पूर्वम्: ८।४।१४
अनन्तरम्: ८।४।१६
 
सूत्रम्
हिनुमीना॥ ८।४।१५
काशिका-वृत्तिः
हिनुमीना ८।४।१५

हिनु मीना इत्येतयोः उपसर्गस्थान् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। प्रःइणोति। प्रहिणुतः। प्रमीणाति। प्रमीणीतः। हिनुमीनाग्रहणे विकृतस्य अपि भवति, अजादेशस्य स्थानिवत्त्वात्।
लघु-सिद्धान्त-कौमुदी
हिनुमीना ६८८, ८।४।१५

उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। प्रमीणाति, प्रमीणीते। मीनातीत्यात्वम्। ममौ। मिम्यतुः। ममिथ, ममाथ। मिम्ये। माता। मास्यति। मीयात्, मासीष्ट। अमासीत्। अमासिष्टाम्। अमास्त॥ षिञ् बन्धने॥ ५॥ सिनाति, सिनीते। सिषाय, सिष्ये। सेता॥ स्कुञ् आप्लवने॥ ६॥
न्यासः
हिनुमीना। , ८।४।१५

"प्रणिणोति" इति। "हि गतौ" [गतौ वृद्धौ च--धा।पा।] (धा।पा।१२५७), "स्वादिभ्यः श्नुः" ३।१।७३, गुणः। "प्रमीणाति" इति। "मी हिंसायाम्()" ["मीञ्()"--धा।पा।] (धा।पा।१४७६), क्र्यादित्वात्? शना। "प्रमीणीतः" इति। "ई हल्यघोः" ६।४।११३ इतीत्वम्()। अथ कथं प्रहिणोति, प्रमीणीत इत्यत्र णत्वम्(), यावता "हिनुमीना" इति स्वरूपयोग्र्रहणम्(), न चात्र गुणादौ विकारे कृते ते रूपे स्तः; तस्माच्चात्रैव भवितव्यम्()--प्रहिणुतः, प्रमीणातीति? अजादेशस्य स्थानिवद्भावात्(), एकदेशविकृतस्यानन्यत्वाद्वा भविष्()यतीत्यदोषः। ननु प्रतिषिध्यते स्थानिवद्भावः--"पूर्वत्रासिद्धीये न स्थानिवत्()" (जै।प।वृ।४८) इति? दोव एवायमत्याः परिभाषायाः; तथा चोक्तम्()--"अस्या दोषः संयोगादिलोपत्वणत्वेषु" ["तस्य"--इति वार्तिके पाठः] (१।१।५८ वा।९।) इति। अथ "हिमीभ्याम्()" इत्येवं कस्()मान्नोक्तम्()? अशक्यमेवं वक्तुम्(), अविकरणनकारस्यापि स्यात्()--प्रहेनर्दनमिति, प्रमीनर्दनमिति। प्रहिणोतीति प्रहेः, "अन्येभ्योऽपि दृश्यन्ते" अविकरणनकारस्यापि स्यात्()--प्रहेनर्दनमिति, प्रमीनर्दनमिति। प्रहिणोतीति प्रहेः, "अन्येभ्योऽपि दृश्यन्ते" ३।२।७५ इति विच्()। गुणः। प्रमीणातीत#इ प्रमीः, क्विप्()। प्रहेर्नर्दनम्(), प्रम्यो नर्दनमिति षष्ठीसमासः॥
बाल-मनोरमा
हिनुमीना ३६०, ८।४।१५

हिनुमीना। हिनु मीना अनयोद्र्वन्द्वात्षष्ठीद्विवचनस्य आर्षो लुक्। "रषाभ्यां नो णः" इत्यनुवर्तते। "उपसर्गादसमासेऽपि" इत्यत उपसर्गादिति च। तदाह-- उपसर्गस्थादिति।

तत्त्व-बोधिनी
हिनु मीना ३१४, ८।४।१५

हिनु मीना। प्रमीणति।