पूर्वम्: ८।४।६५
अनन्तरम्: ८।४।६७
 
सूत्रम्
नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्॥ ८।४।६६
काशिका-वृत्तिः
न उदात्तस्वरितोदयम् अगार्घ्यकाश्यपगालवानाम् ८।४।६७

उदत्तोदयस्य स्वरितोदयस्य च अनुदात्तस्य स्वरितो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते, अगार्ग्यकाश्यपगालवानां मतेन। उदात्त उदयो यस्मात् स उदात्तोदयः। उदात्तपरः इत्यर्थः। एवं स्वरितोदयः। उदात्तो दयस्तावत् गार्ग्यस्तत्र। वात्स्यस्तत्र। तत्रशब्द आद्युदात्तः। तस्मिन्नुदात्ते परतो गार्ग्यशब्दः स्वरितो न भवति। स्वरितोदयः गार्ग्यः क्व। वात्स्यः क्व। क्वशब्दः स्वरितः, तस्मिन् परतः अनुदात्तः स्वरितो न भवति। अगार्ग्यकाश्यपगालवानाम् इति किम्? गार्ग्यस् तत्र। गार्ग्यः क्व। तेषां हि मतेन स्वरितो भवत्येव। उदात्तस्वरितपरस्य इति वक्तव्ये उदयग्रहणं मङ्गलार्थम्। अनेकाचार्यसङ्कीर्तनं पूजार्थम्।
न्यासः
नोदात्तस्वरितोदामगाग्र्यकाश्यपगालवानाम्?। , ८।४।६६

"उदात्तस्वरितोदयम्()" इति। उदात्तस्वरितादुवयौ यस्मादिति बहुव्रीहिः। उदयशब्दोऽत्र प्रत्येकमभिसम्बध्यत इति दर्शयितुमाह--"उदात्तोदयस्य" इत्यादि। उदयशब्दः परशब्दस्यार्थे वत्र्ततेऽत्र। "गाग्र्यस्तत्र" इति तत्रशब्द आद्युदात्तः। "सप्तम्यास्त्रल्()" ५।३।१० इति त्रल्प्रत्ययान्ताल्लित्स्वरेण। "गार्ग्यः क्व" इति। कशब्दः स्वरितस्तित्स्वरेण, "किमोऽत्()" ५।३।१२ इति किंशब्दादत्प्रत्ययः। किमः क्वादेशः "क्वाति" ७।२।१०५ इति। उदात्तस्वरितमिति वक्तव्ये लाघवार्थत्वाद्विल्पष्टार्थत्वाच्च "उदयग्रहणं मह्गलार्थम्()" इति। इष्टार्थसिद्धेर्हेतुर्गङ्गलम्(), इष्टं पुनरर्थागस्त्रस्य प्रथनं वीरपुरुषादिता च। तथा चोक्तम्()--"यतो मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणियन्ते, वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च" (म।भा।१।१।१) इति। यथा मङ्गलादीन्येर्ववधानि भवा तथा मङ्गलावसानान्यपि। मङ्गलार्थं इहोदयशब्दे क्रियमाण उत्तरारन्भो मङ्गलपूर्वकौ भवति। तेन यद्वक्ष्त--"वीर्घप्लुतयोश्चानेन विवृताकारेण ग्रहणं नेष्यते, संवृतेन ["संवृतेन च णस्य मात्रिकस्य ग्रहणमिष्यते"--काशिका] तु मात्रिकस्य सर्वगुण युक्तस्याकारसय ग्रहणमि" (का।८।४।६८) इति, तदुपपन्नं भवति। मङ्गलपूर्वकेषु हि कारयेष्वारभ्यमाप्पेध्वपीष्टार्थसिद्धिर्भवति। उशब्दश्चायं लोके वृदिशब्दवन्मङ्गलार्थत्वेन प्रसिद्धः। तस्मात्? तस्य ग्रहणं मङ्गलार्थं क्रियते॥