पूर्वम्: ८।४।३२
अनन्तरम्: ८।४।३४
 
सूत्रम्
न भाभूपूकमिगमिप्यायीवेपाम्॥ ८।४।३३
काशिका-वृत्तिः
न भाभूपूकमिगमिप्यायीवेपाम् ८।४।३४

भा भू पू कमि गमि पयायी वेप इत्येतेषाम् उपसर्गस्थात् निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णकारादेशो न भवति। भा प्रभानम्। परिभानम्। भू प्रभवनम्। परिभवनम्। पू प्रपवनम्। परिपवनम्। पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम्। पूङो हि भवत्येव णत्वम्, प्रपवणं सोमस्य इति। कमि प्रकमनम्। परिकमनम्। गमि प्रगमनम्। परिगमनम्। प्यायी प्रप्यायनम्। परिप्यायनम्। वेप प्रवेपनम्। परिवेपनम्। ण्यन्तानां भादीनाम् उपसङ्ख्यानं कर्तव्यम्। प्रभापनम्। परिभापनम्।
न्यासः
न भाभूपूकमिगमिप्यायीवेषाम्?। , ८।४।३३

"पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम्()" इति। "पूड्? पवने" (धा।पा।९६६) इति भ्वादौ यः पठ()ते तस्य ग्रहणं नेष्यते। तेन क्रैयादिकस्य चेष्यते। कथं "पू" इत्युच्यमाने पूञ एव ग्रहणं लभ्यते? "कृत्यचः" ८।४।२८ इति "कृति" इति योगविभागात्()। "योपविभागादिष्टसिद्धिः" (व्या।प्र।८७) इति पूङ एव योगविभागेन णत्वं भवतीति। एवं योगविभागेन पूङः परस्य कृत्स्थस्य नकारस्य णत्वेऽसाधिते पारिशेष्यात्? पूञ एव ग्रहणं विज्ञायते। "ण्यन्तानां च" इत्यादि। ण्यन्तानां ग्रहँ शब्दान्तरत्वान्न प्राप्नोति। तस्मादुपसंख्यानं कत्र्तव्यमेवेति। तस्य प्रतिपादन मित्यर्थः। तत्रेदं प्रतिपादनम्()--नेति योगविभागः कत्र्तव्यः, तेन ण्यन्तानामपि न भविष्यतीति। न चवं सति भादीनां ग्रहणमनर्थकं स्यात्(); पूर्वयोगस्यासर्वविषयत्वज्ञापनात्()। एवं ह्रतिप्रसङ्गः परिह्मतो भवति॥
बाल-मनोरमा
न भाभूपूकमिगमिप्यायीवेपाम् ६६१, ८।४।३३

न भाभू। प्रभानीयमिति। इह "कृत्यचः" इति प्राप्तं णत्वं नेति भावः। णत्वप्रकरमोपरीति। इदं "चक्षिङः ख्या"ञिति सूत्रे भाष्ये स्पष्टम्। प्रख्यानीयमिति। इह यत्वस्याऽसिद्धतया शकारेण व्यवधानात् "कृत्यचः" इति णत्वं नेति भावः।

तत्त्व-बोधिनी
न भाभूपूकमिगमिप्यायीवेपाम् ५५१, ८।४।३३

* ण्यन्तभादीनामुपसङ्ख्यानम्। ण्यन्तभादीनामिति। ण्यन्तस्य प्रकृत्यन्तरत्वादप्राप्ते वचनम्। "हेरचङी"ति सूत्रे अचङीति पर्युदासेन "प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहण"मिति ज्ञापनादेतत्सिद्धमिति केचिदाहुस्ततद्रभसात्। ज्ञापनं तु कुत्वमात्रविषयकमिति भाष्यादौ सिद्धान्तितत्वात्।