पूर्वम्: ८।३।९०
अनन्तरम्: ८।३।९२
 
सूत्रम्
कपिष्ठलो गोत्रे॥ ८।३।९१
काशिका-वृत्तिः
कपिष्ठलो गोत्रे ८।३।९१

कपिष्थलः इति निपात्यते गोत्रविषये। कपिष्ठलः नाम यस्य सः कापिष्ठलिः पुत्रः। गोत्रे इति किम्? कपेः स्थलम् कपिस्थलम्।
न्यासः
कपिष्ठलो गोत्रे। , ८।३।९१

यदि "ष्ठल स्थाने" (धा।पा।८३६) इत्ययं धातुः "अब्दन्त्यपराः सादयः षोपदेशाः" (काशिका।६।१।६४) इति लक्षणात्()षोपदेशः, तस्य चैतद्रूपं भवति, तदा पूर्ववत्? प्रतिषेधे प्राप्ते वचनम्()। अथ गणे तथाऽपाठादवोपदेश इति लक्षणादयोपदेशोऽध्युत्पन्नो वा स्थलशब्दः, तदादित एवाप्राप्ते षत्वे वचनम्()। "गोत्रविषये" इति। गोत्रविषयश्चेत्? कपिष्ठलशब्दो भवतीत्यर्थः। गोग्रग्रहणेन चेह लौकिकं गोत्रं गृह्रते न पारिभाषिकम्()। लोके च ये पुरुषा अपत्यसन्ततेः प्रवत्र्तयितारो यत्पूर्विकापत्यसन्ततिर्भवति ते गोत्रमित्यभीधीयन्ते। कश्च कपिष्ठलशब्दो गोत्रविषयः? यः संज्ञाशब्दः प्रवराध्याये पठ()ते। पारिभाषिकं गोत्रविषयत्वमपत्यप्रत्ययमन्तरेण न सम्भवतीति पारिभाषिकगोत्रस्येहग्ग्रहणम्()। "कपिष्ठलो नाम" इति। स्थलतौति स्थलः, पचाद्यच्(), कपिरिव स्थलः कपिष्ठलः। "उपमितं व्यघ्रादिभिः २।१।५५ इत्यादिना समासः। व्युत्पत्तिमात्रमेर्वतत्? कृतम्(), न त्ववयवार्थो विद्यते। नामशब्दः संज्ञाशब्दतां कपिष्ठलशब्दस्य दर्शयितुं प्रयुक्तः। कपिष्ठलशब्दस्याप्रसिद्धत्वात्? तदपत्येन प्रसिद्धेन तमाख्यातुमाह--"यस्य कापिष्ठलिः" इति। यस्य कापिष्ठलिरपत्यं स कपिष्ठलो नामेत्यर्थः। "कपिस्थलम्()" इति। कपीनां स्थलं स्थानमित्यर्थः॥