पूर्वम्: ८।३।८
अनन्तरम्: ८।३।१०
 
सूत्रम्
दीर्घादटि समानपदे॥ ८।३।९
काशिका-वृत्तिः
दीर्घादटि समानपादे ८।३।९

नः इत्यनुवरते। दीर्घादुत्तरस्य पदान्तस्य नकारस्य रुः भवति अटि परतः, तौ चेन् निमित्तनिमित्तिनौ समानपादे भवतः। ऋक्षु इति प्रकृतत्वादृक्पादः इह गृह्यते। परिधींरति। देवाम्̐ अच्छा दीद्यत् महाम्̐ इन्द्रो य ओजसा। दीर्घातिति किम्? अहन्न्नहिम्। अटि इति किम्? इभ्यान् क्षत्रियान्। समनपादे इति किम्? यातुधानानुपस्पृशः। उभयथा इत्येव, आदित्यान् हवामहे।
न्यासः
दीर्घादटि समानपादे। , ८।३।९

"समानपादे" इति। कर्मधारयात्? सप्तमी। समानशब्दश्चायमेकार्थे वत्र्तमा इह गृह्रते। समाने=एकस्मिन्? पादे निमित्तनिमित्तनोराधारभत इत्यर्थः। तत्रैकग्रहणे कत्र्तव्ये क्वचिदसमानपादेऽपि यथा स्यादिति समानग्रहणं कृतम्()। तेनेहापि रुर्भवति--यजामहै यज्ञिया इन्द्रदेवां इलामहै ईक्षां अनाज्यैति। अत्र भिन्नयोः पादयोर्निमित्तनिमित्तिनौ वत्र्तते। अथ वा--सादृश्ये वत्र्तमानः समानशब्दो गृह्रते, अन्यथा ह्रेकग्रहणं कुर्यात्()। इह च सादृश्यमुभयोरस्ति पादयोः, क्रियापदयोस्तुल्यार्थत्वात्()। यथा यजामहायित्येतत्(), क्रियापदं पूजायां वत्र्तते, तथेलामहायित्येतदपि। "ईड स्तुतौ" (धा।पा।१०१९), लोट्(), टेरेत्त्तवम्(), "वैतोऽन्यत्र" ३।४।९६ इतीकारस्यैकारहः। धातोर्वर्णव्यत्ययेन डकारस्य लकारः। छान्दसत्वाद्? ह्यस्वत्वम्()॥