पूर्वम्: ८।३।६६
अनन्तरम्: ८।३।६८
 
सूत्रम्
स्तम्भेः॥ ८।३।६७
काशिका-वृत्तिः
स्तन्भेः ८।३।६७

उपसर्गातिति वर्तते। स्तन्भेः सकारस्य उपसर्गस्थान् निमित्तातुत्तरस्य मूर्धन्य मुर्धन्य आदेशो भवति। अभिष्टभ्नाति। परिष्टभ्नाति। अभ्यष्टभ्नात्। पर्यष्टभ्नात्। अभितष्टम्भ। परितष्टम्भ। अप्रतेः इत्येतदिह न अनुवर्तते, तेन एतदपि भवति, प्रतिष्टभ्नाति, प्रयष्टभ्नात्, प्रतितष्टम्भ।
लघु-सिद्धान्त-कौमुदी
स्तन्भेः ६९२, ८।३।६७

स्तन्भेः सौत्रस्य सस्य षः स्यात्। व्यष्टभत्। अस्तम्भीत्॥ युञ् बन्धने॥ ७॥ युनाति, युनीते। योता॥ क्नूञ् शब्दे॥ ८॥ क्नूनाति, क्नूनीते॥ द्रूञ् हिंसायाम्॥ ९॥ द्रूणाति, द्रूणीते॥ दॄ विदारणे॥ १०॥ दृणाति, दृणीते॥ पूञ् पवने॥ ११॥
न्यासः
स्तन्भे। , ८।३।६७

स्तन्भिः सौत्रो धातुः। स यदि" अज्दन्त्यपराः सादयः षोपदेशाः" ६।१।६२, भाष्यम्()) इति लक्षणत्वात्? षोपदेशस्तस्य ततः पूर्ववत्? षत्वप्रतिषेधे प्राप्ते वचनम्()। अथ सूत्रे तथा पाठादषोपदेशः, ततोऽप्राप्त एव। "स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च" ३।१।८२ इति चकारेण श्नाप्रत्ययः समुच्चीयते। "अनिदिताम्()" ६।४।२४ इत्यनुनासिकलोपः। "अप्रतेरेतदिह नानुवत्र्तते"["अप्रतेरित्येतदिह"--काशिका, पदमञ्जरी च] इति। एतच्च योगाविभागदेव गम्यते; इतरथा हि पूर्वसूत्र एव स्तन्मभेग्र्रहणं कुर्यात्()। स्यादेतत्()--"अवाच्चालम्बनाविदूर्ययोःट ८।३।६८ इति षत्वं वक्ष्यति। ततः स्तन्भेरेव यथा स्यात्(), सदेर्मा भूदित्येवमर्थो योगविभाव इति? नैतदस्ति; एकयोगेऽपि यस्यालम्बनादिदूर्ये वृत्तिरस्ति तस्यैव भविष्यते। कस्य चैते स्तः? स्तम्भेरेव॥
बाल-मनोरमा
स्तम्भेः ११६, ८।३।६७

स्तम्भेः। नकारोपधनिर्देशस्य प्रयोजनमाह-- सौत्र्येति। "स्तन्भुस्तुन्भु"इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः। स हि प्रतिपदोक्तः। "ष्टभि प्रतिबन्धे" इत्यस्य तु धातोरिदित्त्वान्नुमि लाक्षणिकत्वान्न ग्रहणम्। तेन विस्तम्भत इत्यादौ न षत्वम्। "उदः स्थास्तम्भ्वो"रिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणं, मकारस्य उभयत्रापि लाक्षणिकत्वात्। ननु "सदिस्तन्भ्योरप्रते"रित्येकमेव सूत्रं कुतो न कृतमित्यत आह--योगविभाग उत्तरार्थ इति। "अवाच्चालम्बनाविदूर्ययो"रित्युत्तरसूत्रे सदेरननुवृत्त्यर्थ इत्यर्थः। ननु सदेरस्वरितत्वादालम्बनाविदूर्ययोर्वृत्त्यभावादेव च अनुवृत्त्यभावः सिद्ध इत्यस्वारस्यादाह-- किंचेति। नानुवर्तत इति। स्तम्भेरित्यत्र अप्रतेरित्यस्य स्तन्भिनाऽपि संबन्धः स्यादिति भावः। "अप्रते"रित्यस्य स्तन्भावनन्वयो वृद्धिप्रयोगानुगत इत्याह---बाहुप्रतिष्टम्भेति।

तत्त्व-बोधिनी
स्तम्भेः ९१, ८।३।६७

स्तम्भेः। सौत्रस्येति। "स्तन्भुस्तुन्भु" इति सूत्रे निर्दिष्टस्य रोधनार्थस्य, न तु "ष्टभि प्रतिबन्धे" इत्यस्येति भावः। एवं "जृ()स्तम्भु" इत्यङ्विधायकसूत्रेऽपि सौत्रस्यैव ग्रहणमिति बोध्यम्। एतच्च "लक्षणप्रतिपदोक्त" परिभाषया लभ्यते। सौत्रो हि धातुर्नकारोपध इति प्रतिपदोक्तः। इदित्त्वान्नुमि ष्टभिर्लाक्षणिकः। तेन विस्तम्भते मकारस्योभयत्रापि लाक्षणिकत्वात्। उत्तरार्थ इति। उत्तरसूत्रे स्तन्भेरेवानुवृत्त्यर्थ इति भावः। ननु "सदिस्तन्भ्यो"रिति सूत्रितेऽपि एकदेशे स्वरितत्वप्रतिज्ञानात्कथंचिदनुवृत्तिर्भविष्यतीत्यत आह-- किंचेति। नानुवर्तत इति। तथा च "स्तन्भे"रित्यत्राऽननुवृत्तये योगविभाग आवश्यक इति भावः।