Kumbhaghonam Edition
4. विराटपर्व
विराटपर्व - अध्याय 001
॥ श्रीः ॥
4.1. अध्यायः 001
Mahabharata - Virata Parva - Chapter Topics
युधिष्ठिरेण ब्राह्मणाय मृगापहृतारणिभाण्डप्रत्यर्पणम् ॥ 1 ॥ धौम्येन ब्राह्मणमध्ये दुर्योधनापनयादिकथनेन शोचतो युधिष्ठिरस्य दुःखानुभवविषये देवादिनिदर्शनप्रदर्शनेन परिसान्त्वनम् ॥ 2 ॥ पाण्डवैः स्वसहचरब्राह्मणाभ्यनुज्ञानसंपादनेन तद्वितर्जनपूर्वकं धौम्येनसह मन्त्राय क्वचिदुपवेशनम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-1-0 (28115)
॥ श्रीवेदव्यासाय नमः ॥ 4-1-0x (2967)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 4-1-1 (28116)
॥ जनमेजय उवाच ।
कथं विराटनगरे मम पूर्वपितामहाः ।
अज्ञातवासमुषिता दुर्योधनभयार्दिताः ॥ 4-1-2x (2968)
पतिव्रता महाभागा सततं सुखभागिनी ।
द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत् ॥ 4-1-2 (28117)
ते च ब्राह्मणमुख्याश्च सूतपौरोगवैः सह।
अज्ञातवासमुषिताः कथं च परिचारकाः ॥ 4-1-3 (28118)
वैशम्पायन उवाच। 4-1-4x (2969)
यथा विराटनगरे तव पूर्वपितामहाः ।
अज्ञातवासमुषितास्तावद्वक्ष्यामि तच्छृणु ॥ 4-1-4 (28119)
तथा स तान्वराँल्लब्ध्वा धर्मराजो युधिष्ठिरः।
गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ वृत्तमात्मनः ॥ 4-1-5 (28120)
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः।
अरणीसहितं भाण्डं ब्राह्मणाय न्यवेदयत् ॥ 4-1-6 (28121)
ततो युधिष्ठिरो राजा कुन्तीपुत्रो दृढव्रतः।
समाहूयानुजान्सर्वानिति होवाच भारत ॥ 4-1-7 (28122)
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम्।
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ॥ 4-1-8 (28123)
उषिताश्च वने वासं यथा द्वादश वत्सरान्।
अज्ञातचर्यां वत्स्यामश्छन्ना वर्षं त्रयोदशम् ॥ 4-1-9 (28124)
वैशम्पायन उवाच। 4-1-10x (2970)
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः।
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ॥ 4-1-10 (28125)
उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः ।
ये तत्र ब्राह्मणा आसन्वनवाससहायिनः ।
ये च भक्ता वसन्ति स्म वनवासे तपस्विनः ॥ 4-1-11 (28126)
तानब्रुवन्महात्मानो हृष्टाः प्राञ्जलयः स्थिताः ।
अभ्यनुज्ञापयिष्यन्तस्तान्प्रवासे धृतव्रताः ॥ 4-1-12 (28127)
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् ।
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ॥ 4-1-13 (28128)
उषिताश्च वने वासं यथा द्वादशवत्सरान् ।
भवद्भिरेव सहिता वन्याहारा द्विजोत्तमाः ॥ 4-1-14 (28129)
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम्।
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ॥ 4-1-15 (28130)
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ॥ 4-1-16 (28131)
युक्तचाराश्च यत्ताश्च दाये स्वस्य जनस्य च ।
दुरात्मनां हि कस्तेषां विश्वासं गन्तुमर्हति ॥ 4-1-17 (28132)
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह।
समस्तेषु च राष्ट्रेषु स्वराज्यस्था भवेम हि ॥ 4-1-18 (28133)
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा।
संमूर्च्छितोऽभवद्राजा सास्रकण्ठो युधिष्ठिरः ॥ 4-1-19 (28134)
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह ॥ 4-1-20 (28135)
प्रबुध्य दुःखमोहार्तो धौम्यं धर्मभृतांवरम् ।
प्रावैक्षत तदा राजा साश्रुकण्ठो युधिष्ठिरः ॥ 4-1-21 (28136)
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा।
आश्वासयंस्तं स नृपं भ्रातॄंश्च ब्राह्मणैः सह ॥ 4-1-22 (28137)
राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः।
नैवंविधाः प्रमुह्यन्ति धीराः कस्यांचिदापदि ॥ 4-1-23 (28138)
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा।
तत्रतत्र सपत्नानां निग्रहार्थं महात्मभिः ॥ 4-1-24 (28139)
दितिपुत्रैर्हृते राज्ये देवराजः सुदुःखितः।
ब्रह्माणं तोषयिष्यंश्च ब्रह्मरूपं विधाय च ॥ 4-1-25 (28140)
इन्द्रेण निषधं प्राप्य गिरिप्रस्थाह्वये पुरे।
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ॥ 4-1-26 (28141)
प्रसादाद्ब्रह्मणो राजन्दितेः पुत्रान्महाबलान् ।
निर्जित्य तरसा शत्रून्पुनर्लोकाञ्जुगोप च ॥ 4-1-27 (28142)
विष्णुनाऽश्मगिरिं प्राप्य तदा दित्यां निवत्स्यता।
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ॥ 4-1-28 (28143)
प्रोष्य वामनरूपेण च्छन्नेन ब्रह्मचारिणा।
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ॥ 4-1-29 (28144)
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा।
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ॥ 4-1-30 (28145)
प्रच्छन्नेनापि सर्वत्र हरिणा वृत्रनिग्रहे।
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ॥ 4-1-31 (28146)
हुताशनेन यच्चापः प्रविश्य च्छन्नमूषितम्।
विबुधानां हि यत्कर्म कृतं तच्चापि ते श्रुतम् ॥ 4-1-32 (28147)
यथा विवस्वता तात छन्नेनोत्तमतेजसा।
निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः ॥ 4-1-33 (28148)
विष्णुना वसता चात्र गृहे दशरथस्य वै।
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ॥ 4-1-34 (28149)
एवमेते महात्मानः प्रच्छन्नास्तत्रतत्र हि।
अजयञ्छात्रवान्मुख्यांस्तथा त्वमपि जेष्यसि ॥ 4-1-35 (28150)
वैशम्पायन उवाच। 4-1-36x (2971)
इति धौम्येन धर्मज्ञो वाक्यैः स परिहर्षितः।
शान्तबुद्धिः पुनर्भूत्वा व्यष्टम्भत युधिष्ठिरः ॥ 4-1-36 (28151)
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः।
राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् ॥ 4-1-37 (28152)
अवेक्षय महाराज तव गाण्डीवधन्वना।
धर्मार्थपरया बुद्ध्या न किंचित्साहसं कृतम् ॥ 4-1-38 (28153)
सहदेवो मया नित्यं नकुलश्च निवारितौ ।
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ॥ 4-1-39 (28154)
न वयं वर्त्म हास्यामो यस्मिन्योक्ष्यति नो भवान् ।
तद्विधत्तां भवान्सर्वं क्षिप्रं जेष्यामहे परान् ॥ 4-1-40 (28155)
इत्युक्तो भीमसेनेन धर्मराजो युधिष्ठिरः ।
सुखोपविष्टो विद्वद्भिस्तापसैः संशितव्रतैः ॥ 4-1-41 (28156)
ये तद्भक्त्याऽभवंस्तस्मिन्वनवासे तपस्विनः ।
तानब्रवीन्महाप्राज्ञः शिष्टान्राजा कृताञ्जलिः ।
अभ्यनुज्ञापयिष्यन्वै तस्मिन्वासे धृतव्रतः ॥ 4-1-42 (28157)
विदितं भवतां सर्वे र्धार्तराष्ट्रैर्यथा वयम्।
संमन्त्राहृतराज्याश्च निस्स्वाश्च बहुशः कृताः ।
उषिताः स्मो वने कृच्छ्रं तथा वर्षाणि द्वादश ॥ 4-1-43 (28158)
अज्ञातचर्यासमयं शेषं वर्षं त्रयोदशम्।
तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञातुमर्हथ ॥ 4-1-44 (28159)
इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः ।
प्रयुज्यापृच्छ्य भरतान्यथास्वं प्रययुर्गृहान् ॥ 4-1-45 (28160)
सर्वे वेदविदो मुख्या यतयो मुनयस्तदा।
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥ 4-1-46 (28161)
ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः।
अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥ 4-1-47 (28162)
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः।
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ॥ 4-1-48 (28163)
क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः ।
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ॥ 4-1-49 (28164)
पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः ।
सन्धिविग्रहतत्वज्ञा मन्त्राय समुपाविशन् ॥ ॥ 4-1-50 (28165)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-1-1अयमध्यायो झo पुस्तके वनपर्वान्तिमाध्यायतया वर्तते। विराटo।विराटपर्व - अध्याय 002
॥ श्रीः ॥
4.2. अध्यायः 002
Mahabharata - Virata Parva - Chapter Topics
युधिष्ठिरेण भ्रातृभिः सह मन्त्रणेन विराटनगरे निवासनिर्धारणम् ॥ 1 ॥ तथा स्वस्य यतिवेपपरिग्रहेण विराटसभास्तारीभवनकथनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-2-0 (28166)
वैशम्पायन उवाच । 4-2-0x (2972)
निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः।
अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः ॥ 1 ॥ 4-2-1 (28167)
अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः।
भ्रातॄन्कृष्णां च संग्रेक्ष्य धौम्यं च कुरुनन्दनः ॥ 2 ॥ 4-2-2 (28168)
द्वादशेमानि वर्षाणि राज्याद्विप्रोषिता वयम्।
त्रयोदशोऽयं संप्राप्तः कृच्छ्रात्परमदुर्वसः।
स साधु कौन्तेय इतो वासमर्जुन रोचय ॥ 3 ॥ 4-2-3 (28169)
त्रयोदशमिदं प्राप्तं क्वनु वत्स्यामहेऽर्जुन।
अबुद्धा धार्तराष्ट्रैश्च समग्राः सह कृष्णया ॥ 4 ॥ 4-2-4 (28170)
अर्जुन उवाच। 4-2-5x (2973)
तस्यैव वरदानेन धर्मस्य मनुजाधिप।
अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥ 5 ॥ 4-2-5 (28171)
यानि राष्ट्राणि वासाय कीर्तयिष्यामि कानिचित् ।
रमणीयानि गुप्तानि तेषां किंचित्तु रोचय ॥ 6 ॥ 4-2-6 (28172)
रम्या जनपदाः सन्ति बहवस्त्वभितः कुरून् ।
पाञ्चालाश्चैव मत्स्याश्च साल्ववैदेहबाह्लिकाः ।
दशार्णाः शूरसेनाश्च कलिङ्गा मागधा अपि ॥ 7 ॥ 4-2-7 (28173)
विराटनगरं चापि श्रूयते शत्रुसूदन ।
रमणीयं जनाकीर्णं सुभिक्षं स्फीतमेव च ॥ 8 ॥ 4-2-8 (28174)
नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहूनि च ।
यत्र ते रोचते राजंस्तत्र गच्छामहे वयम् ॥ 9 ॥ 4-2-9 (28175)
कतमस्मिञ्जनपदे महाराज निवत्स्यसि ।
मा विषादे मनः कार्यं राज्यभ्रंश इति क्वचित् ॥ 10 ॥ 4-2-10 (28176)
युधिष्ठिर उवाच। 4-2-11x (2974)
एवमेतन्महाबाहो यथा स भगवान्प्रभुः।
अब्रवीत्सर्वभूतेशस्तथैतन्न तदन्यथा ॥ 11 ॥ 4-2-11 (28177)
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्।
संमन्त्र्य सहितैः सर्वैर्द्रव्यमकुतोऽभयम् ॥ 12 ॥ 4-2-12 (28178)
मात्स्यो विराटो बलवानभिरक्तोथ पाण्डवान्।
धर्मशीलो वदान्यश्च वृद्धः सत्स्वपि संमतः ॥ 13 ॥ 4-2-13 (28179)
गुणवाँल्लोकविख्यातो दृढभक्तिर्जितेन्द्रियः ।
तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ ॥ 14 ॥ 4-2-14 (28180)
विराटनगरे तात मासान्द्वादशसंमितान्।
कुर्वन्तस्तस्य कर्माणि वसामो यदि रोचते ॥ 15 ॥ 4-2-15 (28181)
यानियानि च कर्माणि तस्य शक्ष्यामहे वयम्।
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन ॥ 16 ॥ 4-2-16 (28182)
अर्जुन उवाच ॥ 4-2-16x (2975)
नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि ।
मनुजेन्द्र विराटस्य रंस्यसे केन कर्मणा ॥ 17 ॥ 4-2-17 (28183)
अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः ।
न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् ॥ 18 ॥ 4-2-18 (28184)
सत्यवागसि याज्ञीको लोभक्रोधविवर्जितः ।
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ॥ 19 ॥ 4-2-19 (28185)
स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि।
न दुःखमुचितं किंचिद्राजन्पापमतेर्यथा।
स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥ 20 ॥ 4-2-20 (28186)
वैशम्पायन उवाच। 4-2-21x (2976)
अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः ।
शृणु त्वं यत्करिष्यामि कर्म वै कुरुनन्दन ॥ 21 ॥ 4-2-21 (28187)
विराटं समनुप्राप्य राजानं मात्स्यनन्दनम् ।
सभास्तारो भविष्यामि विराटस्येति मे मतिः ॥ 22 ॥ 4-2-22 (28188)
कङ्को नाम ब्रुवाणोऽहं मताक्षः साधुदेविता।
वैडूर्यान्काञ्चनान्दानान्स्फाटिकान्राजतानपि ॥ 23 ॥ 4-2-23 (28189)
कृष्णाक्षाँल्लोहिताक्षांश्च निवप्स्यामि मनोरमान्।
अरिष्टान्राजगोलिङ्गान्दर्शनीयान्सुवर्चसः ॥ 24 ॥ 4-2-24 (28190)
लोहिताश्चाश्मगर्भाश्च सन्ति तात धनानि मे।
दर्शनीयाः सभानन्दाः कुशलैः साधुनिष्ठिताः ॥ 25 ॥ 4-2-25 (28191)
अप्येतान्पाणिना स्पृष्ट्वा संप्रहृष्यन्ति मानवाः ॥ 26 ॥ 4-2-26 (28192)
तान्विकीर्य समे देशे रमणीये विपांसुले।
देविष्यामि यथाकामं स विहारो भविष्यति ॥ 27 ॥ 4-2-27 (28193)
कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः।
ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले ।
ब्राह्मे वेदे मयाऽधीते वेदाङ्गेषु च सर्वशः ॥ 28 ॥ 4-2-28 (28194)
धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः।
पृष्टोऽहं कथयिष्यामि राज्ञः प्रियतमं वचः ॥ 29 ॥ 4-2-29 (28195)
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा।
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ॥ 30 ॥ 4-2-30 (28196)
विराटनगरे छन्न एवं युक्तः सदा वसे।
इत्येवं मे प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ 31 ॥ 4-2-31 (28197)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
------------
विराटपर्व - अध्याय 003
॥ श्रीः ॥
4.3. अध्यायः 003
Mahabharata - Virata Parva - Chapter Topics
भीमेन युधिष्ठिरंप्रति स्वस्य सूदवेषपरिग्रहेण विराटभवने निवासकथनम् ॥ अर्जुनेन युधिष्ठिरंप्रति स्वेन नपुंसकवेषपरिग्रहेण राजकन्यानाटनादिकथनम् ॥Mahabharata - Virata Parva - Chapter Text
4-3-0 (28198)
वैशम्पायन उवाच। 4-3-0x (2977)
एवं निर्दिश्य चात्मानं निश्वसन्नुष्णमार्तिजम् ।
विमुञ्चन्नश्रु नेत्राभ्यां भीमसेनमुवाच ह ॥ 4-3-1 (28199)
भीमसेन कथं कर्म मात्स्यराष्ट्रे करिष्यसि।
हत्वा क्रोधवशांस्तत्र पर्वते गन्धमादने ॥ 4-3-2 (28200)
यक्षान्क्रोधाभिताम्राक्षान्राक्षसांश्चापि पौरुषात्।
प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि ॥ 4-3-3 (28201)
बकं राक्षसराजानं भीषणं पुरुषादकम् ।
जघ्निवानसि कौन्तेय ब्राह्मणार्थमरिन्दम।
क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता ॥ 4-3-4 (28202)
हिडिम्बं च महावीर्यं किर्मीरं चैव राक्षसम्।
त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम् ॥ 4-3-5 (28203)
आपदं चापि संप्राप्ता द्रौपदी चारुहासिनी ।
जटासुरवधं कृत्वा वयं च परिमोक्षिताः ॥ 4-3-6 (28204)
मत्स्यराजांन्तिके तात वीर्यपूर्णोऽत्यमर्षणः।
वृकोदर विराटस्य बलीयान्दुर्बलीयसः।
समीपे नगरे तस्य वत्स्यसे केन कर्मणा ॥ 4-3-7 (28205)
भीम उवाच। 4-3-8x (2978)
सूदोऽहं वललो नाम्ना सूपकारो नराधिप।
उपस्थास्यामि राजानं विराटमिति रोचये ॥ 4-3-8 (28206)
रसान्नानाविधांश्चापि स्वादूंश्च मधुरांस्तथा ।
सूपांश्चापि करिष्यामि कुशलोस्मि महानसे ॥ 4-3-9 (28207)
कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः ।
तान्यप्यभिभविष्यामि प्रीतिं संजनयन्नहम् ॥ 4-3-10 (28208)
पूर्वमप्राशितांस्तेन कर्ता रसगुणान्वितान् ।
स्वादु व्यञ्जनमास्वाद्य मात्स्यः प्रीतो भविष्यति ॥ 4-3-11 (28209)
आहरिष्यामि दारूणां पाटितानां शतंशतम्।
राजा कर्माणि मे दृष्ट्वा न मां परिभविष्यति ॥ 4-3-12 (28210)
ये च तस्य महामल्लाः समरेष्वपराजिताः ।
कृतप्रतापा बहुशो राज्ञः प्रत्यायिता बले ॥ 4-3-13 (28211)
रङ्गोपजीविनः सर्वे परेषां च भयावहाः ।
तानहं निहनिष्यामि रतिं राज्ञः प्रवर्तयन् ॥ 4-3-14 (28212)
न च तान्युध्यमानोऽहं नयिष्ये यमसादनम्।
तथा तान्निहनिष्यामि जीविष्यन्ति यथाऽऽतुराः ॥ 4-3-15 (28213)
वृषो वा महिषो वापि नागो वा षाष्टिहायनः ।
सिंहो व्याघ्रो ग्रहीतव्यो भविष्यति न संशयः ॥ 4-3-16 (28214)
तान्सर्वान्दुर्ग्रहानन्यैराशीविषविषोपमान्।
बलादहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः ॥ 4-3-17 (28215)
आरालिका वा सूदा वा येऽस्य युक्ता महानसे।
तानहं प्रीणयिष्यामिं मनुष्यान्स्तेन कर्मणा ॥ 4-3-18 (28216)
आरालिको गोविकर्ता सूपकर्ता नियोधकः।
आसं युधिष्ठिरस्याहमिति वक्ष्यामि मानवान् ॥ 4-3-19 (28217)
आत्मानमात्मना रक्षंश्चरिष्यामि विशांपते ।
इत्येवं च प्रतिज्ञातं विचरिष्याम्यहं यथा।
विराटनगरे च्छन्नो विराटस्य समीपतः ॥ 4-3-20 (28218)
युधिष्ठिर उवाच। 4-3-21x (2979)
अग्निर्ब्राह्मणरूपेण प्रच्छन्नोऽन्नमयाचत।
महाशनं ब्राह्मणं मां प्रमुञ्चार्जुन खाण्डवे ॥ 4-3-21 (28219)
संशुश्रुवे च धर्मात्मा यस्तमर्थं चकार ह।
तस्मै ब्राह्मणरूपाय हुताशाय महायशाः ।
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ॥ 4-3-22 (28220)
यस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत्।
स भीमधन्वा श्वेताश्वः पाण्डवः किं करिष्यति ॥ 4-3-23 (28221)
आशीविषसमस्पर्शो नागानामिव वासुकिः ।
दृष्टीविष इवाहीनामग्निस्तेजस्विनामिव ॥ 4-3-24 (28222)
समुद्र इव सिन्धूनां शैलानां हिमवानिव।
महेन्द्र इव देवानां दानवानां बलिर्यथा ॥ 4-3-25 (28223)
सुप्रतीको गजेन्द्राणां युग्यानां तुरगो यथा।
कुबेर इव यक्षाणां मृगाणां केसरी यथा ॥ 4-3-26 (28224)
राक्षसानां दशग्रीवो दैत्यानामिव शम्बरः ।
रुद्राणामिव कापाली विष्णुर्बलवतामिव ॥ 4-3-27 (28225)
रोषामर्षसमायुक्तो भुजङ्गानां च तक्षकः ।
वायुवेगबलोद्धृतो गरुडः पततामिव ॥ 4-3-28 (28226)
तपतामिव चादित्यः प्रजानां ब्राह्मणो यथा।
ह्रदानामिव पातालं पर्जन्यो नर्दतामिव ॥ 4-3-29 (28227)
आयुधानां वरो वज्रः ककुद्मांश्च गवां वरः।
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो यथा ॥ 4-3-30 (28228)
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा।
गिरीणां प्रवरो मेरुर्देवानां मधुसूदनः।
ग्रहाणां प्रवरश्चन्द्रः सरसां मानसो यथा ॥ 4-3-31 (28229)
यथैतानि विशिष्टानि स्वस्यां जात्यां वृकोदर ।
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ॥ 4-3-32 (28230)
सोयमिन्द्रादनवमो वासुदेवाच्च भारत ।
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि।
ब्रह्मचारी व्रते युक्तः सर्वशस्त्रभृतांवरः ॥ 4-3-33 (28231)
अवाप चास्त्रमस्त्रज्ञः सर्वज्ञः सर्वसंमतः ।
क्षिप्रं चाणु विचित्रं च ध्रुवं च वदतां वरः ॥ 4-3-34 (28232)
अनुज्ञातः सुरेन्द्रेण पुनः प्रत्यागतो महीम्।
धार्तराष्ट्रविनाशाय पाण्डवानां जयाय च ॥ 4-3-35 (28233)
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् ।
वसूनां नवमं मन्ये गिरीणामष्टमः स्मृतः ॥ 4-3-36 (28234)
यस्य दीर्घौ समौ बाहू ज्याघातेन किणीकृतौ ।
दक्षिणश्चैव सव्यश्च बाहू अनडुहो यथा। 4-3-37 (28235)
तलाङ्गुलित्राभ्युचितौ नागराजकरोपमौ ।
पीनौ परिघसङ्काशौ मृदुताम्रतलौ शुभौ ॥ 4-3-38 (28236)
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ।
गाण्डीवधन्वा श्वेताश्वः किरीटी वानरध्वजः ॥ 4-3-39 (28237)
किंरूपधारी किंकर्मा किंचेष्टः किंपरायणः।
बीभत्सुर्भीमधन्वा च किं करिष्यति चार्जुनः ।
कुन्तीपुत्रो विराटस्य रमते केन कर्मणा ॥ 4-3-40 (28238)
अर्जुन उवाच। 4-3-41x (2980)
इमौ किणीकृतौ बाहू ज्याघाततलपीडनात्।
नित्यं कञ्चुकसंछन्नौ नान्यथा गोप्तुमुत्सहे ॥ 4-3-41 (28239)
किं तु कार्यवशादेतदाचरिष्यामि कुत्सितम् ॥ 4-3-42 (28240)
बाहू मे भरतश्रेष्ठ महालाञ्छनलक्षितौ ।
ज्याघातेन महान्तौ मे गूहितुं नान्यथोत्सहे ॥ 4-3-43 (28241)
उभौ कम्बू प्रतीमुच्य कुण्डले परिपातुके ।
वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला ॥ 4-3-44 (28242)
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः ।
प्रजानां समुदाचारं बहुनर्मकृतं वदन् ।
रमयिष्यामि राजानमन्यं चान्तःपुरे जनम् ॥ 4-3-45 (28243)
नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा ।
शिक्षयिष्याम्यहं राजन्विराटनगरे स्त्रियः ॥ 4-3-46 (28244)
स्त्रीभावसमुदाचारान्नृत्तगीतकथाश्रयैः।
छादयिष्यामि राजेन्द्र माययाऽऽत्मानमात्मना ॥ 4-3-47 (28245)
युधिष्ठिरस्य गेहेऽस्मिन्द्रौपद्याः परिचारिका।
उषिताऽस्मीति वक्ष्यामि धर्मराजस्य संमता ॥ 4-3-48 (28246)
उर्वश्याश्चापि शापेन प्राप्तोस्मि नृप षण्डताम्।
शक्रप्रसादान्मुक्तोऽहं वर्षादूर्ध्वं त्रयोदशात्।
इत्येतन्मे प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ 4-3-49 (28247)
एतेन विधिना छन्नः कृतकेन यथा नलः।
विहरिष्यामि राजेन्द्र विराटस्य पुरे सुखम् ॥ 4-3-50 (28248)
युधिष्ठिर उवाच। 4-3-51x (2981)
वासुदेवसमो लोके यशसा विक्रमेण च।
सोयं राज्ये विराटस्य भवने भरतर्षभः ॥ 4-3-51 (28249)
मेरुः प्रच्छादित इव वसन्वज्रोण मुष्टिना।
आख्याता षण्डकोस्मीति प्रतिज्ञातं हि पातकं ॥ ॥ 4-3-52 (28250)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि तृतीयोऽध्यायः ॥
विराटपर्व - अध्याय 004
॥ श्रीः ॥
4.4. अध्यायः 004
Mahabharata - Virata Parva - Chapter Topics
युधिष्ठिरंप्रति नकुलेन विराटनगरे अश्वपालकतया स्वस्य निवासकथनम् ॥1 ॥ सहदेवेन गोपालकतया स्वस्य निवासकथनम् ॥ 2 ॥ द्रौपद्या सैरन्ध्रीभावेन स्वस्य निवासकथनम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-4-0 (28251)
वैशम्पायन उवाच । 4-4-0x (2982)
इत्येवमुक्त्वा पुरुषप्रवीरस्तथार्जुनो धर्मामृतां वरिष्ठः।
वाक्यं तथासौ .... भूयो नृपोऽपरं भ्रातर...बभाषे 4-4-1 (28252)
किंकर्मा किंसमाचारो नकुलोयं भविष्यति।
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥ 4-4-2 (28253)
अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः ।
सोयमार्तश्च शान्तश्च किं नु रोचयतात्त्विह ॥ 4-4-3 (28254)
किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि।
कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः ॥ 4-4-4 (28255)
नकुल उवाच। 4-4-5x (2983)
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः।
दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम ॥ 4-4-5 (28256)
दामग्नन्थी परिज्ञातः कुशलो दामकर्मणि ।
न मां परिभविष्यन्ति जना जात्विह कर्हिचित् ॥ 4-4-6 (28257)
कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सने।
प्रियाश्च सततं मेऽश्वाः कुरुराजा यथा तव॥ 4-4-7 (28258)
न मां परिभविष्यन्ति किशोरा वडवास्तथा ।
न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः ॥ 4-4-8 (28259)
द्रक्ष्यन्ति ये च मां केचिद्विराटनगरे जनाः ।
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥ 4-4-9 (28260)
पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा।
इति तस्य पुरे छन्नश्चरिष्यामि महीपते ।
इत्येतद्वः प्रतिज्ञातं विहरिष्याम्यहं यथा ॥ 4-4-10 (28261)
वैशम्पायन उवाच। 4-4-11x (2984)
नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद्वचः।
बृहस्पतिसमो बुद्ध्या नयेनोशनसा समः ॥ 4-4-11 (28262)
मन्त्रैर्नानाविधैर्नीतः पथ्येषु परिनिष्ठितः ।
सुप्रणीतः सुमार्गस्थो राजतन्त्रमवाप यः ॥ 4-4-12 (28263)
न चास्य स्खलितं किंचिद्ददृशुस्तद्विदो जनाः।
सुनीतिज्ञश्च शूरश्च सर्वमन्त्रविशारदः ॥ 4-4-13 (28264)
अधिको मातुरस्माकं कुन्त्याः प्रियतमः सदा।
सहदेव कथं कर्म तस्य राज्ञः करिष्यसि।
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥ 4-4-14 (28265)
सहदेव उवाच। 4-4-15x (2985)
गोसङ्ख्याता भविष्यामि विराटस्येति रोचये।
प्रतिभोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम्।
तन्त्रीपालेति मे नाम स्वयं प्रोक्तं भविष्यति॥ 4-4-15 (28266)
अयोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः ।
निष्पन्नसत्त्वाः सुभृता ह्यपेतज्वरकिल्विषाः ॥ 4-4-16 (28267)
दृष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः ।
गावः सुसहिता राजन्निरुद्विग्ना निरामयः ॥ 4-4-17 (28268)
भविष्यन्ति मया गुप्ता विराटनगरे तदा।
निपुणत्वं चरिष्यामि प्रीतिरत्र परा हि मे ॥ 4-4-18 (28269)
अहं हि भवता गोषु प्रहितः सतत पुरा।
तत्र मे कौशलं सर्वमनुबद्धं विशांपते ॥ 4-4-19 (28270)
लक्षणं चरितं चैव गवां यच्चापि मङ्गलम् ।
सत्सर्वं मे सुविदितमन्यच्चापि विशांपते ॥ 4-4-20 (28271)
वृषभानपि जानामि राजन्पूजितलक्षणान्।
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥ 4-4-21 (28272)
सोऽहमेवं चरिष्यामि प्रीतिरत्र परा हि मे।
विराटनगरे गूढो रंस्येऽहं तेन कर्मणा ॥ 4-4-22 (28273)
तोषयिष्ये च राजानां मा भूच्चिन्ता तवानघ ।
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव।
इत्येतद्वः प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ 4-4-23 (28274)
युधिष्ठिर उवाच। 4-4-24x (2986)
केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति।
न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥ 4-4-24 (28275)
माल्यागन्धानलङ्कारान्वस्त्राणि विविधानि च।
एतान्येवाभिजानाति यथाजाता च भामिनी ॥ 4-4-25 (28276)
पतिव्रता महाभागा कथं नु विचरिष्यति।
इयं तु नः प्रिया भार्या प्राणेभ्योपि गरीयसी ॥ 4-4-26 (28277)
मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च ।
सुकुमारी सुशीला च राजपुत्री यशस्विनी ।
कथं वत्स्यति कल्याणी विराटनगरे सती ॥ 4-4-27 (28278)
द्रौपद्युवाच। 4-4-28x (2987)
अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव।
यथा ते मत्कृते शोको न भवेन्नृपते शृणु।
यथा तु मां न जानन्ति यत्करिष्याम्यहं प्रभो ॥ 4-4-28 (28279)
छन्ना वत्स्याम्यहं यन्मां न विजानन्ति केचन।
वृत्तं तच्च समाख्यास्ये शर्म तेस्तु विशांपते ॥ 4-4-29 (28280)
सैरन्ध्रीजातिसंपन्ना नाम्नाऽहं व्रतचारिणी ।
भविष्यामि महाराज विराटस्येति मे मतिः ॥ 4-4-30 (28281)
सैरन्ध्र्यो रक्षिताः स्त्रीणां भुजिष्याः सन्ति भारत ।
एकपत्न्यः स्त्रियश्चैता इति लोकस्य निश्चयः ॥ 4-4-31 (28282)
साऽहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि।
प्रमदाहरिका लोके पुरुषाणां प्रवासिनाम् ॥ 4-4-32 (28283)
युधिष्ठिरस्य वै गेहे द्रौपद्याः परिचारिका।
उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत।
आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि ॥ 4-4-33 (28284)
नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि।
कृत्वा चैव सदा रक्षां व्रतेनैव नराधिप ॥ 4-4-34 (28285)
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् ।
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ॥ 4-4-35 (28286)
अथ गुप्ता चरिष्यामि युष्माभिस्तत्र तस्थुषी।
इत्येवं वः प्रतिज्ञातं विहरिष्याम्यहं यथा ॥ 4-4-36 (28287)
युधिष्ठिर उवाच। 4-4-37x (2988)
यथा नो दुर्हृदः पापा भवन्ति सुखिनः पुनः।
कुर्यास्तथा त्वं कल्याणि लक्षयेयुर्न ते जनाः ॥ 4-4-37 (28288)
4-4-38 (28289)
कल्याणं भाषसे कृष्णे यथा कौलेयकी तथा।
न पापमभिजानासि साध्वी साधुव्रते स्थिता ॥
विराटपर्व - अध्याय 005
॥ श्रीः ॥
4.5. अध्यायः 005
Mahabharata - Virata Parva - Chapter Topics
पाण्डवैरिन्द्रसेनादीन्प्रति द्वारकादिगमनचोदना ॥ 1 ॥ पाण्डवान्प्रति धौम्येन राजगृहवासप्रकारानुशासनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-5-0 (28290)
युधिष्ठिर उवाच। 4-5-0x (2989)
कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ।
मम चापि यथा बुद्धिरुचिता हि विनिश्चयात् ॥ 4-5-1 (28291)
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु।
सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥ 4-5-2 (28292)
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् ।
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥ 4-5-3 (28293)
इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका ।
पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह ॥ 4-5-4 (28294)
सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः ।
अर्धरात्रे महात्मानो भिक्षादान्ब्राह्मणानपि।
गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति ॥ 4-5-5 (28295)
वैशम्पायन उवाच। 4-5-6x (2990)
एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक्पृथक्।
धौम्यमामन्त्रयामासुः स च तान्मन्त्रमब्रवीत् ॥ 4-5-6 (28296)
तानन्वशात्स धर्मात्मा सर्वधर्मविशेषवित् ।
धौम्यः पुरोहितो राजन्पाण्डवान्पुरुषर्षभान् ॥ 4-5-7 (28297)
धौम्य उवाच। 4-5-8x (2991)
विदितं वै यथा सर्वं लोके वृत्तमिदं नृप।
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ॥ 4-5-8 (28298)
अतोऽहमभिवक्ष्यामि हेतुमात्रं निबोधत।
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः।
यथा राजकुलं प्राप्य चरन्प्रोष्य न रिष्यति ॥ 4-5-9 (28299)
दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि ।
अमानितेन मानार्ह गूढेन परिवत्सरम् ॥ 4-5-10 (28300)
दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत्।
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन ॥ 4-5-11 (28301)
तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् ॥ 4-5-12 (28302)
असूयन्ति हि राजानो जनाननृतवादिनः।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥ 4-5-13 (28303)
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि।
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ॥ 4-5-14 (28304)
पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान ।
भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः ॥ 4-5-15 (28305)
सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् ।
राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत ॥ 4-5-16 (28306)
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत मेधावी कृशानपि कदाचन ॥ 4-5-17 (28307)
एतत्रयं च पुरुषं निर्दहेदवमानितम्।
राजा तस्माद्बुधैर्नित्यं पूजनीयः प्रयत्नतः ॥ 4-5-18 (28308)
नातिवर्तेत मर्यादां पुरुषो राजसंमतः।
व्यवहारं पुनर्लोके मर्यादां पण्डिता विदुः ॥ 4-5-19 (28309)
न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम।
समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः ॥ 4-5-20 (28310)
गच्छन्नपि परां भूतिं भूमिपालनियोजितः।
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ॥ 4-5-21 (28311)
धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत् ।
तदेवासनमन्विच्छेद्यत्र नाभिलषेत्परः ॥ 4-5-22 (28312)
यत्रोपविष्टः संकल्पं नोपहन्याद्बलीयसः ।
तदासनं राजकुले ईप्सेत पुरुषो वसन् ॥ 4-5-23 (28313)
यथैनं यत्र चासीनं शङ्कयेद्दुष्टचरिणम् ।
न तत्रोपविशेज्जातु यो राजवसतिं वसेत् ॥ 4-5-24 (28314)
स्वभूमौ काममासीत तिष्ठेद्वा राजसन्निधौ।
न त्वेवासनमन्यस्य प्रार्थयेत कदाचन ॥ 4-5-25 (28315)
परासनगतं ह्येनं परस्य परिचारकाः ।
परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः ॥ 4-5-26 (28316)
नित्यं विप्रतिषिद्धं तत्पुरस्तादासनं मतम् ।
अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते ॥ 4-5-27 (28317)
दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः।
तिष्ठेद्विनीतवद्राजन्न पुरस्तान्न पृष्ठतः।
राक्षिणामात्तशस्त्राणां पश्चात्स्थानं विधीयते ॥ 4-5-28 (28318)
मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः ।
संग्रहार्थं मनुष्याणां नित्यमाभाषिता भवेत् ॥ 4-5-29 (28319)
पूज्यमानोपि यो राज्ञा नरो न प्रतिपूजयेत्।
नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान् ॥ 4-5-30 (28320)
नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा।
आरोहेत्संमतोऽस्मीति यो राजवसतिं वसेत् ॥ 4-5-31 (28321)
यो वै गृहेभ्यः प्रवसन्क्रियमाणमनुस्मरन् ।
उत्थाने नित्यसंकल्पो निस्तन्द्रीः संघतात्मवान् ॥ 4-5-32 (28322)
परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् ।
दुःखेन सुखमन्विच्छेद्यो राजवसतिं वसेत् ॥ 4-5-33 (28323)
अन्येषु प्रेष्यमाणेषु पुरस्ताद्धीर उत्पतेत् ।
करिष्याम्यहमित्येव यः स राजसु सिध्यति ॥ 4-5-34 (28324)
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा ।
आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति ॥ 4-5-35 (28325)
नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः ।
मानं प्राप्तो न हृष्येत न व्यथेच्च विमानितः ।
ऋदुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति ॥ 4-5-36 (28326)
नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः।
समः पूर्णतुलेव स्याद्यो राजवसतिं वसेत् ॥ 4-5-37 (28327)
अल्पेच्छो धृतिमान्राजञ्छायेवानुगतः सदा।
दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् ॥ 4-5-38 (28328)
इतिहासपुराणज्ञः कुशलः सत्कथासु च।
वदान्यः सत्यवाक्वापि यो राजवसतिं वसेत् ॥ 4-5-39 (28329)
न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् ।
यं चासूयन्ति राजानः पुरुषं नो वदेच्च तम् ॥ 4-5-40 (28330)
नैषां कर्मसु संयुक्तो धनं किंचिदुपस्पृशेत्।
प्राप्नुयादाददानो वा बन्धं वा वधमेव वा ॥ 4-5-41 (28331)
हुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः ।
अन्यं पुष्णाति मद्धीनमिति धीरो न मुह्यति ॥ 4-5-42 (28332)
श्रेयांसं हि परित्यज्य वैद्यं कर्मणिकर्मणि ।
पापीयांसं प्रकुर्वीरञ्शीलमेषां तथाविधम् ॥ 4-5-43 (28333)
नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथंचन ।
रक्षणं तु न सेवेत यो राजवसतिं वसेत् ॥ 4-5-44 (28334)
यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम् ।
बुद्धिः परिभवेत्तस्य राजा शङ्केत वा पुनः ॥ 4-5-45 (28335)
शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः।
जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः ॥ 4-5-46 (28336)
हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषु चित्।
नातिगाढं प्रहृष्येत तान्येवास्यानुपूजयेत् ॥ 47 ॥ 4-5-47 (28337)
हर्षाद्धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् ।
तदस्यान्तःपुरे वृत्तमीक्षां कुर्वीत भूमिपः ॥ 4-5-48 (28338)
अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः ।
वर्तमानं यथावच्च कुत्सयेयुरसंशयम् ॥ 4-5-49 (28339)
तस्माद्गम्भीरमात्मानं कृत्वा हर्षं नियम्य च।
नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद्बहिः ॥ 4-5-50 (28340)
यथा हि सुमहामन्त्रो भिद्यमानो हरेत्सुखम्।
एवमन्तःपुरे वृत्तं श्रूयमाणं बहिर्भवेत् ॥ 4-5-51 (28341)
या तु वृत्तिरबाह्यानां बाह्यानामपि केवलम्।
उभयेषां समस्तानां शृणु राजोपजीविनाम् ॥ 4-5-52 (28342)
न स्त्रियो जातु मन्येत बाह्ये वाभ्यन्तरेऽपि वा ।
अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद्भयम् ॥ 4-5-53 (28343)
मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत्।
अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः ॥ 4-5-54 (28344)
अराजानं हि रत्नानि राजकान्तानि राजवत्।
भुञ्जानं तं नरं राजा न तितिक्षेत जीवितम् ॥ 4-5-55 (28345)
तस्मादव्यक्तभोगेन भोक्तव्यं भूतिमिच्छता ।
तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत् ॥ 4-5-56 (28346)
न चापत्येन संप्रीतिं राज्ञः कुर्वीत केनचित् ।
अधिक्षिप्तमनर्थं च द्वेष्यं च परिवर्जयेत् ॥ 4-5-57 (28347)
एतां हि सेवमानस्य नरसीमां चतुर्विधाम्।
द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः ॥ 4-5-58 (28348)
एतैस्तु विपरीता या नरसीमा नराधमैः ।
तथा कुर्वीत संसर्गं न विरोधं कथंचन ॥ 4-5-59 (28349)
बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः ।
साधु मन्येत संसर्गं न विरोधं कथंचन ॥ 4-5-60 (28350)
ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः ।
प्रथमं छिद्यते मूलं द्वितीयं जायते भयम् ॥ 4-5-61 (28351)
उद्धतानां च यो वेषः कुहकानां च यो भवेत् ।
राजवेषं च विस्पष्टं सेवमानो न वर्धते।
इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः ॥ 4-5-62 (28352)
अपुंभिश्चैव पुंभिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः ।
शक्ये सति न संभाषां जातु कुर्वीत कर्हिचित् ॥ 4-5-63 (28353)
प्रतिसंभाषमाणो हि त्रिभिरेतैरचेतनः।
श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः ॥ 4-5-64 (28354)
ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव।
तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित् ॥ 4-5-65 (28355)
न चान्याचरितां भूमिमसंदिष्टो महीपतेः।
उपसेवेत मेधावी यो राजवसतिं वसेत् ॥ 4-5-66 (28356)
न च संदर्शने राज्ञां प्रबन्धमभिसंजपेत् ।
अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥ 4-5-67 (28357)
अर्थकामा च या नारी राजानं स्यादुपस्थिता।
अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः ॥ 4-5-68 (28358)
तस्मान्नारीं न निध्यायेत्तथायुक्तां विचक्षणः।
तथा क्षुतं च वातं च निष्ठीवं चाचरेच्छनैः ॥ 4-5-69 (28359)
न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता ।
स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम् ॥ 4-5-70 (28360)
न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत्।
न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत् ॥ 4-5-71 (28361)
भ्रुकुटिं च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम्।
न च गाढं विजृम्भेत जातु राज्ञः समीपतः ॥ 4-5-72 (28362)
न प्रशंसेन्ना चासूयेत्प्रियेषु च हितेषु च ।
स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः ॥ 4-5-73 (28363)
अथ संदृश्यमानेषु प्रियेषु च हितेषु च।
श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा ॥ 4-5-74 (28364)
न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत्।
पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत् ॥ 4-5-75 (28365)
अप्रमत्तो हि राजानं रञ्जयेच्छीलसंपदा।
उत्थानेन तु मेधावी शौचेन विविधेन च ॥ 4-5-76 (28366)
स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते।
असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते ॥ 4-5-77 (28367)
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ 4-5-78 (28368)
तस्माद्भक्त्या च युक्तः सन्सत्यवादी जितेन्द्रियः ।
मेधावी धृतिमान्प्राज्ञः संश्रयीत महीपतिम् ॥ 4-5-79 (28369)
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।
वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम् ॥ 4-5-80 (28370)
एष वः समुदाचारः समुद्दिष्टो यथाविधि ।
यथार्थान्संप्रपत्स्यन्ते पार्थ राजोपजीविनः ॥ 4-5-81 (28371)
संवत्सरमिमं तावदेवंशीला बुभूषथः ।
ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ ॥ 4-5-82 (28372)
वैशम्पायन उवाच। 4-5-83x (2992)
तं तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम्।
प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परंतपाः ॥ 4-5-83 (28373)
तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत्।
भवाय राज्यलाभाय वीर्याय विजयाय च ॥ 4-5-84 (28374)
ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च।
स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च ॥ 4-5-84 (28375)
स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान्।
इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता। 4-5-85 (28376)
युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः ॥ ॥ 4-5-86 (28377)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-5-15 पाण्डवाग्निरिति पाण्डवेति छेदः। राजा पुरुषविग्रहोऽग्निरित्यन्वयः ॥ 15 ॥ 4-5-61 प्रथमं छिद्यते निद्रा इति थo धo पाठः ॥ 61 ॥विराटपर्व - अध्याय 006
॥ श्रीः ॥
4.6. अध्यायः 006
Mahabharata - Virata Parva - Chapter Topics
पाण्डवैर्धौम्यविसर्जनपूर्वकं विराटनगरसमीपगमनम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-6-0 (28378)
वैशम्पायन उवाच। 4-6-0x (2993)
तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम्।
अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः ॥ 1 ॥ 4-6-1 (28379)
युधिष्ठिर उवाच। 4-6-2x (2994)
अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन।
कुन्तीमृते मातरं नः पितरं च यशस्विनम् ॥ 2 ॥ 4-6-2 (28380)
यदेवानन्तरं कार्यं तद्भवान्वक्तुमर्हति।
तारणाय तु दुःखस्य प्रस्थानाय भवाय च ॥ 3 ॥ 4-6-3 (28381)
वैशम्पायन उवाच। 4-6-4x (2995)
तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत्।
सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा।
ततः पावकमुञ्ज्वाल्य मन्त्रहव्यपुरुस्कृतम् ॥ 4 ॥ 4-6-4 (28382)
याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः।
प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम् ॥ 5 ॥ 4-6-5 (28383)
ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः ।
अगच्छन्भीमधन्वानः काम्यकाद्यमुनां नदीम् ॥ 6 ॥ 4-6-6 (28384)
उत्तरेण दशार्णानां पाञ्चालान्दक्षिणेन तु।
अन्तरेण यकृल्लोम्नः शूरसेनांश्च पाण्डवाः ॥ 7 ॥ 4-6-7 (28385)
ते तस्या दक्षिणं तीरमन्वगच्छन्पदातयः ।
ततः प्रत्यक्प्रयातास्ते संक्रामन्तो वनाद्वनम् ॥ 8 ॥ 4-6-8 (28386)
वसाना वनदुर्गेषु रमणीयेषु धन्विनः ।
पल्वलेषु च रम्येषु नदीनां संगमेषु च॥ 9 ॥ 4-6-9 (28387)
द्रुमान्नानाविधाकारान्नानाविधलताकुलान् ।
कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धान्मनोरमान् ॥ 10 ॥ 4-6-10 (28388)
पार्था निरीक्षमाणाश्च तान्द्रुमान्पुष्पशालिनः।
जिघ्रन्तः पुष्पगन्धांश्च फलगन्धान्मनोरमान् ॥ 11 ॥ 4-6-11 (28389)
विध्यन्तो मृगजातानि महेप्वासा महाबलाः ।
उपित्वा द्वादशसमा वने परपुरंजयाः ।
लुब्धान्ब्रुवाणा मात्स्यस्य विपयं प्राविशंस्तदा ॥ 12 ॥ 4-6-12 (28390)
तत्र धौम्यं महेप्वासाः पाण्डवेया व्यसर्जयन् ।
अग्निहोत्रं परिचरन्सोऽबुद्धोऽवसदाश्रमे ॥ 13 ॥ 4-6-13 (28391)
ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु।
इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः।
रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः ॥ 14 ॥ 4-6-14 (28392)
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ॥ 15 ॥ 4-6-15 (28393)
पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः ।
वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च ॥ 16 ॥ 4-6-16 (28394)
व्यक्तं दूरे विराटम...राजधानी भविष्यति।
वसामेहापरां रात्रिं बलवान्मे परिश्रमः ॥ 17 ॥ 4-6-17 (28395)
युधिष्ठिर उवाच। 4-6-18x (2996)
इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन।
मुहूर्तं परिगृह्यैनां घाहुभ्यां नकुल व्रज ॥ 18 ॥ 4-6-18 (28396)
ततोऽदूरे विराटस्य नगरं भरतर्षभ ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ 19 ॥ 4-6-19 (28397)
नकुल उवाच। 4-6-20x (2997)
पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने।
अटवी च मया दूरं धृता मृगवधेप्सुना ॥ 20 ॥ 4-6-20 (28398)
विषमा ह्यतिदुर्गा च वेगवत्परिधावता।
सोहं धर्माभितप्तो वै नैनामादातुमुत्सहे ॥ 21 ॥ 4-6-21 (28399)
युधिष्ठिर उवाच। 4-6-22x (2998)
सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय।
राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम् ॥ 22 ॥ 4-6-22 (28400)
सहदेव उवाच । 4-6-23x (2999)
अहमप्यस्मि तृषितः क्षुधया परिपीडितः।
परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे ॥ 23 ॥ 4-6-23 (28401)
युधिष्ठिर उवाच । 4-6-24x (3000)
एहि वीर विशालाश्च वीरसिंह इवार्जुन ।
इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् ॥ 24 ॥ 4-6-24 (28402)
परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ 25 ॥ 4-6-25 (28403)
वैशम्पायन उवाच। 4-6-26x (3001)
गुरोर्वचनमाज्ञाय संप्रहृष्टो जितेन्द्रियः।
बाहुभ्यां परिगृह्याथ राजपुत्रीमनिन्दिताम् ।
प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनाम् ॥ 26 ॥ 4-6-26 (28404)
जटिलो वल्कलधरः शततूणीधनुर्धरः।
स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम् । 4-6-27 (28405)
आनीय नगराभ्याशमवातारयदर्जुनः ॥ 27 ॥ ॥ 4-6-28 (28406)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि षष्ठोऽध्यायः ॥ 6 ॥
विराटपर्व - अध्याय 007
॥ श्रीः ॥
4.7. अध्यायः 007
Mahabharata - Virata Parva - Chapter Topics
पाण्डवैर्वनमध्ये श्मशानसंनिहिते शमीवृक्षे स्वायुधनिक्षेपः ॥ 1 ॥ तथा स्वेषां साङ्केतिकनामकल्पनेन विराटनगरपरिसरगमनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-7-0 (28407)
वैशम्पायन उवाच। 4-7-0x (3002)
स राजधानीं संप्राप्य पार्थिवोऽर्जुनमब्रवीत्।
इमानि पुरुषव्याघ्र आयुधानि परंतप।
कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् ॥ 1 ॥ 4-7-1 (28408)
सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि।
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥ 2 ॥ 4-7-2 (28409)
गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम्।
कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष ॥ 3 ॥ 4-7-3 (28410)
यदीद.. धनुरादाय चरेम सजने पुरे।
क्षिप्र नः प्रतिजानीयुर्मनुष्या नात्र संशयः ॥ 4 ॥ 4-7-4 (28411)
एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च ।
भूयो द्वादशवर्षाणि प्रविशेम वनं वयम् ॥ 5 ॥ 4-7-5 (28412)
तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा ।
प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत् ॥ 6 ॥ 4-7-6 (28413)
वैशम्पायन उवाच। 4-7-7x (3003)
अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः।
उवाच धर्मपुत्रं तमर्जुनः परवीरहा ॥ 7 ॥ 4-7-7 (28414)
इयं वने मनुष्येन्द्र महती दृश्यते शमी।
भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥ 8 ॥ 4-7-8 (28415)
उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते ।
विपुलाऽऽकीर्णशाखा च वायसैरुपसेविता ॥ 9 ॥ 4-7-9 (28416)
स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् ॥ 10 ॥ 4-7-10 (28417)
समीपे च श्मशानस्य गृहं नास्य विशेषतः।
समासज्यायुधान्यस्यां गच्छामो नगरं नृप ॥ 11 ॥ 4-7-11 (28418)
न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन ॥ 12 ॥ 4-7-12 (28419)
धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम्।
उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् ।
अस्यामायुधमासज्य गच्छाम नगरं वयम् ॥ 13 ॥ 4-7-13 (28420)
एवं परिहरिष्यन्ति मनुष्या वनचारिणः ।
अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् ॥ 14 ॥ 4-7-14 (28421)
वैशम्पायन उवाच । 4-7-15x (3004)
एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः।
प्रचक्रमे निधानाय शश्त्राणां भरतर्षभ ॥ 15 ॥ 4-7-15 (28422)
तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः ।
आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् ॥ 16 ॥ 4-7-16 (28423)
ततो युधिष्ठिरो राजा सहदेवमुवाच ह।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ 17 ॥ 4-7-17 (28424)
इति संदिश्य तं पार्थः पुनरेव धनञ्जयम् ।
अब्रवीदायुधानीह निधातुं भरतर्षभः ॥ 18 ॥ 4-7-18 (28425)
वैशम्पायन उवाच। 4-7-19x (3005)
येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान् ।
निवातकवचांश्चापि पौलोमांश्च परंतपः ।
कालकेयांश्च दुर्धाषान्सर्वांश्चैकरथोऽजयत् ॥ 19 ॥ 4-7-19 (28426)
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः।
तदुदग्रं महाघोरं सपत्नगणमूदनम्।
अपज्यमकरोत्पार्थो गाण्डीवं च भयंकरम् ॥ 20 ॥ 4-7-20 (28427)
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः ।
जृम्भिते च धनुःश्रेष्ठे न्यासार्थं नृपसत्तमः ॥ 21 ॥ 4-7-21 (28428)
धर्मपुत्रो महातेजाः सर्वलोकवशंकरम्।
भुजङ्गभोगसदृशं मणिकाञ्चनभूषितम् ॥ 22 ॥ 4-7-22 (28429)
वित्रासनं दानवानां राक्षसानां च नित्यशः ।
धनूरत्नं महातेजा जृम्भयामास पाण्डवः ॥ 23 ॥ 4-7-23 (28430)
पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्पुरा ।
प्रत्यषेधद्बहूनेकः सपत्नांश्चापि दिग्जये ॥ 24 ॥ 4-7-24 (28431)
निशम्य यस्य विष्कारं विद्रवन्ति रणे परे ।
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥ 25 ॥ 4-7-25 (28432)
सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत् ।
येन क्रोधवशाञ्जघ्ने पर्वते गन्धमादने ॥ 26 ॥ 4-7-26 (28433)
दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः।
त्रिगर्तान्येन संग्रामे जित्वा त्रैगर्तमानयत् ॥ 27 ॥ 4-7-27 (28434)
इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् ।
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥ 28 ॥ 4-7-28 (28435)
नकुलं पुनराहूय धर्मराजो युधिष्ठिरः।
उवाच येन संग्रामे सर्वशत्रूञ्जिघांससि ॥ 29 ॥ 4-7-29 (28436)
सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् ।
सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् ॥ 30 ॥ 4-7-30 (28437)
तवानुरूपं सुकृतं चापमेतदलङ्कृतम्।
तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ 31 ॥ 4-7-31 (28438)
वैशम्पायन उवाच। 4-7-32x (3006)
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः।
माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ॥ 32 ॥ 4-7-32 (28439)
तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि ।
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ॥ 33 ॥ 4-7-33 (28440)
सहदेवं च संप्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत्।
कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः ॥ 34 ॥ 4-7-34 (28441)
येनैव शत्रून्समरे अधाक्षीररिमर्दन।
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ 35 ॥ 4-7-35 (28442)
वैशम्पायन उवाच। 4-7-36x (3007)
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः ।
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥ 36 ॥ 4-7-36 (28443)
दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् ।
विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि ।
आयुधानि कलापांश्च गदाश्च निदधुः सह ॥ 37 ॥ 4-7-37 (28444)
अथाब्रवीद्धर्मराजः सहदेवं परन्तपः।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ 38 ॥ 4-7-38 (28445)
इदं गोमृगमभ्याशे गतसत्वमचेतनम् ।
एतदुत्कृत्य वै वीर धनूंपि परिवेष्टय ॥ 39 ॥ 4-7-39 (28446)
एवमुक्तो महाबाहुः सहदेवो यथोक्तवत् ।
शमीमारुह्य त्वरितो धनूंपि परिवेष्टयत् ॥ 40 ॥ 4-7-40 (28447)
शीतवातातपभयाद्वर्पत्राणाय दुर्जयः।
तानि वीरो यथा जानन्निरावाधानि सर्वशः ।
पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतमावरम् ॥ 41 ॥ 4-7-41 (28448)
यत्र चापश्यत स वै तिरोवर्पाणि वर्पति।
तत्र तानि दृढैः पाशैः सुगाढं पर्यवन्धत ॥ 42 ॥ 4-7-42 (28449)
ततः परमदूरस्थमुञ्छवृत्तिकलेवरम्।
प्रायोपवेशनाच्छुष्कं स्नायुचर्मास्थिसंयुतम् ॥ 43 ॥ 4-7-43 (28450)
तच्चानीय धनुर्मध्ये निबबन्धु पाण्डवाः ।
उपायकुशलाः सर्वे प्रणदन्तः समब्रुवन् ॥ 44 ॥ 4-7-44 (28451)
अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः।
दूरात्परिहरिष्यन्ति सशवेयं शमी इति ॥ 45 ॥ 4-7-45 (28452)
अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः।
रञ्जुभिः सुकृतं प्राज्ञ विनिर्वध्नीहि पाण्डव ॥ 46 ॥ 4-7-46 (28453)
यानि चात्र विशालानि रूढमूलानि मन्यसे।
तेपामुपरि बध्नीहि इदं विप्रकलवरम् ॥ 47 ॥ 4-7-47 (28454)
वैशम्पायन उवाच। 4-7-48x (3008)
तच्छ्रुत्वा सहदेवस्तु पर्यबध्नत तच्छवम् ॥ 48 ॥ 4-7-48 (28455)
युधिष्ठिरः शुचिर्भूत्वा मनसाऽभिप्रणम्य च।
ब्रह्माणामिन्द्रं वरदं कुबेरं वरुणानिलौ ॥ 49 ॥ 4-7-49 (28456)
रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च ।
पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा ।
वसूश्चं मरुतश्चैव ज्वलनं चातितेजसम् ॥ 50 ॥ 4-7-50 (28457)
दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि ।
तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेपां शरणं गतोऽहम् ॥ 51 ॥ 4-7-51 (28458)
सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै।
न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम् ॥ 52 ॥ 4-7-52 (28459)
एष न्यासो मया दत्तः सोममूर्यानिलान्तिके।
मम पार्थस्य वा देयं पूर्णे वर्षे त्रयोदशे ॥ 53 ॥ 4-7-53 (28460)
नेदं भीमे प्रदातव्यमयं क्रुद्धो वृकोदरः।
आमर्षान्नित्यसंक्रुद्धो धृतराष्ट्रसुतान्प्रति।
अपूर्णकाले प्रहरेत्क्रोधसंजातमत्सरः ॥ 54 ॥ 4-7-54 (28461)
पुनः प्रवेशो नः स्यात्तु वनवासाय सर्वदा ।
समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे ॥ 55 ॥ 4-7-55 (28462)
एष चार्थश्च धर्मश्च कामः कीर्तिरलं यशः।
मदायत्तमिदं सर्वं जीवितं च न संशयः ॥ 56 ॥ 4-7-56 (28463)
वैशम्पायन उवाच। 4-7-57 (28464)
दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम्।
नगरं गन्तुमायाताः सर्वे ते भ्रातरः सह ॥ 57 ॥ 4-7-57 (28465)
आगोपालाविपालेभ्यः कर्षकेभ्यः परंतप।
आजग्मुर्नगराभ्याशं दर्शयन्तः पुनः पुनः ॥ 58 ॥ 4-7-58 (28466)
अशीतिशतवर्पेयं माताऽस्माकमिहान्तिके ।
बहुकालपरीणामा मृत्योस्तु वशमेयुपी ।
न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः ॥ 59 ॥ 4-7-59 (28467)
यः समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया।
तमेवमृचुर्धर्मज्ञाः कुलधर्मो न ईदृशः ॥ 60 ॥ 4-7-60 (28468)
विश्रावयन्तस्ते हृष्टा दिशः सर्वा व्यनादयन् ।
स्वर्गतेयमिहास्माकं जननी शोकविह्वला ॥ 61 ॥ 4-7-61 (28469)
वने विचरमाणानां लुब्धानां वनचारिणाम्।
कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा ॥ 62 ॥ 4-7-62 (28470)
एवं ते सुकृतं कृत्वा समन्तादवघुष्य च।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रावुभावपि ॥ 63 ॥ 4-7-63 (28471)
युधिष्ठिरश्च कृष्णा च राजपत्नी सुमध्यमा।
ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा ॥ 64 ॥ 4-7-64 (28472)
मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा।
अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् ॥ 65 ॥ 4-7-65 (28473)
अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः ।
जयो जयेशो विजयो जयत्सेनो जयद्बलः। 4-7-66 (28474)
आपत्सु नामभिस्त्वेतैः समाह्वामः परस्परम् ॥ 66 ॥
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्। 4-7-67 (28475)
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥ 67 ॥ ॥ 4-7-68 (28476)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि सप्तमोऽध्यायः ॥ 7 ॥
विराटपर्व - अध्याय 008
॥ श्रीः ॥
4.8. अध्यायः 008
Mahabharata - Virata Parva - Chapter Topics
विराटनगरं गच्छता युधिष्ठिरेण दुर्गायाः स्तवनम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-8-0 (28477)
[वैशम्पायन उवाच। 4-8-0x (3009)
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥ 4-8-1 (28478)
यशोदागर्भसंभूतां नारायणवरप्रियाम् ।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ॥ 2 ॥ 4-8-2 (28479)
कंसविद्रावणकरीमसुराणां क्षयंकरीम्।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥ 3 ॥ 4-8-3 (28480)
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम्।
दिव्याम्बरधरां देवीं खङ्गखेटकधारिणीम् ॥ 4 ॥ 4-8-4 (28481)
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् ।
तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् ॥ 5 ॥ 4-8-5 (28482)
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ 6 ॥ 4-8-6 (28483)
नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥ 7 ॥ 4-8-7 (28484)
चतुर्भुजे चतुर्वक्रे पीनश्रोणिपयोधरे।
मयूरपिच्छवलये केयूराङ्गदधारिणि ॥ 8 ॥ 4-8-8 (28485)
भासि देवि यथा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ 9 ॥ 4-8-9 (28486)
कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहु शक्रध्वजसमुच्छ्रयौ ॥ 10 ॥ 4-8-10 (28487)
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ 11 ॥ 4-8-11 (28488)
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥ 12 ॥ 4-8-12 (28489)
मुकुटेन विचित्रेण केशबन्धेन शोभिना।
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥ 13 ॥ 4-8-13 (28490)
विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥ 14 ॥ 4-8-14 (28491)
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ 15 ॥ 4-8-15 (28492)
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ 16 ॥ 4-8-16 (28493)
जया त्वं विजया चैव संग्रामे च जयप्रदा।
ममापि विजयं देहि वरदा त्वं च सांप्रतम् ॥ 17 ॥ 4-8-17 (28494)
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम्।
कालि कालि महाकालि शीधुमांसपशुप्रिये ॥ 18 ॥ 4-8-18 (28495)
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ 19 ॥ 4-8-19 (28496)
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ।
न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा ॥ 20 ॥ 4-8-20 (28497)
दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः ।
कान्तारेष्ववसन्नानां मग्रानां च महार्णवे।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ 21 ॥ 4-8-21 (28498)
जलप्रतरणे चैव कान्तारेष्वटवीषु च।
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ॥ 22 ॥ 4-8-22 (28499)
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः।
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिःक्षमादया ॥ 23 ॥ 4-8-23 (28500)
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम्।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ 24 ॥ 4-8-24 (28501)
सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ 25 ॥ 4-8-25 (28502)
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ 26 ॥ 4-8-26 (28503)
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।
उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ 27 ॥ 4-8-27 (28504)
देव्युवाच । 4-8-28x (3010)
शृणु राजन्महाबाहो मदीयं वचनं प्रभो।
भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥ 28 ॥ 4-8-28 (28505)
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ 29 ॥ 4-8-29 (28506)
भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ 30 ॥ 4-8-30 (28507)
ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ 31 ॥ 4-8-31 (28508)
प्रवासे नगरे वाऽपि संग्रामे शत्रुसंकटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ 32 ॥ 4-8-32 (28509)
ये स्मरिष्यन्ति मां राजन्यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किंचितस्मिँल्लोके भविष्यति ॥ 33 ॥ 4-8-33 (28510)
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ 34 ॥ 4-8-34 (28511)
मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।
न प्रज्ञास्यन्ति कुरको नरा वा तन्निवासिनः ॥ 35 ॥ 4-8-35 (28512)
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम्।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥] 36 ॥ ॥ 4-8-36 (28513)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-8-3 शिलातटे कंसेनैव विनिक्षिप्ता सती आकाशं गता ताम् ॥ 3 ॥ 4-8-6 स्तोत्रार्थमेव संभव उद्भवो येषां नाम्नां वरदे इत्यादीनांतैः। आमन्त्र्य संबोध्य ॥ 6 ॥ 4-8-9 पद्मा लक्ष्मीं अत एव नारायणपरिग्रहो विष्णुकान्ता ॥ 9 ॥ 4-8-10 कृष्णच्छविर्नीलमेघस्तेन समा अत एव कृष्णा । अष्टभुजामाह बिभ्रतीति। विपुलौ वराभयप्रदत्वेन ऊर्जितौ द्वौ बाहू ॥ 10 ॥ 4-8-11 तत एकः पात्री पात्रवान्पङ्कजी पङ्कजवान् घण्टी घण्टावान् पञ्चमः पाशं धनुर्महाचक्रं च बिभ्रतीति पूर्वेणान्वयः ॥ 11 ॥विराटपर्व - अध्याय 009
॥ श्रीः ॥
4.9. अध्यायः 009
Mahabharata - Virata Parva - Chapter Topics
युधिष्ठिरेण यतिवेषपरिग्रहेण विराटसभाप्रवेशः ॥ 1 ॥ प्रत्युत्थानादिना सत्कृतेन युधिष्ठिरेण विराटभवने निवासः ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-9-0 (28514)
वैशम्पायन उवाच। 4-9-0x (3011)
ततस्तु ते पुण्यजलां शिवां शुभां महर्षिगन्धर्वनिषेवितोदकाम्।
त्रिलोककान्तामवतीर्य जाह्नवीमृषींश्च देवांश्च पितृनतपर्यन् ॥ 1 ॥ 4-9-1 (28515)
वरप्रदानं ह्यनुचिन्त्य पार्थिवे हुत्वाऽग्निहोत्रं कृतजप्यमङ्गलः ।
दिशं तथैन्द्रीमभितः प्रपेदिवान्कृताञ्जलिर्धर्ममुपाह्वयच्छनैः ॥ 2 ॥ 4-9-2 (28516)
युधिष्ठिर उवाच। 4-9-3x (3012)
वरप्रदानं मम दत्तवान्पिता प्रसन्नचेता वरदः प्रजापतिः ।
जलार्थिनो मे तृषितस्य सोदरा मया प्रयुक्ता विविशुर्जलाशयम् ॥ 3 ॥ 4-9-3 (28517)
निपातिता यक्षवरेण ते वने महाहवे वज्रभृतेव दानवाः ।
मया च गत्वा वरदो हि तोषितो विवक्षता प्रश्नसमुच्चयं गुरुः ॥ 4 ॥ 4-9-4 (28518)
स मे प्रसन्नो भगवान्वरं ददौ परिष्वजंश्चाह तथैव सौहृदात्।
वृणीष्व यद्वाञ्छसि पाण्डुनन्दन स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य माम् ॥ 5 ॥ 4-9-5 (28519)
स वै मयोक्तो वरदः पिता प्रभुः सदैव मे धर्मरता मतिर्भवेत्।
इमे च जीवन्तु ममानुजाः प्रभो वयं स्वरूपं च जयं तथाऽऽप्नुमः ॥ 6 ॥ 4-9-6 (28520)
क्षमा च कीर्तिश्च यथेप्सितं भवेद्व्रतं तु सत्यं च समाप्तिरेव च।
वरो ममैषोस्तु यथाऽनुकीर्तितो न तन्मृषा देववृषो यथाऽब्रवीत् ॥ 7 ॥ 4-9-7 (28521)
वैशम्पायन उवाच। 4-9-8x (3013)
इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन्।
तदैव तत्प्रसादेन रूपमेवाभवत्स्वयम् ॥ 8 ॥ 4-9-8 (28522)
स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत।
सुरक्तमाञ्जिष्ठवराम्बरः शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम् ॥ 9 ॥ 4-9-9 (28523)
तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः।
क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् ॥ 10 ॥ 4-9-10 (28524)
नवेन रूपेण विशांपतिर्युतस्त्वथर्वरूपेण बभौ प्रतापवान्।
निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससः ॥ 11 ॥ 4-9-11 (28525)
ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम्।
अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम् ॥ 12 ॥ 4-9-12 (28526)
सभासदं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः ।
उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः ॥ 13 ॥ 4-9-13 (28527)
गजैरुदीर्मं तुरगैश्च सङ्कुलं मृगद्विपैः कुब्जगणैः समावृतम् ।
सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम् ।
विराटमायाच्च युधिष्ठिरस्तदा बृहस्पतिः शक्रमिव त्रिविष्टपे ॥ 14 ॥ 4-9-14 (28528)
तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं विराटराजो मुदितेन चक्षुषा ।
पप्रच्छ चैनं स नराधिपो मुहुर्द्विजाश्च ये चास्य सभासदस्तदा ॥ 15 ॥ 4-9-15 (28529)
विराट उवाच । 4-9-16x (3014)
को वा विजानाति पुराऽस्य दर्शनं युवा सभां योऽयमुपैति मामिकाम्।
रूपेण सारेण विराजयन्महीं श्रिया ह्ययं वैश्रवणो द्विजो यथा ॥ 16 ॥ 4-9-16 (28530)
मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा।
विराजते पावकसूर्यसन्निभं सचन्द्रनक्षत्र इवांशुमान्ग्रहः ॥ 17 ॥ 4-9-17 (28531)
न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम् ।
न कुण्डलं नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्रतुर्युजः ॥ 38 ॥ 4-9-18 (28532)
क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः ।
अभ्यागतोऽस्माननलंकृतोपि सन् विरोचते भानुरिवाचिरोदितः ॥ 19 ॥ 4-9-19 (28533)
विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति।
ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः ॥ 20 ॥ 4-9-20 (28534)
नाक्षत्रियो नूनमयं भविष्यति मूर्धाभिषिक्तः प्रतिभाति मां प्रति ।
तुल्यं हि रूपं प्रतिदृश्यतेऽस्य गजस्य सिंहस्य तथर्षभस्य ॥ 21 ॥ 4-9-21 (28535)
यमेष कामं परिमार्गते द्विजः स चास्य सर्वः क्रियतामसंशयम् ।
प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथाऽतिथिष्वपि ॥ 22 ॥ 4-9-22 (28536)
धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः ॥ 23 ॥ 4-9-23 (28537)
वैशम्पायन उवाच । 4-9-24x (3015)
एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः।
अन्येन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यपाणिनम् ॥ 24 ॥ 4-9-24 (28538)
समुत्थिता सा हि सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका ।
सभागत प्रेक्ष्य तपन्तमर्चिषां विनिःसृतं राहुमुखाद्यथा रविम् ॥ 25 ॥ 4-9-25 (28539)
स तेन पूर्वं जयतां भवानिह द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः ।
जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम् ॥ 26 ॥ 4-9-26 (28540)
तमब्रवीत्प्राञ्जलिरेष पार्थिवो विराटराजो मधुराक्षरं वचः।
प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज ॥ 27 ॥ 4-9-27 (28541)
श्रुतं च शीलं च कुलं च शंस मे गोत्रं तथा नाम च देशमेव ते।
सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः ॥ 28 ॥ 4-9-28 (28542)
यथाऽनुरूपं प्रचरामि ते त्वहं न चावमन्ता न तवाभिभाषितम् ।
अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः ॥ 29 ॥ 4-9-29 (28543)
सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशां विसृजामि ते पुरम् ।
कस्यासि राज्ञो विषयादिहागतः किं कर्म चात्राचरसि द्विजोत्तम ॥ 30 ॥ 4-9-30 (28544)
वैशम्पायन उवाच। 4-9-31x (3016)
एवं ब्रुवाणं तमुवाच पार्थिवं युधिष्ठिरो धर्ममवेक्ष्य चासकृत् ।
सत्यं वचः को न्विह वक्तुमुत्सहेद्यथाप्रतिज्ञं तु शृणुष्व पार्थिव ॥ 31 ॥ 4-9-31 (28545)
श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च देशमेव च ।
गुरूपदेशान्नियमाच्च मे व्रतं कुलक्रमार्थं पितृभिर्नियोजितम् ॥ 32 ॥ 4-9-32 (28546)
द्विजो व्रतेनास्मि न च स्वतः प्रभो संमुण्डितः प्रव्रजितस्त्रिदण्डभृत् ।
इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः ॥ 33 ॥ 4-9-33 (28547)
ममेह पञ्चेन्द्रियगात्रदर्शिनो वदन्ति पञ्चैव पितॄन्यथा श्रुतिः ।
मनुष्यजातित्वमचिन्तयन्नहं न चास्मि तुल्यः पितृभिः स्वभावतः ॥ 34 ॥ 4-9-34 (28548)
कङ्को हि नाम्ना विषयं तवागतो व्रती द्विजातिः स्वकृतेन कर्मणा।
द्यूतप्रसङ्गादधनोऽस्मि राजन्सत्यप्रतिज्ञा व्रतिनश्चरामः ॥ 35 ॥ 4-9-35 (28549)
युधिष्ठिरस्यापि सखाऽभवं पुरा गृहप्रवेशी च शरीरमेव च।
गृहे च तस्योपितवानहं सुखं राजाऽस्मि तस्य स्वपुरेऽभवं पुरा ॥ 36 ॥ 4-9-36 (28550)
ममाज्ञया तत्र विचेरुरङ्गना मम प्रियार्थं दमयन्ति वाजिनः ।
मया कृतं तस्य पुरे तु यत्पुरा न तत्कदाचित्कृतवाञ्जनोऽन्यथा ॥ 37 ॥ 4-9-37 (28551)
सोहं पुरा तस्य वयस्समः सखा चरामि सर्वां वसुधां सुदुःखितः ।
न तु प्रशान्तिं क्वचिदाप्तवानहं व्रतोपदेशान्नियमेन भारिकः ॥ 38 ॥ 4-9-38 (28552)
वैयाघ्रपद्योस्मि नरेन्द्र गोत्रतस्तदेव सौख्यं मृगयामहे वयम्।
कृतज्ञभावेन मयाऽनुकीर्तितं युधिष्ठिरस्यात्मसमस्य चेष्टितम् ॥ 39 ॥ 4-9-39 (28553)
इमं हि मोक्षाश्रममास्थितस्य मे युधिष्ठिरस्तुल्यगुणो भवानपि ।
न मेऽस्ति माता न पिता न बान्धवा न मेऽस्ति रूपं न रतिर्न सन्ततिः ॥ 40 ॥ 4-9-40 (28554)
सुखं च दुःखं च हि तुल्यमद्य मे प्रियाप्रिये तुल्यगते गतागते।
मुक्तोस्मि कामाच्च धनाच्च सांप्रतं त्वदाश्रये वस्तुमिहाभ्युपागतः ॥ 41 ॥ 4-9-41 (28555)
संवत्सरेणेह समाप्यते त्विदं मम व्रतं दुष्करकर्मकारिणः।
ततो भवन्तं परितोष्य कर्मभिः पुनर्व्रजिष्ये च कुतूहलं यतः ॥ 42 ॥ 4-9-42 (28556)
अक्षान्निवप्तुं कुशलोस्म्वहं सदा पराजितः शकुनिरुतानि चिन्तयन् ।
मृगद्विजानां च रुतानि चिन्तयन्निराश्रयः प्रव्रजितोस्मि भिक्षुकः ॥ 43 ॥ 4-9-43 (28557)
वैशम्पायन उवाच । 4-9-44x (3017)
तेनैवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं विलोक्य च ।
अथाब्रवीद्धृष्टमनाः शुभाक्षरं मनोनुगं सर्वसभागतं वचः ॥ 44 ॥ 4-9-44 (28558)
ददामि ते हन्त वरं यदीप्सितं प्रशाधि मत्स्यान्यदि मन्यते भवान्।
प्रिया हि धूर्ता मम चाक्षकोविदास्त्वं चापि देवो मम राज्यमर्हसि ॥ 45 ॥ 4-9-45 (28559)
समानयानासनवस्त्रभोजनं प्रभ्रूतमाल्याभरणानुलेपनम्।
स सार्वभौमोपम सर्वदाऽर्हसि प्रियं हि मन्ये तव नित्यदर्शनम् ॥ 46 ॥ 4-9-46 (28560)
ये त्वाऽभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदि वेतरे जनाः।
सर्वाणि कार्याण्यहमर्थितस्त्वया तेषां करिष्यामि न मेऽत्र संशयः ॥ 47 ॥ 4-9-47 (28561)
ममान्तिके यश्च तवाप्रियं चरेत्प्रवासये तं परिचिन्त्य मानवम् ।
यच्चापि किंचिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च ॥ 48 ॥ 4-9-48 (28562)
युधिष्ठिर उवाच। 4-9-49x (3018)
अतोऽभिलाषः परमो न विद्यते न मे जितं किंचन धारये धनम्।
न भोजनं किंचन संस्पृशेयं हविष्यभोजी निशि च क्षितीशयः ॥ 49 ॥ 4-9-49 (28563)
व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित्।
एवंप्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा ॥ 50 ॥ 4-9-50 (28564)
एवं वरं मात्स्य वृणे प्रदापितं कृति भविष्यामि वरेण तेऽनघ ॥ 51 ॥ 4-9-51 (28565)
वैशम्पायन उवाच। 4-9-52x (3019)
एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च।
विराटराजस्य हि तेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना ॥ 52 ॥ 4-9-52 (28566)
तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः।
सभां च तां प्रज्वलयन्युधिष्ठिरः श्रिया यथा शक्रइव त्रिविष्टपम् ॥ 53 ॥ 4-9-53 (28567)
एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा।
उवास वीरः परमार्चितः सुखी न चास्य कश्चिच्चरितं बुबोध तत् ॥ 54 ॥ ॥ 4-9-54 (28568)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि नवमोऽध्यायः ॥ 9 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-9-6 वयश्च रूपं च बलं तथाऽऽप्नुयुरिति थo धo पाठः ॥ 6 ॥ 4-9-24 अन्येन रूपेण यतिवेषेण आगतं दृष्ट्वेति शेषः ॥ 24 ॥विराटपर्व - अध्याय 010
॥ श्रीः ॥
4.10. अध्यायः 010
Mahabharata - Virata Parva - Chapter Topics
भीमेन सूदवेषपरिग्रहेण विराटसभाप्रवेशः ॥ 1 ॥ विराटेन भीमस्य पाकाधिकारे नियोजनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-10-0 (28569)
वैशम्पायन उवाच । 4-10-0x (3020)
अथापरस्यां दिशि भीमदर्शनो वृकोदरोऽदृश्यत सिंहविक्रमः।
असिप्रवेके प्रतिमुच्य शाणिते खजां च दर्वी च करेण धारयन् ॥ 1 ॥ 4-10-1 (28570)
त्वचं च गोचर्ममयीं सुमर्दितां समुक्षितां पानकरागषाडवैः ।
किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् ॥ 2 ॥ 4-10-2 (28571)
गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रकाशयन्।
स कृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान् ॥ 3 ॥ 4-10-3 (28572)
सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन्।
सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः ॥ 4 ॥ 4-10-4 (28573)
तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम्।
भयात्समुद्विग्नविपण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत् ॥ 5 ॥ 4-10-5 (28574)
तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम्।
समीक्ष्य वैक्लब्यमुपेयिवाञ्शनैर्जनाश्च भीताः परिसर्पिरे भृशम् ॥ 6 ॥ 4-10-6 (28575)
अथाब्रवीन्मात्स्यपतिः सभागतान् भृशातुरोष्णं परिनिश्वसन्निव ।
कोऽयं युवा वारणराजसन्निभः सभामभिप्रैति हि मामिकामिमाम् ॥ 7 ॥ 4-10-7 (28576)
को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतिं हि मामकः।
व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते ॥ 8 ॥ 4-10-8 (28577)
राजश्रिया ह्येष विभाति राजवद्विरोचते रुक्मगिरिप्रभोपमः।
नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ ॥ 9 ॥ 4-10-9 (28578)
रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शत्रः इवाभिपालयेत्।
नाभूमिपोऽयं हि रतिर्ममेति च च्युतः समृद्ध्या नभसीव नाहुषः ॥ 10 ॥ 4-10-10 (28579)
वैशम्पायन उवाच। 4-10-11x (3021)
वितर्कमाणस्य च तस्य पाण्डवः सभामतिक्रम्य वृकोदरोऽब्रवीत्।
जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम् ॥ 11 ॥ 4-10-11 (28580)
ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम्।
त्वां जीवितुं शत्रुहन्नागतोऽहं त्वमेव लोके परमो हि संश्रयः ॥ 12 ॥ 4-10-12 (28581)
नरेन्द्र शूद्रोस्मि चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत्।
जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान् ।
रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत् ॥ 13 ॥ 4-10-13 (28582)
वैशम्पायन उवाच । 4-10-14x (3022)
तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत्।
न शूद्रतां कांचन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ ॥ 14 ॥ 4-10-14 (28583)
हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे ।
न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम ॥ 15 ॥ 4-10-15 (28584)
अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः।
न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि ॥ 16 ॥ 4-10-16 (28585)
भीम उवाच । 4-10-17x (3023)
चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम्।
जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः ॥ 17 ॥ 4-10-17 (28586)
युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः।
अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् ॥ 18 ॥ 4-10-18 (28587)
त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् ।
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव ॥ 19 ॥ 4-10-19 (28588)
गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम्।
न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति ॥ 20 ॥ 4-10-20 (28589)
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि।
ये सन्ति मल्ला बलवीर्यसंमतास्तानेव योत्स्यामि तवाभिहर्पयन् ॥ 21 ॥ 4-10-21 (28590)
वैशम्पायन उवाच। 4-10-22x (3024)
तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत्।
सोहं न मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि ॥ 22 ॥ 4-10-22 (28591)
त्रिलोकपालो हि यथा विराजसे तथाऽद्य मे विष्णुरिवातिरोचसे।
यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः ।
नराश्च मे तत्र मया सदाऽर्चिता भवाद्य तेषामधिपो मया कृतः ॥ 23 ॥ 4-10-23 (28592)
तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः।
उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन ॥ 24 ॥ ॥ 4-10-24 (28593)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि दशमोऽध्यायः ॥ 10 ॥
विराटपर्व - अध्याय 011
॥ श्रीः ॥
4.11. अध्यायः 011
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन षण्डवेषपरिग्रहेण विराटसभाप्रवेशः ॥ 1 ॥ विराटेनार्जुनस्य कन्यानाटने नियोजनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-11-0 (28594)
वैशम्पायन उवाच। 4-11-0x (3025)
अथापरोऽदृश्यत वर्णवान्युवा स्त्रीवेषधारी समलंकृतो भृशम्।
प्रवालचित्रे प्रविमुच्य कुण्डले उभे च कम्बू परिपातुके तथा ॥ 1 ॥ 4-11-1 (28595)
कृष्णे च रक्ते च निबध्य वाससी शरीरवाञ्शुक्रबृहस्पतिप्रभः।
बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्महाभुजो मत्तगजेन्द्रविक्रमः ॥ 2 ॥ 4-11-2 (28596)
क्लैब्येन वेषेण न भति भाति च ग्रहाभिपन्नो नभसीव चन्द्रमाः ।
गतेन चोर्वी परिकम्पयंस्तदा विराटमासाद्य सभासमीपतः ॥ 3 ॥ 4-11-3 (28597)
तं प्रेक्ष्य राजोपगतं सभातले व्याजाप्रतिच्छन्नममित्रमर्दनम् ।
विराजमानं सुरराजवर्चसं सुतं सुरेन्द्रस्य गजेन्द्रविक्रमम् ॥ 4 ॥ 4-11-4 (28598)
सर्वानपृच्छच्च समीपचारिणः कुतोऽयमायाति न मे पुरा श्रुतः।
न चैनमूचुर्विदितं नरास्तदा सविस्मयं वाक्यमिदं नृपोऽब्रवीत् ॥ 5 ॥ 4-11-5 (28599)
विराट उवाच। 4-11-6x (3026)
गजेन्द्रलीलो मृगराजगामी वृषेक्षणो देवसुतोग्रतेजाः।
पीनांसबाहुः कनकावदातः कोऽयं नरो मे नगरं प्रविष्टः ॥ 6 ॥ 4-11-6 (28600)
किमेष देवेन्द्रसुतः किमेष ब्रह्मात्मजो वा किमयं स्वयंभूः।
उमासुतो वैश्रवणात्मजो वा प्रेक्ष्यैनमासीदिति मे वितर्कः ॥ 7 ॥ 4-11-7 (28601)
वैशम्पायन उवाच। 4-11-8x (3027)
सभामतिक्रम्य स वासवोपमो निरीक्षमाणो बहुभिः सभागतैः।
स तत्र राजनममित्रहाऽब्रवीद्बृहन्नलाहं नरदेव नर्तकी ॥ 8 ॥ 4-11-8 (28602)
वेणीं प्रकुर्यां रुचिरे च कुण्डले ग्रथे स्रजः प्रावरणानि संहरे।
स्नानं चरेयं विमृजे च दर्पणं विशेषकेष्वेव च कौशलं मम ॥ 9 । 4-11-9 (28603)
क्लीबेषु बालेषु जनेषु नर्तने शिक्षाप्रदानेषु च योग्यता मम।
करोमि वेणीषु च पुष्पपूरकं न मे स्त्रियः कर्मणि कौशलाधिकाः ॥ 10 ॥ 4-11-10 (28604)
इत्यर्जुनस्तं नरदेवमोजसा विज्ञाप्य तस्थौ विधिनाऽऽत्मनः क्रियाम्।
तमब्रवीत्प्रांशुमुदीक्ष्य विस्मितो विराटराजोपसृतं महायशाः ॥ 11 ॥ 4-11-11 (28605)
नार्हस्तु वेषोऽयमनूर्जितस्ते नापुंस्त्वमर्हं नरदेवसिंह ।
तवैव वेषः शुभवेषभूषणैर्विभूषितो भूतपतेरिव प्रभो ॥ 12 ॥ 4-11-12 (28606)
विभाति भानोरिव रश्मिमालिनो घनावरुद्धे गगने घनैरिव।
धनुर्हि मन्ये तव शोभयेद्भुजौ तथाहि पीनावतिमात्रमायतौ ॥ 13 ॥ 4-11-13 (28607)
प्रगृह्य चापं त्वनुरूपमात्मनो रक्षस्व देशं पुरमद्य सुस्थिरः।
पुत्रेण तुल्यो भव मे बृहन्नले वृद्धोस्मि वित्तं प्रतिपादयामि ते ॥ 14 ॥ 4-11-14 (28608)
त्वं रक्ष मे सर्वमिदं पुरं प्रभो न षण्डतां कांचन लक्षयामि ते।
प्रशाधि मत्स्यांस्तरसा विवर्धयन्ददामि राज्यं तव सत्यवागहम् ॥ 15 ॥ 4-11-15 (28609)
वैशम्पायन उवाच। 4-11-16x (3028)
तस्याग्रतः स्वानि धनूंषि पार्थिवो बहूनि दीर्घाणि च वर्णवन्ति च।
ददौ स सज्यानि बलान्वितानि जिज्ञासमानः किमयं करिष्यति ॥ 16 ॥ 4-11-16 (28610)
ततोऽर्जुनः क्लीबतरं वचोऽब्रवीन्न मे धनुर्धारितमीदृशं विभो।
न चापि दृष्टं धनुरीदृशं क्वचिन्न मादृशाः सन्ति धनुर्धरा भुवि ॥ 17 ॥ 4-11-17 (28611)
नृत्याम गायामि च वादयाम्यहं प्रानर्तने कौशलनैपुणं मम।
तदुत्तरायाः परिधत्स्व नर्तने भवामि देव्या नरदेव नर्तकी ॥ 18 ॥ 4-11-18 (28612)
विराट उवाच। 4-11-19x (3029)
ददामि ते तं हि वरं बृहन्नले सुतां हि मे नर्तय याश्च तादृशीः ।
ततो विराटः स्वयमाह्वयत्सुतां नराधिपस्तां च सुमध्यसुन्दरीम् ॥ 19 ॥ 4-11-19 (28613)
उवाच चैनां मुदितेन चेतसा बृहन्नला नाम सखी भवत्वियम्।
सुगात्रि संप्रीतिसुबद्धसौहृदा तवाङ्गने प्राणसमा च नित्यदा ॥ 20 ॥ 4-11-20 (28614)
प्रकामभक्ष्याभरणाम्बरा शुभा चरत्वियं सर्वजनेष्ववारिता।
न दुष्कुलानामियमाकृतिर्भवेन्न वृत्तभेदी भवतीदृशो जनः ॥ 21 ॥ 4-11-21 (28615)
वैशम्पायन उवाच। 4-11-22x (3030)
संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै।
अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् ॥ 22 ॥ 4-11-22 (28616)
स शिक्षयामास च गीतवदनं सुतां विराटस्य धनंजयः प्रभुः ।
सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तस्याः स बभूव पाण्डवः ॥ 23 ॥ 4-11-23 (28617)
तथा स तत्रैव धनंजयोऽवसत्प्रियाणि कुर्वन्त्सह ताभिरात्मवान्।
तथा गतं तत्र न जझिरे जना बहिश्चरा वाऽप्यथवेतरे जनाः ॥ 24 ॥ ॥ 4-11-24 (28618)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि एकादशोऽध्यायः ॥ 11 ॥
विराटपर्व - अध्याय 012
॥ श्रीः ॥
4.12. अध्यायः 012
Mahabharata - Virata Parva - Chapter Topics
नकुलेन विराटमेत्य स्वस्याश्वशास्त्रे कौशलाभिधानम् ॥ 1 ॥ विराटेन नकुलस्याश्वपालने नियोजनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-12-0 (28619)
वैशम्पायन उवाच। 4-12-0x (3031)
अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति।
तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ 1 ॥ 4-12-1 (28620)
स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट्।
दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्बसभासदस्तदा ॥ 2 ॥ 4-12-2 (28621)
को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मासिकां सभाम् ।
प्रियो हि मे दर्शनतोपि संमतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम् ॥ 3 ॥ 4-12-3 (28622)
अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः।
प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा ॥ 4 ॥ 4-12-4 (28623)
वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात्।
ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् ॥ 5 ॥ 4-12-5 (28624)
तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः।
तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि ॥ 6 ॥ 4-12-6 (28625)
विराट उवाच। 4-12-7x (3032)
ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि।
कुतोसि कस्यामि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत् ॥ 7 ॥ 4-12-7 (28626)
नकुल उवाच। 4-12-8x (3033)
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः।
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥ 8 ॥ 4-12-8 (28627)
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः ।
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥ 9 ॥ 4-12-9 (28628)
न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा बडवा कुतो हयः।
जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ॥ 10 ॥ 4-12-10 (28629)
मातलिरिव देवपतेर्दशरथनृपतेः सुमत्र इव यन्ता।
सुमह इव जामदग्रेस्तथैव तव शिक्षयाम्यश्वान् ॥ 11 ॥ 4-12-11 (28630)
युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात्।
शतसाहस्रकोटीनामश्वानामस्मि रक्षिता ॥ 12 ॥ 4-12-12 (28631)
विराट उवाच। 4-12-13x (3034)
यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै।
ये चापि केचिन्मम वाजियोधास्त्वदाश्रयाः सारथयश्च सन्तु मे ॥ 13 ॥ 4-12-13 (28632)
इदं तवेष्टं विहितं सुरोपम ...हि यत्ते प्रसमीक्षितं वरम्।
...ऽनुरूपं हयकर्म दृश्यते विभाति राजेव न कर्म वाजिनाम् ॥ 14 ॥ 4-12-14 (28633)
युधिष्ठिरस्यैव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् ।
कथं नु भृत्यैः स विनाकृतो वने चरत्यनिन्द्यो रमते च पाण्डवः ॥ 15 ॥ 4-12-15 (28634)
वैशम्पायन उवाच । 4-12-16x (3035)
तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः।
न चैवमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा ॥ 16 ॥ ॥ 4-12-16 (28635)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वादशोऽध्यायः ॥ 12 ॥
विराटपर्व - अध्याय 013
॥ श्रीः ॥
4.13. अध्यायः 013
Mahabharata - Virata Parva - Chapter Topics
सहदेवेन गोपालवेषधारणेन विराटंप्रति गमनम् ॥ 1 ॥ विराटेन सहदेवस्य गोपालने नियोजनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-13-0 (28636)
वैशम्पायन उवाच। 4-13-0x (3036)
अथापरोऽदृश्यत वै शशी यथा हुतो हविर्भिर्हि यथाऽध्वरे शिखी।
तथा समालक्ष्यत चारुदर्शनः प्रकाशयन्सूर्य इवाचिरोदितः ॥ 1 ॥ 4-13-1 (28637)
तमाव्रजन्तं सहदेवमग्रणीर्नृपो विराटो नचिरात्समैक्षत।
प्रैक्षन्त तं तत्र पृथक्समागताः सभागताः सर्वमनोहरप्रभम्।
युवानमायान्तममित्रकर्शनं प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ 2 ॥ 4-13-2 (28638)
यष्ट्या प्रमाणान्वितया सुदर्शनं दामानि पाशं च निबद्ध्य पृष्ठतः।
मौर्वी च तन्त्रीं महतीं सुसंहितां बालैश्च तारैर्बहुभिः समावृताम् ॥ 3 ॥ 4-13-3 (28639)
स चापि राजानमुवाच वीर्यवान्कुरुष्व मां पार्थिव गोष्ववस्थितम्।
मया हि गुप्ताः पशवो भवन्तु ते प्रसन्ननिद्राः प्रभवोस्मि वल्लवः ॥ 4 ॥ 4-13-4 (28640)
न श्वापदेभ्यो न च रोगतो भयं न चापि दावान्न च तस्कराद्भयम्।
पयःप्रभूता बहुला निरामया भवन्ति गावः सुभृता नराधिप ॥ 5 ॥ 4-13-5 (28641)
निशम्य राजा सहदेवभाषितं निरीक्ष्य माद्रीसुतमभ्यनन्दत्।
उवाच हृष्टो मुदितेन चेतसा न बल्लवत्वं त्वयि वीर लक्षये ॥ 6 । 4-13-6 (28642)
धैर्याद्वपुः क्षात्रमिवेह ते दृढं प्रकाशते कौरववंशजस्य वा।
नापण्डितेयं तव दृश्यते तनुर्भवेह राज्ये मम मन्त्रधर्मभृत् ॥ 7 ॥ 4-13-7 (28643)
प्रशाधि मत्स्यान्सहराजकानिमान्बृहस्पतिः शत्रुयुतानिवामरान्।
बलं च मे रक्ष सुवेष सर्वशो गृहाण खङ्गं प्रतिरूपमात्मः ॥ 8 ॥ 4-13-8 (28644)
अनीककर्णाग्रधरो बलस्य मे प्रभुर्भवानस्तु गृहाण कार्मुकम् ॥ 9 । 4-13-9 (28645)
वैशम्पायन उवाच। 4-13-10x (3037)
विराटराज्ञाऽभिहितः कुरूत्तमः प्रशस्य राजानमभिप्रणम्य च।
उवाच मत्स्यप्रवरं महापतिः शृणुष्व राजन्मम वाक्यमुत्तमम् ॥ 10 ॥ 4-13-10 (28646)
बालो ह्यहं जातिविशेषदूषितः कुतोऽद्य मे नीतिषु युक्तमन्त्रता ।
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां गोपरिरक्षणेऽनघ ॥ 11 ॥ 4-13-11 (28647)
वैश्योस्मि नाम्नाऽहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् ।
वस्तुं त्वयीच्छामि विशांवरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान् ॥ 12 ॥ 4-13-12 (28648)
न जीवितुं शक्यमतोऽन्यकर्मणा न च त्वदन्यो मम रोचते विभो ॥ 13 ॥ 4-13-13 (28649)
विराट उवाच। 4-13-14x (3038)
त्वं ब्राह्मणो वा यदि वाऽपि भूमिपः समुद्रनेमीश्वररूपवानसि।
आचक्ष्व तत्वं त्वममित्रकर्शन न बल्लवत्वं त्वयि विद्यते समम् ॥ 14 ॥ 4-13-14 (28650)
कस्यामि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम्।
कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् ॥ 15 ॥ 4-13-15 (28651)
सहदेव उवाच। 4-13-16x (3039)
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः।
तस्याष्टौ शतसाहस्रं गवां वर्गाः शतंशतम् ॥ 16 ॥ 4-13-16 (28652)
अपरे दशसाहस्रा द्विस्तावन्तस्तथा परे।
तेषां गोसङ्ख्य आसं वै तन्त्रीपालेति मां विदुः ॥ 17 ॥ 4-13-17 (28653)
भूतं भव्यं भविष्यच्च यच्चान्यद्गोगतं क्वचित्।
न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् ॥ 18 ॥ 4-13-18 (28654)
गुणाः सुविदिता ह्यासन्मया तस्य महात्मनः।
आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ॥ 19 ॥ 4-13-19 (28655)
अनेन गणिता गावो दुर्विज्ञेया महत्तराः।
बहुक्षीरतरास्ता वै बह्व्यः सत्यः सपुत्रिकाः ॥ 20 ॥ 4-13-20 (28656)
क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित्।
तैस्तैरुपयैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि ॥ 21 ॥ 4-13-21 (28657)
ऋषभानपि जानामि राजन्पूजितलक्षणान्।
येषां मूत्रमुपाघ्राय वन्ध्या अपि प्रसूयते ॥ 22 ॥ 4-13-22 (28658)
वैशम्पायन उवाच। 4-13-23x (3040)
मत्स्याधिपो हर्षकलेन चेतसा माद्रीसुतं पाण्डवमभ्यभाषत।
नैवानुमन्ये तव कर्म कुत्सितं महीं समग्रामभिपातुमर्हसि ॥ 23 ॥ 4-13-23 (28659)
अथ त्विदानीं तव रोचते विभो यथेष्टतो गव्यमवेक्ष मामकम्।
त्वदर्पणा मे पशवो भवन्तु वै पशून्सपालान्भवते ददाम्यहम् ॥ 24 ॥ 4-13-24 (28660)
शतं सहस्राणि गवां हि सन्ति वर्णस्यवर्णस्य पृथग्गणानाम्।
ददामि तेऽहं वरमीप्सितं च यत्त्वदर्पणा मे पशवो भवन्त्विति ॥ 25 ॥ 4-13-25 (28661)
वैशम्पायन उवाच। 4-13-26x (3041)
एवं विराटेन समेत्य पाण्डवो लब्ध्वा च गोबल्लवतां यथेष्टतः।
अज्ञातचर्यामवसन्महात्मा यथा रविश्चास्तगिरिं प्रविष्टः ॥ 26 ॥ 4-13-26 (28662)
एवं विराटे न्यवसंश्च पाण्डवा यथा प्रतिज्ञाभिरमोघविक्रमाः ।
अबुद्धचर्यां चरितुं यथातथं समुद्रनेमीमभिशास्तुमुद्यताः ॥ 27 ॥ ॥ 4-13-27 (28663)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥
विराटपर्व - अध्याय 014
॥ श्रीः ॥
4.14. अध्यायः 014
Mahabharata - Virata Parva - Chapter Topics
द्रौपद्या सैरन्ध्रीवेषधारणेन सुदेष्णागृहे निवासः ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-14-0 (28664)
वैशम्पायन उवाच । 4-14-0x (3042)
ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता।
वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा ।
जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना ॥ 1 ॥ 4-14-1 (28665)
वासश्च परिधायैकं कृष्णा सुमलिनं महत्।
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ॥ 2 ॥ 4-14-2 (28666)
प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता।
तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् ॥ 3 ॥ 4-14-3 (28667)
अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि।
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता।
कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति ॥ 4 ॥ 4-14-4 (28668)
वैशम्पायन उवाच। 4-14-5x (3043)
तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा।
न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् ॥ 5 ॥ 4-14-5 (28669)
विराटस्य तु कैकेयी भार्या परमसंमता।
आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ॥ 6 ॥ 4-14-6 (28670)
सा समीक्ष्य तथारूपामनाथामेकवाससम्।
स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् ॥ 7 ॥ 4-14-7 (28671)
विराटभार्या तां देवी कारुण्याज्जातसंभ्रमा।
अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः ॥ 8 ॥ 4-14-8 (28672)
अपनीय ततः सर्वा आनयध्वमिहैव ताम्।
यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा।
तस्माच्छीघ्रमिहानाय दर्शयध्वं यदीच्छथ ॥ 9 ॥ 4-14-9 (28673)
तास्तथोक्ता उपागम्य द्रौपदीं परिसंगताः।
आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम् ॥ 10 ॥ 4-14-10 (28674)
भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले।
त्वदर्थं प्रैषयच्चास्मान्द्रष्टुं तां त्वं यदीच्छसि।
आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः ॥ 11 ॥ 4-14-11 (28675)
तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा।
ईप्सितर्थातिलाभेन हृष्टाऽऽयाता गृहोत्तमम् ॥ 12 ॥ 4-14-12 (28676)
राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता।
सुदेष्णामगमत्कृष्णा राजभार्यां यशस्विनीम् ॥ 13 ॥ 4-14-13 (28677)
कृष्णान्केशान्मृदून्दीर्घान्समुद्ग्रथ्यासितेक्षणा।
कुञ्चिताग्रांस्तु सूक्ष्माग्रान्दर्शनीयान्निबध्य च।
जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना ॥ 14 ॥ 4-14-14 (28678)
सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा।
ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा ॥ 15 ॥ 4-14-15 (28679)
अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता।
ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे ॥ 16 ॥ 4-14-16 (28680)
रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव ।
नानावर्णविचित्रां च सर्वाभरणभूषिताम् ॥ 17 ॥ 4-14-17 (28681)
सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम्।
बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे ॥ 18 ॥ 4-14-18 (28682)
सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम्।
श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् ॥ 19 ॥ 4-14-19 (28683)
ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः ।
परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् ॥ 20 ॥ 4-14-20 (28684)
निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम्।
गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम्।
अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् ॥ 21 ॥ 4-14-21 (28685)
न ह्रस्वां नातिमहतीं जातां बहुतृणे वने।
ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् ॥ 22 ॥ 4-14-22 (28686)
तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम्।
लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् ॥ 23 ॥ 4-14-23 (28687)
रोहिणीमिव ताराणां दीप्तामग्निशिखामिव।
पार्वतीमिव रुद्राणीं वेलामिव महोदधेः ॥ 24 ॥ 4-14-24 (28688)
सुलभामिव नागीनां मृगीणामिव किन्नरीम्।
गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् ॥ 25 ॥ 4-14-25 (28689)
तामचिन्त्यतमां लोके इलामिव यशस्विनीम् ।
सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्वितां ॥ 26 ॥ 4-14-26 (28690)
सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् ।
सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना ॥ 27 ॥ 4-14-27 (28691)
का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता।
कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् ॥ 28 ॥ 4-14-28 (28692)
गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता।
स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥ 29 ॥ 4-14-29 (28693)
शुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा।
अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा ॥ 30 ॥ 4-14-30 (28694)
कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ।
दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता ॥ 31 ॥ 4-14-31 (28695)
अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी ।
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी ॥ 32 ॥ 4-14-32 (28696)
तेनतेनैव संपन्ना काश्मीरीव तुरंगमा।
इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः ॥ 33 ॥ 4-14-33 (28697)
देवि देवेषु विख्याता ब्रूहि का त्वमिहागता।
तव ह्यनुपमं रूपं भूषणैरपि वर्जितम् ॥ 34 ॥ 4-14-34 (28698)
त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम्।
न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत् ॥ 35 ॥ 4-14-35 (28699)
प्रवालपुष्पस्तबकैराचिता वनदेवताः।
त्वामेव हि निरीक्षन्ते विस्मिता रूपसंपदा ॥ 36 ॥ 4-14-36 (28700)
अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः।
सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः ॥ 37 ॥ 4-14-37 (28701)
न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी।
दृष्टपूर्वा श्रुता वाऽपि चक्षुपा विद्यते शुभा ॥ 38 ॥ 4-14-38 (28702)
द्रौपद्युवाच। 4-14-39x (3044)
नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी।
सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना ॥ 39 ॥ 4-14-39 (28703)
पतीनां प्रेक्षमाणानां कस्मिंश्चित्कारणान्तरे।
केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता ॥ 40 ॥ 4-14-40 (28704)
तत्र द्वादशवर्षाणि वन्यमूलफलाशना।
चराम्यनिलया सुभ्रूः सा तवान्तिकमागता ॥ 41 ॥ 4-14-41 (28705)
जानामि केशान्ग्रथितुं विचित्रान्ग्रथितुं मणीन्।
मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः ॥ 42 ॥ 4-14-42 (28706)
सिन्धुवारकजातीनां रचयाम्यवतंसकान्।
पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम् ।
ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः ॥ 43 ॥ 4-14-43 (28707)
आराधनं सत्यभामां कृष्णस्य महिषीं प्रियाम्।
कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा ॥ 44 ॥ 4-14-44 (28708)
तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता।
मालिनी चेति मे नाम स्वयं देवी चकार ह।
कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी ॥ 45 ॥ 4-14-45 (28709)
न चाहं चिरमिच्छामि क्वचिद्वस्तुं शुभानने।
व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः ॥ 46 ॥ 4-14-46 (28710)
योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा।
न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः ॥ 47 ॥ 4-14-47 (28711)
साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च।
शैलांश्च विविधान्रम्यान्सरितश्च समुद्रगाः ॥ 48 ॥ 4-14-48 (28712)
भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी ।
विचरामि महीं दुर्गां यत्र सायंनिवेशना ॥ 49 ॥ 4-14-49 (28713)
वीरपत्नी यदा देवी चरमाणेषु भर्तृषु।
साऽहं विवत्सा विधिना गन्धमादनपर्वतात्।
शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि ॥ 50 ॥ 4-14-50 (28714)
माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः।
त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता ॥ 51 ॥ 4-14-51 (28715)
गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ ।
तेषां प्रसादाच्च न मां कश्चिद्धर्षयते पुमान् ॥ 52 ॥ 4-14-52 (28716)
वैशम्पायन उवाच। 4-14-53x (3045)
एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता।
साऽब्रवीद्विस्मयाविष्टा द्रौपदीं योषितां वराम् ॥ 53 ॥ 4-14-53 (28717)
न भरेयमहं भद्रे संशयो मम विद्यते।
राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति ॥ 54 ॥ 4-14-54 (28718)
साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि।
एष दोषोस्ति सुश्रोणि कथं वाभीरु मन्यसे ॥ 55 ॥ 4-14-55 (28719)
स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि।
त्वामेवैकां निरीक्षन्ते विस्मयाद्वरवर्णिनि ॥ 56 ॥ 4-14-56 (28720)
वृक्षांश्चोपस्थितान्पश्य य इमे मम वेश्मनि।
विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः ॥ 57 ॥ 4-14-57 (28721)
बिभर्षि परमं रूपमतिमानुषमद्भुतम्।
तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः ।
तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि ॥ 58 ॥ 4-14-58 (28722)
राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः।
मां विहाय वरारोहे त्वां गच्छेत्सर्वचेतसा ॥ 59 ॥ 4-14-59 (28723)
यं हि त्वमनवद्याङ्गी नरमायतलोचने।
सुप्रसन्ना हि वीक्षेथाः स कामवरागो भवेत् ॥ 60 ॥ 4-14-60 (28724)
सुस्नाताऽलंकृता हि त्वं यमीक्षेथा हि मानुषम्।
ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः ॥ 61 ॥ 4-14-61 (28725)
न शोको न च सन्तापो न क्रोधो नानृतं वदे।
यं त्वं सर्वातवद्याङ्गि भजेथाः समलंकृता ॥ 62 ॥ 4-14-62 (28726)
न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत्।
यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती ॥ 63 । 4-14-63 (28727)
पञ्चत्वमपि संप्राप्तं यं च त्वं परिपस्वजेः।
बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः ॥ 64 ॥ 4-14-64 (28728)
यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः ।
अतिजीवेस्य सर्वेषु देवेष्विव पुरन्दरः ॥ 65 ॥ 4-14-65 (28729)
अध्यारोहेद्यथा वृक्षं यथा वाऽऽरुह्य तक्षति।
राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम ॥ 66 ॥ 4-14-66 (28730)
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः।
तथाविधमहं मन्ये तव सुभ्रु समागमम् ॥ 67 ॥ 4-14-67 (28731)
अनुमानये त्वां सैरन्ध्रि नावमन्ये कथंचन।
भर्तृशीलभयाद्भद्रे तव वासं न रोचये ॥ 68 ॥ 4-14-68 (28732)
सैरन्ध्र्युवाच। 4-14-69x (3046)
नाहं शक्या विराटेन यद्वा चान्येन केनचित्।
देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा ॥ 69 ॥ 4-14-69 (28733)
गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः ।
पुत्रा देवादिदेवानां सूर्यपावकवर्चसः ॥ 70 ॥ 4-14-70 (28734)
यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा।
स तामेव निशां शीघ्रं शयीत मुसलैर्हतः ॥ 71 ॥ 4-14-71 (28735)
यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि।
सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका ।
दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः ॥ 72 ॥ 4-14-72 (28736)
न तस्य त्रिदशा देवा नासुरा न च पन्नगाः।
तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् ॥ 73 ॥ 4-14-73 (28737)
सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा ।
नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् ॥ 74 ॥ 4-14-74 (28738)
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत्।
प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम ॥ 75 ॥ 4-14-75 (28739)
यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः।
तामेव स इमां रात्रिं प्रविशेदपरां तनुम् ॥ 76 ॥ 4-14-76 (28740)
न चाप्यहं चालयितुं शक्या केनचिदङ्गने।
दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः ।
एवं निवसमानायां मयि मा ते भयं हि भूत् ॥ 77 ॥ 4-14-77 (28741)
वैशम्पायन उवाच। 4-14-78x (3047)
एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत्।
वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् ॥ 78 ॥ 4-14-78 (28742)
कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि ।
प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् ॥ 79 ॥ 4-14-79 (28743)
एवमाचारसंपन्ना एवं देवपरायणा।
रक्ष्या त्वमसि भूतानां सावित्रीवद्विजन्मनाम् ॥ 80 ॥ 4-14-80 (28744)
देवता इव कल्याणि पूजिता वरवर्णिनी।
वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते।
सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम् ॥ 81 ॥ 4-14-81 (28745)
वैशम्पायन उवाच। 4-14-82x (3048)
सुदेष्णयैवमुक्ता सा संप्रीता चारुहासिनी।
निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम् ॥ 82 ॥ 4-14-82 (28746)
याज्ञसेनी सुदेष्णां तु शुश्रूपन्ती विशांपते।
अवसत्परिचारार्हा सुदुःखं जनमेजय ॥ 83 ॥ 4-14-83 (28747)
एवं विराटे न्यवसंस्तु पाण्डवाः कृष्णा तथाऽन्तःपुरमेत्य शोभना।
अज्ञातचर्यां प्रतिरुद्धमानसा यथाऽग्रथो भस्मनि गूढतेजसः ॥ 84 ॥ ॥ 4-14-84 (28748)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-14-1 समुत्क्षिप्य वल्गिताग्राननिन्दितानिति खo थo धo पाठः ॥ 1 ॥ चतुर्दशोऽध्यायः ॥ 14 ॥विराटपर्व - अध्याय 015
॥ श्रीः ॥
4.15. अध्यायः 015
Mahabharata - Virata Parva - Chapter Topics
अथ समयपलनपर्व ॥ 2 ॥ पाण्डवैः स्वस्वव्यापारैर्विराटपरितोपणम् ॥ 1 ॥ भीमेन शङ्करोत्सवे महामल्लमारणम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-15-0 (28749)
जनमेजय उवाच। 4-15-0x (3049)
एवं विराटनगरे वसन्तः सत्यविक्रमाः।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥ 1 ॥ 4-15-1 (28750)
वैशम्पायन उवाच। 4-15-2x (3050)
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः ।
आराधयन्तो राजानां यदकुर्वत तच्छृणु ॥ 2 ॥ 4-15-2 (28751)
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः ।
तथैव च विराटस्य सपुत्रस्य विशांपते ॥ 3 ॥ 4-15-3 (28752)
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः।
अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् ॥ 4 ॥ 4-15-4 (28753)
अज्ञातं च विराटस्य विजित्य वसु धर्मराट्।
भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति ॥ 5 ॥ 4-15-5 (28754)
भीमसेनोपि मांसानि भक्ष्याणि विविधानि च ।
अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ॥ 6 ॥ 4-15-6 (28755)
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः ।
विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ॥ 7 ॥ 4-15-7 (28756)
नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्।
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥ 8 ॥ 4-15-8 (28757)
सहदेवोपि गोपानां वेषमास्थाय पाण्डवः।
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥ 9 ॥ 4-15-9 (28758)
कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी ।
यथा पुनरविज्ञाता तथा चरति भामिनी ॥ 10 ॥ 4-15-10 (28759)
एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः।
विराटनगरे चेरुः पुनर्गर्भधृता इव ॥ 11 ॥ 4-15-11 (28760)
साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा ।
प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप ॥ 12 ॥ 4-15-12 (28761)
अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः।
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ॥ 13 ॥ 4-15-13 (28762)
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ॥ 14 ॥ 4-15-14 (28763)
महाकाया महावीर्याः कालकेया इवासुराः।
वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः ॥ 15 ॥ 4-15-15 (28764)
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः।
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ॥ 16 ॥ 4-15-16 (28765)
तेषामेको महानासीत्सर्वमल्लानथाह्वयत्।
व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः ॥ 17 ॥ 4-15-17 (28766)
वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः ।
अवाङ्भुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः ॥ 18 ॥ 4-15-18 (28767)
व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः।
गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः ॥ 19 ॥ 4-15-19 (28768)
त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः ।
विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः ॥ 20 ॥ 4-15-20 (28769)
मल्लेन्द्रनिहताः सर्वे न किंचित्प्रवदन्ति ते।
मल्ल उद्वीक्ष्य तान्मल्लांस्रस्तान्वाक्यमुवाचह ॥ 21 ॥ 4-15-21 (28770)
आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले ।
सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते ॥ 22 ॥ 4-15-22 (28771)
मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् ।
विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह ॥ 23 ॥ 4-15-23 (28772)
अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः ॥ 24 ॥ 4-15-24 (28773)
इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते ।
तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ॥ 25 ॥ 4-15-25 (28774)
ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम्।
ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ॥ 26 ॥ 4-15-26 (28775)
अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे।
अनेन सह मल्लेन योद्धुं शक्नोति भूपते ॥ 27 ॥ 4-15-27 (28776)
योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे।
सोयं मल्लो वसत्येप राजंस्तव महानसे ॥ 28 ॥ 4-15-28 (28777)
वैशम्पायन उवाच। 4-15-29x (3051)
युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः।
सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति ॥ 29 ॥ 4-15-29 (28778)
भीमसेनो विराटेन आहूतश्चोदितस्तथा।
योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ॥ 30 ॥ 4-15-30 (28779)
नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात्।
अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ॥ 31 ॥ 4-15-31 (28780)
युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते।
महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ॥ 32 ॥ 4-15-32 (28781)
वैशम्पायन उवाच। 4-15-33x (3052)
चोदितो भीमसेनस्तु मल्लमाहूय मण्डले।
योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः।
मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ॥ 33 ॥ 4-15-33 (28782)
अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ॥ 34 ॥ 4-15-34 (28783)
नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम्।
न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपं ॥ 35 ॥ 4-15-35 (28784)
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन्।
प्रविवेश महारङ्गं विराटमभिहर्षयन् ॥ 36 ॥ 4-15-36 (28785)
बवन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् ।
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥ 37 ॥ 4-15-37 (28786)
जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् ।
कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् ॥ 38 ॥ 4-15-38 (28787)
तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ ।
मत्ताविव महाकायौ वारणौ षष्ठिहायनौ ॥ 39 ॥ 4-15-39 (28788)
ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतु।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥ 40 ॥ 4-15-40 (28789)
उभौ परमसंहृष्टौ बलेनातिबलावुभौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥ 41 ॥ 4-15-41 (28790)
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥ 42 ॥ 4-15-42 (28791)
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥ 43 ॥ 4-15-43 (28792)
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ।
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ॥ 44 ॥ 4-15-44 (28793)
तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा।
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥ 45 ॥ 4-15-45 (28794)
अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥ 46 ॥ 4-15-46 (28795)
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः।
आकर्षतुरथान्योन्यं जानुभिश्चापि जन्घतुः ॥ 47 ॥ 4-15-47 (28796)
ततः शब्देन महता भर्त्सयन्तौ परस्परम्।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ।
बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ 48 ॥ 4-15-48 (28797)
उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान्।
पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् ॥ 49 ॥ 4-15-49 (28798)
चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा।
निनदं तमभिक्रोशञ्शार्दूल इव वारणम् ॥ 50 ॥ 4-15-50 (28799)
समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् ।
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥ 51 ॥ 4-15-51 (28800)
भ्रामयित्वा शतगुणं गतसत्वमचेतनम् ।
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः॥ 52 ॥ 4-15-52 (28801)
तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते ।
विराटः परमं हर्षमगच्छद्वान्धवैः सह ॥ 53 ॥ 4-15-53 (28802)
प्रहर्षात्प्रददौ वित्तं बहु राज महामनाः।
वललाय महारङ्गे यथा वैश्रवणस्तथा ॥ 54 ॥ 4-15-54 (28803)
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् ।
विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ॥ 55 ॥ 4-15-55 (28804)
यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते ।
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥ 56 ॥ 4-15-56 (28805)
विराटेन प्रदत्तानि चित्राणि विविधानि च।
स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् ॥ 57 ॥ 4-15-57 (28806)
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः।
योध्यते स विराटस्य गजैः सिंहैर्महाबलैः ॥ 58 ॥ 4-15-58 (28807)
बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः।
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥ 59 ॥ 4-15-59 (28808)
अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः।
तोपयामास राजानं नकुलो नृपसत्तमम्।
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ॥ 60 ॥ 4-15-60 (28809)
विनीतान्वृपभान्दृष्ट्वा सहदेवस्य चाभितः।
धनं ददौ बहुविधं विराटः पुरुषर्षभः ॥ 61 ॥ 4-15-61 (28810)
द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् ।
नातिप्रीतमना राजन्निश्वासपरमाऽभवत् ॥ 62 ॥ 4-15-62 (28811)
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः ।
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥ 63 ॥ ॥ 4-15-63 (28812)
इति श्रीमन्महाभारते विराटपर्वणि समयपालनपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥ ॥ समाप्तं चेदं समयपालनपर्व ॥ 2 ॥
------------
Mahabharata - Virata Parva - Chapter Footnotes
4-15-42 कृतप्रतिकृतादयो मल्लयुद्धविशेषाः ॥ 42 ॥विराटपर्व - अध्याय 016
॥ श्रीः ॥
4.16. अध्यायः 016
Mahabharata - Virata Parva - Chapter Topics
द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-16-0 (28813)
वैशम्पायन उवाच। 4-16-0x (3053)
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा।
महारथेषु च्छन्नेषु मासा दश समाययुः ॥ 1 ॥ 4-16-1 (28814)
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशांपते ।
आवसत्परिचारार्हा सुदुःखं जनमेजय ॥ 2 ॥ 4-16-2 (28815)
तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने।
ता देवीं तोपयामास तथा चान्तःपुरस्त्रियः ॥ 3 ॥ 4-16-3 (28816)
तस्मिन्वर्षे गतप्राये कीचकस्तु महाबलः।
सेनापतिर्विराटस्य ददर्श द्रुपदात्मजाम् ॥ 4 ॥ 4-16-4 (28817)
तां दृष्ट्वा देवगर्भायां चरन्तीं देवतामिव ।
कीचकः कामयामास कामबाणप्रपीडितः ॥ 5 ॥ 4-16-5 (28818)
स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै।
प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥ 6 ॥ 4-16-6 (28819)
नेयं मया जातु पुरेह दृष्टा राज्ञी विराटस्य निवेशने शुभा।
रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ॥ 7 ॥ 4-16-7 (28820)
का देवरूपा हृदयंगमा शुभे ह्याचक्ष्व मे कस्य कुतोत्र शोभने।
चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौपधमस्ति मे मतम् ॥ 8 ॥ 4-16-8 (28821)
अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम्।
अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन ॥ 9 ॥ 4-16-9 (28822)
प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानयोजनम्।
मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम ॥ 10 ॥ 4-16-10 (28823)
ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम्।
उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ॥ 11 ॥ 4-16-11 (28824)
का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने।
प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने ॥ 12 ॥ 4-16-12 (28825)
रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम्।
कान्त्या विभाति वक्रं ते शशाङ्क इव निर्मलं ॥ 13 ॥ 4-16-13 (28826)
नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभेशुभे।
वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् ॥ 14 ॥ 4-16-14 (28827)
एवंरूपा मया नारी काचिदन्या महीतले।
न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते ॥ 15 ॥ 4-16-15 (28828)
लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे।
ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने ॥ 16 ॥ 4-16-16 (28829)
अतीव रूपिणी किं त्वमनङ्गविहारिणी।
अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा ॥ 17 ॥ 4-16-17 (28830)
अपि चेक्षणपक्ष्माणां स्थितज्योत्स्नोपमं शुभम्।
दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् ॥ 18 ॥ 4-16-18 (28831)
निरीक्ष्य वक्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम्।
कृत्स्ने जगति को नेह कामस्य वशगो भवेत् ॥ 19 ॥ 4-16-19 (28832)
हारालंकारयोग्यौ तु स्तनौ चोभौ शुभोभनौ ।
सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ ॥ 20 ॥ 4-16-20 (28833)
कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ।
कामप्रतोदाविव मां तुदतश्चारुहासिनि ॥ 21 ॥ 4-16-21 (28834)
वलीविभङ्गचतुरं स्तनभारविनामितम्।
कराग्रसंमितं मध्यं तवेदं तनुमध्यमे ॥ 22 ॥ 4-16-22 (28835)
दृष्ट्वैव चारुजघनं सरित्पुलिनसंनिभम्।
कामव्याधिरसाध्यो मामप्याक्रामति भामिनि ॥ 23 ॥ 4-16-23 (28836)
जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः ।
त्वत्सङ्गमाभिसंकल्पविवृद्धो मां दहत्ययम् ॥ 24 ॥ 4-16-24 (28837)
आत्मप्रदानवर्षेण संगमाम्भोधरेण च।
शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् ॥ 25 ॥ 4-16-25 (28838)
मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः।
त्वत्सङ्गमाशानिशितास्तीव्राः शशिनिभानने ।
मह्यं विदार्य हृदयमिदं निर्दयवेगिताः ॥ 26 ॥ 4-16-26 (28839)
प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः।
अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम।
आत्मप्रदानसंभोगैर्मामुद्धर्तुमिहार्हसि ॥ 27 ॥ 4-16-27 (28840)
चित्रमाल्याम्बरधरा सर्वाभरणभूषिता।
कामं प्रकामं सेव त्वं मया सह विलासिनि ॥ 28 ॥ 4-16-28 (28841)
नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता।
प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि ॥ 29 ॥ 4-16-29 (28842)
स्वादून्यमृतकल्पानि पेयानि विविधानि च।
पिबमाना मनोज्ञानि रममाणा यथासुखम् ॥ 30 ॥ 4-16-30 (28843)
भोगोपचारान्विविधान्सौभाग्यं चाप्यनुत्तमम्।
पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः ॥ 31 ॥ 4-16-31 (28844)
इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि ।
अधार्यमाणा स्नगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती ॥ 32 ॥ 4-16-32 (28845)
त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि ।
अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ॥ 33 ॥ ॥ 4-16-33 (28846)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षोडशोऽध्यायः ॥ 16 ॥
विराटपर्व - अध्याय 017
॥ श्रीः ॥
4.17. अध्यायः 017
Mahabharata - Virata Parva - Chapter Topics
द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-17-0 (28847)
वैशम्पायन उवाच। 4-17-0x (3054)
एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना ।
द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी ॥ 1 ॥ 4-17-1 (28848)
अप्रार्थनीयामिहं मां सूतपुत्राभिमन्यसे।
निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् ॥ 2 ॥ 4-17-2 (28849)
परदाराऽस्मि भद्रं ते न युक्तं तव सांप्रतम्।
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥ 3 ॥ 4-17-3 (28850)
परदारे न ते बुद्धिर्जातु कार्या कथंचन ।
विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् ॥ 4 ॥ 4-17-4 (28851)
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः ।
अयशः प्राप्नुयाद्धोरं महद्वा प्राप्नुयाद्भयम् ॥ 5 ॥ 4-17-5 (28852)
वैशम्पायन उवाच। 4-17-6x (3055)
एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः।
जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ॥ 6 ॥ 4-17-6 (28853)
दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् ।
प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ॥ 7 ॥ 4-17-7 (28854)
नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने ।
मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ॥ 8 ॥ 4-17-8 (28855)
प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम् ।
नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि ॥ 9 ॥ 4-17-9 (28856)
अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे ।
प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ ॥ 10 ॥ 4-17-10 (28857)
पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह ।
रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः ॥ 11 ॥ 4-17-11 (28858)
सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह।
भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि ॥ 12 ॥ 4-17-12 (28859)
मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने।
भजस्व मां वरारोहे भुङ्क्ष्वं भोगाननुत्तमान् ॥ 13 ॥ 4-17-13 (28860)
एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः।
कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः ॥ 14 ॥ 4-17-14 (28861)
सैरन्ध्र्युवाच। 4-17-15x (3056)
मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम्।
जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् ॥ 15 ॥ 4-17-15 (28862)
न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम।
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥ 16 ॥ 4-17-16 (28863)
अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि ॥ 17 ॥ 4-17-17 (28864)
यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम्।
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥ 18 ॥ 4-17-18 (28865)
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि।
तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः ॥ 19 ॥ 4-17-19 (28866)
त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं पार्थयसेऽद्य कीचक।
किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ॥ 20 ॥ 4-17-20 (28867)
तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भविष्यति।
न वर्तते कीचक ते दृशा शुभं या तेन संजीवनमर्थयेत सा ॥ 21 ॥ ॥ 4-17-21 (28868)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-17-16 भूतिः ईश्वरी ऐश्वर्याभिमानिनी देवता ॥ 16 ॥ 4-17-17 अनङ्गाङ्गविहारिणी रतिरित्यर्थः ॥ 17 ॥ 4-17-18 ईक्षणपक्ष्माणां नेत्रपक्ष्मणां स्मितं ईषदुन्मीलं तदेव ज्योत्स्नोपम मनस आह्लादकरम् ॥ 18 ॥ 4-17-20 सुजातौ उन्नतौ। निरन्तरौ पृथत्वात्सांश्लिष्टौ ॥ 20 ॥ 4-17-21 कुड्भलेति मुकुलीभूतपद्माकारौ ॥ 21 ॥ 4-17-24 अग्निमदनो मदनाग्निः ॥ 24 ॥ 4-17-28 कामं स्मरम्। प्रकाममतिशयितम् ॥ 28 ॥विराटपर्व - अध्याय 018
॥ श्रीः ॥
4.18. अध्यायः 018
Mahabharata - Virata Parva - Chapter Topics
कीचकेन सुदेष्णांप्रति द्रौपद्याः स्ववशीकरणप्रार्थना ॥ 1 ॥ सुदेष्णया कीचके सुराहरणव्याजेन तद्गृहंप्रति द्रौपदीप्रेषणप्रतिज्ञानम् ॥ 2 ॥ तथा बलात्कारेण द्रौपद्याः सुरानयनाय कीचकगृहंप्रति गमनचोदना ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-18-0 (28869)
वैशम्पायन उवाच। 4-18-0x (3057)
प्रत्याख्यातश्च पाञ्चाल्या कीचकः काममोहितः।
प्रविश्य राजभवनं भगिन्या अग्रतः स्थितः ॥ 1 ॥ 4-18-1 (28870)
सोभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् ।
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ॥ 2 ॥ 4-18-2 (28871)
स तु मूर्ध्र्यञ्जलिं कृत्वा भगिन्याश्चरणावुभौ ।
संमोहाभिहतस्तूर्णं वातोद्धृत इवार्णवः ॥ 3 ॥ 4-18-3 (28872)
स प्रोवाच सुदुःखार्तो भगिनीं निश्वसन्मुहुः ।
अव्यक्तमृदुना साम्ना शुष्यता च पुनःपुनः ॥ 4 ॥ 4-18-4 (28873)
यथा सुदेष्णे सैरन्ध्र्या संगच्छेयं सकामया ।
तथा शीघ्रं कुरुष्वाद्य माऽहं प्राणान्प्रहासिषम् ॥ 5 ॥ 4-18-5 (28874)
यदीयमनवद्याङ्गी न मामद्यापि काङ्क्षते ।
चेतसाऽभिप्रसन्नेन गतोस्मि यमसादनम् ॥ 6 ॥ 4-18-6 (28875)
वैशम्पायन उवाच। 4-18-7x (3058)
तमुवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम्।
भ्रातुर्जीवितरक्षार्थं समाश्वास्यासितेक्षणा ॥ 7 ॥ 4-18-7 (28876)
शरणागतेयं सुश्रोणी मया दत्ताभया च सा।
शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे ॥ 8 ॥ 4-18-8 (28877)
एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा।
गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च ॥ 9 ॥ 4-18-9 (28878)
एवमेषा ममाचष्टे तथा प्रथमसंगमे।
तथैव गजनासोरूः सत्यमाह ममान्तिके।
ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम् ॥ 10 ॥ 4-18-10 (28879)
राजा चैव समीक्ष्यैनां संमोहं गतवानिह ।
मया च सत्यवचनैरनुनीतो महीपतिः ॥ 11 ॥ 4-18-11 (28880)
सोप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत।
भयाद्गन्धर्वमुख्यानां जीवितस्योपघातिनाम्।
मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः ॥ 12 ॥ 4-18-12 (28881)
ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः।
दहेयुरपि लोकांस्त्रीन्युगान्तेष्विव भास्करः ॥ 13 ॥ 4-18-13 (28882)
सैनन्ध्र्या ह्येतदाख्यातं मम तेषां महद्बलम्।
तव चाहमिदं गुह्यं स्नेहाद्वक्ष्यामि बन्धुवत् ॥ 14 ॥ 4-18-14 (28883)
मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम्।
बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च ॥ 15 ॥ 4-18-15 (28884)
तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव।
न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि ॥ 16 ॥ 4-18-16 (28885)
वैशम्पायन उवाच। 4-18-17x (3059)
एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत्।
गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा ।
अहमेको वधिष्यामि गन्धर्वान्पञ्च किं पुनः ॥ 17 ॥ 4-18-17 (28886)
न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् ।
पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् ॥ 18 ॥ 4-18-18 (28887)
रहसीह नरं दृष्ट्वा नानागन्धविभूषितम्।
योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् ॥ 19 ॥ 4-18-19 (28888)
मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम्।
वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता।
सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेञ्जीवितं प्रियं ॥ 20 ॥ 4-18-20 (28889)
वैशम्पायन उवाच। 4-18-21x (3060)
एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता।
अहो दुःखमहो कृच्छ्रमहो पापमिति स्मह ॥ 21 ॥ 4-18-21 (28890)
प्रारुदद्भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा।
पातालेषु पतत्येष विलपन्बडवामुखे ॥ 22 ॥ 4-18-22 (28891)
त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे।
किंनु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः ॥ 23 ॥ 4-18-23 (28892)
न च श्रेयोऽभिजानीषे काममेवानुवर्तसे।
ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः ।
अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम ॥ 24 ॥ 4-18-24 (28893)
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः ।
एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ॥ 25 ॥ 4-18-25 (28894)
गतस्त्वं धर्मराजस्य विषयं नात्र संशयः।
अदूषितमिदं सर्वं स्वजनं घातयिष्यसि ॥ 26 ॥ 4-18-26 (28895)
एतत्तु मे दुःखतरं येनाहं भ्रातृसौहृदात्।
विदितार्था करिष्यामि तुष्टो भव कुलक्षये ॥ 27 ॥ 4-18-27 (28896)
गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम्।
किंचित्कार्यं समुद्दिश्य सुरामन्नं च कारय ॥ 28 ॥ 4-18-28 (28897)
कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः ।
तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम् ॥ 29 ॥ 4-18-29 (28898)
ततः संप्रेषितामेनां विजने निरवग्रहाम्।
सान्त्वयेथा यथान्यायं यदि साम सहिष्यति ॥ 30 ॥ 4-18-30 (28899)
सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय ॥ 31 ॥ 4-18-31 (28900)
वैशम्पायन उवाच। 4-18-32x (3061)
सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः।
त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः ॥ 32 ॥ 4-18-32 (28901)
आगम्य च गृहं रम्यं सुरामन्नं चकार ह।
अजैडकं च सुकृतं बहु चोच्चावचान्मृगान् ॥ 33 ॥ 4-18-33 (28902)
भक्षांश्च विविधाकारान्बहूंश्चोच्चावचांस्तदा।
कारयामास कुशलैरन्नपानैः सुसंस्कृतम् ॥ 34 ॥ 4-18-34 (28903)
त्वरावान्कालपाशेन कण्ठे बद्धः पशुर्यथा ।
नावबुध्यत मूढात्मा मरणं समुपस्थितम् ॥ 35 ॥ 4-18-35 (28904)
आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते।
कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत् ॥ 36 ॥ 4-18-36 (28905)
मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः।
सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् ॥ 37 ॥ 4-18-37 (28906)
केनचित्त्वद्य कार्येण त्वर शीघ्रं मम प्रियम्।
अहं हि शरणं देवं प्रतिपद्ये वृषध्वजम्।
समागमं मे सैरन्ध्र्या मरणं वा दिशेति वै ॥ 38 । 4-18-38 (28907)
वैशम्पायन उवाच। 4-18-39x (3062)
सा तमाह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम्।
एषाऽहमपि सैरन्ध्रीं सुरार्थे तूर्णमादिशे ॥ 39 ॥ 4-18-39 (28908)
एवमुक्तस्तु पापात्मा कीचकस्त्वरितः पुनः ।
स्वगृहं प्राविशत्तूर्णं सैरन्ध्रीगतमानसः ॥ 40 ॥ 4-18-40 (28909)
कीचकं तु गतं ज्ञात्वा त्वरमाणं स्वकं गृहम्।
सैरन्ध्रीं तत आहूय सदेष्णा वाक्यमब्रवीत् ॥ 41 ॥ 4-18-41 (28910)
गच्छ सैरन्ध्रि मत्प्रीत्यै कीचकस्य निवेशनम् ।
सुरामानय सुश्रोणि तृषिताऽहं विलासिनि ॥ 42 ॥ 4-18-42 (28911)
वैशम्पायन उवाच। 4-18-43x (3063)
सुदेष्णयैवमुक्ता सा निःश्वसन्ती नृपात्मजा।
अब्रवीच्छोकसन्तप्ता नाहं तत्र व्रजामि वैः ॥ 43 ॥ 4-18-43 (28912)
सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते ।
न गच्छेयमहं तस्य राजपुत्रि निवेशनम् ।
त्वमेव भद्रे जानासि यथा स निरपत्रपः ॥ 44 ॥ 4-18-44 (28913)
समयश्च कृतो भद्रे यथा प्रथमसंगमे।
तथा निवसमानायां यथाऽहं नान्यचारिणी ॥ 45 ॥ 4-18-45 (28914)
कीचकश्च सुकेशान्ते मूढो मदनगर्वितः ।
स मामिह गतां दृष्ट्वा व्यवस्यति निराकृतिम्।
कथं नु वै तत्र गतां मर्षयेन्मामबान्धवाम् ॥ 46 ॥ 4-18-46 (28915)
बह्व्यः सन्ति तव प्रेष्या राजपुत्रि वशानुगाः।
अन्यां प्रेषय कैकेयि संरक्ष्याऽहमिह त्वया ॥ 47 ॥ 4-18-47 (28916)
कीचकस्यालयं देवि न यामि भयकम्पिता।
यद्यदन्यच्च मे कर्म करोमि च सुदुष्करम् ॥ 48 ॥ 4-18-48 (28917)
एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी ।
तां विराटस्य माहिषी क्रुद्धा भूयोऽन्वशासत ॥ 49 ॥ 4-18-49 (28918)
कीचकं चैव गच्छ त्वं बलात्कारे चोदिता।
नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज ॥ 50 ॥ 4-18-50 (28919)
अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि।
शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर ॥ 51 ॥ 4-18-51 (28920)
न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे।
उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः ॥ 52 ॥ 4-18-52 (28921)
भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम्।
या सुजाता सुगन्धा च तामानय सुरामिति ॥ 53 ॥ 4-18-53 (28922)
सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा।
दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत् ॥ 54 ॥ 4-18-54 (28923)
यथाऽहमन्यं पार्थेभ्यो नाभिजानापि मानवम्।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ॥ 55 ॥ 4-18-55 (28924)
यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ॥ 56 ॥ ॥ 4-18-56 (28925)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥ ---------
Mahabharata - Virata Parva - Chapter Footnotes
4-18-2 अभिमन्यसे कामयसे ॥ 2 ॥ 4-18-5 मिथ्याभिगृध्नः वितथाभिनिवेशी । महद्भयं मृत्युम् ॥ 5 ॥ 4-18-20 मन्यसे लिप्ससे शिशोश्चन्द्रवदहं तव दुर्लभास्मीति भावः ॥ 20 ॥ 4-18-21 या स्वीयं अर्थयेत कामयेत शुभेच्छारूपा तव नास्तीत्यर्थः। तेन च शुभेन परदारनिवृत्तिरूपेण कामितेन संजीवनं भवतीति शेषः। अन्यथा मरिष्यसीत्यर्थः ॥ 21 ॥विराटपर्व - अध्याय 019
॥ श्रीः ॥
4.19. अध्यायः 019
Mahabharata - Virata Parva - Chapter Topics
कीचकगृहंप्रति प्रस्थितया द्रौपद्या तेन स्वस्यादूषणाय सूर्यादिदेवताप्रार्थना ॥ 1 ॥ सूर्येण तद्रक्षणाय निगूढस्य रक्षसः प्रेषणम् ॥ 2 ॥ कीचकेन द्रौपदींप्रति स्ववशीभवनयाचनम् ॥ 3 ॥ तथा तदनङ्गीकाररोषात्तस्याः पादेन ताडनम् ॥ 4 ॥ सूर्यदूतेन रक्षसा कीचकस्य भूमौ निपातनम् ॥ 5 ॥ युधिष्ठिरेन कीचकजिघांसोर्भीमस्य संकेतेन प्रतिषेधनम् ॥ 6 ॥Mahabharata - Virata Parva - Chapter Text
4-19-0 (28926)
वैशम्पायन उवाच। 4-19-0x (3064)
अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम्।
मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् ॥ 1 ॥ 4-19-1 (28927)
रुद्रमग्निं भगं विष्णुं स्कन्दं पूषणमेव च।
सावित्रीसहितं चापि ब्रह्माणं पर्यकीर्तयत् ॥ 2 ॥ 4-19-2 (28928)
इत्येवं मृगशवाक्षी सुश्रोणी धर्मचारिणी ।
उपातिष्ठत सा सूर्यं मुहूर्तमबला तदा ॥ 3 ॥ 4-19-3 (28929)
तदस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान्।
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् ॥ 4 ॥ 4-19-4 (28930)
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ॥ 5 ॥ 4-19-5 (28931)
प्रतस्थे सा सुकेशान्ता त्वरमाणा पुनःपुनः ।
विलम्बमाना विवशा कीचकस्य निवेशनम् ॥ 6 ॥ 4-19-6 (28932)
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समागताम्।
उत्पपातासनात्तूर्णं नावं लब्ध्वेव पारगः ॥ 7 ॥ 4-19-7 (28933)
श्लक्ष्णं चोवाच वाक्यं स कीचकः काममूर्च्छितः।
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम ॥ 8 ॥ 4-19-8 (28934)
स्वामिनी त्वमनुप्राप्ता चिरस्य भवनं शुभे।
कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् ॥ 9 ॥ 4-19-9 (28935)
प्रतिगृह्णीष्व मे भोगांस्त्वदर्थमुपकल्पितान्।
सर्वरत्नमयीं मालां कुण्डले च हिरण्मये ॥ 10 । 4-19-10 (28936)
वासांसि चन्दनं माल्यं धूपशुद्धां च वारुणीम्।
प्रतिगृह्णीष्व भद्रं ते विहर त्वं यथेच्छसि।
प्रीत्या मे कुरु मद्माक्षि प्रसादं प्रियदर्शने ॥ 11 ॥ 4-19-11 (28937)
स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम्।
अत्रारुह्य मया सार्धं पिबेमां वरवारुणीम् ॥ 12 ॥ 4-19-12 (28938)
भजस्व मां विशालाक्षि भर्ता ते सदृशोस्म्यहम्।
उपसर्प वरारोहे मेरुमर्कप्रभा यथा ॥ 13 ॥ 4-19-13 (28939)
वैशम्पायन उवाच। 4-19-14x (3065)
स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम्।
अब्रवीद्द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसंमतः ॥ 14 ॥ 4-19-14 (28940)
कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी।
अब्रवीत्तमनाचारं नेदृशं वक्तुमर्हसि ॥ 15 ॥ 4-19-15 (28941)
नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी।
गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम् ॥ 16 ॥ 4-19-16 (28942)
यत्र गच्छन्ति बहवः परदाराभिमर्शकाः।
नराः संभिन्नमर्यादाः कीटवच्चाशुभाश्रयाः ॥ 17 ॥ 4-19-17 (28943)
अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम् ।
तस्यै नयिष्ये मदिरां भगिनी तृषिता तव ॥ 18 ॥ 4-19-18 (28944)
पिपासिता च कैकेयी तूर्णं मामादिशत्ततः।
दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम् ॥ 19 ॥ 4-19-19 (28945)
कीचक उवाच। 4-19-20x (3066)
अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम्।
किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता ॥ 20 ॥ 4-19-20 (28946)
वैशम्पायन उवाच। 4-19-21x (3067)
इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत्।
सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम् ।
सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ॥ 21 ॥ 4-19-21 (28947)
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत्।
पातयित्वा तु तां भूमौ सूतपुत्रः पदाऽवधीत् ॥ 22 ॥ 4-19-22 (28948)
सभायां पश्यतो राज्ञो विराटस्य महात्मनः।
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यतां ॥ 23 ॥ 4-19-23 (28949)
तस्याः पादाभितप्ताया मुखाद्रुधिरमास्रवत् ॥ 24 ॥ 4-19-24 (28950)
ततो दिवाकरेणाशु राक्षसः संनियोजितः।
स कीचकमपोवाह वातवेगेन भारत ॥ 25 ॥ 4-19-25 (28951)
स पपात तदा भूमौ रक्षोबलसमीरितः ।
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥ 26 ॥ 4-19-26 (28952)
तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः।
न युक्तं सूतपुत्रेति कीचकेति च तेऽवदन्।
किमियं वध्यते बाला कृपणा चाप्यबान्धवा ॥ 27 ॥ 4-19-27 (28953)
तस्यामासन्हि ते पार्थाः सभायां भ्रातरस्तथा ।
अमृष्यमाणाः कृष्णायाः कीचकेन पदा वधं ॥ 28 ॥ 4-19-28 (28954)
तां दृष्ट्वा भीमसेनस्य क्रोधादास्रमवर्तत।
धूमोच्छ्वासः समभवन्नेत्रे चोच्छ्रितपक्ष्मणी ।
सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत ॥ 29 ॥ 4-19-29 (28955)
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः।
दन्तैर्दन्तांस्तदा रोपान्निष्पिपेष महामनाः ॥ 30 ॥ 4-19-30 (28956)
भूयः संचरितः क्रुद्धः सहसोत्थाय चासनात्।
निरैक्षत द्रुमं दीर्घं राजानं चाप्यवैक्षत॥ 31 ॥ 4-19-31 (28957)
वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः।
आकारेणैव भीमं स प्रत्यपेधद्युधिष्ठिरः ॥ 32 ॥ 4-19-32 (28958)
तस्य राजा शनैः संज्ञां कुन्तीपुत्रो युधिष्ठिरः।
चकार भीमसेनस्य रोषाविष्टस्य धीमतः ॥ 33 ॥ 4-19-33 (28959)
प्रत्याख्यानं तदा चाह कङ्को नाम युधिष्ठिरः ॥ 34 ॥ 4-19-34 (28960)
सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः।
नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च॥ 35 ॥ 4-19-35 (28961)
यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद्बहिः।
समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति॥ 36 ॥ 4-19-36 (28962)
यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत्।
न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन् ॥ 37 ॥ 4-19-37 (28963)
न क्रोधकालसमयः सूद मा चापलं कृथाः।
अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु ॥ 38 ॥ 4-19-38 (28964)
अथाङ्गुष्ठेनावमृद्गादङ्गुष्ठं तत्र धर्मराट्।
प्रबोधनभयाद्राज्ञो भीमं तं प्रत्यषेधयत् ॥ 39 ॥ 4-19-39 (28965)
भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः।
सहसोत्पतितं क्रोधं न्ययच्छद्धृतिमान्बलात् ।
इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद्वृकोदरः ॥ 40 ॥ 4-19-40 (28966)
भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम्।
द्रौपदी चाधिकं क्रोधात्प्रारुदत्सा पुनःपुनः ॥ 41 ॥ 4-19-41 (28967)
कीचकेनानुगमनात्कृष्णा ताम्रायतेक्षणा ।
सभाद्वारमुपगम्य रुदन्ती वाक्यमब्रवीत् ॥ 42 ॥ 4-19-42 (28968)
अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः।
आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम्।
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ॥ 43 ॥ 4-19-43 (28969)
प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम्।
कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम् ॥ 44 ॥ 4-19-44 (28970)
स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम्।
प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः ॥ 45 ॥ 4-19-45 (28971)
विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना।
राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि ॥ 46 ॥ 4-19-46 (28972)
राजन्धर्मासनस्थो हि रक्ष मां त्वमनागसम् ॥ 47 ॥ 4-19-47 (28973)
अहं त्वनपराध्यन्ती कीचकेन दुरात्मना ।
पश्यतस्ते महाराज हता पादेन दासिवात् ॥ 48 ॥ 4-19-48 (28974)
त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले ।
अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय ॥ 49 ॥ 4-19-49 (28975)
रक्ष मां कीचकाद्भीतां धर्मं रक्ष नरेश्वर ।
मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान् ॥ 50 ॥ 4-19-50 (28976)
यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः।
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ 51 ॥ 4-19-51 (28977)
मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम्।
त्वं किलैवंविधो जातः कुले धर्मपरायणे ॥ 52 ॥ 4-19-52 (28978)
अतस्त्वाहमभिक्रन्दे शरणार्थं नराधिप।
त्राहि मामद्य राजेन्द्र कीचकात्पापपूरुषात् ॥ 53 ॥ 4-19-53 (28979)
अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः।
प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते ॥ 54 ॥ 4-19-54 (28980)
अकार्याणामनारम्भात्कार्याणामनुपालनात्।
प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः ॥ 55 ॥ 4-19-55 (28981)
कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः।
प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः ॥ 56 ॥ 4-19-56 (28982)
नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात्।
प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् ॥ 57 ॥ 4-19-57 (28983)
अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते।
द्वन्द्वं कार्यमकार्यं च लोके चासीत्परं यथा ॥ 58 ॥ 4-19-58 (28984)
धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा।
क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः ॥ 59 ॥ 4-19-59 (28985)
प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम्।
एतद्वो मानुषाः सम्यक्कार्यं द्वन्द्वत्रयं भुवि ॥ 60 ॥ 4-19-60 (28986)
अस्मिन्सुनीते दुर्नीते लभते कर्मजं फलम्।
कल्याणकारी कल्याणं पापकारी च पापकम् ॥ 61 ॥ 4-19-61 (28987)
तेन गच्छति संसर्गं स्वर्गाय नरकाय वा।
सुकृतं दुष्कृतं वाऽपि कृत्वा मोहेन मानवः ।
पश्चात्तापेन तप्येत स्वबुद्ध्या मरणं गतः ॥ 62 ॥ 4-19-62 (28988)
एवमुक्त्वा परं वाक्यं विससर्ज शतक्रतुम्।
शक्रोप्यापृच्छ्य ब्रह्माणं देवराज्यमपालयत् ॥ 63 ॥ 4-19-63 (28989)
यथोक्तं देवराजेन ब्रह्मणा परमेष्ठिना।
तथा त्वमपि राजेन्द्र कार्याकार्ये स्थिरो भव ॥ 64 ॥ ॥ 4-19-64 (28990)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-19-17 कीटवच्च गुहाश्रया इति कo थo पाठः ॥ 17 ॥विराटपर्व - अध्याय 020
॥ श्रीः ॥
4.20. अध्यायः 020
Mahabharata - Virata Parva - Chapter Topics
विराटेन कीचकस्य दण्डाप्रयोगाद्रुष्ट्या द्रौपद्या तंप्रत्युपालम्भनम् ॥ 1 ॥ युधिष्ठिरेण द्रौपद्याः सान्त्वनम् ॥ 2 ॥ द्रौपद्याऽज्ञानादिव स्वशोकहेतुं पृच्छन्तीं सुदेष्णांप्रति गन्धर्वैः कीचकवधस्य भावित्वकथनम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-20-0 (28991)
वैशम्पायन उवाच। 4-20-0x (3068)
एवं विलपमानायां पाञ्चाल्यां मत्स्यपुङ्गवः।
अशक्तः कीचकं तत्र शासितुं बलदर्पितम् ।
विराटराजः मूतं तु सान्त्वेनैव न्यवारयत् ॥ 1 ॥ 4-20-1 (28992)
कीचकं मत्स्यराजेन कृतागसमनिन्दिता।
नापराधानुरूपेण दण्डेन प्रतिपादितम् ॥ 2 ॥ 4-20-2 (28993)
पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा।
धर्मज्ञा व्यवहाराणां कीचके कृतकिल्बिषे ।
पुनः प्रोवाच राजानं स्मरन्ती धर्ममुत्तमम् ॥ 3 ॥ 4-20-3 (28994)
संप्रेक्ष्य च वरारोहा सर्वांस्तत्र सभासदः।
राजानुवर्तनपरान्कीचकं च कृतागसम्।
विराटं चाह पाञ्चाली दुःखेनाविष्टचेतना ॥ 4 ॥ 4-20-4 (28995)
न राजन्राजवत्किंचित्समाचरसि कीचके।
दस्यूनामिव ते धर्मो न सत्सु परिवर्तते॥ 5 ॥ 4-20-5 (28996)
न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन।
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते॥ 6 ॥ 4-20-6 (28997)
न धर्मं कीचको वेत्ति राजभृत्यास्तथैव च।
न राजा विनयं ब्रूते अमात्याश्च न जानते ॥ 7 ॥ 4-20-7 (28998)
नोपालभे त्वां नृपते विराटं नृपसंसदि।
नाहमेतेन युक्ता वै हन्तुं मात्स्य तवान्तिके ॥ 8 ॥ 4-20-8 (28999)
सभासदस्तु पश्यन्तु कीचकं धर्मलङ्घिनम्।
विराटनृपते पश्य मामनाथामनागसम् ॥ 9 ॥ 4-20-9 (29000)
न साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते ॥ 10 ॥ 4-20-10 (29001)
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन्।
स राजा न भवेल्लोके राजशब्दस्य भाजनम् ॥ 11 ॥ 4-20-11 (29002)
दीनान्धकृपणाशक्तपङ्गुकुब्जजडादिकान्।
अनाथबालवृद्धांश्च पुरुषान्वा स्त्रियोऽपि वा ।
दुष्टचोराभिभूतांश्च पालयेदवनीपतिः ॥ 12 ॥ 4-20-12 (29003)
अनाथानां च नाथः स्यादपितॄणां पिता नृपः ।
माता भवेदमातॄणामगुरूणां गुरुर्भवेत्।
अगतीनां गती राजा नृणां राजा परायणम् ॥ 13 ॥ 4-20-13 (29004)
विशेषतः परैर्दुष्टैः परामृष्टं नरोत्तमः।
स्त्रियं साध्वीमनाथां च पालयेत्स्वसुतामिव ॥ 14 ॥ 4-20-14 (29005)
त्वद्गृहावसतिं राजन्नेतावत्कालपर्ययम्।
अधिकां त्वत्सुतायाश्च पश्य मां कीचकाहतां ॥ 15 ॥ 4-20-15 (29006)
विराट उवाच। 4-20-16x (3069)
परोक्षं नाभिजानामि विग्रहं युवयोरहम्।
अर्थतत्त्वमविज्ञाय किं स्यादकुशलं मम ॥ 16 ॥ 4-20-16 (29007)
द्रौपद्युवाच। 4-20-17x (3070)
येषां न वैरी स्वपिति पदा भूमिमुपस्पृशन्।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥ 17 ॥ 4-20-17 (29008)
ये च दद्युर्न याचेयुर्ब्रह्मण्याः सत्यवादिनः।
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते भृशम्।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 18 ॥ 4-20-18 (29009)
तेजस्विनस्तथा क्षान्ता बलवन्तश्च मानिनः।
महेष्वासा रणे शूरा गर्विता मानतत्पराः।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥ 19 ॥ 4-20-19 (29010)
सर्वलोकमिमं हन्युर्यदि क्रुद्धा महाबलाः।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 20 ॥ 4-20-20 (29011)
येषां नास्ति समः कश्चिद्वीर्ये सत्ये बले दमे।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 21 ॥ 4-20-21 (29012)
येषां न सदृशः कश्चिद्धनाद्यैर्भुवि मानवः।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 22 ॥ 4-20-22 (29013)
तवाग्रतो विशेषेण प्रजानां च हितैषिणः।
पश्यतो निहता राजंस्तेनेह जगतीपते ॥ 23 ॥ 4-20-23 (29014)
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्।
चरन्ति लोके प्रच्छन्नाः क्वनु तेऽद्य महाबलाः ॥ 24 ॥ 4-20-24 (29015)
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम्।
मर्षयन्ति यथा क्लीबा बलवन्तोऽतितेजसः ॥ 25 ॥ 4-20-25 (29016)
क्वनु तेषाममर्षश्च वीर्यं तेषां च तद्बलम्।
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्माना ॥ 26 ॥ 4-20-26 (29017)
मयाऽपि शक्यं किं कर्तुं विराटे धर्मदूषणे।
मां मर्षंयति यः पश्यन्वध्यमानामनागसम् ॥ 27 ॥ 4-20-27 (29018)
धर्मो विद्धो ह्यधर्मेण सभां यत्रोपतिष्ठति।
न चेद्विशल्यः क्रियते सर्वे विद्धाः सभासदः ॥ 28 ॥ 4-20-28 (29019)
यत्र धर्मो ह्यधर्मेम सत्यं यत्रानृतेन च।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ 29 ॥ 4-20-29 (29020)
वैशम्पायन उवाच। 4-20-30x (3071)
तस्यास्तत्कृपणं श्रुत्वा सैरन्ध्र्याः परिदेवितम्।
ततः सभ्यास्तु ते सर्वे भूयः कृष्णामपूजयन्।
साधुसाध्विति चाप्याहुः कीचकं चाप्यगर्हयन् ॥ 30 ॥ 4-20-30 (29021)
केचित्कृष्णां प्रशंसन्ति केचिन्निन्दन्ति कीचकम्।
केचिन्निन्दन्ति राजानं केचिद्देवीं च तां नराः ॥ 31 ॥ 4-20-31 (29022)
सभ्या ऊचुः । 4-20-32x (3072)
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा।
परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ॥ 32 ॥ 4-20-32 (29023)
यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम्।
गतिर्हंसं स्मितं कुन्दं सौषा नार्हति पद्वधम् ॥ 33 ॥ 4-20-33 (29024)
द्वात्रिंशद्दशना यस्याः श्वेता मांसनिबन्धनाः।
स्निग्धाश्च मृदवः केशाः सैषा नार्हति पद्वधम् ॥ 34 ॥ 4-20-34 (29025)
पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस्तथा।
यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम् ॥ 35 ॥ 4-20-35 (29026)
आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः ।
समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम् ॥ 36 ॥ 4-20-36 (29027)
अच्छिद्रहस्तपादा च अच्छिद्रदशना च या।
कन्या कमलपत्राक्षी कथमर्हति पद्वधम् ॥ 37 ॥ 4-20-37 (29028)
सेयं लक्षणसंपन्ना पूर्णचन्द्रनिभानना।
सुरूपिणी सुवदना नेयं योग्या पदा वधम् ॥ 38 ॥ 4-20-38 (29029)
देवदेवीव सुभगा शक्रदेवीव शोभना।
अप्सरा इव सारूप्यान्नेयं योग्या पदा वधम् ॥ 39 ॥ 4-20-39 (29030)
इति स्मापूजसंस्तत्र कृष्णां प्रेक्ष्य सभासदः ॥ 40 ॥ 4-20-40 (29031)
सा विनिःश्वस्य सुश्रोणी भूमावन्तर्मुखी स्थिता।
तूष्णीमासीत्तदा दृष्ट्वा विवक्षन्तं युधिष्ठिरम् ॥ 41 ॥ 4-20-41 (29032)
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आस्रवत्।
अब्रवीद्धर्मपुत्रोऽथ सैरन्ध्रीं महिषीं प्रियाम् ।
कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृत् ॥ 42 ॥ 4-20-42 (29033)
गच्छ सैरन्ध्रि मा भैस्त्वं सुदेष्णाया निवेशनम् ।
राजा ह्ययं धर्मशीलो विराटः परलोकभीः ।
यतस्त्वां न परित्राति सत्ये धर्मपथे स्थितः ॥ 43 ॥ 4-20-43 (29034)
भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः।
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥ 44 ॥ 4-20-44 (29035)
मन्ये न कालः क्रोधस्य पश्यन्ति पतयस्तव।
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥ 45 ॥ 4-20-45 (29036)
श्रूयन्तां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः।
यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात् ॥ 46 ॥ 4-20-46 (29037)
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नाप्युपोषणम्।
या तु भर्तारि शुश्रूषा सा स्वर्गायाभिजायते ॥ 47 ॥ 4-20-47 (29038)
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ 48 ॥ 4-20-48 (29039)
भीरु भर्तृभयात्पत्न्यो न क्रुध्यन्ति कदाचन।
बहुभिश्च परिक्लेशैरवज्ञाताश्च शत्रुभिः ।
अनन्यभावाः शुद्धाश्च पुण्यलोकं जयन्त्युत ॥ 49 ॥ 4-20-49 (29040)
न क्रोधकालं नियतं पश्यन्ति पतयस्तव।
न क्रुद्धान्प्रतियायाद्वै पतींस्ते वृत्रहा अपि।
तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः ॥ 50 ॥ 4-20-50 (29041)
यदि ते समयः कश्चित्कृतो ह्यायतलोचने।
तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्यनुत्तमः ॥ 51 ॥ 4-20-51 (29042)
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः।
क्षमावतामयं लोकः परलोकः क्षमावतांम् ॥ 52 ॥ 4-20-52 (29043)
द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः।
कस्त्रिषष्ठिशतारस्य मासोनस्याक्षमी भवेत्॥ 53 ॥ 4-20-53 (29044)
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम्।
व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् ॥ 54 ॥ 4-20-54 (29045)
इत्येवमुक्ते तिष्ठन्तीं पुनरेवाह धर्मराट्।
विघ्नं करोषि वै भद्रे दीव्यतां राजसंसदि ॥ 55 ॥ 4-20-55 (29046)
तस्मात्त्वमपि सुश्रोणि शैलूषीव विभासि नः।
एवमुक्ता तु सा भर्त्रा समुद्वीक्ष्याब्रवीदिदम् ॥ 56 ॥ 4-20-56 (29047)
सत्यमुक्तं त्वया विद्वञ्शैलूषीं विद्धि मां पुनः।
शैलूषकस्य तस्याहं येषां ज्येष्ठोऽक्षकोविदः ॥ 57 ॥ 4-20-57 (29048)
एवमुक्त्वा वरारोहा परिमृज्याननं शुभम्।
केशान्विमुक्तान्संयम्य रुधिरेण समुक्षितान् ॥ 58 । 4-20-58 (29049)
पांसुकुण्ठितसर्वाङ्गी गजराजवधूरिव।
प्रतस्थे नागनासोरूर्भर्तुराज्ञाय शासनम् ॥ 59 ॥ 4-20-59 (29050)
विमुक्ता मृगशावाक्षी निरन्तरपयोधरा।
प्रभा नक्षत्रराजस्य कालमेघैरिवावृता ॥ 60 ॥ 4-20-60 (29051)
यस्यार्थे पाण्डवेयास्तु त्यजेयुरपि जीवितम्।
तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः।
समयं नातिवर्तन्ते वेलामिव महोदधिः ॥ 61 ॥ 4-20-61 (29052)
सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम्।
रुदन्ती चारुसर्वाङ्गी तस्यास्तस्थावथाग्रतः ॥ 62 ॥ 4-20-62 (29053)
तामुवाच विराटस्य महिषी शाठ्यमास्थिता।
किमिदं पद्मसंकाशं सुदन्तोष्ठाक्षिनासिकम् ॥ 63 ॥ 4-20-63 (29054)
रुदन्त्या अवमृष्टास्रं पूर्णेन्दुसमवर्चसम्।
बिम्बोष्ठं कृष्णताराभ्यामत्यन्तरुचिरप्रभम्।
नयनाभ्यामजिह्याभ्यां मुखं ते मुञ्चते जलम् ॥ 64 ॥ 4-20-64 (29055)
कस्त्वाऽवधीद्वरारोहे कस्माद्रोदिषि शोभने।
को विप्रयुज्यते दारैः सपुत्रैः सहबान्धवैः ॥ 65 ॥ 4-20-65 (29056)
कस्याद्य राजा कुपितो वधमाज्ञापयिष्यति।
ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा ॥ 66 ॥ 4-20-66 (29057)
वैशम्पायन उवाच। 4-20-67x (3073)
तां निःश्वस्याब्रवीत्कृष्णा जानन्ती नाम पृच्छसि।
भ्रातुस्त्वं मामनुप्रेष्य किमेवं हि विकत्थसे ॥ 67 ॥ 4-20-67 (29058)
कीचको माऽवधीत्तत्र सुराहारीमितोगताम्।
सभायां पश्यतो राज्ञो यथा वै निर्जने वने ॥ 68 ॥ 4-20-68 (29059)
सुदेष्णोवाच। 4-20-69x (3074)
घातयामि सुदन्तोष्ठि कीचकं यदि मन्यसे।
भ्राता यद्येष मे व्यक्तं योऽतीतो धर्मचारिणीम्।
यस्त्वां कामाभिभूतात्मा दुर्लभामवमन्यते ॥ 69 ॥ 4-20-69 (29060)
द्रौपद्युवाच। 4-20-70x (3075)
अद्यैव तं हनिष्यन्ति येषामागस्करो हि सः।
मन्येऽहमद्य वा श्वो वा परलोकं गमिष्यति ॥ 70 ॥ 4-20-70 (29061)
भ्रातुः प्रयच्छ त्वरिता जीवच्छ्राद्धं त्वमद्य वै।
सुहृष्टं कुरु वै चैनं नासून्मन्ये धरिष्यति ॥ 71 ॥ 4-20-71 (29062)
तेषां हि मम भर्तॄणां पञ्चानां धर्मचारिणाम्।
एको दुर्धषणोऽत्यर्थं बले चाप्रतिमो भुवि ॥ 72 ॥ 4-20-72 (29063)
निर्मनुष्यमिमं लोकं कुर्यात्क्रुद्धो निशामिमाम्।
न स संक्रुध्यते तावद्गन्धर्वः कामरूपधृत् ॥ 73 ॥ 4-20-73 (29064)
नूनं ज्ञास्यति यावद्वै ममैतत्पादघातनम्।
तत्क्षणात्कीचकः पापः सपुत्रभ्रातृबान्धवः।
विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत् ॥ 74 ॥ 4-20-74 (29065)
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः।
एकस्तु कुरुते पापं कालपाशवशं गतः।
नीचेनात्मापराधेन कुलं तेन विनश्यति ॥ 75 ॥ 4-20-75 (29066)
वैशम्पायन उवाच। 4-20-76x (3076)
सुदेष्णामेवमुक्त्वा तु सैरन्ध्री दुःखमोहिता।
कीचकस्य वधार्थाय व्रतदीक्षामुपागमत् ॥ 76 ॥ 4-20-76 (29067)
अभ्यर्थिता च नारीभिर्मानिता च सुदेष्णया।
न च स्नाति न चाश्नाति न पांसून्परिमार्जति।
रुधिरक्लिन्नवदना बभूव मृदितेक्षणा ॥ 77 ॥ 4-20-77 (29068)
तां तथा शोकसन्तप्तां दृष्ट्वा प्ररुदितां स्त्रियः।
कीचकस्य वधं सर्वा मनोभिश्च शशंसिरे ॥ 78 ॥ ॥ 4-20-78 (29069)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि विंशोऽध्यायः ॥ 20 ॥
विराटपर्व - अध्याय 021
॥ श्रीः ॥
4.21. अध्यायः 021
Mahabharata - Virata Parva - Chapter Topics
वैशम्पायनेन जनमेजयंप्रति कीचकोत्पत्तिप्रकारादिकथनम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-21-0 (29070)
जनमेजय उवाच। 4-21-0x (3077)
अहो दुःखतरं प्राप्ता कीचकेन पदा हता।
पतिव्रता महाभागा द्रौपदी योषितांवरा ॥ 1 ॥ 4-21-1 (29071)
दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम्।
नाशपत्सिन्धुराजं सा बलात्कारेण वाहिता ॥ 2 ॥ 4-21-2 (29072)
किमर्थमिह संप्राप्ता कीचकेन दुरात्मना ।
नाशपत्तं महाभागा कृष्णा पादेन ताडिता ॥ 3 ॥ 4-21-3 (29073)
तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी ।
केशपांशे परामृष्टा मर्षयन्ती ह्यशक्तवत् ॥ 4 ॥ 4-21-4 (29074)
नैतत्कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम।
कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम् ॥ 5 ॥ 4-21-5 (29075)
कस्य वंशे समुद्भूतः स च दुर्ललितो मुने ।
बलोन्मत्तः कथं चासीत्स्यालो मात्स्यस्य कीचकः ॥ 6 ॥ 4-21-6 (29076)
दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् ।
नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति ॥ 7 ॥ 4-21-7 (29077)
वैशम्पायन उवाच। 4-21-8x (3078)
त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः।
एतत्सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव ॥ 8 ॥ 4-21-8 (29078)
ब्राह्मण्यां क्षत्रियाञ्जातः सूतो भवति पार्थिव ।
प्रातिलोम्येन जातानां स ह्येको द्विज एव तु ॥ 9 ॥ 4-21-9 (29079)
रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम्।
क्षत्रियादवरो वैश्याद्विशिष्ट इति चक्षते ॥ 10 ॥ 4-21-10 (29080)
सह सूतेन संबन्धः कृतः पूर्वं नराधिपैः।
तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते ॥ 11 ॥ 4-21-11 (29081)
तेषां तु सूतविषयः सूतानां नामतः कृतः।
उपजीव्यं च यत्क्षेत्रं राजन्सूतेन वै पुरा ॥ 12 ॥ 4-21-12 (29082)
सूतानामधिपो राजा केकयो नाम विश्रुतः।
राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत् ॥ 13 ॥ 4-21-13 (29083)
पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जझिरे तदा।
कीचका इति विख्याताः शतं षट् चैव भारत ॥ 14 ॥ 4-21-14 (29084)
तेषामासीद्बलश्रेष्ठः कीचकः सर्वजित्प्रभो।
अग्रजो बलसंमत्तस्तेनासीत्सूतषट्शतम् ॥ 15 ॥ 4-21-15 (29085)
मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत्।
तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत् ॥ 16 ॥ 4-21-16 (29086)
तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा।
सुरथायां मृतायां तु कौसल्यां श्वेतमातरि ॥ 17 ॥ 4-21-17 (29087)
श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि ।
सुदेष्णां महिषीं लब्ध्वा राज दुःखमपानुदत् ॥ 18 ॥ 4-21-18 (29088)
उत्तरं चोत्तरां चैव विराटात्पृथिवीपते।
सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये ॥ 19 ॥ 4-21-19 (29089)
मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम्।
सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी ॥ 20 ॥ 4-21-20 (29090)
भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः ।
विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् ॥ 21 ॥ 4-21-21 (29091)
कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः।
जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् ॥ 22 ॥ 4-21-22 (29092)
स हि सर्वास्रसंपन्नो बलवान्भीमविक्रमः ।
कीचको नष्टमर्यादो बभूव भयदो नृणाम् ॥ 23 ॥ 4-21-23 (29093)
तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः ।
जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा ॥ 24 ॥ 4-21-24 (29094)
मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान्।
मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् ॥ 25 ॥ 4-21-25 (29095)
करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा।
पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् ॥ 26 ॥ 4-21-26 (29096)
अन्ये च बहवः शूरा नानाजनपदेश्वराः।
कीचकेन रणे भग्ना विद्रवन्ति दिशो दश ॥ 27 ॥ 4-21-27 (29097)
तमेवंवीर्यसंपन्नं नागायुतसमं बले।
विराटस्तत्र सेनायाश्चकार पतिमात्मनः ॥ 28 ॥ 4-21-28 (29098)
विराटभ्रातरश्चैव दश दाशरथेः समाः।
ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् ॥ 29 ॥ 4-21-29 (29099)
एवंविधबलो भीमः कीचकस्ते च तद्विधाः।
राज्ञः स्याला महात्मानो विराटस्य हितैषिणः ॥ 30 ॥ 4-21-30 (29100)
एतत्ते कथितं सर्वं कीचकस्य पराक्रमम्।
द्रौपदी न शशापैनं यस्मात्तद्गदतः शृणु ॥ 31 ॥ 4-21-31 (29101)
रक्षन्ति हि तपः क्रोधादृषयो न शपन्ति च।
जानन्ती तद्यथातत्त्वं द्रौपदी न शशाप तम् ॥ 32 ॥ 4-21-32 (29102)
क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः।
क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः ॥ 33 ॥ 4-21-33 (29103)
क्षमावतामयं लोकः परश्चैव क्षमावताम्।
एतत्सर्वं विजानन्ती सा क्षमामन्वपद्यत ॥ 34 ॥ 4-21-34 (29104)
भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम्।
नाशपत्तं विशालाक्षी सती शक्ताऽपि भारत ॥ 35 ॥ 4-21-35 (29105)
पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम्।
क्रोधाग्निनाऽप्यदह्यन्त तदा लञ्जाव्यपेक्षया ॥ 36 ॥ 4-21-36 (29106)
अथ भीमो महाबाहुः मूदयिष्यंस्तु कीचकम्।
वारितो धर्मपुत्रेण वेलयेव महोदधिः ॥ 37 ॥ 4-21-37 (29107)
संधार्य मनसा रोषं दिवारात्रं विनिश्वसन्।
महानसे तदा कृच्छ्रात्सुष्वाप रजनीं च ताम् ॥ 38 ॥ ॥ 4-21-38 (29108)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकविंशोऽध्यायः ॥ 21 ॥
विराटपर्व - अध्याय 022
॥ श्रीः ॥
4.22. अध्यायः 022
Mahabharata - Virata Parva - Chapter Topics
कीचकं जिघांसन्त्या द्रौपद्या रात्रौ महानसमेत्य स्वपतो भीमस्य प्रबोधनम् ॥ 1 ॥ तथा कीचकमारणाभावे स्वप्राणविमोक्षणप्रतिज्ञानम् ॥ 2 ॥ तथा युधिष्ठिरादीन्प्रति प्रत्येकं नामनिर्देशपूर्वकमनुशोचनम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-22-0 (29109)
वैशम्पायन उवाच। 4-22-0x (3079)
सा सूतपुत्राभिहता राजपुत्री सुदुःखिता।
वधं कृष्णा परीप्सन्ती सूतपुत्रस्य भामिनी ॥ 1 ॥ 4-22-1 (29110)
जगामावासमेवाथ तदा सा द्रुपदात्मजा।
कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा ॥ 2 ॥ 4-22-2 (29111)
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा।
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् ॥ 3 ॥ 4-22-3 (29112)
किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम।
इत्येवं चिन्तयित्वा सा भीमं तं मनसाऽगमत्।
अन्यः कर्ता विना भीमान्न मेऽद्य मनसेप्सितम् ॥ 4 ॥ 4-22-4 (29113)
प्रादुर्भूते क्षणे रात्रौ विहाय शयनं स्वकम्।
दुःखेन महता युक्ता मानसेन मनस्विनी ।
प्राद्रवन्नाथमिच्छन्ती तथा नाथवती सती ॥ 5 ॥ 4-22-5 (29114)
सा वै महानसं प्राप्य भीमसेनं सुचिस्मिता।
उपासर्पत पाञ्चाली वासितेव महागजम् ॥ 6 ॥ 4-22-6 (29115)
सर्वश्वेतेव माहेयी वने वृद्धा त्रिहायणी।
महर्पभं यथा सुप्तमर्थिनी वननिर्झरे ।
संप्रसुप्तं तथा सिंहिं मृगराजवधूरिव ॥ 7 ॥ 4-22-7 (29116)
अभिप्रसार्य बाहुभ्यां पतिं सुप्तं समाश्लिषत् ।
सुजातं गोमतीतीरे सालं वल्लीव पुष्पिता ॥ 8 ॥ 4-22-8 (29117)
परिस्पृस्य च पाणिभ्यां पतिं सुप्तमबोधयत्।
श्रीरिवान्या महोत्साहं सुप्तं विष्णुमिवार्णवे ।
क्षौमावदाते शयने शयानं वृषभेक्षणम् ॥ 9 ॥ 4-22-9 (29118)
यथा शची देवराजं रुद्राणी शंकरं यथा।
ब्रह्माणमिव सावित्री देवसेना गुहं यथा ॥ 10 ॥ 4-22-10 (29119)
दिशागजसमाकारं गजं गजवधूरिव ।
भीमं प्राबोधयत्कान्ता लक्ष्मीर्दामोदरं यथा ॥ 11 ॥ 4-22-11 (29120)
वीणेव मधुरालापा स्वरं गान्धारमाश्रिता।
अभ्यभाषत पाञ्चाली कौरवं पाण्डुनन्दनम् ॥ 12 ॥ 4-22-12 (29121)
उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन मृतो यथा।
न मृतः स हि पापीयान्भार्यामालम्ब्य जीवति ॥ 13 ॥ 4-22-13 (29122)
तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि ।
तत्कर्मं कृतवत्यद्य कथं निद्रां निषेवसे ॥ 14 ॥ 4-22-14 (29123)
वैशम्पायन उवाच। 4-22-15x (3080)
सुखसुप्तश्च तं शब्दं निशम्य स वृकोदरः।
संवेदितः कुरुश्रेष्ठः तोत्रैरिव महागजः ॥ 15 ॥ 4-22-15 (29124)
स वै विहाय शयनं यस्मिन्सुप्तः प्रबोधितः।
उदतिष्ठदमेयात्मा पर्यङ्के सोत्तरच्छदे ॥ 16 ॥ 4-22-16 (29125)
उपवेश्य च दुर्धर्पः पाञ्चालकुलवर्धनीम्।
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् ॥ 17 ॥ 4-22-17 (29126)
केनार्थेन च संप्राप्ता त्वरितेव ममान्तिकम्।
न ते प्रकृतिमान्वर्णः कृशा त्वमभिलक्ष्यसे ॥ 18 ॥ 4-22-18 (29127)
प्रकाशं यदि वा गुह्यं सर्वमाख्यातुमर्हसि।
आचक्ष्व त्वमशेषेण सर्वं विद्यामहं यथा ॥ 19 ॥ 4-22-19 (29128)
सुखं वा यदि वा दुःखं शुभं वा यदि वाऽशुभम्।
यद्यप्यसुकरं कर्म कृतमित्यवधारय ॥ 20 ॥ 4-22-20 (29129)
अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु।
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ॥ 21 ॥ 4-22-21 (29130)
शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम्।
गच्छ वै शयनायैव यावदन्यो न बुध्यते ॥ 22 ॥ 4-22-22 (29131)
वैशम्पायन उवाच। 4-22-23x (3081)
सा लञ्जमाना भीता च अधोमुखमुखी ततः।
नोवाच किंचिद्वचनं बाष्पदूषितलोचना ॥ 23 ॥ 4-22-23 (29132)
अथाब्रवीद्भीमपराक्रमो बली वृकोदरः पाण्डवमुख्यसंमतः।
प्रब्रूहि किं ते करवाणि सुन्दरि प्रियं प्रिये वारणमत्तगामिनि ॥ 24 ॥ 4-22-24 (29133)
द्रौपद्युवाच। 4-22-25x (3082)
अशोच्यता कुतस्तस्या यस्या भर्ता युधिष्ठिरः।
जानन्सर्वाणि दुःखानि किं मां भीमानुपृच्छसि ॥ 25 ॥ 4-22-25 (29134)
यन्मां दासीप्रवादेन प्रातिकामी तदाऽनयत्।
सभायां परिषन्मध्ये तन्मे मर्माणि कृन्तति ॥ 26 ॥ 4-22-26 (29135)
विकृष्टा हास्तिनपुरे सभायां राजसंसदि।
दुःशासनेन केशान्ते परामृष्टा रजस्वला ॥ 27 ॥ 4-22-27 (29136)
क्षत्रियैस्तत्र कर्णाद्यैर्दृष्टा दुर्योधनेन च।
श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता।
द्रोणेन च महाबाहो कृपेण च परंतप ॥ 28 ॥ 4-22-28 (29137)
साऽहं श्वशुरयोर्मध्ये भ्रातृमध्ये च पाण्डव।
केशे गृहीत्वा च सभां नीता जीवति वै त्वयि ॥ 29 ॥ 4-22-29 (29138)
विप्रयुक्ता ततश्चाहं वने राज्याद्वनं गता।
साऽहं वने दुर्वसतिं वसती त्वध्वकर्शिता ।
जटासुरपरिक्लेशात्प्राप्तापि सुमहद्भयम् ॥ 30 ॥ 4-22-30 (29139)
पार्थिवस्य सुता नाम कानु जीवेन मादृशी ।
अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो॥ 31 ॥ 4-22-31 (29140)
वनवासगता चाहं सैन्धवेन दुरात्मना।
परामृष्टा द्वितीयं च सोद्रुमुत्सहते तु का ॥ 32 ॥ 4-22-32 (29141)
पद्भ्यां पर्यचरं चाहं देशान्विषमसंस्थितान् ।
दुर्गाञ्श्वापदसंकीर्णांस्त्वयि जीवति पाण्डवे ॥ 33 ॥ 4-22-33 (29142)
ततोऽहं द्वादशे वर्षे वन्यमूलफलाशना।
इदं पुरमनुप्राप्ता सुदेष्णापरिचारिका।
परस्त्रियमुपातिष्ठे सत्यधर्मपरायणा ॥ 34 ॥ 4-22-34 (29143)
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्।
नित्यं पिषे विराटस्य त्वयि जीवति पाण्डव ॥ 35 ॥ 4-22-35 (29144)
साऽहं बहूनिः दुःखानि गणयामि न ते कृते ॥ 36 ॥ 4-22-36 (29145)
मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः।
कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ॥ 37 ॥ 4-22-37 (29146)
एवं बहुविधैर्दुःखैः क्लिश्यमाना च पाण्डव ।
न मां जानासि कौन्तेय किं फलं जीवितेन मे ॥ 38 ॥ 4-22-38 (29147)
द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा।
अग्निकुण्डात्समुद्भूता नोर्व्यां जातु चराम्यहम् ॥ 39 ॥ 4-22-39 (29148)
कीचकं चेन्न हन्यास्त्वं ग्रीवां बद्ध्वा जले म्रिये।
विषमालेड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलं ॥ 40 ॥ 4-22-40 (29149)
आत्मानं नाशयिष्यामि वृक्षमारुह्य वा पते ।
शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे ॥ 41 ॥ 4-22-41 (29150)
योऽयं राज्ञो विराटस्य कीचको नाम भारत।
सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ॥ 42 ॥ 4-22-42 (29151)
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि।
नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ॥ 43 ॥ 4-22-43 (29152)
तेनैवमुच्यमानाया वधार्हेणारिसूदन।
कालेनेव फलं पक्वं हृदयं मे विदीर्यते ॥ 44 ॥ 4-22-44 (29153)
शरणं भव कौन्तेय मा स्म गच्छे युधिष्ठिरम्।
निरुद्योगं निरामर्षं निर्वीर्यमरिमर्दन ॥ 45 ॥ 4-22-45 (29154)
मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम् ॥ 46 ॥ 4-22-46 (29155)
विजानामि तवामर्षं बलं वीर्यं च पाण्डव।
ततोऽहं परिदेवामि चाग्रतस्ते महाबल ॥ 47 ॥ 4-22-47 (29156)
यथा यूथपतिर्मत्तः कुञ्जरः षाष्टिहायनः।
भूमौ निपतितं बिल्वं पद्भ्यमाक्रम्य पीडयेत् ॥ 48 ॥ 4-22-48 (29157)
तथैव च शिरस्तस्य निपात्य धरणीतले।
वामेन पुरुषव्याघ्र मर्द मादेन पाण्डव ॥ 49 ॥ 4-22-49 (29158)
स चेदुद्यन्तमादित्यं प्रातरुत्थाय पश्यति।
कीचकः शर्वरीं व्युष्टां नाहं जीवितुमुत्सहे ॥ 50 ॥ 4-22-50 (29159)
शापितोसि मम प्राणैः सुकृतेनार्जुनस्य च।
युधिष्ठिरस्य पादाभ्यां यमयोर्जीवितेन च।
कीचकस्य वधं नाद्य प्रतिजानासि भारत ॥ 51 ॥ 4-22-51 (29160)
भ्रात च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम्।
यस्मास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ॥ 52 ॥ 4-22-52 (29161)
येषां मुख्यतमो ज्येष्ठो भवेत्तु कुलपांसनः।
भ्रातरं परमन्वीयुस्तेऽपि शालीनबुद्धयः ॥ 53 ॥ 4-22-53 (29162)
को हि राज्यं परित्यज्य सपुत्रपशुबान्धवम् ।
प्रव्रजेत महारण्यमजिनैः परिवारितः ॥ 54 ॥ 4-22-54 (29163)
यदि निष्कसहस्राणि यद्वाऽन्यत्सारवद्धनम् ।
सायं प्रातरदेविष्यदपि संवत्सरायुतम् ॥ 55 ॥ 4-22-55 (29164)
रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् ।
अश्वाश्वतरसङ्घाश्च न जातु क्षयमाव्रजेत्॥ 56 ॥ 4-22-56 (29165)
सोयं द्यूतप्रवादेन श्रियश्चैवावरोपितः।
तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ॥ 57 ॥ 4-22-57 (29166)
पुरा दशसहस्राणि दन्तिनां वाजिनामपि।
यं यान्तमनुयान्ति स्म सोयं द्यूतेन जीवति ॥ 58 ॥ 4-22-58 (29167)
तथा शतसहस्राणि स्त्रीणाममिततेजसाम्।
उपासते स्म राजानमिन्द्रप्रस्थे युधिष्ठिरम् ॥ 59 ॥ 4-22-59 (29168)
शतं दासीसहस्राणां यस्य नित्यं महानसे।
पात्रहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ 60 ॥ 4-22-60 (29169)
एष निष्कसहस्राणि दत्त्वा प्रातर्दिनेदिने ।
द्यूतजेन ह्यनर्थेन महता समुपावृतः ॥ 61 ॥ 4-22-61 (29170)
एनं सुस्वरसंपन्ना बहवः सूतमागधाः।
सुप्तं प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ॥ 62 ॥ 4-22-62 (29171)
[सहस्रं वालखिल्यानां सहस्रमुदवासिनाम्।
सहस्रमश्मकुट्टानां सहस्रं वायुभोजिनाम् ॥ 63 ॥ 4-22-63 (29172)
सहस्रं मुनिपत्नीनां सहस्रं ब्रह्मचारिणाम्।
सहस्रं मौनशीलानां सहस्रं गृहमेधिनाम् ॥ 64 ॥ 4-22-64 (29173)
हंसाः परमहंसाश्च योगिनश्च द्विजातयः।
कुटीरकाः परिव्राजो ये चान्ये वनचारिणः ॥ 65 ॥ 4-22-65 (29174)
संविभक्तात्मकाश्चैव बहवश्चोर्ध्वरेतसः ।
चतुर्वेदविदो विप्राः शिक्षामीमांसपारगाः ।
क्रमपाठाश्च ये विप्राः सामाध्यायनिकाश्च ये ॥ 66 ॥] 4-22-66 (29175)
सहस्रमृषयो यस्य नित्यमासन्सभासदः।
तपःश्रुतोपसंपन्नाः सर्वकामैरुपास्थिताः ॥ 67 ॥ 4-22-67 (29176)
अन्धान्वृद्धाननाथांस्तु सर्वराष्ट्रेषु दुःखितान्।
बिभर्त्यन्नार्थिनो नित्यमानृशंस्याद्युधिष्ठिरः ॥ 68 ॥ 4-22-68 (29177)
स एष निलयं प्राप्तो मत्स्यस्य परिचारकः।
सभायां विनतो राज्ञः कङ्को नाम युधिष्ठिरः ॥ 69 ॥ 4-22-69 (29178)
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः।
आसन्बलिकराः सर्वे सोन्येभ्यो भृतिमिच्छति ॥ 70 ॥ 4-22-70 (29179)
पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः।
स वशे विवशो राज्ञां परेषामद्य वर्तते ॥ 71 ॥ 4-22-71 (29180)
संप्राप्य पृथिवीं कृत्स्नां रश्मिवानिव तेजसा।
सोद्य राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ॥ 72 ॥ 4-22-72 (29181)
यमुपासत राजानं सभायामृषिसत्तमाः।
तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ॥ 73 ॥ 4-22-73 (29182)
अनवद्यं महाप्राज्ञं जीवितार्थेन संवृतम् ।
दृष्ट्वा कस्य न दुःखं स्याद्धर्मराजं युधिष्ठिरम् ॥ 74 ॥ 4-22-74 (29183)
उपास्ते स्म सभायां यं कृत्स्नाऽपि च वसुन्धरा।
तमुपासीनमद्यान्यं पश्य भारत भारतम् ॥ 75 ॥ 4-22-75 (29184)
एवं बहुविदैर्दुःखैः पीड्यमानामनाथवत्।
शोकसागरमध्यस्थां किं मां भीम न पश्यसि ॥ 76 ॥ 4-22-76 (29185)
इदं तु मे दुःखतरं यत्त्वां वक्ष्यामि भारत।
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ॥ 77 ॥ 4-22-77 (29186)
शार्दूलैर्महिषैर्नागौरगारे योत्स्यसे सदा।
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलोऽभवत् ॥ 78 ॥ 4-22-78 (29187)
हसन्त्यन्तःपुरे नार्यो मम चेष्टां निरीक्ष्य च ॥ 79 ॥ 4-22-79 (29188)
तत उत्थाय कैकेयी सर्वास्ताः प्रत्यभाषत।
प्रेक्ष्य मामनवद्याङ्गीं कश्मलाभिहतामिव ॥ 80 ॥ 4-22-80 (29189)
स्नेहात्संवासजादेव तदा वै चारुहासिनी ।
युध्यमानं महावीर्यमिमं समनुशोचति ॥ 81 ॥ 4-22-81 (29190)
कल्याणरूपा सैरन्ध्री वललश्चापि सुन्दरः।
स्त्रीणां चित्तं हि दुर्ज्ञेयं युक्तरूपौ हि मे मतौ ॥ 82 ॥ 4-22-82 (29191)
सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी।
अस्मिन्राजकुले चैतौ तुल्यकालनिवासिनौ ॥ 83 ॥ 4-22-83 (29192)
इति ब्रुवाणा वाक्यानि सा मां नित्यमजीजपत् ।
क्रुध्यन्तीं मां च संप्रेक्ष्य पर्यशङ्कत मां त्वयि ॥ 84 ॥ 4-22-84 (29193)
तस्यां तथा ब्रुवन्त्यां तु भीमो भीमपराक्रमः।
नोवाच किंचिद्वचनं संरम्भाद्रक्तलोचनः ॥ 85 ॥ 4-22-85 (29194)
ज्ञात्वा-तु रुषितं भीमं द्रौपदी पुनरब्रवीत्।
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ॥ 86 ॥ 4-22-86 (29195)
यंस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत्।
सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा।
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ 87 ॥ 4-22-87 (29196)
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम्।
सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ 88 ॥ 4-22-88 (29197)
यस्माद्भयममित्राणां सदैव पुरुषर्षभात्।
स लोकपरिभूतेन वेषेणास्ते धनंजयः ॥ 89 ॥ 4-22-89 (29198)
यस्यं ज्यातलनिर्घोषात्समकम्पन्त शत्रवः।
षण्डरूपं वहन्तं तं गीतं नृत्तावलम्बनम् ।
कुर्वन्तमर्जुनं दृष्ट्वा न मे स्वास्थ्यं मनो व्रजेत् ॥ 90 ॥ 4-22-90 (29199)
स्त्रियो गीतस्वरात्तस्य मुदिताः पर्युपासते ॥ 91 ॥ 4-22-91 (29200)
किरीटं सूर्यसंकाशं यस्य मूर्धन्यशोभत।
वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः ॥ 92 ॥ 4-22-92 (29201)
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि ।
आधारः सर्वविद्यानां यो धारयति कुण्डले ॥ 93 ॥ 4-22-93 (29202)
यं वै राजसहस्राणि तेजसाऽप्रतिमं भुवि ।
समरे नातिवर्तन्ते वेलामिव महोर्मयः ॥ 94 ॥ 4-22-94 (29203)
सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा।
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ 95 ॥ 4-22-95 (29204)
यस्य स्म रथनिर्घोषात्समकम्पत मेदिनी।
सपर्वतवनाकाशा सहस्थावरजङ्गमा ॥ 96 ॥ 4-22-96 (29205)
यस्मिञ्जाते महेष्वासे कुन्त्याः प्रीतिरवर्धत।
न स शोचति मामद्य भीमसेन तवानुजः ॥ 97 ॥ 4-22-97 (29206)
विभूषितमलंकारैः कुण्डलैः परिपातुकैः।
कम्बुपाणिमथायान्तं दृष्ट्वा सीदति मे मनः ॥ 98 ॥ 4-22-98 (29207)
वेणीविकृतकेशान्तं भीमधन्वानमर्जुनम्।
कन्यापरिवृतं दृष्ट्वा शोकं गच्छति मे मनः ॥ 99 ॥ 4-22-99 (29208)
यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम्।
प्रच्छन्नमिव मातङ्गं परिपूर्णं करेणुभिः ॥ 100 ॥ 4-22-100 (29209)
मात्स्यं पार्थं च गायन्तं विराटं समुपस्थितम्।
पश्यामि तूर्यमध्यस्थं दृष्ट्वा मुह्यति मे मनः ॥ 101 ॥ 4-22-101 (29210)
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम्।
अजातशत्रुं कौरव्यं मग्नं द्युर्द्यूतदेविनम् ॥ 102 ॥ 4-22-102 (29211)
ऐन्द्रवारुणवायव्यब्रह्माग्नेयैः सवैष्णवैः ।
अग्नीन्संतर्पयन्पार्थः सर्वशत्रुनिबर्हणः।
दिव्यैरस्त्रैरमेयात्मा सर्वांश्चैकरथोऽजयत् ॥ 103 ॥ 4-22-103 (29212)
कौबेरं वैष्णवं शैवमस्त्राण्यन्यानि भारत।
दर्शयन्नस्त्रवीर्यं च वासुदेवसहायवान् ॥ 104 ॥ 4-22-104 (29213)
दिव्यं गान्धर्वमस्त्रं च वायव्यमथ वैष्णवम्।
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दर्शयन् ॥ 105 ॥ 4-22-105 (29214)
पौलोमान्कालकेयांश्च इन्द्रशत्रून्महाबलान्।
निवातकवचैः सार्धं घोरानेकरथोऽजयत्।
सोन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ 106 ॥ 4-22-106 (29215)
यो वै महातपः कुर्वन्महाबलपराक्रमः ।
युद्धेन तोषयामास शंकरं शूलपाणिनम् ॥ 107 ॥ 4-22-107 (29216)
कन्यापुरगतं दृष्ट्वा गोष्ठेष्विव महावृषम्।
स्त्रीवेषविकृतं पार्थं कुन्तीं गच्छति मे मनः ॥ 108 ॥ 4-22-108 (29217)
यः स्त्रीभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया ।
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥ 109 ॥ 4-22-109 (29218)
राजकन्याश्च वेश्याश्च विशां दुहितरश्च याः।
सर्वाः सारयुता नार्यो दामग्रन्थिवशं गताः ।
प्रेष्यकर्मणि तं दृष्ट्वा शोचामि विलपामि च ॥ 120 ॥ 4-22-110 (29219)
विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनम्।
अभ्यकीर्यन्त बृन्दानि दामग्रन्थिमुदीक्षितुम् ।
विनयन्तं जवेनाश्वान्धर्मराजस्य पश्यतः ॥ 111 ॥ 4-22-111 (29220)
किंनु मां मन्यसे पार्थ सुखितेति परन्तप।
तथा दृष्ट्वा यवीयांसं सहदेवं युधांपतिम् ॥ 112 ॥ 4-22-112 (29221)
तं दृष्ट्वा गोषु गोसङ्ख्यं वत्सचर्मक्षितीशयम्।
दुःखशोकपरीताङ्गी पाण्डुभूताऽस्मि पाण्डव ॥ 113 ॥ 4-22-113 (29222)
सहदेवस्य वृत्तानि चिन्तयन्ती पुनःपुनः ।
न पश्यामि महाभाग सहदेवस्य दुःष्कृतम्।
यस्मादेवंविधं क्लेशं प्राप्नुयात्सत्यविक्रमः ॥ 114 ॥ 4-22-114 (29223)
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम्।
गोषु गोवृषसंकाशं मात्स्येनापि निवेशितम् ॥ 115 ॥ 4-22-115 (29224)
संरब्धतररक्ताक्षं गोपालानां पुरोगमम्।
विराटमभिनन्दन्तं वित्ते मे भवति ज्वरः ॥ 116 ॥ 4-22-116 (29225)
सहदेवं हि मे नित्यं वीरमार्या प्रशंसति।
महाभिजनसंपन्नो नीतिमान्कुलवानपि ॥ 117 ॥ 4-22-117 (29226)
हीनिषेवो ह्यनवमो धार्मिकश्च प्रियश्च मे।
स तेऽरण्येषु वोढव्यः पाञ्चालि रजनीष्वपि ॥ 118 ॥ 4-22-118 (29227)
सुकुमारश्च शूरश्च राजानं चाप्यनुव्रतः।
ज्येष्ठापचायिनं वीरं स्वयं पाञ्चालि भोजयेः ॥ 119 ॥ 4-22-119 (29228)
इत्युवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी।
प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती ॥ 120 ॥ 4-22-120 (29229)
तं दृष्ट्वा गोषु गोपालवेषमास्थाय धिष्ठितम्।
सहदेवं युधांश्रेष्ठं किंनु जीवामि पाण्डवः ॥ 121 ॥ 4-22-121 (29230)
एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ॥ 122 ॥ 4-22-122 (29231)
पुनः प्रतिविशिष्टानि दुःखानि शृणु भारत।
वर्धन्ते मयि कौन्तेय वक्ष्याम्यन्यानि तानि वै ॥ 123 ॥ 4-22-123 (29232)
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत।
शोषयन्ति शरीरं मे किंनु दुःखतरं ततः ॥ 124 ॥ 4-22-124 (29233)
4-22-125 (29234)
एकभर्ता तु या नारी सा सुखेनैव वर्तते।
पञ्च मे पतयः सन्ति मम दुःखमनन्तकम् ॥ 125 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-22-7 सर्वश्वेता बकी इति नीलकण्ठः ॥ 7 ॥ 4-22-10 तथा इति खo पाठः ॥ 10 ॥ 4-22-13 नाभृतस्य हि पापीयान्भार्यामालभ्य जीवतीति झo पाठः ॥ 13 ॥ 4-22-54 महारण्यमनुजैः परिवारितः इति खo पाठः ॥ 54 ॥( इमे चत्वारः श्लोकाः धo पुस्तक एव वर्तन्ते ॥)विराटपर्व - अध्याय 023
॥ श्रीः ॥
4.23. अध्यायः 023
Mahabharata - Virata Parva - Chapter Topics
द्रौपद्या भीमंप्रति स्ववैभवानुस्मारणेन परिशोचनपूर्वकं कीचकहननचोदना ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-23-0 (29235)
द्रौपद्युवाच। 4-23-0x (3083)
अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि।
वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥ 1 ॥ 4-23-1 (29236)
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप।
आसे कालमुपासीना सर्वदुःखसहा पुनः ॥ 2 ॥ 4-23-2 (29237)
अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च।
इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 3 ॥ 4-23-3 (29238)
चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च ।
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 4 ॥ 4-23-4 (29239)
य एव हेतुर्भवति पुरुषस्य जयावहः।
पराजये च हेतुः स इति च प्रतिपालये ॥ 5 ॥ 4-23-5 (29240)
दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते।
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥ 6 ॥ 4-23-6 (29241)
न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम्।
इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥ 7 ॥ 4-23-7 (29242)
स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति ।
इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः ॥ 8 ॥ 4-23-8 (29243)
दैवेन किल यस्यार्थः सुनीतोपि विपद्यते।
सदा दैवागमे यत्नस्तेन कार्यो विजानता ॥ 9 ॥ 4-23-9 (29244)
किंनु मे वचनस्याद्य कथितस्य प्रयोजनम् ।
पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते ॥ 10 ॥ 4-23-10 (29245)
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च ।
इमामवस्थां संप्राप्ता मदन्या का जिजीविषेत् ॥ 11 ॥ 4-23-11 (29246)
कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत।
पाण्डवेयांश्च संप्राप्तो मम शोको ह्यरिन्दम ॥ 12 ॥ 4-23-12 (29247)
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता।
एवं समुदिता नारी कान्वेयं दुःखभागिनी ॥ 13 ॥ 4-23-13 (29248)
नूनं बालतया धातुर्मया वै विप्रियं कृतम्।
तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ॥ 14 ॥ 4-23-14 (29249)
वर्णं विकारमपि मे पश्य पाण्डव यादृशम् ।
ईदृशो मे न तत्रासीद्दुःखे परमके पुरा ॥ 15 ॥ 4-23-15 (29250)
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा।
साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे॥ 16 ॥ 4-23-16 (29251)
तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः।
भीमधन्वा महारङ्गे चास्ते शान्त इवानलः ॥ 17 ॥ 4-23-17 (29252)
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः ।
विनिपातमिमं पश्य युष्माकमविचिन्तितम् ॥ 18 ॥ 4-23-18 (29253)
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा।
सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती ॥ 19 ॥ 4-23-19 (29254)
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा ।
युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद ॥ 20 ॥ 4-23-20 (29255)
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी।
आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी ॥ 21 ॥ 4-23-21 (29256)
यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः।
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ॥ 22 ॥ 4-23-22 (29257)
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत्।
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः ।
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनं ॥ 23 ॥ 4-23-23 (29258)
पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा।
इत्यस्मै दर्शयामास किणवन्तौ करावुभौ ॥ 24 ॥ 4-23-24 (29259)
बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन।
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी ॥ 25 ॥ 4-23-25 (29260)
किंनु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा।
नान्यपिष्टं विराटस्य चन्दनं किल रोचते ॥ 26 ॥ 4-23-26 (29261)
वैशम्पायन उवाच। 4-23-27x (3084)
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी।
रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता ॥ 27 ॥ 4-23-27 (29262)
सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः ।
हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् ॥ 28 ॥ 4-23-28 (29263)
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा।
अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव ॥ 29 ॥ 4-23-29 (29264)
कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम्।
विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम्।
अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा ॥ 30 ॥ 4-23-30 (29265)
पापे निपतितायाश्च किं फलं जीवितेन मे।
इत्यस्मै दर्शयामास किणबद्धौ करावुभौ ॥ 31 ॥ 4-23-31 (29266)
ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः।
मुखमानीय वेपन्त्या रुरोद परवीरहा ॥ 32 ॥ 4-23-32 (29267)
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् ।
ततः परमदुःखार्त इदं वचनमब्रवीत् ॥ 32 ॥ ॥ 4-23-33 (29268)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-23-6 मानयित्वा च मान्यन्ते नरा दैवविपर्यये इति थo पाठः ॥ 6 ॥विराटपर्व - अध्याय 024
॥ श्रीः ॥
4.24. अध्यायः 024
Mahabharata - Virata Parva - Chapter Topics
द्रौपदीभीमसंवादः ॥ 1 ॥ द्रौपद्या भीमंप्रति हटात्कीचकसंहारचोदना ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-24-0 (29269)
वैशम्पायन उवाच। 4-24-0x (3085)
आश्वासयंस्तां पाञ्चालीं भीमसेन उवाच ह।
शृणु भद्रे वरारोहे क्रोधात्तत्र तु चिन्तितम् ॥ 1 ॥ 4-24-1 (29270)
त्वं वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् ।
कर्तुकामेन भद्रं ते वृक्षश्चावेक्षितो मया ॥ 2 ॥ 4-24-2 (29271)
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत्।
तज्ज्ञात्वाऽवाङ्भुखस्तूष्णीमास्थितोस्मि महानसं ॥ 3 ॥ 4-24-3 (29272)
शृणुष्वान्यत्प्रतिज्ञातं यद्वदामीह भामिनि ।
धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च।
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ ॥ 4 ॥ 4-24-4 (29273)
तदद्य मां तु तपति यत्कृतं न मया पुरा।
सभायां स्म विराटस्य करोमि कदनं महत् ॥ 5 ॥ 4-24-5 (29274)
तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते।
तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने ॥ 6 ॥ 4-24-6 (29275)
यच्च राज्यात्प्रच्यवनं कुरूणामवधश्च यः।
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ॥ 7 ॥ 4-24-7 (29276)
दुःशासनस्य पापस्य यन्मया न हृतं शिरः ।
तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम् ॥ 8 ॥ 4-24-8 (29277)
अपि चान्यद्वरारोहे स्मरिष्यसि वचो मम।
पुण्ये तीरे सरस्वत्या यत्प्रतिष्ठाम संगताः ।
तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन् ॥ 9 ॥ 4-24-9 (29278)
न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम्।
धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ।
कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम् ॥ 10 ॥ 4-24-10 (29279)
परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा।
हीमान्वाक्यमहीनार्थं ब्रुवन्राजा युधिष्ठिरः ।
सर्वानन्वनयद्भ्रातॄन्मुनेर्धौम्यस्य पश्यतः ॥ 11 ॥ 4-24-11 (29280)
मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता।
रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि ॥ 12 ॥ 4-24-12 (29281)
अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि।
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ॥ 13 ॥ 4-24-13 (29282)
इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः ।
शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितं ॥ 14 ॥ 4-24-14 (29283)
धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे।
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ॥ 15 ॥ 4-24-15 (29284)
धर्मं शृणुष्व पाञ्चालि यत्ते वक्ष्यामि मानिनि ॥ 16 ॥ 4-24-16 (29285)
दुहिता जनकस्यासीद्वैदेही यदि ते श्रुता।
पतिमन्वचरत्सीता महारण्यनिवासिनम् ॥ 17 ॥ 4-24-17 (29286)
वसन्ती च महारण्ये रामस्य महिषी प्रिया।
रावणेन हृता सीता राक्षसीभिश्च तर्जिता।
सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत ॥ 18 ॥ 4-24-18 (29287)
लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम्।
भगवन्तमगस्त्यं सा वनायैवान्वपद्यत ॥ 19 ॥ 4-24-19 (29288)
सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने।
वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी ॥ 20 ॥ 4-24-20 (29289)
नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि।
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ॥ 21 ॥ 4-24-21 (29290)
नलं राजानमेवाथ दमयन्ती वनान्तरे।
अन्वगच्छत्पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः ॥ 22 ॥ 4-24-22 (29291)
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः।
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ॥ 23 ॥ 4-24-23 (29292)
मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते।
पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ॥ 24 ॥ 4-24-24 (29293)
सत्येन ते शपे चाहं भविता नान्यथेति च ॥ 25 ॥ 4-24-25 (29294)
सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि।
सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि ॥ 26 ॥ 4-24-26 (29295)
भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् ।
यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः ॥ 27 ॥ 4-24-27 (29296)
गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः ॥ 28 ॥ 4-24-28 (29297)
द्रौपद्युवाच। 4-24-29x (3086)
आर्तप्रलापा कौन्तेय न राजानमुपालभे।
अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् ॥ 29 ॥ 4-24-29 (29298)
इदं तु दुःखं कौन्तेय ममासद्यं निबोध तत् ॥ 30 ॥ 4-24-30 (29299)
योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः।
स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः ॥ 31 ॥ 4-24-31 (29300)
त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः ।
नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने ।
अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् ॥ 32 ॥ 4-24-32 (29301)
किमुक्तेन व्यतीतेन भीमसेन महाबल।
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ॥ 33 ॥ 4-24-33 (29302)
ममेह भीम कैकेयी रूपाद्धि भयशङ्किता।
नित्यमुद्विजते राजा कथं नेयादिमामिति ॥ 34 ॥ 4-24-34 (29303)
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः ।
कीचकोपि च दुष्टात्मा पुनः प्रार्थयते च मां ॥ 35 ॥ 4-24-35 (29304)
तमहं कुपिता भीम पुनः कोपं नियम्य च।
अब्रवं कामसंमूढमात्मानं रक्ष कीचक ॥ 36 ॥ 4-24-36 (29305)
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया ।
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ॥ 37 ॥ 4-24-37 (29306)
एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह।
नाहं बिभेमि भैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥ 38 ॥ 4-24-38 (29307)
शतं सहस्रमपि वा गन्धर्वाणामहं रणे।
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ॥ 39 ॥ 4-24-39 (29308)
इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः।
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ॥ 40 ॥ 4-24-40 (29309)
धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता।
नेच्छामि किंचिद्वध्यं त्वां तस्माज्जीवसि कीचक ॥ 41 ॥ 4-24-41 (29310)
एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत्ततः।
न तिष्ठिति स सन्मार्गे न च धर्मं बुभूषति ॥ 42 ॥ 4-24-42 (29311)
पापात्मा पापकारी च कामराजवशानुगः ।
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ॥ 43 ॥ 4-24-43 (29312)
दर्शनेदर्शने हन्याद्यदि जह्यां च जीवितम्।
धर्मे प्रयतमानानां महान्धर्मो नशिष्यति ॥ 44 ॥ 4-24-44 (29313)
समयं रक्षमाणानां दारा वो न भवन्ति च ।
भार्याजां रक्ष्यमाणायां प्रजा भवति रक्षिता।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ 45 ॥ 4-24-45 (29314)
वंदतां वर्णधर्मांश्च ब्राह्मणानां च मे श्रुतम् ।
क्षत्रियस्य सदा धर्मो नान्यो दस्युनिबर्हणात् ॥ 46 ॥ 4-24-46 (29315)
पश्यतो धर्मराजस्य कीचको माऽन्वधावत ।
तवेव च समक्षं वै भीमसेन महाबल ॥ 47 ॥ 4-24-47 (29316)
त्वया चाहं परित्राता भीम तस्माञ्जटासुरात् ॥ 48 ॥ 4-24-48 (29317)
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह।
जहीममपि पापिष्ठं योयं मामवमन्यते ।
कीचको राजवाल्लभ्याच्छोककृन्मम भारत ॥ 49 ॥ 4-24-49 (29318)
कीचकं कामसन्तप्तं भिन्धि कुम्भमिवाश्मनि ।
यो निमित्तमनर्थानां बहूनां मम भारत ॥ 50 ॥ 4-24-50 (29319)
तं चेञ्जीवन्तमादित्यः प्रातरभ्युदयिष्यति ।
विषमालोड्य पास्यामि मा कीचकवशंगमम् ॥ 51 ॥ 4-24-51 (29320)
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ।
इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरसि संश्रिता ॥ 52 ॥ 4-24-52 (29321)
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च।
कीचकं मनसाऽगच्छत्सृक्किणी परिलेलिहन् ॥ 53 ॥ 4-24-53 (29322)
आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम्।
हेतुतत्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम् ॥ 54 ॥ 4-24-54 (29323)
प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम्।
उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः ॥ 55 ॥ ॥ 4-24-55 (29324)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि चतुर्विशोऽध्यायः ॥ 24 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-24-24 मा दीर्घं क्षम कालं त्वं मासमर्धं च संमितमिति झo पाठः ॥ 24 ॥ 4-24-26 प्राधान्यं कर्तुमर्हसि इति खo पाठः ॥ 26 ॥ 4-24-33 दुःखस्यान्तकरो भवेति धo पाठः ॥ 33 ॥विराटपर्व - अध्याय 025
॥ श्रीः ॥
4.25. अध्यायः 025
Mahabharata - Virata Parva - Chapter Topics
द्रौपद्या भीमवचनात्कीचकंप्रति नर्तनशालाया उभयोः समागमे संकेतस्थानत्वनिर्धारणेन रात्रौ तत्रागमनचादना ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-25-0 (29325)
भीम उवाच। 4-25-0x (3087)
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे।
अद्यैनं सूदयिष्यामि कीचकं सह बान्धवैः ॥ 1 ॥ 4-25-1 (29326)
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम् ।
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥ 2 ॥ 4-25-2 (29327)
यैषा नर्तनशालेह मत्स्यराजेन कारिता।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति तथा गृहं ॥ 3 ॥ 4-25-3 (29328)
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम्।
तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ।
त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम् ॥ 4 ॥ 4-25-4 (29329)
संकेतं सूतपुत्रस्य कारयस्व शुभानने।
यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम् ॥ 5 ॥ 4-25-5 (29330)
तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत्।
तथा कुर्याश्च संकेतं सूतपुत्रस्य संवृतम् ॥ 6 ॥ 4-25-6 (29331)
आवयोः संगमं भीरु यथा मार्त्यो न बुध्यति ।
कीचकस्य विनाशाय तथा कुरु नृपात्मजे ॥ 7 ॥ 4-25-7 (29332)
वैशम्पायन उवाच । 4-25-8x (3088)
तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ।
रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि ॥ 8 ॥ 4-25-8 (29333)
भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा।
द्रौपदी च सुदेष्णायाः प्रविवेश पुनर्गृहम् ॥ 9 ॥ 4-25-9 (29334)
तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः।
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥ 10 ॥ 4-25-10 (29335)
यत्त्वाऽहं पश्यतो राज्ञः पातयित्वा पदाऽहनम् ।
न कंचिल्लभसे नाथमभिपन्ना बलीयसा ॥ 11 ॥ 4-25-11 (29336)
प्रवादेन तु मात्स्यानामयं राजेति चोच्यते।
अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः ॥ 12 ॥ 4-25-12 (29337)
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते।
न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे ॥ 13 ॥ 4-25-13 (29338)
अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते।
दासीशतं च ते दद्यां दासानामपि चापरम् ॥ 14 ॥ 4-25-14 (29339)
रथांश्चाश्वतरीयुक्तानस्तु नौ भीरु संगमः ।
सुदासानां सहस्रं च महिषाणां सहस्रकम् ॥ 15 ॥ 4-25-15 (29340)
अन्तःपुरसहस्रं च हेमकूटसहस्रकम्।
तुभ्यं दास्यामि सर्वाणि राजार्हाण्यम्बराणि च ॥ 16 ॥ 4-25-16 (29341)
द्रौपद्युवाच। 4-25-17x (3089)
एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक।
न ते सखा वा भ्राता वा जानीयात्संगमं मया ॥ 17 ॥ 4-25-17 (29342)
अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम् ।
अनुबोधाद्गनर्थः स्यादयशश्च महद्भवेत।
एतन्मे प्रतिजानीहि ततोऽहं वशगा तव ॥ 18 ॥ 4-25-18 (29343)
कीचक उवाच। 4-25-19x (3090)
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे।
एकोऽहमागमिष्यामि शून्यमावसथं तव ॥ 19 ॥ 4-25-19 (29344)
समागमार्थं रम्भोरु त्वया मदनदर्पितः।
यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः ॥ 20 ॥ 4-25-20 (29345)
द्रौपद्युवाच। 4-25-21x (3091)
यदेतन्नर्तनागारं मात्स्यराजेन कारितम्।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहं ॥ 21 ॥ 4-25-21 (29346)
निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते।
तत्र दोषः परिहृतो भविष्यति न संशयः ॥ 22 ॥ 4-25-22 (29347)
एकस्त्वं नर्तनागारं रात्रौ संकेतमाव्रज ।
तत्राहं भविता तुभ्यं वशगा नात्र संशयः ॥ 23 ॥ 4-25-23 (29348)
कीचक उवाच। 4-25-24x (3092)
तथा भद्रे करिष्यामि यथा त्वं भीरु वक्ष्यसि।
एकः सन्नर्तनागारमागमिष्यामि भामिनि।
समागमार्थं सुश्रोणि शपे च सुकृतेन मे ॥ 24 ॥ 4-25-24 (29349)
यथा त्वां नावबुध्यन्ति गन्धर्वा वरवर्णिनि।
सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम्।
अलंकरिष्याम्यद्याहं त्वत्समागमनाय वै ॥ 25 ॥ 4-25-25 (29350)
वासांसि च विचित्राणि मनोज्ञानि तवापि च।
यथा मां न त्यजेथास्त्वं तथ रंस्ये त्वया सह ॥ 26 ॥ 4-25-26 (29351)
द्रौपद्युवाच। 4-25-27x (3093)
तथा चेदप्यहं सूत दर्शयिष्यामि ते सुखम्।
यन्नानुभूतं भवता जन्मप्रभृति कीचक ॥ 27 ॥ 4-25-27 (29352)
वैशम्पायन उवाच। 4-25-28x (3094)
तमर्थमपि जल्पन्त्या द्रौपद्याः कीचकस्य ह।
क्षणमात्रं तदभवन्मासेनैव समं नृप ॥ 28 ॥ 4-25-28 (29353)
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः।
सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान् ॥ 29 ॥ 4-25-29 (29354)
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः।
अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः ॥ 30 ॥ 4-25-30 (29355)
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत्।
अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥ 31 ॥ 4-25-31 (29356)
आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः ।
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥ 32 ॥ 4-25-32 (29357)
कृतसंप्रत्ययस्तस्याः कीचकः काममोहितः।
नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम् ॥ 33 ॥ 4-25-33 (29358)
ततस्तु द्रौपदी गत्वा भीमसेनं महानसे।
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ॥ 34 ॥ 4-25-34 (29359)
तमुवाच सुकेशान्ता कीचकस्य कृतो मया।
सङ्गमो नर्तनागारे यथाऽवोचः परन्तप ॥ 35 ॥ 4-25-35 (29360)
कालेन नियतं बद्धः कामेन च बलात्कृतः।
शून्यं स नर्तनागारमागमिष्यति कीचकः।
एको निशि महाबाहो कीचकं तं निषूदय ॥ 36 ॥ 4-25-36 (29361)
तं मूतपुत्रं कौन्तेय कीचकं मददर्पितम्।
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ॥ 37 ॥ 4-25-37 (29362)
गर्वितः मूतपुत्रोऽसौ गन्धर्वानवमन्यते।
स त्वं प्रहरतांश्रेष्ठ नालं नाग इवोद्धर ॥ 38 ॥ 4-25-38 (29363)
अस्रं दुःखाभिभूताया मम मार्जस्व भारत।
बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम्।
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥ 39 ॥ 4-25-39 (29364)
भीम उवाच। 4-25-40x (3095)
स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम्।
नह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ॥ 40 ॥ 4-25-40 (29365)
सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे।
हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते ॥ 41 ॥ 4-25-41 (29366)
सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते।
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥ 42 ॥ 4-25-42 (29367)
प्रसह्य निहनिष्यामि केशवः केशिनं यथा।
रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् ॥ 43 ॥ 4-25-43 (29368)
अहं भद्रे हनिष्यामि कीचकं मदनान्वितम्।
यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते ॥ 44 ॥ 4-25-44 (29369)
अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम्।
निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् ॥ 45 ॥ 4-25-45 (29370)
मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति।
दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम्।
कुरुणामखिलं राज्यं प्रतिपत्स्यामि भामिनि ॥ 46 ॥ 4-25-46 (29371)
नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम्।
कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः ।
काममन्ये ह्युपासन्तु विनीता धर्मचारिणः ॥ 47 ॥ 4-25-47 (29372)
त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम्।
निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः ॥ 48 ॥ 4-25-48 (29373)
द्रौपद्युवाच। 4-25-49x (3096)
कीचकस्य वधं भीम यदि जानन्ति नागराः।
त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे ॥ 49 ॥ 4-25-49 (29374)
कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो।
निशि गूढं तथा भीम कीचकं तं निपातय ॥ 50 ॥ 4-25-50 (29375)
अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः।
पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः ॥ 51 ॥ 4-25-51 (29376)
कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत।
भीम भीताऽस्मि संबोधात्साधु मा चापलं कृथाः ॥ 52 ॥ 4-25-52 (29377)
यथा न कश्चिञ्जानीते सूतपुत्रं त्वया हतम्।
तथा कुरुष्व कौरव्य बलवन्नरिमर्दन ।
अदृश्यमानस्त्वंतस्य भिन्धि प्राणानरिन्दम ॥ 53 ॥ ॥ 4-25-53 (29378)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥
विराटपर्व - अध्याय 026
॥ श्रीः ॥
4.26. अध्यायः 026
Mahabharata - Virata Parva - Chapter Topics
भीमेन कीचकागमनात्पूर्वमेव नर्तनागारमेत्य शय्यायां शयनम् ॥ 1 ॥ पश्चात्समागतेन कीचकेन भीमंप्रति द्रौपदी बुद्ध्या संस्पर्शनपूर्वकं संभाषणम् ॥ 2 ॥ भीमेन नियुद्धेन कीचकमारणम् ॥ 3 ॥ पश्चाद्द्रौपद्या समाह्वानादुपकीचकानां तत्र समागमनम् ॥ 4 ॥Mahabharata - Virata Parva - Chapter Text
4-26-0 (29379)
भीम उवाच। 4-26-0x (3097)
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे।
अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् ॥ 1 ॥ 4-26-1 (29380)
नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः।
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥ 2 ॥ 4-26-2 (29381)
मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति।
कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् ॥ 3 ॥ 4-26-3 (29382)
वैशम्पायन उवाच। 4-26-4x (3098)
एवमुक्तवा महाबाहुस्तत्र पाण्डवनन्दनः।
अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः ॥ 4 ॥ 4-26-4 (29383)
अवदातेन मृदुना पटेनाच्छादितस्तथा ।
द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः ॥ 5 ॥ 4-26-5 (29384)
स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् ।
मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥ 6 ॥ 4-26-6 (29385)
कीचकस्तु शिरःस्नातो निशायां समलंकृतः।
सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् ॥ 7 ॥ 4-26-7 (29386)
तदेव नर्तनागारं पाञ्चाली यदभाषत।
तां मन्यमानः संकेते सैरन्ध्रीं काममोहितः ॥ 8 ॥ 4-26-8 (29387)
प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम्।
पूर्वागतं भीमसेनं दृप्तमप्रतिमजसम् ॥ 9 ॥ 4-26-9 (29388)
शयानं शयने तत्र मृत्युं मूढः परामृशत्।
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च ॥ 10 ॥ 4-26-10 (29389)
एकान्ते भीममासाद्य कीचकः कालचोदितः।
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥ 11 ॥ 4-26-11 (29390)
प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते।
त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता ॥ 12 ॥ 4-26-12 (29391)
अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः।
बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् ॥ 13 ॥ 4-26-13 (29392)
अहं रूपेण संपन्नः स्नातो गुरुविभूषितः।
नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः ।
रूपस्य तन्मया प्राप्तं फलं कमललोचने ॥ 14 ॥ 4-26-14 (29393)
भीम उवाच। 4-26-15x (3099)
दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि॥ 15 ॥ 4-26-15 (29394)
त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता।
अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज।
द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता ॥ 16 ॥ 4-26-16 (29395)
उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि ।
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥ 17 ॥ 4-26-17 (29396)
स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः।
स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह ॥ 18 ॥ 4-26-18 (29397)
वैशम्पायन उवाच। 4-26-19x (3100)
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः।
सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह ॥ 19 ॥ 4-26-19 (29398)
अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि ।
द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् ॥ 20 ॥ 4-26-20 (29399)
निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति।
सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा ॥ 21 ॥ 4-26-21 (29400)
ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥ 22 ॥ 4-26-22 (29401)
गृहीत्वा कीचकं भीमो विरराज महाबलः।
गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा ॥ 23 ॥ 4-26-23 (29402)
स केशेषु परामृष्टो बलेन बलिनां वरः।
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ॥ 24 ॥ 4-26-24 (29403)
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः।
वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव ॥ 25 ॥ 4-26-25 (29404)
कीचकानां तु मुख्यस्य नराणामुत्तमस्य च।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ 26 ॥ 4-26-26 (29405)
शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ।
समयत्नौ समक्रोधौ पतितौ भीमकीचकौ ॥ 27 ॥ 4-26-27 (29406)
गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ।
वृषभाविव वल्मीकं मृद्गन्तौ समविक्रमौ ॥28 ॥ 4-26-28 (29407)
ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम् ।
कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि ॥ 29 ॥ 4-26-29 (29408)
पातितो भीमसेनस्तु कीचकेन बलीयसा।
उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥ 30 ॥ 4-26-30 (29409)
स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ।
निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये ॥ 31 ॥ 4-26-31 (29410)
ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम्।
तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः ॥ 32 ॥ 4-26-32 (29411)
तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली।
कीचको रोषरक्ताक्षो न चचाल पदात्पदम् ॥ 33 ॥ 4-26-33 (29412)
मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः।
कीचको भीमसेनेन पश्चात्पश्चादहीयत ॥ 34 ॥ 4-26-34 (29413)
तं हीयमानं विज्ञाय भीमसेनो महाबलः ।
वक्षस्यानीय वेगेन प्रममाथ विचेतसम् ॥ 35 ॥ 4-26-35 (29414)
क्रोधाविष्टो विनिश्चस्य पुनश्चैनं वृकोदरः ।
जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा ॥ 36 ॥ 4-26-36 (29415)
गृहीत्वा कीचकं भीमो विरराज महाबलः ।
आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम् ॥ 37 ॥ 4-26-37 (29416)
पुनश्चातिबलस्तत्र कीचको बलदर्पितः ।
व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना ॥ 38 ॥ 4-26-38 (29417)
मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम्।
कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि ॥ 39 ॥ 4-26-39 (29418)
आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम् ।
काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः ॥ 40 ॥ 4-26-40 (29419)
स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत् ॥ 41 ॥ 4-26-41 (29420)
तत्राग्निं स्वयमुज्ज्वाल्य पाणिसंघर्षजं बली।
कष्णायै दर्शयामास भीमसेनो महाबलः ॥ 42 ॥ 4-26-42 (29421)
उवाच च महातेजा द्रौपदीं योषितां वराम्।
त्वयि कामुकमत्यन्तं पापिनं पारदारिकम्।
पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः ॥ 43 ॥ 4-26-43 (29422)
प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम् ।
एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा।
यस्त्वामभ्यहनद्भद्रे पदा भूमौ निपात्य च ॥ 44 ॥ 4-26-44 (29423)
एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा।
विज्ञापनार्थमन्येषां विरराम महाहवम् ॥ 45 ॥ 4-26-45 (29424)
तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम्।
आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम् ॥ 46 ॥ 4-26-46 (29425)
स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम्।
सुखोपविष्टः शयने भीमो भीमपराक्रमः ॥ 47 ॥ 4-26-47 (29426)
ततः कृष्णा यदा मेने गतं भीमं महानसम् ।
कीचकं घातयित्वा च द्रौपदी योषितां वरा।
प्रहृष्टा गतसंत्रासा सभापालानुवाच ह ॥ 48 ॥ 4-26-48 (29427)
कीचको निहतः शेते गन्धर्वैः पतिभिर्मम।
परस्त्रीकामसंतप्तं समागच्छन्त पश्यत ॥ 49 ॥ 4-26-49 (29428)
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः ।
सहसैव समुत्तस्थुरुल्कामादाय सर्वशः ॥ 50 ॥ 4-26-50 (29429)
तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः।
ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम्।
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥ 51 ॥ 4-26-51 (29430)
पार्ष्णिपामिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन् ॥ 52 ॥ 4-26-52 (29431)
क्वास्य ग्रीवा क्व चरमौ क्व पामी क्व शिरः क्व दृक् ।
इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा ॥ 53 ॥ 4-26-53 (29432)
अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् ।
निरीक्षन्ते ततः सर्वे परं विस्मयमागताः ॥ 54 ॥ ॥ 4-26-54 (29433)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥
विराटपर्व - अध्याय 027
॥ श्रीः ॥
4.27. अध्यायः 027
Mahabharata - Virata Parva - Chapter Topics
भ्रातृवधामर्पितैरुपकीचकैः पाञ्चाल्याः कीचकेन सह चरमविमानसमारोपणेन श्मशानप्रापणम् ॥ 1 ॥ द्रौपदीसमाक्रन्दनिनदश्रवणात्पितृवनमुपागतवता भीमेनोपकीचकानां पञ्चाधिकशतस्य पञ्चताप्रापणम् ॥ 2 ॥ भीमेन द्रौपद्याः पतिव्रतोपाख्यानकथनात्समाश्वासनेन स्वावासप्रेपणपूर्वकं महानसप्रवेशः ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-27-0 (29434)
वैशम्पायन उवाच। 4-27-0x (3101)
तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः ।
रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे ॥ 1 । 4-27-1 (29435)
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम्।
तथा संभुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् ॥ 2 ॥ 4-27-2 (29436)
पोथितं भीमसेनेन महेन्द्रेणेव दानवम्।
कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् ॥ 3 ॥ 4-27-3 (29437)
गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम्।
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥ 4 ॥ 4-27-4 (29438)
अपश्यन्नथ ते कृष्णां मूतपुत्राः समागताः।
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥ 5 ॥ 4-27-5 (29439)
समागतेषु सूतेषु तानुवाचोपकीचकः।
हसन्निव पदाऽमर्षान्निर्दहन्निव चक्षुषा ॥ 6 ॥ 4-27-6 (29440)
हन्यतां शीघ्रमसती यत्कृते कीचको हतः।
अथवा नैव हन्तव्या दह्यतां कामिना सह ॥ 7 ॥ 4-27-7 (29441)
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ।
इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी ॥ 8 ॥ 4-27-8 (29442)
यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति।
सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम् ।
हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् ॥ 9 ॥ 4-27-9 (29443)
वैशम्पायन उवाच ॥ 4-27-10x (3102)
ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन्।
कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः ॥ 10 ॥ 4-27-10 (29444)
सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया ।
मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि ॥ 11 ॥ 4-27-11 (29445)
पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत ।
सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः ॥ 12 ॥ 4-27-12 (29446)
ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः।
रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः ॥ 13 ॥ 4-27-13 (29447)
आरोप्य कृष्णां सह कीचकेन निबध्य केशेषु च पादयोश्च।
ते चापि सूता वचनैरवोचन्नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम् ॥ 14 ॥ 4-27-14 (29448)
यस्याः कृतेऽयं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु ।
अवार्यसत्वेन च कीचकेन गतासुना सुन्दरी स्वर्गलोकम् ॥ 15 ॥ 4-27-15 (29449)
सा तेन कृष्णा शयने निबद्धा यशस्विनी चैव मनस्विनी च।
अनार्यसत्त्वेन महार्यसत्त्वा गतासुना सा प्ररुरोद कृष्णा ।
विलम्बमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी ॥ 16 ॥ 4-27-16 (29450)
ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता।
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ 17 ॥ 4-27-17 (29451)
मृतेन सह बद्धाङ्गी निराशा जीविते तदा।
श्मशानाभिमुखं नीता करेणुरिव रौति सा ॥ 18 ॥ 4-27-18 (29452)
द्रौपद्युवाच। 4-27-19x (3103)
जयो जयेशो विजयो जयत्सेनो जयद्बलः।
त मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 19 ॥ 4-27-19 (29453)
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान्।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 20 ॥ 4-27-20 (29454)
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः।
अश्रूयत महान्युद्धे भीमघोपस्तरस्विनाम् ॥ 21 ॥ 4-27-21 (29455)
रथघोपश्च बलवान्गन्धर्वाणां तरस्विनाम् ।
ते मे वाचं बिजानन्तु सूतपुत्रा नयन्ति माम् ॥ 22 ॥ 4-27-22 (29456)
येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः।
राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखितां ॥ 23 ॥ 4-27-23 (29457)
इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः।
श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन् ॥ 24 ॥ 4-27-24 (29458)
भीम उवाच। 4-27-25x (3104)
अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः।
तस्मात्ते सूतपुत्रेभ्यो न भयं जातु विद्यते ॥ 25 ॥ 4-27-25 (29459)
वैशम्पायन उवाच। 4-27-26x (3105)
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ॥ 26 ॥ 4-27-26 (29460)
ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च।
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥ 27 ॥ 4-27-27 (29461)
स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम् ।
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥ 28 ॥ 4-27-28 (29462)
स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् ।
जवेनोत्पतितो भीमः सूतानामग्रतस्तदा ॥ 29 ॥ 4-27-29 (29463)
चितासमीपं गत्वा स तत्रापश्यन्महाबलः ।
तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम् ॥ 30 ॥ 4-27-30 (29464)
तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च।
वृक्षमुत्पाटयामास भीमो भीमपराक्रमः ॥ 31 ॥ 4-27-31 (29465)
ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा ॥ 32 ॥ 4-27-32 (29466)
तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः।
प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः॥ 33 ॥ 4-27-33 (29467)
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः।
भूमौ निपतिता वृक्षाः संभग्नास्तत्र शेरते ॥ 34 ॥ 4-27-34 (29468)
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम्।
वित्रेसुश्च तदा सूता विपादभयपीडिताः ॥ 35 ॥ 4-27-35 (29469)
तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः।
दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः।
परस्परमथोचुस्ते विषादभयमोहिताः ॥ 36 ॥ 4-27-36 (29470)
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्।
प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः।
सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् ॥ 37 ॥ 4-27-37 (29471)
वैशम्पायन उवाच। 4-27-38x (3106)
ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् ।
विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति ॥ 38 ॥ 4-27-38 (29472)
द्रवतस्तांश्च संप्रेक्ष्य स वज्री दानवानिव ।
अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् ॥ 39 ॥ 4-27-39 (29473)
ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः ॥ 40 ॥ 4-27-40 (29474)
दृष्ट्वा ताञ्शतसङ्ख्यकान्स वज्री दानवानिव।
एकेनैव प्रहारेण दश सप्त च विंशतिम्।
अष्टादश च पञ्चाशञ्जघान स वृकोदरः ॥ 41 ॥ 4-27-41 (29475)
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम्।
वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली।
वायुवेगसमः श्रीमान्सर्वान्सूतानशेषतः ॥ 42 ॥ 4-27-42 (29476)
तान्निहत्य महाबाहुर्भीमसेनो महाबलः।
आश्वासयत्तदा कृष्णां प्रतिमुच्य च बन्धनात् ॥ 43 ॥ 4-27-43 (29477)
उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः ।
अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः ॥ 44 ॥ 4-27-45a[ मा खिदस्त्वं(*) याज्ञसेनि पातिव्रत्यव्रते स्थिता।
पातिव्रत्ये स्थिता नारी व्रतं रक्षेत्सदाऽत्मनः॥ 45 ॥ 4-27-44 (29478)
पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः।
कदाचिद्भर्तृरूपेण रक्षसाऽपहृता सती ॥ 46 ॥ 4-27-46 (29479)
कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः।
तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् ॥ 47 ॥ 4-27-47 (29480)
साम्ना दानेन भेदेन सा यदा नान्वमन्यत।
तदा तां पातयित्वा स मैथुनायोपचक्रमे ॥ 48 ॥ 4-27-48 (29481)
ततः सा धैर्यमास्थाय विवरं त ददौ तदा।
ततः स खङ्गमुत्कृष्य भीषयामास तां सतीम् ॥ 49 ॥ 4-27-49 (29482)
साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता।
प्रतिज्ञामकरोत्कृष्णे पातिव्रत्यपरायणा ॥ 50 ॥ 4-27-50 (29483)
आराधितो यदि मया भर्ता मे दैवतं महत्।
कर्मणा मनसा वाचा गुरवस्तोषिता मया।
तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा ॥ 51 ॥ 4-27-51 (29484)
एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत्।
अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् ॥ 52 ॥ 4-27-52 (29485)
ततः स खङ्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् ॥ 53 ॥ 4-27-53 (29486)
जया नाम सखी साऽभूत्पार्वत्या नखमांसवत्।
तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु ॥ ] ॥ 54 ॥ 4-27-54 (29487)
एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः।
गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव ॥ 55 ॥ 4-27-55 (29488)
अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम्।
अन्येनाहं गमिष्यामि विराटस्य महानसम् ।
यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ ॥ 56 ॥ 4-27-56 (29489)
वैशम्पायन उवाच। 4-27-57x (3107)
साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती ॥ 57 ॥
कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा । 4-27-57 (29490)
शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् ॥ 58 ॥
भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः। 4-27-58 (29491)
सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः ॥ 59 ॥
निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव। 4-27-59 (29492)
जितशत्रुरदीनात्मा प्रविवेश पुरं ततः ॥ 60 ॥
पञ्चाधिकं शतं तत्र निहतं तेन भारत। 4-27-60 (29493)
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥ 61 ॥
एवं ते निहता राजञ्शतं पञ्चोपकीचकाः। 4-27-61 (29494)
स च सेनापतिः सूत इत्येतत्सूतषट्शतम् ॥ 62 ॥
न गन्धर्वभयाकिंचिद्वक्तुं कीचकबान्धवाः । 4-27-62 (29495)
अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् ॥ 63 ॥
विराटनगरे चापि सर्वे मात्स्याः समागताः । 4-27-63 (29496)
काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् ॥ 64 ॥
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः। 4-27-64 (29497)
विस्मयं परमं गत्वा नोचुः किंचन भारत ॥ 65 ॥ ॥ 4-27-65 (29498)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तविंशोऽध्यायाः ॥ 27 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-27-45 *इमे 10 श्लोकाः घo पुस्तक एव दृश्यन्ते ॥ 4-27-63 तां द्रौपदीमभिवीक्षितुमपि अशक्नुवन्तः कीचकबान्धवाः तांप्रति किंचिद्वक्तुं नाशक्नुवन्नित्यध्याहारेण योजना ॥ 63 ॥विराटपर्व - अध्याय 028
॥ श्रीः ॥
4.28. अध्यायः 028
Mahabharata - Virata Parva - Chapter Topics
पौरौर्विराटंप्रति सानुजकीचकनिधननिवेदनपूर्वकं नगराद्द्रौपदीनिष्कासनप्रार्थना ॥ 1 ॥ सुदेष्णया विराटनियोगाद्द्रौपदीं प्रति स्वपुरान्निर्गमनचोदना ॥ 2 ॥ तथा द्रौपद्या मासावधिस्ववासाभ्यनुज्ञानप्रार्थनायां तदङ्गीकरणम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-28-0 (29499)
वैशम्पायन उवाच। 4-28-0x (3108)
ते दृष्ट्वा निहतान्सूतान्भीमसेनेन भारत।
पौराश्च सहिताः सर्वे राज्ञे गत्वा न्यवेदयन् ।
गन्धर्वेण हता राजन्सूतपुत्राः परश्शतम् ॥ 1 ॥ 4-28-1 (29500)
यथा वज्रेण दीर्णं वै पर्वतस्य महच्छिरः।
विनिकार्णाः प्रदृश्यन्ते तथा सूता महीतले ॥ 2 ॥ 4-28-2 (29501)
सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम् ।
सर्वं संशयितं राजन्नगरं ते भविष्यति ॥ 3 ॥ 4-28-3 (29502)
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः ।
पुंसामिष्टश्च विषयो मैथुनाय न संशयः ॥ 4 ॥ 4-28-4 (29503)
यथा सैरन्ध्रिदोषेण नेदं राजन्पुरं तव।
विनाशमेति वै क्षिप्रं तथा साधु विधीयताम् ॥ 5 ॥ 4-28-5 (29504)
सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् ।
पश्यतामनिमेषेण चक्षुषा वनितां शुभाम्।
मनसश्चक्षुषश्चैव प्रतिबन्धो न विद्यते ॥ 6 ॥ 4-28-6 (29505)
तस्मात्तां यः पुमान्दृष्ट्वा रूपेणाप्रतिमां भुवि।
गच्छेत्कामवशं मूढो गन्धर्वैः स निहन्यते ॥ 7 ॥ 4-28-7 (29506)
निष्कासयैनां भवनात्पुराच्चैव विशेषतः।
कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् ॥ 8 ॥ 4-28-8 (29507)
वैशम्पायन उवाच। 4-28-9x (3109)
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः।
अब्रवीत्क्रियतामेषां सूतानामपरक्रिया ॥ 9 ॥ 4-28-9 (29508)
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने।
दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः ॥ 10 ॥ 4-28-10 (29509)
इत्युक्त्वा परमोद्वग्निः प्रविश्यान्तःपुरं शुभम्।
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ॥ 11 ॥ 4-28-11 (29510)
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह ।
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना ।
बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात् ॥ 12 ॥ 4-28-12 (29511)
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् ।
स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ॥ 13 ॥ 4-28-13 (29512)
वैशम्पायन उवाच। 4-28-14x (3110)
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने।
अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः ॥ 14 ॥ 4-28-14 (29513)
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च।
मोक्षिता भीमसेनेन जगाम नगरं प्रति ॥ 15 ॥ 4-28-15 (29514)
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी।
सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह ॥ 16 ॥ 4-28-16 (29515)
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश।
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टिं न्यमीलयन् ॥ 17 ॥ 4-28-17 (29516)
प्रदुद्रुवुश्चाप्यपरे तथा जना हस्तैश्च चक्षूंषि पिधाय मोहिताः।
मा पश्यत स्मेति च तां ब्रुवन्तस्तथा जनाश्चुक्रुशुरार्तरूपाः ॥ 18 ॥ 4-28-18 (29517)
तामद्य यः पश्यति रूपशालिनीं शयीत भग्नोऽत्र यथैव कीचकाः।
इति ब्रुवन्तो भयविग्नचेतसो भयेन गन्धर्वगतेन मोहिताः ॥ 19 ॥ 4-28-19 (29518)
ततो महानसद्वारे भीमसेनमवस्थितम्।
ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ॥ 20 ॥ 4-28-20 (29519)
सोपहासं तु शनकैः संज्ञाभिरिदमब्रवीत्।
नमो गन्धर्वराजाय येनास्मि परिमोक्षिता ॥ 21 ॥ 4-28-21 (29520)
कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे।
यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोस्तु ते ॥ 22 ॥ 4-28-22 (29521)
भीम उवाच। 4-28-23x (3111)
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः।
तेषां च वशगा नित्यं विचर त्वं यथेष्टतः ॥ 23 ॥ 4-28-23 (29522)
ये पुरा विचरन्तीह पुरुषा वशवर्तिनः।
तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः ॥ 24 ॥ 4-28-24 (29523)
वैशम्पायन उवाच। 4-28-25x (3112)
तयोस्तद्वचनं श्रुत्वा जझिरे नेतरे जनाः।
ततः पाञ्चालराजस्य सुता चापि जगाम ह ॥ 25 ॥ 4-28-25 (29524)
ततः सा नर्तनागारे धनंजयमपश्यत।
राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम् ॥ 26 ॥ 4-28-26 (29525)
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः।
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ॥ 27 ॥ 4-28-27 (29526)
कान्या ऊचुः। 4-28-28x (3113)
दिष्ट्या सैरन्ध्रि मुक्ताऽसि दिष्ट्याऽसि पुनरागता।
दिष्ट्या च निहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ॥ 28 ॥ 4-28-28 (29527)
बृहन्नलोवाच। 4-28-29x (3114)
कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः।
इच्छामि ते कथां श्रोतुं कथयस्व यथातथम् ॥ 29 ॥ 4-28-29 (29528)
सैरन्ध्युवाच। 4-28-30x (3115)
बृहन्नले किंनु तव सैरन्ध्र्या कार्यमद्य वै।
या त्वं रंस्यसि कल्याणि सदा कन्यापुरे सुखं ॥ 30 ॥ 4-28-30 (29529)
न हि दुःख समाप्नोषि सैरन्ध्री यदुपाश्रुते।
सुखेन वर्तसे येह न तद्दुःखमवाप्यते।
तेन मां दुःखितामेवं पृच्छसि प्रहसन्त्यपि ॥ 31 ॥ 4-28-31 (29530)
बृहन्नलोवाच। 4-28-32x (3116)
बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनन्तकम्।
तिर्यग्योनिगतेवेयं न चैनामवबुध्यसे ॥ 32 ॥ 4-28-32 (29531)
त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता।
त्वत्तः कृच्छ्रतरं वासं वसेयमहमङ्गने ।
क्लिश्यन्त्यां त्वयि सुश्रोणि कोनु दुःखं न चिन्तयेत्। ॥ 33 ॥ 4-28-33 (29532)
न तु केनचिदन्यन्तं कस्यचिद्धृदयं क्वचित्।
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे ॥ 34 ॥ 4-28-34 (29533)
वैशम्पायन उवाच। 4-28-35x (3117)
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत्।
प्रविवेश सुदेष्णायाः समीपमनसूयिनी ॥ 35 ॥ 4-28-35 (29534)
तामब्रवीद्राजपत्नी विराटवचनादिदम् ।
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ।
राजा बिभेति सैरन्ध्रि गन्धर्वेभ्यः पराभवात् ॥ 36 ॥ 4-28-36 (29535)
त्वं चापि तरुणी सुभ्रू रूपेणाप्रतिमा भुवि ।
चित्तानि च नृणां भद्रे रक्तानि स्पर्शजे सुखे ॥ 37 ॥ 4-28-37 (29536)
तस्मात्त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च।
गच्छाद्यैव यथेष्टं त्वं नगराद्यत्र रंस्यसे ॥ 38 ॥ 4-28-38 (29537)
त्वन्निमित्तं शुभे मह्यं सर्वो बन्धुजनो हतः।
नृशंसा खलु ते बुद्धिर्भ्रातॄणां मे कृतो वधः ॥ 39 ॥ 4-28-39 (29538)
तस्माद्गन्धर्वराजेभ्यो भयमद्य प्रवर्तते।
यथेष्टं गच्छ सैरन्ध्रि स्वस्ति चेह यथा भवेत् ॥ 40 ॥ 4-28-40 (29539)
वैशम्पायन उवाच। 4-28-41x (3118)
सुदेष्णाया वचः श्रुत्वा सैरन्ध्री चेदमब्रवीत् ।
त्रयोदशाहमात्रं तु राजा क्षाम्यतु भामिनि ॥ 41 ॥ 4-28-41 (29540)
कृतकृत्या अविष्यन्ति गन्धर्वास्ते न संशयः ।
ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम् ॥ 42 ॥ 4-28-42 (29541)
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ।
राज्ञः कृतोपकाराश्च कृतज्ञाश्च सदा शुभे।
साधवश्च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः ॥ 43 ॥ 4-28-43 (29542)
अर्थिनी मा ब्रवीत्येषा यद्वातद्वेति चिन्तय।
भरस्व तदहर्मात्रं तत्ते श्रेयो भविष्यति ॥ 44 ॥ 4-28-44 (29543)
वैशम्पायन उवाच। 4-28-45x (3119)
तस्यास्तद्वचनं श्रुत्वा कैकेयी दुःखमोहिता।
उवाच द्रौपदीमार्ता भ्रातृव्यसनकर्शिता ॥ 45 ॥ 4-28-45 (29544)
वस भद्रे यथेष्टं त्वं त्वामहं शरणं गता।
त्रायस्व मम भर्तारं पुत्रांश्चैव विशेषतः ॥ 46 ॥ 4-28-46 (29545)
इत्युक्तवा राजशार्दूल राज्ञे सर्वं न्यवेदयत् ।
त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये ॥ 47 ॥ 4-28-47 (29546)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-28-1 गन्धर्वैर्निहता राजन्निति खo थo धo पाठo ॥ 1 ॥ 4-28-5 तथा नीतिर्विधीयतामिति धo पाठः ॥ 5 ॥विराटपर्व - अध्याय 029
॥ श्रीः ॥
4.29. अध्यायः 029
Mahabharata - Virata Parva - Chapter Topics
पाण्डवान्वेषणाय क्रमेण विराटपुरमागतैश्चारैर्हास्तिनपुरमेत्य दुर्योधनंप्रति स्वेषां पाण्डवानवगतिनिवेदनपूर्वकं कीचकवधनिवेदनम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-29-0 (29547)
वैशम्पायन उवाच। 4-29-0x (3120)
कीचके तु हते राजा विराटः परवीरहा।
शोकमाहारयत्तीव्रं सामात्यः सपुरोहितः ॥ 1 ॥ 4-29-1 (29548)
कीचकस्य वधं घोरं सानुजस्य विशांपते ।
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ॥ 2 ॥ 4-29-2 (29549)
तस्मिन्पुरे जनपदे जजल्पुश्चापि सर्वशः ।
वीर्यवान्दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः ॥ 3 ॥ 4-29-3 (29550)
सांपराये परिक्रुष्टो बलवान्दुर्जयो रणे।
आसीत्प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः ।
स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि ॥ 4 ॥ 4-29-4 (29551)
इत्यजल्पन्महाराज कीचकस्य विनाशनम् ।
देशेदेशे मनुष्याश्च विस्मितः कीचके हते ॥ 5 ॥ 4-29-5 (29552)
अथ वैः धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः ।
मृगयित्वा बहून्देशान्ग्रामांश्च नगराणि च ॥ 6 ॥ 4-29-6 (29553)
संविधाय यथाऽऽदिष्टं यथादेशं प्रदर्शकाः ।
कृतसंकेतनाः सर्वे न्यवर्तन्त पुरं ततः ॥ 7 ॥ 4-29-7 (29554)
आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम्।
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ॥ 8 ॥ 4-29-8 (29555)
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना।
संगतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः ॥ 9 ॥ 4-29-9 (29556)
प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा।
आसीनं सूर्यसंकाशे काञ्चने परमासने ॥ 10 ॥ 4-29-10 (29557)
उपास्यमानं सचिवैर्मरुद्भिरिव वासवम् ।
विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः ॥ 11 ॥ 4-29-11 (29558)
अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः।
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ॥ 12 ॥ 4-29-12 (29559)
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा ।
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ॥ 13 ॥ 4-29-13 (29560)
निर्जने व्यालसंकीर्णे नानाभ्रमरसंकुले ।
लताप्रतानगहने नानागुल्मसमावृते ॥ 14 ॥ 4-29-14 (29561)
न च विद्मो गता येन पार्थाः सुदृढविक्रमाः ।
मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च ॥ 15 ॥ 4-29-15 (29562)
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च।
जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च ॥ 16 ॥ 4-29-16 (29563)
नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान्।
अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ ॥ 17 ॥ 4-29-17 (29564)
गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु।
नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च॥ 18 ॥ 4-29-18 (29565)
गह्वरेषु च दुर्गेषु ग्रामेषू पवनेषु च।
दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च ॥
गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे ॥ 19 ॥ 4-29-19 (29566)
वत्मन्यन्विच्छमानास्तु रथानां रथिसत्तम।
कंचित्कालं मनुष्येन्द्र सूताननुगता वयम् ॥ 20 ॥ 4-29-20 (29567)
मृगयित्वा यथान्यायं विदितार्थाश्च तत्वतः।
प्राप्ता द्वारवतीं सूता विना पार्थैः परंतप ॥ 21 ॥ 4-29-21 (29568)
न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः।
नरदेव यथोद्दिष्टं न च विद्मात्र पाण्डवान् ॥ 22 ॥ 4-29-22 (29569)
निर्वृतो भव नष्टास्ते स्वस्थो भव परंतप ।
सर्वथैव प्रनष्टास्ते नमस्ते भरतर्षभ ॥ 23 ॥ 4-29-23 (29570)
सर्वा च पृथिवी कृत्स्ना सशैलवनकानना ।
सराष्ट्रनगरग्रामा पत्तनैश्च समन्विता ।
अन्वेषिता च सर्वत्र न च पश्यामा पाण्डवान् ॥ 24 ॥ 4-29-24 (29571)
पुनः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशांपते।
अन्वेषणे पाण्डवानां भूयः किं करवामहे ॥ 25 ॥ 4-29-25 (29572)
इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु ॥ 26 ॥ 4-29-26 (29573)
येन त्रिगर्ता निहता बलेन बहुशो नृप।
सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा।
स हतः पतितः शेते गन्धर्वैर्निशि भारत ॥ 27 ॥ 4-29-27 (29574)
स्यालो राज्ञो विराटस्य सेनापतिरुदारधीः।
सुदेष्णायानुजः क्रूरः शूरो वीरो गतव्यथः ॥ 28 ॥ 4-29-28 (29575)
उत्साहवान्महावीर्यो नीतिमान्बलवानपि ।
युद्धज्ञो रिपुवीर्यघ्नःक सिंहतुल्यपराक्रमः ॥ 29 ॥ 4-29-29 (29576)
प्रजारक्षणदक्षश्च शत्रुग्रहणशक्तिमान्।
विजितारिर्महायुद्धे प्रचण्डो मानतत्परः ॥ 30 ॥ 4-29-30 (29577)
नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः।
पुण्यकर्माऽर्थकामानां भाजनं मनुजोत्तमः ॥ 31 ॥ 4-29-31 (29578)
स हतो निशि गन्धैर्वः स्त्रीनिमित्तं नराधिप।
अमृष्यमाणो दुष्टात्मा निशीथे सह सोदरैः ।
सुहृदश्चास्य निहता योधाश्च प्रहरैर्हताः ॥ 32 ॥ 4-29-32 (29579)
गन्धर्वाणां च महिषी काचिदस्ति नितम्बिनी।
सैरन्ध्री नाम तां दृप्तो दुष्टात्माऽकामयद्बली ॥ 33 ॥ 4-29-33 (29580)
इत्येवं श्रुतमस्माभिर्गन्धर्वैर्निहतो निशि ॥ 34 ॥ 4-29-34 (29581)
बान्धवैर्बहुभिः सार्धं कीचको निहतो यतः।
अद्यप्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति।
चारांश्च सर्वतश्चर्तुं प्रेषयेति मतिर्हि नः ॥ 35 ॥ 4-29-35 (29582)
निहतो निशि गन्धर्वैर्दुष्टात्मा भ्रातृभिः सह ।
एतावच्छ्रुतमस्माभिर्भद्रं तेऽस्तु नराधिप ॥ 36 ॥ 4-29-36 (29583)
प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम् ।
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ॥ 37 ॥ ॥ 4-29-37 (29584)
इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि एकोऽनत्रिंशोऽध्यायः ॥ 29 ॥
विराटपर्व - अध्याय 030
॥ श्रीः ॥
4.30. अध्यायः 030
Mahabharata - Virata Parva - Chapter Topics
दुर्योधनादिभिः पाण्डवान्वेषणाय समालोचनम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-30-0 (29585)
वैशम्पायन उवाच। 4-30-0x (3121)
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा।
चिरमन्तर्मना भूत्वा इदमाह सभासदः ॥ 1 ॥ 4-30-1 (29586)
अशक्यं खलु कार्यस्य गतिं ज्ञातुं हि तत्वतः ।
तस्मात्सर्वे परीक्षध्वं क्वनु स्युः पाण्डवा गताः ॥ 2 ॥ 4-30-2 (29587)
अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च।
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ॥ 3 ॥ 4-30-3 (29588)
अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः।
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ॥ 4 ॥ 4-30-4 (29589)
क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः ।
दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ॥ 5 ॥ 4-30-5 (29590)
विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया।
निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः ॥ 6 ॥ 4-30-6 (29591)
अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः।
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ॥ 7 ॥ 4-30-7 (29592)
तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम्।
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ॥ 8 ॥ 4-30-8 (29593)
दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना।
ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् ॥ 9 ॥ 4-30-9 (29594)
एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत ।
शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः ॥ 10 ॥ 4-30-10 (29595)
चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् ।
तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः ॥ 11 ॥ 4-30-11 (29596)
परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ॥ 12 ॥ 4-30-12 (29597)
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च।
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ॥ 13 ॥ 4-30-13 (29598)
विज्ञातव्या मनुष्येन्द्र तर्कया सुविनूतया ।
विविधैस्तत्परैः सम्यङ्विपुणैस्तज्ज्ञसंमतैः ॥ 14 ॥ 4-30-14 (29599)
अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः।
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ॥ 15 ॥ 4-30-15 (29600)
येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप।
ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् ॥ 16 ॥ 4-30-16 (29601)
यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् ।
यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ॥ 17 ॥ 4-30-17 (29602)
घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ 18 ॥ 4-30-18 (29603)
यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः ।
एते चान्ये च बहवो देशांश्च नगराणि च ॥ 19 ॥ 4-30-19 (29604)
न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते।
अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः ॥ 20 ॥ 4-30-20 (29605)
व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः।
द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि ॥ 21 ॥ 4-30-21 (29606)
हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः ।
अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ॥ 22 ॥ 4-30-22 (29607)
तस्मान्मानसमव्यग्रं कृत्वाऽऽत्मानं नियम्य च।
कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप ॥ 23 ॥ ॥ 4-30-23 (29608)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥
विराटपर्व - अध्याय 031
॥ श्रीः ॥
4.31. अध्यायः 031
Mahabharata - Virata Parva - Chapter Topics
द्रोणेन दुर्योधनंप्रति पाण्डवानां धार्मिकत्वादिगुणशालितया विनाशाभावनिर्धारणेन तदन्वेषणविधानम् ॥ 1 ॥ भीष्मेण पाण्डवावासदेशस्य लक्षणाभिधानपूर्वकं तेषां दुर्ज्ञेयत्वस्यापि कथनेन तैः सह सन्धिविधानम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-31-0 (29609)
वैशम्पायन उवाच। 4-31-0x (3122)
अथाऽब्रवीत्सभामध्ये द्रोणः सूक्ष्मार्थदर्शिवान्।
न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ॥ 1 ॥ 4-31-1 (29610)
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः।
धर्मज्ञाः सत्यसन्धाश्च युधिष्ठिरमनुव्रताः ॥ 2 ॥ 4-31-2 (29611)
नीतिधर्मार्थतत्वज्ञं पितृवच्च समाहितम्।
धर्मे स्थितं सत्यधृतिं ज्येष्ठं श्रेष्ठापचायिनम् ॥ 3 ॥ 4-31-3 (29612)
अनुव्रता महात्मानो भ्रातरो भ्रातरं प्रियम् ।
अजातशत्रुं श्रीमन्तं सर्वभ्रातॄननुव्रतम् ॥ 4 ॥ 4-31-4 (29613)
तेषां तथाविधेयानां निभृतानां महात्मनाम् ।
किमर्थं नीतिमान्प्राज्ञः श्रेयो नैषां करिष्यति ॥ 5 ॥ 4-31-5 (29614)
तस्माद्यत्नात्परीक्षध्वं न तावत्समयो गतः।
न ते विनाशमृच्छेयुरिति मे नैष्ठिकी मतिः ॥ 6 ॥ 4-31-6 (29615)
चिन्त्यतां चैव यत्कार्यं तच्च क्षिप्रमकालिकम् ।
क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यतां ॥ 7 ॥ 4-31-7 (29616)
यथा च पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् ।
प्रवृत्तिरुपलभ्येत तथा नीतिर्विधीयताम् ॥ 8 ॥ 4-31-8 (29617)
सर्वोपायैर्यतस्व त्वं यथा पश्यसि पाण्डवान् ।
दुर्ज्ञेयाः खलु शूरास्ते रक्ष्या नित्यं च दैवतैः ॥ 9 ॥ 4-31-9 (29618)
शुद्धात्मा मानवान्पार्थः सत्यवान्नीतिमाञ्शुचिः ।
तेजोराशिभिरापूर्णो दहेदपि च चक्षुषा ॥ 10 ॥ 4-31-10 (29619)
तस्माद्यत्नश्च क्रियतां भूयश्च मृगयामहे।
ब्राह्मणैश्चारकैः सिद्धैस्तापसैर्निपुणैरपि ॥ 11 ॥ 4-31-11 (29620)
विविधैस्तत्परैः सम्यङ्विर्भीकैस्तज्ज्ञसंमतैः ।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ॥ 12 ॥ 4-31-12 (29621)
ततः शान्तनवो धीमान्भारतानां पितामहः ।
श्रुतवान्देशकालज्ञो नीतिमांश्च महामतिः ॥ 13 ॥ 4-31-13 (29622)
तस्मिन्नुपरते वाक्ये आचार्यस्य महात्मनः ।
अनन्तरमुवाचेदं वाक्यं हेत्वर्थसंमितम् ॥ 14 ॥ 4-31-14 (29623)
युधिष्ठिरे समायुक्तां धर्मज्ञे धर्मसंहिताम्।
पाण्डवे नित्यमव्यग्रां गिरं भीष्मः समाददे ॥ 15 ॥ 4-31-15 (29624)
असत्सु दुर्लभां नित्यं सतां चाभिमतां सद।
भीष्मस्त्वभ्यवदत्तत्र गिरं साधुभिरर्चिताम् ॥ 16 ॥ 4-31-16 (29625)
यथा नो ब्राह्मणोऽवादीदाचार्यः सर्वधर्मवित्।
श्रुतवृत्तोपसंपन्ना नाशं नायान्ति पाण्डवाः ॥ 17 ॥ 4-31-17 (29626)
सर्वलक्षणसंपन्नाः साधुवृत्तसमन्विताः।
वृद्धानुशासने यत्ताः सत्यधर्मपरायणाः ॥ 18 ॥ 4-31-18 (29627)
समयं समयज्ञास्ते पालयन्तः शुभव्रताः।
न विषीदन्ति ते पार्था उद्वहन्तः सतां धुरम् ॥ 19 ॥ 4-31-19 (29628)
तपसा चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः।
न नाशमभिगच्छेयुरिति मे नैष्ठिकी मतिः ॥ 20 ॥ 4-31-20 (29629)
क्षत्रधर्मरता नित्यं केशवानुगताः सदा।
प्रवीरपुरुषास्ते वै महात्मानो महाबलाः ॥ 21 ॥ 4-31-21 (29630)
तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान्वेषणे शृणु।
न तु नीतिः सुनीतस्य शक्यते वेदितुं परैः ॥ 22 ॥ 4-31-22 (29631)
यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान्।
बुद्ध्या प्रणेतुं तत्तेऽहं प्रवक्ष्यामि निबोध तत् ॥ 23 ॥ 4-31-23 (29632)
न त्वियं साधु वक्तव्या तस्य नीतिः कथंचन ।
वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ॥ 24 ॥ 4-31-24 (29633)
अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः।
निवासं पाण्डुपुत्राणां संचिन्त्य च वदाम्यहम्।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥ 25 ॥ 4-31-25 (29634)
अवश्यं तु नियुक्तेन सभामध्ये विवक्षता।
यथार्हमिह वक्तव्यं सर्वथा धर्मलिप्सया ॥ 26 ॥ 4-31-26 (29635)
यत्र नाहं तथा मन्ये यथाऽन्ये मेनिरे जनाः।
निवासं पाण्डुपुत्राणां शृणुष्वं मनुजाधिप ॥ 27 ॥ 4-31-27 (29636)
[भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः।
किमर्थं स महाराजो नात्मश्रेयो भविष्यति ॥ 28 ॥ 4-31-28 (29637)
पाण्डवो निकृतः पूर्वं यथावद्विदितं तव।
क्लेशितश्च पुरे नित्यं राज्यकामैश्च सांप्रतम्।
छन्नश्चरति तस्मात्स प्रकृत्या नीतिमान्नृपः ॥ 29 ॥ 4-31-29 (29638)
वर्षमेकं सुसंच्छन्नमुष्य वासमनुत्तमम्।
आयाति चोदये काले क्षिप्रं दक्ष्यसि पाण्डवं ॥ 30 ॥ 4-31-30 (29639)
सोदरैः सहितं वीरं द्रौपद्या च परंतप।
संविधत्स्व महाबाहो यथा नः स्यात्सुखोदयः ॥ 31 ॥ 4-31-31 (29640)
यस्मिन्स राजा वसति च्छन्नः सत्त्वभृतांवरः।
भविष्यन्ति नरास्तत्र रागमोहविवर्जिताः ॥ 32 ॥ 4-31-32 (29641)
नाधयो हि महाराज न व्याधिः क्षत्रियर्षभ]।
पुरे जनपदे वाऽपि यत्र राजा युधिष्ठिरः ॥ 33 ॥ 4-31-33 (29642)
दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः।
प्रियवाक्सत्यवाक्शूरो धर्मशीलो जितेन्द्रियः।
हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः ॥ 34 ॥ 4-31-34 (29643)
नासूयको न चापीर्ष्युर्नाभिमानी न मत्सरी।
भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः ॥ 35 ॥ 4-31-35 (29644)
ब्रह्मघोषाश्च भूयांसः पुण्यशब्दास्तथैव च।
क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ॥ 36 ॥ 4-31-36 (29645)
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः ।
संपन्नसस्या च मही भविष्यति निरामया ॥ 37 ॥ 4-31-37 (29646)
रसवन्ति च धान्यानि गुणवन्ति फलानि च।
गन्धवन्ति च माल्यानि शुभशब्दा च भारती ॥ 38 ॥ 4-31-38 (29647)
वायुश्च सुखसंस्पर्शो यत्र राजा युधिष्ठिरः ।
नीरोगास्तत्र विद्यन्ते वधबन्धा न सन्ति च ॥ 39 ॥ 4-31-39 (29648)
न चोरा न च दण्डाश्च न च बाधा भवन्त्युत।
नाशक्ता न च दुष्टाश्च यत्र राजा युधिष्ठिरः ॥ 40 ॥ 4-31-40 (29649)
भयं च नाविशेत्तत्र निष्प्रतीपं च दर्शनम्।
बहुक्षीरास्तथा गावः सुपुष्टाश्च सुदोहनाः ॥ 41 ॥ 4-31-41 (29650)
पयांसि दधिसर्पीषि रसवन्ति हितानि च ।
सलिलानि प्रसन्नानि सर्वे भावाश्च शोभनाः ॥ 42 ॥ 4-31-42 (29651)
गुणवन्ति च पानानि भोज्यानि विविधानि च।
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ॥ 43 ॥ 4-31-43 (29652)
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः।
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥ 44 ॥ 4-31-44 (29653)
धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः।
स्वैःस्वैर्गुणैश्च संयुक्ता कस्मिन्वर्षे त्रयोदशे ।
देशे तस्मिन्भविष्यन्ति तत पाण्डवसंश्रिते ॥ 45 ॥ 4-31-45 (29654)
संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः।
देवतातिथिभूयांस्तु सर्वभूतानुरागवान् ॥ 46 ॥ 4-31-46 (29655)
इष्टदानमहोत्साहा नित्यं धर्मपरायणाः ।
व्यक्तवाक्यास्ततस्तात शुभकल्याणमङ्गलाः ॥ 47 ॥ 4-31-47 (29656)
शुभत्विषः शुभेच्छाश्च नित्यतुष्टाः श्रियाऽन्विताः ।
भविष्यन्ति जनास्तत्र यत्र राजा युधिष्ठिरः ॥ 48 ॥ 4-31-48 (29657)
नित्योत्सवप्रमुदितो नित्यहृष्टः श्रिया वृतः।
भविष्यति निवासोऽयं यत्र राजा युधिष्ठिरः ॥ 49 ॥ 4-31-49 (29658)
धर्मज्ञः स तु दुर्ज्ञेयः सर्वज्ञैश्च द्विजातिभिः।
किंपुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित् ॥ 50 ॥ 4-31-50 (29659)
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा।
ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ॥ 51 ॥ 4-31-51 (29660)
तस्मान्निवासः पार्थानां चिन्त्यतां यद्ब्रवीमि वः ।
गतिर्वा परमा तत्र नोत्सहे वक्तुमन्यथा ॥ 52 ॥ 4-31-52 (29661)
एवमेतत्तु संचिन्त्य यत्कृत्यं साधु मन्यसे।
तत्क्षिप्रं कुरु कौरव्य यद्येतच्छ्रद्दधासि मे।
कुलस्य हि क्षमं तात यदहं प्रब्रवीमि ते ॥ 53 ॥ ॥ 4-31-53 (29662)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥
विराटपर्व - अध्याय 032
॥ श्रीः ॥
4.32. अध्यायः 032
Mahabharata - Virata Parva - Chapter Topics
दुर्योधनेन कीचकवधस्य भीमसेनकृतत्वसंभावनया पाण्डवानां तत्र स्थितिसंभावना ॥ 1 ॥ तथा भीष्माद्यनुमत्या सुशर्मणो विराटनगरंप्रति प्रेषणम् ॥ 2 ॥ सुशर्मणा विराटनगरमेत्य दक्षिणभागे गोग्रहम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-32-0 (29663)
वैशम्पायन उवाच। 4-32-0x (3123)
ततः शारद्वतो वाक्यमित्युवाच कृतस्तदा।
युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भापितम् ॥ 1 ॥ 4-32-1 (29664)
धर्मार्थसहितं श्लक्ष्णं सर्वं सत्यं सहेतुकम्।
तत्रानुरूपं भीष्मस्य ममापि वचनं शृणु ॥ 2 ॥ 4-32-2 (29665)
तेषां चैव गतिस्तत्र र्निवासश्चानुचिन्त्यताम् ।
नीतिर्विधीयतां तत्र सांप्रतं या हिता भवेत् ॥ 3 ॥ 4-32-3 (29666)
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता।
किं पुनः पाण्डवाः शूरा विद्वांसो बलिनस्तथा ॥ 4 ॥ 4-32-4 (29667)
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु ।
गूढभावेषु छन्नेषु काले चोदयमागते ॥ 5 ॥ 4-32-5 (29668)
स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः ।
उदयः पाण्डवानां च प्राप्तकालो न संशयः ॥ 6 ॥ 4-32-6 (29669)
निवृत्तसमयाः पार्था महात्मानो महाबलाः ।
महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ॥ 7 ॥ 4-32-7 (29670)
तस्माद्बलं च कोशं च नातिश्चापि विधीयताम्।
यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे ॥ 8 ॥ 4-32-8 (29671)
यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः ।
नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ॥ 9 ॥ 4-32-9 (29672)
सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत ।
स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ॥ 10 ॥ 4-32-10 (29673)
अप्रहृशष्टं प्राहृष्टं वा संदधाम तथा परैः ।
साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ॥ 11 ॥ 4-32-11 (29674)
न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् ।
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ॥ 12 ॥ 4-32-12 (29675)
स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि ।
योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः।
अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ॥ 13 ॥ 4-32-13 (29676)
एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः।
यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ॥ 14 ॥ 4-32-14 (29677)
भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः।
ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् ।
मुहूर्तमनुसंचिन्त्य सचिवानिदमब्रवीत् ॥ 15 ॥ 4-32-15 (29678)
श्रुतमेतन्मया पूर्वं कथासु जनसंसदि।
धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये ।
कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा ॥ 16 ॥ 4-32-16 (29679)
सत्वे बाहुबले धैर्ये प्राणे शारीरसंभवे।
सांप्रतं मानुषे लोके सदैत्यनरराक्षसे ॥ 17 ॥ 4-32-17 (29680)
चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि।
उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले ममः ॥ 18 ॥ 4-32-18 (29681)
बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् ।
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ॥ 19 ॥ 4-32-19 (29682)
अन्योन्यानन्तरबलाः परस्परजयैपिणः।
बाहूयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः ॥ 20 ॥ 4-32-20 (29683)
तेनाहमवगच्छामि प्रत्ययेन वृकोदरम्।
मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः ॥ 21 ॥ 4-32-21 (29684)
तत्राहं कीचकं मन्ये भीमसेनेन मारितम्।
सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा ॥ 22 ॥ 4-32-22 (29685)
शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः।
गन्धर्वव्यपदेशेन हतो निशि महाबलः ॥ 23 ॥ 4-32-23 (29686)
को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा ।
शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने ॥ 24 ॥ 4-32-24 (29687)
मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् ।
रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् ॥ 25 ॥ 4-32-25 (29688)
ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः ।
गन्धर्वव्यपदेशेन हता निशि न संशयः ॥ 26 ॥ 4-32-26 (29689)
पितामहेन ये चोक्ता देशस्य च जनस्य च।
गुणास्ते मत्स्यराष्ट्रेषु बहुशोऽपि मया श्रुताः ॥ 27 ॥ 4-32-27 (29690)
विराटनगरे मन्ये पाण्डवाश्छन्नचारिणः।
निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् ॥ 28 ॥ 4-32-28 (29691)
मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम्।
गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः॥ 29 ॥ 4-32-29 (29692)
अपूर्णे समये चापि यदि पश्येम पाण्डवान्।
द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर्वनम् ॥ 30 ॥ 4-32-30 (29693)
तस्मादन्यतरेणापि लाभोऽस्माकं भविष्यति।
कोशवृद्धिरिहास्माकं शत्रूणां निधनं भवेत् ॥ 31 ॥ 4-32-31 (29694)
कथं सुयोधनं गच्छेद्युधिष्ठिरभृतः पुरा।
एतच्चापि वदत्येष मात्स्यः परिभवान्मयि ॥ 32 ॥ 4-32-32 (29695)
तस्मात्कर्तव्यमेतद्वै तत्र यात्रा विधीयताम्।
एतत्सुनीतं मन्येऽहं सर्वेषां यदि रोचते ॥ 33 ॥ 4-32-33 (29696)
वैशम्पायन उवाच। 4-32-34x (3124)
ततो राजा त्रिगर्तानां सुशर्मा रथयूथपः।
पूर्वमाभाष्य कर्णेन तथा दुःशासनेन च।
प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली ॥ 34 ॥ 4-32-34 (29697)
असकृन्निकृतः पूर्वं मात्स्यसाल्वेयकेकयैः ।
सूतेनैव च मात्स्यस्य कीचकेन पुनः पुनः ॥ 35 ॥ 4-32-35 (29698)
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो।
स कर्णमभिवीक्ष्याथ दुर्योधनमभाषत ॥ 36 ॥ 4-32-36 (29699)
राष्ट्रं ममासकृद्राजन्राज्ञा मात्स्येन बाधितम् ॥ 37 ॥ 4-32-37 (29700)
प्रणेता कीचकस्तस्य बलोत्सिक्तोऽभवन्पुरा।
अमर्षी दुर्जयो जेता प्रख्यातबलपौरुषः ।
स हतस्तत्र गन्धर्वैः पापकर्मा नृशंसकृत् ॥ 38 ॥ 4-32-38 (29701)
तस्मिन्विनिहते राजन्हीनदर्पो निराश्रयः।
भविष्यति निरुत्साहो विराट इति मे मतिः ॥ 39 ॥ 4-32-39 (29702)
तत्र यात्रा मम मता यदि ते रोचतेऽनघ।
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥ 40 ॥ 4-32-40 (29703)
एतत्कार्यमहं मन्ये परमात्ययिकं महत्।
राष्ट्रं तस्याभियास्यामो धनधान्यसमाकुलम् ॥ 41 ॥ 4-32-41 (29704)
आददामोऽस्य रत्नानि विविधानि वसूनि च।
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥ 42 ॥ 4-32-42 (29705)
अथवा गोसहस्राणि बहूनि शुभदर्शन।
विविधानि हरिष्यामः प्रतीपीड्य पुरं बलात् ॥ 43 ॥ 4-32-43 (29706)
कौरवैः सह संगमय त्रिगर्तैश्च विशांपते।
गास्तस्यापहरिष्यामः सह सर्वैर्महारथैः ॥ 44 ॥ 4-32-44 (29707)
सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम्।
हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे ॥ 45 ॥ 4-32-45 (29708)
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम्।
भवतां बलवृद्धिश्च भविष्यति न संशयः ॥ 46 ॥ 4-32-46 (29709)
वैशम्पायन उवाच। 4-32-47x (3125)
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ॥ 47 ॥ 4-32-47 (29710)
सूक्तं सुशर्मणा वाक्यं प्राप्तकालमिदं वचः।
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीं ॥ 48 ॥ 4-32-48 (29711)
यदेतत्तेऽभिरुचितं मम चैतद्धि रोचते।
प्रविभज्य च सैन्यानि यथा वा मन्यते भवान् ॥ 49 । 4-32-49 (29712)
प्रज्ञावान्कुलवृद्धश्च सर्वेषां नः पितामहः।
आचार्यश्च कृपो विद्वाञ्शकुनिश्चापि सौबलः ॥ 50 ॥ 4-32-50 (29713)
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम्।
संमन्त्र्य चाशु गच्छामः साधनार्थं महीपते ॥ 51 ॥ 4-32-51 (29714)
किंनु नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः।
अत्यन्तं हि प्रनष्टास्ते प्राप्ता वाऽपि यमक्षयम् ॥ 52 ॥ 4-32-52 (29715)
तद्भवांश्चतुरङ्गेण बलेन महता वृतः।
विराटनगरं यातु सर्वसैन्येन भारत।
आदास्यामोऽथ गास्तस्य विविधानि वसूनि च ॥ 53 ॥ 4-32-53 (29716)
वैशम्पायन उवाच। 4-32-54x (3126)
ततो दुर्योधनो राजा वचः श्रुत्वा तु तस्य तत्।
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम्।
शासने नित्ययुक्तं तु दुःशासनमनन्तरम् ॥ 54 ॥ 4-32-54 (29717)
दुर्योधन उवाच। 4-32-55x (3127)
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम्।
यथोद्देशं तु गच्छामः सहिताः सर्वकौरवैः ॥ 55 ॥ 4-32-55 (29718)
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः।
त्रिगर्तैः सहितः सर्वैः प्रख्यातबलपौरुषैः।
प्रागेव हि सुसंयत्तो विराटनगरं प्रति ॥ 56 ॥ 4-32-56 (29719)
जघन्यतो वयं तत्र यास्यामो दिवसान्तरे।
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहितम् ॥ 57 ॥ 4-32-57 (29720)
सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने।
विराटः सैन्यमादाय त्रिगर्तैः सह योत्स्यति ॥ 58 ॥ 4-32-58 (29721)
अपरं दिवसं गास्तु तत्र गृह्णन्तु कौरवाः।
गवार्थे पाण्डवास्तत्र योत्स्यन्ति कुरुभिः सह ॥ 59 ॥ 4-32-59 (29722)
तथा गत्वा यथोद्देशं विराटनगरान्तिके।
क्षिप्रं गोष्ठं समासाद्य गृह्णन्तु विपुलं धनम् ॥ 60 ॥ 4-32-60 (29723)
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च।
वयमस्य निगृह्णीमो द्विधा कृत्वा च वाहिनीम् ॥ 61 ॥ 4-32-61 (29724)
वैशम्पायन उवाच। 4-32-62x (3128)
ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः।
संनद्धा रथिनः सर्वे सपताका बलोत्कटाः।
प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः ॥ 62 ॥ 4-32-62 (29725)
आदत्त गाः सुशर्माऽथ कृष्णपक्षस्य चाष्टमीम् ॥ 63 ॥ 4-32-63 (29726)
अपरे दिवसे सर्वे राजन्संभूय कौरवाः।
नवम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः।
कौरवास्तु महावीर्या मत्स्यानां विषयान्तरे ॥ 64 ॥ ॥ 4-32-64 (29727)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-32-31 तस्मादनन्तरेणापि लाभोऽस्माकमिति धo पाठः। तस्मात् गोग्रहणात अनन्तरेण युद्धायागतपाण्डवदर्शनेन ॥ 31 ॥ 4-32-32 युधिष्ठिरभृतः युधिष्ठिरो भृतो येन विराटेनेति बहुव्रीहिः ॥ 32 ॥ 4-32-63 कृष्णपक्षस्य सप्तमीमिति अष्टभ्यां तेऽन्यगृह्णन्तेति चo थo पाठः ॥ 63 ॥ 4-32- 64 विषयान्तरे उत्तरभागे ॥ 64 ॥विराटपर्व - अध्याय 033
॥ श्रीः ॥
4.33. अध्यायः 033
Mahabharata - Virata Parva - Chapter Topics
गोपैर्दुतॄतरमाद्रुत्य विराटंप्रति सुशर्मणा गोगहणनिवेदनम् ॥ 1 ॥ विराटादिभिर्युद्धाय निर्गमोद्यमः ॥ 2 ॥ युधिष्ठिरेण विराटंप्रति स्वेषां युद्धकौशलनिवेदनेन भ्रातृभिः सह समराभियानम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-33-0 (29728)
वैशम्पायन उवाच। 4-33-0x (3129)
ततस्तेषां महाराज तत्रैवामिततेजसाम्।
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥ 1 ॥ 4-33-1 (29729)
व्यतीतः समयः सम्यग्विराटनगरे सताम्।
कुर्वतां तस्य कर्माणि वीराटस्य महीपतेः ॥ 2 ॥ 4-33-2 (29730)
कीचके तु हते राजा विराटः परवीरहा।
परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ॥ 3 ॥ 4-33-3 (29731)
ततस्त्रयोदशस्वान्ते तस्य वर्षस्य भारत।
शुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥ 4 ॥ 4-33-4 (29732)
ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत्।
शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः।
गवाश्वरथनागानां निश्वनश्च पदातिनाम् ॥ 5 ॥ 4-33-5 (29733)
एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने।
त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् ॥ 6 ॥ 4-33-6 (29734)
अथ त्रिगर्ता बहवः परिगृह्य धनं बहु ।
परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत।
गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् ॥ 7 ॥ 4-33-7 (29735)
ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः ।
गोपाला गोकुले भक्ता वारयामासुरोजसा ॥ 8 ॥ 4-33-8 (29736)
परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः।
गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः ॥ 9 ॥ 4-33-9 (29737)
ते हन्यमानाः संक्रुद्धास्त्रिगर्ता रथयोधिनः ।
विसृज्य शरवर्षणि गोपानद्रावयन्बलात् ॥ 10 ॥ 4-33-10 (29738)
हन्यमानेषु गोपेषु विमुखेषु विशांपते।
ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः ॥ 11 ॥ 4-33-11 (29739)
जवेन महता चैव गोपालाः पुरमाव्रजन्।
विराटनगरं प्राप्य नरा राजानमब्रुवन् ॥ 12 ॥ 4-33-12 (29740)
सभायां राजशार्दूलमासीनं पाण्डवैः सह।
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ॥ 13 ॥ 4-33-13 (29741)
सद्भिश्च पण्डितैः सार्धं मन्त्रिभिश्चापि संवृतम् ।
दृष्ट्वा शीघ्रं तु गोपाला विराटमिदमब्रवन् ॥ 14 ॥ 4-33-14 (29742)
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान्।
षष्टिं गवां सहस्राणि त्रिगर्ताः कालयन्ति ।
ता निवर्तय राजेन्द्र मा नेशुः पशवस्तव ॥ 15 ॥ 4-33-15 (29743)
वैशम्पायन उवाच। 4-33-16x (3130)
श्रुत्वा तु वचनं तेषां गोपालानामरिंदमः।
स राजा महतीं सेनां मात्स्यानां समवाहयत्।
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥ 16 ॥ 4-33-16 (29744)
राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे।
भानुमन्ति विवातानि सूपसेव्यानि भागशः ॥ 17 ॥ 4-33-17 (29745)
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ।
उत्कृष्य पाशान्मौर्वीणां शूराश्चापेष्वयोजयन् ॥ 18 ॥ 4-33-18 (29746)
दृढमायसगर्भं तु कवचं तप्तकाञ्चनम् ।
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ॥ 19 ॥ 4-33-19 (29747)
सर्वभारसहं वर्म कल्याणपटलं दृढम्।
शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ॥ 20 ॥ 4-33-20 (29748)
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च।
मृष्टहाटकपर्यन्तं सूर्यदत्तोऽभ्यहारयत् ॥ 21 ॥ 4-33-21 (29749)
दृढमायसगर्भं च श्वेतं रुक्मपरिष्कृतम्।
विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ॥ 22 ॥ 4-33-22 (29750)
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत्।
अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ॥ 23 ॥ 4-33-23 (29751)
ततो नानातनुत्राणि स्वानिस्वानि महाबलाः।
युयुत्सवोऽभ्यनह्यन्त देवकल्पाः प्रहारिणः ॥ 24 ॥ 4-33-24 (29752)
सोपस्करेषु शुभ्रेषु महत्सु च महारथाः ।
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ॥ 25 ॥ 4-33-25 (29753)
सूर्यचन्द्रप्रतीकाशे मणिहेमविभूषिते।
महाप्रमाणं मत्स्यस्य ध्वजमुच्छ्रियते रथे ॥ 26 ॥ 4-33-26 (29754)
ध्वजान्बहुविधाकारान्सौवर्णान्हेममालिनः।
यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ॥ 27 ॥ 4-33-27 (29755)
रथेषु युज्यमानेषु कङ्को राजानमब्रवीत् ।
मया ह्यस्रं चतुर्वर्गमवाप्तमृषिसत्तमात् ॥ 28 ॥ 4-33-28 (29756)
दंशितो रथमास्थाय पदं निर्याम्यहं गवाम्।
अयं च बलवाञ्छरो वललो दृश्यतेऽनघ ॥ 29 ॥ 4-33-29 (29757)
गोसङ्ख्यमश्वबन्धं च संयोजय रथेषु वैः।
नैतेन जातु युध्द्येयुर्गवार्थमिति मे मतिः ॥ 30 ॥ 4-33-30 (29758)
वैशम्पायन उवाच। 4-33-31x (3131)
अथ मात्स्योऽब्रवीद्राजा शतानीकं जघन्यजम्।
कङ्कश्च वललः सूदो दामग्रन्थिश्च वीर्यवान् ॥ 31 ॥ 4-33-31 (29759)
तन्त्रिपालश्च गोसङ्ख्यो यथा ते पुरुषर्षभाः ।
शूराः सुवीराः पुरुषा नागराजवरोपमाः ।
युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥ 32 ॥ 4-33-32 (29760)
एतेपामपि दीयन्तां रथा ध्वजपताकिनः।
कवचानि विचित्राणि दृढानि च लघूनि च ॥ 33 ॥ 4-33-33 (29761)
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ।
नेमे जातु न युद्ध्य्रेयुरिति मे धीयते मतिः ॥ 34 ॥ 4-33-34 (29762)
वैशम्पायन उवाच। 4-33-35x (3132)
तच्छ्रुत्वा नृपतेर्वाक्यं शीघ्रं त्वरितमानसः।
शतानीकः स पार्थभ्यो रथान्राजन्समादिशत् ॥ 35 ॥ 4-33-35 (29763)
सहदेवाय राज्ञे च भीमाय नकुलाय च।
तान्दृष्ट्वा सहसा सूता राजभक्तिपुरस्कृताः ॥ 36 ॥ 4-33-36 (29764)
निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन्।
कवचानि विचित्राणि नवानि च दृढानि च॥ 37 ॥ 4-33-37 (29765)
विराटः प्रददौ यानि तेषामक्लिष्टकर्मणाम्।
तान्यामुच्य शरीरेषु दंशितास्ते महारथाः ॥ 38 ॥ 4-33-38 (29766)
तरस्विनश्छन्नरूपाः सर्वशस्त्रविशारदाः ।
रथान्हेमपरिष्कारान्समास्थाय महारथाः।
पाण्डवा निर्ययुर्हृष्टा दंशिता राजसत्तम ॥ 39 ॥ 4-33-39 (29767)
विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः।
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥ 40 ॥ 4-33-40 (29768)
दीर्घानां च दृढानां च धनुषां ते यथाबलम्।
उत्कृष्य पाशान्मौर्वीणां वीराश्चापेष्वयोजयन् ॥ 41 ॥ 4-33-41 (29769)
ततः सुवाससः सर्वे वीराश्चन्दनरूषिताः ।
चोदिता नरदेवेन क्षिप्रमश्वानचोदयन् ॥ 42 ॥ 4-33-42 (29770)
ते हया हेमसंच्छन्ना बृहन्तः साधुवाहिनः ।
चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः ॥ 43 ॥ 4-33-43 (29771)
भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः।
स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः ॥ 44 ॥ 4-33-44 (29772)
क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः ।
राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः ॥ 45 ॥ 4-33-45 (29773)
दृढायुधजनाकीर्णं रथाश्वगजसंकुलम् ।
तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ ॥ 46 ॥ 4-33-46 (29774)
तं प्रयान्तं महाराज निनीषन्तं गवां पदम्।
विशारदानां वैश्यानां प्रकृष्टानां तदा नृप ॥ 47 ॥ 4-33-47 (29775)
विंशतिस्तु सहस्राणि नराणामनुयायिनाम्।
अष्टौ रथसहस्राणि दश नागशतानि च ।
विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः ॥ 48 ॥ 4-33-48 (29776)
तदनीकं विराटस्य शुशुभेऽतीव भारत।
वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा ॥ 49 ॥ ॥ 4-33-49 (29777)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहाणपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥
विराटपर्व - अध्याय 034
॥ श्रीः ॥
4.34. अध्यायः 034
Mahabharata - Virata Parva - Chapter Topics
विराटसुशर्मसैन्ययौर्युद्धम् ॥ 1 ॥ युधिष्ठिरादिनिहतानां परिसह्ख्यानम् ॥ 2 ॥ विराटसुशर्मणोर्युद्धम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-34-0 (29778)
वैशम्पायन उवाच। 4-34-0x (3133)
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः।
त्रिगर्तानस्पृशन्मात्स्याः मूर्येऽस्तंगमिते सति ॥ 1 ॥ 4-34-1 (29779)
ते त्रिगर्ताश्च मात्स्याश्च व्यूढानीकाः प्रहारिणः।
अन्योन्यमभिवर्तन्ते गोषु गृद्धा महाबलाः ॥ 2 ॥ 4-34-2 (29780)
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः।
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ॥ 3 ॥ 4-34-3 (29781)
तेषां समागमो घोरस्तुमुलो रोमहर्षणः।
घ्नतां परस्परं राजन्यमराष्ट्रविवर्धनः ॥ 4 ॥ 4-34-4 (29782)
देवासुरसमो राजन्नासीत्सूर्येऽबलम्बति ।
पदातिरथनागेन्द्रहयारोहबलौघवान् ॥ 5 ॥ 4-34-5 (29783)
अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम् ।
उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ॥ 6 ॥ 4-34-6 (29784)
पक्षिणश्चापतन्भूमौ सैन्येन रजसा वृताः ।
इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत ॥ 7 ॥ 4-34-7 (29785)
खद्योतैरिव संयुक्तमन्तरिक्षमजायत॥ 8 ॥ 4-34-8 (29786)
रुक्मपृष्ठानि चापानि विचेरुर्विद्युतो यथा ।
नर्दतां लोकवीराणां सव्यं दक्षिणमस्यताम् ॥ 9 ॥ 4-34-9 (29787)
रथा रथैः समाजग्मुः पत्तयश्च पदातिभिः ।
सादिनः सादिभिर्जग्मुर्गजैश्चापि महागजाः ॥ 10 ॥ 4-34-10 (29788)
असिभिः पट्टसैश्चापि शक्तिभिस्तोमरैरपि ।
संरब्धाः समरे योधा निजघ्नुरितरेतरम् ॥ 11 ॥ 4-34-11 (29789)
निघ्नन्तः समरेऽन्योन्यं हृष्टाः परिघपाणयः ।
न शेकुरतिसंक्रुद्धाः शूराः कर्तुं पराङ्भुखम् ॥ 12 ॥ 4-34-12 (29790)
रक्ताधरोष्ठं सुनसं क्लृप्तश्मश्रु स्वलंकृतम्।
अदृश्यत शिरश्छिन्नं रजोविध्वस्तकुण्डलम् ॥ 13 ॥ 4-34-13 (29791)
दृश्यन्ते तत्र गात्राणि वीरैश्छिन्नानि सर्वशः ।
सालस्कन्धनिकाशानि क्षत्रियाणा महामृधे ॥ 14 ॥ 4-34-14 (29792)
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः।
आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ॥ 15 ॥ 4-34-15 (29793)
यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते।
बिभ्रती युवती श्यामा तद्वद्भाति वसुन्धरा ॥ 16 ॥ 4-34-16 (29794)
उपाशाम्यद्रजो भौमं रुधिरेण प्रवर्षता।
कश्मलं प्राविशद्धोरं निर्मर्यादमवर्तत ॥ 17 ॥ 4-34-17 (29795)
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तदा।
व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः ॥ 18 ॥ 4-34-18 (29796)
आत्मानं श्येनवत्कृत्वा तुण्डमासीद्युधिष्ठिरः।
पक्षौं यमौ च भवतः पुच्छमासीद्वृकोदरः ॥ 19 ॥ 4-34-19 (29797)
सहस्रं न्यहनत्तत्र कुन्तीपुत्रो युधिष्ठिरः।
भीमसेनस्तु संक्रुद्धः सर्वशस्त्रभृतांवरः ।
द्विसहस्रं रथान्वीरः परलोकं प्रवेशयत् ॥ 20 ॥ 4-34-20 (29798)
नकुलस्त्रिशतं जघ्ने सहदेवश्चतुःशतम् ।
शतानीकः शतं जघ्ने मदिराश्वश्चतुःशतम् ॥ 21 ॥ 4-34-21 (29799)
प्रहृष्टां महतीं सेनां त्रिगर्तानां महाबलौ ।
आर्च्छतां बहुसंरब्धौ केशाकेशि रथारथि ॥ 22 ॥ 4-34-22 (29800)
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ महाचमूम्।
जग्मतुः सूर्यदत्तश्च वललश्चापि पृष्ठतः ॥ 23 ॥ 4-34-23 (29801)
शङ्खो विराटपुत्रश्च महेष्वासो महाबलः।
विनिघ्नन्समरे शूरान्प्रविवेश महाचमूम् ॥ 24 ॥ 4-34-24 (29802)
विराटस्तत्र संग्रामे हत्वा पञ्चशतं रथान्।
कुञ्जराणां शतं चैव सहस्रं वाजिनां तथा ॥ 25 ॥ 4-34-25 (29803)
चरन्स विविधान्मार्गान्रथेन रथिनांवरः।
त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ॥ 26 ॥ 4-34-26 (29804)
तौ तु प्राहरतां तत्र महेष्वासौ महाबलौ ।
अन्योन्यमभिनिघ्नन्तौ गोषु गोवृषभाविव ॥ 27 ॥ 4-34-27 (29805)
राजसिंहौ सुसंरब्धौ विरेजतुरमर्षणौ।
कृतास्रौ निशितैर्बाणैरसिशक्तिपरश्वथैः ॥ 28 ॥ 4-34-28 (29806)
ततो रथाभ्यां रथिनौ व्यतीयातां समन्ततः ।
शरान्ससृजतुः शीघ्रं तोयधारा घनाविव ॥ 29 ॥ 4-34-29 (29807)
अन्योन्यमभिसंरब्धौ दन्ताभ्यामिव कुञ्जरौ।
कृतास्त्रौ निशितैर्बाणैर्दारयामासतू रणे ॥ 30 ॥ 4-34-30 (29808)
मात्स्यो राजा सुशर्माणं विव्याध निशितैः शरैः ।
पञ्चभिः पञ्चभिर्बाणैर्विव्याध चतुरो हयान् ॥ 31 ॥ 4-34-31 (29809)
द्वाभ्यां सूतं च विव्याध केतुं च त्रिभिराशुगैः ।
तथैव मात्स्यराजं तु सुशर्मा युद्धदुर्मदः ।
पञ्चाशद्भिः शितैर्बाणैविव्याध परमास्त्रवित् ॥ 32 ॥ 4-34-32 (29810)
तयोर्बलानि राजेन्द्र समस्तानि महारणे।
नाजानन्त तदाऽन्योन्यं प्रदोषे रजसा वृते ॥ 33 ॥ ॥ 4-34-33 (29811)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥
विराटपर्व - अध्याय 035
॥ श्रीः ॥
4.35. अध्यायः 035
Mahabharata - Virata Parva - Chapter Topics
सुशर्मणा युद्धे विराटस्य ग्रहणम् ॥ 1 ॥ भीमेन युधिष्ठिरचोदनया विराटस्य मोचनपूर्वकं सुशर्मणो बन्धनम् ॥ 2 ॥ युधिष्ठिरेण करुणया सुशर्मणो विमोक्षणम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-35-0 (29812)
वैशम्पायन उवाच। 4-35-0x (3134)
तमसाऽभिप्लुते लोके रजसा चैव भारत।
व्यतिष्ठन्त मुहूर्तं ते व्यूढानीकाः प्रहारिणम् ॥ 1 ॥ 4-35-1 (29813)
ततोऽन्धकारं प्रणुदन्नुदतिष्ठन्निशाकरः।
कुर्वाणो विमलां रात्रिं दर्शयन्क्षत्रियान्रणे ॥ 2 ॥ 4-35-2 (29814)
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत।
घोररूपं तदा तेषामवेक्ष्य तु परस्परम् ॥ 3 ॥ 4-35-3 (29815)
तथैव तेषां तुमुलानि तानि क्रुद्धानि चान्योन्यमभिद्रवन्ति।
गदासिपट्टैश्च परश्वथैश्च प्रासैश्च तीक्ष्णाग्रसुधौतधारैः ॥ 4 ॥ 4-35-4 (29816)
बलं तु मात्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा।
प्रमथ्य जित्वा च निपीड्य मत्स्यान्विराटमोजस्विनमभ्यधावत् ॥ 5 ॥ 4-35-5 (29817)
मत्ताविव वृषौ तौ तु गजाविव मदोद्धतौ ।
सिंहाविव गजग्राहौ शक्रवृत्राविवोद्धतौ ॥ 6 ॥ 4-35-6 (29818)
उभौ तुल्यबलोत्साहावुभौ तुल्यपराक्रमौ।
उभौ तुल्यास्रविक्षेपावुभौ युद्धविशारदौ ॥ 7 ॥ 4-35-7 (29819)
तौ निहत्य पृथग्धुर्यानुभयोः पार्ष्णिसारथी ।
आस्तां तुल्यधनुर्ग्राहौ कृष्णकंसाविवोद्धतौ ॥ 8 ॥ 4-35-8 (29820)
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा सुवर्मणा।
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥ 9 ॥ 4-35-9 (29821)
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ।
गदापाणी सुसंरब्धौ समभ्यद्रवतां जवात् ॥ 10 ॥ 4-35-10 (29822)
सुशर्मा परवीरघ्नो बलवान्वीर्यवान्गदी।
विरथं मत्स्यराजानं जीवग्राहमथाग्रहीत् ॥ 11 ॥ 4-35-11 (29823)
तमुन्मथ्य सुशर्मा तु युवतीमिव कामुकः।
स्यन्दनं स्वं समारोप्य प्रययौ भीमविक्रमः ॥ 12 ॥ 4-35-12 (29824)
तस्मिन्गृहीते विरथे विराटे बलवत्तरे।
बलं सर्वं विभग्नं तन्निरुत्साहं निराशकम् ॥ 13 ॥ 4-35-13 (29825)
प्राद्रवन्त भयान्मात्स्यास्त्रिगर्तैरर्दिता रणे ।
विदिक्षुः दिक्षु सर्वासु पलायन्ति च यान्ति च ॥ 14 ॥ 4-35-14 (29826)
तेषु विद्रांव्यमाणेषु कुन्तीपुत्रो युधिष्ठिरः।
अभ्यभाषत धर्मात्मा भिमसेनमरिन्दमम् ॥ 15 ॥ 4-35-15 (29827)
मात्स्यराजस्त्रिगर्तेन परामृष्टः सुशर्मणा।
तं मोक्षय महाबाही मा गमद्द्विषतां वशम् ॥ 16 ॥ 4-35-16 (29828)
भीमसेनः महाबाहो गृहीतं तु सुशर्मणा।
त्रायस्व मोचय क्षिप्रमस्मत्प्रीतिकरं नृपम् ॥ 17 ॥ 4-35-17 (29829)
उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः।
भीमसेन त्वया कार्या तस्य वातस्य निष्कृतिः ॥ 18 ॥ 4-35-18 (29830)
वैशम्पायन उवाच। 4-35-19x (3135)
तं तथावादिनं तत्र भीमसेनो महाबलः।
अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् ॥ 19 ॥ 4-35-19 (29831)
अहमेनं परित्रास्ये शासनात्तव पार्थिव।
पश्येदं सुमहत्कर्म युध्यतो मम शत्रुभिः ॥ 20 ॥ 4-35-20 (29832)
स्वबाहुबलमाश्रित्य परेषामसमं रणे।
एकान्तमाश्रितो राजंस्तिष्ठ त्वं भ्रातृभिः सह ॥ 21 ॥ 4-35-21 (29833)
अयं वृक्षो महाशाखो गिरिमात्रो वनस्पतिः।
अहमेनं समारुज्य पोथयिष्यामि शात्रवान् ॥ 22 ॥ 4-35-22 (29834)
वैशम्पायन उवाच। 4-35-23x (3136)
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्।
अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥ 23 ॥ 4-35-23 (29835)
भीम मा साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ॥ 24 ॥ 4-35-24 (29836)
मा त्वां वृक्षेण कर्माणि कुर्वन्तमतिमानुषम् ।
जनाः समवबुध्येरन्भीमोऽयमिति भारत ॥ 25 ॥ 4-35-25 (29837)
मा ग्रहीस्त्वमिमं वृक्षं सिंहनादं च मा नद।
कर्मणा सिंहनादेन विज्ञास्यन्ति जना ध्रुवम् ॥ 26 ॥ 4-35-26 (29838)
इमं वृक्षं गृहीत्वा त्वं नेमां सेनामभिद्रव ।
वृक्षं च त्वां रुजन्तं वै विज्ञास्यति जनो ध्रुवं ॥ 27 ॥ 4-35-27 (29839)
अन्यदेवायुधं गृह्य प्रतिपद्यस्व मानुषम्।
चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वथम् ॥ 28 ॥ 4-35-28 (29840)
यदेव मानुषं भीम भवेदन्यैरलक्षितम् ।
तदेवायुधमादाय मोचयाशु महीतिम् ॥ 29 ॥ 4-35-29 (29841)
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ।
व्यायच्छतस्ते समरे मत्स्यराजं परीप्स्रतः ॥ 30 ॥ 4-35-30 (29842)
वैशम्पायन उवाच। 4-35-31x (3137)
भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च।
चापमादाय संप्राप्तो रथमास्थाय पाण्डवः ॥ 31 ॥ 4-35-31 (29843)
व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः ।
तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् ॥ 32 ॥ 4-35-32 (29844)
विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् ॥ 33 ॥ 4-35-33 (29845)
सुशर्मा चिन्तयामास कालान्तकयमोपमम् ।
तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ॥ 34 ॥ 4-35-34 (29846)
पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् ।
परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह ॥ 35 ॥ 4-35-35 (29847)
निमेषान्तरमात्रेण भीमसेनेन ते रथाः ।
रथानां च गजानां च वाजिनां च ससादिनां ॥ 36 ॥ 4-35-36 (29848)
सहस्रशतसंघाताः शूराणामुग्रधन्विनाम् ।
पातिता भीमसेनेन विराटस्य समीपतः ॥ 37 ॥ 4-35-37 (29849)
पत्तयो निहतास्तेषां गदां गृह्य महात्मना ॥ 38 ॥ 4-35-38 (29850)
तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः।
चिन्तयामास मनसा किं शेषं हि बलस्य मे ॥ 39 ॥ 4-35-39 (29851)
अपरो दृश्यते सैन्ये पुरा मग्नो महाबले।
आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ॥ 40 ॥ 4-35-40 (29852)
सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ॥ 41 ॥ 4-35-41 (29853)
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्।
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ॥ 42 ॥ 4-35-42 (29854)
तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् ।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ॥ 43 ॥ 4-35-43 (29855)
त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः।
तान्भीमसेनः संक्रुद्धः सर्वशस्त्रभृतांवरः ।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ॥ 44 ॥ 4-35-44 (29856)
सहस्रं प्राहिणीद्राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ॥ 45 ॥ 4-35-45 (29857)
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् ।
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ॥ 46 ॥ 4-35-46 (29858)
प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः ।
क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव ॥ 47 ॥ 4-35-47 (29859)
ततो युधिष्ठिरो राजा त्वरमाणो महाबलः।
अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्धृशम् ॥ 48 ॥ 4-35-48 (29860)
सुशर्माऽपि सुसंक्रुद्धस्त्वराणो युधिष्ठिरम् ।
अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ 49 ॥ 4-35-49 (29861)
ततो राजन्क्षिप्रकारी कुन्तीऽपुत्रो वृकोदरः।
समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् ॥ 50 ॥ 4-35-50 (29862)
पृष्ठगोषौ च तस्याथ हत्वा परमसायकैः।
अथास्य सारथिं क्रुद्धो रथोपस्थादपतयत् ॥ 51 ॥ 4-35-51 (29863)
चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः।
स भयाद्विरथं दृष्ट्वा त्रैगर्तं व्याजहात्तदा ॥ 52 ॥ 4-35-52 (29864)
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः।
गदामस्य परामृश्य तमेवाभ्यहनद्बली ॥ 53 ॥ 4-35-53 (29865)
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥ 54 ॥ 4-35-54 (29866)
भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य वीर्यवान् ।
उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च।
सुशर्मणः शिरोऽगुह्णात्पुनराश्वास्य युध्यतः ॥ 55 ॥ 4-35-55 (29867)
अग्राद्गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा।
ऊर्ध्वमुत्प्लृत्य मार्जार आखोर्यद्वच्छिरो रुषा ॥ 56 ॥ 4-35-56 (29868)
समुद्यम्य तु रोषात्तं निष्पिपेष महीतले।
यदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥ 57 ॥ 4-35-57 (29869)
तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना ।
स मोहमगमद्राजा प्रहारवरपीडितः॥ 58 ॥ 4-35-58 (29870)
तस्मिन्वीरे गृहीते तु त्रिगर्तानां महारथे।
अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम् ॥ 59 ॥ 4-35-59 (29871)
निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः।
अवजित्य सुशर्माणं धनं चादाय सर्वशः ॥ 60 ॥ 4-35-60 (29872)
स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः।
विराटस्य महात्मानः परिक्लेशविनाशनाः।
स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत ॥ 61 ॥ 4-35-61 (29873)
नायं पापसमाचारो मत्तो जीवितुमर्हति।
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी ।
गले गृहीत्वा राजानमानीय विवशं वशम् ॥ 62 ॥ 4-35-62 (29874)
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः।
रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ॥ 63 ॥ 4-35-63 (29875)
अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् ।
दर्शयामास भीमस्तु सुशर्माणं नराधिपम् ॥ 64 ॥ 4-35-64 (29876)
प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् ।
तं राजा प्राहसद्दृष्ट्वा मुच्यतां वै नराधमः ॥ 65 ॥ 4-35-65 (29877)
एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् ।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ 66 ॥ 4-35-66 (29878)
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च ।
एवं ते जीवितं दद्यामेष युद्धजितो विधिः ॥ 67 ॥ 4-35-67 (29879)
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः।
मुञ्चमुञ्चाधमाचारं प्रमाणं यदि ते वयम् ॥ 68 ॥ 4-35-68 (29880)
दासभावं गतो ह्येष विराटस्य महीपतेः।
अदासो गच्छ मुक्तोसि मैवं कार्षीः कदाचन ॥ 69 ॥ 4-35-69 (29881)
एवमुक्ते तु सव्रीडः सुशर्माऽसीदधोमुखः ।
स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् ॥ 70 ॥ 4-35-70 (29882)
विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः ।
स्वबाहुबलसंपन्ना हीनिषेवा यतव्रताः ।
संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥ 71 ॥ 4-35-71 (29883)
॥ श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-35-2 नन्दयन्क्षत्रियानिति थo पाठः ॥ 2 ॥विराटपर्व - अध्याय 036
॥ श्रीः ॥
4.36. अध्यायः 036
Mahabharata - Virata Parva - Chapter Topics
युधिष्ठिरचोदनया विराटप्रेषितैर्दूतैर्नगरमेत्य जयोद्धोषणम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-36-0 (29884)
वैशम्पायन उवाच। 4-36-0x (3138)
ततो विराटः कौन्तेयानतिमानुषविक्रमान्।
अर्चयामास वित्तेन मानेन च महारथान्।
वचसा चैव सान्त्वेन स्नेहेन च मुदाऽन्वितः ॥ 1 ॥ 4-36-1 (29885)
विराट उवाच। 4-36-2x (3139)
यथैव मम रत्नानि युष्माकं तानि वै तथा।
कार्यं कुरुत तैः सर्वैर्यथाकामं यथासुखम् ॥ 2 ॥ 4-36-2 (29886)
ददाम्यलंकृताः कन्या वसूनि विविधानि च।
मनसा चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ॥ 3 ॥ 4-36-3 (29887)
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह ।
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ॥ 4 ॥ 4-36-4 (29888)
वैशम्पायन उवाच। 4-36-5x (3140)
तं तथावादिनं तत्र कौरवेयाः पृथक्पृथक्।
ऊचुः प्रहृष्टमनसो युधिष्ठिरपुरोगमाः ॥ 5 ॥ 4-36-5 (29889)
प्रतिनन्दामहे वाचं सर्वथैव विशांपते।
एतावताऽद्य प्रीताःस्मो यत्त्वं मुक्तोसि शत्रुभिः ॥ 6 ॥ 4-36-6 (29890)
यत्त्वं मुक्तोसि शत्रुभ्यो ह्येतत्कार्यं हितं हि नः ।
न किंचित्कार्यमस्माकं न धनं मृगयामहे ॥ 7 ॥ 4-36-7 (29891)
अथाब्रवीत्प्रीतमना मात्स्यराजो युधिष्ठिरम्।
निर्भरः प्रीतिपूरेण हर्षगद्गदया गिरा ॥ 8 ॥ 4-36-8 (29892)
पुनरेव महाबाहुर्विराटो राजसत्तमः ।
एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान् ॥ 9 ॥ 4-36-9 (29893)
मनसा चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण।
तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् ॥ 10 ॥ 4-36-10 (29894)
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा।
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोस्तु ते ॥ 11 ॥ 4-36-11 (29895)
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च।
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ॥ 12 ॥ 4-36-12 (29896)
ततो युधिष्ठिरो मात्स्यं पुनरेवाब्रवीद्वचः।
प्रतिनन्दामि ते वाचं मनोज्ञां मात्स्य भाषितां ॥ 13 ॥ 4-36-13 (29897)
आनृशंस्यपरो नित्यं सुमुखः सततं भवान् ।
पुनरेव विराटश्च राजा कङ्कमभाषत ॥ 14 ॥ 4-36-14 (29898)
अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम ।
सोहं शूद्रेण संग्रामे वललेनाभिरक्षितः ॥ 15 ॥ 4-36-15 (29899)
त्वत्कृते सर्वमेवैतदुपपन्नं ममानघ।
वरं वृष्णीष्व भद्रं ते ब्रूहि किं करवाणि ते ॥ 16 ॥ 4-36-16 (29900)
ददामि ते महाप्रीत्या रत्नान्युच्चावचान्यहम्।
शयनासनयानानि कन्याश्च समलंकुताः ॥ 17 ॥ 4-36-17 (29901)
हस्त्यश्वरथसङ्घाश्च राष्ट्राणि विविधानि च।
एतानि च मम प्रीत्या प्रतिगृह्ण ममान्तिके ॥ 18 ॥ 4-36-18 (29902)
वैशम्पायन उवाच। 4-36-19x (3141)
तं तथावादिनं तत्र कौरव्यः प्रत्यभाषत।
एषैव तु मम प्रीतिर्यत्त्वं मुक्तोसि शत्रुभिः ॥ 19 ॥ 4-36-19 (29903)
प्रतीतश्चेत्पुरं तुष्टः प्रविशाद्य परंतप।
दारैः पुत्रैश्च संश्लिष्य सा हि प्रीतिर्ममातुला ॥ 20 ॥ 4-36-20 (29904)
सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् ।
विसर्जय नरश्रेष्ठं वरमेतदहं वृणे ॥ 21 ॥ 4-36-21 (29905)
वैशम्पायन उवाच। 4-36-22x (3142)
एवमुक्ते तु कङ्केन विराटो राजसत्तमः ।
प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः ॥ 22 ॥ 4-36-22 (29906)
कङ्ख उवाच। 4-36-23x (3143)
गच्छन्तु दूतास्त्वरिता नगरं तव पार्थिव।
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ 23 ॥ 4-36-23 (29907)
ततस्तद्वचनान्मात्स्यो दूतान्राजा समादिशत्।
आचक्षध्वं पुरं सत्वा संग्रामे विजयं मम ॥ 24 ॥ 4-36-24 (29908)
कुमार्यः समलंकृत्य प्रयागच्छन्तु मे पुरात् ।
वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः ।
प्रत्यायान्तु च मे शीघ्रं नागराः सर्व एव ते ॥ 25 ॥ 4-36-25 (29909)
एवमुक्तास्तथा दूता रात्रौ यात्वा तु केवलम् ।
ततोऽन्तरे चानुषिता दूताः शीघ्रानुयायिनः ॥ 26 ॥ 4-36-26 (29910)
नगरं प्राविशंस्ते वै सूर्ये सम्यगथोदिते।
विराटनगरं प्राप्य शीघ्रं नान्दीमघोषयन् ।
पताकोच्छ्रयमाल्याढ्यं पुरमप्रतिमं यथा ॥ 27 ॥ ॥ 4-36-27 (29911)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्त्रिंशोऽध्यायः ॥ 36 ॥
विराटपर्व - अध्याय 037
॥ श्रीः ॥
4.37. अध्यायः 037
Mahabharata - Virata Parva - Chapter Topics
दुर्योधनेन भीष्मद्रोणादिभिः सह विराटनगरमेत्य उत्तरभागे गवां ग्रहणम् ॥ 1 ॥ गोपालेन केनचित्पुरमेत्योत्तरंप्रति कुरुभिर्गोग्रहणस्य निवेदनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-37-0 (29912)
वैशम्पायन उवाच। 4-37-0x (3144)
याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति।
दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् ॥ 1॥ 4-37-1 (29913)
भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् ।
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ॥ 2 ॥ 4-37-2 (29914)
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ॥ 3 ॥ 4-37-3 (29915)
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः ।
गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥ 4 ॥ 4-37-4 (29916)
गवां शतसहस्राणि कुरवः कालयन्ति च ।
महता रथवंशेन परिगृह्य समन्ततः ॥ 5 ॥ 4-37-5 (29917)
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।
आरावः सुमहानासीत्संप्रहारे भयंकरे ॥ 6 ॥ 4-37-6 (29918)
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः।
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ॥ 7 ॥ 4-37-7 (29919)
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः।
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥ 8 ॥ 4-37-8 (29920)
दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् ।
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥ 9 ॥ 4-37-9 (29921)
गवां शतसहस्राणि कुरबः कालयन्ति ते।
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ॥ 10 ॥ 4-37-10 (29922)
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥ 11 ॥ 4-37-11 (29923)
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः ।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥ 12 ॥ 4-37-12 (29924)
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः।
समर्थः समरे योद्धुं कौरवैः सह तादृशै ॥ 13 ॥ 4-37-13 (29925)
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ।
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ॥ 14 ॥ 4-37-14 (29926)
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा।
निर्दर्हषामनीकानि भीमेन शरतेजसा ॥ 15 ॥ 4-37-15 (29927)
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः ।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥ 16 ॥ 4-37-16 (29928)
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥ 17 ॥ 4-37-17 (29929)
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते ।
श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः ।
ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ॥ 18 ॥ 4-37-18 (29930)
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया।
छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ॥ 19 ॥ 4-37-19 (29931)
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।
यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ॥ 20 ॥ 4-37-20 (29932)
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः।
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥ 21 ॥ 4-37-21 (29933)
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः ।
एवमेव गतिर्नूनं भवान्विपयवासिनाम् ॥ 22 ॥ ॥ 4-37-22 (29934)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-37-17 पाशोपधानां पाशौ मौर्वीप्रान्तद्वयगतौ तावेव उपाधाने वीणायां तन्त्रीसंधानार्थं कीलविशेषौ यस्यां सा ताम्। शरवर्णां शरास्ततो निःसरन्तस्त एव वर्णाः शब्दवत्त्वसामान्यात्स्वरस्पर्शादयो यस्याम् ॥ 17 ॥विराटपर्व - अध्याय 038
॥ श्रीः ॥
4.38. अध्यायः 038
Mahabharata - Virata Parva - Chapter Topics
उत्तरे समुचितसारथेरभावेन खिद्यमाने अर्जुनेन द्रौपदींप्रति उत्तराय बृहन्नलायाः सारथ्यकौशलनिवेदनचोदना ॥ 1 ॥ भ्रातॄचोदितया उत्तरया बृहन्नलांप्रति उत्तररथसारध्यकरणप्रार्थना ॥ 2 ॥ उत्तरेण सारथीभूतेनार्जुनेन सह कुरून्प्रति रणायाभियानम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-38-0 (29935)
वैशम्पायन उवाच। 4-38-0x (3145)
महाजनसमक्षं तु स्त्रीणां मध्ये विशेषतः ।
गवाध्यक्षेण संप्रोक्तो विराटतनयस्तदा ॥ 1 ॥ 4-38-1 (29936)
स्त्रीमध्य उक्तस्तेनासौ वाक्यं तेजःप्रवर्धनम्।
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥ 2 ॥ 4-38-2 (29937)
उत्तर उवाच। 4-38-3x (3146)
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम्।
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥ 3 ॥ 4-38-3 (29938)
तमेव नाधिगच्छामि यो मे यन्ता समो भवेत् ।
पश्यध्वं सारथिं शीघ्रं मम युक्तं प्रयास्यतः ॥ 4 ॥ 4-38-4 (29939)
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः ।
यत्तदासीन्महायुद्धं तत्र मे सारथिर्हतः ॥ 5 ॥ 4-38-5 (29940)
यद्यहं त्वधिगच्छेयं यो मे यन्ता भवेद्युधि ।
त्वरावानद्य यास्यामि समुच्छ्रितमहाध्वजः ॥ 6 ॥ 4-38-6 (29941)
विगाह्य तत्परानीकं गजवाजिरथाकुलम् ।
शस्त्रप्रतापान्निर्वीर्यान्कुरूञ्जित्वाऽऽनये पशून् ॥ 7 ॥ 4-38-7 (29942)
दुर्योधनं विकर्णं च कर्णं वैकर्तनं कृपम्।
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ॥ 8 ॥ 4-38-8 (29943)
विद्रावयित्वा संग्रामे दानवान्मघवानिव ।
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥ 9 ॥ 4-38-9 (29944)
शून्यमाज्ञाय कुरवः प्रयान्त्यादाय गोधनम् ।
किं न शक्यं च तैः कर्तुं यदहं तत्र नाभवम् ॥ 10 ॥ 4-38-10 (29945)
पश्ययुरद्य मे वीर्यं कुरवस्ते समागताः ।
किंनु पार्थोऽर्जुनः साक्षादिति मंस्यन्ति मां परे ॥ 11 ॥ 4-38-11 (29946)
वैशंपयान उवाच। 4-38-12x (3147)
तस्य तद्वचनं श्रुत्वा स्त्रीषु चात्मप्रशंसनम् ।
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥ 12 ॥ 4-38-12 (29947)
श्रुत्वा तदर्जुनो वाक्यमुत्तरेण प्रभाषितम्।
अतीतसमये काले प्रियां भार्यामभाषत ॥ 13 ॥ 4-38-13 (29948)
द्रुपदस्य सुतां राज्ञः पाञ्चालीं रूपसंमताम् ।
सत्यार्जवगुणोपेतां भर्तुः प्रियहितैषिणीम् ।
उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः ॥ 14 ॥ 4-38-14 (29949)
उत्तरां ब्रूहि पाञ्चालि गत्वा क्षिप्रं शुचिस्मिते ॥ 15 ॥ 4-38-15 (29950)
इयं किल पुरा युद्धे खाण्डवे सव्यसाचिनः ।
सारथिः पाण्डुपुत्रस्य पार्थस्य तु बृहन्नला।
महाञ्जयो भवेद्युद्धे सा चेद्यन्ता बृहन्नला ॥ 16 ॥ 4-38-16 (29951)
वैशम्पायन उवाच। 4-38-17x (3148)
सा चोदिता तदा ह्येन ह्यर्जुनेन शुचिस्मिता।
पाञ्चाली च तदाऽऽगम्य उत्तराया निवेशनम् ॥ 17 ॥ 4-38-17 (29952)
ज्ञात्वा तु समयान्मुक्तं चन्द्रं राहुमुखादिव ।
युधिष्ठिरं धर्मपरं सत्यार्जवपथे स्थितम् ॥ 18 ॥ 4-38-18 (29953)
अमर्षयन्ती तद्दुःखं कृष्णा कमललोचना।
उत्तरामाह वचनं सखीमध्ये विलासिनीम् ॥ 19 ॥ 4-38-19 (29954)
योऽयं युवा वारणयूथपोपमो बृहन्नलाऽस्मीति जनोऽभ्यभाषत।
पुराऽपि पार्थस्य स सारथिस्तदा धनुर्धराणां प्रवरस्य मन्ये ॥ 20 ॥ 4-38-20 (29955)
एतेन वा सारथिना तदाऽर्जुनः सदेवगन्धर्वमहासुरोरगान् ।
सर्वाणि भूतान्यजयस्तस वीर्यवानतर्पयच्चापि हिरण्यरेतसम् ॥ 21 ॥ 4-38-21 (29956)
यदस्य संस्थामपि तस्य संयुगे जानामि वीर्यं परवीरमध्यगम् ।
संगृह्य रश्मीनपि चास्य वीर्यवानादाय चापं प्रययौ रथे स्थितः ॥ 22 ॥ 4-38-22 (29957)
न सर्वभूतानि न देवदानवा न चापि सर्वे कुरवः समागताः।
धनं हरेयुस्तव जातु धन्विनो बृहन्नला तूत्तरसारथिर्यदि ॥ 23 ॥ 4-38-23 (29958)
धनुष्यनवमश्चासीत्तस्य शिष्यो महात्मनः ।
सुदृष्टपूर्वो हि मया चरन्त्या पाण्डवालये ॥ 24 ॥ 4-38-24 (29959)
स चानेन सहायेन खाण्डवं चादहत्पुरा ।
अर्जुनस्य तदाऽनेन संगृहीता हयोत्तमाः ॥ 25 ॥ 4-38-25 (29960)
तेन सारथिना पार्थः सर्वभूतानि सर्वशः।
अजयत्खाण्डवप्रस्थे न हि यन्ताऽस्ति तादृशः ॥ 26 ॥ 4-38-26 (29961)
वैशम्पायन उवाच। 4-28-27x (3149)
ततः सैरन्ध्रिसहिता उत्तरा भ्रातुरब्रवीत्।
अभ्यर्थयैनां सारथ्ये वीर शीघ्रं बृहन्नलाम् ॥ 27 ॥ 4-38-27 (29962)
शिक्षितैषा हि सारथ्ये नर्तने गीतवादिते ।
सैरन्ध्य्राह महाप्राज्ञा स्तुवन्ती वै बृहन्नलाम् ॥ 28 ॥ 4-38-28 (29963)
उत्तर उवाच। 4-38-29x (3150)
सैरन्ध्रि जानासि मम व्रतं हि क्लीबेन पुंसा न हि संवदाम्यहम्।
सोहं न शक्ष्यामि बृहन्नलां शुभे वक्तुं स्वयं यच्छ हयान्ममेति ॥ 29 ॥ 4-38-29 (29964)
सैरन्ध्र्युवाच। 4-38-30x (3151)
भयकाले तु संप्राप्ते न व्रतं नाव्रतं पुनः।
यथा दुःखं प्रतरति कर्तुं युक्तं चरेद्बुधः ।
इति धर्मविदः प्राहुस्तस्माद्वाच्या बृहन्नला ॥ 30 ॥ 4-38-30 (29965)
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी।
अस्यास्तु वचनं वीर करिष्यति न संशयः ॥ 31 ॥ 4-38-31 (29966)
यदि ते सारथिः सा स्यात्कुरून्सर्वान्न संशयः।
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥ 32 ॥ 4-38-32 (29967)
वैशम्पायन उवाच। 4-38-33x (3152)
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत।
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम् ॥ 33 ॥ 4-38-33 (29968)
सा प्राद्रवत्काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी ।
भ्रातुर्नियोगं तु निशम्य सुभ्रुः शुभानना हाटकवज्रभूषिता ॥ 34 ॥ 4-38-34 (29969)
सा वज्रमुक्तामणिहेमकुण्डला मृदुक्रमा भ्रातृनियोगचोदिता।
प्रदक्षिणावर्ततनुः शिखण्डिनी पद्मानना पद्मदलायताक्षी ॥ 35 ॥ 4-38-35 (29970)
तन्वी समाङ्गी मृदुमन्द्रलोचना मात्स्यस्य राज्ञो दुहिता विलासिनी ।
सा नर्तनागारमरालपक्ष्मा शतह्रदा मेघमिवान्वपद्यत ॥ 36 ॥ 4-38-36 (29971)
सा नागनासोपमसंहितोरूरनिन्दिता वेदिविलग्नमध्या।
आसाद्य तस्थौ वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम् ॥ 37 ॥ 4-38-37 (29972)
तामागतामायतताम्रलोचनामवेक्ष्य पार्थः समयेऽभ्यभाषत ॥ 38 ॥ 4-38-38 (29973)
किमागता काञ्चनमाल्यधारिणी सुगात्रि किंचित्त्वरिताऽसि सुभ्रु ।
किं ते मुखं सुन्दरि न प्रसन्नमाचक्ष्व शीघ्रं मम चारुहासिनि ॥ 39 ॥ 4-38-39 (29974)
वैशम्पायन उवाच। 4-38-40x (3153)
सा वज्रवैडूर्यविकारकुण्डला विनिद्रपद्मोत्पलपन्नगन्धिनी ।
प्रसन्नताराधिपसंनिभानना पार्थे कुमारी वचनं बभाषे ॥ 40 ॥ 4-38-40 (29975)
उत्तरोवाच। 4-38-41x (3154)
हरन्ति वित्तं कुरवाः पितुर्मे शतं सहस्राणि गवां बृहन्नले।
सा भ्रातुरश्वान्मम संयमस्व पुरा परे दूरतरं हरन्ति गाः ॥ 41 ॥ 4-38-41 (29976)
सैरन्ध्रिराख्याति बृहन्नले त्वां सुशिक्षिता संग्रहणे रथाश्वयोः ।
अहं मरिष्यामि न मेऽत्र संशयो मया वृता तत्र न चेद्गमिष्यसि ॥ 42 ॥ 4-38-42 (29977)
वैशम्पायन उवाच। 4-38-43x (3155)
तथा नियुक्तो नरदेवकन्यया नरोत्तमः प्रीतमना धनञ्जयः।
उवाच पार्थः शुभमन्द्रया गिरा शुभाननां शुक्लदतीं शुचिस्मिताम् ॥ 43 ॥ 4-38-43 (29978)
गच्छामि यत्रेच्छसि चारुहासिनि हुताशनं प्रज्वलितं विशामि वा।
इच्छामि तेऽहं वरगात्रि जीवितं करोमि किं ते प्रियमद्य सुन्दरि।
न मत्कृते द्रक्ष्यसि तत्पुरं प्रिये वैवस्वतं प्रेतपतेर्महाभयम् ॥ 44 ॥ 4-38-44 (29979)
वैशम्पायन उवाच । 4-38-45x (3156)
एतावदुक्त्वा कुरुवीरपुङ्गवो विलासिनीं शुक्लदतीं शुचिस्मिताम्।
बृहन्नलारूपविभूषिताननो विराटपुत्रस्य समीपमाव्रजत् ॥ 45 ॥ 4-38-45 (29980)
तथा व्रजन्तं वरभूषणैर्वृतं महाप्रभं वारणयूथपोपमम्।
गजेन्द्रबाहुं कमलायतेक्षणं कवाटवक्षस्थलमुन्नतांसम् ॥ 46 ॥ 4-38-46 (29981)
तमागतं पार्थममित्रकर्शनं महाबलं नागमिव प्रमाथिनम्।
वैराटिरामन्त्र्य ततो बृहन्नलां गवां निनीषन्पदमुत्तरोऽब्रवीत् ॥ 47 ॥ 4-38-47 (29982)
तमाव्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम्।
अन्वगच्छद्विशालाक्षी गजं गजवधूरिव ॥ 48 ॥ 4-38-48 (29983)
दूरादेव तु संप्रेक्ष्य राजपुत्रोऽभ्यभाषत ।
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ॥ 49 ॥ 4-38-49 (29984)
पृथिवीं चाजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः।
सैरन्ध्री त्वां ममाचष्ट सा हि जानाति पाण्डवान् ॥ 50 ॥ 4-38-50 (29985)
देवेन्द्रसारथिर्वीरो मातलिः ख्यातविक्रमः ।
सुमहो जामदग्नेश्च विष्णोर्यन्ता च दारुकः ॥ 51 ॥ 4-38-51 (29986)
सुमन्त्रो वा दाशरथेः सूर्ययन्ता तथाऽरुणः।
सर्वे सारथयः ख्याता न बृहन्नलया समाः ॥ 52 ॥ 4-38-52 (29987)
इत्युक्तोऽहं च सैरन्ध्र्या तेन त्वामाह्वयामि वै ।
आहुता त्वं मया सार्धं योद्धुं याहि बृहन्नले ॥ 53 ॥ 4-38-53 (29988)
दूराद्दूरतरं गावो भवन्ति कुरुभिर्हृताः।
तथोक्ता प्रत्युवाचेदं राजपुत्रं बृहन्नला ॥ 54 ॥ 4-38-54 (29989)
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि ।
नृत्तं वा यदि वा गीतं वादित्रं वा पृथग्विधम् ।
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मम ॥ 55 ॥ 4-38-55 (29990)
उत्तर उवाच। 4-38-56x (3157)
त्वं नर्तको वा यदि वाऽपि गायकः क्षिप्रं तनुत्रं परिधत्स्व भानुमत्।
अभीक्ष्णमाहुस्तव कर्म पौरुषं स्त्रियः प्रशंसन्ति ममाद्य चान्तिके ॥ 56 ॥ 4-38-56 (29991)
वैशम्पायन उवाच। 4-38-57x (3158)
इत्येवमुक्त्वा नृपसूनुसत्तमस्तदा स्मयित्वाऽर्जुनमभ्यनन्दयत्।
अथोत्तरः पारशवं शताक्षिमत्सुवर्णचित्रं परिगृह्य भानुमत् ॥ 57 ॥ 4-38-57 (29992)
बृहन्नलायै प्रददौ स्वयं तदा विराटपुत्रः परवीरघातिने।
तदाज्ञया मात्स्यसुतस्य वीर्यवानकर्तुकामेव समाददे तदा ॥ 58 ॥ 4-38-58 (29993)
बृहन्नलोवाच। 4-38-59x (3159)
यद्यस्ति च रणे शौर्यं शक्यः स्याद्द्विषतां वधः।
अहं त्वामभिगच्छामि यत्र त्वं यासि तत्र भो ॥ 59 ॥ 4-38-59 (29994)
वैशम्पायन उवाच। 4-38-60x (3160)
ततः स नर्मसंयुक्तमकरोत्पाण्डवो बहु।
उत्तरायाः प्रमुखतः सर्वं जानन्नरिन्दमः ॥ 60 ॥ 4-38-60 (29995)
तमाददानं प्रमदा जहासिरे ह्यधोमुखं वीरवरोऽभ्यधारयत्।
ततस्तिरश्चीनकृतं सपत्नहा ह्यधोमुखं कवचमथाभ्यकर्षत ॥ 61 ॥ 4-38-61 (29996)
सम्यक्प्रजानन्नपि सत्यविक्रमो ह्यज्ञातवत्सर्वकुरुप्रवीरः।
ऊर्ध्वं क्षिपन्वीरतरोऽभ्यधारयत्पुनश्च यन्ता कवचं धनञ्जयः ॥ 62 ॥ 4-38-62 (29997)
एवंप्रकाराणि बहूनि कुर्वति तस्मिन्कुमार्यः प्रमदा जहासिरे ।
तथापि कुर्वन्तममित्रकर्शनं नैवोत्तरः पर्यभवद्धनञ्जयम् ॥ 63 ॥ 4-38-63 (29998)
तं राजपुत्रः समनाहयत्स्वयं जाम्बूनदान्तेन शुभेन वर्मणा।
कृशानुतप्तप्रतिमेन भास्वता जाज्वल्यमानेन सहस्ररश्मिना ॥ 64 ॥ 4-38-64 (29999)
अथास्य शीघ्रं प्रसमीक्ष्य भोजयद्रथे हयान्काञ्चनजालसंवृतान्।
सुवर्णजालान्तरयोक्तभूषणं सिंहं च सौवर्णमुपाश्रयद्रथे ॥ 65 ॥ 4-38-65 (30000)
धनूंषि च विचित्राणि बाणांश्च रुचिरान्बहून्।
आयुधानि च वै तत्र रथोपस्थे च स न्यसत् ॥ 66 ॥ 4-38-66 (30001)
आरुह्य प्रययौ वीरः सबृहन्नलसारथिः।
अथोत्तरा च कन्याश्च स ख्यश्चैवाब्रुवंस्तदा ॥ 67 ॥ 4-38-67 (30002)
बृहन्नले आनयेथा वासांसि रुचिराणि नः।
पाञ्चालिकार्थं सूक्ष्माणि रत्नानि विविधानि च ।
विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् ॥ 68 ॥ 4-38-68 (30003)
अथ ता ब्रुवतीः कन्याः सहिताः कुरुनन्दनः।
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिस्वनः ॥ 69 ॥ 4-38-69 (30004)
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् ।
अथाहरिष्ये वासांसि सूक्ष्माण्याभरणानि च ॥ 70 ॥ 4-38-70 (30005)
वैशम्पायन उवाच। 4-38-71x (3161)
अथोत्तरो वर्म महाप्रभावं सुवर्णवैडूर्यपरिष्कृतं शुभम्।
आमुच्य वीरः प्रययौ रथोत्तमं धनञ्जयं सारथिनं प्रगृह्य ॥ 71 ॥ 4-38-71 (30006)
तमुत्तरं प्रेक्ष्य रथोत्तमे स्थितं बृहन्नलां चैव महाजनस्तदा।
स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं मङ्गलिनोऽभ्यपूजयन् ॥ 72 ॥ 4-38-72 (30007)
यदर्जुनस्यर्षभतुल्यगामिनः पुराऽभवत्खाण्डवदाहमङ्गलम् ।
कुरून्समासाद्य रणे बृहन्नले सहोत्तरेणास्तु तवाद्य मङ्गलम् ॥ 73 ॥ ॥ 4-38-73 (30008)
इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-38-35 शिखण्डिनी मयूरपिच्छालंकारवती ॥ 35 ॥विराटपर्व - अध्याय 039
॥ श्रीः ॥
4.39. अध्यायः 039
Mahabharata - Virata Parva - Chapter Topics
उत्तरेण कुरुसेनावलोकनमात्रेण रथादवस्कन्द्य भयात्पलायनम् ॥ 1 ॥ तमनुधाविनाऽर्जुनेन तस्य केशपाशे ग्रहणेन परिसान्त्वनपूर्वकं पुना रथारोपणम् ॥ 2 ॥ तथा तेन सह गाण्डीवाद्यानयनाय शमींप्रति गमनम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-39-0 (30009)
वैशम्पायन उवाच। 4-39-0x (3162)
स राजधान्य निर्याय वैराटिरकुतोभयः।
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ॥ 1 ॥ 4-39-1 (30010)
समवेतान्कुरून्सर्वाञ्जिगीषूनवजित्य वै।
गाश्चैताः क्षिप्रमादाय पुनरेष्याम्यहं पुरम् ॥ 2 ॥ 4-39-2 (30011)
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः ॥ 3 ॥ 4-39-3 (30012)
ते हया नरसिंहेन चोदिता वातरंहसः।
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ॥ 4 ॥ 4-39-4 (30013)
नातिदूरमथो गत्वा मात्स्यपुत्रधनञ्जयौ ।
अवैक्षेतामवित्रस्तौ कुरूणां बलिनां बलम् ॥ 5 ॥ 4-39-5 (30014)
श्मशानमभितो गत्वा शूरौ ददृशतुःकुरून् ॥ 6 ॥
तदनीकं महत्तेषां विस्तृतं सागरोपमम् । 4-39-6 (30015)
सर्पमाणमिवाकाशे वनं बहुलपादपम् ॥ 7 ॥
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता। 4-39-7 (30016)
दृष्टिप्रणाशो भूतानां दिवस्पृक्कुरुसत्तम ॥ 8 ॥
तदनीकमथो वीक्ष्य गजाश्वरथसंकुलम् । 4-39-8 (30017)
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ।
द्रोणेन सह पुत्रेण महेष्वासेन धीमता ॥ 9 ॥ 4-39-9 (30018)
हृष्टरोमा भयोद्विग्नो निमील्य स्वदृशौ तदा।
कम्पमानशरीरश्च पार्थं वैराटिरब्रवीत् ॥ 10 ॥ 4-39-10 (30019)
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे।
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम्।
प्रतियोद्धुं न शक्नोमि कुरुसैन्यं भयानकम् ॥ 11 ॥ 4-39-11 (30020)
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम्।
देवैरपि सहेन्द्रेण न शक्यं किंपुनर्नरैः ॥ 12 ॥ 4-39-12 (30021)
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
दृष्ट्वैव हि परानीकं मनः प्रव्यथतीव मे ॥ 13 ॥ 4-39-13 (30022)
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः ।
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ।
दुर्योधनस्तथा राजा वीरो दुर्मर्षणः परः ॥ 14 ॥ 4-39-14 (30023)
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।
मत्ता इव महानागा युक्तध्वजपताकिनः ॥ 15 ॥ 4-39-15 (30024)
नीतिमन्तो महेष्वासाः सर्वार्थकृतनिश्चयाः ।
ताञ्जेतुं समरे शूरान्दुर्बुद्धिरहमागतः ॥ 16 ॥ 4-39-16 (30025)
दृष्ट्वैव हि कुरून्सर्वान्व्यूढानीकान्प्रहारिणः ।
हृषितानि च रोमाणि कश्मलेनाहतं मनः ॥ 17 ॥ 4-39-17 (30026)
वैशम्पायन उवाच। 4-39-17x (3163)
दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम्।
परिदेवयते मन्दः सकाशे सव्यसाचिनः ॥ 18 ॥ 4-39-18 (30027)
त्रिगर्तान्मे पिता यातः शून्ये वै प्रणिधाय माम्।
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ॥ 19 ॥ 4-39-19 (30028)
अहमेको बहून्बालः कृतास्त्रानकृतश्रमः।
प्रतियोद्धुं न शक्नोति निवर्तय बृहन्नले ॥ 20 ॥ 4-39-20 (30029)
वैशम्पायन उवाच। 4-39-21x (3164)
तं तथा वादिनं तत्र बीभत्सुः प्रत्यभाषत।
संप्रहस्य पुनस्तं वै सर्वलोकमहारथः ॥ 21 ॥ 4-39-21 (30030)
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः ।
न च तावत्कृतं किंचित्परैः कर्म रणाजिरे ॥ 22 ॥ 4-39-22 (30031)
स्वयमेव च मामात्थ नय मां कौरवान्प्रति ।
सोहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ॥ 23 ॥ 4-39-23 (30032)
मध्यमामिषगृध्रूनां कुरूणामाततायिनाम् ।
नेष्यामि त्वां महाबाहो मा त्वं हि विमना भव।
समुद्रमिव गम्भीरं कुरुसैन्यमरिन्दम ॥ 24 ॥ 4-39-24 (30033)
स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम्।
विकत्थमानो निर्यात्वा ब्रूषि किं नात्र युद्ध्यसे ॥ 25 ॥ 4-39-25 (30034)
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च।
रथमारुह्य निर्यात्वा किमर्थं नावबुध्यसे ॥ 26 ॥ 4-39-26 (30035)
न चेद्विजित्य गास्त्वं हि नगरं प्रतियास्यसि।
प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः ॥ 27 ॥ 4-39-27 (30036)
अहमप्यस्मि सैरन्ध्र्या स्तुतः सारथ्यकर्मणि ।
नाहं शक्नोम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ॥ 28 ॥ 4-39-28 (30037)
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन चोदितः ।
कथं न युद्ध्येयमहं कुरूनेतान्स्थिरो भव ॥ 29 ॥ 4-39-29 (30038)
उत्तर उवाच। 4-39-30x (3165)
कामं हरन्तु मात्स्यानां भूयांसः कुरवो धनम्।
प्रहसन्तु च मां नार्यो नरा वाऽपि बृहन्नले ॥ 30 ॥ 4-39-30 (30039)
संग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे ।
नगरं च प्रवेक्ष्यामि पश्यतस्ते बृहन्नले ॥ 31 ॥ 4-39-31 (30040)
वैशम्पायन उवाच। 4-39-32x (3166)
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली।
त्यक्त्वा मानं सुसंत्रस्तो विसृज्य सशरं धनुः ॥ 32 ॥ 4-39-32 (30041)
अर्जुन उवाच। 4-39-33x (3167)
नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम्।
श्रेयो हि मरणं युद्धे न भीतस्य पलायनम् ॥ 33 ॥ 4-39-33 (30042)
वैशम्पायन उवाच। 4-39-34x (3168)
एवमुक्त्वा तु कौरव्यः सोऽवप्लुत्य रथोत्तमात्।
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ।
दीर्घां वेणीं विधून्वानः साधु रक्ते च वाससी ॥ 34 ॥ 4-39-34 (30043)
विक्रमन्तं पदन्यासैर्नमयन्तं च भूतलम् ।
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा।
सैनिकाः प्राहसन्केचिद्योषिद्रूपमवेक्ष्य तम् ॥ 35 ॥ 4-39-35 (30044)
तं च शीघ्रं प्रधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् ।
कोऽयं धावत्यसङ्गेन पूर्वं मुक्त्वा रथोत्तमम् ॥ 36 ॥ 4-39-36 (30045)
क एष वेषसंच्छन्नो भस्मनेव हुताशनः।
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः ॥ 37 ॥ 4-39-37 (30046)
इत्येवं सैनिकाः प्राहुर्द्रोणस्तानिदमब्रवीत् ।
आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः ॥ 38 ॥ 4-39-38 (30047)
किं विचारेण वः कार्यमेतेनानुसृतेन वा।
धावन्तमनुधावंश्च निर्भयो भयविप्लुतम् ।
वेणीकलापं निर्धूय प्रविभाति नरर्षभः ॥ 39 ॥ 4-39-39 (30048)
आकारमर्जुनस्येव क्लीबरूपं बिभर्ति च।
रूपेण पार्थसदृशः स्त्रीवेषसमलंकृतः ॥ 40 ॥ 4-39-40 (30049)
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ ।
तत्तदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ॥ 41 ॥ 4-39-41 (30050)
अमरेष्विव देवेन्द्रो मनुष्येषु धनञ्जयः।
एकः कोस्मानुपायायादन्यो लोके धनञ्जयात् ॥ 42 ॥ 4-39-42 (30051)
द्रोणेन चैवमुक्तस्तु कर्णः प्रोवाच बुद्धिमान्।
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे ॥ 43 ॥ 4-39-43 (30052)
स एष किल निर्यातो बालभावान्न पौरुषात्।
क्लीबं वै सारथिं कृत्वा निर्यातो नगराद्बहिः ॥ 44 ॥ 4-39-44 (30053)
छन्नं सत्रेण वै नूनं जानीध्वं यान्तमर्जुनम् ।
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ।
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ॥ 45 ॥ 4-39-45 (30054)
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः।
स नो मन्ये ध्वजं दृष्ट्वा भीत एष पलायति ॥ 46 ॥ 4-39-46 (30055)
कृप उवाच। 4-39-47x (3169)
नूनं तमेव धावन्तं जिघृक्षति धनञ्जयः।
सारथिं ह्युत्तरं कृत्वा स्वयं योद्धुमिहेच्छति ॥ 47 ॥ 4-39-47 (30056)
वैशम्पायन उवाच। 4-39-48x (3170)
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक्।
न च व्यवसितुं वीरा अर्जुनं शक्नुवन्ति ते ॥ 48 ॥ 4-39-48 (30057)
दुर्योधन उवाचेदं सैनिकान्रथसत्तमान् ।
अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा।
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ॥ 49 ॥ 4-39-49 (30058)
अन्यो वै क्लीबरूपेण यद्यागच्छेद्गवां पदम्।
शस्त्रैस्तीक्ष्णैरर्पयित्वा पातयिष्यामि भूतले ।
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ॥ 50 ॥ 4-39-50 (30059)
वैशम्पायन उवाच। 4-39-51x (3171)
छन्नं तथा तं वेषेण पाण्डवं प्रेक्ष्य सैनिकाः।
अर्जुनेति च नेत्येव न व्यवस्यन्ति ते पुनः।
इति स्म कुरवः सर्वे विमृशन्तः पुनः पुनः ॥ 51 ॥ 4-39-51 (30060)
दृढेवधी महासत्त्वः शक्रतुल्यपराक्रमः ।
अद्यागच्छति चेद्योद्धुं सर्वं संशयितं बलम् ॥ 52 ॥ 4-39-52 (30061)
न चाप्यन्यतरं तत्र व्यवस्यन्ति धनञ्जयात् ॥ 53 ॥ 4-39-53 (30062)
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः।
गत्वा शतपदं तूर्णं केशपक्षे परामृशत् ॥ 54 ॥ 4-39-54 (30063)
मा मा गृहाण भद्रं ते दासोऽहं ते बृहन्नले।
इति वादिनमेवाशु धावन्तं तरसाऽग्रहीत्।
विराटपुत्रं बीभत्सुर्बलवानरिमर्दनः ॥ 55 ॥ 4-39-55 (30064)
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् ।
बहुलं कृपणं चैव वित्तं प्रावेदयद्बहु ॥ 56 ॥ 4-39-56 (30065)
सुवर्णमणिमुक्तानां यद्यदिच्छसि दद्मि ते।
हस्तिनोश्वान्रथान्गावः स्त्रियश्च समलङ्कृताः ॥ 57 ॥ 4-39-57 (30066)
शातकुम्भस्य शुद्धस्य श्रेष्ठस्य रजतस्य च।
ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले ॥ 58 ॥ 4-39-58 (30067)
षष्टिं स्वलंकृताः कन्या ग्राममेकं ददामि ते।
मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् ॥ 59 ॥ 4-39-59 (30068)
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान्।
हेमदण्डप्रतिच्छन्नं रथं युक्तं तु वाजिभिः ॥ 60 ॥ 4-39-60 (30069)
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नले ।
गमिष्यामि पुरं षण्ड द्रष्टुं मातरमद्य ताम् ॥ 61 ॥ 4-39-61 (30070)
एकोऽहमेव मे मातुः कुमारः किं ब्रुवे ततः।
विधिरेवंविधे काले त्वद्वशं कुरुते हि माम् ॥ 62 ॥ 4-39-62 (30071)
मात्स्यस्य पुत्रो बालोऽहं तेन चास्मि सुपोषितः।
मातृपार्श्वशयानोऽहमस्पृष्टातपवायुमान् ॥ 63 ॥ 4-39-63 (30072)
अदृष्टबालयुद्धोऽहं कुतस्ते कुरवः कुतः।
मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले ॥ 64 ॥ 4-39-64 (30073)
प्रलयार्णवसंकाशं दृश्यते कौरवं बलम् ॥ 65 ॥ 4-39-65 (30074)
स्त्रीणां मध्येऽहमज्ञानाद्वीर्यशौर्याङ्कितां गिरम्।
उक्तो यौवनगर्वेण को जेतुं शक्नुयात्कुरून् ।
अमुक्त्वा मां यदि नयेर्मरिष्यामि तवाग्रतः ॥ 66 ॥ 4-39-66 (30075)
वैशम्पायन उवाच। 4-39-67x (3172)
एवमादीनि वाक्यानि विलपन्तमचेतसम्।
प्रसभं पुरुषव्याघ्रो रथस्यान्तिकमानयत् ॥ 67 ॥ 4-39-67 (30076)
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् ॥ 68 ॥ 4-39-68 (30077)
अहं योत्स्यामि कौरव्यैर्हयान्संयच्छ मेति माम् ।
आददानः किमर्थं त्वं पलायनपरोऽभवः ॥ 69 ॥ 4-39-69 (30078)
युध्यस्व कौरवैः सार्धं विजयस्ते भविष्यति।
यस्य यन्तास्म्यहं युद्धे संयच्छामि हयोत्तमान्।
राज्ञो वा राजपुत्रस्य तस्य युद्धे जयो ध्रुवम् ॥ 70 ॥ 4-39-70 (30079)
सर्वथोत्तर युध्यस्व यन्त्रा सह मया कुरून् ।
जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलामिमाम् ॥ 71 ॥ 4-39-71 (30080)
हतो वा प्राप्ससे स्वर्गं न श्रेयस्ते पलायनम् ॥ 72 ॥ 4-39-72 (30081)
अद्य सर्वान्कुरूञ्जित्वा यथा जयमवाप्स्यसि।
तथाऽहं प्रयतिष्येऽत्र सहायोऽत्र मतो ह्यहम् ॥ 73 ॥ 4-39-73 (30082)
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन।
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ॥ 74 ॥ 4-39-74 (30083)
प्रयाह्येतद्रथानीकं मद्बाहुपरिरक्षितः ।
अप्रधृष्यतमं घोरं गुप्तं घोरैर्महारथैः ।
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परंतप ॥ 75 ॥ 4-39-75 (30084)
अहं तैः कुरुभिर्योत्स्ये प्रत्यानेष्यामि ते पशून् ।
प्रविशैतद्रथानीकमप्रधृष्यं दुरासदम् ॥ 76 ॥ 4-39-76 (30085)
यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह।
शूरान्समरचण्डांश्च नयिष्ये यमसादनम् ॥ 77 ॥ 4-39-77 (30086)
वैशम्पायन उवाच। 4-39-78x (3173)
एवं ब्रुवाणो वैराटिं बीभत्सुरपराजितः।
समाश्वास्य भयार्तं तमुत्तरं भरतर्षभः ॥ 78 ॥ 4-39-78 (30087)
इतस्ततो विवेष्टन्तमकामं भयपीडितम् ।
रथमारोपमायास पार्थः परपुरंजयः ॥ 79 ॥ 4-39-79 (30088)
तमारोप्य रथोपस्थे विलपन्तं धनञ्जयः।
गाण्डीवं धनुरादातुमुपायात्तां शमीं प्रति। 4-39-80 (30089)
उत्तरं तं समाश्वास्य कृत्वा यन्तारमर्जुनः ॥ 80 ॥ ॥ 4-39-81 (30090)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥
विराटपर्व - अध्याय 040
॥ श्रीः ॥
4.40. अध्यायः 040
Mahabharata - Virata Parva - Chapter Topics
उत्तरेणार्जनचोदनया शमीमारुह्य धनुरादानम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-40-0 (30091)
वैशम्पायन उवाच। 4-40-0x (3174)
तं दृष्ट्वा क्लीबरूपेण रथस्थं रथिपुङ्गवम्।
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ॥ 4-40-1 (30092)
द्रोणभीष्मादयः शूराः कुरूणां रथिसत्तमाः ।
वित्रस्तमनसश्चासन्धनञ्जयकृताद्भयात् ॥ 4-40-2 (30093)
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान्।
गुरुः शस्त्रभृतांश्रेष्ठो भारद्वाजोऽभ्यभाषत ॥ 4-40-3 (30094)
स्वराश्च वाताः संयान्ति रूक्षाः परुषनिस्वनाः ।
भस्मवर्षप्रकाशेन तमसा संवृतं नभः ॥ 4-40-4 (30095)
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः ।
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ॥ 4-40-5 (30096)
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः ।
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ॥ 4-40-6 (30097)
यादृशान्यत्र दृश्यन्ते रूपाणि विविधानि च।
यत्ता भवन्तस्तिष्ठन्तु युद्धं स्यात्समुपस्थितम् ॥ 4-40-7 (30098)
रक्षध्वमपि राजानं व्यूहध्वं वाहिनीमपि ।
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ॥ 4-40-8 (30099)
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः।
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ॥ 4-40-9 (30100)
एतावदुक्त्वा वचनं भीष्ममालोक्य चाब्रवीत् ॥ 4-40-10 (30101)
नदीज लङ्केशवनारिकेतुर्नगाह्वयो नाम नगारिसूनुः ।
गत्या सुरेशः क्वचिदङ्गनेव गुरुर्बभाषे वचनं तदानीम् ॥ 4-40-11 (30102)
वैशम्पायन उवाच। 4-40-12x (3175)
इत्युक्त्वा संज्ञया द्रोणस्तूष्णीमासीद्विशांपते।
भारद्वाजवचः श्रुत्वा गाङ्गेयः संज्ञयाऽब्रवीत् ॥ 4-40-12 (30103)
अतीतं चक्रमस्माकं विषयान्तरमागताः ।
अतीतः समयश्चोक्त अस्माभिर्यः सभातले।
न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ ॥ 4-40-13 (30104)
देवव्रतेनैवमुक्ते वचने हितकारिणा ।
दुर्योधनमथालोक्य संज्ञया द्रोण अब्रवीत् ॥ 4-40-14 (30105)
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः ।
आगतः क्लीबरूपेण पार्थो नास्त्यत्र संशयः ॥ 4-40-15 (30106)
एष पार्थो हि विक्रान्तः सव्यसाची परन्तपः।
ये जेतारो महीपानाममुना कुरवो हताः ॥ 4-40-16 (30107)
यस्मिञ्जाते मही कृत्स्ना निर्भरोच्छ्वासिताऽभवत्।
येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदमोजसा ॥ 4-40-17 (30108)
विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान् ।
निर्जिता येन पाञ्चाली पुरा येन स्वयंवरे ॥ 4-40-18 (30109)
खाण्डवे येन संतृप्तो वह्निर्जित्वा सुरासुरान् ।
परिणीता सुभद्रा च येन निर्जित्य यादवान् ॥ 4-40-19 (30110)
निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः ॥ 4-40-20 (30111)
गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि ।
निवातकवचा राजन्दानवानां त्रिकोटयः।
निर्जिताः कालकेयाश्च हिरण्यपुरवासिनः ॥ 4-40-21 (30112)
येन त्वं मोचितो बद्धश्चित्रसेनेन तद्वने ॥ 4-40-22 (30113)
येन गत्वोत्तरं मेरोरानिनाय महद्धनम् ।
याजितो धर्मसूनुश्च नृपान्सर्वान्विजित्य च ॥ 4-40-23 (30114)
यस्मिञ्शौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः ।
औदार्यं चैव गाम्भीर्यं श्रीर्ह्रीर्धर्मो दयाऽऽर्जवम् ।
एवमादिगुणोपेतः सोयं पार्थो न संशयः ॥ 4-40-24 (30115)
नाजित्वा विनिवर्तेत सर्वानपि मरुद्गणान् ॥ 4-40-25 (30116)
क्लेशितश्च वने शूरो वासवेन च शिक्षितः।
अमर्षवशमापन्नो योत्स्यते नात्र संशयः ।
न ह्यस्य प्रतियोद्धारमन्यं पश्यामि कौरव ॥ 4-40-26 (30117)
महादेवोपि पार्थेन श्रूयते युद्धतोषितः ।
किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः ॥ 4-40-27 (30118)
इत्येवंवादिनं द्रोणं कर्णः क्रुद्धोऽभ्यभाषत ॥ 4-40-28 (30119)
सदा भवान्फल्गुनस्य गुणानस्मासु कत्थसे।
न चार्जुनः कलापूर्णो मम दुर्योधनस्य वा ॥ 4-40-29 (30120)
दुर्योधन उवाच। 4-40-30x (3176)
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम ।
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यांश्च वत्सरान् ॥ 4-40-30 (30121)
अथवा कश्चिदेवान्यः क्लीबरूपेण देवराट् ।
शरैरेनं सुनिशितैः पातयिष्यामि भूतले ॥ 4-40-31 (30122)
वैशम्पायन उवाच। 4-40-32x (3177)
तस्मिन्वदति तां वाचं धार्तराष्ट्रे परन्तपे।
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ॥ 4-40-32 (30123)
तां शमीमभिसंगम्य पार्थो वैराटिमब्रवीत्।
सुखसंवर्धितं पित्रा समराणामकोविदम् ॥ 4-40-33 (30124)
एहि भूमिंजयारुह्य वैराटे महतीं शमीम्।
समादिष्टो मया क्षिप्रं धनुर्गाण्डीवमानय ॥ 4-40-34 (30125)
नेमानीष्वासनानीह सोढुं शक्ष्यन्ति मे बलम् ।
नालं भारं गुरुं भेत्तुं कुञ्जरं वा प्रमर्दितुम् ॥ 4-40-35 (30126)
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः।
नेच्छामि तैरहं कर्तुं कर्म वैजयिकं त्विह ॥ 4-40-36 (30127)
अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च।
आयुधानि महाबाहो तवैतानि महाबल ॥ 4-40-37 (30128)
तस्माद्भूमिंजयारुह्य शमीमेतां पलाशिनीम् ।
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितात्युत ॥ 4-40-38 (30129)
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।
ध्वजा शराश्च शूराणां दिव्यानि कवचानि च ॥ 4-40-39 (30130)
अत्रैव तु महावीर्यं धनुः पार्थस्य गाण्डिवम् ।
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ॥ 4-40-40 (30131)
व्यायामसहमत्यर्थं तृणराजसमं महत् ।
सर्वायुधमहामात्रं सर्वारिक्षयकारकम् ॥ 4-40-41 (30132)
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम्।
अलं भारं गुरुं सोढुं वारुणं च सुदर्शनम् ॥ 4-40-42 (30133)
तादृशान्येव सर्वाणि बलवन्ति दृढानि च।
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।
प्रथितानि विशिष्टानि दुर्दशानि भवन्त्युत ॥ 4-40-43 (30134)
उत्तर उवाच। 4-40-44x (3178)
शरीरमिह चासक्तं शम्यां शुष्कं पुरा किल।
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ॥ 4-40-44 (30135)
न मामेवंविधं कर्म कारयस्व बृहन्नले ।
कथं वा शक्यते कर्तुं बुद्ध्या त्वं मन्यसे कथं ॥ 4-40-45 (30136)
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना ।
महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥ 4-40-46 (30137)
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम्।
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले ॥ 4-40-47 (30138)
वैशम्पायन उवाच। 4-40-48x (3179)
तमुवाच ततः शूरः पार्थं परपुंरजयः।
दायादं सर्वमत्स्यानां कुले जातं विशारदम् ॥ 4-40-48 (30139)
जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च ।
कथं नु पापकं कर्म ब्रूयां त्वाऽहं परन्तप ॥ 4-40-49 (30140)
व्यवहार्यश्च राजेन्द्र शुद्धश्चैव भविष्यसि ।
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ॥ 4-40-50 (30141)
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् ।
कथं वा नन्दितं कर्म कारये त्वां नृपात्मज ॥ 4-40-51 (30142)
वैशम्पायन उवाच। 4-40-52x (3180)
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली।
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ॥ 4-40-52 (30143)
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः ।
अवरोपय वृक्षाग्राद्धनूंष्येतानि माचिरम् ॥ 4-40-53 (30144)
सोपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् ।
परिवेष्टनपत्राणि विमुच्य समुपानयत् ॥ 4-40-54 (30145)
परिवेष्टनमेतेषां सर्वं मुञ्चस्व माचिरम् ।
तेषां संनहनीयानि परिमुच्य परन्तपः।
अपश्यत्तत्र गाण्डीवं चतुर्भिरपरैः सह ॥ 4-40-55 (30146)
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम्।
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ॥ 4-40-56 (30147)
स तेषां रूपमालेक्य भोगिनामिव दृम्भताम् ।
हृष्टरोमा भयोद्विग्रः प्रवेपिततनुस्तदा ॥ 4-40-57 (30148)
अर्जुनेन समाश्वस्तः किंचिद्धृष्टो नृपात्मजः।
तेषां संदर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः ॥ 58 ॥ 4-40-58 (30149)
आमील्य पुनरुन्मील्य स्पृष्ट्वास्पृष्ट्वा चकार सः।
सम्यग्घुण्टस्तदाऽऽश्वस्तः क्षणेन समपद्यत ॥ 59 ॥ 4-40-59 (30150)
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च।
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ॥ 60 ॥ ॥ 4-40-60 (30151)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-40-11 नगारिसूनुः। एषोऽङ्गनावेषधरः किरीटी जित्वाऽव यं नेष्यति चाद्य गा व इति झo पाठः। हे नदीज गाङ्गेय भीष्म, लङ्केशस्य रावणस्य वनं तस्यारिर्नाशको हनूमान् स केतुर्ध्वजो यस्य सः लङ्केशवनारिकेतुः । नगो `वृक्षस्तदाह्लयः वृक्षनामा। अर्जुन इत्यर्थः। शैलवृक्षौ नगावगावित्यमरः। नगारिरिन्द्रस्तस्य सूनुः । किरीटी तन्नामा यं जित्वा वः युष्माकं गाः धेनूः नेष्यति तं दुर्योधनं अव पालय ॥ 11 ॥ 4-40-46 आलब्धुं स्प्रष्टुम् ॥ 46 ॥ ॥ चत्वारिंशोऽध्यायः ॥विराटपर्व - अध्याय 041
॥ श्रीः ॥
4.41. अध्यायः 041
Mahabharata - Virata Parva - Chapter Topics
पाण्डवकार्मुकाद्यवलोकनविस्मितेनोत्तरकुमारेणार्जुनंप्रति तत्तदायुधवर्णनपूर्वकं तत्तत्स्वामिनां प्रश्नः ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-41-0 (30152)
उत्तर उवाच। 4-41-0x (3181)
सारथे किमिदं दिव्यं नागो वा यदि वा धनुः।
सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः ।
कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च ॥ 4-41-1 (30153)
बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः।
शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः ॥ 4-41-2 (30154)
पुष्पाण्यत्र सुवर्णानि शतपत्राणि भागशः ।
विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् ॥ 4-41-3 (30155)
नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम्।
ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥ 4-41-4 (30156)
तालप्रमाणं कस्येदं मणिरुक्मविभूषितम्
हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश ॥ 4-41-5 (30157)
दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम् ।
कस्येदमीदृशं चित्रं धनुः सर्वे च दंशिताः ॥ 4-41-6 (30158)
चन्द्रार्कविमलाभासः सुरूपाः सुप्रदर्शनाः ।
हंसाः पृष्ठं श्रिता यस्य कुशाग्निप्रतिमार्चिषः ।
शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः ॥ 4-41-7 (30159)
चतुर्तं काञ्चनवपुर्भाति विद्युद्गणोपमम्।
नीलोपलिप्तमच्छिदं जातरूपमयं धनुः ।
मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति दंशिताः ॥ 4-41-8 (30160)
शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः।
उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम् ॥ 4-41-9 (30161)
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषिताः।
जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः ॥ 4-41-10 (30162)
कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः।
प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये ॥ 4-41-11 (30163)
हारिद्रवर्णाः कस्येमे शिता पञ्चशतं शराः।
आशीविषसमस्पर्शाः शिताश्चाजिंहगा दृढाः ॥ 4-41-12 (30164)
विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः।
वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः ॥ 4-41-13 (30165)
वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः।
सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः ॥ 4-41-14 (30166)
कस्यायं सायको दीर्घो गव्ये कोशे च दंशितः।
कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते ॥ 4-41-15 (30167)
वैयाघ्रकोशः कस्यायं दिव्यः शङ्खो महाप्रभः ।
कस्यार्थमसयश्चैते पञ्च शार्दूललक्षणाः ॥ 4-41-16 (30168)
कस्यायं निर्मलः खङ्गो द्वीपिचर्मनिवासितः।
नीलोत्पलसवर्णोऽयं कस्य खङ्गः पृथुर्महान् ॥ 4-41-17 (30169)
मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः।
ऋषभाजिनकोशस्तु कस्य खङ्गो महानयम् ॥ 4-41-18 (30170)
यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः।
कस्यायं विपुलः खङ्गः शृङ्गत्सरुमनोहरः ॥ 4-41-19 (30171)
निहितः पार्षते कोशे तैलधौतः समाहितः।
प्रमाणवर्णयुक्तश्च कस्य खङ्गो महानयम्।
एतेन प्रतिविद्धः सञ्जीवेत्कश्चिन्न कुञ्जरः ॥ 4-41-20 (30172)
निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले।
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ॥ ॥ 4-41-21 (30173)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥
विराटपर्व - अध्याय 042
॥ श्रीः ॥
4.42. अध्यायः 042
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेनोत्तरंप्रति युधिष्ठिराद्यायुधानां पृथक्पृथङ्निर्देशेन तत्तत्स्वामिकत्वकथनम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-42-0 (30174)
वैशम्पायन उवाच। 4-42-0x (3182)
अत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत्।
मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम् ॥ 4-42-1 (30175)
अर्जुन उवाच। 4-42-2x (3183)
अत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम्।
पार्थस्येदं धनुर्दिव्यं गाण्डीवमिति विश्रुतम् ॥ 4-42-2 (30176)
अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम्।
सर्वायुधमहामात्रं शातकुम्भमयं धनुः ॥ 4-42-3 (30177)
एतच्छतसहस्रेण संमितं राष्ट्रवर्धनम् ।
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ॥ 4-42-4 (30178)
येन देवासुरान्पार्थः सर्वान्विषहते रणे।
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ॥ 4-42-5 (30179)
उमापतिश्चतुःषष्टिं शक्रोऽशीतिं च पञ्च च ।
सोमः पञ्चसहस्राणि तथा च वरुणः शतम् ॥ 4-42-6 (30180)
तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम्।
अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम् ।
पञ्चषष्टिं च वर्षाणि कौन्तेयो धारयिष्यति ॥ 4-42-7 (30181)
एवंवीर्यं महावेतेतच्च धनुरुत्तमम् ।
नीलोत्पलसमं राज्ञः कौरव्यस्य महात्मनः ॥ 4-42-8 (30182)
बिन्दवश्चात्र सौवर्णाः पृष्ठे साधुनियोजिताः ।
विश्रुतं भीमसेनस्य जातरूपग्रहं दृढम् ॥ 4-42-9 (30183)
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
ऋषभा यत्र सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥ 4-42-10 (30184)
येन भीमोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः।
पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः ॥ 4-42-11 (30185)
पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम्।
तालप्रमाणं भीमस्य रत्नरुक्मविभूषितम् ॥ 4-42-12 (30186)
दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रकभूषणाः ॥ 4-42-13 (30187)
नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः।
एतेन सदृशं चित्रं धनुरेतद्यवीयसः।
हारिद्रवर्णं राज्ञस्तु कौरव्यस्य महात्मनः ॥ 4-42-14 (30188)
विपाठा भीमसेनस्य गिरीणामपि दारणाः ।
सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुतरां दृढाः ।
भीमेन प्रहिता ह्येते वारणानां निवारणाः ॥ 4-42-15 (30189)
सुवर्णदण्डरुचिराः कालदण्डोपमाः शुभाः ।
नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः ॥ 4-42-16 (30190)
यांश्च त्वं पृच्छसे दीप्तान्समधारान्समाहितान्।
वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः ॥ 4-42-17 (30191)
यस्त्वयं सायको दीर्घो गव्ये कोशे च दंशितः।
पार्थस्यायं महाघोरः सर्वभारसहो महान् ॥ 4-42-18 (30192)
यस्त्वयं निर्मलः खङ्गो द्वीपिचर्मणि दंशितः।
राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः । 4-42-19 (30193)
वैयाघकोशो भीमस्य पञ्चशार्दूललक्षणः ।
वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने ॥ 4-42-20 (30194)
नीलोत्पलसवर्णाभः खङ्गः पार्थस्य धीमतः।
मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः सुनिर्मलः ॥ 4-42-21 (30195)
दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः ।
अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः ॥ 4-42-22 (30196)
यस्त्वयं पार्षते कोशे निक्षिप्तो रुचिरत्सरुः ॥
नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः ॥ 4-42-23 (30197)
यस्त्वयं पिङ्गलः खङ्गश्चित्रो मणिमयत्सरुः।
सहदेवस्य खङ्गोऽयं भारसाहोऽतिदंशितःक ।
भीमस्यायं महादण्डः सर्वामित्रविनाशनः ॥ 4-42-24 (30198)
वैशम्पायन उवाच। 4-42-24x (3184)
भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः ।
आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् ॥ ॥ 4-42-25 (30199)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥
विराटपर्व - अध्याय 043
॥ श्रीः ॥
4.43. अध्यायः 043
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेनोत्तरंप्रति स्वस्यार्जुनत्वकथनपूर्वकं कङ्कादीनां युधिष्ठिरादित्वकथनम् ॥ 1 ॥ तत्प्रत्ययार्थं स्वनामदशककथनपूर्वकं तन्निर्वचनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-43-0 (30200)
वैशम्पायन उवाच। 4-43-0x (3185)
एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत।
विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम् ॥ 4-43-1 (30201)
सुवर्णरुचिराण्येषामायुधानि महात्मनाम् ।
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥ 4-43-2 (30202)
क्वनु ते पाण्डवाः शूराः संग्रामेष्वपराजिताः।
येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च। 4-43-3 (30203)
कस्मिन्वसन्ति देशे च धर्मज्ञा बन्धुवत्सलाः।
क्व धर्मराजः कौन्तेयो धर्मपुत्रो युधिष्ठिरः॥ 4-43-4 (30204)
धर्मशीलश्च धर्मात्मा धर्मवान्धर्मवित्सुधीः ।
धर्माध्यक्षो धर्मपुत्रो धर्मज्ञो धर्ममूर्तिमान् ॥ 4-43-5 (30205)
धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत्।
सत्यार्जवक्षमाधारो घृणी धर्मपरायणः॥ 4-43-6 (30206)
भीमसेनार्जुनौ चापि सर्वे ते मातुला मम।
नकुलः सहदेवो वा सर्वास्त्रकुशलौ रणे॥ 4-43-7 (30207)
सर्व एव महात्मानः सर्वामित्रविनाशनाः।
राज्यमक्षैः पराजित्य नः श्रूयन्ते वनं गताः ॥ 4-43-8 (30208)
द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति मे श्रुता।
जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने ॥ 4-43-9 (30209)
उत्सृज्य राज्यं धर्म्यं ते नः श्रूयन्ते वनं गताः ॥ 4-43-10 (30210)
पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः ।
क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले ॥ 4-43-11 (30211)
किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम्।
कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने ॥ 4-43-12 (30212)
वैशम्पायन उवाच। 4-43-13x (3186)
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
उवाच राजपुत्रं तमुत्तरं शृणु मे वचः ॥ 4-43-13 (30213)
मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् ।
नात्र भेतव्यमद्यापि राजपुत्र यथातथा ॥ 4-43-14 (30214)
वयं ते पाण्डवा नाम वनवासस्य पारगाः।
अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः।
तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर ॥ 4-43-15 (30215)
अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः।
भीमसेनस्तु वललः पितुस्ते रसपाचकः।
अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः ॥ 4-43-16 (30216)
सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः।
भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे ॥ 4-43-17 (30217)
श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः ।
पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह ॥ 4-43-18 (30218)
उत्तर उवाच। 4-43-19x (3187)
दश पार्थस्य नामानि श्रूयन्ते मे कथासु च।
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥ 4-43-19 (30219)
अर्जुन उवाच। 4-43-20x (3188)
अहं तर्हि तवाचक्षे दश नामानि तानि मे।
वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते।
ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि ॥ 4-43-20 (30220)
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः।
बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः।
एतानि मम नामानि स्थापितानि सुरोत्तमैः ॥ 4-43-21 (30221)
उत्तर उवाच। 4-43-22x (3189)
गुणतो दश नामानि समवेतानि पाण्डवे।
चरन्ति लोके ख्यातानि विदितानि ममावघ ॥ 4-43-22 (30222)
केनासि विजयो नाम केनासि श्वेतवाहनः।
सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च ॥ 4-43-23 (30223)
अर्जुनः फल्गुनः पार्थः किरीटी केन सारथे।
धनञ्जयश्च केनासि शीघ्रं वद बृहन्नले ॥ 4-43-24 (30224)
श्रुता मे तस्य वीरस्य केवला नामहेतवः।
इतस्ततश्चलत्येतन्मनो मे चञ्चलं त्वयि।
अर्जुनो वा भवान्नेति वद शीघ्रं बृहन्नले ॥ 4-43-25 (30225)
अर्जुन उवाच। 4-43-26x (3190)
सर्वाञ्जित्वा जनपदान्धनं चाच्छिद्य सर्वशः।
मध्ये धनस्य तिष्ठन्तं तन्मामाहुर्धनञ्जयम् ॥ 4-43-26 (30226)
अभिप्रयामि संग्रामे यदाऽहं युद्धदुर्मदान्।
अजित्वा न निविर्तेयं तेन वै विजयं विदुः ॥ 4-43-27 (30227)
श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः।
शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः ॥ 4-43-28 (30228)
किरीटं सूर्यसंकाशं भ्राजते मे शिरोगतम्।
रणमध्ये रथस्थस्य सूर्यपावकसन्निभम् ॥ 4-43-29 (30229)
अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम्।
इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम् ॥ 4-43-30 (30230)
न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन।
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥ 4-43-31 (30231)
उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे।
भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ।
तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः ॥ 4-43-32 (30232)
पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः।
शुद्धत्वाद्रुपवत्त्वाच्च तेन मामार्जुनं विदुः ॥ 4-43-33 (30233)
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा ।
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥ 4-43-34 (30234)
यो ममाङ्गे व्रणं कुर्याद्धातुर्ज्येष्ठस्य पश्यतः।
युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन ।
पराभवमहं तस्य कुले कुर्यां न संशयः ॥ 4-43-35 (30235)
योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः।
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ॥ 4-43-36 (30236)
माता मम पृथा नाम तेन मां पार्थमब्रुवन् ॥ 4-43-37 (30237)
देवदानवगन्धर्वपिशाचोरगराक्षसान् ।
अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम् ॥ 4-43-38 (30238)
हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना ।
[ त्रिविष्टपगतौ* दृष्ट्वा पितामहमहेश्वरौ॥ 4-43-39 (30239)
मूर्च्छया पतितं भूमावागतौ देवसत्तमौ ।
दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितः पुनः ॥ 4-43-40 (30240)
मूर्ध्ना हि प्रणतं भूमौ तौ देवौ वरदौ वरौ।
कृष्णेत्येकादशं नाम प्रीत्या मे चक्रतुस्तदा।
तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ ॥ 4-43-41 (30241)
सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः।
वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव ॥ 4-43-42 (30242)
ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च।
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् ।
ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम् ॥ 4-43-43 (30243)
ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान्।
मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
अवध्यकवचांन्देवैर्वरदृप्तान्महासुरान् ॥ 4-43-44 (30244)
तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम्।
एको निर्जित्य संग्रामे भूयो देवानतोषयम् ॥ 4-43-45 (30245)
ततो मे भगवानिन्द्रः किरीटमददात्स्वयम्।
देवाश्च शङ्खमददुः शत्रुसैन्यनिवारणम् ॥ 4-43-46 (30246)
अहं पारे समुद्रस्य हिरण्यपुरवासिनाम्।
हत्वा षष्टिं सहस्राणि जयं संप्राप्तवान्रणे ॥ 4-43-47 (30247)
असंभ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च।
शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः ॥ 4-43-48 (30248)
अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम्।
भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम्।
चतुर्दश सहस्राणि हत्वा चैनममोचयम् ॥ 4-43-49 (30249)
एतानि मम नामानि योऽहन्यहनि कीर्तयेत्।
तं न पश्यन्ति सत्त्वानि न तं निघ्नन्ति शत्रवः ॥ 4-43-50 (30250)
अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम्।
मा भैर्विगतसंत्रासः कुरूनेतान्समागतान् ॥ 4-43-51 (30251)
सुयोधनस्य मिषतः कर्णस्य च कृपस्य च।
पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम्।
सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशूऩ्] ॥ ॥ 4-43-52 (30252)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-43-31 बीभत्सुरिति भदि कल्याणे सुखे चेत्यस्य सनि रूपम् ॥ 4-43-32 सव्येन वामेनापि हस्तेन सचितुं ज्याकर्षणादिक्रियायां संबद्धुं शीलमस्येति सव्यसाची ॥ 4-43-33 अर्जुन इति ऋज गतिस्थानार्जनोपार्जनेष्वित्यत उनन्प्रत्यये भवति। दीप्तिमत्त्वात्समत्वात् शुद्धकर्मकरत्वाच्चार्जुन इत्यर्थः ॥ 4-43-34 उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्यामिति झo पाठः । नक्षत्रान्यां ताराभ्यां तत्र स्थिते चन्द्र इत्यर्थः ॥ ॥ त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥विराटपर्व - अध्याय 044
॥ श्रीः ॥
4.44. अध्यायः 044
Mahabharata - Virata Parva - Chapter Topics
उत्तरेण बृहन्नलाया अर्जुनत्वविज्ञानेन तंप्रत्यज्ञानमूलकभूतपूर्वस्वापराधक्षमापनम् ॥ 1 ॥ अर्जुनेनोत्तरंप्रति स्वस्य क्लैब्यप्राप्तिहेतुकथनम् ॥ 2 ॥ तथोत्तरस्य सारथीकरणापूर्वकं रथारोहणेन रणायाभियानम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-44-0 (30253)
वैशम्पायन उवाच। 4-44-0x (3191)
ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत्।
अहं भूमिंजयो नाम प्रणतोस्मि धनंजय ॥ 4-44-1 (30254)
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय ।
लोहिताक्ष महाबाहो नागराजवरोपम ॥ 4-44-2 (30255)
यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम।
अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम ॥ 4-44-3 (30256)
यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम्।
अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि ॥ 4-44-4 (30257)
दासोऽहं ते भविष्यामि पश्य मामनुकम्पया ॥ 4-44-5 (30258)
या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात्।
सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते ॥ 4-44-6 (30259)
देवेन्द्रतनयस्येह सारथिः स्यां महामृधे ।
इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद ॥ 4-44-7 (30260)
प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् ।
मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत् ॥ 4-44-8 (30261)
आस्थाय विपुलं वीर रथं सारथिना मया।
दुर्योधनं च जित्वाऽऽजौ निवर्तय पशून्मम ॥ 4-44-9 (30262)
अर्जुन उवाच। 4-44-10x (3192)
प्रीतोस्मि राजपुत्राद्य न भयं विद्यते तव।
सर्वान्नुदामि ते शत्रून्रणे रणविशारद ॥ 4-44-10 (30263)
स्वस्थो भव महान्युद्धे पश्य मां शत्रुभिः सह ।
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं रवम् ॥ 4-44-11 (30264)
गाण्डीवं देवदत्तं च शरान्कनकभूषणान्।
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे ।
एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ॥ 4-44-12 (30265)
अहं वै कुरुभिर्योत्स्ये मोक्षयिष्यामि ते पशून् ।
तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः ॥ 4-44-13 (30266)
संकल्पागाधपरिधं बाहुप्राकारतोरणम्।
त्रिदण्डतूणसंबाधं नैकध्वजसमाकुलम् ॥ 4-44-14 (30267)
ज्याक्षेपनिनदारावं नेमीनिनददुन्दुभिः ।
शरजालवितानाढ्यमाक्ष्वेडितमहास्वनम् ।
नगरं ते मया गुप्तं रथोपस्थं भविष्यति ॥ 4-44-15 (30268)
अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्विना ।
अजय्यः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ॥ 4-44-16 (30269)
उत्तर उवाच। 4-44-17x (3193)
बहुना किं प्रलापेन शृणु मे परमं वचः।
नाहं बिभेमि कौन्तेय साक्षादपि शतक्रतोः ॥ 4-44-17 (30270)
यमवायुकुबेरेभ्यो द्रोणभीष्मशतादपि ।
बिभेमि नाहमेतेभ्यो जानामि त्वां स्थिरं युधि ।
केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् ॥ 4-44-18 (30271)
इदं तु चिन्तयन्नेव परिमुह्यामि केवलम्।
निश्चयं नाधिगच्छामि नावगच्छामि किंचन ॥ 4-44-19 (30272)
एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च।
केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम् ॥ 4-44-20 (30273)
मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम्।
गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम् ॥ 4-44-21 (30274)
अर्जुन उवाच। 4-44-22x (3194)
भ्रातुर्नियोगाञ्ज्येष्ठस्य संवत्सरमिदं व्रतम्।
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ॥ 4-44-22 (30275)
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः ।
उर्वशीशापसंभूतं क्लैब्यं समुपसंस्थितम् ॥ 4-44-23 (30276)
पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम्।
प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा ॥ 4-44-24 (30277)
नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ ।
अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे॥ 4-44-25 (30278)
रात्रौ समागता मह्यं शयनं रन्तुमिच्छया।
अहं तामभिवाद्यैव मातृसत्कारमाचरम् ॥ 4-44-26 (30279)
सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै।
श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता ॥ 4-44-27 (30280)
उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा।
इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा ॥ 4-44-28 (30281)
तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ ।
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ॥ 4-44-29 (30282)
उत्तर उवाच। 4-44-30x (3195)
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा।
न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः ॥ 4-44-30 (30283)
सहायवानस्मि रणे युद्ध्येयममरैरपि ।
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ॥ 4-44-31 (30284)
अहं ते संग्रहीष्यामि हयाञ्शत्रुनिर्बहण।
शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ ॥ 4-44-32 (30285)
दारुको वासुदेवस्य यथा शक्रस्य मातलिः।
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ॥ 4-44-33 (30286)
अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः।
योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः ॥ 4-44-34 (30287)
यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदंपदम्।
दक्षिणां यो धुरं वोढा सुग्रीवोण समो हयः ॥ 4-44-35 (30288)
योऽयं हयो धुर्यवरो वामां वहति शोभनः।
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ॥ 4-44-36 (30289)
योऽयं वहति वै पार्ष्णिं दक्षिणामञ्चितोद्यतः ।
वलाहकादभिमतस्तेजसा वीर्यवत्तरः ॥ 4-44-37 (30290)
योऽयं काञ्चनसन्नाहो वामं वहति शोभनः ।
धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम् ॥ 4-44-38 (30291)
त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् ।
त्वं चे.. रथमास्थाय योद्धुमर्हो मतो मम।
शर्वशत्रुभिरायातो देवराज इवासुरैः ॥ 4-44-39 (30292)
वैशम्पायन उवाच। 4-44-40x (3196)
ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः।
प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया ॥ 4-44-40 (30293)
ततो विमुच्य बाहुभ्यां सङ्खचूडानि पाण्डवः ।
तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ ॥ 4-44-41 (30294)
इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले ।
श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा ॥ 4-44-42 (30295)
अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः।
अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे ॥ 4-44-43 (30296)
ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम्।
इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन ॥ 4-44-44 (30297)
प्रणिपत्य ततः पार्थः समालभ्य च पाणिना।
सर्वाणि मानसानीह भवतेत्यभ्यभाषत॥ 4-44-45 (30298)
प्रतिगृह्य ततोऽस्त्राणि प्रह्लष्टवदनोऽभवत् ।
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ 4-44-46 (30299)
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः ।
यथा शैलस्य महतः शैलानाक्षिप्य जघ्रुषः ॥ 4-44-47 (30300)
सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम्।
भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः ॥ 4-44-48 (30301)
तं शब्दं कुरवो राजन्विस्फोटमशनेरिव।
तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः ॥ 4-44-49 (30302)
यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि ।
तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली ॥ 4-44-50 (30303)
महाशनिमहाशब्दसदृशो ज्यास्वनो महान् ।
शत्रून्वीरांश्च संतर्ज्य निग्रहस्थो रथे स्थितः ॥ 4-44-51 (30304)
उत्तर उवाच। 4-44-52x (3197)
एकस्त्वं पाण्डवश्रेष्ठ बहूनोतान्महारथान्।
कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान् ॥ 4-44-52 (30305)
असहायो।सि कोन्तेय ससहायाश्च कौरवाः ।
अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः ॥ 4-44-53 (30306)
वैशम्पायन उवाच। 4-44-54x (3198)
उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा ॥ 4-44-54 (30307)
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥ 4-44-55 (30308)
तथा प्रतिभये तस्मिन्देवदानवसंकुले।
खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम ॥ 4-44-56 (30309)
निवातकवचैः सार्धं पौलोमैश्च महाबलैः ।
युध्यतो देवराजार्थे कः सहायस्तदाऽभवत् ॥ 4-44-57 (30310)
स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे।
युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत् ॥ 4-44-58 (30311)
उपजीव्य गुरुं द्रोणं शुक्रं वैश्रवणं यमम्।
वरुणं पावकं चैव कृपं कृष्णं च माधवम् ।
पिनाकपाणिनं चैव कथमेतान्न योधये ॥ 4-44-59 (30312)
रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः ॥ ॥ 4-44-60 (30313)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुश्चत्वारिंशोऽध्ययः ॥ 44 ॥
विराटपर्व - अध्याय 045
॥ श्रीः ॥
4.45. अध्यायः 045
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन युद्धप्रस्थानसमये उत्तररथात्सिंहध्वजस्यावरोपणपूर्वकं स्वध्यानसंनिहितस्य हनुमद्ध्वजस्य रथे स्थापनम् ॥ 1 ॥ तथा स्वशङ्खादिशब्दश्रवणवित्रस्तस्योत्तरस्य समाश्वासनपूर्वकं रणायाभियानम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-45-0 (30314)
वैशम्पायन उवाच। 4-45-0x (3199)
उत्तरं सांरथिं कृत्वा शमीं कृत्वा प्रदक्षिणम्।
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ॥ 4-45-1 (30315)
ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च।
प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे ॥ 4-45-2 (30316)
ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम् ।
दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा ।
मनसा चिन्तयामास प्रसादं पावकस्य च ॥ 4-45-3 (30317)
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत्।
रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः ॥ 4-45-4 (30318)
सपताकं विचित्राङ्गं सोपासङ्गं महाबलम्।
खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम् ॥ 4-45-5 (30319)
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः।
बद्धासिः सतलत्राणः प्रगृहीतशरासनः ।
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ॥ 4-45-6 (30320)
सैन्याभ्याशं स संप्राप्य गृहीत्वा शङ्खमुत्तमम् ।
स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः ।
शशाङ्करूपं बीभत्सुः प्राध्मापयदरिंदमः ॥ 4-45-7 (30321)
[ शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः ।
उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम् ॥ 4-45-8 (30322)
आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम्।
अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम् ॥ 4-45-9 (30323)
यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव ।
मरुद्भिर्दशभिश्चैव प्राध्मापयदरिंदमः ]॥ 4-45-10 (30324)
शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत् ॥ 4-45-11 (30325)
तस्य शङ्खस्य शब्देन धनुपो निस्वनेन च।
वानरस्य निनादेन रथनेमिस्वनेन च।
जङ्गमस्य भयं घोरमकरोत्पाकशासनिः ॥ 4-45-12 (30326)
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ ।
उत्तरश्चापि संत्रस्थो रथोपस्थ उपाविशत् ॥ 4-45-13 (30327)
अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परंतपः ।
अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे ॥ 4-45-14 (30328)
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् ।
उत्तरं संपरिष्वज्य समाश्वासयदर्जुनः ॥ 4-45-15 (30329)
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप ।
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥ 4-45-16 (30330)
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः ।
कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः ॥ 4-45-17 (30331)
स त्वं कथमिवानेन शङ्खशब्देन भीषितः ।
विपण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥ 4-45-18 (30332)
उत्तर उवाच। 4-45-19x (3200)
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः।
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः ॥ 4-45-19 (30333)
नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः।
ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम् ।
धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित् ॥ 4-45-20 (30334)
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च।
अमानुषाणां शब्देन भूतानां निस्वसेन च।
रथनेमिप्रणादेन मनो कमे मुह्यते भृशम् ॥ 4-45-21 (30335)
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च।
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे।
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ॥ 4-45-22 (30336)
वैशम्पायन उवाच। 4-45-23x (3201)
पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः ।
स मूढचेता वैराटिरर्जुनं समुदैक्षत ॥ 4-45-23 (30337)
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत् ॥ 4-45-24 (30338)
स्थिरो भव महाबाहो संज्ञां चात्मानमानय।
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च।
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥ 4-45-25 (30339)
एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः।
ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान्।
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च ॥ 4-45-26 (30340)
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत्।
उत्तरश्चापि संलीनो रथोपस्थ उपाविशत्।
तं समाश्वासयामास पुनरेव धनञ्जयः । 4-45-27 (30341)
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च।
गाण्डीवस्य च शब्देन पृथिवी समकम्पत ॥ ॥ 4-45-28 (30342)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥
विराटपर्व - अध्याय 046
॥ श्रीः ॥
4.46. अध्यायः 046
Mahabharata - Virata Parva - Chapter Topics
द्रोणेनार्जुनशङ्खनादादिना तस्यार्जुनत्वनिर्धारणेन दुर्योधनंप्रति तन्निवेदनपूर्वकं दुर्निमित्तप्रदर्शनम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-46-0 (30343)
वैशम्पायन उवाच। 4-46-0x (3202)
भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः।
राजानं चाह संप्रेक्ष्य दुर्योधनमरिंदमः ॥ 4-46-1 (30344)
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते।
कम्पते च यथा भूमिर्नैषोन्यः सव्यसाचिनः ॥ 4-46-2 (30345)
औत्पातिकमिदं राजन्निमित्तं भवतीह नः।
न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप ॥ 4-46-3 (30346)
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः ।
अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः ॥ 4-46-4 (30347)
प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च।
शकुनाश्चापसव्याश्च वेदयन्ति महाभयम् ॥ 4-46-5 (30348)
गोमायुरेष सैन्यानां रुदन्मध्येन धावति।
चाषा नदन्ति चाकाशे वेदयन्तो महद्भयम् ॥ 4-46-6 (30349)
भवतां चैव रोमाणि प्रहृष्टानीव लक्षये ॥ 4-46-7 (30350)
अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः ।
विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः ॥ 4-46-8 (30351)
लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः ।
न च सूर्यः प्रतपति महद्वेदयते भयम् ॥ 4-46-9 (30352)
हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः ।
पराभूता च वः सेना न कश्चिद्योद्भुमिच्छति ॥ 4-46-10 (30353)
विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ।
दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः ॥ 4-46-11 (30354)
मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः।
वादित्रोद्धृष्टघोषाश्च न च गाढं स्वनन्ति च।
ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम् ॥ 4-46-12 (30355)
यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः।
श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात् ॥ 4-46-13 (30356)
अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् ।
वानरस्य रथे दिव्यो निस्वनः श्रूयते महान् ॥ 4-46-14 (30357)
शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ ।
सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात् ॥ 4-46-15 (30358)
राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम्।
गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः ।
प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि ॥ 4-46-16 (30359)
शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः।
मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति ॥ 4-46-17 (30360)
न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि ।
दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुन ॥ ॥ 4-46-18 (30361)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥
विराटपर्व - अध्याय 047
॥ श्रीः ॥
4.47. अध्यायः 047
Mahabharata - Virata Parva - Chapter Topics
द्रोणवचनादर्जुनस्यार्जुनत्वावधारणेन विषादात्तूष्णींभूतेषु स्वीयेषु दुर्योधनेन द्रोणानादरपूर्वकं तान्प्रति समरप्रोत्साहनम् ॥ 1॥Mahabharata - Virata Parva - Chapter Text
4-47-0 (30362)
वैशम्पायन उवाच। 4-47-0x (3203)
ततो दुर्योधनो राजा समरे भीष्ममब्रवीत्।
द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम् ॥ 4-47-1 (30363)
उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत्।
पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन् ॥ 4-47-2 (30364)
पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् ।
वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥ 4-47-3 (30365)
तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः ।
अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः॥ 4-47-4 (30366)
अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः ।
पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः ॥ 4-47-5 (30367)
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत्।
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति॥ 4-47-6 (30368)
अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः ।
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ॥ 4-47-7 (30369)
उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् ।
यदि बीभत्सुरायातः किंतु कृत्यमतः परम् ॥ 4-47-8 (30370)
त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् ।
विप्रकारैर्हि मात्स्येन सुशर्मा बाधित पुरा ॥ 4-47-9 (30371)
तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम् ।
अभयं याचमानानां तदाऽस्माभिः परिश्रुतम् ॥ 4-47-10 (30372)
प्रथमं वैर्ग्रहीतव्यं मात्स्यानां गोधनं महत्।
अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम् ॥ 4-47-11 (30373)
नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति।
इमा गावो ग्रहीतव्या याते मत्स्ये गवांपदम् ॥ 4-47-12 (30374)
इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये ।
पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् ॥ 4-47-13 (30375)
ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः।
अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन संगतिम् ॥ 4-47-14 (30376)
अथवा तानुपादाय मात्स्यो जानपदैः सह ।
सर्वथा सेनया सार्धमस्मानेष युयुत्सति ॥ 4-47-15 (30377)
तेषामेको महावीर्यः कश्चिदेव पुनःसरः।
अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत् ॥ 4-47-16 (30378)
यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः ।
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥ 4-47-17 (30379)
अथ कस्मात्थिता ह्येते रथेषु रथिसत्तमाः ।
भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च।
संभ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये ॥ 4-47-18 (30380)
नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽऽत्मा प्रणिधीयताम् ।
सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः ॥ 4-47-19 (30381)
अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा।
यमेन वाऽपि संग्रामे को हास्तिनपुरं व्रजेत् ॥ 4-47-20 (30382)
शरैरभिप्रणुन्नानां भग्नानां गहने वने ।
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ॥ 4-47-21 (30383)
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ।
जानामि च मतं तेषामतस्त्रासयतीव नः॥ 4-47-22 (30384)
अर्जुने चापि संप्रीतिमधिकामुपलक्षये ।
तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति ।
यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥ 4-47-23 (30385)
अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता।
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥ 4-47-24 (30386)
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे ।
स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः ॥ 4-47-25 (30387)
सदा च वायवो वान्ति नित्यं वर्षति वासवः ।
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥ 4-47-26 (30388)
भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान्।
प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते ॥ 4-47-27 (30389)
यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः ।
हेषितानीव शृण्वन्ति तदिदं भवतस्तथा ॥ 4-47-28 (30390)
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते।
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम् ॥ 4-47-29 (30391)
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः ।
नैते महाहवे घोरे संप्रष्टव्याः कथंचन ॥ 4-47-30 (30392)
प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च।
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र सोभनः ॥ 4-47-31 (30393)
बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि ।
इष्वस्त्रे चापसंधाने पण्डितास्तत्र शोभनाः ॥ 4-47-32 (30394)
परेषां विवरज्ञाने मनुष्याचरितेषु च।
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥ 4-47-33 (30395)
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः ।
विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥ 4-47-34 (30396)
गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम्।
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः ॥ ॥ 4-47-35 (30397)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-47-11 सप्तम्याश्चापराह्णे त्विति नवम्यां पुनरस्माभिरिति च थo पाठः ॥ ॥ सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥विराटपर्व - अध्याय 048
॥ श्रीः ॥
4.48. अध्यायः 048
Mahabharata - Virata Parva - Chapter Topics
कर्णेनात्मश्लाघनपूर्वकमर्जुनपराभवनमिथ्याप्रतिज्ञानम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-48-0 (30398)
कर्ण उवाच। 4-48-0x (3204)
सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये।
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥ 4-48-1 (30399)
यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः ।
वासुदेवेन सहितो यदि बीभत्सुरागतः।
अहमेनं निरोत्स्यामि वेलेव वरुणालयम् ॥ 4-48-2 (30400)
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया।
छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः ॥ 4-48-3 (30401)
मम चापप्रमुक्तानां शराणां नतपर्वणाम् ।
निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव ॥ 4-48-4 (30402)
शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् ।
श्रूयते तलयोः शब्दो भेर्योराहतयोरिव ॥ 4-48-5 (30403)
एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम्।
हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान् ॥ 4-48-6 (30404)
मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः ।
खद्योतैरिव संपृक्तमन्तरिक्षं विराजताम् ॥ 4-48-7 (30405)
ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ 4-48-8 (30406)
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् ।
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ॥ 4-48-9 (30407)
क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् ।
स्थितं संग्रामशिरसि पार्थमेकाकिनं किमु ॥ 4-48-10 (30408)
समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च ।
जातस्नेहश्च युद्धस्य मयि संदर्शयिष्यति ॥ 4-48-11 (30409)
पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव ।
शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव ॥ 4-48-12 (30410)
एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः ।
अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित् ॥ 4-48-13 (30411)
मम हस्तप्रमुक्तानां शराणां नतपर्वणाम्।
निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम् ॥ 4-48-14 (30412)
इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् ।
तुगुलः श्रूयतां नादः षट्पदां गायतामिव ॥ 4-48-15 (30413)
अन्तरा संपतद्भिस्तु गृध्रपत्रैः शिलाशितैः ।
शलभानामिवाकाशे छाया संप्रति दृश्यताम् ॥ 4-48-16 (30414)
अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः।
शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः ॥ 4-48-17 (30415)
बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव ।
पततां पततां घोषः पततां पततामिव ॥ 4-48-18 (30416)
अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् ।
धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम् ॥ 4-48-19 (30417)
इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम्।
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥ 4-48-20 (30418)
शरजालमहाज्वालमसिशक्तिगदेन्धनम् ।
निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम् ॥ 4-48-21 (30419)
रथादतिरथं लोके सर्वशस्त्रभृतांवरम् ।
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् ॥ 4-48-22 (30420)
क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः ।
संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम् ॥ 4-48-23 (30421)
अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् ।
समूलमपनेष्यामि हरन्पार्थशिरः शरैः ॥ 4-48-24 (30422)
अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः।
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् ।
निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥ 4-48-25 (30423)
जामदग्न्यान्मया लब्धं दिव्यास्रमृषिसत्तमात्।
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥ 4-48-26 (30424)
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ 4-48-27 (30425)
कामं गच्छन्तु कुरवो गाः प्रगृह्य परंतपाः ।
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥ ॥ 4-48-28 (30426)
इति श्रीमन्माहाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-48-18 बर्हिणां बहिणामिव एकैकस्य पृष्ठेपृष्ठे गच्छतां मयूराणां मयूराणामिव बर्हिबर्हिणराजानां बर्हिणो मयूरस्य बर्हिणैः शरमूले पत्ररूपेण स्थितमयूरपत्रैः राजानां राजमानानां । राजृदीप्ताविति धातोः कर्त्रर्थे पचाद्यचि कृते रूपनिष्पत्तिः । पततां पततां एकैकस्य शरस्य पृष्ठे पृष्ठे निपततां शराणां घोषः पततां मालारूपेण निपतमानानां पततां पक्षिणां घोष इव अखिलैः श्रूयतामिति योग्यक्रियाध्याहारेण संबन्धः । यद्वा बर्हिणां बर्हवतां उत्पन्नबर्हाणामित्यर्थः । बर्हिणं मयूराणामिव पततां पततां पुंखानुपुंखतया क्षणेक्षणे पततां पततां शराणां घोषः पततां पक्षिणां घोष इव पततां दिशिदिशि पततामिति लोडन्तक्रिया। सर्वैः श्रूयतामिति भावः । बर्हिबर्हिणवाजानामिति टo थo धo पाठः ॥ 18 ॥ ॥ अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥विराटपर्व - अध्याय 049
॥ श्रीः ॥
4.49. अध्यायः 049
Mahabharata - Virata Parva - Chapter Topics
कृपेणार्जुनचरित्रप्रशंसनपूर्वकं कर्णगर्हणम् ॥ 1 ॥ तथा स्वेषु एकैकेनार्जुनस्य दुर्जयत्वकथनपूर्वकं संभूयाभियाननिर्धारणम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-49-0 (30427)
वैशम्पायन उवाच। 4-49-0x (3205)
तस्य तद्वचनं श्रुत्वा नीतिशास्त्रविशारदः।
आचार्यः कुरुवीराणां कृपः शारद्वतोऽब्रवीत् ॥ 4-49-1 (30428)
सदैव तव राधेय युद्धे क्रूरतरा मतिः।
नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे ॥ 4-49-2 (30429)
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः ।
तेषां युद्धं सुपापिष्ठं वेदयन्ति पुराविदः ॥ 4-49-3 (30430)
देशकालेन संयुक्तं युद्धं विजयदं भवेत्।
हीनकालं तदेवेह अनर्थायोपकल्पते ॥ 4-49-4 (30431)
देशे काले च विक्रान्तं कल्याणाय विधीयते।
आनुकूल्येन कार्याणामुत्तरं तु विधीयते ॥ 4-49-5 (30432)
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः।
परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः ॥ 4-49-6 (30433)
एको हि शत्रून्समरे समर्थः प्रतिबाधितुम् ।
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ॥ 4-49-7 (30434)
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् ।
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयम् ॥ 4-49-8 (30435)
सैन्धवं वनवासे तु जित्वा कृष्णामथानयत् ।
एकश्च पञ्च वर्षाणि शक्रादस्राण्यशिक्षत ॥ 4-49-9 (30436)
एकः सपत्नाञ्जित्वा तु कुरूणामकरोद्यशः ।
एको गन्धर्वराजानं चित्रसेनमरिन्दमः ।
विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ॥ 4-49-10 (30437)
पाञ्चाली श्रीमती प्राप्ता क्षत्रं जित्वा स्वयंवरे ।
आदाय गतवान्पार्थो भवान्क्वनु गतस्तदा ॥ 4-49-11 (30438)
तथा निवातकवचाः कालकेयाश्च दानवाः ।
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ॥ 4-49-12 (30439)
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा।
एकैकेन यथा तेषां भूमिपाला वशे कृताः ॥ 4-49-13 (30440)
इन्द्रोपि हि न पार्थेन संयुगे योद्धुमर्हति ।
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ॥ 4-49-14 (30441)
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम्।
अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ॥ 4-49-15 (30442)
अथवा कुञ्जरं मत्तमेकमेकचरं वने।
निरङ्कुशं समारुह्य नगरं यातुमिच्छसि ॥ 4-49-16 (30443)
समिद्धं पावकं चापि घृतमेदोवसाहुतम्।
घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि ॥ 4-49-17 (30444)
आत्मानं यः समाबध्य कण्ठे बद्ध्वा तथा शिलाम् ।
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं कर्ण पौरुषम् ॥ 4-49-18 (30445)
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः।
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ॥ 4-49-19 (30446)
अस्माभिरेव निकृतो वर्षाणीह त्रयोदश।
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ॥ 4-49-20 (30447)
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् ।
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ॥ 4-49-21 (30448)
उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत्कथम् ।
सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम् ॥ 4-49-22 (30449)
यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः।
युद्धायावस्थितं पार्थमागतं पाकशासनिम् ॥ 4-49-23 (30450)
यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः।
षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः ॥ 4-49-24 (30451)
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम्।
सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः ॥ 4-49-25 (30452)
न ह्यसंगत्य समरे पार्थं जेष्यामहे वयम्।
संगत्य समरे पार्थं सर्वे जेष्यमाहे वयम् ॥ 26 ॥ ॥ 4-49-26 (30453)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-49-6 भारं हीति। यथा रथकारेण दिव्योऽयं मया निर्मितो रथः सुदृढाङ्गः अनेन त्वं देवानपि सर्वथा जेष्यसीत्युक्ते तद्वचसि भारं दत्त्वा देशकालानुकूल्यमनपेक्ष्यैव न व्यवस्यन्ति। योद्धुमेति शेषः। एवं त्वद्वचसि भारं दत्त्वा देशाद्यानुकूल्यमनवेक्ष्य कथमस्माभिर्योद्धव्यम्। तवतु वचनं रथकारवचनवदर्शशून्यमिति भावः ॥ 6 ॥ 4-49-10 एकः संयमिनीं जित्वा इति धo पाठः ॥ 10 ॥ ॥ एकोनपञ्चाशोऽध्यायः ॥ 49 ॥विराटपर्व - अध्याय 050
॥ श्रीः ॥
4.50. अध्यायः 050
Mahabharata - Virata Parva - Chapter Topics
कृपेण स्वगर्हणममृष्यता कर्णेन तदुपालम्भः ॥ 1 ॥ तदसहिष्णुनाऽश्वत्थाम्ना समर्मोद्धाटनं कर्णदुर्योधनोपालम्भः ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-50-0 (30454)
वैशम्पायन उवाच। 4-50-0x (3206)
कृपस्य वचनं श्रुत्वा कर्णो राजन्युधांपतिः ।
पुनः प्रोवाच संरब्धो गर्हयन्ब्राह्मणं कृपम् ॥ 4-50-1 (30455)
कर्ण उवाच। 4-50-2x (3207)
लक्षयाम्यहमाचार्यं भयाद्भक्तिं गतं रिपौ ।
भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम् ॥ 2 ॥ 4-50-2 (30456)
ननु वारुणमाग्नेयं याम्यं वायव्यमेव च।
अस्त्रं ब्रह्मशिरश्चैव सत्वहीनस्य ते वृथा ॥ 4-50-3 (30457)
मित्रकार्यं कृतमिदं पितापुत्रैर्महारथैः ।
भर्तृपिण्डश्च निर्विष्टो यथेष्टं गन्तुमर्हथ ॥ 4-50-4 (30458)
भिक्षां हरस्व नित्यं त्वं यज्ञाननुचरस्व च।
आमन्त्रणानि भुङ्क्षाद्य माऽस्मान्युद्धेन भीषय ॥ 4-50-5 (30459)
भार्गवास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम्।
किं पुनः पाण्डुपुत्राणामेकमर्जुनमाहवे ॥ 4-50-6 (30460)
आगमिष्यन्ति पदवीं मात्स्याः पाण्डवमाश्रिताः ।
कीचकानां तु बलिनां शत्रुसेनावमर्दिनाम् ॥ 4-50-7 (30461)
तानहं निहनिष्यामि भवता गम्यतां गृहम् ।
किं वेदवादिनां कार्यं परस्नेहानुभाषिणाम् ॥ 4-50-8 (30462)
तस्य तद्वचनं श्रुत्वा अश्वत्थामा प्रतापवान् ।
उवाच वदतांश्रेष्ठो दुर्योधनमवेक्ष्य च ॥ 4-50-9 (30463)
न च तावञ्जिता गावो न च सीमान्तरं गताः।
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ॥ 4-50-10 (30464)
बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः ।
तेषु किंस्विदिदं दृष्टं द्यूते जीयेत यन्नृपः ॥ 4-50-11 (30465)
संग्रामान्विपुलाञ्जित्वा लब्धा च विपुलं धनम् ।
विजित्य च महीं कृत्स्नां नेह कत्थन्ति पण्डिताः ॥ 4-50-12 (30466)
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः ।
तूष्णीं धारयते लोकान्वसुधा सचराचरान् ॥ 4-50-13 (30467)
चातुर्वर्ण्यस्य कर्माणि विहितानि महर्षिभिः ।
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ॥ 4-50-14 (30468)
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत वा ।
क्षत्रियो धनमाहृत्य यजेतैव न याजयेत् ॥ 4-50-15 (30469)
वैश्योऽधिगम्य वित्तानि वार्ताकर्माणि कारयेत्॥ 4-50-16 (30470)
शूद्रः शुश्रूषणं कुर्यात्रिषु वर्णेषु नित्यशः।
वन्दनायोगविधिभिर्वैतसीं वृत्तिमाश्रितः ॥ 4-50-17 (30471)
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् ।
प्रकुर्वन्ति महाभागा यज्ञान्सुविपुलानपि ॥ 4-50-18 (30472)
का जातिस्तेषु सूतेयं केऽपि मन्त्राः क्रियाश्च काः ।
केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु ॥ 4-50-19 (30473)
वैशम्पायन उवाच। 4-50-20x (3208)
दुर्योधनमभिप्रेक्ष्य कर्णं च कुरुसंसाद।
अश्वत्थामा भृशं क्रुद्धो दुर्योधनमतर्जयत् ॥ 4-50-20 (30474)
प्राप्य द्यूतेन को राज्यं क्षत्रियः स्तोष्टुर्महति ।
तथा नृशंसरूपोयं धार्तराष्ट्रश्च निर्घृणः ॥ 4-50-21 (30475)
तथाऽधिगम्य वित्तानि को विकत्थेद्विचक्षणः ।
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ॥ 4-50-22 (30476)
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम्।
नकुलं सहदेवं वा धनं येषां त्वया हृतम् ॥ 4-50-23 (30477)
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनांवरः ।
इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा ॥ 4-50-24 (30478)
तथैव कतमद्युद्धं यस्मिन्कृष्णा जिता त्वया ।
एकवस्त्रा सभां नीता क्षुद्रकर्मन्रजस्वला ॥ 4-50-25 (30479)
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा।
क्षुद्रं कर्म समास्थाय तत्र किं विदुरोऽब्रवीत् ॥ 4-50-26 (30480)
यथाशक्ति मनुष्याणाममर्षं लक्षयामहे।
अन्येषामपि सत्वानामपि कीटपिपीलिकैः ॥ 4-50-27 (30481)
द्रौपद्याः संपरिक्लेशं न क्षन्तुं पाण्डवोऽर्हति।
क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ॥ 4-50-28 (30482)
त्वं पुनः पण्डितो भूत्वा ह्याचार्यं क्षेप्तुमिच्छसि।
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ॥ 4-50-29 (30483)
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः।
भयादिह न युद्ध्येरन्पाण्डुपुत्रेण धीमता ॥ 4-50-30 (30484)
यं यमेकोपि संक्रुद्धः संग्रामे निपतिष्यति ।
वृक्षं गरुडवद्वेगाद्विनिहत्यान्तमेष्यति ॥ 4-50-31 (30485)
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् ।
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ॥ 4-50-32 (30486)
देवं दैवेन युद्ध्येत मानुपेण च मानुपम् ।
अस्त्रं ह्यस्त्रेण यो हन्यात्कोऽर्जुनेन समः पुमान् ॥ 4-50-33 (30487)
पुत्रादनवमः शिष्य इति धर्मविदो विदुः।
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ॥ 4-50-34 (30488)
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः ।
यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवं ॥ 4-50-35 (30489)
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः ।
दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह ॥ 4-50-36 (30490)
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च।
ज्वलतो निशितान्बाणांस्तांस्तान्क्षिपति गाण्डिवं ॥ 4-50-37 (30491)
न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः ।
नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः ॥ 4-50-38 (30492)
अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः ।
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ॥ 4-50-39 (30493)
यथा सभायां द्यूतं त्वं मातुलेन महाकरोः ।
तथा युद्धस्व संग्रामे सौबलेन सुरक्षितः ॥ 4-50-40 (30494)
युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् ।
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवांपदम् ॥ ॥ 4-50-41 (30495)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-50-14 यदुक्तं ब्राह्मणानां भोजनादावेव कौशलं न युद्ध इति तत्र तवापि वैश्यत्वान्न युद्धे सामर्थ्यमस्तीति दर्शयिष्यन्वर्णानां कर्माणि विभजते चातुर्वर्ण्यस्येत्यादिना ॥ 14 ॥ 4-50-22 वैतंसिको व्याधः ॥ 22 ॥ 4-50-26 अनृतं द्यूतं कुर्वता धार्तराष्ट्रेण धर्मस्य मूलं कृत्तं छिन्नं । तत्र तदा विदुरः किमब्रवीत् क्षयमूलं द्यूतमिति तत्स्मरेति शेषः ॥ 26 ॥ 4-50-37 चकारात् त्रेतानि समुच्चीयते। कृतादयो द्यूतशास्त्रप्रसिद्धाः पाशकाः ॥ 37 ॥ ॥ पञ्चाशोऽध्यायः ॥ 50 ॥विराटपर्व - अध्याय 051
॥ श्रीः ॥
4.51. अध्यायः 051
Mahabharata - Virata Parva - Chapter Topics
कर्णकृतद्रोणकृपाधिक्षेपसंक्रुद्धमश्वत्थामानं प्रति भीष्मेण द्रोणादिप्रशंसनपूर्वकं परिसान्त्वनम् ॥ 1 ॥ दुर्योधनेन भीष्मकर्णाभ्यां सह कृपद्रोणक्षमापनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-51-0 (30496)
वैशम्पायन उवाच। 4-51-0x (3209)
ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ 4-51-1 (30497)
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति ।
आचार्यपुत्रः सहजं निश्चितं साधु भाषते ॥ 4-51-2 (30498)
कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति।
आचार्यो नावमन्तव्यः पुरुषेण विजानता।
देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः ॥ 4-51-3 (30499)
यस्य सूर्यसमाः प़ञ्च सपत्नाः स्युः प्रहारिणः।
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ॥ 4-51-4 (30500)
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः ।
तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः ॥ 4-51-5 (30501)
धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् ।
नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः ॥ 4-51-6 (30502)
वैशम्पायन उवाच। 4-51-7x (3210)
एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह।
प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः ॥ 4-51-7 (30503)
कर्णो हि यदवोचत्त्वां तेजस्संजननाय तत्।
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ॥ 4-51-8 (30504)
नायं कालो विरोधस्य कौन्तेये समुपस्थिते ।
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ॥ 4-51-9 (30505)
भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा ।
यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते ।
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ॥ 4-51-10 (30506)
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते।
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम।
अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः ॥ 4-51-11 (30507)
वेदान्ताश्च पुराणानि इतिहासं पुरातनम् ।
जामदग्न्यमृते राजन्को द्रोणादधिको भवेत् ॥ 4-51-12 (30508)
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ॥ 4-51-13 (30509)
आचार्यपुत्रः क्षमतां नायं कालो विभेदने ।
सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम् ॥ 4-51-14 (30510)
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः ।
मुख्यो भेदोहि तेषां तु पापिष्ठो विदुषां मतः ॥ 4-51-15 (30511)
अश्वत्थामोवाच। 4-51-16x (3211)
नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ ।
किंतु रोषपरीतेन गुरुणा भाषिता गुणाः ॥ 4-51-16 (30512)
शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ।
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् ॥ 4-51-17 (30513)
आचार्य एष क्षमतां शान्तिरत्र विधीयताम् ।
अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम् ॥ 4-51-18 (30514)
वैशम्पायन उवाच। 4-51-19x (3212)
ततो दुर्योधनो द्रोणं क्षमयामास भारत।
सह कर्णेन भीष्मेण कृपं चैव महाबलम् ॥ 4-51-19 (30515)
द्रोण उवाच। 4-51-20x (3213)
यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत्।
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ॥ 4-51-20 (30516)
यथा दुर्योधनं पार्थो नोपसर्पति संगरे।
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ॥ 4-51-21 (30517)
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः ।
धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति ॥ 4-51-22 (30518)
यथा नायं समायुञ्ज्याद्धार्तराष्ट्रं कथंचन ।
न च सेनां पराजय्यात्तथा नीतिर्विधीयताम् ॥ 4-51-23 (30519)
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् ।
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ॥ ॥ 4-51-24 (30520)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-51-21 यथा दुर्योधनो राजा न गच्छेत्कांचिदापदमिति टo थo पाठः। यथा नायशसा युक्तो धार्तराष्ट्रः कथंचनेति धo पाठः ॥ 21 ॥ ॥ एकपञ्चाशोऽध्यायः ॥ 51 ॥विराटपर्व - अध्याय 052
॥ श्रीः ॥
4.52. अध्यायः 052
Mahabharata - Virata Parva - Chapter Topics
भीष्मेण दुर्योधनंप्रति हेतूपन्यासपूर्वकं युधिष्ठिरंप्रति श्रुतवनवासादिकालस्य परिसमाप्तिकथनम् ॥ 1 ॥ भीष्मेणार्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवैः सह संधिविधानेपि दुर्योधनेन तत्प्रतिषेधनम् ॥ 2 ॥ भीष्मेण द्रोणवचनाद्गोभिः सह दुर्योधनस्य प्रस्थापनपूर्वकं सेनाया व्यूहीकरणेन समराभियानम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-52-0 (30521)
भीष्म उवाच। 4-52-0x (3214)
कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च।
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ॥ 4-52-1 (30522)
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि।
एवं कालविभागेन कालचक्रं प्रवर्तते ॥ 4-52-2 (30523)
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात्।
पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ ॥ 4-52-3 (30524)
एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः ।
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥ 4-52-4 (30525)
पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः ॥ 4-52-5 (30526)
सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम्।
एवमेतद्भ्रुवं ज्ञात्वा ततो बीभत्सुरागतः ॥ 4-52-6 (30527)
सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः।
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ॥ 4-52-7 (30528)
कामात्क्रोधाच्च लोभाच्च कामक्रोधभयादपि ।
स्नेहाद्वा यदि वा मोहाद्धर्मं नात्येति धर्मजः ॥ 4-52-8 (30529)
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्।
न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः ॥ 4-52-9 (30530)
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः ।
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ॥ 4-52-10 (30531)
यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् ।
वृणुयुर्माणं पार्था नानृतत्वं कथंचन ॥ 4-52-11 (30532)
प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः ।
अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः ॥ 4-52-12 (30533)
प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम् ॥ 4-52-13 (30534)
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम्।
तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम् ॥ 4-52-14 (30535)
न हि पश्यामि संग्रामे कदाचिदपि कौरव ।
एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनञ्जयः ॥ 4-52-15 (30536)
संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ ।
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ॥ 4-52-16 (30537)
तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् ।
क्रियतामाशु राजेन्द्र संप्राप्तश्च धनञ्जयः ॥ 4-52-17 (30538)
एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः ।
भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे ।
तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे ॥ 4-52-18 (30539)
दुर्योधन उवाच। 4-52-19x (3215)
नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह।
ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो ।
युद्धोपचारिकं यत्तु तत्सर्वं संविधीयताम् ॥ 4-52-19 (30540)
वैशम्पायन उवाच। 4-52-20x (3216)
भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च।
प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्वाह द्विजोत्तमः ॥ 4-52-20 (30541)
यत्तु युद्धोपचरितं भवेद्वा धर्मसंहितम्।
कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि ॥ 4-52-21 (30542)
अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ।
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ॥ 4-52-22 (30543)
राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु ।
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ।
वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम् ॥ 4-52-23 (30544)
अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा।
प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम् ॥ 4-52-24 (30545)
एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति ।
मत्स्यं वा पुनरायातमथवापि शतक्रतुम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥ 4-52-25 (30546)
वैशम्पायन उवाच। 4-52-26x (3217)
तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना ।
तथाहि कृतवान्राजा कौरवाणामनन्तरम् ॥ 4-52-26 (30547)
भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् ।
सेनामुख्यान्व्यवस्थाप्य व्यूहितुं संप्रचक्रमे ॥ 4-52-27 (30548)
द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान्।
आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः।
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ॥ 4-52-28 (30549)
विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः।
शकुनिः सौबलश्चैव दुःसहश्च महाबलः ।
द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः ॥ 4-52-29 (30550)
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः।
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ॥ 4-52-30 (30551)
सर्वे महारथाः शूरा महेष्वासा महाबलाः ।
युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि ॥ 4-52-31 (30552)
वैशम्पायन उवाच। 4-52-32x (3218)
अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः ।
वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् ॥ 4-52-32 (30553)
तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः ।
सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत ॥ ॥ 4-52-33 (30554)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विपञ्चाशोऽध्यायः ॥ 52 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-52-18 तस्माद्यद्धोचितं कर्मेति धo पाठः ॥ 18 ॥ 4-52-32 पद्मगर्भमिति थo पाठः ॥ 32 ॥ ॥ द्विपञ्चाशोऽध्यायः ॥ 52 ॥विराटपर्व - अध्याय 053
॥ श्रीः ॥
4.53. अध्यायः 053
Mahabharata - Virata Parva - Chapter Topics
इन्द्रेण सुदर्शननामनि कामगामिनि प्रासादे देवगणसमारोपणपूर्वकमर्जुनकुरुरणावलोकनाय गगनाङ्कणावतरणम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-53-0 (30555)
वैशम्पायन उवाच। 4-53-0x (3219)
ततः सुदर्शनं नाम प्रासादं हरिवाहनः ।
सर्वान्देवान्समारोष्य प्रययो यत्र पाण्डवः ॥ 4-53-1 (30556)
स्थूणाराजिसहस्रं तु यत्र मध्ये प्रतिष्ठितम् ।
तत्र सूर्यपथेऽतिष्ठद्विमला महती सभा ॥ 4-53-2 (30557)
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ।
तत्र श्वेतानि चक्राणि काञ्चनस्फाटिकानि च ॥ 4-53-3 (30558)
तथा चित्राणि छत्राणि दिव्यरूपाणि भारत ।
मणिरत्नविचित्राणि नानारूपाणि भागशः ।
आकाशे सह दृश्यन्ते भानुमन्ति शुभानि च ॥ 4-53-4 (30559)
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च।
तथा धातुर्विधातुश्च मित्रस्य धनदस्य च।
रुद्रस्य विष्णो सवितुस्त्रिदशानां तथैव च॥ 4-53-5 (30560)
काञ्चनानि च दामानि विविधाश्चोत्तमस्रजः।
दिव्यपुष्पाभिसवीतास्तत्र चित्राणि भेजिरे ॥ 4-53-6 (30561)
तस्मिंस्तु राजन्प्रासादे दिव्यरत्नविभूषिते ।
दिव्यगन्धसमायुक्ताः स्रजो दिव्याश्चकाशिरे ॥ 4-53-7 (30562)
दिव्यश्च वायुः प्रववौ गन्धमादाय सर्वशः ।
ऋतवः पुष्पमादाय समतिष्ठन्त भारत ॥ 4-53-8 (30563)
प्रजानां पतयः सप्त सप्त चैव महर्षभः।
तत्र देवर्षयश्चैव देवराजं दिवौकसः ।
इन्द्रेण सहिताः सर्वे त्रिदशाश्च व्यवस्थिताः ॥ 4-53-9 (30564)
न पङ्को न रजस्तत्र प्रविवेश कथंचन ।
आदित्यश्च विरूक्षोत्र नातिवेलमिवातपत् ॥ 4-53-10 (30565)
दिव्यगन्धं समादाय वायुस्तत्राभिगच्छति।
आकाशं च दिशः सर्वा दर्शनीयमदृश्यत ॥ 4-53-11 (30566)
तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् ।
अम्बरे विमलेऽतिष्ठन्प्रासादं कामगामिनम् ॥ 4-53-12 (30567)
तत्र राजर्षयश्चैव समारुह्य दिवौकसः ।
श्वेतो राजा वसुमनास्तथा भद्रः प्रदर्शनः ॥ 4-53-13 (30568)
नृगो ययातिर्नहुपो मान्धात भरतः कुरुः ।
अष्टकश्च शिबिश्चोभौ स च राजा पुरूरवाः ॥ 4-53-14 (30569)
डम्भोद्भवः कार्तवीर्यो ह्यर्जुनः सगरस्तथा।
दिलीपः केरलः पूरुः शर्यातिः सोमकस्तदा ॥ 4-53-15 (30570)
हरिश्चन्द्रश्च तेजस्वी रघुर्दशरथस्तथा।
भगीरथश्च राजर्षिः सर्वे च जनमेजय॥ 4-53-16 (30571)
पाण्डुश्चैव महाराजश्चामरव्यजनोज्ज्वलः।
छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः ॥ 4-53-17 (30572)
एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः ।
कीर्तिमन्तो महावीर्यास्तत्रैवासन्दिवि स्थिताः ॥ 4-53-18 (30573)
गणाश्चाप्सरसां सर्वे गन्धर्वाश्चापि सर्वशः ।
दैत्यराक्षसयक्षाश्च सुपर्णाः पन्नगास्तथा ॥ 4-53-19 (30574)
वासवप्रमुखाः सर्वे देवाश्च सगणेश्वराः ।
आसंस्तत्र समारूढाः संग्रामं तं दिदृक्षवः ॥ 4-53-20 (30575)
4-53-21 (30576)
इत्यम्बरे व्यवस्थाय प्रासादस्था दिवौकसः ।
एकस्य च बहूनां च युद्धं द्रुष्टुं व्यवस्थिताः ॥
विराटपर्व - अध्याय 054
॥ श्रीः ॥
4.54. अध्यायः 054
Mahabharata - Virata Parva - Chapter Topics
सेनामध्ये दुर्योधनमनवलोकयताऽर्जुनेनोत्तरंप्रति तत्पदवीमनु रथयापनचोदना ॥ 1 ॥ तथा बाणाभ्यां द्रोणाद्यभिवादनपूर्वकं ताभ्यामेव कर्णमूले कुशलप्रश्नः ॥ 2 ॥ द्रोणेन तत्कौशलश्लाघनम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-54-0 (30577)
वैशम्पायन उवाच। 4-54-0x (3220)
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।
उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् ॥ 4-54-1 (30578)
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥ 4-54-2 (30579)
त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः ।
संनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् ॥ 4-54-3 (30580)
राजानं नात्र पश्यामि रथानीके व्यवस्थितम्।
दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः ॥ 4-54-4 (30581)
उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम्।
गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् ॥ 4-54-5 (30582)
गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय ।
यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो ॥ 4-54-6 (30583)
वैशम्पायन उवाच। 4-54-7x (3221)
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः ।
सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ॥ 4-54-7 (30584)
ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम्।
द्वाभ्यांद्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात् ॥ 4-54-8 (30585)
द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत्।
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत्॥ 4-54-9 (30586)
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ।
न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् ।
अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे ॥ 4-54-10 (30587)
एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते।
मेघःक सविद्युत्स्तनितो रोरवीति च वानरः ॥ 4-54-11 (30588)
आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः ॥ 4-54-12 (30589)
अश्वानां स्तनतां शब्दो वहतां पाकशासनिम्।
रथस्याम्बुधरस्येव श्रूयते भृशदारुणः ॥ 4-54-13 (30590)
दारयन्निव तेजस्वी वसुधां वासवात्मजः ।
एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः। 4-54-14 (30591)
श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ॥
इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ । 4-54-15 (30592)
रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ॥
इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः । 4-54-16 (30593)
संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ॥
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः । 4-54-17 (30594)
अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ॥
निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम् । 4-54-18 (30595)
अभिवादयते पार्थः पूजयन्मामरिंदमः ॥
अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः। 4-54-19 (30596)
अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ॥
द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च । 4-54-20 (30597)
ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ॥
रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी। 4-54-21 (30598)
खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः ॥ ॥ 4-54-22 (30599)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥
विराटपर्व - अध्याय 055
॥ श्रीः ॥
4.55. अध्यायः 055
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन सेनामध्ये सुयोधनानवलोकनेन तस्य गवामादानेन गमनसंभावनया रथेन गवाग्रं प्रत्यभियानम् ॥ 1 ॥ भीष्मेण पार्थभावविज्ञानात्सेनया सह तमनुधावनम् ॥ 2 ॥ गवान्तिकमुपगतवताऽर्जुनेन तद्रक्षिणां बाणगणैरभिहननेन गवां विनिवर्तनम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-55-0 (30600)
वैशम्पायन उवाच। 4-55-0x (3222)
तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् ।
नारयः प्रेक्षितुं शेकुस्तपन्तं हि यथा रविम् ॥ 4-55-1 (30601)
स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत् ।
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम।
यावत्समीक्षे व्यूहेऽस्मिन्मम शत्रुं सुयोधनम् ॥ 4-55-2 (30602)
रक्तवैडूर्यविकृतं मणिप्रवरभूषितम् ।
परं जानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम् ॥ 4-55-3 (30603)
यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् ।
यमाय प्रेषयिष्यामि सहायः स्याद्यदीश्वरः ॥ 4-55-4 (30604)
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् ।
सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि ॥ 4-55-5 (30605)
हनिष्यामि तमेवाद्य शरैर्गाण्डीवनिःसृतैः ।
तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः ॥ 4-55-6 (30606)
शरैश्च शमयिष्येऽहं धार्तराष्ट्रं ससौबलम् ।
असभ्यानां च वक्तारं कुरूणां किल किल्विषम् ॥ 4-55-7 (30607)
राजानं नेह पश्यामि निरापिषमिदं बलम्।
अभिद्रेव ह राजानं व्यक्तमित्यत्र निर्भयः ॥ 4-55-8 (30608)
आस्थितो मध्यमाचार्योप्यश्वत्थामाऽप्यनन्तरम्।
कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ ॥ 4-55-9 (30609)
भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः ।
दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः ॥ 4-55-10 (30610)
साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः।
दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रितः॥ 4-55-11 (30611)
पृष्ठतः कुरुमुख्यश्च भीष्मस्तिष्ठति दंशितः।
सोऽर्धसैन्येन बलवान्सर्वेषां नः पितामहः ॥ 4-55-12 (30612)
दुर्योधनं न पश्यामि क्व नु राजा स तिष्ठति।
उत्सृंज्यैतद्रथानीकं याहि यत्र सुयोधनः ॥ 4-55-13 (30613)
तं हत्वा संनिवर्तिष्ये गाः स आदाय गच्छति।
गवाग्रमभितो याहि यत्र राजा भविष्यति ॥ 4-55-14 (30614)
वैशम्पायन उवाच। 4-55-15x (3223)
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः।
संस्पृशानो धनुर्दिव्यं त्वरमाणोऽगमत्तदा ॥ 4-55-15 (30615)
ततो भीष्मोऽब्रवीद्वाक्यं कुरुमध्ये परंतपः।
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः । 4-55-16 (30616)
अतीव ज्वलते लक्ष्म्या पाकशासनिरागतः।
एष दुर्योधनं पार्थो मार्गते निकृतिं स्मरन् ॥ 4-55-17 (30617)
सेनामत्यर्थमालोक्य त्वरते ग्रहणेऽस्य च।
मृगं सिंह इवादातुमीक्षते पाकशासनिः ॥ 4-55-18 (30618)
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमर्हति।
तस्य पार्ष्णि ग्रहीष्यामो जवेनाभिप्रधावतः ॥ 4-55-19 (30619)
न ह्येनमभिसंक्रुद्धमेको युद्ध्येत संयुगे।
अन्यो देवान्महादेवात्कृष्णाद्वा देवकीसुतात्।
आचार्याच्च सपुत्राद्वा भारद्वाजान्महारथात् ॥ 4-55-20 (30620)
किं नो गावः करिष्यन्ति द्रव्यं वा विपुलं तथा।
दुर्योधनः पार्थगतः पुरा प्राणान्विमुञ्चति ॥ 4-55-21 (30621)
वैशम्पायन उवाच। 4-55-22x (3224)
इत्युक्त्वा समरे भीष्मः सेनया सह कौरवः।
अन्वधावत्तदा पार्थं धार्तराष्ट्रस्य रक्षणे ॥ 4-55-22 (30622)
विक्रोशमात्रं यात्वा तु पार्थो वैराटिमब्रवीत्।
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम ॥ 4-55-23 (30623)
एतदग्रं गवां दृष्टं मन्दं वाहय सारथे।
याह्युत्तरेण सेनाया गाश्चैव प्रविभज्य च ॥ 4-55-24 (30624)
परिक्षिप्य गवां यूथमत्र योत्स्ये सुयोधनम् ।
गच्छन्ति सत्वरा गावः सगोपाः परिमोचय ॥ 4-55-25 (30625)
तत्र गत्वा पशून्वीर सगोपान्परिमोचय।
अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर ॥ 4-55-26 (30626)
इमे त्वतिरथाः सर्वे मम वीर्यपराक्रमम्।
पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः ॥ 4-55-27 (30627)
वैशम्पायन उवाच। 4-55-28x (3225)
ततः स रथिनां श्रेष्ठो नाम विश्राव्य चात्मनः।
निशिताग्राञ्शरांस्तीक्ष्णान्मुमोचांतकसन्निभान् ॥ 4-55-28 (30628)
शलभैरिव चाकाशं धाराभिरिव पर्वतम्।
निरावकाशमभवच्छरैः क्षिप्तैः किरीटिना ॥ 4-55-29 (30629)
विकीर्यमाणास्तु शरैस्ते योधा धार्तराष्ट्रिकाः।
गाश्चैव न च पश्यन्ति पार्थमुक्तैरजिह्मगैः ॥ 4-55-30 (30630)
सा चापि बहुला सेना पार्थबाणाभिपीडिता।
नापश्यद्विवृतां भूमिं नान्तरिक्षं दिशोपि वा ॥ 4-55-31 (30631)
अर्जुनस्तु तदा हृष्टो दर्शयन्वीर्यमात्मनः।
पीडयामास सैन्यानि गाण्डीवप्रसृतैः शरैः ॥ 4-55-32 (30632)
तेषां नैवापयाने च नाभियाने भवन्मतिः ।
शीघ्रतामेव पार्थस्य पूजयन्तस्तु विस्मिताः ॥ 4-55-33 (30633)
चन्द्रावदातं सामुद्रं कुरुसैन्यभयंकरम्।
ततः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम्।
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् ॥ 4-55-34 (30634)
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च।
शब्देनामानुषाणां च भूतानां ध्वजवासिनाम् ।
वियद्गतानां देवानां मानुषाणां रवेण च॥ 4-55-35 (30635)
ऊर्ध्वं पुच्छं विधून्वाना हेममाणाः समन्ततः ।
गावः सवत्साः संत्रस्ता निवृत्ता दक्षिणां दिशं ॥ 4-55-36 (30636)
ततः स समरे शूरो बीभत्सुः शत्रुपूगहा।
गोपालांश्चोदयामास गावश्चोदयतेति च ॥ 4-55-37 (30637)
उत्तरं चाह बीभत्सुर्हर्षयन्पाण्डुनन्दनः ।
गवामग्रं समीक्षस्व गश्चैवाशु निवर्तय ॥ 4-55-38 (30638)
यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
याह्युत्तरेण गाश्चैताः सैन्यानां च नृपात्मज ॥ 4-55-39 (30639)
पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम् ॥ 4-55-40 (30640)
वैशम्पायन उवाच।
ते लाभमिव मन्वानाः कुरवोऽर्जुनमाहव। 4-55-41x (3226)
दृष्टवा यान्तमदूरस्थं क्षिप्रमभ्यपतन्रथैः ॥
हस्त्यश्वपरिवारेण महताऽभिविराजता। 4-55-41 (30641)
योधैः प्रासासिहस्तैश्च चापबाणोद्यतायुधैः ॥
तान्यनीकान्यशोभन्त कुरूणामाततायिनाम्। 4-55-42 (30642)
संसर्पन्त इवाकाशे विद्युत्वन्तो वलाहकाः ॥
तानि दृष्ट्वाऽप्यनीकानि निवर्तितरथानि च। 4-55-43 (30643)
पार्थोऽपि वायुवद्धोरं सैन्याग्रं व्यधुनोच्छरैः ॥
तां शत्रुसेनां तरसा प्रणुद्य गाश्चापि जित्वा धनुषा परेण। 4-55-44 (30644)
दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाऽभ्यगच्छन् ॥
गोषु प्रयातासु जवेन मात्स्यान्किरीटिनं प्रीतियुतं च दृष्ट्वा। 4-55-45 (30645)
पशून्समादाय ततो निवृत्ता गोपाः समस्ताः प्रययुश्च राष्ट्रम् ॥ ॥ 4-55-46 (30646)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चपञ्चासोऽध्यायः ॥ 55 ॥
विराटपर्व - अध्याय 056
॥ श्रीः ॥
4.56. अध्यायः 056
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेनोत्तरंप्रति द्रोणकर्णादिरथानामसाधारणध्वजचिह्नप्रदर्शनपूर्वकं तत्तन्नामनिर्देशेन तत्तत्पराक्रमवर्णनम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-56-0 (30647)
वैशम्पायन उवाच। 4-56-0x (3227)
ततस्त्रीणि सहस्राणि रथानां च धनुष्मताम्।
घोराणि कुरुवीराणां पर्यकीर्यन्त भारत ॥ 4-56-1 (30648)
कर्णो रथसहस्रेण प्रत्यगृह्णाद्धनञ्जयम्।
भीष्मः शान्तनवो धीमान्सहस्रेण पुरस्कृतः ॥ 4-56-2 (30649)
तथा रथसहस्रेण भ्रातृभिः परिवारितः।
पश्चाद्दुर्योधनोऽतिष्ठद्यशसा च श्रिया ज्वलन् ॥ 4-56-3 (30650)
अतिष्ठन्निवकाशेषु पादाताः सह वाजिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ॥ 4-56-4 (30651)
तानि दृष्ट्वा ह्यनीकानि विततानि महात्मनाम् ।
वैराटिमुत्तरं तं तु प्रत्यभाषत पाण्डवः ॥ 4-56-5 (30652)
जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते।
शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते ॥ 4-56-6 (30653)
आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः।
आहवे चाप्रतिद्वन्द्वो दूरपाती महारथः ॥ 4-56-7 (30654)
सुप्रसन्नो महावीरः कुरुष्वैनं प्रदक्षिणम्।
अत्रैव चाविरोधेन एष धर्मः सनातनः ॥ 4-56-8 (30655)
यदि मे प्रहरेद्द्रोणः शरीरे मे प्रहृष्यतः ।
ततोऽस्मिन्प्रहरिष्यामि नान्यथा बुद्धिरस्ति मे ॥ 4-56-9 (30656)
भारताचार्यमुख्येन ब्राह्मणेन महात्मना ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ 4-56-10 (30657)
ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु शोभते ।
भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते ॥ 4-56-11 (30658)
ध्वजाग्रं दृश्यते यत्र बालसूर्यसमप्रभम् ।
दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ 4-56-12 (30659)
ध्वजाग्रे गोवृषो यस्य काञ्चनोऽभिविराजते ।
आचार्यवरमुख्यस्तु कृप एष महारथः ॥ 4-56-13 (30660)
द्रोणेन च समो वीर्ये पितुर्मे परमः सखा।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ 4-56-14 (30661)
यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः।
ध्वजः प्रकाशते दूराद्रथे विद्युद्गणोपमः ॥ 4-56-15 (30662)
एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम्।
दृढवैरी सदाऽस्माकं नित्यं कटुकभाषणः ॥ 4-56-16 (30663)
यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः ।
अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति ॥ 4-56-17 (30664)
एष वै स्पर्धते नित्यं मया सह सुदुर्जयः ।
जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः ॥ 4-56-18 (30665)
सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतांवरः ।
युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी ॥ 4-56-19 (30666)
अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना।
द्रष्टा त्वमावयोर्युद्धं बलिवासवयोरिव ॥ 4-56-20 (30667)
महारथेन शूरेण सूतपुत्रेण धन्विना।
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ॥ 4-56-21 (30668)
यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः ।
एष दुर्योधनस्तत्र कौरवो यशसा वृतः ॥ 4-56-22 (30669)
लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् ।
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ॥ 4-56-23 (30670)
यस्तु श्वेतावदातेन पञ्चतालेन केतुना ।
वैडूर्यमयदण्डेन तालवृक्षेण राजते ॥ 4-56-24 (30671)
हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् ।
रामेण जामदग्न्येन द्वैरथेनाजितः पुरा ॥ 4-56-25 (30672)
शीघ्रश्च लगुवेधी च लघुहस्तः प्रतापवान् ।
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः ॥ 4-56-26 (30673)
ककुदः सर्वसैन्यानां सर्वशस्त्रभृतांवरः ।
जयश्रियाऽवबद्धस्तु सुयोधनवशानुगः ।
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ॥ 4-56-27 (30674)
इत्येतांस्त्वरितः पार्थः कथयित्वा तु चोत्तरे।
रूपतश्चिह्नतश्चैव युद्धाय त्वरते पुनः ॥ ॥ 4-56-28 (30675)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्पञ्चाशोऽध्यायः ॥ 56 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-56-9 शरीरे प्रहरिष्यतः इति नान्यया युद्धमस्ति मे इति चo धo पाठः ॥ 9 ॥विराटपर्व - अध्याय 057
॥ श्रीः ॥
4.57. अध्यायः 057
Mahabharata - Virata Parva - Chapter Topics
अर्जुनस्य भीष्मद्रोणादिभिः सह युद्धम् ॥ 1 ॥ अर्जुनेन कर्णस्य पराभवः ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-57-0 (30676)
वैशम्पायन उवाच। 4-57-0x (3228)
अश्वत्थामा ततस्तत्र कर्णं संप्रेक्ष्य वीर्यवान्।
उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम् ॥ 4-57-1 (30677)
कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥ 4-57-2 (30678)
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः ।
संग्रामशिरसो मध्ये दृम्भते केसरी यथा ॥ 4-57-3 (30679)
शूरोसि यदि संग्रामे दर्शयस्व सभां विना ॥ 4-57-4 (30680)
यद्यशक्तोसि संग्रामे पार्थेनाद्भुतकर्मणा।
पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता।
मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम् ॥ 4-57-5 (30681)
वैशम्पायन उवाच। 4-57-6x (3229)
एवमुक्तस्तथा कर्णः क्रोधादुद्वृत्य लोचने।
द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ ॥ 4-57-6 (30682)
नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ॥ 4-57-7 (30683)
सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् ।
गर्जतां जायते दर्पः स्वरश्च न विषीदति ॥ 4-57-8 (30684)
पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा ।
युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः ॥ 4-57-9 (30685)
वैशम्पायन उवाच। 4-57-10x (3230)
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः ॥ 4-57-10 (30686)
महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः।
उवाच स महाराज राजा दुर्योधनस्तदा ॥ 4-57-11 (30687)
न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि ।
तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु ॥ 4-57-12 (30688)
एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु ।
अयशो नातिवर्तेत लोकयोरुभयोरपि ॥ 4-57-13 (30689)
किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम्।
तस्मात्पार्थेन संग्रामं कुर्महे न पलायनम् ॥ 4-57-14 (30690)
एतावदुक्त्वा राजा वै ह्यभियानमियेष सः।
तथा दशसहस्राणि वीराणां हि धनुष्मताम् ।
अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम् ॥ 4-57-15 (30691)
वर्मिता वाजिनस्तत्र संभृताश्च पदातिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः । 4-57-16 (30692)
अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः।
अभ्यद्रवन्सुसंक्रुद्धाश्चापहस्तोद्यतायुधाः ॥ 4-57-17 (30693)
पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन्।
द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान् ॥ 4-57-18 (30694)
अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः।
इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः ॥ 4-57-19 (30695)
ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनंजयम्।
शरौघानभिवर्षन्तो नादयन्तो दिशो दश ॥ 4-57-20 (30696)
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान् ॥ 4-57-21 (30697)
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्।
तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः ॥ 4-57-22 (30698)
न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम्।
अतिविद्धैः शितैर्बाणैरासीदद्व्यङ्गुलिरन्तरम् ॥ 4-57-23 (30699)
दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च।
शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात्।
ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया ॥ 4-57-24 (30700)
इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके।
दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ।
न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा ॥ 4-57-25 (30701)
समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान्।
वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् ।
त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि। 4-57-26 (30702)
कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः ।
नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् ॥ 4-57-27 (30703)
तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः।
तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः ॥ 4-57-28 (30704)
अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः ।
पार्थः संरञ्जयामास रुधिरेणाकुलं बलम् ॥ 4-57-29 (30705)
सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च।
छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः ॥ 4-57-30 (30706)
ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश।
रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः ॥ 4-57-31 (30707)
निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः।
शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः ॥ 4-57-32 (30708)
चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान्।
मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः ॥ 4-57-33 (30709)
कौरवाणां गजानां च शरीरैर्गतचेतसाम् ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम् ॥ 4-57-34 (30710)
अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव ।
बडबामुखसंभूतः कालाग्निरिव संवृतः ॥ 4-57-35 (30711)
यथा युगान्तसमये सर्वं स्थावरजङ्गमम् ।
कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी ॥ 4-57-36 (30712)
तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च।
दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले ॥ 4-57-37 (30713)
रणे शक्तिममित्राणां प्रणीयोपनिनाय सः।
चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव ॥ 4-57-38 (30714)
सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे ।
शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् ।
दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम् ॥ 4-57-39 (30715)
खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव।
अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः ॥ 4-57-40 (30716)
अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना ।
तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु ॥ 4-57-41 (30717)
वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् ।
किरीटं सूर्यसंकाशं वैयाघ्रमथ चर्म च ॥ 4-57-42 (30718)
ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः ।
नीहारेणेव भूतानि छन्नानीह चकाशिरे॥ 4-57-43 (30719)
सकृदेव न तं शेकुः कथमभ्यसितुं परे ।
अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान् ॥ 4-57-44 (30720)
तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे ।
द्विधाऽनीकेषु बीभत्सोर्न ससञ्ज रथस्तथा ॥ 4-57-45 (30721)
स तद्धि क्षोभयामास विगाह्यारिबलं रथी।
अनन्तवेगो भुजगः क्रीडन्निव महार्णवे ॥ 4-57-46 (30722)
अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा ।
संनादः श्रूयते भूतैर्धनुषश्च किरीटिनः ॥ 4-57-47 (30723)
संच्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः।
संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः ॥ 4-57-48 (30724)
दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः।
सततं दृश्यते युद्धे सायकासनमण्डलम् ॥ 4-57-49 (30725)
पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन।
नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः ॥ 4-57-50 (30726)
महागजसहस्रस्य युगपन्मृद्गतो वनम्।
कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत् ॥ 4-57-51 (30727)
नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह।
हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे ॥ 4-57-52 (30728)
घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे।
कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः ॥ 4-57-53 (30729)
कुरुसेनाशरीराणि पार्थेनानाहतान्यपि ।
पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् ॥ 4-57-54 (30730)
ओषधीनां शिरांसीव कालपक्तिसमन्वयात्।
अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात् ॥ 4-57-55 (30731)
चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि ॥ 4-57-56 (30732)
अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित्।
चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम् ॥ 4-57-57 (30733)
लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः ।
तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः ॥ 4-57-58 (30734)
लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः।
लोहितेषु निमग्नास्ते निहताश्च किरीटिना ॥ 4-57-59 (30735)
बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः।
आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितं ॥ 4-57-60 (30736)
अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः।
निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः ॥ 4-57-61 (30737)
तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान्।
दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान् ॥ 4-57-62 (30738)
स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत्।
अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः ॥ 4-57-63 (30739)
दुःसहं दशभिर्बाणैरर्जुनः समविध्यत ।
दुश्यासनं द्वादशभिः कृपं शारद्वतं त्रिभिः।
भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे ॥ 4-57-64 (30740)
स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च।
वासविर्द्विषतां मध्ये विव्याध परमेषुणा ॥ 4-57-65 (30741)
स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः।
अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना ॥ 4-57-66 (30742)
ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः ।
सारथेश्च शिरः कायादपाहरदरिन्दमः ।
अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् ॥ 4-57-67 (30743)
तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे।
हताश्वसूते विरथे ततोऽनीकमभज्यत ॥ ॥ 4-57-68 (30744)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥
विराटपर्व - अध्याय 058
॥ श्रीः ॥
4.58. अध्यायः 058
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन रणे विकर्णादिपराभवनपूर्वकं कर्णानुजहननम् ॥ 1 ॥ अर्जुनपराजितेन कर्णेन रणाङ्कणादपयानम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-58-0 (30745)
वैशम्पायन उवाच। 4-58-0x (3231)
तत्प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा।
भीष्ममासाद्य संतस्थौ वेलामिव महोदधिः ॥ 4-58-1 (30746)
तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः ।
ततो व्यूह्य महाबाहुः समरेष्वपराजितः ॥ 4-58-2 (30747)
रथनागाश्वकलिकं युयुजे युद्धकोविदः ।
अभेद्यं पंरसैन्यानां शूरैरपि समीक्षितम् ॥ 4-58-3 (30748)
आचार्यदुर्योधनसूतपुत्रैः कृपेण भीष्मेण च पालितानि।
अवध्यकल्पानि दुरासदानि रथाश्वमातङ्गसमाकुलानि च ॥ 4-58-4 (30749)
तेषामनीकानि किरीटमाली व्यूढानि दृष्ट्वा विपुलध्वजानि।
गाण्डीवधन्वा द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच ॥ 4-58-5 (30750)
सुसंगृहीतैरथ रश्मिभिस्त्वं हयान्नियम्य प्रसमीक्ष्य यत्तः।
संप्रेषयाशु प्रतिवीरमेनं वैकर्तनं योधयितुं वृणोमि ॥ 4-58-6 (30751)
यां हस्तिकक्ष्यां बहुधा विचित्रां स्तम्भे रथे पश्यसि दर्शनीयाम् ।
विवर्तमानां ज्वलनप्रकाशां वैकर्तनस्यैतदनीकमग्र्यम् ॥ 4-58-7 (30752)
एतेन शीघ्रं प्रतिपादयेमान् श्वेतान्हयान्काञ्चनजालकक्ष्यान् ।
सर्वं जवं तत्र विदर्शयिष्ये ह्यासादयैतद्रथवीरवृन्दम् ॥ 4-58-8 (30753)
गजो गजनेव हि योद्धुकामो मया सदा काङ्क्षति सूतपुत्रः ।
तमेव मां प्रापय सूतपुत्रं दुर्योधनोपाश्रयजातदर्पम् ।
तं पातयिष्यामि रथस्य मध्ये सहस्रनेत्रोऽशनिनेव वृत्रम् ॥ 4-58-9 (30754)
वैशम्पायन उवाच। 4-58-10x (3232)
स तैर्हयैर्जातजवैर्बृहद्भिः पुत्रो विराटस्य हिरण्यकक्ष्यै ।
विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये ॥ 4-58-10 (30755)
तमापतन्तं परमेण तेजसा समीक्ष्य वैकर्तनमभ्यरक्षन्।
अभ्यद्रवंस्ते रथवीरवृन्दा व्याघ्रेण चाक्रान्तमिवर्षभं रणे ॥ 4-58-11 (30756)
चित्राङ्गदश्चित्ररथश्च वीरः संग्रामजिद्दुःसहचित्रसेनौ ।
विविंशतिर्दुर्मुखदुर्जयौ च विकर्णदुःशासनसौबलाश्च।
शोणो निषेधश्च तमन्वयुस्ते वैकर्तनं शीघ्रतरं युवानः ॥ 4-58-12 (30757)
पुत्रा ययुस्ते सहसोदराश्च वैकर्तनं पार्थगतं समीक्ष्य ।
प्रगृह्य चापानि महाबला रणे धनंजयं पर्यकिरञ्शरार्चिभिः ॥ 4-58-13 (30758)
तेषां धनुर्ज्याकृतनैकतन्त्रीं प्रासोपवीणां शरसङ्घकोणाम्।
कराग्रयन्त्रां स्थिरचापदण्डां वीणामुपावादयदाशु पार्थः ॥ 4-58-14 (30759)
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन ।
विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद ॥ 4-58-15 (30760)
ततो विकर्णस्य धनुर्विकृत्य जाम्बुनदेनोपहितं दृढज्यम्।
न्यपातयत्तद्ध्वजमस्य विद्ध्वा छिन्नध्वजः सोऽप्यपयाञ्जवेन ॥ 4-58-16 (30761)
तं शात्रवाणां गणवाधितारं कर्माणि कुर्वाणममानुपाणि।
शत्रुंतपो वैरममृष्यमाणः समार्पयत्कूर्मनखेन पार्थम् ॥ 4-58-17 (30762)
स तेन राज्ञाऽतिरथेन विद्धो विगाहमानो ध्वजिनीं पेरपाम् ।
शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान ॥ 4-58-18 (30763)
ततः स विद्धो भरतर्षभेण बाणेन कायावरणातिगेन ।
गतासुराजौ निपपात राजन्नगो नगाग्रादिव वातरुग्णः ॥ 4-58-19 (30764)
रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः ।
चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि ॥ 4-58-20 (30765)
हताश्च पार्थेन नरप्रवीरा भूमौ युवानः सुष्रुषुः सुवेषाः ।
वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये।
सुवर्णकार्ष्णायसवर्भनद्धा नागा यथा हैमवते प्रवृद्धाः ॥ 4-58-21 (30766)
तथा स शत्रून्समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः।
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥ 4-58-22 (30767)
सुजीर्णपर्णानि यथा वसन्ते विशातयित्वा तु रजो नुदन्खे।
तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ॥ 4-58-23 (30768)
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्वः ।
एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली ॥ 4-58-24 (30769)
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमदप्रतापी ।
प्रगृह्य दन्ताविव नागराजो महाबलः सिंहमिवाजगाम ॥ 4-58-25 (30770)
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः पार्थमुपाजघान् ।
विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्विजघ्ने ॥ 4-58-26 (30771)
तमापतन्तं समरे किरीटी वैकर्तनं सर्वसमृद्धतेजाः।
प्रच्छादयामास महाधनुष्मान्न्यषेधयच्छत्रुगणांश्च वीरः ॥ 4-58-27 (30772)
निहत्य कर्णस्य ततः किरीटी पुरश्चरांश्चापि च पृष्ठगोपान् ।
समीपमभ्यागमदप्रमेयो वितत्य पक्षौ गरुडो यथोरगम् ॥ 4-58-28 (30773)
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ ।
कर्णं च पार्थं च निशम्य युद्धे दिदृक्षमाणाः कुरवोऽवतस्थुः ॥ 4-58-29 (30774)
तं पाण्डवः स्पष्टमुदीर्णकोपं कृतागसं कर्णमुदीक्ष्य कोपात्।
क्षणेन साश्वं सरथं ससूतमन्तर्दधे मेघ इवातिवृष्ट्या ॥ 4-58-30 (30775)
ततः सयुग्याः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम्।
अन्तर्हितं भीष्ममुखाः समीक्ष्य किरीटिना कर्णरथं पृषत्कैः ॥ 4-58-31 (30776)
स चापि तानर्जुनबाहुमुक्ताञ्शराञ्शरौघैः प्रतिहत्य तूर्णम् ।
बभौ महात्मा सधनुः सबाणः सविष्फुलिङ्गोऽग्निरिवाथ कर्णः ॥ 4-58-32 (30777)
ततस्तु जज्ञे करतालघोषः सशङ्खभेरीपणवाकुलस्तु।
प्रक्ष्वेलितास्फोटितसिंहनादैर्वैकर्तनं पूजयतां कुरूणाम् ॥ 4-58-33 (30778)
आधूतलाङ्गूलमहापताकं रथोत्तमं श्रेष्ठतमं कुरूणाम्।
ततः सगाण्डीवकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः ॥ 4-58-34 (30779)
पार्थोपि वैकर्तनमर्दयित्वा साश्वं सकेतुं सरथं ससूतम्।
ननाद हर्षात्सहसा किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा ॥ 4-58-35 (30780)
सिषेच पार्थं बहुभिः शरौघैर्वैकर्तनः संयति तीक्ष्णवेगैः ।
वैकर्तनश्चापि किरीटमाली प्रच्छादयामास शितैः शरौघैः ॥ 4-58-36 (30781)
तयोरमोघन्सृजतोः शरौघानस्त्रज्ञयोरास महान्विमर्दः।
राहुप्रमुक्ताविव चन्द्रसूर्यौ क्षणान्तरेणानुददर्श लोकः ॥ 4-58-37 (30782)
हतास्तु पार्थेन रथप्रवीरा भूमौ युवानः सुपुपुः सुकेशाः ।
सुवर्णलोहायसवर्मगात्रा वृक्षा यथा हैमवते निकृत्ताः ॥ 4-58-38 (30783)
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा व्यधमत्सपत्नान्।
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥ 4-58-39 (30784)
सुशीर्णपर्णानि यथा वसन्ते विधूनयन्वायुरिवाल्पसारान् ।
तथा सपत्नान्विधमन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ॥ 4-58-40 (30785)
शत्रूनिवेन्द्रः समरे किरीटी विद्रावयंस्तद्रथवीरबृन्दम्।
प्राच्छादयच्चरुकिरीटमाली वरेषुभिः शत्रुगणाननेकान् ॥ 4-58-41 (30786)
कर्णं तदोवाच किरीटमाली शूरः कुरूणां प्रवरोऽभिगर्जन् ॥ 4-58-42 (30787)
कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे।
न मे युधि समोस्तीति तदिदं प्रत्युपस्थितम् ॥ 4-58-43 (30788)
सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम्।
कर्तुमिच्छसि यत्कर्म तन्मन्ये दुष्करं त्वया। 4-58-44 (30789)
यत्त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि।
तत्सत्यं कुरु राधेय कुरुमध्ये मया सह ॥ 4-58-45 (30790)
सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया ।
दृष्टवानस्मि तस्याद्य फलमश्रुहि केवलम् ॥ 4-58-46 (30791)
धर्मपाशनिबद्धेन यन्मया मर्षितं तव।
तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते ॥ 4-58-47 (30792)
एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम्।
प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः ॥ 4-58-48 (30793)
इदानीमेव तावत्त्वमपयातो रणान्मम।
कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव ॥ 4-58-49 (30794)
यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम् ।
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥ 4-58-50 (30795)
कर्ण उवाच। 4-58-51x (3233)
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर।
विशेषितो हि त्वं वाचा कर्मणाप्रतिमं भुवि ॥ 4-58-51 (30796)
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् ।
इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम् ॥ 4-58-52 (30797)
धर्मपाशनिबद्धेन यत्त्वया मर्षितं पुरा।
तथैव बद्धमात्मानमबद्ध इति मन्यसे ॥ 4-58-53 (30798)
न हि तावद्वने वासो यथोक्तं चरितस्त्वया ।
क्लिष्टस्त्वमर्थलोभात्तु समयं छेत्तुमिच्छसि ॥ 4-58-54 (30799)
यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात्।
तथाऽपिन व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥ 4-58-55 (30800)
अयं कौन्तेयकामस्ते नचिरात्समुपस्थितः।
योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम् ॥ 4-58-56 (30801)
वैशम्पायन उवाच। 4-58-57x (3234)
इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम्।
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥ 4-58-57 (30802)
प्रतिजग्राह तान्पार्थः प्रीयमाणो महारथः ॥ 4-58-58 (30803)
शरवर्षेण महता पर्जन्य इव वृष्टिमान्।
अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन्धनुः ॥ 4-58-59 (30804)
जिघांसुः समरे कर्णं विससर्ज शरान्बहून्।
तान्कर्णः प्रतिजग्राह वायुवेगमिवाचलः ॥ 4-58-60 (30805)
तयोर्दैवासुरसमः सन्निपातोऽभवन्महान्।
किरतोः शरजालानि कृत्स्नं व्योम निरन्तरं ॥ 4-58-61 (30806)
उत्पेतुर्मेघजालानि घोररूपाणि सर्वशः ।
ववर्ष च रजो भौमं कर्णपार्थसमागमे ॥ 4-58-62 (30807)
न स्म सूर्यः प्रतपति न च वाति समीरणः।
शरप्रच्छादितं व्योम छायाभूतमिवाभवत् ॥ 4-58-63 (30808)
गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस्तथा।
दह्यतामिव वेणूनामासीत्परमदारुणः ॥ 4-58-64 (30809)
अर्जुनस्तु हयान्नागान्रथांश्च विनिपातयन्।
क्षोभयामास तत्सैन्यं कर्णं विव्याध चासकृत् ॥ 4-58-65 (30810)
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्।
छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान्
तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः ॥ 4-58-66 (30811)
ततो निपेतुर्बहुशो राधेयस्य पदानुगाः ।
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥ 4-58-67 (30812)
अशेरतावृत्य महीं समग्रां पार्थेषुमार्गे निहता द्विपेन्द्राः ।
हिरण्यकक्ष्यां शरजालचित्रा यथा नगाः पावकजालनद्धाः ॥ 4-58-68 (30813)
तं शत्रुसेनाङ्गनिबर्हणानि कर्माणि कुर्वाणममानुषाणि ।
वैकर्तनः पूर्वममृष्यमाणः समार्पयल्लक्ष्यमिवाशु पार्थम् ॥ 4-58-69 (30814)
ततश्चतुर्भिस्तुरगान्विकृष्य विव्याध कर्णोऽथ धनंजयस्य।
षङ्भिश्च सूतं दशभिर्हयांश्च षष्ट्या च पार्थं त्रिभिरस्य केतुम् ॥ 4-58-70 (30815)
सविष्फुलिङ्गोज्ज्वलभीमघोषः कोपेन्धनः केतुशिखः शरार्चिः ।
कर्णाग्निरस्त्रानिलभीमवातो बभौ दिधक्षन्निव पार्थकक्षम् ॥ 4-58-71 (30816)
स्वनेमिशङ्खस्वनभीमघोषश्चलत्पताकोज्ज्वलभीमविद्युत्।
पार्थाम्बुदः शस्त्रशराम्बुधारः कर्णानलं संशमयांचकार ॥ 4-58-72 (30817)
तेनातिविद्धः समरे किरीटी प्रबोधितः सिंह इव प्रसुप्तः।
गाण्डीवधन्वा प्रवरः कुरूणां प्रतत्वरे कर्णवधाय जिष्णुः ॥ 4-58-73 (30818)
स ब्राह्ममस्त्रं समरे किरीटी प्रादुश्चकाराद्भुतवीर्यकर्मा ।
सन्तापयन्कर्णरथं शरौघैर्लोकानिमान्त्सूर्य इवांशुमाली ॥ 4-58-74 (30819)
स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात्।
आकर्णपूर्णे तु धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम् ॥ 4-58-75 (30820)
अथास्य बाहू सशिरो ललाटं ग्रीवामुरः स्कन्धभुजान्तरं च।
कर्णस्य पार्थो युधि निर्बिभेद वज्रैरिवाद्रिं भगवान्महेन्द्रः ॥ 4-58-76 (30821)
स पार्थमुक्तानविषह्य बाणान् गजो गजेनेव जितस्तरस्वी।
विहाय संग्रामशिरोपयातो वैकर्तनः पार्थशराभितप्तः ॥ 77 ॥ ॥ 4-58-77 (30822)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-58-23 वायुर्यथा खे आकाशे रजो नुदन् चरति तथेत्यध्याहारेण योजना ॥ 23 ॥ 4-58-30 कर्णमुदीक्ष्य हर्षादिति धo पाठः ॥ 30 ॥विराटपर्व - अध्याय 059
॥ श्रीः ॥
4.59. अध्यायः 059
Mahabharata - Virata Parva - Chapter Topics
द्रोणार्जुनयोर्युद्धवर्णनम् ॥ 1 ॥ अर्जुनबाणाहतिविषपणे द्रोणे अश्वत्थाम्ना तद्रक्षणायार्जुनप्रत्यभियानम् ॥ 2 ॥ अत्रान्तरेऽर्जुनदत्तावकाशेन द्रोणेन रणादपयानम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-59-0 (30823)
वैशम्पायन उवाच। 4-59-0x (3235)
जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिमब्रवीत्।
स्थिरो भव त्वं संग्रामे जयोऽस्माकं नृपात्मजः ॥ 4-59-1 (30824)
यावच्छङ्खमुपाध्यास्ये द्विषतां रोमहर्षणम्।
अविक्लबमसंभ्रान्तमव्यक्तहृदयेक्षणम्। 4-59-2 (30825)
याहि शीघ्रं यतो द्रोणो ममाचार्यो रणे स्थितः ॥
तथा संक्रीडमानस्य अर्जुनस्य रणाजिरे। 4-59-3 (30826)
बलं सत्वं च तेजश्च लाघवं च व्यवर्धत ॥
तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत् ॥ 4-59-4 (30827)
उत्तर उवाच। 4-59-5x (3236)
अस्त्राणां तव दिव्यानां शरौघान्क्षिपतः शितान्।
मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम् ॥ 4-59-5 (30828)
द्वैधीभूतं मनो मह्यं भयाद्भरतसत्तम ।
अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम् ॥ 4-59-6 (30829)
तव बाहुबलं चैव धनुः कर्षयतो बहु।
तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे ॥ 4-59-7 (30830)
वैशम्पायन उवाच। 4-59-8x (3237)
तमुत्तरश्चित्रमवेक्ष्य गाण्डिवं शरांश्च मुक्तान्सहसा किरीटिना ।
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ॥ 4-59-8 (30831)
तमब्रवीत्किंचिदिव प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता ।
मया सहायेन कुतोऽस्ति ते भयं प्रेह्युत्तराश्वाननुमन्त्र्य वाहय ॥ 4-59-9 (30832)
वैशम्पायन उवाच। 4-59-10x (3238)
आश्वासितस्तेन धनंजयेन वैराटिरश्वान्प्रतुतोदय शीघ्रम्।
धनंजयश्चापि विकृष्य चापं विष्फारयामास महेन्द्रकल्पः ॥ 4-59-10 (30833)
उत्तरं चैव बीभत्सुरब्रवीत्पुनरर्जुनः ।
न भेतव्यं मया सार्धं तात संग्राममूर्धनि ॥ 4-59-11 (30834)
राजपुत्रोऽसि ते भद्रं कुले महति मात्स्यके।
जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि ॥ 4-59-12 (30835)
धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम।
युध्यमानस्य संग्रामे राजभिः सह वाहय ॥ 4-59-13 (30836)
उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत्।
पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु ॥ 4-59-14 (30837)
यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा ।
उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता ॥ 4-59-15 (30838)
तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम्।
भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना ॥ 4-59-16 (30839)
अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः ।
मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः ॥ 4-59-17 (30840)
यतो रथवरे शूरः सर्वशस्त्रभृतांवरः।
स्निग्धवैडूर्यसंकाशस्ताम्राक्षः प्रियदर्शनः ॥ 4-59-18 (30841)
आदित्य इव तेजस्वी बलवीर्यसमन्वितः।
सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः।
अङ्गिरोशनसोस्तुल्यो नये बुद्धिमतांवरः ॥ 4-59-19 (30842)
चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः ।
धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम् ॥ 4-59-20 (30843)
पुराणमितिहासश्च अर्थविद्या च मानवम् ।
भारद्वाजे समस्तानि सर्वाण्येतानि सांप्रतम् ॥ 4-59-21 (30844)
क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम् ।
प्रतिष्ठिता गुणा यस्मिन्बहवो द्विजसत्तमे ॥ 4-59-22 (30845)
यस्याहमिष्टः सततं मम चेष्टः सदा च सः।
क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि सांप्रतम् ॥ 4-59-23 (30846)
आचार्यं प्रापयेदानीं ममोत्तर महारथम्।
अपरं पश्य संग्राममद्भुतं मम तस्य च॥ 4-59-24 (30847)
उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति ।
आजगामार्जुनरथो भारद्वाजरथं प्रति ॥ 4-59-25 (30848)
तमापतन्तं वेगेन पाण्डवं सरथं रणे।
द्रोणोप्यभ्यद्रवत्पार्थं मतो मत्तमिव द्विपम् ॥ 4-59-26 (30849)
स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम्।
आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत् ॥ 4-59-27 (30850)
उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः ।
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥ 4-59-28 (30851)
अहं तु ताडितः पूर्वं प्रहरेयं तवानघ ।
इति मे वर्तते बुद्धिस्तद्भवान्क्षन्तुमर्हति ॥ 4-59-29 (30852)
ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम् ।
व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम् ॥ 4-59-30 (30853)
वैशम्पायन उवाच। 4-59-31x (3239)
ततस्तु प्राहिणोद्द्रोणः शरानथ स विंशतिम्।
अप्राप्तानेव तान्पार्थश्चिच्छेद कृतहस्तवान् ॥ 4-59-31 (30854)
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् ।
अवाकिरत्ततो द्रोणः शीघ्रहस्तं प्रदर्शयन् ॥ 4-59-32 (30855)
एवं प्रववृते युद्धं भारज्वाजकिरीटिनोः ॥ 4-59-33 (30856)
अश्वाञ्शोणान्महावेगान्हंसवर्णैस्तु वाजिभिः ।
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः ॥ 4-59-34 (30857)
रथं रथेन पार्थस्य समाहत्य परंतपः ।
हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात्स पाण्डवम् ॥ 4-59-35 (30858)
समाश्लिष्टाविवान्योन्यं द्रोणपाण्डवयोर्ध्वजौ ।
दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः ॥ 4-59-36 (30859)
तत्तु युद्धं प्रववृते ह्याचार्यस्यार्जुनस्य च।
विमुञ्चतोः शरानुग्रान्विशिखान्दीप्ततेजसः ॥ 4-59-37 (30860)
तौ वीरौ वीर्यसंपन्नौ दृष्ट्वा समरमूर्धनि।
आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ ॥ 4-59-38 (30861)
उभौ विश्रुतकर्माणावुभौ श्रमगतौ जये।
उभावतिरथौ लोके ह्युभौ परपुंरजयौ।
क्षिपन्तौ शरजालानि क्षत्रियान्मोह आविशत् ॥ 4-59-39 (30862)
व्यस्मयन्त नराः सर्वे द्रोणार्जुनसमागमे।
नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः ॥ 4-59-40 (30863)
द्रोणं हि समरे कोऽन्यो योद्धुमर्हत्यथार्जुनात्।
रौद्रः क्षत्रियधर्मोऽयं गुरं वै यदयोधयत् ॥ 4-59-41 (30864)
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः ।
तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ ॥ 4-59-42 (30865)
छाद्येतां शरौघैस्तावन्योन्यमुपराजितौ ।
संयुगे संचकाशेतां कालसूर्याविवोदितौ ॥ 4-59-43 (30866)
विष्फार्य च महाचापं हेमपृष्ठं दुरासदम्।
संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम् ॥ 4-59-44 (30867)
स सायकमयैर्जालैरर्जुनस्य रथं प्रति।
भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद्दिशः ॥ 4-59-45 (30868)
अर्जुनस्तु तदा द्रोणं महावेगैर्महारथः।
विव्याध शतशो बाणैर्धाराभिरिव पर्वतम् ॥ 4-59-46 (30869)
कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत् ॥ 4-59-47 (30870)
तस्य जाम्बूनदमयैश्चितरैश्चापच्युतैः शरैः।
प्राच्छादयद्रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै ॥ 4-59-48 (30871)
तथैव दिव्यं गाण्डीवं धनुरानम्य चार्जुनः ।
शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम् ॥ 4-59-49 (30872)
शोभते स्म महावाहुर्गाण्डीवं विक्षिपन्धनुः।
शरांश्च विसृजंश्चित्रान्सुवर्णविकृतान्बहून् ॥ 4-59-50 (30873)
प्राच्छादयदमेयात्मा भारद्वाजरथं प्रति।
द्रोणचापविनिर्मुक्तान्बाणान्बाणैरवारयत् ॥ 4-59-51 (30874)
सरथोऽप्यचरत्पार्थः प्रेक्षणीयो महारथः ।
युगपद्दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजम् ॥ 4-59-52 (30875)
आददानं शरान्घोरान्संदधानं च पाण्डवम् ।
विसृजन्तं च क्रौन्तेयं न स्म पश्यन्ति लाघवाम् ॥ 4-59-53 (30876)
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः।
नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः ॥ 4-59-54 (30877)
मरीचिविकचस्येव राजन्भानुमतो वपुः।
आसीत्पार्थस्य सुमहद्वपुः शरशतार्चितम् ॥ 4-59-55 (30878)
क्षिपतः शरजालानि कौन्तेयस्य महात्मनः ।
तान्विधूय शरान्घोरान्द्रोणोऽपि समितिंजयः ।
बभासे तिमिरं व्योम्नि विधूय सविता यथा ॥ 4-59-56 (30879)
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे।
विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम् ।
असकृत्मुञ्चतो बाणान्ददृशुः कुरवो युधि ॥ 4-59-57 (30880)
दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा।
द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः ।
अभवद्विस्मयकरः सैन्यानां भरतर्षभ ॥ 4-59-58 (30881)
तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः।
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥ 4-59-59 (30882)
ततः काञ्चनपङ्खानां शराणां नतपर्वणाम्।
वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः ॥ 4-59-60 (30883)
शरासनात्तु द्रोणस्य प्रभवन्ति स्म सायकाः।
एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः ।
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥ 4-59-61 (30884)
एवं सुवर्णविकृतान्विमुञ्चन्तौ शरान्बहून्।
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥ 4-59-62 (30885)
तयोः शराश्च विबभुः कङ्कबर्हिणवाससः ।
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ॥ 4-59-63 (30886)
तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत्।
अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव ॥ 4-59-64 (30887)
महागजाविवासाद्य विषाणाग्रैः परस्परम्।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 4-59-65 (30888)
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान्।
अवारयच्छितैर्बाणैरर्जुनो जयतांवरः ॥ 4-59-66 (30889)
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः।
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्। 4-59-67 (30890)
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् ।
विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः ॥ 4-59-68 (30891)
हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् ।
अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः ॥ 4-59-69 (30892)
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ ।
उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः ॥ 4-59-70 (30893)
पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः।
स मह्यस्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः ॥ 4-59-71 (30894)
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत् ॥ 4-59-72 (30895)
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः।
अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव ॥ 4-59-73 (30896)
दर्शयेतां महास्राणि भारद्वाजार्जुनौ रणे ॥ 4-59-74 (30897)
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः ।
मुक्तंमुक्तं द्रोणचापाद्ग्रमते स्म पुनः पुनः ॥ 4-59-75 (30898)
एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान्।
एकच्छायमकुर्वातां गगनं शरवृष्टिभिः ॥ 4-59-76 (30899)
ततोऽर्जुनेन मुक्तानां पततां च शरीरिपु।
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥ 4-59-77 (30900)
ततो नागा रथाश्वाश्च सादिनश्च विशांपते।
शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः ॥ 4-59-78 (30901)
बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः ।
सुवर्णाचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥ 4-59-79 (30902)
योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः।
बलमासीत्सुसंभ्रान्तं द्रोणार्जुनसमागमे ॥ 4-59-80 (30903)
विधृन्वानौ तु तौ वीरौ धनुषी भारसाधने।
प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः ॥ 4-59-81 (30904)
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् ।
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥ 4-59-82 (30905)
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्।
जेतारं सर्वदैत्यानां सर्वेषां च महारथम् ॥ 4-59-83 (30906)
अविभ्रमं च शिक्षां च लाघवं दूरपातनम् ।
पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः ॥ 4-59-84 (30907)
तत्प्रवृत्तं चिरं घोरं तयोर्युद्धं महात्मनोः ।
अवर्तत महारौद्रं लोकसंक्षोभकरकम् ॥ 4-59-85 (30908)
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः ।
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः ॥ 4-59-86 (30909)
तस्य बाणमयं वर्षे शलभानामिवाभवत् ।
न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम् ॥ 4-59-87 (30910)
अभीक्ष्णं संदधानस्य बाणानुत्सृजतस्तथा।
नान्तरं ददृशे किंचित्पार्थस्यापततोपी च ॥ 4-59-88 (30911)
युद्धे तु कृतशीघ्रास्त्रे वर्तमाने सुदारुणे।
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत् ॥ 4-59-89 (30912)
ततः शरसहस्राणि शराणां नतपर्वणाम्।
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥ 4-59-90 (30913)
विकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना ॥
हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥ 4-59-91 (30914)
पाण्डवस्य तु शीघ्रास्त्रं मघवा समपूजयत्।
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥ 4-59-92 (30915)
द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान्।
ततो वृन्देन महता रथिनां रथियूथपः ।
आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत् ॥ 4-59-93 (30916)
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः।
पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत् ॥ 4-59-94 (30917)
स भन्युवशमापन्नः पार्थमभ्यद्रवद्रणे ।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ 4-59-95 (30918)
आवृत्य च महाबाहुर्यतो द्रोणस्ततोऽभवत्।
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥ 4-59-96 (30919)
स तु लब्धान्तरस्तूर्णमपायाञ्जवनैर्हयैः ।
छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः ॥ 4-59-97 (30920)
पराजिते तदा द्रोणे द्रोणपुत्रः समागतः।
सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः ॥ ॥ 4-59-98 (30921)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥
विराटपर्व - अध्याय 060
॥ श्रीः ॥
4.60. अध्यायः 060
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन द्रोणिपराभवनम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-60-0 (30922)
वैशम्पायन उवाच। 4-60-0x (3240)
तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः।
शरजालेन महता वर्षमाण इवाम्बुदः ॥ 4-60-1 (30923)
तयोर्देवासुरसमः सन्निपातो महानभूत् ।
किरतोः शरजालानि वृत्रवासवयोरिव ॥ 4-60-2 (30924)
न स्म सूर्यस्तदा भाति न च वाति समीरणः ।
शरगाढे कृते व्योम्नि छायाभूतमिवाभवत् ॥ 4-60-3 (30925)
महांश्चटचटाशब्दो योधयोर्युध्यमानयोः ।
दह्यतामिव वेणूनामासीत्परमदारुणः॥ 4-60-4 (30926)
हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसाः ।
ते राजन्न प्रजानन्ति दिशं कांचन मोहिताः ॥ 4-60-5 (30927)
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः ।
विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः ॥ 4-60-6 (30928)
तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् ।
न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनंजयम् ॥ 4-60-7 (30929)
ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः ।
पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः । 4-60-8 (30930)
ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा।
योजयामास च तदा मौर्व्या गाण्डीवमोजसा ॥ 4-60-9 (30931)
तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम् ।
ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत ॥ 4-60-10 (30932)
ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः ।
चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा ।
विव्याध निशितैश्चापि शरैराशीविपोपमैः ॥ 4-60-11 (30933)
सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः।
वारणेनेव मत्तेन मत्तो वारणयूथपः ॥ 4-60-12 (30934)
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः ।
रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम् ॥ 4-60-13 (30935)
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः।
युध्यमानौ महात्मानौ द्विरदाविव संगतौ ॥ 4-60-14 (30936)
तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ ।
शरै राशीविषाकारैर्ज्वलद्भिरिव पावकैः ॥ 4-60-15 (30937)
अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः।
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ॥ 4-60-16 (30938)
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे।
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ॥ ॥ 4-60-17 (30939)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥
विराटपर्व - अध्याय 061
॥ श्रीः ॥
4.61. अध्यायः 061
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन युगपद्द्रोणादिभिः सह यद्धम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-61-0 (30940)
वैशम्पायन उवाच। 4-61-0x (3241)
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः।
आजगाम महाबाहुः कृपः शस्त्रभृतांवरः ।
अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः। 4-61-1 (30941)
अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् ।
आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम् ॥ 4-61-2 (30942)
तौ वीर सूर्यसंकाशौ योत्स्यमानौ महारथौ।
वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥ 4-61-3 (30943)
श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः।
अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया ॥ 4-61-4 (30944)
कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम् ॥ 4-61-5 (30945)
प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान्।
कृपः पार्थाय चिक्षेप शंतशोऽथ सहस्रशः ॥ 4-61-6 (30946)
जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति ।
नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम् ॥ 4-61-7 (30947)
विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः।
चचार समरे पार्थश्चित्रमार्गान्विदर्शयन् ॥ 4-61-8 (30948)
सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः ।
एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः ॥ 4-61-9 (30949)
प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ।
उद्गतः समरे मेघो धाराभिरिव पर्वतम् ॥ 4-61-10 (30950)
स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः ।
कृपो बभूव समरे विधूमोऽग्निरिव ज्वलंम् ॥ 4-61-11 (30951)
ततः शरसहस्रेण पार्थमप्रतिमौजसम् ।
अर्दयित्वा महाबाहुर्ननाद समरे कृपः ॥ 4-61-12 (30952)
ततः कनकपुङ्खेन शरेण नतपर्वणा।
बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम् ॥ 4-61-13 (30953)
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् ।
जग्राह समरे पार्थो भूयो बहुशिलीमुखान् ॥ 4-61-14 (30954)
तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः ।
जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान् ॥ 4-61-15 (30955)
चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद।
मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः ॥ 4-61-16 (30956)
सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च।
नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः ॥ 4-61-17 (30957)
तान्निहत्य ततः पार्थो निमेपादिव भारत ।
पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान् ॥ 4-61-18 (30958)
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्।
षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः ॥ 4-61-19 (30959)
त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु भल्लेन कृपस्य सशरं धनुः ॥ 4-61-20 (30960)
छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव।
त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे ॥ 4-61-21 (30961)
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् ।
चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे ॥ 4-61-22 (30962)
तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम्।
रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम् ॥ 4-61-23 (30963)
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः।
सापतद्दशधा भूमौ पार्थेन निहता शरैः ॥ 4-61-24 (30964)
शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः।
गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा।
गदां चिक्षेप सहसा पार्थायामिततेजसे ॥ 4-61-25 (30965)
सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता ।
अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा ॥ 4-61-26 (30966)
अथ खङ्गं समुद्धृत्य शतचन्द्रं च भानुमत्।
इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः ॥ 4-61-27 (30967)
स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः ।
खेचरेव चचारकैः क्रमाच्चर्मासिधृग्भुवि ॥ 4-61-28 (30968)
ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी ।
निमेषादिव चिच्छेद तदद्भुतमिवाभवत् ॥ 4-61-29 (30969)
विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः।
दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत् ॥ 4-61-30 (30970)
भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः।
अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे।
स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः ॥ 4-61-31 (30971)
एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत्।
दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम् ॥ 4-61-32 (30972)
एकैकमस्मान्संग्रामे पराजयति फल्गुनः।
अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च।
अन्ये च बहवः शूरा वयं जेष्याम वासविम् ॥ 4-61-33 (30973)
समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः।
अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत ॥ 4-61-34 (30974)
स सायकमयैर्जालैः सर्वतस्तान्महारथान्।
प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान् ॥ 4-61-35 (30975)
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥ 4-61-36 (30976)
नागाश्वकायान्निर्भिद्य लौहानि कवचानि च।
पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ ॥ 4-61-37 (30977)
त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते।
मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः॥ 4-61-38 (30978)
अविषह्य शरान्सर्वे पार्थचापच्युपान्रणे।
उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः॥ 4-61-39 (30979)
शरैस्तु ताड्यमानानां कवचानां महात्मनाम्।
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः॥ 4-61-40 (30980)
छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम्।
श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम्॥ 4-61-41 (30981)
शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम्।
प्रनृत्यन्निव संग्रामे चापहस्ते धनंजयः॥ 4-61-42 (30982)
शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः।
श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशने।
त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागश॥ 4-61-43 (30983)
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च।
पतितानि स्म दृश्यन्ते शिरांसि करणमूर्धनि ॥ 4-61-44 (30984)
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः।
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥ 4-61-45 (30985)
शिरसां पात्यमानानां समरे निशितैः शरैः।
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥ 4-61-46 (30986)
दर्शयित्वा तदाऽऽत्मानं रौद्रं रौद्रपराक्रमः।
जघान समरे शूराञ्छतशोऽथ सहस्रशः ॥ 4-61-47 (30987)
तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च।
क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः ॥ 4-61-48 (30988)
तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम्।
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत ॥ 4-61-49 (30989)
यथा नलवनं नागः प्रभिन्नः षष्टिहायनः।
एवं सर्वानपामृद्रादर्जुनः शस्त्रतेजसा ॥ 4-61-50 (30990)
विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान्।
अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत ॥ 4-61-51 (30991)
तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे ।
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥ 4-61-52 (30992)
अस्थिशैवालसंबाधां संग्रामे पार्थनिर्मिताम् ।
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ॥ 4-61-53 (30993)
रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम्।
करवालासिपाठीनां चामरोष्णीषफेनिलाम् ॥ 4-61-54 (30994)
अश्वग्रीवामहावर्तां कबन्धजलमानुषाम्।
काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् ॥ 4-61-55 (30995)
सिंहनादमहानादां शङ्खस्वनमहास्वनाम् ।
वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् ॥ 4-61-56 (30996)
पदातिमत्स्यकलुषां गजशीर्षककच्छपाम्।
गोमायुगसंघुष्टां मांसमञ्जाभिकर्दमाम् ॥ 4-61-57 (30997)
प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् ।
अपारामनिवासां च रक्तोदां सर्वतो वृताम् ॥ 4-61-58 (30998)
अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम्।
गजवर्ममहाद्वीपामश्वदेहमहाशिलाम् ॥ 4-61-59 (30999)
पदातिदेहसंघाटां रथावलिमहातरुम्।
केशशाद्वलसंछन्नां सुतरां भीतिदां नृणाम् ॥ 4-61-60 (31000)
अगाधरक्तोदवहां यमसागरगामिनीम्।
दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप।
प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः ॥ 4-61-61 (31001)
तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः।
विकर्षतश्च गाण्डीवं न किंचिद्ददृशेऽन्तरम् ॥ ॥ 4-61-62 (31002)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकषष्टितमोऽध्यायः ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-61-28 स्वेचरः इवेतिच्छेदः ॥विराटपर्व - अध्याय 062
॥ श्रीः ॥
4.62. अध्यायः 062
Mahabharata - Virata Parva - Chapter Topics
रणाय भीष्मार्जुनयोः समागमे देवैस्तयोः प्रशंसनम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-62-0 (31003)
वैशम्पायन उवाच। 4-62-0x (3242)
एवं विद्राव्य तत्सैन्यं पार्थो भीष्ममुपाद्रवत्।
त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः ॥ 4-62-1 (31004)
बाणान्धनुषि संधाय चतुरः पाकशासनिः।
भीष्मं च प्राहिणोद्भीतस्तं द्वाभ्यामभ्यवादयत् ॥ 4-62-2 (31005)
तस्य कर्णान्तिकं गत्वा द्वावब्रूतां च कौशलम् ।
सोऽप्याशीरवदद्भीष्मः कौन्तेयो जयतामिति ॥ 4-62-3 (31006)
नरसिंहमुपायान्तं जिगीषन्तं परान्रणे।
वृषसेनोऽभ्ययात्तूर्णं योद्धुकामो धनंजयम् ॥ 4-62-4 (31007)
वैकर्तनात्मजो वीरः संग्रामे लोकविश्रुतः।
शौर्यवीर्यादिभिः कर्णाद्बिम्बाद्विम्ब इवोद्धृतः ॥ 4-62-5 (31008)
आत्मना युध्यतस्तस्य वृषसेनस्य पाण्डवः ।
मुहूर्तं तस्य तद्दृष्ट्वा हस्तलाघवपौरुषे।
तुतोष च ततः पार्थो वृषसेनपराक्रमम् ॥ 4-62-6 (31009)
तस्य पार्थस्तदा क्षिप्रं क्षुरधारेण कार्मुकम् ।
न्यकृन्यद्गृध्रपत्रेण जाम्बूनदपरिष्कृतम् ॥ 4-62-7 (31010)
अथैनं पञ्चभिर्भूयः प्रत्यविध्यत्स्तनान्तरे।
स पार्थबाणाभिहतो रथात्प्रस्कन्द्य दुद्रुवे ॥ 4-62-8 (31011)
दुःशासनो विकर्णश्च शकुनिश्च विविंशतिः।
आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम् ॥ 4-62-9 (31012)
तेषां पार्थो रणे क्रुद्धः शरैः सन्नतपर्वभिः ।
युगं ध्वजं शरासं च चिच्छेद तरसा रणे ॥ 4-62-10 (31013)
ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः ।
रणमध्यादपययुः पार्थबाणाभिपीडिताः ॥ 4-62-11 (31014)
ततः प्रहस्य बीभत्सुर्वैराटिमिदमब्रवीत् ।
एतं मे प्रापयेदानीं तालं सौवर्णमुच्छ्रितम् ॥ 4-62-12 (31015)
मेघमध्ये यथा विद्युदुज्ज्वलन्ती पुनः पुनः ।
असौ शान्तनवो भीष्मस्तत्र याहि परंतप ॥ 4-62-13 (31016)
अस्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे।
घोररूपाणि चित्राणि लघूनि च गुरूणि च ॥ 4-62-14 (31017)
अस्माकं पोषको नित्यमाबाल्यान्मत्स्यभूमिप।
श्रेयस्कामी सदाऽस्माकं योगक्षेमकरः सदा ॥ 4-62-15 (31018)
तस्याङ्के विर्धितो बाल्ये तद्योत्स्येऽनेन सांप्रतम्।
अस्माकं धार्तराष्ट्राणां शमकामो दिवानिशम् ॥ 4-62-16 (31019)
वैशम्पायन उवाच। 4-62-17 (31020)
तस्य तद्वचनं श्रुत्वा वैराटिः पार्थसारथिः।
वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति ॥ 4-62-17 (31021)
तं रथं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् ।
वायुनेव महामेघं सहसाऽभिसमीरितम्।
तं प्रत्ययाच्च गाङ्गेयो रथेनादित्यवर्चसा ॥ 4-62-18 (31022)
आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुंजयः।
प्रत्युञ्जगाम युद्धार्थी महर्षभमिवर्षभः ॥ 4-62-19 (31023)
तथा हि गुप्त एतेषां दुराधर्षः पितामहः ।
हन्यमानेषु योघेषु धनंजयमुपाद्रवत् ॥ 4-62-20 (31024)
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् ।
शरानादाय तीक्ष्णाग्रान्मर्मदेहप्रमाथिनः ॥ 4-62-21 (31025)
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
शुशुभे स नरव्याघ्रो गिरिः सूर्योत्तरे यथा ॥ 4-62-22 (31026)
प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् ।
प्रदक्षिणमुपावृत्य बीभत्सुं प्रत्यवारयत् ॥ 4-62-23 (31027)
तमवेक्ष्य समायान्तं कौन्तेयः परवीरहा ।
प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम् ।
देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान् ॥ 4-62-24 (31028)
तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा ।
नादयामासतुर्द्यां च खं च भूमिं च सर्वशः ॥ 4-62-25 (31029)
अन्तरिक्षे च जल्पन्ति सर्वे देवाः सवासवाः ।
यदर्जुनः कुरून्सर्वान्प्राकृन्तच्छस्रतेजसा ॥ 4-62-26 (31030)
कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनंजयौ ।
सर्वास्त्रकुशलौ वीरावप्रमत्तौ रणे सदा ॥ 4-62-27 (31031)
उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः ।
उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ ॥ 4-62-28 (31032)
समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ ।
उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत ॥ 4-62-29 (31033)
वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ ।
उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ ।
सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ ॥ 4-62-30 (31034)
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥
अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च ॥ 4-62-31 (31035)
को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति।
ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते ॥ 4-62-32 (31036)
इति संपूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम् ।
तं रणे संप्रहृष्यन्तं दृष्ट्वा देवाः सवासवाः ॥ 4-62-33 (31037)
अथ बहुविधतूर्यशङ्खयोषैर्विविधरवैः सह सिंहनादमिश्रैः ।
कुरुवृषभमपूजयत्कुरूणां बलममराधिपसैन्यसप्रभं तत् ॥ ॥ 4-62-34 (31038)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विषष्टितमोऽध्यायः ॥
विराटपर्व - अध्याय 063
॥ श्रीः ॥
4.63. अध्यायः 063
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन भीष्मपराजयः ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-63-0 (31039)
वैशम्पायन उवाच। 4-63-0x (3243)
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्।
समार्पयन्महावेगाज्ज्वलतः पन्नगानिव ॥ 4-63-1 (31040)
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः।
ध्वजस्थं कपिमाजघ्नुः ध्वजाग्रनिलयांश्च तान् ॥ 4-63-2 (31041)
सारथिं च हयांश्चास्य विव्याध दशभिः शरैः ।
उरस्यताडयत्पार्थं त्रिभिरेवायसैः शरैः ॥ 4-63-3 (31042)
ततोऽर्जुनः शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम्।
ध्वजं च सारथिं चापि विव्याध दशभिः शरैः ॥ 4-63-4 (31043)
तद्युद्धमभवद्धोरं रोमहर्षणमद्भुतम्।
भीष्मस्य सह पार्थेन बलिवासवयोरिव ॥ 4-63-5 (31044)
सन्ततं शरजालाभिराकाशं समपद्यत।
अम्बुदैरिव धाराभिस्तयोः कार्मुकनिःसृतैः ॥ 4-63-6 (31045)
भल्लैर्भल्लाः समाहत्य कुरुपाण्डवयो रणे।
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ॥ 4-63-7 (31046)
अग्निवक्रोपमं घोरं मण्डलीकृतमाहवे ।
गाण्डीवमभवञ्जिष्णोः सव्यं दक्षिणमस्यतः ॥ 4-63-8 (31047)
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ।
अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः ॥ 4-63-9 (31048)
तां समुद्रमिवोद्धूतां शरवृष्टिं समुद्यताम् ।
व्यधमत्सायकैर्भीष्मः सोर्जुनं च न्यवारयत् ॥ 4-63-10 (31049)
ततस्तानि विसृष्टानि शरजालानि सङ्घशः।
आहतानि व्यशीर्यन्तं अर्जुनस्य रथं प्रति ॥ 4-63-11 (31050)
ततः कनकपुङ्खाग्रैः शितैः संनतपर्वभिः ।
पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः ॥ 4-63-12 (31051)
ततः प्रासृजदुग्राणि शरजालानि पाण्डवः।
तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत् ॥ 4-63-13 (31052)
साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः ।
प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः ॥ 4-63-14 (31053)
ततो देवर्षिगन्धर्वाः साधुसाध्वित्यपूजयन्।
दुष्करं कृतवान्भीष्मो यदर्जुनमवारयत् ॥ 4-63-15 (31054)
बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः।
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ॥ 4-63-16 (31055)
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् ।
आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात् ॥ 4-63-17 (31056)
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषोत्तमौ ।
चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ ॥ 4-63-18 (31057)
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् ।
कौबेरं वारुणं चैव याम्यं वायव्यमेव च ।
प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः ॥ 4-63-19 (31058)
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा।
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ॥ 4-63-20 (31059)
नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे।
महास्राणां संप्रयोगं समरे भीष्मपार्थयोः ॥ 4-63-21 (31060)
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत ॥ 4-63-22 (31061)
अथ जिष्णुरुदावृत्य शितधारेण कार्मुकम् ।
न्यकृन्तद्गृध्रपत्रेण शातकुम्भपरिष्कृतम् ॥ 4-63-23 (31062)
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे।
समादाय नरव्याघ्रः सज्यं चक्रे महाबलः ॥ 4-63-24 (31063)
शरांश्च सुबहुन्क्रुद्धो मुमोचाशु धनंजये ।
अर्जुनोपि शरांस्तीक्ष्णान्भीष्माय निशितान्बहून्।
चिक्षेप च महातेजास्तथा भीष्मश्च पाण्डवे ॥ 4-63-25 (31064)
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् ।
न विशेषस्तदा राजन्दृश्यते सुमहात्मनोः ॥ 4-63-26 (31065)
अथावृणोद्दश दिशः शरैरतिरथस्तदा ।
किरीटमाली कौन्तेयः शूरं शान्तनवं तथा ॥ 4-63-27 (31066)
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् ।
बभूव तत्र सङ्घेऽस्मिन्लोके राजंस्तदद्भुतम् ॥ 4-63-28 (31067)
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः।
शेरते स्म महाबाहो कौन्तेयस्याभितो रथम् ॥ 4-63-29 (31068)
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः।
असक्ताः पुङ्खसंसक्ताः श्वेतवाहनपत्रिणः ॥ 4-63-30 (31069)
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः।
आकाशे प्रत्यदृश्यन्त हंसानामिव पङ्क्तयः ॥ 4-63-31 (31070)
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः ।
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ॥ 4-63-32 (31071)
तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् ।
शशंस देवराजाय चित्रसेनः प्रतापवान् ॥ 4-63-33 (31072)
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः ।
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ॥ 4-63-34 (31073)
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते।
सौराणां च महास्राणां विचित्रोऽयं समागमः ॥ 4-63-35 (31074)
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।
न शक्नुवन्ति सैन्यानि पाण्डवं प्रसमीक्षितुम् ॥ 4-63-36 (31075)
उभौ विश्रुतकर्माणावुभौ शूरौ महीक्षिताम् ।
उभौ विचित्रकर्माणावुभौ युधि दुरासदौ ॥ 4-63-37 (31076)
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्।
पूजयामास दिव्येन पुष्पवर्षेण भारत ॥ 4-63-39a[अश्वत्थामा ततोऽभ्येत्य द्रुतं कर्णमभाषत ।
अहमेको हनिष्यामि समेतान्सर्वपाण्डवान् ॥ 4-63-38 (31077)
इति कर्म समक्षं मे सभामध्ये त्वयोदितम् ।
न तु तत्कृतमेकस्माद्भीतो धावसि सूतज ॥ 4-63-40 (31078)
वैचित्रवीर्यजाः सर्वे त्वामाश्रित्य पृथासुतान् ।
जेतुमिच्छन्ति संग्रामे भवान्युध्यस्व फल्गुनम् ॥ 4-63-41 (31079)
अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस्तदा ।
प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया ॥ 4-63-42 (31080)
मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः ।
मानभङ्गेन राज्ञां तु बलहानिर्भविष्यति ॥ 4-63-43 (31081)
शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते।
पराक्रमन्ति संग्रामे स्वस्य वीर्यानुसारतः ॥ 4-63-44 (31082)
तस्मात्तं नार्हति भवान्गर्हितुं शूरसंमतम् ।
राज्ञैवमुक्तः स द्रौणिर्गतरोषोऽभवत्तदा ॥] 4-63-45 (31083)
ततो भीष्मः शान्तनवो बाणान्पार्श्वे समार्पयत्।
अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः 4-63-46 (31084)
ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम्।
न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः ॥ 4-63-47 (31085)
अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे।
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ॥ 4-63-48 (31086)
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् ।
गोङ्गेयो युधि दुर्धर्षस्तस्थौ दीप इवातुरः ॥ 4-63-49 (31087)
तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् ।
उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥ 4-63-50 (31088)
पराक्रमे च शौर्ये च वीर्ये सत्त्वे बले रणे।
शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने ॥ 4-63-51 (31089)
यस्य नास्ति समो लोके पितृदत्तवरश्च यः।
जितश्रमो जितारातिर्निस्तन्द्रिः खेदवर्जितः ।
यः स्वेच्छामरणः शूरः पितृशुश्रूषणे रतः ॥ 4-63-52 (31090)
दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे।
पृथासुतहितार्थाय पराजित इवाभवत् ॥ ॥ 4-63-53 (31091)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिषष्टितमोऽध्यायः ॥
विराटपर्व - अध्याय 064
॥ श्रीः ॥
4.64. अध्यायः 064
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन द्रोणादिपञ्चरथान्प्रत्यभियानम् ॥ 1 ॥Mahabharata - Virata Parva - Chapter Text
4-64-0 (31092)
वैशम्पायन उवाच। 4-64-0x (3244)
भीष्मं विजित्य संग्रामे कुरूणां मिषतां रणे।
ततो युद्धमनाः प्रायात्पार्थः पञ्च महारथान् ॥ 4-64-1 (31093)
आददानश्च नाराचान्विमृशन्निषुधी अपि।
संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगाम् ॥ 4-64-2 (31094)
द्रौणिरुवाच। 4-64-3x (3245)
कर्ण यत्तत्सभामध्ये बह्वबद्धं प्रभाषसे।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥ 4-64-3 (31095)
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः।
अदूरात्प्रत्युपस्थाय जृम्भते केसरी यथा।
न पलायस्व शूरश्चेत्स्थित्वा युध्यस्व फल्गुनम् ॥ 4-64-4 (31096)
कर्ण उवाच। 4-64-5x (3246)
नाहं बिभेमि बीभत्सोः कृष्णाद्वा देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ॥ 4-64-5 (31097)
सत्वाधिकानां शूराणां धनुर्वेदोपजीविनाम् ।
दर्शनाञ्जायते दर्पः स्वरश्च न विषीदति ॥ 4-64-6 (31098)
पश्यत्वाचार्यपुत्रो मामर्जुनेन समं युधि।
युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम् ॥ 4-64-7 (31099)
अश्वत्थामोवाच। 4-64-8x (3247)
को दोषः कर्ण शूराणां वाचा साकं हि पौरुषम् ।
विद्यते यदि तल्लोके गुणोत्तरमिहोच्यते ॥ 4-64-8 (31100)
युव्यस्व त्वमभीः पार्थं प्रपलायस्व मा रणात्।
उक्तं वचः स्मरन्कर्ण नाहमित्यादि संयुगे ॥ 4-64-9 (31101)
वैशम्पायन उवाच। 4-64-10x (3248)
तं समन्ताद्रथाः पञ्च परिवार्य धनञ्जयम्।
त इषून्सम्यगस्यन्तो मुमुक्षन्तोपि जीवितात् ॥ 4-64-10 (31102)
ते लाभमिव मन्वानाः क्षिप्रमार्च्छन्धनञ्जयम्।
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः ॥ 4-64-11 (31103)
बहुभिर्निशितैर्बाणैर्विविधैर्लोमवापिभिः ।
आद्रवन्प्रत्यवस्थाय प्रत्यविध्यन्धनञ्जयम् ॥ 4-64-12 (31104)
ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतांवरः ।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथसत्तमान् ॥ 4-64-13 (31105)
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्।
एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद्दिशः ॥ 4-64-14 (31106)
न रथानां न नगानां न ध्वजानां न वाजिनाम्।
अविद्धं निशितैर्बाणैरासीद्द्यूङ्गुलमन्तरम् ॥ 4-64-15 (31107)
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे ।
हस्तिनोऽश्वाश्च वित्रस्ता व्यवलीयन्त भारत ॥ 4-64-16 (31108)
यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः ।
एवं सर्वानपामृद्गादर्जुनः शस्त्रतेजसा ॥ 4-64-17 (31109)
गाण्डीवस्य तु घोषेण पृथिवी समकम्पत।
मनांसि धार्तराष्ट्राणामप्यकृन्तद्धनञ्जयः ॥ 4-64-18 (31110)
ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतांवरः ।
सारथिं समरे शूरस्त्वभ्यभाषत वीर्यवान् ॥ 4-64-19 (31111)
संनियम्य हयानेतान्मन्दं वाहय सारथे ।
आचार्यपुत्रं समरे योधयिष्येऽपराजितम् ॥ 4-64-20 (31112)
पुरा ह्येष मया युक्तः स मे भवति पृष्ठतः ॥
एवमुक्तेऽर्जुनेनासावश्वत्थामरथं प्रति। 4-64-21 (31113)
विराटपुत्रो जवनान्भृशमश्वानचोदयत् ॥ 4-64-22 (31114)
कर्ण उवाच।
एषोपयाति बीभत्सुर्व्यथितो गाढवेदनः। 4-64-23x (3249)
तं तु तत्रैव यास्यामि नासौ मुच्येत जीवितात् ॥ 4-64-23 (31115)
द्रोण उवाच। 4-64-24x (3250)
नासौ भयेन निर्यातो महात्मा पाकशासनिः।
नैवं भीता निवर्तन्ते न पुनर्गाढवेदनाः ॥ 4-64-24 (31116)
यद्येनमभिसंरब्धं पुनरेवाभियास्यसि।
बहून्यस्त्राणि जानीते न पुनर्मोक्ष्यते भवान् ॥ 4-64-25 (31117)
दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः।
मुक्तो दिष्ट्या च संग्रामे किं रणेन करिष्यसि ॥ 4-64-26 (31118)
क्रोशमात्रमपाक्रम्य बलमन्वानयामहे।
अन्वागतबलाः पार्थं पुनरेवाभियास्यथ ॥ ॥ 4-64-27 (31119)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःषष्टितमोऽध्यायः ॥
विराटपर्व - अध्याय 065
॥ श्रीः ॥
4.65. अध्यायः 065
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेनोत्तरंप्रति भीष्मादिसकाशे रथप्रापणप्रेरणापूर्वकं तदाप्यायनाय स्वपराक्रमप्रकथनम् ॥1 ॥ तदा दुःशासनादिपराभवनपूर्वकं भीष्मादिभिः सहायोधनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-65-0 (31120)
वैशम्पायन उवाच। 4-65-0x (3251)
कर्णं पराजितं दृष्ट्वा पार्थो वैराटिमब्रवीत्।
एतं मां प्रापयेदानीं रथवृन्दं प्रहारिणाम् ॥ 4-65-1 (31121)
यत्र शान्तनवो भीष्मः सर्वेषां नः पितामहः ।
सुयुद्धं काङ्क्षमाणो वै रथे तिष्ठति दंशितः ॥ 4-65-2 (31122)
तालो वै काञ्चनो यत्र वज्रवैडूर्यभूषितः ।
अतीव समरे भाति मातरिश्वप्रकम्पितः ॥ 4-65-3 (31123)
दारुणं प्रहरिष्यामि रथबृन्दानि धन्विनाम्।
आदास्याम्यहमेतेषां धनुर्ज्यावेष्टनानि च ॥ 4-65-4 (31124)
अस्यन्तं दिव्यमस्त्राणि चित्रमुत्तर पश्यसि ॥ 4-65-5 (31125)
शतह्रदां जृम्भमाणां मेघस्थां प्रावृषीव च।
सुवर्णपृष्ठं गाण्डीवं पश्यन्तु कुरवो मम ॥ 4-65-6 (31126)
दक्षिणेनाथ वामेन कतमेन स्विदस्यति।
इति मां शत्रवः सर्वे न विज्ञास्यन्ति सारथे ॥ 4-65-7 (31127)
अस्त्रोदकां हयावर्तां नागनक्रां रथह्रदाम्।
नदीं प्रस्कन्दयिष्यामि परलोकापहारिणीम् ॥ 4-65-8 (31128)
पाणिपादशिरःपृष्ठबाहुशङ्खचराचरम्।
वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः ॥ 4-65-9 (31129)
तूणीशयाः सुपुङ्खाग्रा विशिखा दुन्दुभिस्वनाः।
मया प्रमुक्ताः संग्रामे कुरून्धक्ष्यन्ति सायकाः ॥ 4-65-10 (31130)
ध्वजवृक्षं शरतृणं नागाश्वश्वापदाकुलम् ।
रथसिंहगणैर्युक्तं धनुर्वल्लिसमाकुलम्।
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥ 4-65-11 (31131)
जयतो भारतीं सेनामेकस्य मम संयुगे।
शतं मार्गा भविष्यन्ति पावकस्येव कानने ॥ 4-65-12 (31132)
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ।
तानहं रथनीडेभ्यः परलोकाय शात्रवान्।
एकः प्रद्रावयिष्यामि चक्रपाणिरिवासुरान् ॥ 4-65-13 (31133)
असंभ्रान्तो रथे तिष्ठन्समेषु विषमेषु च।
मार्गमावृत्य तिष्ठन्तमपि भेत्स्यामि पर्वतम् ॥ 4-65-14 (31134)
अहमिन्द्रस्य संग्रामे द्विषतो बलदर्पितान्।
मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा ॥ 4-65-15 (31135)
निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः ।
परं पारे समुद्रस्य हिरण्यपुरमारुजम् ॥ 4-65-16 (31136)
हत्वा षष्टिसहस्राणि रथानामुग्रधन्विनाम्।
पौलोमान्कालकेयांश्च समरे भृशदारुणान् ।
असुरानहनं घोरान्रौद्रेणास्त्रेण सारथे ॥ 4-65-17 (31137)
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः क्षिप्रहस्तताम् ।
प्रगाढनिपुणं चित्रमतिवृद्धं प्रजापतेः ॥ 4-65-18 (31138)
रौद्रं रुद्रादहं वेद्मि वारुणं वरुणादपि ।
सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि ॥ 4-65-19 (31139)
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः।
अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान् ॥ 4-65-20 (31140)
अद्य गाण्डीवनिर्मुक्तैःशरौघै रोमहर्षणैः ।
कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् ॥ 4-65-21 (31141)
वैशम्पायन उवाच। 4-65-22x (3252)
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना।
व्यगाहत रथानीकं भीमं भीष्मस्य वाजिभिः ॥ 4-65-22 (31142)
रथिसिंहमनाधृष्यं जिगीषन्तं परान्रणे।
अभ्यधावत्तदैवोग्रो ज्यां विकर्षन्धनञ्जयः ॥ 4-65-23 (31143)
दुःशासनोऽभ्ययात्तूर्णमर्जुनं भरतर्षभः ॥ 4-65-24 (31144)
अन्येऽपि चित्राभरणा युवानो मृष्टकुण्डलाः ।
अभ्ययुर्भीमधन्वानो मौवी पर्यस्य बाहुभिः ॥ 4-65-25 (31145)
दुःशासनो विकर्णश्च वृषसेनो विविशतिः।
अभीता भीमधन्वानं पाण्डवं पर्यवारयन् ॥ 4-65-26 (31146)
तस्य दुःशासनः षष्टिं वामपार्श्वे समार्पयत्।
अस्यतः प्रतिसन्धाय कुन्तीपुत्रस्य धीमतः ॥ 4-65-27 (31147)
पुनश्चैव स भल्लेन विद्ध्वा वैराटिमुत्तरम् ।
द्वितीयेनार्जुनं वीरं प्रत्यविध्यत्स्तनान्तरे ॥ 4-65-28 (31148)
तस्य जिष्णुरुदावृत्य क्षुरधारेण कार्मुकम्।
प्राकृन्तद्गृध्रपत्रेण जातरूपपरिष्कृतम्॥ 4-65-29 (31149)
अथैनं पञ्चभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।
सोपयातो रथोपस्थात्पार्थबाणाभिपीडितः ॥ 4-65-30 (31150)
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपाराजितः।
तं विकर्णः शरैस्तीक्ष्णैर्गृध्रपक्षैः शिलाशितैः।
विव्याध परवीरध्नमर्जुनं धृतराष्ट्रजः ॥ 4-65-31 (31151)
ततस्तमपि कौन्तेयः शरेण नतपर्वणा ।
ललाटेऽभ्यहनद्गाढं स विद्धः प्राद्रवद्भयात् ॥ 4-65-32 (31152)
ततः पार्थमुपाद्रुत्य दुस्सहः सविविंशतिः।
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ॥ 4-65-33 (31153)
तावुभौ गृध्रपत्राभ्यां निशिताभ्यां धनञ्जयः।
विव्याध युगपद्व्यग्रस्तयोर्वाहानसूदयत् ॥ 4-65-34 (31154)
तौ हताश्वौ तु विद्धाङ्गौ धृतराष्ट्रात्मजावुभौ ।
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ॥ 4-65-35 (31155)
व्यद्रावयदशेषांश्च धृतराष्ट्रसुतांस्तदा ।
विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत् ॥ 4-65-36 (31156)
किरीटमाली कौन्तेयो लब्धलक्षः प्रतापवान् ।
पातयन्नुत्तमाङ्गानि बाहूश्च परिघोपमान् ॥ 4-65-37 (31157)
अशेरत महावीराः शतशो रुक्ममालिनः ॥ 4-65-38 (31158)
कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः।
रुचिरमकरकुण्डलैर्मही पुरुषशिरोभिरथास्तृता बभौ ॥ 4-65-39 (31159)
सुनसं चारुदीप्ताश्चं क्लृप्तश्मश्रु स्वलंकृतम् ।
अदृश्यत शिरश्छिन्नमनेकं हेमकुण्डलम् ॥ 4-65-40 (31160)
एवं तत्प्रहतं सैन्यं समन्तात्प्रद्रुतं भयात्॥ 4-65-41 (31161)
अथ दुर्योधनः कर्णः सौबलः शकुनिस्तदा।
द्रोणश्च द्रोणपुत्रश्च कृपश्चातिरथो रणे ॥ 4-65-42 (31162)
सहिता विजयं तत्र योधयन्तो महारथाः।
विष्फारयन्तश्चापानि बलवन्ति महाबलाः ॥ 4-65-43 (31163)
ततः कीर्णपताकेन रथेनादित्यवर्चसा।
पुनरावृत्य मार्गस्थं ददृशुर्वानरध्वजम् ॥ 4-65-44 (31164)
ते महास्त्रैर्महेष्वासाः परिवार्य धनञ्जयम्।
अभ्यवर्षन्सुसंक्रुद्धा महामेघा इवाचलम् ॥ 4-65-45 (31165)
शरौघान्सम्यगस्यन्तो जीमूता इव शारदाः ।
युद्धे तस्थुर्महावीर्याः प्रतपन्तः किरीटिनम् ॥ 4-65-46 (31166)
इषुभिर्बहुभिस्तूर्णं निशितैर्लोमवापिभिः ।
अदूरात्प्रत्यवस्थाय पाण्डवं समयोधयन् ॥ 4-65-47 (31167)
ततः प्रहस्य बीभत्सुस्तमैन्द्रं पञ्चवार्षिकम् ।
अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत् ॥ 4-65-48 (31168)
नाक्षणां न च चक्राणां न रथानां न वाजिनाम् ।
अङ्गुलाद्दव्यङ्गुलाद्वापि विवृतं प्रत्यदृश्यत ॥ 4-65-49 (31169)
यथा रश्मिभिरादित्यो वृणुते सर्वतो दिशम्।
एवं किरीटिना मुक्तं सर्वं प्राच्छादयञ्जगत् ॥ 4-65-50 (31170)
यथा बलाहके विद्युत्पावको वा शिलोच्चये।
तथा गाण्डीवमभवच्चक्राभुधमिवाततम् ॥ 4-65-51 (31171)
यथा वर्षति पर्जन्यो विद्युत्पतति पर्वते।
विस्फूर्जिता दिशः सर्वा ज्वलद्गाण्डीवमावृणोत्॥ 4-65-52 (31172)
त्रस्ताश्च रथिनःक सर्वे चैन्द्रमस्त्रं विकुर्वति।
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे ।
सहिता द्रोणभीष्माभ्यां प्रमोहगतचेतनाः॥ 4-65-53 (31173)
तानि सर्वाणि सैन्यानि भग्नानि भरतर्षभ ।
प्राद्रवन्त दिशः सर्वा भयाद्वै सव्यसाचिनः ॥ ॥ 4-65-54 (31174)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चषष्टितमोऽध्यायः ॥
विराटपर्व - अध्याय 066
॥ श्रीः ॥
4.66. अध्यायः 066
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन भीतमुत्तरंप्रति समाश्वासनपूर्वकं दुर्योधनंप्रति रथयापनचोदना ॥ 1॥ तथा स्वबाणाभिघातासहनेन पलायमानं तंप्रति सोपहासमाह्वानम् ॥2 ॥Mahabharata - Virata Parva - Chapter Text
4-66-0 (31175)
अर्जुन उवाच। 4-66-0x (3253)
दक्षिणामेव तु दिशं हयानुत्तर वाहय।
पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम् ॥ 4-66-1 (31176)
अश्चत्थाम्नः प्रतिरथं प्राचीमुद्याहि सारथे ।
अचिराद्द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम् ॥ 4-66-2 (31177)
वैशम्पायन उवाच। 4-66-3x (3254)
मोहयित्वा तु तान्सर्वान्धनुर्घोषेण पाण्डवः।
प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत्तदा ॥ 4-66-3 (31178)
यथा सततगो वायुः सुपर्णश्चापि शीघ्रगः ।
तथा पार्थरथः शीघ्रमाकाशे पर्यवर्तत ॥ 4-66-4 (31179)
मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये ।
हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः ॥ 4-66-5 (31180)
द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः।
यत्ताः पार्थमपश्यन्तः सहिताः शरविक्षताः ॥ 4-66-6 (31181)
सैनिका ऊचुः । 4-66-7x (3255)
दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठमागतम्।
क्रोशमात्रमतिक्रम्य बलमन्वानयामहे।
यात यत्र वनं गुल्मं नदीमन्वश्मकां प्रति ॥ 4-66-7 (31182)
वैशम्पायन उवाच। 4-66-8x (3256)
अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे।
अमृष्यमाणः क्रोधेन प्रतिमार्गन्धनञ्जयम्॥ 4-66-8 (31183)
न्यवर्तत कुरुश्रेष्ठ स्वेनानीकेन संवृतः ।
वार्यमाणो दुराधर्षैर्भीष्मद्रोणकृपैर्भृशम् ॥ 4-66-9 (31184)
ततोऽर्जुनश्चित्रमुदारवेगं समीक्ष्य गाण्डीवमुवाच वाक्यम्।
भोगीन्द्रकल्पं भुवनेषु रूढमभेद्यमच्छेद्यमदाह्यमाजौ ॥ 4-66-10 (31185)
इदं त्विदानीमनयं कुरूणां शिवं धनुः शत्रुनिबर्हणं च।
अत्याशुगं वेगवदाशुकर्तृ अवारणीयं महते रणाय॥ 4-66-11 (31186)
प्रदारणं शत्रुवरूथिनीनामनीकजित्संयति वज्रकल्पम्।
वैधव्यदं शत्रुनितम्बिनीनां मुखप्रदं कौरववंशजानाम् ॥ 4-66-12 (31187)
प्रयाहि यत्रैष सुयोधनो हि तं पातयिष्यामि शरैः सुतीक्ष्णैः ।
आचार्यपुत्रं च सुयोधनं च पितामहं सूतसुतं च सङ्ख्ये ।
द्रोणं कृपं चैव निवार्य सर्वाञ्शिरो हरिष्यामि सुयोधनस्य ॥ 4-66-13 (31188)
वैशम्पायन उवाच। 4-66-14x (3257)
तदुत्तरश्चित्रमुदारवेगं धनुश्च दृष्ट्वा निशिताञ्शरांश्च।
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ॥ 4-66-14 (31189)
तमब्रवीन्मात्स्यसुतं प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता ।
मया सहायेन कुतो भयं ते प्रेह्युत्तराश्वानुपमन्त्रयस्व ॥ 4-66-15 (31190)
आश्वासितस्तेन धनञ्जयेन वैराटिरश्वानतुदञ्जवेन।
विष्फारयंस्तद्धनुरुग्रवेगं युयुत्समानः पुनरेव जिष्णुः ॥ 4-66-16 (31191)
गाण्डीवशब्देन तु तत्रतत्र भूमौ निषेदुर्बहवोऽतिवेलम्।
शङ्खस्य शब्देन तु वानरस्य शब्देन ते योधवराः समन्तात् ॥ 4-66-17 (31192)
अर्जुन उवाच। 4-66-18x (3258)
एषोऽतिमानी धृतराष्ट्रपुत्रः सेनामुखे सर्वसमृद्धतेजाः।
पराजयं नित्यममृष्यमाणो निवर्तते युद्धमनाः पुरस्तात्॥ 4-66-18 (31193)
तमेव याहि प्रसमीक्ष्य युक्तः सुयोधनं तत्र सहानुजं च ॥ 4-66-19 (31194)
वैशम्पायन उवाच। 4-66-20x (3259)
तमापतन्तं प्रसमीक्ष्य सर्वे कुरुप्रवीराः सहसाऽभ्यगच्छन्।
प्रहस्य वीरः स तु तानतीत्य दुर्योधने द्वौ निचखान बाणौ ॥ 4-66-20 (31195)
तेनार्दितो नाग इव प्रभिन्नः पार्थेन विद्धो धृतराष्ट्रपुत्रः ।
युयुत्समानोऽतिरथेन सङ्ख्ये स्वयं विगृह्यार्जुनमाससाद ॥ 4-66-21 (31196)
स भीमधन्वानमुदग्रवेगो धनञ्जयं शत्रुशतैरजेयम्।
आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये ॥ 4-66-22 (31197)
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंहितेन ।
रराज पार्थो रुधिरं क्षरन्वै यथैकरश्मिर्भगवान्दिवार्कः ॥ 4-66-23 (31198)
अथास्य बाणेन विदारितस्य प्रादुर्वभूवास्रमजस्रमुष्णम्।
सा तस्य जाम्बूनदपुष्पचित्रा मालेव धाराऽभिविराजते स्म ॥ 4-66-24 (31199)
स तेन बाणाभिहतस्तरस्वी दुयोधनेनोद्धतमन्युवेगः ।
शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्वः ॥ 4-66-25 (31200)
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः ।
अन्योन्यमाजौ पुरुषप्रवीरौ सम समाजघ्नतुराजमीढौ ॥ 4-66-26 (31201)
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः ।
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं पाण्डवमभ्यधावत् ॥ 4-66-27 (31202)
तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भललाटमध्ये।
आकर्णपूर्णेन दृढायसेन बाणेन विव्याध भृशं तु वीरः ॥ 4-66-28 (31203)
पार्थेन सृष्टः स तु गृध्रपत्रो ह्यापुङ्खदेशं प्रविवेश नागम्।
विदार्य शैलप्रवरप्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः ॥ 4-66-29 (31204)
शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा।
संसीदमानो निपपात भूमौ वज्राहतं शृङ्गमिवाचलस्य ॥ 4-66-30 (31205)
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसाऽवतीर्य ।
तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह ॥ 4-66-31 (31206)
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवरप्रकाशम्।
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद ॥ 4-66-32 (31207)
हते गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे ।
गाण्डीवमुक्तैर्विशिखैः प्रभिन्नास्ते योधमुख्याः सहसा प्रजग्मुः ॥ 4-66-33 (31208)
दृष्ट्वैव बाणेन हतं च नागं योधांश्च सर्वान्नृपतिर्निरीक्ष्य।
रथं समावृत्य कुरग्नवीरो रणात्प्रदुद्राव यतो न पार्थः ॥ 4-66-34 (31209)
तं भीतरूपं त्वरितं व्रजन्तं दुर्योधनं शत्रुगणावमर्दी ।
अन्वाह्वयद्योद्धुमनाः किरीटी बाणाभिविद्धं रुधिरं वमन्तम् ॥ 4-66-35 (31210)
तस्मिन्महेष्वासवरेऽतिविद्धे धनञ्जयेनाप्रतिमेन युद्धे।
सर्वाणि सैन्यानि भयार्दितानि त्रासं ययुः पार्थमुदीक्ष्य तानि ॥ 4-66-36 (31211)
ततस्तु ते शान्तिपराश्च सर्वे दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम्।
उच्चैर्नदन्तं बलमत्तमाजौ मध्ये स्थितं सिंहमिवर्षभाणाम् ॥ 4-66-37 (31212)
गाण्डीवशब्देन तु पाण्डवस्य योधा निपेतुः सहसा रथेभ्यः।
भयार्दिताः पार्थशराभितप्ताः सिंहाभिपन्ना इव वारणेन्द्राः ॥ 4-66-38 (31213)
संरक्तनेत्रः पुनरिन्द्रकर्मा वैकर्तनं द्वादशभिः पृषत्कैः।
वित्रास्य तेषां द्रवतां समैक्षद्दुःशासनं चैकरथेन पार्थः ॥ 4-66-39 (31214)
कर्णोऽब्रवीत्पार्थशराभितप्तो दुर्योधनं दुष्प्रसहं च दृष्ट्वा ।
दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं श्रेयो विधास्याम इतो गतेन ॥ 4-66-40 (31215)
मन्ये त्वया तात कृतं च कार्यं यदर्जुनोऽस्माभिरिहाद्य दृष्टः ।
भूयो वनं गच्छतु सव्यसाची पश्यामि पूर्णं समयं न तेषाम् ॥ 4-66-41 (31216)
वैशम्पायन उवाच। 4-66-42x (3260)
शरार्दितास्ते युधि पाण्डवेन प्रससुरन्योन्यमथाह्वयन्तः।
कर्णोऽब्रवीदापतत्येष जिष्णुर्दुर्योधनं संपरिवार्य यामः ॥ 4-66-42 (31217)
सर्वास्त्रविद्वारणयूथपाभः काले प्रहर्ता युधि शात्रवाणाम्।
अयं च पार्थः पुनरागतो नो मूलं च रक्ष्यं भरतर्षभाणाम् ॥ 4-66-43 (31218)
समीक्ष्य पार्थं तरसाऽऽपतन्तं दुर्योधनः कालमिवात्तशस्त्रम् ।
भयार्तरूपः शरणं प्रपेदे द्रोणं च कर्णं च कृपं च भीष्मम् ॥ 4-66-44 (31219)
तं भीतरूपं शरणं व्रजन्तं दुर्योधनं शत्रुसहो निषङ्गी।
इत्यब्रवीत्प्रीतमनाः किरीटी बाणाभितप्तं रुधिरं वमन्तम् ॥ 4-66-45 (31220)
विहाय कीर्तिं च यशश्च लोके युद्धात्परावृत्य पलायसे किम्।
न नन्दयिष्यन्ति तवाहतानि तूर्याणि युद्धादवरोपितस्य॥ 4-66-46 (31221)
न भोक्ष्यसे सोऽद्य महीं समग्रां यानानि वस्त्राण्यथ भोजनानि।
कल्याणगन्धीनि च चन्दनानि युद्धात्परावृत्य तु भोक्ष्यसे किम् ।
सुवर्णमाल्यानि च कुण्डलानि हारांश्च वैडूर्यकृतोपधानान् ॥ 4-66-47 (31222)
च्युतरा युद्धान्न तु शङ्खशब्दास्तथा भविष्यन्ति तवाद्य पाप।
न भोगहेतोर्वरचन्दनं च स्त्रियश्च मुख्या मधुरप्रलापाः ।
युद्धात्प्रयातस्य नरेन्द्रसूनो परे च लोके फलिता न चेह ॥ 4-66-48 (31223)
युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोस्मि।
तदर्थमावृत्य मुखं प्रयच्छनरेन्द्रवृत्तं स्मर धार्तराष्ट्रः ॥ 4-66-49 (31224)
मोघं तवैतद्भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात्।
दुर्योधनस्त्वं प्रथितोसि नाम्ना सुयोधनः सन्निकृतिप्रधानः । 4-66-50 (31225)
न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम्।
परीप्स युद्धेन कुरुप्रवीर प्राणान्मया बाणबलाभितप्तान् ॥ ॥ 4-66-51 (31226)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्षष्टितमोऽध्यायः ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-66-50 सुयोधनस्त्वं निकृतिप्रधान इति खo पाठः ॥ 50 ॥विराटपर्व - अध्याय 067
॥ श्रीः ॥
4.67. अध्यायः 067
Mahabharata - Virata Parva - Chapter Topics
सोपहासमर्जुनसमाहूतेन दुर्योधनेन पुनः परावृत्याभियानम् ॥ 1 ॥ भीष्मादिभिस्तद्रक्षणाय परितोऽवस्थानम् ॥ 2 ॥ अर्जुनेन तैः सह चिरं प्रयुध्य पश्चात्संमोहनास्त्रप्रयोगः ॥ 3 ॥ उत्तरेणार्जुनचोदनयाऽस्त्रमोहितानां द्रोणादीनां वस्त्रापहरणम् ॥ 4 ॥ अर्जुनेन बाणैर्भीष्माद्यभिवादनम् ॥ 5 ॥Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच ।
आहूयमानस्तु स तेन सङ्ख्ये महात्मना वै धृ
निवर्तितश्चापि गिराङ्कुशेन गजो मदोन्मत्त इवाङ्कुशेन ॥ 4-67-1 (31227)
सोमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी ।
ततः स पर्याववृते रथेन भोगी यथा पादतलाभिमृष्टः ॥ 4-67-2 (31228)
ततो दुर्योधनः क्रुद्धो विक्षिपन्धनुरुत्तमम्।
धृतिं कृत्वा सुविपुलां प्रत्युवाच पऩञ्जयम् ॥ 4-67-3 (31229)
सोहमिन्द्रादभिक्रुद्धान्न बिभेमीह भारत ।
भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च।
किमर्थं युद्धसमये पलापिष्ये नरोत्तम ॥ 4-67-4 (31230)
एवमुक्त्वा महाराजः प्रत्ययुध्यत भारत।
संन्यवर्तत शीघ्राश्वस्तोत्रार्दित इव द्विपः ॥ 4-67-5 (31231)
आक्रान्तभोगस्तेजस्वी धनुर्वक्र इवोरगः ।
रथं रथेन संगम्य योधयामास पाण्डवम् ॥ 4-67-6 (31232)
तं प्रेक्ष्य कर्णः परिवर्तमानं निवृत्य संस्तम्भितसर्वगात्रम् ।
दुर्योधनं दक्षिणतोऽन्वरक्षत्पार्थान्महाबाहुरधिज्यधन्वा ॥ 4-67-7 (31233)
गान्धारराजः शकुनिर्निवृत्य द्रौणिश्च सर्वास्त्रविदां वरिष्ठः ।
ररक्षतुः कौरवमभ्युपेत्य पार्थान्नृवीरौ युधि सव्यतश्च ॥ 4-67-8 (31234)
भीष्मस्ततः शान्तनवो विवृत्य हिरण्यकक्ष्यांस्त्वरया तुरंगान्।
दुर्योधनं पश्चिमतो ररक्ष पार्थान्महाबाहुरधिज्यधन्वा ॥ 4-67-9 (31235)
द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम्।
सर्वे पुरस्तात्प्रणिधाय बाणान्दुर्योधनार्थं त्वरिताऽभ्युपेयुः ॥ 4-67-10 (31236)
सर्वाण्यनीकानि निवर्तितानि संप्रेक्ष्य पूर्णौघनिभानि पार्थः ।
हंसो महामेघमिवापतन्तं धनञ्जयः प्रत्यपतत्तरस्वी ॥ 4-67-11 (31237)
ते सर्वतः संपरिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः ।
ववर्षुरभ्येत्य शरैः समग्रैर्मेघा यथा भूधरमम्बुवेगैः ॥ 4-67-12 (31238)
ततोऽस्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम्।
संमोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रमवारणीयम् ॥ 4-67-13 (31239)
ततो दिशश्चानुदिशो निवार्य शरैः सुघोरैर्निशितैः सुपुङ्खैः।
गाण्डीवशब्देन मनांसि तेषां महाबलं प्रवथयांचकार ॥ 4-67-14 (31240)
ततः पुनर्भीमरवं निगृह्य दोर्भ्यां महाशङ्खमुदारघोषम्।
व्यनादयन्संप्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता ॥ 4-67-15 (31241)
संमोहनास्त्रप्रभवैः शरौघैर्विनष्टदेहाश्च निपत्य योधाः ।
निःसत्ववेगाः कुरुराजसैन्याः कुडयोपमास्तस्थुरनीहमानाः ॥ 4-67-16 (31242)
ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन ।
उत्सृज्य चापानि दुरासदानि सर्वे तदा मोहपरा बभूवुः ॥ 4-67-17 (31243)
ततो विसंज्ञानि परेषु पार्थः संस्मृत्य संदेशमथोत्तरायाः ।
निर्याहि वाहादिति मात्स्यपुत्रमुवाच यावत्कुरवो विसंज्ञाः ॥ 4-67-18 (31244)
आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम्।
द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर ॥ 4-67-19 (31245)
भीष्मस्य संज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः।
एतस्य वाहान्कुरु सव्यतस्त्वमेवं प्रयातव्यममूढसंज्ञैः ॥ 4-67-20 (31246)
रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः ।
वस्त्राण्युपादाय महारथानां नानाविधान्यद्भुतवर्णकानि ॥ 4-67-21 (31247)
महान्ति चीनांशुदुकूलकानि पट्टांशुकानि विविधानि मनोज्ञकानि ।
हारांश्च राज्ञां मणिभूषणानि सुवर्णनिष्काभरणानि मारिष ॥ 4-67-22 (31248)
माणिक्यबाह्वङ्गदकङ्कणानि अन्यानि राज्ञां मणिभूषणानि।
वस्त्राण्युपादाय महारथानां तूर्णं पुनः खं रथमारुरोह ॥ 4-67-23 (31249)
राज्ञश्च सर्वान्कृतसंनिकाशान्संमोहनास्त्रेण विसंज्ञकल्पान् ।
नासाग्रविन्यस्तकराङ्गुलीकः पार्थो जहास स्मयमानचेताः ॥ 4-67-24 (31250)
ततोऽन्वशात्तांश्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् ।
ते तद्व्यतीयुर्द्विषतामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात् ॥ 4-67-25 (31251)
तथा प्रयान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी।
स चापि भीष्मस्य हयान्निहत्य विव्याध भीष्मं दशभिः पृषत्कैः ॥ 4-67-26 (31252)
ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वाऽस्य यन्तारमरिष्टधन्वा।
तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः ॥ 4-67-27 (31253)
लब्ध्वा तु संज्ञां पुरुषप्रवीरः पार्थं निरीक्ष्याथ महेन्द्रकल्पम् ।
रणात्प्रमुक्तं पुरुषप्रवीरं स धार्तराष्ट्रस्त्वरितो बभाषे ॥ 4-67-28 (31254)
अयं कथंचिद्भवतो विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत्।
तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्क वीर्यम् ॥ 4-67-29 (31255)
शान्तिं परां प्राप्य यथा स्थितस्त्वमुत्सृज्य बाणांश्च धनुश्च चित्रम् ।
न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम् ॥ 4-67-30 (31256)
जह्यान्न धर्मं त्रिदिवस्य हेतोः सर्वे तु तस्मान्न हता रणेऽस्मिन्।
क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः ॥ 4-67-31 (31257)
संमोहनास्त्रप्रतिमोहिताः स्थ यूयं न जानीथ धनापहारम्।
पश्यामि वस्त्राभरणानि राजन्विराटपुत्रेण समाहृतानि ॥ 4-67-32 (31258)
नृपेषु सर्वेषु च मोहितेषु हन्तुं यदीच्छेत्स हनिष्यतीति।
तदा तु धर्मात्मतया नृवीरो न चाहनद्वो बलभित्तनूजः ॥ 4-67-33 (31259)
भाग्येन युष्मानवधीन्न पार्थः संधिं कुरूणामनुमन्यमानः ।
तद्यात यूयं सहसैनिकैस्तैर्हतावशिष्टैर्गजसाह्वयं पुरुम् ॥ 4-67-34 (31260)
वैशम्पायन उवाच। 4-67-35x (3261)
दुर्योधनस्तस्य निशम्य वाक्यं पितामहस्यात्महितं प्रशस्य।
अतीतकामो युधि सोऽत्यमर्षी राजा विनिश्वस्य बभूव तूष्णीम् ॥ 4-67-35 (31261)
तद्भीष्मवाक्यं हि निशम्य सर्वे धनञ्जयाग्निं च विवर्धमानम्।
निवर्तनायैव मतिं निदध्युर्दुर्योधनं तं परिरक्षमाणाः ॥ 4-67-36 (31262)
तान्प्रस्थितान्प्रीतमनाः समर्थो धनञ्जयः सर्वकुरुप्रवीरः ।
आमन्त्र्य वीरोऽनुययौ मुहूर्तं गाण्डीवघोषेण विनद्य लोकम् ॥ 4-67-37 (31263)
तेषामनीकानि निरीक्ष्य पार्थो विकीर्णयानध्वजकार्मुकाणि।
गाण्डीवधन्वा प्रहसन्कुरूणां शङ्ख प्रदध्मौ बलवान्बलेन ॥ 4-67-38 (31264)
ते शङ्खशब्दं तुमुलं निशम्य ध्वजस्य शब्दं च ततोऽन्तरिक्षे।
गाण्डीवशब्देन मुहुर्मुहुस्ते भीता ययुः सर्वधनं विहाय ॥ 4-67-39 (31265)
तानर्जुनो दूरतरं विभज्य धनं च सर्वं निखिलं निवर्त्य ।
आपृच्छ्य तान्दूरमनुप्रयात्वा धनञ्जयस्तत्र कुरून्महात्मा।
गुरूंश्च सर्वानभिवाद्य बाणैर्न्यवर्ततोदग्रमनाः शरैः सह ॥ 4-67-40 (31266)
पितामहं शान्तनवं महात्मा द्वाभ्यां शराभ्यामभिवाद्य वीरः।
द्रोणं कृपं चैव कुरूंश्च मान्याञ्शरैश्च सर्वानभिवाद्य सङ्ख्ये।
दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मकुटं शरौघैः ॥ 4-67-41 (31267)
अराजवंशस्य किमर्थमेतन्नित्यं न धार्यं मकुटं त्वयेति।
संपातितं भूमितले सरत्नं प्रीतस्तुतो मात्स्यसुतो बभूव ॥ 4-67-42 (31268)
धनञ्जयं नागमिव प्रभिन्नं विजित्य शत्रून्परिवर्तमानम्।
गास्ता विजित्याभिमुखं प्रयान्तं न शक्नुवन्तः कुरवः प्रयाताः ॥ 4-67-43 (31269)
धनञ्जयं सिंहमिवात्तशस्त्रं गा वै विजित्याभिमुखं प्रयान्तम् ।
उदीक्षितुं पार्थिवास्ते न शेकुर्यथैव मध्याह्नगतं हि सूर्यम् ॥ 4-67-44 (31270)
रक्तानि वासांसि च तानि गृह्य रणोत्कटो नाग इव प्रभिन्नः।
जित्वा च वैराटिमुवाच पार्थः प्रहृष्टरूपो रथिनां वरिष्ठः ॥ 4-67-45 (31271)
आवर्तयाश्वान्पशवो जितास्ते याताः परे प्रैहि पुरं प्रहृष्टः ।
उद्धुष्यतां ते विजयोऽद्य शीघ्रं गात्रं तु ते सेवतु माल्यगन्धः ।
माता तु ते नन्दतु बान्धवाश्च त्वामद्य दृष्ट्वा समुदीर्णहर्षम् ॥ ॥ 4-67-46 (31272)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तष्टितमोऽध्यायः ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-67-11 पूर्णौघनिभानि पूर्वनदीप्रवाहसदृशानि ॥ 11 ॥ 4-67-16 अनीहमानाः अचेष्टमानाः ॥ 16 ॥ 4-67-18 यावद्विसंज्ञास्तावन्निर्याहीत्यध्याहारेण योजना ॥ 18 ॥ 4-67-19 आदस्त्व गृहाण ॥ 19 ॥ 4-67-20 अमूढसंज्ञैः अस्माभिरिति शेषः । सव्यतस्त्वमेवं हि धममाहुर्जितस्येति धo पाठः ॥ 20 ॥ 4-67- 25 संनिकाशान् कृतं कृतकं प्रतिमादि निश्चेष्टतया तत्सदृशानित्यर्थः ॥ 25 ॥ 4-67-45 हिमत्वा च वैराटिमुवाचेति पाठान्तरम् ॥ 45 ॥विराटपर्व - अध्याय 00
॥ श्रीः ॥
4.68. अध्यायः 00
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेनोत्तरंप्रति युधिष्ठिरादितत्वप्रकाशनप्रतिषेधनम् ॥ 1 ॥ तथा श्मशानमेत्य शमीतरौ गाण्डिवादिनिधानपूर्वकं पुनर्बृहन्नलावेषपरिग्रहेण सारथ्यकरणम् ॥ 2 ॥ उत्तरेणार्जुनचोदनया स्वजयोद्धोषणाय नगरंप्रति दूतप्रेषणम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-68-0 (31273)
वैशम्पायन उवाच। 4-68-0x (3262)
ततो विजित्य संग्रामे कुरुगोवृषभेक्षणः।
समानयामास तदा विराटस्य धनं महत् ॥ 4-68-1 (31274)
मतषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः।
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः ।
भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः ॥ 4-68-2 (31275)
मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा।
क्षुत्पिणसापरिश्रान्ता विदेशस्था विचेतसः ।
ऊचुः प्राञ्जलयः सर्वे पार्थ किं करवामहे ॥ 4-68-3 (31276)
प्राणानन्तर्मनोयातान्प्रयाचिष्यामहे वयम्।
वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः ॥ 4-68-4 (31277)
अर्जुन उवाच। 4-68-5x (3263)
अनाथान्दुःखितान्दीनान्कृशान्वृद्धान्पराजितान्।
न्यस्तशस्त्रान्निराशांश्च नाहं हन्मि कृताञ्जलीन् ॥ 4-68-5 (31278)
भवन्तो यान्तु विस्रब्धा निर्भया अमृता यथा।
मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि ॥ 4-68-6 (31279)
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः ।
आयुः कीर्तियशोभिस्ते तमाशीर्भिरवर्धयन् ॥ 4-68-7 (31280)
ततो निवृत्ताः कुरवो यग्नाश्च दिवमास्थिताः ।
प्रयाताः सर्वतस्तत्र नमस्कृत्य धनञ्जयम् ॥ 4-68-8 (31281)
एवं दत्ताभयास्तेन ततो याताः कुरून्प्रति ॥ 4-68-9 (31282)
स कर्म कृत्वा परमार्यकर्मा निहत्य शत्रून्द्विषतां निहन्ता।
यातो महामेघ इवातपान्ते विद्राव्य पार्थः कुरुसैन्यमेकः ॥ 4-68-10 (31283)
तं मात्स्यपुत्रं द्विषतां निहन्ता वचोऽब्रवीत्संपरिगृह्य राजन् ॥ 4-68-11 (31284)
पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं त्वयेति।
तान्मास्म शंसीर्नगरं प्रविश्य भीतः प्रणश्येत्स च मत्स्यराजः ॥ 4-68-12 (31285)
मया जिता सा ध्वजिनी कुरूणां मया हि गावो विजिता द्विषद्भ्यः ।
एवं तु कामं नगरं प्रविश्य त्वमात्मना कर्म कृतं ब्रवीहि ॥ 4-68-13 (31286)
र उवाच । 4-68-14x (3264)
यत्ते कृतं कर्म न वारणीयं तत्कर्म कर्तुं मम नास्ति शक्तिः।
न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन् ॥ 4-68-14 (31287)
पायन उवाच। 4-68-15x (3265)
स शत्रुसेनां तरसा विजित्य आच्छिद्य सर्वं तु धनं कुरूणाम्।
श्मशानमागम्य पुनः शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः ॥ 4-68-15 (31288)
ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात।
तथा च माया विहिता बभूव सा ध्वजं च सिंहं युयुजे रथे पुनः ॥ 4-68-16 (31289)
निधाय तच्चायुधमाजिमर्दनः कुरूत्तमानामिषुधीन्ध्वजांस्तथा।
प्रायात्स मात्स्यो नगरं प्रवेष्टुं किरीटिना सारथिना महात्मा ॥ 4-68-17 (31290)
पार्थश्च कृत्वा परमार्यकर्म निहत्य शत्रून्द्विषतां निहन्ता।
विधाय भूयश्च तथैव वेषं जग्राह रश्मीन्पुनरुत्तरस्य।
बृहन्नलारूपमथो विधाय प्रायात्य मात्स्यो नगरं प्रवेष्टुम् ॥ 4-68-18 (31291)
वैशम्पायन उवाच। 4-68-19x (3266)
ततो निवृत्ताः कुरवः प्रभग्नाः शममास्थिताः ।
परस्परमवेक्ष्यैव जग्मुस्ते हृतवाससः ॥ 4-68-19 (31292)
पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत्।
राजपुत्र प्रपद्यस्व धनानीमानि सर्वशः।
गोकुलानि महाबाहो वीरगोपालकैः सह ॥ 4-68-20 (31293)
ततोऽपराह्णे यास्यामो विराटनगरं प्रति।
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः। 4-68-21 (31294)
गच्छन्तु त्वरितं दूता गोपालाः प्रेषितास्त्वया।
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ 4-68-22 (31295)
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः।
वचनादर्जुनस्यैव ह्याचक्षध्वं जयं मम ॥ 4-68-23 (31296)
4-68-24 (31297)
मया जिता सा ध्वजिनी कुरुणं
मया च गावो विजिता द्विषद्भ्यः।
एवं तु कामं नगरं प्रविश्य
मयाऽऽत्मना कर्म कृतं ब्रवीत ॥
विराटपर्व - अध्याय 069
॥ श्रीः ॥
4.69. अध्यायः 069
Mahabharata - Virata Parva - Chapter Topics
विराटेन युधिष्ठिरादिभिः सह सुशर्मादिजयानन्तरं पुसंप्रत्यागमनम् ॥ 1॥ तथा उत्तरस्य कुरुविजयाय सहबृहन्नलया गमनश्रवणेन तद्रक्षणाय सेनाचोदना ॥ 2 ॥ अत्रान्तरे विराटाय दूतैरुत्तरजनिवेदनम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-69-0 (31298)
वैशम्पायन उवाच। 4-69-0x (3267)
स विजित्य धनं चापि विराटो वाहिनीपतिः।
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥ 4-69-1 (31299)
जित्वा त्रिगर्तान्संग्रामे गाश्चैवानाय्य केवलाः।
अशोभत महाराजः सह पार्थैः श्रिया वृतः ॥ 4-69-2 (31300)
तमासनगत वीरं सुहृदां प्रीतिवर्धनम् ।
तपतस्थुः प्रकृतयः समन्ताद्ब्राह्मणैः सह ॥ 4-69-3 (31301)
सभाजितः सभासद्भिः प्रतिनन्द्य स मत्स्यराट् ।
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥ 4-69-4 (31302)
ततः स राजा मात्स्यानां विराटो वाहिनीपतिः।
प्रविश्यान्तःपुरं रम्यं स्त्रीशतैरुपशोभितम्।
उत्तरं तत्र नापश्यत्क्व यात इति चाब्रवीत् ॥ 4-69-5 (31303)
आचख्युस्तत्र संहृष्टाः स्त्रियः कन्याश्च वेश्मनि।
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥ 4-69-6 (31304)
ताञ्जेतुमभिसंरब्ध एक एवातिसाहसात् ।
बृहन्नलासहायश्च निर्यातः पृथिवींजयः ॥ 4-69-7 (31305)
उपयातानतिरथान्द्रोणं शान्तनवं कृपम्।
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥ 4-69-8 (31306)
ततो विराटः परमाभितप्तः
पुत्रं निशम्यैकरथेन यातम्।
बृहन्नलासारथिमाजिमर्दनं
प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥ 4-69-9 (31307)
गवां शतसहस्राणि उभिभूय ममात्मजम्।
कुस्वः कालयन्ति स्म सर्वे युद्धविशारदाः ॥ 4-69-10 (31308)
तस्माद्गच्छतु मे योधा बलेन महता वृताः।
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥ 4-69-11 (31309)
वैशम्पायन उवाच। 4-69-12x (3268)
हयांश्च नागांश्च रथांश्च शीघ्रं
वादित्रसङ्घांश्च ततः प्रभूतान्।
प्रस्थापयामास सुतस्य हेतो-
र्विचित्रचित्राभरणोपपन्नान् ॥ 4-69-12 (31310)
एवं स राजा मात्स्यानां महानक्षोहिणीपतिः।
व्यादिदेशाथ स क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥ 4-69-13 (31311)
कुमारमाशु जानीत यदि जीवति वा नवा।
यस्य यन्ता गतः षण्डो मन्येऽहं स न जीवति ॥ 4-69-14 (31312)
तमब्रवीद्धर्मसुतो विराट-
मार्तं विदित्वा कुरुभिः प्रतप्तम्।
बृहन्नला सारथिश्चेन्नरेन्द्र
परे न नेष्यन्ति तवाद्य गाश्च ॥ 4-69-15 (31313)
सर्वान्महीपान्सहितान्कुरूंश्च
तथैव देवासुरनागयक्षान्।
अलं विजेतुं समरे सुतस्ते
अनुष्ठितः सारथिना हि तेन ॥ 4-69-16 (31314)
सर्वथा कुरवश्चापि ये चान्ये वसुधाधिपाः ।
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कथंचन ॥ 4-69-17 (31315)
वैशम्पायन उवाच। 4-69-18x (3269)
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः ।
विराटनगरं प्राप्य जयं प्रावेदयंस्तदा ॥ 4-69-18 (31316)
राजानं वृतमाचख्युर्मन्त्रिभिर्जयमुत्तमम् ।
पराजयं कुरूणां च उपायान्तं तथोत्तरम् ॥ 4-69-19 (31317)
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः।
उत्तरः सह सूतेन कुशली च परंतपः ॥ 4-69-20 (31318)
कङ्क उवाच। 4-69-21x (3270)
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः।
दिष्ट्या ते विजयी पुत्रः श्रूयते पार्थिवर्षभः ॥ 4-69-21 (31319)
नाद्भुतं त्विह मन्येऽहं यत्ते पुत्रोऽजयत्कुरून्।
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला॥ 4-69-22 (31320)
देवेन्द्रसारथिश्चैव मातलिः ख्यातविक्रमः ।
कृष्णस्य सारथिश्चैव न बृहन्नलया समौ ॥ 4-69-23 (31321)
वैशम्पायन उवाच। 4-69-24x (3271)
ततो विराटो नृपतिः संप्रहृष्टतनूरुह।
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः।
संतोषयित्वा दूतांस्तान्धनरत्नैश्च सर्वशः ॥ 4-69-24 (31322)
गते त्वनुजने तस्मिन्दूतवाक्यं निशम्य च।
उत्तरस्य जयात्प्रीतो विराटः प्रत्यभाषत ॥ 4-69-25 (31323)
राजमार्गाः क्रियन्तां वै पताकाभिरलंकृताः।
पुष्पोपहारैरर्च्यतां देवताश्चापि सर्वशः ॥ 4-69-26 (31324)
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः।
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥ 4-69-27 (31325)
भवन्तु ते लब्धजये सुते मे
पौराश्च मर्त्याश्च परे च नार्यः ।
ते शुक्लवस्त्राः प्रभवन्तु मार्गे
सुगन्धमाल्याभरणाश्च नार्यः ॥ 4-69-28 (31326)
भजन्तु सर्वा गणिकाः सुतं मे
नार्यश्च कन्याः सहसैनिकाश्च ।
स्वलंकृतास्ताः सुभगाः सुवेषाः
पुत्रस्य पन्थानमनुव्रजन्तु ॥ 4-69-29 (31327)
घण्टापणवकाः शीघ्रं मत्तमारुह्य कुञ्जरम्।
शृङ्गाटकेषु सर्वेषु समाख्यान्तु जयं मम्॥ 4-69-30 (31328)
उत्तरा च कुमारीभिर्बह्वाभरणभूषिता।
सखीं विजितसंग्रामां प्रत्युद्यातु बृहन्नलाम् ॥ 4-69-31 (31329)
श्रुत्वा तु वचनं तस्य पार्थिवस्य महात्मन।
तथैव चक्रुः संहृष्टाः पौराः स्वस्तिकपाणयः ॥ 4-69-32 (31330)
मूताश्च सर्वे सहमागधाश्च
हृष्टा विराटस्य पुरे जनौघाः ।
भेर्यश्च तूर्याणि च वारिजाश्च
वेपैः परार्ध्यैः प्रमदाजनाश्च ॥ 4-69-33 (31331)
वन्दिप्रवादाः पणवादिकाश्च
तथैव वाद्यानि च वंशशब्दाः ।
कांस्यं सतालं मधुरं च गीत-
मादाय नार्यो नगरान्निरीयुः ॥ 4-69-34 (31332)
प्रत्युद्ययुः पुत्रमनन्तवीर्यं
ते ब्राह्मणाः शान्तिपराः प्रधानाः ।
स्वाध्यायवेदाध्ययनक्रमज्ञाः
स्वस्तिक्रियागीतजपप्रधानाः ॥ ॥ 4-69-35 (31333)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनसप्ततितमोऽध्यायः ॥
विराटपर्व - अध्याय 070
॥ श्रीः ॥
4.70. अध्यायः 070
Mahabharata - Virata Parva - Chapter Topics
उत्तरजयश्रवणहृष्टेन विराटेन युधिष्ठिरेण सह द्यूतदेवनम् ॥ 1 ॥ विराटेनोत्तरप्रशंसने कङ्केन बृहन्नलया कुरुपराजयकथनम् ॥ 2 ॥ ततो रुष्टेन विराटेन कङ्कस्य कर्णमूलेऽक्षेणाभिहननम् ॥ 3 ॥ सैरन्ध्र्या क्षतात्प्रस्रवतो रक्तस्य निजोत्तरीयेण ग्रहणम् ॥ 4 ॥ तथा विराटेन तद्ग्रहणकारणप्रश्ने तत्कथनम् ॥ 5 ॥Mahabharata - Virata Parva - Chapter Text
4-70-0 (31334)
वैशम्पायन उवाच । 4-70-0x (3272)
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः।
मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत् ॥ 4-70-1 (31335)
व्रिगर्ताः कुरवः सर्वे संग्रामे निर्जिता मया।
प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण ॥ 4-70-2 (31336)
अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय।
आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव ॥ 4-70-3 (31337)
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभापत।
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥ 4-70-4 (31338)
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे ।
प्रियं तु ते चिकीर्पामि वर्ततां यदि रोचते।
द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि ॥ 4-70-5 (31339)
विराट उवाच। 4-70-6x (3273)
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन।
न मे किंचित्त्वया कार्यमन्तरेणापि देवितम् ॥ 4-70-6 (31340)
कङ्क उवाच। 4-70-7x (3274)
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद।
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥ 4-70-7 (31341)
श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः ।
स राज्यं धनमक्षय्यं पणमेकममन्यत ॥ 4-70-8 (31342)
कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान्।
निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः ॥ 4-70-9 (31343)
विविधानां च रत्नानां धनानां च पराजये।
अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम् ॥ 4-70-10 (31344)
अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम्।
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये ॥ 4-70-11 (31345)
अथवा मन्यसे राजन्दीव्याव यदि रोचते।
एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ ॥ 4-70-12 (31346)
प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत् ॥ 4-70-13 (31347)
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ।
कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः ॥ 4-70-14 (31348)
ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः।
दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः ॥ 4-70-15 (31349)
अत्यद्भुततमं मन्ये उत्तरश्चेत्कूरूञ्जयेत्।
यन्ता बृहन्नला यस्य स कथंचिद्विजेष्यते ॥ 4-70-16 (31350)
ततो विराटः क्षुभितो मन्युना च परिप्लुतः।
उवाच वचनं क्रुद्धः परिव्राजमनन्तरम् ॥ 4-70-17 (31351)
तादृशेन तु योधेन महेष्वासेन धीमता।
कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम् ॥ 4-70-18 (31352)
युधिष्ठिर उवाच। 4-70-19x (3275)
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥ 4-70-19 (31353)
विराट उवाच। 4-70-20x (3276)
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥ 4-70-20 (31354)
पुमांसो बहवो दृष्टाः सूताश्च बहवो मया।
विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन ॥ 4-70-21 (31355)
विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत्।
आचरन्विप्रियं राज्ञां न जातु सुखमेधते ॥ 4-70-22 (31356)
वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे।
नेदृशीं प्रवदर्वाचं यदि जीवितुमिच्छसि ॥ 4-70-23 (31357)
वैशम्पायन उवाच। 4-70-24x (3277)
ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः ।
बृहन्नलाया सजेन्द्र धुष्यतां नगरे जयः ॥ 4-70-24 (31358)
उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति।
निमित्तं किंचिदुत्पन्नं तर्कश्चापि दृढो मम।
यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति ॥ 4-70-25 (31359)
कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः।
ससोमवरुणादित्यैः सयक्षेशहुताशनैः ॥ 4-70-26 (31360)
यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ।
अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः ॥ 4-70-27 (31361)
भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान्।
दुर्योधनो दुष्प्रसहो दुःशासनविविंशती ॥ 4-70-28 (31362)
वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ ।
बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः ॥ 4-70-29 (31363)
सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट् ।
अन्ये च बहवः शूरा नानाजनपदेश्वराः ॥ 4-70-30 (31364)
कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः।
सञ्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः।
अन्ये चैव महावीर्या राजपुत्रा महारथाः ॥ 4-70-31 (31365)
मरुद्गणैः परिवृतः साक्षादपि पुरंदरः ।
तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम् ॥ 4-70-32 (31366)
कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति।
यस्य बाहुबले तुल्यो न भविष्यति कश्चन ॥ 4-70-33 (31367)
अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते।
किमेवं पुरुषो लोको दिवि वा भुवि विद्यते ॥ 4-70-34 (31368)
वैशम्पायन उवाच। 4-70-35x (3278)
तेन संक्षुभितो राजा दीर्यमाणेन चेतसा ।
अब्रवीद्वचनं क्रूरमजानन्वै युधिष्ठिरम्॥ 4-70-35 (31369)
कङ्ख मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम ।
बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि ॥ 4-70-36 (31370)
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत्।
इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम् ॥ 4-70-37 (31371)
तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम्।
विराटः प्राहनत्क्रुद्धः कर्णमाश्रित्य दक्षिणम् ॥ 4-70-38 (31372)
मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन्।
बलवत्प्रतिविद्धस्य नस्तः शोणितमास्रवत् ॥ 4-70-39 (31373)
अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः ।
तूष्णीमासीन्महाबाहुः कृष्णां पश्यन्सुदुःखिताम् ॥ 4-70-40 (31374)
तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा।
प्रावर्तत महाबाहोरभिघातान्महात्मनः ॥ 4-70-41 (31375)
तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत्।
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ॥ 4-70-42 (31376)
सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा।
सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा ॥ 4-70-43 (31377)
बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी ।
उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम् ॥ 4-70-44 (31378)
निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता।
सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत् ।
युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा ॥ 4-70-45 (31379)
विराट उवाच। 4-70-46x (3279)
सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते।
कोत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः ॥ 4-70-46 (31380)
सैरन्ध्र्युवाच। 4-70-47x (3280)
रक्तबिन्दनि यावन्ति कङ्कस्य धरणीतले।
तावद्वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति॥ 4-70-47 (31381)
एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया।
गृहीतमुत्तरीयेण विनाशो मा भवेत्तव ॥ 4-70-48 (31382)
यतीशं यो विहन्येत तस्यायुर्विनशिष्यति।
यो यतीशं नियम्येत सहस्रं यातना यमे ॥ 4-70-49 (31383)
यतौ रक्तं दर्शयति यावत्पांसुरगृह्यत।
तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः ॥ 4-70-50 (31384)
इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा।
मया तव हितार्थाय त्वयि प्रणयकारणात् ॥ ॥ 4-70-51 (31385)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्ततितमोऽध्यायः ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-70-10 धनानां च विना..... वाक्पारुष्यं चाभवदिति शेषपूरणेन योजना ॥ 10 ॥ 4-70-19 किं किमपि ॥ 19 ॥ 4-70-47 धरणीतले पतेयुरिति शेषः ॥ 47 ॥ 4-70-48 नियम्येत नियमयेत् तस्येति शेषः ॥ 49 ॥ 4-70-50 अगृह्यत गृह्येत रक्तेनेति ॥ 50 ॥ 4-70-51 इतीममर्थम् ॥ 51 ॥विराटपर्व - अध्याय 071
॥ श्रीः ॥
4.71. अध्यायः 071
Mahabharata - Virata Parva - Chapter Topics
अर्जुनकुरुयुद्धदिदृक्षया समागतैर्देवैरर्जुनं श्लाघमानैः सद्भिः पुनः स्वर्गंप्रति गमनम् ॥ 1 ॥ उत्तरेण सवादिन्नगोषं पौरैः प्रत्युद्गम्यमानेन स्वनगरप्रवेशनम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-71-0 (31386)
जनमेजय उवाच। 4-71-0x (3281)
युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा।
किमकुर्वन्त ते पश्चात्कथयस्व ममानघ ॥ 4-71-1 (31387)
वैशम्पायन उवाच। 4-71-2x (3282)
वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः।
यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा ॥ 4-71-2 (31388)
युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च।
एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम् ॥ 4-71-3 (31389)
अस्त्राणामथ दिव्यानां प्रयोगानथ संग्रहान्।
लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः ॥ 4-71-4 (31390)
भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना।
जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः ॥ 4-71-5 (31391)
सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः।
असङ्गतिना तेन विमानेनाशुगामिना।
प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः ॥ 4-71-6 (31392)
[*कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः।
अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः ।
पार्थेनैकेन संग्रामे विस्मयो नो महानहो ॥ 4-71-7 (31393)
कस्मिन्मुहूर्ते संजातः कस्य धर्मस्य वा फलम् ॥ 4-71-8 (31394)
किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत्।
निवातकवचानाजौ यस्त्रिंशत्कोटिसंमितान् ॥ 4-71-9 (31395)
तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः ।
जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ॥] 4-71-10 (31396)
कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः ।
कुरूनभिमुखां याताः समग्रबलवाहनाः ॥ 4-71-11 (31397)
विराटनगराच्चैव गजाश्वरथसंकुलाः ।
योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः ॥ 4-71-12 (31398)
विराटप्रहिता सेना नगराच्छीघ्रयायिनी ।
उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम् ॥ 4-71-13 (31399)
तस्मिंस्तूर्यशताकीर्णे हस्त्यश्चरथसंकुले ।
प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत ॥ 4-71-14 (31400)
अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम् ।
सैन्यध्वजं निशम्याथ वैराटिं समभाषत॥ 4-71-15 (31401)
नगरे तुमुलः शब्दो रेणुश्चाक्रमते नभः।
किंनु खल्वपयातास्ते कुरवो नगरं गताः ॥ 4-71-16 (31402)
ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः ।
आमुञ्च कवचं वीर चोदयस्व च वाजिनः ।
जवेनाभिप्रपद्यस्व विराटनगरं प्रति ॥ 4-71-17 (31403)
न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम् ।
ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत् ॥ 4-71-18 (31404)
उत्तर उवाच। 4-71-19x (3283)
सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलंकृताः।
कन्या रथेषु दृश्यन्ते योधा विविधवाससः ॥ 4-71-19 (31405)
उत्तरामत्र पश्यामि सखीभिः परिवारिताम्।
अनीकिन्यः प्रदृश्यन्ते हस्तिनोश्वाश्च वर्मिताः ॥ 4-71-20 (31406)
रथिनश्च पदाताश्च बहवो न च शस्त्रिणः।
विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे।
न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा ॥ 4-71-21 (31407)
वैशम्पायन उवाच। 4-71-22x (3284)
ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु।
परस्परममित्रघ्नं सस्वजे तं समागतम् ॥ 4-71-22 (31408)
जना ऊचुः। 4-71-23x (3285)
प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः ।
दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नलाः।
दिष्ट्या संग्राममागम्य भयं तव न किंचन ॥ 4-71-23 (31409)
उत्तर उवाच। 4-71-24x (3286)
अजैषीदेष जाञ्जिष्णुः कुरूनेकरथो रणे।
एतस्यक बाहुवीर्यं तद्येन गावो जिता मया।
कुरवो निर्जिता यस्मात्सग्रामेऽमिततेजसः ॥ 4-71-24 (31410)
अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा।
एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम्।
गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् ॥ 4-71-25 (31411)
वैशम्पायन उवाच। 4-71-26x (3287)
उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम्।
चोदिता राजपुत्रेण जयं मङ्गलवादिनः ॥ 4-71-26 (31412)
ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसंभृतैः ।
कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन् ॥ 4-71-27 (31413)
आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः ।
संपूज्यमानो लोकेन नगरद्वारमागमत् ॥ 4-71-28 (31414)
भेर्यश्च तूर्याणि च वेणवश्च
विचित्रवेषाः प्रमदाजनाश्च।
पुरो विराटस्य महाबलस्य
निष्क्रम्य भूमिंजयमभ्यनन्दनम् ॥ 4-71-29 (31415)
प्रशस्यमानस्तु जयेन तत्र
पुत्रो विराटस्य न हृष्यति स्म।
संभाष्यमाणस्तु जयेन तत्र
सोऽन्तर्मनाः पाण्डवमीक्षमाणः ॥ 4-71-30 (31416)
पुत्र्यै विराटस्य ततो वराणि
वस्त्राण्यदात्पाण्डुसुतः सखीभ्यः।
सभाजयंश्चापि समागतास्ता
दृष्ट्वा जयं तच्च बलं कुमार्यः ॥ ॥ 4-71-31 (31417)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकसप्ततितमोऽध्यायः ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-71-7 *इमे श्लोकाः थo पुस्तकमात्रे वर्तन्ते।विराटपर्व - अध्याय 072
॥ श्रीः ॥
4.72. अध्यायः 072
Mahabharata - Virata Parva - Chapter Topics
उत्तरेण राजाभ्यनुज्ञयाऽन्तःपुरमेत्य तदभिवादनम् ॥ 1 ॥ युधिष्ठिरघ्रणावलोकनभीतोत्तरचोदनया विराटेन युधिष्ठिरक्षमापनम् ॥ 2 ॥ ततोऽर्जुनस्यान्तःप्रवेशः ॥ 3 ॥ उत्तरस्यैव जेतृत्वभ्रमहृष्टेन विराटेन तत्प्रशंसनम् ॥ 4 ॥ तेन तंतपि कस्यचिद्देवपुत्रस्यैव जेतृत्वकथनम् ॥ 5 ॥ ततोऽर्जुनेनोत्तराप्रभृतिभ्यः कुरुवस्त्रप्रदानम् ॥ 6 ॥Mahabharata - Virata Parva - Chapter Text
4-72-0 (31418)
वैशम्पायन उवाच। 4-72-0x (3288)
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैरपि।
आसाद्यान्तःपुरद्वारं पित्रे संप्रत्यवेदयत् ॥ 4-72-1 (31419)
ततो द्वाःस्थः समासाद्य प्रणिपत्य कृताञ्जलिः ।
वर्धयित्वा जयाशीर्भिरिदं वचनमब्रवीत्॥ 4-72-2 (31420)
राजन्पृथुयशस्तुभ्यं जित्वा शत्रून्समागतः।
उत्तरः सह सूतेन द्वारि तिष्ठति वारितः ॥ 4-72-3 (31421)
कुमारो योधमुख्यैस्च गणिकाभिस्च संवृतः ।
पौरजानपदैर्युक्तः पूज्यमानो जयाशिषाः ॥ 4-72-4 (31422)
ततो हृष्टो महीपालः क्षत्तारमिदमब्रवीत् ।
प्रवेशयोभौ तौ तूर्णं दर्शनेप्सुरहं तयोः ॥ 4-72-5 (31423)
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्।
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नलाः॥ 4-72-6 (31424)
तस्य हि महाबाहोर्व्रतं नित्यं महात्मनः।
यो ममाङ्गे व्रणं कुर्याच्छोणितं वा प्रदर्शयेत्।
अन्यत्र संग्रामगतान्न स जीवेत्कथंचन ॥ 4-72-7 (31425)
व्यक्तं भृसं सुसंक्रुद्धो मां दृष्ट्वैव सशोणितम्।
विराटमिह सामात्यं हन्यात्सबलावाहनम् ॥ 4-72-8 (31426)
इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा।
मम शोणितकर्तारं मृद्गीयात्किं पुनर्नरम् ॥ 4-72-9 (31427)
क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान् ।
इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः ॥ 4-72-10 (31428)
इत्युक्त्वा क्षमया युक्तो धर्मराजो घृणान्वितः।
सभायां सह मात्स्येन तूष्णीमुपविवेश ह ॥ 4-72-11 (31429)
ततो राजसुतो ज्येष्ठः प्राविशत्पृथिवींजयः।
ववन्दे स पितुः पादौ कङ्कं चाप्युपतिष्ठत ॥ 4-72-12 (31430)
पश्यन्युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः।
अभिवाद्य ततो दृष्ट्वा कङ्कस्य रुधिरप्लुतम् ।
हृदयेऽदह्यत तदा मृत्युग्रस्त इवोत्तरः ॥ 4-72-13 (31431)
ततो रुधिरसिक्ताङ्गमनेकाग्रमनागसम्।
भूमावेकान्त आसीनं सैरन्ध्र्या समुपासितम्।
ततः पप्रच्छ राजानं त्वरमाण इवोत्तरः ॥ 4-72-14 (31432)
केनायं ताडितः कङ्कः केन पापमिदं कृतम्।
को वा जिगमिषुर्मृत्युं केन स्पृष्टः पदोरगः ॥ 4-72-15 (31433)
श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः।
पूजनीयोऽभिवाद्यश्च न प्रबाध्योऽयमीदृशः ॥ 4-72-16 (31434)
वैशम्पायन उवाच। 4-72-17x (3289)
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः।
प्रत्युवाचोत्तरं वाक्यं साध्वसाद्ध्वस्तमानसः ॥ 4-72-17 (31435)
पुत्र ते विजयं श्रुत्वा प्रहृष्टोऽहं मुदा भृशम्।
अक्षक्रीडनयाऽनेन कालक्षेपमकारिषम् ॥ 4-72-18 (31436)
तत्राजयत्कुरून्सर्वानुत्तरो राष्ट्रवर्धनः।
इत्युक्तं हि मया पुत्र नेति कङ्को बृहन्नला।
अजयत्सा कुरून्सर्वानिति मामब्रवीन्मुहुः ॥ 4-72-19 (31437)
प्रशंसिते मया पुत्र विजये तव विश्रुते।
बृहन्नलाया विजयं कङ्कोऽस्तुवत वै रुषा ॥ 4-72-20 (31438)
मया प्रशस्यमाने तु त्वयि पण्डं प्रशंसति।
बृहन्नलाप्रशंसाभिरभ्यसूयमहं तदा।
ताडितोऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत् ॥ 4-72-21 (31439)
ताडितोऽयं यतिः कङ्क इत्युक्तं तद्वचोत्तरः।
श्रुत्वा पितुर्भृशं क्रुद्धः पितरं वाक्यमब्रवीत् ॥ 4-72-22 (31440)
अकार्यं ते कृतं राजन्क्षिप्रमेष प्रसाद्यताम्।
मा त्वा ब्रह्मविषं घोरं समूलमुपनिर्दहेत् ॥ 4-72-23 (31441)
यावन्न क्षयमायाति कुलं सर्वमशेषनः।
स्फीतं वृद्धं च मात्स्यानामयं तावत्प्रसाद्यताम् ॥ 4-72-24 (31442)
प्रणम्य पादयोरस्य दण्डवत्क्षितिमण्डले ।
प्रगृह्य पादौ पाणिभ्यामयं तावत्प्रसाद्यताम् ॥ 4-72-25 (31443)
दक्षेण पाणिना स्पृष्ट्वा शपे त्वां क्षपितं मया।
इति यावद्वदेत्कङ् अयं तावत्प्रसाद्यताम् ॥ 4-72-26 (31444)
स पुत्रस्य वचः श्रुत्वा विराटः साध्वसाकुलः।
क्षमयामास कौन्तेयं छन्नं ब्राह्मणवर्चसा ॥ 4-72-27 (31445)
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत।
चिरं क्षान्तं मया राजन्मन्युर्मम न विद्यते ॥ 4-72-28 (31446)
यदि स्म तत्पतेद्भूमौ रुधिरं मम पार्थिव ।
सराष्ट्रस्त्वमिहोच्छेदमापद्येथा नरर्षभ ॥ 4-72-29 (31447)
न दूषयामि राजेन्द्र यस्तु हन्याददूषकम्।
फलं तस्य महाराज क्षिप्रं दारुणमाप्नुयात् ॥ 4-72-30 (31448)
वैशम्पायन उवाच। 4-72-31x (3290)
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला।
अभिवाद्य महाराजं कङ्कं चाप्युपतिष्ठत ॥ 4-72-31 (31449)
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् ।
परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम्।
प्रशशंस ततो मात्स्यः शृण्वतः सव्यसाचिनः ॥ 4-72-32 (31450)
विराट उवाच। 4-72-33x (3291)
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन।
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥ 4-72-33 (31451)
पदं पदसहस्रेण यश्चरन्नापराध्नुयात्।
तेन कर्णेन ते तात कथमासीत्समागमः ॥ 4-72-34 (31452)
रणे यं प्रेक्ष्य सीदन्ति हृतवीर्यपराक्रमाः।
कृपेन तेन ते तात कथमासीत्समागमः ॥ 4-72-35 (31453)
यस्य तद्विश्रुतं लोके महद्वृत्तमनुत्तमम् ।
पितुः कृते कृतं घोरं ब्रह्मचर्यमनुत्तमम् ॥ 4-72-36 (31454)
योऽयोधीत्समरे रामं जामदग्न्यं प्रतापिनम्।
भीष्मोसौ पुरुषव्याघ्र न च युद्धे पराजितः ॥ 4-72-37 (31455)
पराक्रमी च दुर्धर्षो विद्वाञ्शूरो जितेन्द्रियः।
दृढवेधी क्षिप्रकारी विश्रुतः सर्वकर्मसु ॥ 4-72-38 (31456)
तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे ।
युद्धमासीत्कथं तात सर्वमेतद्ब्रवीहि मे ॥ 4-72-39 (31457)
पर्वतं यो विनिर्भिन्द्याद्राजपुत्रो वरेषुभिः।
दुर्योधनेन ते तात कथमासीत्समागमः ॥ 4-72-40 (31458)
आचार्यो वृष्णिरीराणां पाञ्चालानां च यः प्रभुः।
कुरूणां पाण्डवानां च सर्वक्षत्रस्य यो गुरुः ॥ 4-72-41 (31459)
सर्वशस्त्रभृतां श्रेष्ठः सर्वलोकेषु विश्रुतः।
तेन द्रोणेन ते तात कथमासीत्समागमः ॥ 4-72-42 (31460)
आचार्यपुत्रो यः शूरो द्रोणादनवमो रणे।
तेन वीरेण ते तात कथमासीत्समागमः ॥ 4-72-43 (31461)
सर्वे चैव महावीर्या धार्तराष्ट्रः महारथाः ।
तैस्तैर्वीरैश्च ते तात कथमासीत्समागमः ॥ 4-72-44 (31462)
उत्तर उवाच। 4-72-45x (3292)
न मया निर्जिता गावो न मया कुरवो जिताः।
कृतं च कर्म तत्सर्वं देवपुत्रेण केनचित् ॥ 4-72-45 (31463)
स हि भीतं द्रवन्तं मां भीष्मद्रोणमुखान्कुरून्।
दृष्ट्वा विषण्णं संग्रामे देवपुत्रो न्यवारयत् ॥ 4-72-46 (31464)
स हि तिष्ठन्रथोपस्थे वज्रपाणिनिभो युवा।
तेन ते निर्जिता गावस्तेन ते कुरवो जिताः॥ 4-72-47 (31465)
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ।
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् ।ट
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ॥ 4-72-48 (31466)
दुर्योदनं च समरे प्रभिन्नमिव कुञ्जरम्।
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ॥ 4-72-49 (31467)
न हास्तिनपुरे त्राणं तव पश्यामि किंचन।
न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता ॥ 4-72-50 (31468)
व्यायामेन परीप्सस्व जीवितं कौरवात्मज ।
न मोक्ष्यसे पलायंस्त्वं लोके युद्धमना भव।
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥ 4-72-51 (31469)
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान्।
सचिवैः संवृतो राजा भीष्मद्रोणकृपादिभिः ।
ततो मे रोमहर्षोऽभूदूरुस्तम्भश्च मेऽभवत् ॥ 4-72-52 (31470)
यदभूद्धनसंकाशमनीकं व्यधमच्छरैः।
तत्प्रपुद्य रथानीकं सिंहदर्पसमो युवा।
तान्कुरुन्द्रावयद्राजन्रणे नाग इव श्वसन् ॥ 4-72-53 (31471)
एकेन तेन शूरेण षड्रथाः परिनिर्जिताः ।
शार्दूलेनेव मत्तेन मृगास्तृणचरा यथा ॥ 4-72-54 (31472)
हयानां च गजानां च शूराणां च धनुष्मताम्।
निहतानि सहस्राणि भग्ना च कुरुवाहिनी ॥ 4-72-55 (31473)
सूतपुत्रं शतैर्विद्ध्वा हयान्हत्वा महारथः ।
अस्त्रेण मोहयित्वा तं रक्तवस्त्रं समाददे ॥ 4-72-56 (31474)
चतुर्भिः पुनरानर्च्छद्भीष्मं शान्तनवं शरैः।
स तं विद्ध्वा हयांश्चाशु नास्य वस्त्रं समाददे ॥ 4-72-57 (31475)
दुर्योधनं च बलवान्बाणैर्विव्याध सप्तभिः।
तं स विद्ध्वा हयांश्चास्य पीतवस्त्रं समाददे ॥ 4-72-58 (31476)
द्रोणं कृपं च बलवान्सोमदत्तं जयद्रथम्।
भूरिश्रवसमिन्द्राभं शकुनिं च महारथम् ॥ 4-72-59 (31477)
त्रिभिस्त्रिभिः स विद्ध्वा तु दुःशासनमुखानपि।
विविधानि च वस्त्राणि महार्हाण्याजहार सः ॥ 4-72-60 (31478)
द्वाभ्यां शराभ्यां विद्ध्वाऽथ तथाऽऽचार्यसुतं रणे।
चापं छित्त्वा विकर्णस्य नीले चादत्त वाससी ॥ 4-72-61 (31479)
विराट उवाच। 4-72-62x (3293)
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः।
यो ममामोचयत्पुत्रं कुरुभिर्ग्रस्तमाहवे॥ 4-72-62 (31480)
इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च।
येन मे त्वं च गावश्च मोक्षिता देवसूनुना ॥ 4-72-63 (31481)
तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान्।
स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च ॥ 4-72-64 (31482)
उत्तर उवाच। 4-72-65x (3294)
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान्।
अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥ 4-72-65 (31483)
वैशम्पायन उवाच। 4-72-66x (3295)
एवमाख्यायमानस्तु छन्नं सत्रेण पाण्डवम्।
वसन्तं तं तु नाज्ञासीद्विराटः पार्थमर्जुनम् ॥ 4-72-66 (31484)
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना।
सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनंजयः ॥ 4-72-67 (31485)
इत्येवं ब्रूहि राजानं विराटं समुपस्थितम्।
इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम्।
ददौ वस्त्राणि रन्तानि विराटदुहितुः स्वयम् ॥ 4-72-68 (31486)
उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च।
प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत् ॥ ॥ 4-72-69 (31487)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विसप्ततितमोऽध्यायः ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-72-5 क्षत्तारं सारथिम् ॥ 5 । 4-72-6 कर्ण उपाजपत् कर्णे इति च्छेदः ॥ 6 ॥ 4-72-7 ममाङ्ग इति मम युधिष्ठिरस्य । संग्रामाय गतात् गमनात्॥ 7 ॥ 4-72-13 रुधिरप्लुतं रुधिरत्रावम् ॥ 13 ॥ 4-72-14 अनेकाग्रं व्यग्रम् । युधिष्ठिरं दृष्ट्वा राजानं पप्रच्छेत्यन्वयः ॥ 14 ॥ 4-72- 22 तद्वचः इति च्छेदः संधिरार्षः ॥ 22 ॥ 4-72-30 तस्येति। स इति शेषः। स हन्ता तस्य स्वकृतहननस्य ॥ 30 । 4-72-31 उपतिष्ठत उपातिष्ठत असेवत ॥ 31 ॥ 4-72- 33 दायादवान्पुत्रवान् ॥ 33 । 4-72-34 पदसहस्रेण लक्ष्यसहस्रार्थम् । हेत्वर्थे तृतीया। युगपत्सहस्रलक्ष्याणि वेद्धुमित्यर्थः। चरन् बाणैः । पदं एकमपि लक्ष्यं नापराध्नुयात् लक्ष्यात् च्युतसायको न भवेदित्यर्थः ॥ 34 ॥ 4-72-47 तिष्ठन् अयुध्यतेति शेषः ॥ 47 ॥ 4-72-52 स निवृत्तोऽभूदित्यन्वयः ॥ 52 ॥ 4-72-53 सिंहेन दर्पे रामः । द्रावयत् .........॥ 53 ॥ 4-72-54 तृणचरास्तृणभक्षकाः ॥ 54 ॥ 4-72-66 सत्रेण वेषान्तरेण ॥ 66 ॥ 4-72-68 श्व इतो ब्रूहि राजानं विराट......चेति शo पाठः ॥ 68 ॥विराटपर्व - अध्याय 073
॥ श्रीः ॥
4.73. अध्यायः 073
Mahabharata - Virata Parva - Chapter Topics
भीमार्जुनादिभी रात्रौ युधिष्ठिरसमीपगमनम् ॥ 1 ॥ युधिष्ठिरेण सहर्षं स्वानभिभाषणे अर्जुनेन भीमंप्रति तत्कारणप्रश्नः ॥ 2 ॥ युधिष्ठिरेण तं प्रति विराटेनाक्षताडनस्य तत्कारणत्वकथनम् ॥ 3 ॥ भीमादिभिः क्रोधाद्विराटवधाध्यवसाये युधिष्ठिरेण हेतुकथनेन तत्प्रतिषेधनम् ॥ 4 ॥Mahabharata - Virata Parva - Chapter Text
4-73-0 (31488)
वैशम्पायन उवाच। 4-73-0x (3296)
प्रदाय वस्त्राणि किरीटमाली
विराटगेहे मुदितः सखीभ्यः ।
कृत्वा महर्तर्म तदाऽऽजिमध्ये
दिदृक्षया सोऽभिजगाम पार्थम् ॥ 4-73-1 (31489)
तं प्रेक्षमाणस्त्वथ धर्मराजं
पप्रच्छ पार्थोऽथ स भीमसेनम्।
किं धर्मराजो हि यथापुरं मां
मुखं प्रतिच्छाद्य न चाह किंचित् ॥ 4-73-2 (31490)
तमेवमुक्त्वा परिशङ्कमानं
दृष्ट्वाऽर्जुनं भीमसेनं च राजा।
तदाऽब्रवीत्तावभिवीक्ष्य राज-
न्युधिष्ठिरस्तत्परिमृज्य रक्तम् ॥ 4-73-3 (31491)
दुरात्मना त्वय्यभिपूज्यमाने
विराटराज्ञाऽभिहतोऽस्मि पार्थ ।
तस्मात्प्रहाराद्रुधिरस्य बिन्दू-
न्पश्यन्न चेमे पृथिवीं स्पृशेयुः ।
इति प्रतिच्छाद्य मुखं ततोऽहं
मन्युं नियच्छन्नुपविष्ट आसम् ॥ 4-73-4 (31492)
शुभार्ह राष्ट्रं न खिलीकृतं भवे-
द्वयं तु यस्मिन्सुखिनोऽभवाम।
क्रुद्धे तु वीरे त्वयि चाप्रतीते
राजा विराटो न लभेत शर्म ॥ 4-73-5 (31493)
अजानता तेन च शौर्यमाजौ
छन्नस्य सत्रेण बलं च पार्थ।
इदं विराटेन मयि प्रयुक्तं
त्वां वीक्षमाणो न गतोस्मि हर्षम् ॥ 4-73-6 (31494)
वैशम्पायन उवाच 4-73-7x (3297)
तेनाप्रमेयेन महाबलेन
तस्मिंस्तथोक्ते शममास्थितेन।
तं भीमसेनो बलवानमर्षी
धनंजयं क्रुद्धमुवाच वाक्यम् ॥ 4-73-7 (31495)
न पार्थ नित्यं क्षमकालमाह
बृहस्पतिर्ज्ञानवतां वरिष्ठः ।
क्षमीह सर्वैः परिभूयतेसौ
यथा भुडङ्गो विषवीर्यहीनः ॥ 4-73-8 (31496)
विराटमद्यैव निहत्य शीघ्रं
सपुत्रपौत्रं सकुलं ससैन्यम्।
योक्ष्यामहे धर्मसुतं च राज्ये
अद्यैव शीघ्रं त्वरिरेष मात्स्यः ॥ 4-73-9 (31497)
अनेन पाञ्चालसुताऽथ कृष्णा
उपेक्षिता कीचकेनाभियुक्ता।
तस्मादयं नार्हति राजशब्दं
राजा भव त्वं नृप पार्थवीर्यात्॥ 4-73-10 (31498)
राजा कुरूणां च युधिष्ठिरोऽयं
मात्स्येषु राजा भवतु प्रवीरः
तं मात्स्यदेहं शतधा भिनद्मि
पूर्णोदकं कुम्भमिवाश्मनीह ॥ 4-73-11 (31499)
अर्जुन उवाच। 4-73-12x (3298)
भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन्।
तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम्।
पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः ॥ 4-73-12 (31500)
भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन् ॥ 4-73-13 (31501)
तमब्रवीद्धर्मसुतो महात्मा
क्षमी वदान्यः कुपितं च भीमम्।
न प्रत्युपस्थास्यति चेत्सदारः
प्रसादने सम्यगथास्तु वध्यः ॥ 4-73-14 (31502)
न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन ॥ 4-73-15 (31503)
श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि।
राजवेषेण संयुक्ताः स्थानमस्व स्वलंकृताः ॥ 4-73-16 (31504)
विराटो यदि तत्रस्थान्राजालङ्कारशोभितान्।
राजलक्षणसंपन्नान्यदि तत्र न मंस्यते।
पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम् ॥ 4-73-17 (31505)
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः।
न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः ॥ 4-73-18 (31506)
सहपुत्रेण मात्स्यः स संप्रहृष्टो नराधिपः ।
तां रात्रिमवसत्प्रीतः संप्रहृष्टेन चेतसा ॥ ॥ 4-73-19 (31507)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिसप्ततितमोऽध्यायः ॥
विराटपर्व - अध्याय 074
॥ श्रीः ॥
4.74. अध्यायः 074
Mahabharata - Virata Parva - Chapter Topics
कुरुविजयदिनात्परेद्युः प्रभाते युधिष्ठिरादिभी राजलक्षणधारणेन सिंहासनादिषूपवेशनम् ॥ 1 ॥ ततः सहोत्तरेण सभामागतवता विराटेन युधिष्ठिरंप्रति राजासनोपवेशनाक्षेपः ॥ 2 ॥ अर्जुनेन तंप्रति युधिष्ठिरस्य याथातथ्यकथनेन तदीयगुणानुवर्णनपूर्वकं तस्य राजासनारोहणार्हत्वप्रतिपादनम् ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच।
ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः।
स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः ॥ 4-74-1 (31508)
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः।
अभिपन्ना महाभागा भ्राजमाना महारथाः ॥ 4-74-2 (31509)
विराटस्य सभां प्राप्य भूमिपालासनेषु ते ।
निषेदुः पावकप्रख्याः सत्रे धिष्ण्येष्विवाग्नयः ॥ 4-74-3 (31510)
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः।
तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च ॥ 4-74-4 (31511)
गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि ।
आजगाम सभां राजा उत्तरेण सह प्रभो ॥ 4-74-5 (31512)
स तान्दृष्ट्वा महासत्वाञ्ज्वलतः पावकानिव।
राजवेषानुपादाय पार्थिवो विस्मितोऽभवत्। 4-74-6 (31513)
किमिदं को विधिस्त्वेष भयार्त इव पार्थिवः।
पुरुषप्रवरान्दृष्ट्वा विषादमगमन्नृपः ॥ 4-74-7 (31514)
अथ मात्स्योऽब्रवीत्कङ्खं देवराजमिव स्थितम् ।
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥ 4-74-8 (31515)
स किलाक्षनिवापस्त्वं सभास्तारो मया कृतः।
अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः ॥ 4-74-9 (31516)
वैशम्पायन उवाच। 4-74-10x (3299)
परिहासेच्छया राज्ञो विराटस्य निशम्य तत्।
स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा ॥ 4-74-10 (31517)
इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति।
ब्रह्मण्यः श्रुतवांस्त्यागी सर्वलोकाभिपूजितः ॥ 4-74-11 (31518)
एष विग्रहवान्धर्म एष वीर्यवतां वरः।
एष बुद्ध्याधिको लोके तपसां च परायणम् ॥ 4-74-12 (31519)
एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे।
न चैवान्यः पुमान्वेत्ति न वेत्स्यति कदाचन ॥ 4-74-13 (31520)
न देवा नासुराः केचिन्न मनुष्या न राक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ 4-74-14 (31521)
दीर्घदर्शी महातेजाः पारैजानपदप्रियः।
पाण्डवानामतिरथो यज्ञधर्मपरो वशी ॥ 4-74-15 (31522)
महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः ।
बलवान्धृतिमान्दक्षः सत्यवादी जितेन्द्रियः ॥ 4-74-16 (31523)
धनैश्च संचयैश्चैव शक्रवैश्रवणोपमः ।
यथा मनुर्महातेजा लोकानां परिरक्षिता ।
एवमेव महातेजाः प्रजानुग्रहकारकः ॥ 4-74-17 (31524)
अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः ।
यस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥ 4-74-18 (31525)
संसरन्ति दिशः सर्वा यशसोस्य गभस्तयः ।
उदितस्येव सूर्यस्य तेजसोऽनुगभस्तयः ॥ 4-74-19 (31526)
एनं त्रिंशत्सहस्राणि कुञ्जराणां तरस्विनाम् ।
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ॥ 4-74-20 (31527)
त्रिंशच्चैव सहस्राणि रथानां रथिनां वरम्।
सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुस्तदा ॥ 4-74-21 (31528)
वाजिनां च शतं राजन्त्सहस्राण्ययुतानि च।
इममष्टशतं सूताः सुमृष्टमणिकुण्डलाः।
तुष्टुवुर्मागधैः सार्धं पुरा शक्रमिवर्षयः ॥ 4-74-22 (31529)
इमं नित्यपुमातिष्ठन्कुरवः किंकरास्तदा।
सर्वे च नृप राजानं धनेश्वरमिवामराः ॥ 4-74-23 (31530)
एष सर्वान्महीपालान्करमाहारयत्तदा।
वैश्यानिव महाराज विवशान्स्ववशानपि ॥ 4-74-24 (31531)
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्।
उपजीवन्ति राजानमेनं सुचरितव्रताः ॥ 4-74-25 (31532)
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूश्चं वामनान् ।
पुत्रवत्पालयामास प्रजाधर्मेण चाभिभूः ॥ 4-74-26 (31533)
एष धर्मे दमे चैव दाने सत्ये रतः सदा।
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥ 4-74-27 (31534)
श्रीमत्संपत्प्रभावेन तप्यते यस्य कौरवः ।
रगणः सह कर्णेन सौबलेन च वीर्यवान् ॥ 4-74-28 (31535)
गुणा न शक्याः संख्यातुमेतस्यैव नरेश्वर।
एष धर्मपरो नित्यमनृशंसः सुशीलवान् ॥ 4-74-29 (31536)
एवं युक्तो महाराजा पाण्डवः पुरुषर्षभः ।
कथं नार्हति राजार्हमासनं पृथिवीपतिः ॥ ॥ 4-74-30 (31537)
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि चतुःसप्ततितमोऽध्यायः ॥
विराटपर्व - अध्याय 075
॥ श्रीः ॥
4.75. अध्यायः 075
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन विराटप्रश्नाद्वललादीनां भीमसेनादित्वकथनम् ॥ 1 ॥ उत्तरेण विराटंप्रति तत्तल्लक्षणाभिधानपूर्वकं युधिष्ठिरादीनां निर्देशः ॥ 2 ॥ तथाऽर्जुनपराक्रमवर्णनम् ॥ 3 ॥ ततो विराटेन सप्रणामं युधिष्ठिरादिप्रसादनम् ॥ 4 ॥Mahabharata - Virata Parva - Chapter Text
4-75-0 (31538)
विराट उवाच। 4-75-0x (3300)
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः।
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥ 4-75-1 (31539)
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी ।
यदा ह्यक्षैर्जिता ह्येते नान्तरा श्रूयते कथा ॥ 4-75-2 (31540)
अर्जुन उवाच। 4-75-3x (3301)
य एष बललोऽभूत्ते सूपकारश्च ते नृप।
एष भीमो महाभाग भीमवेगपराक्रमः ॥ 4-75-3 (31541)
एष क्रोधवशान्हत्वा पर्वते गन्धमादने।
सौगन्धिकानि पुष्पाणि कृष्णार्थे समुपानयत् ॥ 4-75-4 (31542)
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्।
व्याघ्रानृक्षान्गजांश्चैव हतवांश्च पुरे तव ॥ 4-75-5 (31543)
हिडिम्बं च बकं चैव किर्मीरं च जटासुरम्।
हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः शुभम् ॥ 4-75-6 (31544)
यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तप।
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महाबलौ ॥ 4-75-7 (31545)
शृङ्गारवेषारणौ रूपवन्तौ मनस्विनौ ।
नानारथसहस्राणां समर्थौ भरतर्षभौ ॥ 4-75-8 (31546)
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी ।
सैरन्ध्री द्रौपदी राजन्यकृते कीचका हताः ॥ 4-75-9 (31547)
द्रुपदस्य प्रिया पुत्री धृष्ट्युम्नस्य चानुजा ।
अग्निकुण्डात्समुद्भूता द्रौपदी त्ववगम्यताम् ॥ 4-75-10 (31548)
भीम उवाच। 4-75-11x (3302)
अस्त्रज्ञो दुर्लभः कश्चित्केवलं पृथिवीमनु।
धनुर्भृतामतिश्रेष्ठः कौन्तेयोयं धनंजयः ॥ 4-75-11 (31549)
एतेन खाण्डवं तस्य ह्यकामस्य शतक्रतोः।
दग्धं नागवनं चैव सह नागैर्नराधिप ॥ 4-75-12 (31550)
वर्षं च शरवर्षेण वारितं दुर्जयेन वै।
करमाहारिताः सर्वे पार्थिवाः पृथिवीतले ॥ 4-75-13 (31551)
स्त्रीवेषं कृतवानेष तव राजन्निवेशने।
बृहन्नलेति यामाहुरर्जुनं जयतांवरम् ॥ 4-75-14 (31552)
उषिताःस्म सुखं सर्वे तव राजन्निवेशने।
अज्ञातवासे निभृता गर्भवास इव प्रजाः ॥ 4-75-15 (31553)
वैशम्पायन उवाच। 4-75-16x (3303)
यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः।
पुनरेव च तान्पार्थान्दर्शयामास चोत्तरः ॥ 4-75-16 (31554)
उत्तर उवाच। 4-75-17x (3304)
य एष जाम्बूनदशुद्धगौर-
तनुर्महान्सिंह इव प्रवद्धः ।
प्रचण्डघोणः पृथुदीर्घनेत्र-
स्ताम्रायताक्षः कुरुराज एषः ॥ 4-75-17 (31555)
अयं पुनर्मत्तगजेन्द्रगामी
प्रतप्तचामीकरशुद्धगौरः।
पृथ्वायतांसो गुरुदीर्घबाहु-
र्वृकोदरः पश्यत पश्यतैनम्॥ 4-75-18 (31556)
यस्त्वेव पार्श्वेऽस्य महाधनुष्मा-
ञ्श्यामो युवा वारणयूथपोपमः ।
सिंहोन्नतांसो गजराजगामी
पद्मायताक्षोऽर्जुन एष वीरः ॥ 4-75-19 (31557)
राज्ञः समीपे पुरुषोत्तमौ तु
यमाविमौ विष्णुमहेन्द्रकलौ।
मनुष्यलोके सकले समोऽस्ति
ययोर्न रूपे न बले न शीले॥ 4-75-20 (31558)
आभ्यां तु पार्श्वे कनकोत्तमाङ्गी
यैषा प्रभा मूर्तिमतीव गौरी।
नीलोत्पलाभा सुरदेवतेव
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥ 4-75-21 (31559)
वैशम्पायन उवाच। 4-75-22x (3305)
एवं निवेद्य तान्पार्थान्पाण्डवान्पञ्च भूपतेः।
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम् ॥ 4-75-22 (31560)
अयं स द्विषतां मध्ये मृगाणामिव केसरी।
अचरद्रथबृन्देषु निघ्नंस्तेषां परावरान् ॥ 4-75-23 (31561)
अनेन विद्धा मातङ्गा महामेघोपमास्तदा।
हिरण्यकक्ष्याः संग्रामे दन्ताभ्यामगमन्महीम् 4-75-24 (31562)
अनेन विजिता गावो निर्जिताः कुरवो युधि।
अस्य शङ्खस्य शब्देन कर्णौ मे बधिरीकृतौ॥ 4-75-25 (31563)
जायते रोमर्षो मे संस्मृत्यास्य धनुर्ध्वनिम्।
ध्वजस्य वानरं भूतैराक्रोशन्तं सहानुगैः ॥ 4-75-26 (31564)
नाददानं शरान्घोरान्न मुञ्चन्तं शरोत्करान्।
न कार्मुकं विकर्षन्तमेनं पश्यामि संयुगे ॥ 4-75-27 (31565)
एतद्धनुःप्रमुक्ताश्च शराः पुङ्खानुपुङ्खिनः ।
नालक्ष्येषु रणे पेतुर्नाराचा रक्तभोजनाः ॥ 4-75-28 (31566)
तीक्ष्णनाराचसंकृत्तशिरोबाहूरुवक्षसाम्।
कलेबराणि दृश्यन्ते योधानां साश्वसादिनां ॥ 4-75-29 (31567)
अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी।
प्रवर्तिता भीमरूपा यां स्मृत्वाऽद्यापि मे मनः।
प्रकम्पते चण्डवायुकम्पिता कदली यथा ॥ 4-75-30 (31568)
अनेन राजन्वीरेण भीष्मद्रोणमुखा रथाः।
दुर्योधनेन सहिता निर्जिता भीमकर्मणा ॥ 4-75-31 (31569)
अयं भीतं द्रवन्तं मां देवपुत्रो न्यवारयत्।
यस्य बाहुबलेनास्मि जीवन्प्रत्यागतः पुरम् ॥ 4-75-32 (31570)
वैशम्पायन उवाच। 4-75-33x (3306)
तस्य तद्वचनं श्रुत्वा मात्स्यराजः प्रतापवान्।
धनंजयं परिष्वज्य पाण्डवानथ सर्वशः ॥ 4-75-33 (31571)
धर्मराजं नमस्कृत्य राजा राज्येऽभिषेचितम्।
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः ॥ 4-75-34 (31572)
संप्रीयमाणो राजानां युधिष्ठिरमथाब्रवीत्।
दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात्।
दिष्ट्या विचरितं कृच्छ्रमज्ञातं च दुरात्मभिः ॥
इदं राज्यं च वः सर्वं यच्चापि वसु किंचन ।
विभक्तमेतद्भवतां नोत्कण्ठां कर्तुमर्हथ।
अविभक्तं भवद्भिर्मे न सन्देहो नराधिपाः ॥ ॥ 4-75-35 (31573)
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि पञ्चसप्ततितमोऽध्यायः ॥
विराटपर्व - अध्याय 076
॥ श्रीः ॥
4.76. अध्यायः 076
Mahabharata - Virata Parva - Chapter Topics
उत्तरेण विराटंप्रति युधिष्ठिरादिकृतोपकारस्मारणपूर्वकमुत्तरायाः प्रदानेन तत्प्रसादनचोदना ॥ 1 ॥ युधिष्ठिरेणोत्तराया पुरस्कारेण सप्रणामं प्रसादयते विराटायाभयप्रदानम् ॥ 2 ॥Mahabharata - Virata Parva - Chapter Text
4-76-0 (31574)
वैशम्पायन उवाच। 4-76-0x (3307)
विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः।
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥ 4-76-1 (31575)
प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये।
तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः ॥ 4-76-2 (31576)
उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन।
प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे। 4-76-3 (31577)
वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसाद्याभ्युपतिष्ठामो राजन्किं करवागहे ॥ 4-76-4 (31578)
राजंस्त्वमसि संग्रामे गृहीतस्तेन मोक्षितः ।
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया ॥ 4-76-5 (31579)
कुरवो निर्जिता यस्मात्संग्रामेऽमिततेजसः ।
एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः ॥ 4-76-6 (31580)
अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः।
अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम् ॥ 4-76-7 (31581)
पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः।
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः ॥ 4-76-8 (31582)
तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसादयाम्यहं तत्र सह पार्थेर्महात्मभिः ॥ 4-76-9 (31583)
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः ।
जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् ।
कुले च जन्म महति फल्गुनस्य च विक्रमम् ॥ 4-76-10 (31584)
वैशम्पायन उवाच। 4-75-11x (3308)
उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः।
उत्तरं चापि संप्रेक्ष्य प्राप्तकालमचिन्तयत् ॥ 4-76-11 (31585)
ततो विराटः सामात्यः सहपुत्रः सबान्धवः।
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः।
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः ॥ 4-76-12 (31586)
विराट उवाच। 4-76-13x (3309)
प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः।
प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः ॥ 4-76-13 (31587)
शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः ॥ 4-76-14 (31588)
यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः ।
अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा।
क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल ॥ 4-76-15 (31589)
यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव ।
सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव ।
वयं च सर्वे सामात्या भवन्तं शरणं गताः ॥ 4-76-16 (31590)
वैशम्पायन उवाच। 4-76-17x (3310)
तं धर्मराजः पतितं महीतले
सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् ।
उवाच वाक्यं परलोकदर्शनः
प्रनष्टमन्युर्गतशोकमत्सरः॥ 4-76-17 (31591)
न मे भयं पार्थिव विद्यते मयि
प्रतीतरूपोस्म्यनुचिन्त्य मानसम्।
एतत्त्वया सम्यगिहोपपादितं
द्विजैरमात्यैः सदृशैश्च पाण्डितैः ।
इमां च कन्यां समलंकृतां भृशं
समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम ॥ 4-76-18 (31592)
क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव।
न चैव किंचित्पश्यामि विकृतं ते नराधिप ॥ 4-76-19 (31593)
वैशम्पायन उवाच। 4-76-20x (3311)
ततो विराटः परमामितुष्टः
समेत्य राज्ञा समयं चकार।
राज्यं च सर्वं विससर्ज तस्मै
सदण्डकोशं सपुरं महात्मा ॥ ॥ 4-76-20 (31594)
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि षट्सप्ततितमोऽध्यायः ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-76-1 अभिपन्नोऽपराधं कृतवान् ॥ 1 ॥ 4-76-3 ततस्तुष्टा भवन्तु ते इति थo पाठः ॥ 3 ॥विराटपर्व - अध्याय 077
॥ श्रीः ॥
4.77. अध्यायः 077
Mahabharata - Virata Parva - Chapter Topics
विराटेनार्जुनंप्रति स्वकुमार्या उत्तराया भार्यात्वेन प्रतिग्रहणप्रार्थने तंप्रत्यर्जुनेन सहेतुकथनं स्नुपात्वेन परिग्रहाङ्गीकरणम् ॥ 1 ॥ दुर्योधनेन युधिष्ठिरंप्रति दूतमुखेन त्रयोदशवत्सरस्यासंपूर्तावेवार्जुनेनात्मप्रकाशनात्पुनर्वनवासविधेयतानिवेदनम् ॥ 2 ॥ युधिष्ठिरेण तंप्रति तेनैव दूतेन भीष्ममुखात्संदेहस्य परिहरणीयताप्रतिवेदनम् ॥ 3 ॥ भीष्मेण विचार्य निर्धारणपूर्वकं संकेतकालस्य पूर्णत्वोक्तिः ॥ 4 ॥Mahabharata - Virata Parva - Chapter Text
4-77-0 (31595)
विराट उवाच। 4-77-0x (3312)
यच्च वक्ष्याम्यहं तेऽद्य मा शङ्केथा युधिष्ठिर।
इदं सनगरं राष्ट्रं सजनं सवधूजनम्।
युष्यभ्यं संप्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च ॥ 4-77-1 (31596)
अहं वद्धश्चिरं राजन्भुक्तभोगश्चिरं सुखम्।
राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम् ॥ 4-77-2 (31597)
उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः ।
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥ 4-77-3 (31598)
वैशम्पायन उवाच। 4-77-4x (3313)
एवमुक्तो धर्मराजः पार्थपैक्षद्वनंजयम्।
ईक्षितं चार्जुनो ज्ञात्वा मात्स्यं वचनमब्रवीत् ॥ 4-77-4 (31599)
वयं वनान्तरात्प्राप्ता न ते राज्यं गृहामहे।
किंतु दुर्योधनादीनां राज्ञां राज्यं गृहामहे ॥ 4-77-5 (31600)
प्रतिगृह्णाम्यहं राजन्स्रुषं दुहितरं तव।
युक्तो ह्यावां हि संबन्धो मात्स्यभारतवंशयोः ॥ 4-77-6 (31601)
विराट उवाच। 4-77-7x (3314)
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम।
प्रतिग्रहीतुं नेमां त्वं मया दत्तमिहेच्छसि ॥ 4-77-7 (31602)
अर्जुन उवाच। 4-77-8x (3315)
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव।
सहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ॥ 4-77-8 (31603)
प्रियो बहुमतश्चाहं नर्तने गीतवादिते।
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥ 4-77-9 (31604)
वयस्यया तया राजन्सह संवत्सरोषितः ।
अतिशङ्का ततोऽस्थाने तव लोकस्य च प्रभो ॥ 4-77-10 (31605)
तस्मादामन्त्रये त्वाऽद्य पुत्रार्थं मे विशांपते।
सुद्धं जितेन्द्रियं मन्ये तस्याः शुद्धिः कृता मया ॥ 4-77-11 (31606)
स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः ।
अतिशङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥ 4-77-12 (31607)
अभिषङ्गादहं भीतो मिथ्याचारात्परंतप ।
स्रुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ॥ 4-77-13 (31608)
स्वस्त्रीयो वासुदेवस्य साक्षाद्देवसुतो यथा।
दयितश्चक्रहस्तस्य बलवानस्त्रकोविदः ॥ 4-77-14 (31609)
अभिमन्युर्गहाबाहुः पुत्रो मम विशांपते ।
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥ 4-77-15 (31610)
विराट उवाच। 4-77-16x (3316)
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये।
सदैव धर्मनित्यश्च ज्ञातज्ञानश्च पाण्डवः ॥ 4-77-16 (31611)
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्।
सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः ॥ 4-77-17 (31612)
वैशम्पायन उवाच। 4-77-18x (3317)
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः।
अन्वजानत संबन्धं समये कृष्णमात्स्ययोः ॥ 4-77-18 (31613)
दूतान्सर्वेषु मित्रेषु वासुदेवे च भारत।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः । 4-77-19 (31614)
प्रतिगृह्य स्नुषार्थं वै दर्शयन्व्रतमात्मनः ।
शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः ॥ 4-77-20 (31615)
लोके विख्याप्य माहात्म्यं यशश्च स परंतपः ।
कृतार्थः शुचिरव्यग्रस्तुष्टिमानभवत्तदा ॥ 4-77-21 (31616)
युधिष्ठिर उवाच। 4-77-22x (3318)
राजन्प्रीतोस्मि भद्रं ते सखा मेऽसि परन्तप।
सुखमध्युषिताः सर्वे अज्ञातास्त्वयि पार्थिव ॥ 4-77-22 (31617)
वैशम्पायन उवाच। 4-77-23x (3319)
विराटनगरे राजा धर्मात्मा संशितव्रतः ।
पूजितश्चाभिषिक्तश्च रत्नैश्च शतशोर्चितः ॥ 4-77-23 (31618)
तथा ब्रुवन्तं प्रसमीक्ष्य राजा
परं प्रहृष्टः स्वजनेन तेन।
स्नेहात्परिष्वज्य नृपो भुजाभ्यां
ददौ महार्थं कुरुपाण्डवानाम् ॥ 4-77-24 (31619)
युद्धात्प्रयाताः कुरवो हि मार्गे
समेत्य सर्वे हितमेव तत्र।
आचार्यपुत्रः शकुनिश्च राजा
दुर्योधनः सूतपुत्रश्च कर्णः।
संमन्त्र्य राजन्सहिताः समर्थाः
समादिशन्दूतमथो समग्राः ॥ 4-77-25 (31620)
युधिष्ठिरश्चापि सुसंग्रहृष्टो
दुर्योधनाद्दूतमपश्यदागतम्।
स चाब्रवीद्धर्मराजं समेत्य
युधिष्ठिरं पाण्डवमुग्रवीर्यम् ॥ 4-77-26 (31621)
धनञ्जयेनासि पुनर्वनाय
प्रव्राजितः समये तिष्ठ पार्थः।
त्रयोदशे ह्येव किरीटमाली
संवत्सरे पाण्डवेयोऽद्य दृष्टः ॥ 4-77-27 (31622)
वैशम्पायन उवाच। 4-77-28x (3320)
ततोऽब्रवीद्धर्मसुतः प्रहस्य
क्षिप्रं गत्वा ब्रूहि सुयोधनं तम्।
पितामहः शान्तनवो ब्रवीतु
पूर्णो न पूर्णोऽद्य त्रयोदशो नः ॥ 4-77-28 (31623)
संवत्सरात्ते तु धनञ्जयेन
विष्फारितं गाण्डिवमाजिमध्ये।
पूर्णो न पूर्णो न इति ब्रवीतु
यदस्य सत्यं मम तत्प्रमाणम् ॥ 4-77-29 (31624)
तेनैवमुक्तः स निवृत्य दूतो
दुर्योधनं प्राप्य शशंस तत्त्वम्॥ 4-77-30 (31625)
समेत्य दूतेन स राजपुत्रो
दुर्योधनो मन्त्रयामास तत्र।
भीष्मेण कर्णेन कृपेण चैव
द्रोणेन भूरिश्रवसा च सार्धम् ॥ 4-77-31 (31626)
संमन्त्र्य रात्रौ बहुभिः सुहृद्भि-
र्भीष्मोऽब्रवीद्धार्तराष्ट्रं महात्मा ।
तीर्णप्रतिज्ञेन धनंजयेन
विष्फारितं गाण्डिवमाजिमध्ये ॥ 4-77-32 (31627)
वैशम्पायन उवाच। 4-77-33x (3321)
नेच्छन्त्यसत्येन सुरेन्द्रलोकं
पाण्डोः सुता ब्रह्मणश्चापि लोकम्।
तथ्यं च ते पथ्यमहं ब्रवीमि
स्वर्ग्यं यशस्यं परलोकपथ्यम् ॥ 4-77-33 (31628)
कुन्तीसुतैस्त्वं समुपैहि सन्धिं
भुङ्क्ष्व स्वराज्यं सह पाण्डवेयैः।
युध्यस्व नोचेत्स्थिरबुद्धिराजौ
कुन्तीसुतैर्यद्यपि राज्यमिच्छेः ॥ 4-77-34 (31629)
आन्तं न शक्यं कपटेन भोक्तुं
राज्यं परेषां महतां बलीनाम्।
जित्वा शत्रून्भुङ्क्ष्व राज्यं समग्रं
हतो भवान्भोक्ष्यति वज्रिलोकम् ॥ 4-77-35 (31630)
वैशम्पायन उवाच। 4-77-36x (3322)
ततः स भागीरथिसूनुवाक्यं
निशम्य गान्धारितनूद्भवो नृपः।
उवाच भीष्मं प्रमुखे च पित्रो-
र्महीं न दद्यामणुमात्रिकामपि।
निहन्मि पाण्डूदरसंभवान्वा
हतोस्मि तैर्वा सुरलोकमेमि ॥ 4-77-36 (31631)
ते धार्तराष्ट्राः समयं निशम्य
तीर्णप्रतिज्ञस्य धनंजयस्य
संचिन्त्य सर्वे सहिताः सुहृद्भिः
सपार्थिवाः स्वानि गृहाणि जग्मुः ॥ ॥ 4-77-37 (31632)
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि सप्तसप्ततितमोऽध्यायः ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-77-6 आवां आवयोः ॥ 6 ॥विराटपर्व - अध्याय 078
॥ श्रीः ॥
4.78. अध्यायः 078
Mahabharata - Virata Parva - Chapter Topics
अज्ञातवासपरिसमापनानन्तरमुपप्लाव्यनगरे वसद्भिः पाण्डवैर्दूतमुखेन समाहूतै रामकृष्णादिभिः सुभद्राभिमन्युप्रभृतिभिः सहोपप्लाव्यं प्रत्यागमनम् ॥ 1 ॥ तथा द्रौपदेयादिभिः सह द्रुपदादिभिरागमनम् ॥ 2 ॥ तत उत्तरयाऽभिमन्योरुद्वाहः ॥ 3 ॥Mahabharata - Virata Parva - Chapter Text
4-78-0 (31633)
वैशम्पायन उवाच। 4-78-0x (3323)
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः।
उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे ॥ 4-78-1 (31634)
दूतान्मित्रेषु सर्वेषु ज्ञातिसंबन्धिकेष्वपि।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥ 4-78-2 (31635)
तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः ।
तत्रागमन्महाबाहुर्वनमाली बलानुजः ॥ 4-78-3 (31636)
तस्मिन्काले निशम्याथ दूतवाक्यं जनार्दनः।
दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम्।
अभिमन्युं समादाय रामेण सहितस्तदा ॥ 4-78-4 (31637)
सर्वयादवमुख्यैश्च संवृतः परवीरहा।
शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ ॥ 4-78-5 (31638)
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः।
अनाधृष्टिस्तथाऽक्रूरः सांबो निशठ एव च।
प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः ॥ 4-78-6 (31639)
अभिमन्युमुपादाय सह मात्रा परन्तपाः।
कृष्णेन सहिताः सर्वे पाण्डवान्द्रष्टुमागताः ॥ 4-78-7 (31640)
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः ।
उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः ॥ 4-78-8 (31641)
दशनागसहस्राणि हयानां द्विगुणं तथा।
रथानां नियुतं पूर्णं निखर्वं च पदातयः ॥ 4-78-9 (31642)
वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः।
अन्युर्वृष्णिशार्दूलं वासुदेवं महाबलम् ॥ 4-78-10 (31643)
वासुदेवं तथाऽऽयान्तं श्रुत्वा पाण्डुसुतास्तदा।
मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम् ॥ 4-78-11 (31644)
शङ्खदुन्दुभिनिर्घोषैर्मङ्गलैश्च जनार्दनम् ।
ववन्दुर्मुदिताः सर्वे पादयोस्तस्य पाण्डवाः।
मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः ॥ 4-78-12 (31645)
पाण्डवा ऊचुः। 4-78-13x (3324)
तव कृष्ण प्रसादाद्वै वर्षाण्येतानि सर्वशः।
त्रयोदशोपि दाशार्ह यथा स समयः कृतः ॥ 4-78-13 (31646)
उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन।
रक्षस्व देवदेवेश त्वामार्य शरणं गताः ॥ 4-78-14 (31647)
वैशम्पायन उवाच। 4-78-15x (3325)
तान्वन्दूमानान्सहसा परिष्वज्य जनार्दनः।
विराटस्य सहायांस्तान्सर्वयादवसंवृतः॥ 4-78-15 (31648)
यथार्हं पूजयामास मुदा परमया युतः।
वृष्णिवीराश्च तान्सर्वान्यथार्हं प्रतिपेदिरे ॥ 4-78-16 (31649)
कृष्णा च देवकीपुत्रं ववन्दे पादयोस्तथा।
तामुद्यम्य सुकेशान्तां नयने परिमृज्य च ।
उवाच वाक्यं देवेशः सर्वयादवसन्निधौ ॥ 4-78-17 (31650)
मा शोकं कुरु कल्याणि धार्तराष्ट्रान्समाहितान्।
अचिराद्धातयित्वाऽहं पार्थेन सहितः क्षितिम् ॥ 4-78-18 (31651)
युधिष्ठिराय दास्यामि यातु ते मानसो ज्वरः।
अभिमन्युना च पार्थेनरौक्मिणेयेन ते शपे ॥ 4-78-19 (31652)
सत्यमेतद्वचो मह्यमवैहि त्वमनिन्दिते।
इत्युक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम्।
अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस्तथा ॥ 4-78-20 (31653)
काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम्।
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती ॥ 4-78-21 (31654)
अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः।
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥ 4-78-22 (31655)
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतांवरः।
उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः ॥ 4-78-23 (31656)
ततः शतसहस्राणि प्रयुतान्यर्बुदानि च।
समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम्॥ 4-78-24 (31657)
समुद्रमिव धर्मान्ते स्रोतःश्रेष्ठाः पृथक्पृथक्।
आपूरयन्महीपाला यज्वानो भूरिदक्षिणैः ।
वेदावभृथसंपन्नाः शूराः सर्वे तनुत्यजः ॥ 4-78-25 (31658)
तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः।
पूजयामास विधिवद्यथार्हं राजसत्तमान्॥ 4-78-26 (31659)
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम्।
स्त्रियो वासांसि रत्नानि पृथक्पृथगनेकशः ॥ 4-78-27 (31660)
राजानो राजपुत्राश्च निवृत्ते समये तथा।
यथांर्ह पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः।
आसन्प्रहृष्टमनसः पारिबर्हं ददुस्तदा ॥ 4-78-28 (31661)
सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह।
विवाहो विधवद्राजन्ववृधे कुरुमात्स्ययोः॥ 4-78-29 (31662)
ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा।
अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि ॥ 4-78-30 (31663)
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशस्तथा।
भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन् ॥ 4-78-31 (31664)
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा।
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः॥ 4-78-32 (31665)
स्त्रियो वृद्धास्तरुण्यश्च उत्सवे तस्य मङ्गले।
द्रौपद्यन्तःपुरे चैव विराटस्य गृहे स्त्रियः ॥ 4-78-33 (31666)
सुदेष्णां तु पुरस्कृत्य मत्स्यानामपि च स्त्रियः।
आजग्मुश्चारुपीनाङ्ग्यः सुमृष्टमणिकुण्डलाः॥ 4-78-34 (31667)
वर्णोपपन्नास्ता नार्यो रूपवन्तयः स्वलंकृताः।
सर्वासामभवत्कृष्णा रूपेण वपुषाऽधिका ॥ 4-78-35 (31668)
परिवार्योत्तरां श्लाघ्यां राजपुत्रीमलंकृताम्।
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥ 4-78-36 (31669)
भृङ्गारुं तु समादाय सौवर्णं जलपूरितम्।
पार्थस्य हस्ते सहसा सुतामिन्दीवरेक्षणाम्।
स्नुषार्थं प्राक्षिपद्वारि विराटो वाहिनीपतिः ॥ 4-78-37 (31670)
तां प्रत्यगृह्णाकौन्तेयः सुतस्यार्थे महामनाः ।
सौभद्राश्चानवद्याङ्गो विराटतनयां तदा ॥ 4-78-38 (31671)
तत्रातिष्ठद्गृहीत्वा तु रूपमिन्द्रास्य धारयन्।
स्नुषां तां परिगृह्णानः कुन्तीपुत्रो युधिष्ठिरः ॥ 4-78-39 (31672)
द्रुपदश्च विराटश्च शिखण्डी च महाबलः ।
युयुधानश्च शैब्यश्च धृष्टद्युम्नश्च सात्यकिः ॥ 4-78-40 (31673)
सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ।
पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा ॥ 4-78-41 (31674)
तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतांवरः ।
प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे ॥ 4-78-42 (31675)
प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम् ।
विवाहं कारयामास सौभद्रस्य महात्मनः ॥ 4-78-43 (31676)
ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः ।
सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा ॥ 4-78-44 (31677)
धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः ।
अग्निं प्रदक्षिणीकुर्वन्सौभद्रः पाणिमग्रहीत् ॥ 4-78-45 (31678)
ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत्।
तस्मै शतसहस्राणि हयानां वातरंहसाम् ॥ 4-78-46 (31679)
द्वे च नागशते मुख्ये धनं बहुविधं तदा।
प्रादान्मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम् ॥ 4-78-47 (31680)
पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः ।
कृष्णेन सह कौन्तेयः प्रत्यगृह्णात्प्रभूतवत् ॥ 4-78-48 (31681)
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः।
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥ 4-78-49 (31682)
गोसहस्राणि वस्त्राणि रत्नानि विविधानि च।
भूषणानि च सर्वाणि यानानि शयनानि च ॥ 4-78-50 (31683)
नागरान्प्रीतिभिर्दिव्यैस्तर्पयामास भूपतिः ॥ 4-78-51 (31684)
तन्महोत्सवसंकाशं हृष्टपुष्टजनाकुलम्।
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥ 4-78-52 (31685)
पुरोहितैरमात्यैश्च पौरैर्जानपदैः सह।
विराटो नृपतिः श्रीमान्सौभद्रायाभिमन्यवे ।
तां सुतामुत्तरां दत्त्वा मुमुदे परमं तदा ॥ 4-78-53 (31686)
जनमेजय उवाच। 4-78-54x (3326)
वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः।
तत्सर्वं कथयस्वेह कृतवन्तो यदुत्तरम् ॥ ॥ 4-78-54 (31687)
इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां वैयासिक्यां विराटपर्वणि वैवाहिकपर्वणि अष्टसप्ततितमोऽध्यायः ॥ ॥ वैवाहिकपर्व समाप्तम् ॥ 5 ॥ ॥ समाप्तं च विराटपर्व ॥ 4 ॥