पूर्वम्: ८।४।४३
अनन्तरम्: ८।४।४५
 
सूत्रम्
यरोऽनुनासिकेऽनुनासिको वा॥ ८।४।४४
काशिका-वृत्तिः
यरो ऽनुनासिके ऽनुनासिको वा ८।४।४५

पदान्तग्रहणम् अनुवर्तते। यरः पदान्तस्य अनुनासिके परतः वा अनुनासिकः आदेशो भवति। वाङ् नयति, वाग्नयति। श्वलिण्नयति, श्वलिङ्नयति। अग्निचिन्नयति, अग्निचिद् नयति। त्रिष्तुम्नयति, त्रिष्टुब् नयति। पदान्तस्य इत्येव, वेद्मि। क्षुभ्नाति। यरो ऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्। वाङ्मयम्। त्वङ्मयम्। व्यवस्थितविभाषाविज्ञानात् सिद्धम्।
लघु-सिद्धान्त-कौमुदी
६८, ८।४।४४

यरोऽनुनासिकेऽनुनासिको वा॥ यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (प्रत्यये भाषायां नित्यम्)। तन्मात्रम्।चिन्मयम्॥
न्यासः
यरोऽनुनासिकेऽनुनासिको वा। , ८।४।४४

"पदान्तस्य" इत्यनेन "न पदान्ताट्टोरनाम्()" ८।४।४१ इत्यतः पदान्तग्रहणमनुवत्र्तते, तच्चार्थात्? षष्ठ()न्ततामनुभवतीति दर्शयति। "वाङ्न्यति" इत्यादावुदाहरणे "झलां जशोऽन्ते" ८।२।३९ इति गकारादौ जश्त्वे कृते तस्यानुनासिकः कत्र्तव्यः। "वाङ्मयम्()" इति। "नित्यं वृद्धशरादिभ्यः" ४।३।१४२ इति मयट्()। "त्वङ्मयम्()" इति। अत्रापि "मयङ्वैतयोः" ४।३।१४१ इत्यादिना॥
बाल-मनोरमा
यरोऽनुनासिकेऽनुनासिको वा ११७, ८।४।४४

यरोऽनुनासिके। "न पदान्ताट्टो"रित्यतः पदान्तादित्यनुवर्तते, तच्च षष्ठ()न्ततया विपरिणम्()यते, तदाह--यरः पदान्तस्येति। "एतन्मुरारि"रिति कर्मधारयः। एतद्-मुरारिरिति स्थिते दस्य अनुनासिको नकारः, दन्तस्थानसाम्यात्, स्पृष्टप्रयत्नसाम्याच्च।

ननु चतुर्मुख इत्यत्रापि रेफस्य अनुनासिको णकारः स्यात्, रेफसकारयोः स्पृष्टेत्स्पृष्टप्रयत्नभेदेऽपि मूर्घस्थानान्तर्यादित्यत आह--स्थानेति। "एतन्मुरारि"रित्यादौ स्थानतः प्रयत्नतश्चान्तरतमे स्पर्शे चरितार्थः=लब्धप्रयोजनोऽयमनुनासिकविधिः स्थानमात्रेण आन्तर्यमादाय रेफे न प्रवृत्तिमर्हतीत्यर्थः। "यूनि लब्धे तु युवतिर्जरठे रमते कथ"मिति न्यायादिति भावः।

प्रत्ययेभाषायाम्। वार्तिकमेतत्। भाष्य=लोकिकप्रयोगः। तत्र प्रयत्ने विद्यमाने अनुनासिके परतः प्रागुक्तोऽनुनासिको नित्यं भवतीत्यर्थः। तन्मात्रमिति। तत्-प्रमाणं यस्य तत्तन्मात्रं। "प्रमाणे द्वयसज्दध्नञ्मात्रचः" इति मात्रच्प्रत्ययः। चिन्मयमिति। "नित्यं वृद्धशारादिभ्यः" इत्यत्र "नित्य"मिति योगविभागात्ताद्रूप्ये मयट्। कथं तहीति। यदि प्रत्यये परे नित्यमनुनासिकः स्यात्तदा "मदोदग्राः ककुद्मन्त" इति कालिदासप्रयोगः कथमित्याक्षेपः। मतुपः प्रत्ययत्वेन तस्मिन् परे दकारस्य अनुनासिकनकारावश्यम्भावादिति भावः। परिहरति--यवादीति। यवादिगणे कुद्मच्छब्दे दकारस्य निर्देशान्न तस्यानुनासिकः। यदि तत्र दकारस्य नकार एव इष्टः स्यात्तर्हि नकारमेव लाघवान्निर्दिशेदिति भावः।