्याह--"एवकारकरणम्()" इत्यादि। कः पुनः स्तौतिण्योः षण्येवेत्यस्मिन्नियमे दोषो यतः स नेष्यते? इत्यत आह--"स्तौतिण्योः षण्येव" इत्यादि। षण्येदेत्यनेनावधारणेन स्तौतिण्योः सन्प्रत्ययेन प्रत्ययान्तरस्य व्यवच्छेदः क्रियते--स्तौतिण्योर्यदिमूर्धन्यो भवति तदा षण्येव, नान्यस्मिन्? प्रत्यय इति। ततश्च तुष्टावेति लिटि न स्यात्()। इह तु स्यादेव--सिसिक्षतीति; अवधारणेन षत्वस्याव्यवच्छिन्नत्वात्()। "अन्यत्र" इत्यादि। यदि षणीति नोच्येत ततोऽविशेषेण सर्वत्र नियमः स्यात्()। ततश्च नियमोन व्यावर्त्तितत्वाद्? यथा सिसिक्षतीत्यत्र न भवत्यभ्यासादुत्तरस्य सकारस्य षत्वम्(), तथा सिषेचेत्यत्र लिट()पि न स्यात्()। तस्मात्? षणोऽन्यत्र लिडादौ मा भूदित्येवमर्थं षणीत्युच्यते। "को विनतेऽनुरोधः" इति। विनत इति पूर्वाचार्यसंज्ञा षत्वणत्वयोः। अनुरुध्यत इत्नुरोधः= प्रयोजनम्()। किं प्रयोजनं षत्वस्य यतः कृतषत्वस्येहोपादानं कृतमित्यभिप्रायः। "अर्विनते नियमो मा भूत्()" इति। अविनत इति अविद्यमानषत्व इत्यर्थः। सनीत्युच्यमाने सन्मात्रे नियमः स्यात्()। तत्र यथा षभूते सन्यन्यधातोरभ्यासान्मूर्धन्यो न भवति, एवमषत्वभूतेऽपि न स्यात्()। तस्मादषत्वभूते नियमो मा भूत्()" इति। अविनत इति अविद्यमानषत्व इत्यर्थः। सनीत्युच्यमाने सन्मात्रे नियमः स्यात्()। तत्र यथा षभूते सन्यन्यधातीरभ्यासान्मूर्धन्यो न भवति, एवमषत्वभूतेऽपि न स्यात्()। तस्मादषत्वभूते नियमो मा भूदित्येवमर्थं विनतस्य ग्रहणम्()। "सुषुप्सति" इति। स्वपेः सन्(), "रुदविद" (१।२।८) इत्यादिना कित्त्वाद्? वच्यादिसत्रेण ६।१।१५ सम्प्रसारणम्()। "कः सानुबन्धकेऽनुरोधः" इति। नकारोऽनुबन्धः। नकारानुबन्धस्य ग्रहणं किमर्थम्(), किं प्रयोजनमित्यर्थः। "षशब्दमात्रे नियमो मा भूत्()" इति। "ष" इत्युच्यमाने यो नाम कश्चित्? षशब्दस्तत्र सर्वत्र नियमः स्यात्()। सानुबन्धकग्रहणे तत्रैव भवति, नान्यत्र। तेन निरनुबन्धकषशब्देऽन्यस्यापि भवत्येव मूर्धन्यः। "सुषुपिष इन्द्रम्()" इति। स्वपेर्लिट्(), व्यत्यर्येनात्मनेपदम्(), "थासः से" ३।४।८०, "असंयोगाल्लिट्? कित्()" १।२।५ इति कित्त्वम्(); वच्चादिसूत्रेण ६।१।१५ सम्प्रसारणम्(), क्रादिनियमादिट्, द्विर्वचनम्(), प्रत्ययसकारस्य मूर्धन्यः, इन्द्रशब्दे परतोऽयादेशः, "लोपः शाकल्यस्य" ८।३।१९ इति यकारलोपः; सूषुपिष इन्द्रमिति स्थित इह निरनुबन्धके नियमाभावादभ्यासान्मूर्धन्यो भवत्येव। "अभ्यासस्य या प्राप्तिः"["अभ्यासात्()"--काशिका, पदमञ्जरी च] इत्यादि। असत्यभ्यासग्रहणे धातोर्य इण्? तस्यापि नियमः स्यात्(), न चेध्यते। तस्मादभ्यासाद्या प्तिस्तस्या नियमो यथा स्यादित्यभ्यासग्रहणम्()। "प्रतीषिषति" इति। प्रतिपूर्वादिमः सन्()। "अधोषिषति" इति। अघिपूर्वादिकः सन्(), अजादित्वाद्()द्वितोयैकाच्? "सन्यङोः ६।१।९ इति द्विरुच्यते, "सन्यतः" ७।३।७९ इतोत्त्वम्(), धातूपसर्गयोरेकादेशः; अधीषिष इति, प्रतीषिष इति स्थिते धातुप्रापतिनियमाभावात्? षभूतेऽपि सनि धातोः परस्य सकारस्य मूर्धन्यो भवत्येव॥
तत्त्व-बोधिनी
स्तौतिण्येरेवषण्यभ्यासात् ३९५, ८।३।६१

स्तौतिण्योरेव। एवंच रिषाधयिषेति प्रयोगस्य साधुत्वं न तु सिसाधयिषेत्यस्येति ज्ञेयम्। उपसर्गात्त्विति। मध्येऽपवादन्यायात् "स्तौतिम्यो"रिति नियमेन "आदेशप्रत्यययो"रिति षत्वमेव बाध्यते न तु "स्थादिष्वभ्यासेन चे"त्युत्तरेण विहितमिति भाव-। सुषुप्सतीति। "रुदविदे"ति सनः कित्त्वान्न गुणः। प्रतीषिषतीति। इह षभूते सनीण् गताविति धातोः परसय् सत्य षत्वं भवत्येवेत्यर्थः।