पूर्वम्: ८।४।२२
अनन्तरम्: ८।४।२४
 
सूत्रम्
अन्तरदेशे॥ ८।४।२३
काशिका-वृत्तिः
अन्तरदेशे ८।४।२४

अन्तःशब्दादुत्तरस्य हन्तिनकारस्य अत्पूर्वस्य णकारादेशो भवति अदेशाभिधाने। अन्तर्हण्यते। अन्तर्हणनं वर्तते। अदेशे इति किम्? अन्तर्हननो देशः। अत्पूर्वस्य इत्येव, अन्तर्घ्नन्ति। तपरकरणं किम्? अन्तरघानि।
न्यासः
अन्तरदेशे। , ८।४।२३

"अन्तरपरिग्रहे" (१।४।६५) इत्यत्र "अन्तःशब्दस्याङ्क्रिविधिणत्वेषूपसर्गसंज्ञा वक्तव्या" (वा७१) इत्यनेन णत्वविधावुपसर्गसंज्ञाया विद्यमानत्वात्? "हन्तेरत्पूर्वस्य" ८।४।२१ इत्यनेनैव णत्वे सिद्धेऽदेशार्चोऽस्य योगस्यारम्भः। "अन्तर्हणनम्()" इति। अत्र भावे ल्युट्()। मध्ये हननमित्यर्थः। "अन्तरपरिग्रहे" (१।४।६५) इति गतिसंज्ञकत्वात्? "कुगतिप्रादयः" २।२।१८ इति समासः। "अन्तर्हननो देशः" इति। अधिकरणे ल्युट्()। अन्तः-शब्दादबन्तस्य हन्तेः--अन्तर्धणो देश इति निपातनादेव देशाभिधानेऽपि णत्वं भवति॥
बाल-मनोरमा
नश्चापदान्तस्य झलि १२४, ८।४।२३

नश्चापदान्तस्य झलि। चकारान्मस्येत्यनुकृष्यते, अनुस्वार इति च। तदाह--नस्येत्यादिना। यशांसीति। यशश्शब्दात् जस्, जस्शसोश्शिः। "नपुंसकस्य झलचः" इति नुम्। "सान्तमहत" इति दीर्घः। यशान्-सि इति स्थिते नकारस्य अनुस्वारः। आक्रंस्यत इति। क्रमु पादविक्षेपे। आङ्पूर्वात्कर्तरि लृट्। "आङ उद्गमने" इति तङ्, स्यतासी लृलुटोरिति स्यः। स्नुक्रमोरिति नियमान्नेट्। आक्रम् स्य त इति स्थिते मस्य अपदान्तत्वात्पूर्वेणाप्राप्ते वचनम्। नम्यत इति। कर्मणि लट् तङ् यक्। अत्र मस्य झल्परकत्वाभावान्नानेनानुस्वारः। अपदान्तत्वाच्च न पूर्वेण।

तत्त्व-बोधिनी
नश्?चापदान्तस्य झलि ९८, ८।४।२३

नश्चापदान्तस्य। अपदान्तस्य किम्?। राजन्पाहि। आक्रंस्यत इति। "आङ उद्गमने" इति तङ्। "स्नुक्रमोः-" इति नेट्।