Mahabharata - महाभारतम्
Sanskrit Documents | Critical Edition | Southern Recension | Mahabharata Resources

Kumbhaghonam Edition

6. भीष्मपर्व

भीष्मपर्व - अध्याय 001

॥ श्रीः ॥

6.1. अध्यायः 001

कुरुक्षेत्रे कुरुपाण्डवसेनयोः परस्परसमागमः|| १|| उभयपक्षीयैः परस्परं समयकरणं ||२|| श्रीवेदव्यासाय नमः नारायणं नमस्कृत्य नरं नरोत्तमम्|

Mahabharata - Bhishma Parva - Chapter Text

देवीं सरस्वतीं चैव ततो जयमुदीरयेत्|| १ 6-1-0 (38622) जनमेजय उवाच| कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः पार्थिवाश्च महात्मानो नानादेशसमागताः|| १ 6-1-1 (38623) वैशम्पायन उवाच यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः| कुरुक्षेत्रे तपःक्षेत्रे शृणु त्वं पृथिवीपते|| २ 6-1-2 (38624) तेऽवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः| कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः|| ३ 6-1-3 (38625) वेदाध्ययनसंपन्नाः सर्वे युद्दाभिनन्दिनः| आशंसन्तो जयं युद्धे बलेनाभिमुखा रणे|| ४ 6-1-4 (38626) अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीं| प्राङ्मुखाः पश्चिमे भागे न्यवशन्त ससैनिकाः ५ 6-1-5 (38627) स्यमन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः| कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः|| ६ 6-1-6 (38628) शून्येव पृथिवी सर्वा बालवृद्धावशेषिता| निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता|| ७ 6-1-7 (38629) यावत्तपति सुर्यो हि जम्बुद्वीपस्य मण्डलं| तावदेव समावृत्तं बलं पार्थिवसत्तम|| ८ 6-1-8 (38630) एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् । पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥ 6-1-9 (38631) तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ । व्यादिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥ 6-1-10 (38632) संज्ञाय विविधास्तात तेषां चक्रे युधिष्ठिरः। एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥ 6-1-11 (38633) अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च । योजयामास कौरव्यो युद्धकाल उपस्थिते ॥ 6-1-12 (38634) दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः । सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम् ॥ 6-1-13 (38635) पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः ॥ 6-1-14 (38636) दृष्ट्वा दुर्योधनं हृष्टाः पाञ्चाला युद्धनन्दिनः । दध्मुः प्रीता महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥ 6-1-15 (38637) ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः । बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥ 6-1-16 (38638) स्वयोधान्हर्षयन्तौ च वासुदेवधनञ्जयौ । दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥ 6-1-17 (38639) पाञ्चजन्यस्य शङ्खस्य देवदत्तस्य चोभयोः । श्रुत्वा तु निनदं योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥ 6-1-18 (38640) यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः । त्रयेयुर्निनदं श्रुत्वा तथाऽसीदत तद्बलम् ॥ 6-1-19 (38641) उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन। अस्तं गत इवादित्यः सैन्येन रजसा वृतः ॥ 6-1-20 (38642) सवर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान्। व्युक्षन्सर्वाणि सैन्यानि तदद्भुतमिवाभवत् ॥ 6-1-21 (38643) वायुस्ततः प्रादूरभून्नीचैः शर्करकर्षणः । विनिघ्नंस्तान्यनीकानि शतशोऽथ सहस्रशः ॥ 6-1-22 (38644) उभे सैन्ये च राजेन्द्र युद्धाय मुदिते भृशम् । कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥ 6-1-23 (38645) तयोस्तु सेनयोरासीदद्भुतः स तु संगमः । युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥ 6-1-24 (38646) शून्याऽऽसीत्पृथिवी सर्वा वृद्धबालावशेषिता। निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता। तेन सेनासमूहेन समानीतेन कौरवैः ॥ 6-1-25 (38647) ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः। धर्मान्संस्थापयामासुर्युद्धानां भरतर्षभ ॥ 6-1-26 (38648) निवृत्ते विहिते युद्धे स्यात्प्रीतिर्नः परस्परम् । यथापरं यथायोगं न च स्यात्कस्यचित्पुनः ॥ 6-1-27 (38649) वाचा युद्धे प्रवृत्तानां वाचैव प्रतियोधनम् । निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कदाचन ॥ 6-1-28 (38650) रथी च रथिना योध्यो गजेन गजधूर्गतः । अश्वेनाश्वी पदातिश्च पादातेनैव भारत ॥ 6-1-29 (38651) यथायोगं यथाकामं यथोत्साहं यथाबलम् । समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥ 6-1-30 (38652) परेण सह संयुक्तः प्रमत्तो विमुखस्तथा । क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन ॥ 6-1-31 (38653) न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु । न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन ॥ 6-1-32 (38654) एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः । विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥ 6-1-33 (38655) निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः । हृष्टरूपाः समुनसो बभूवुः सहसैनिकाः ॥ ॥ 6-1-34 (38656) इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि प्रथमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-1-5 6-1-6 6-1-11 तव्यः इति झo पाठः तत्पाठे एवमिति। एवंवेदी विद्वान् इति अन्यैः पाण्डवेयो ज्ञातव्य इत्येतदर्थमित्यर्थः ॥ 6-1-19 असीद्त अवसन्नमभूत् ॥ 6-1-23 सागरक्षुभितोपमे क्षुभितसागरोपमे ॥ 6-1-27 धर्मसंस्थापनमेवाह यथापरमिति। यथायोगं तुल्ययोर्योगस्यानतिक्रमणाम्। यथा येन प्रकारेण अपरं अनुत्कृष्टं अन्याय्यमित्यर्थः । तथा न कस्यचित्तुल्ययोगातिक्रमः स्याद्ति भावः ॥ 6-1-29 गजधूर्गतः गजस्कन्धगतः ॥
भीष्मपर्व - अध्याय 002

॥ श्रीः ॥

6.2. अध्यायः 002

Mahabharata - Bhishma Parva - Chapter Topics

श्रीव्यासेन धृतराष्ट्रंप्रति युद्धदर्शनाय चक्षुर्दानकथनम् ॥ 1 ॥ धृतराष्ट्रेण युद्धश्रवणमात्रे प्रार्थिते व्यासेन सञ्जयंप्रति युद्धिविषये सार्वज्ञदानपूर्वकं युद्धप्रकारकथननियोगः ॥ 2 । व्यासेन धृतराष्ट्रंप्रति दुर्निमित्तप्रादुर्भावकथनम् ॥ 3 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-2-0 (38657) वैशम्पायन उवाच। 6-2-0x (3949) ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः। सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥ 6-2-1 (38658) भविष्यति रणे घोरे भरतानां पितामहः । प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥ 6-2-2 (38659) वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत् । शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥ 6-2-3 (38660) व्यास उवाच। 6-2-4x (3950) राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः। ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम् ॥ 6-2-4 (38661) तेषु कालपरीतेषु विनश्यत्स्वेव भारत । कालपर्यायमाहाय मा स्म शोके मनः कृथा ॥ 6-2-5 (38662) यदि चेच्छसि संग्रामं द्रुष्टुमेनं विशांपते । चक्षुर्ददानि ते पुत्र युद्धमेतन्निशामया ॥ 6-2-6 (38663) धृतराष्ट्र उवाच। 6-2-7x (3951) न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम। 6-2-7 (38664) युद्धमेतत्त्वशेषेण श्रृणुयां तव तेजसा ॥ 6-2-7 (38665) वैशम्पायन उवाच। 6-2-8x (3952) तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति। वराणामीश्वरो व्यासः संजयाय वरं ददौ ॥ 6-2-8 (38666) व्यास उवाच। 6-2-9x (3953) एष ते संजयो राजन्युद्धमेतद्वदिष्यति। एतस्य सर्वं संग्रामे न परोक्षं भविष्यति ॥ 6-2-9 (38667) चक्षुषा संजयो राजन्दिव्येनैव समन्वितः । कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥ 6-2-10 (38668) प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि । मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ॥ 6-2-11 (38669) नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः । गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥ 6-2-12 (38670) अहं तु कीर्तिमेतेषां करूणां भरतर्षभ । पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥ 6-2-13 (38671) दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि । न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥ 6-2-14 (38672) वैशम्पायन उवाच। 6-2-15x (3954) एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः । पुनरेव महाभागो धृतराष्ट्रमुवाच ह ॥ 6-2-15 (38673) इह युद्धे महाराज भविष्यति महान्क्षयः । तथेह च निमित्तानि भयदान्युपलक्षये ॥ 6-2-16 (38674) श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः । संपतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते ॥ 6-2-17 (38675) अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः । क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनां ॥ 6-2-18 (38676) कटाकटेति वाशन्तो भैरवा भयवेदिनः । कङ्काः क्रोशन्ति मध्याह्ने दक्षिणामभितो दिशं ॥ 6-2-19 (38677) उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत । उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥ 6-2-20 (38678) श्वेतलोहितपर्यन्ताः कृष्णाग्रीवाः सविद्युतः । त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ॥ 6-2-21 (38679) ज्वलितार्के .......त्रं निर्विशेषदिनक्षपम् । चन्द्रोऽभूतग्निवर्णश्च पद्मवर्णे नभस्तले । 6-2-22 (38680) आलक्षे प्रभया हीनां पौर्णमासीं च कीर्तिकीम् । चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले ॥ 6-2-23 (38681) स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः । राजानो राजपुत्राश्च शूराः परिघबाहवः ॥ 6-2-24 (38682) अन्तरिक्षे वराहस्य पृषदंशकस्य चोभयोः। प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥ 6-2-25 (38683) देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च। वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च॥ 6-2-26 (38684) अनाहता दुन्दुभयः प्रणदन्ति विशांपते । अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥ 6-2-27 (38685) कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा । सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥ 6-2-28 (38686) गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः । अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः ॥ 6-2-29 (38687) उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते। पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत ॥ 6-2-30 (38688) या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता। अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥ 6-2-31 (38689) रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः । व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥ 6-2-32 (38690) अनभ्रे च महाघोरस्तनितं श्रूयते भृशम् । वाहनानां च रुदतां निपतन्त्युश्रुबिन्दवः ॥ ॥ 6-2-33 (38691) इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि द्वितीयोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-2-2 भविष्यति भाविनि ॥ 6-2-4 हिंसन्तीव नाशयिष्यन्त्येव ॥ 6-2-5 पर्यायं वैपरीत्यम् ॥ 6-2-6 निशामय पश्य ॥ 6-2-17 समवायान् संघान् ॥ 6-2-18 अभ्यग्रं समीपम् । क्रव्यादामांसभक्षकाः ॥ 6-2-19 वाशन्तः शब्दं कुर्वन्तः ॥ 6-2-21 परिघाः परिवेषाः कृष्णग्रीवाः मध्ये कृष्णाः श्वेतलोहितपर्यन्ताश्च संधौ संध्यायाम् आवारयन्ति वेष्टयन्ति ॥ 6-2-22 निर्विशेषदिनक्षयं इति झo पाठे निर्विशेषदिनक्षयं अहोरात्रम्। निश्चयेन विगतः शेषो यस्य तस्य दिनस्य तिथेः क्षयो यस्मिन् । सूर्योदयद्वयस्पर्शिनी क्षयतिथिर्यस्मिन् अहोरात्रे तन्मया दृष्टम्। तदेव विशिनष्टि ज्वलितेति। अर्केन्द्वोर्नक्षत्रममावास्यायामुभाभ्यामाक्रान्तं नक्षत्रं तदेव ज्वलितं पापग्रहाक्रान्तं यस्मिन्। दर्से क्षयतिथिः तन्नक्षत्रे च पापग्रह इत्ययं महान् दुर्योग इत्यर्थः ॥ 6-2-23 पद्मवर्णे रक्तपद्मवर्णे ॥ 6-2-27 अयुक्ताः अश्वैरयोजिता अपि प्रवर्तन्ते चलन्ति। महान्तो रथाः महारथाः । मनोरथा इति कo पाठः ॥ 6-2-29 गृहीतशस्त्रः आत्तलोहाः लोहतुण्डा इति यावत् शस्त्रमायुधलोहयोरित्यमरः। चर्मिणो भृङ्गरिटिसंज्ञाः कृष्णशलभविशेषाः ॥
भीष्मपर्व - अध्याय 003

॥ श्रीः ॥

6.3. अध्यायः 003

Mahabharata - Bhishma Parva - Chapter Topics

व्यासेन धृतराष्ट्रंप्रति दुर्निमित्तप्रादुर्भावकथनम् ॥ 1 ॥ तथा जेप्यतां जयसूचकलिङ्गकथनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-3-0 (38692) व्यास उवाच। 6-3-0x (3955) खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः। अनार्तवं पुष्पफलं दर्शयन्ति वनद्रुमाः ॥ 6-3-1 (38693) गर्भिण्योऽजातपुत्राश्च जनयन्ति विभीषणान् । क्रव्यादाः पक्षिभिश्चापि सहा श्नन्ति परस्परम् ॥ 6-3-2 (38694) त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः । द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥ 6-3-3 (38695) जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः । त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥ 6-3-4 (38696) तथैवान्याश्च दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम् । वैनतेयान्मयूरांश्च जनयन्ति पुरे तव ॥ 6-3-5 (38697) गोवत्सं वडवा सूते श्वा सृगालं महीपते । कुक्कुरान्करभाश्चैव शुकाश्चाशुवादिनः ॥ 6-3-6 (38698) स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः । जातमात्राश्च नृत्यन्ति गायन्त च हसन्ति च ॥ 6-3-7 (38699) पृथग्जनस्य सर्वस्य क्षुद्रकाः प्रहसन्ति च। नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ॥ 6-3-8 (38700) प्रतिमाश्चालिखन्त्येताः सशस्त्राः कालचोदिताः । अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ॥ 6-3-9 (38701) अन्योन्यमभिमृद्गन्ति नगराणि युयुत्सवः । पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च ॥ 6-3-10 (38702) विष्व्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति। अभीक्ष्णं कम्पते भूमिरर्कं राहुरुपैति च ॥ 6-3-11 (38703) श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति । अभावं हि विशेषेण कुरूणां तत्र पश्यति ॥ 6-3-12 (38704) धूमकेतुर्महाघोरः पुष्यं चाक्रम्य तिष्ठति । सेनयोरशिवं घोरं करिष्यति महाग्रहः ॥ 6-3-13 (38705) मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः । भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ॥ 6-3-14 (38706) शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते । उत्तरे तु परिक्रम्य सहितः समुदीक्षते ॥ 6-3-15 (38707) श्यामो ग्रहः प्रज्वलितः सधूम इव पावकः । ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥ 6-3-16 (38708) ध्रुवं प्रज्वलितो घोरमपसव्यं प्रवर्तते । रोहिणीं पीडयत्येवमुभौ च शशिभास्करो । चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः ॥ 6-3-17 (38709) वक्रानुवक्रं कृत्वा च श्रवणं पावकप्रभः । ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥ 6-3-18 (38710) सर्वसस्यपरिच्छन्ना पृथिवी सस्यमालिनी । पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः ॥ 6-3-19 (38711) प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् । ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥ 6-3-20 (38712) निश्चेरुरर्चिषश्चापात्खङ्गाश्च ज्वलिता भृशम् । व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम् ॥ 6-3-21 (38713) अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च। कवचानां ध्वजानां च भविष्यति महाक्षयः ॥ 6-3-22 (38714) पृथिवी शोणितावर्ता ध्वजोडुपसमाकुला । कुरूणां वैशसे राजन्पाण्डवैः सह भारत ॥ 6-3-23 (38715) दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः । अत्याहितं दर्शयन्तः क्षत्रियाणां महद्भयम् ॥ 6-3-24 (38716) एकपक्षाक्षिचरणाः शकुन्ताः खेचरा निशि। रौद्रं वदन्ति संरब्धाः शोणितं छर्दयन्ति च ॥ 6-3-25 (38717) ग्रहौ ताम्रारुणनिभौ प्रज्वलन्ताविव स्थितौ । सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ॥ 6-3-26 (38718) संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ । विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ॥ 6-3-27 (38719) चन्द्रादित्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम्। अपर्वमि ग्रहं यातौ प्रजासंक्षयमिच्छतः ॥ 6-3-28 (38720) अशोभिता दिशः सर्वाः पांसुवर्षैः समन्ततः। उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥ 6-3-29 (38721) कृत्तिकां पीडयंस्तीक्ष्णैर्नक्षत्रं पृथिवीपते । अभीक्ष्णवाता वायन्ते धूमकेतुमवस्थिताः ॥ 6-3-30 (38722) विषमं जनयन्त्येत आक्रन्दजननं महत्। त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशांपते । बुधः संपततेऽभीक्ष्णं जनयन्प्राणिनां भयम् ॥ 6-3-31 (38723) चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम्। इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् । चन्द्रसूर्यावुभौ ग्रस्तावेकान्हा हि त्रयोदशीम् ॥ 6-3-32 (38724) अपर्वणि ग्रहेणैतौ प्रजाः संक्षपयिष्यतः । मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् । शोणितैर्वक्रसंपूर्णा अतृप्तास्तत्र राक्षसाः ॥ 6-3-33 (38725) प्रतिस्नोतोवहा नद्यः सरितः शोणितोदकाः । फेनायमानाः कूपाश्च कूर्दन्ति वृषभा इव ॥ 6-3-34 (38726) पतन्त्युल्काः सनिर्घाताः शक्राशनिसमप्रभाः । अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ ॥ 6-3-35 (38727) विनिःसृत्य महोल्काभिस्तिमिरं सर्वतो दिशम् । अन्योन्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः । भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥ 6-3-36 (38728) कैलासमन्दराभ्यां तु तथा हिमवतो विभो । सहस्रशो महाशब्दं शिखराणि पतन्ति च ॥ 6-3-37 (38729) महाभूता भूमिकम्पे चत्वारः सागराः पृथक् । वेलामुद्वर्तयन्तीव क्षोभयन्तो वसुन्धराम् ॥ 6-3-38 (38730) वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः । आभग्राः सुमहावातैरशनीभिः समाहताः ॥ 6-3-39 (38731) वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च । नीललोहितपीतश्च भवत्यग्निर्हुतो द्विजैः ॥ 6-3-40 (38732) वामार्चिर्दुष्टगन्धश्च मुञ्चन्वै दारुणं स्वनम् । स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥ 6-3-41 (38733) धूमं ध्वजाः प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः । मुञ्चन्त्यङ्गारवर्षं च भेर्यश्च पटहास्तथा ॥ 6-3-42 (38734) शिखराणां समृद्धानामुपरिष्टात्समन्ततः । वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः ॥ 6-3-43 (38735) पक्वापक्वेऽतिसुभृशं वावाश्यन्ते वयांसि च। निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥ 6-3-44 (38736) ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः । दीनास्तुरंगमाः सर्वे वारणाः सलिलाश्रयाः ॥ 6-3-45 (38737) `एवंविधं दुर्निमित्तं क्षयाय पृथीवीक्षिताम्। भौमं दिव्यं चान्तरिक्षं त्रिविधं जायतेऽनिशम्' 6-3-46 (38738) एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम्। यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥ 6-3-47 (38739) वैशम्पायन उवाच। 6-3-48x (3956) पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् । दिष्टमेतत्पुरा मन्ये भविष्यति नरक्षयः ॥ 6-3-48 (38740) राजानः क्षत्रधर्मेण यदि वध्यन्ति संयुगे। वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥ 6-3-49 (38741) इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् । प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥ 6-3-50 (38742) वैशम्पायन उवाच। 6-3-51x (3957) एवं मुनिस्तथेत्सुक्त्वा कवीन्द्रो राजसत्तम। धृतराष्ट्रेण पुत्रेण ध्यानमन्वगमत्परम् ॥ 6-3-51 (38743) स मुहूर्तं तथा ध्यात्वा पुनरेवाब्रवीद्वचः । असंशयं पार्थिवेन्द्र कालः संक्षयते जगत् ॥ 6-3-52 (38744) सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम्। ज्ञातीनां वै कुरूणां च संबन्धिसुहृदां तथा ॥ 6-3-53 (38745) धर्म्यं दर्शय पन्थानं समर्थो ह्यसि वारणे । क्षुद्रं जातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥ 6-3-54 (38746) कालोऽयं पुत्ररूपेण तव जातो विशांपते । न वधः पूज्यते वेदे हितं नैव कथंचन ॥ 6-3-55 (38747) हन्यात्स एनं यो हन्यात्कुलधर्मं स्विकां तनुम् । कालेनोत्पथगन्तसि शक्ये सति यथाऽऽपदि ॥ 6-3-56 (38748) कुलस्यास्य विनाशाय तथैव च महीक्षिताम् । अनर्थो राज्यरूपेण तव जातो विशांपते ॥ 6-3-57 (38749) लुप्तधर्मा परेणासि धर्मं दर्शय वै सुतान् । किं ते राज्येन दुर्धर्षयेन प्राप्तोऽसि किल्विषम् ॥ 6-3-58 (38750) यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि । लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥ 6-3-59 (38751) वैशम्पायन उवाच। 6-3-60x (3958) एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः । प्रशस्य वाक्यं वाक्यज्ञो वाक्यं चैवाब्रवीत्पुनः ॥ 6-3-60 (38752) धृतराष्ट्र उवाच। 6-3-61x (3959) यथा भवान्वेत्ति तथैव वेत्ता भावाभावौ विदितौ मे यथार्थौ । स्वार्थे हि संमुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि ॥ 6-3-61 (38753) प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः । न चापि ते वशगा मे सुताश्च न चाधर्मं कर्तुमर्हा हि मे मतिः ॥ 6-3-62 (38754) त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः । कुरूणां पाण्डवानां च मान्यश्चापि पितामहः ॥ 6-3-63 (38755) व्यास उवाच। 6-3-64x (3960) वैचित्रवीर्य नृपते यत्ते मनसि वर्तते। अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम् ॥ 6-3-64 (38756) धृतराष्ट्र उवाच। 6-3-65x (3961) यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम्। तानि सर्वाणि भगवञ्छ्रोतुमिच्छामि तत्त्वतः ॥ 6-3-65 (38757) व्यास उवाच। 6-3-66x (3962) प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः । पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद्भाविनो रूपमाहुः ॥ 6-3-66 (38758) गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र। विशुद्धरश्मिस्तपनः शशी च जयस्येतद्भाविनो रूपमाहुः ॥ 6-3-67 (38759) इष्टा वाचः प्रसृता वायसानां संप्रस्थितानां च गमिष्यतां च। ये पृष्ठतस्ते त्वरयन्ति राज- न्ये चाग्रतस्ते प्रतिषेधयन्ति ॥ 6-3-68 (38760) कल्याणवाचः शकुना राजहंसाः शुकाः क्रौञ्चाः शतपत्राश्च यत्र। प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये ध्रुवं जयस्तत्र वदन्ति विप्राः ॥ 6-3-69 (38761) अलंकारैः कवचैः केतुभिश्च सुखप्रणादैर्हेषितैर्वा हयानाम्। भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्ते विजयन्ति शत्रून् ॥ 6-3-70 (38762) हृष्टा वाचस्तथा सत्वं योधानां यत्र भारत। न म्लायन्ति स्रजश्चैव ते तरन्ति रणोदधिम् ॥ 6-3-71 (38763) `प्रयाणे वायसो वामे दक्षिणे प्रविविक्षताम्। पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति ॥ ' 6-3-72 (38764) शब्दरूपरसस्पर्शगन्धाश्चाविकृताः शुभाः । सदा हर्षश्च योधानां जयतामिह लक्षणम् ॥ 6-3-73 (38765) अनुगा वायवो वान्ति तथाऽभ्राणि वयांसि च । अनुप्लवन्ति मेघाश्च तथैवेन्द्रधनूंषि च ॥ 6-3-74 (38766) एतानि जयमानानां लक्षणानि विशांपते । भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ॥ 6-3-75 (38767) अल्पायां वा महत्यां वा सेनायामिति निश्चयः। हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥ 6-3-76 (38768) एको दीर्णो दारयति सेनां सुमहतीमपि । तां दीर्णामनुदीर्यन्ते योधाः शूरतरा अपि ॥ 6-3-77 (38769) दुर्निवर्त्या तदा चैव प्रभग्ना महती वमूः । अपामिव महावेगा त्रस्ता मगगणा इव ॥ 6-3-78 (38770) नैव शक्या समाधातुं सन्निपाते महाचमूः । दीर्ण इत्येव दीर्यन्ते सुविद्वांसोऽपि भारत ॥ 6-3-79 (38771) भीतान्भग्नांश्च संप्रेक्ष्य भयं भूयोऽभिवर्धते। प्रभग्ना सहसा राजन्दिशो विद्रवते चमूः । नैव स्थापयितुं शक्या शूरैरपि महाचमूः ॥ 6-3-80 (38772) सत्कृत्य महतीं सेनां चतुरङ्गां महीपतिः । उपायपूर्वं मेधावी यतेत सततोत्थितः ॥ 6-3-81 (38773) उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् । जघन्य एष विजयो यो युद्धेन विशांपते ॥ 6-3-82 (38774) महान्दोषः सन्निपातस्तस्याद्यः क्षय उच्यते । परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः ॥ 6-3-83 (38775) अपि पञ्चाशतं शूरा मृद्गन्ति महतीं चमूम् । अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः ॥ 6-3-84 (38776) न वैनतेयो गरुडः प्रशंसति महाजनम् । दृष्ट्वा सुपर्णोऽपचितिं महत्या अपि भारत ॥ 6-3-85 (38777) न बाहुल्येन सेनाया जयो भवति नित्यशः । अध्रुवो हि जयो नाम दैवं चात्र परायणम् । जयवन्तो हि संग्रामे कृतकृत्या भवन्ति हि ॥ ॥ 6-3-86 (38778) इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि तृतीयोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-3-6 वडवा अश्वा श्वा शुनी। करभो मृगविशेषः ॥ 6-3-7 प्रजायन्ते जनयन्ति ॥ 6-3-8 पृथग्जनस्य नीचजनस्य संबन्धिनः क्षुद्रकाः व्यङ्गाः चण्डालादिषु जाताः काणकुब्जादय इत्यर्थः । क्षुद्रा व्यङ्गानटीत्यादिमेदिनी ॥ 6-3-10 नगराणि कृत्रिमाणि शिशव एवावमृद्गन्ति ॥ 6-3-11 कार्तिक्याः परं हि संग्रामारम्भस्तत्र तुलास्थमर्कं राहुरुपैति ॥ 6-3-12 तदैव श्वेतो ग्रहः केतुश्चित्रामतिक्रामति स्वात्यादौ वर्तते । नित्यं समसस्तकस्थौ राहुकेतू इदानीमेकराशिगतौ महानिष्टसूचकाविति भावः ॥ 6-3-13 धूमकेतुरुपग्रहविशेषः स पुष्यं क्षत्रियनक्षत्रमाक्रम्य तिष्ठति। तथा वक्ष्यमाणरीत्या ज्येष्ठास्थेनापि केतुना पुष्यो विद्धस्तथा च स्वनक्षत्रे क्रूराक्रान्ते क्रूरविद्धे च सत्यवश्यं क्षत्रियाणां नाशो भवतीत्यर्थः । यथोक्तम् । कृत्तिकायां तथा पुष्पे रेवत्यां च पुनर्वसौ । वेधे सति त्रमाद्वेधो वर्णेषु ब्राह्मणादिष्विति नरतिविजये ॥ 6-3-14 भगं नक्षत्रं पूर्वाफल्गुनी । श्रुतिमते तूत्तराफल्गुनी ॥ 6-3-15 पूर्वेप्रोष्ठपदे पूर्वाभाद्रपदानक्षत्रं समारुह्य परिक्रम्य परिघाख्य उपग्रहस्तेन सहितः उत्तरे उत्तराभाद्रपदानक्षत्रं उदीक्षते आक्रान्तुमिच्छति ॥ 6-3-16 श्यामो द्वितीय उपग्रहः केतुसंज्ञः ऐन्द्रं ज्येष्ठां नक्षत्रमिति योज्यम् ॥ 6-3-17 परुषग्रहो राहुरेकनक्षत्रस्थौ शशिभास्करौ पीडयति । अपसव्यं प्रवर्तते सर्वदा वक्री सन्। सर्वतोभद्रचक्रे वेधेन कस्वातीस्थः सन् रोहिणीनक्षत्रं च पीडयतीत्यर्थः ॥ 6-3-18 तत्रैव सर्वतोभद्रचक्रे मघास्थो लिहिताङ्गोऽङ्गारको वक्रानुवक्रं कृत्वा पुनःपुनर्वक्रीभूय ब्रह्मणा बृहस्पतिनाक्रान्तं राशिं श्रवणं समावृत्य सम्यक् पूर्णदृष्ट्या विद्वा तिष्ठति ॥ 6-3-19 परिच्छन्ना आच्छादिता । पञ्चशीर्षाणि शिम्बीसदृशानि येषां ते पञ्चशीर्षाः ॥ 6-3-27 पूर्वं श्रवणस्थो बृहस्पतिर्भगनक्षत्रस्थः सूर्यपुत्र इत्युक्तं तावुभौ विशाखासमीपे तिर्यग्वेधेन शतपदे चक्रे विशाखानक्षत्रं विध्यत इत्यर्थः ॥ 6-3-28 अपर्वणि पर्व दर्शाख्यं पञ्चदशेह्नि भवति एकतिथिवृद्धौ षोडशे वा एकतिथिक्षये चतुर्दशे वाह्नि भवति। तिथिद्वयक्षयस्तु लोकेऽत्यन्तमप्रसिद्ध इति अपर्वणीत्युक्तं । ग्रहं यातौ राहुणा ग्रहणं प्राप्तौ । एतदेव प्रजासंक्षयहेतुत्वेन शास्त्रे दृष्टमित्याह प्रजेति। अयं श्लोकोत्र दाक्षिणात्यकोशेषु नास्ति। झo पुस्तक एवास्ति॥ 6-3-30 चित्रास्वान्त्यतरस्थः पुरुषो ग्रहो रोहिणीं पीडयतीत्युक्तं तत्र चित्रांशे स्थित्वा रोहिणी अष्टादशत्वेन स्ममुदायिकनक्षत्रं पीडयति। स्वात्यंशे स्थित्वा कृत्तिकां षोडशकत्वेन सांघातिकनक्षत्रं पीडयति। सर्वतोभद्रचक्रे तथा दर्शनात् तदेतदाह कृत्तिकामित्यर्धेन । तीक्ष्णै क्रूरैः कर्मभिरुपलक्षितो राहुरित्यर्थः । धूमकेतुं उत्पातविशेषमनुलक्ष्यावस्थिताः ॥ 6-3-31 त्रिष्विति। त्रिषु सर्वेषु नक्षत्रनक्षत्रेषु विशांपते। गृध्नः संपतते शीर्षं जनयन्भयमुत्तमम् इति झo पाठः ॥ 6-3-32 ग्रस्तावेकमासीं त्रयोदशीम् इति झo पाठः । तत्पक्षे चन्द्रादित्यावुभौ ग्रस्तावित्येतेन श्लोकेनोक्तमर्थं विशदयति द्वाभ्याम्। चतुर्दशीमिति। त्रयोदशीं त्रयोदाशानामह्नां पूरणीं अमावास्यां भूतपूर्वां नाभिजानामि। अतिभूयसा कालेन अयं दुर्योग आगत इति भावः। एकमासीं एकस्मिन्नेव मासे भवाम्। पूर्वं त्रयोदश्यां रात्रौ पक्षसमाप्त्या सूर्यग्रहणमेवोक्तम्। इदानीं तु एकस्मिन्मासे चन्द्रः पूर्वमास्यां राहुणा ग्रहेण ग्रस्तः सूर्योऽमावास्यायाम्। यदा सूर्यो ग्रस्तस्तदा चन्द्रोपि ग्रस्त एव दर्शे तयोः संहतत्वात् ॥ 6-3-33 अपर्वणीति। लोकाप्रसिद्धपर्वणीति पूर्ववत् ज्ञेयम् ॥ 6-3-34 कूपाः कूर्दन्ति क्रीडन्ति वातैः क्षुभ्यन्त इत्यर्थः ॥ 6-3-35 अनयं अनीतिफलम् ॥ 6-3-38 महाभूता वृद्धीभूताः ॥ 6-3-43 शिखराणां द्रुमाग्राणाम् ॥ 6-3-44 पक्वापक्वेति पक्षिरुतानुकरणम्। वावाश्यन्ते अतिशयेन शब्दं कुर्वन्ति ॥ 6-3-45 प्रकिरन्तः शकृन्मूत्रमिति शेषः। व्यालाः दुष्टहस्तिनः । सलिलाश्रयाः अत्यन्तं प्रस्वेदयुक्ताः ॥ 6-3-51 मुनिः एवं तथेत्युक्त्वेति संबन्धः । धृतराष्ट्रेण हेतुना। तदर्थमित्यर्थः। ध्यानं चिन्ताम् ॥ 6-3-55 अयं दुर्योधनः ॥ 6-3-56 सः धर्मः एवं धर्महन्तारं शक्येऽनापदि सत्यां किमर्थमापदीव उन्मार्गगामी भवसीत्यर्थः ॥ 6-3-58 परेण अतिशयेन ॥ 6-3-61 भावाभावौ स्थितिविनाशौ ॥ 6-3-63 त्वं हि धर्मादौ हेतुरित्यर्थः ॥ 6-3-67 रूपं गमकं चिह्नम् ॥ 6-3-68 ये पृष्ठतो भाषमाणा वायसास्ते गन्तारं त्वरयन्ति सिद्धिसूचका इत्यर्थः । ये पुरतो भाषमाणास्ते गमनं निषेधन्तीत्यर्थः ॥ 6-3-83 सन्निपातो योधानां संघर्षः । व्यवधूताः दारादिष्वनासक्ताः ॥ 6-3-85 शूराणां सहायसंपत्तिर्नापेक्षितेत्यत्र दृष्टान्तमाह न वैनतेय इति। महत्या अपि सेनाया अपचितिं प्रतिकारं नाशं वा एकेनैवात्मना कर्तुं शक्यं दृष्ट्वा सुपर्णः शोभनपतत्रः गरुडो नामतः वैनतेयो विनतायाः पुत्रो महाजनं बहुजनसमूहं न प्रशंसति ॥
भीष्मपर्व - अध्याय 004

॥ श्रीः ॥

6.4. अध्यायः 004

Mahabharata - Bhishma Parva - Chapter Topics

व्यासे गते संजयेन धृतराष्ट्रंप्रति भूमिगुणानुवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-4-0 (38779) वैशम्पायन उवाच। 6-4-0x (3963) एवमुक्त्वा ययौ व्यासो धृतराष्ट्रय धीमते। धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत॥ 6-4-1 (38780) स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः । संजयं संशितात्मानमपृच्छद्रतर्षभ ॥ 6-4-2 (38781) संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः । अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह ॥ 6-4-3 (38782) पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम् । न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम् ॥ 6-4-4 (38783) भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् । मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय ॥ 6-4-5 (38784) बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च। कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ॥ 6-4-6 (38785) देशानां च परीमाणं नगराणां च संजय । श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ॥ 6-4-7 (38786) दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा। प्रभावात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ॥ 6-4-8 (38787) संजय उवाच। 6-4-9x (3964) यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान्। शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ॥ 6-4-9 (38788) द्विविधानीह भूतानि चराणि स्थावराणि च। त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ॥ 6-4-10 (38789) त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः। जरायुजानां प्रवरा मानवाः पशवश्च ये ॥ 6-4-11 (38790) नानारूपधरा राजंस्तेषां भेदाश्चतुर्दश । वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥ 6-4-12 (38791) ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम् । सर्वेषामेव भूतानामन्योन्येनोपजीवनम् ॥ 6-4-13 (38792) उद्भिञ्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः । वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ 6-4-14 (38793) तेषां विंशतिरेकोना महाभूतेषु पञ्चसु । चतुर्विशतिरुद्दिष्टा गायत्री लोकसंमता ॥ 6-4-15 (38794) य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् । तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति॥ 6-4-16 (38795) अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः । सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ॥ 6-4-17 (38796) ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप । गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः ॥ 6-4-18 (38797) एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः । एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश ॥ 6-4-19 (38798) भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति । भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम् ॥ 6-4-20 (38799) यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् । तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ॥ ॥ 6-4-21 (38800) इति श्रीमन्महाभारते उद्योगपर्वणि जम्बूखण्डविनिर्माणपर्वणि चतुर्थोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-4-4 नवा नैव । यमक्षयं यमलोकम् ॥ 6-4-10 त्रसानां जंगमानां योनिरुत्पत्तिस्थानम् ॥
भीष्मपर्व - अध्याय 005

॥ श्रीः ॥

6.5. अध्यायः 005

Mahabharata - Bhishma Parva - Chapter Topics

संजयेन धृतराष्ट्रंप्रति भूतपञ्चकगुणवर्णनपूर्वकं संक्षेपेण जम्बूद्वीपवर्णनम् ॥ 1 ।

Mahabharata - Bhishma Parva - Chapter Text

6-5-0 (38801) धृतराष्ट्र उवाच। 6-5-0x (3965) नदीनां पर्वतानां च नामधेयानि संजय । तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥ 6-5-1 (38802) प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः । निखिलेन समाचक्ष्व काननानि च संजय ॥ 6-5-2 (38803) संजय उवाच। 6-5-3x (3966) पञ्चेमानि महाराज महाभूतानि संग्रहात्। जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ॥ 6-5-3 (38804) भूमिरापस्तथा वायुरग्निराकाशमेव च। गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥ 6-5-4 (38805) शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिःक ॥ 6-5-5 (38806) चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते। शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः । शब्दः स्पर्शश्च वायौ द्वौ अकाशे शब्द एव तु ॥ 6-5-6 (38807) एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु। वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः ॥ 6-5-7 (38808) अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा ॥ 6-5-8 (38809) यदा तु विषमीभावमाविशन्ति परस्परम् । तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥ 6-5-9 (38810) आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः । सर्वाम्यपरिमेयाणि तदेषां रूपमैश्वरम् ॥ 6-5-10 (38811) तत्रतत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः । तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ 6-5-11 (38812) अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्। प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥ 6-5-12 (38813) सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन। परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ॥ 6-5-13 (38814) नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः । पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥ 6-5-14 (38815) वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् । लवणेन समुद्रेण समन्तात्परिवारितः ॥ 6-5-15 (38816) यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः । एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ॥ 6-5-16 (38817) द्विरशस्तु ततः प्लक्षो द्विरंशः शाल्मलिर्महान् । द्विरंशः पिप्पलस्तस्य द्विरंशश्च कुशो महान्। सर्वौषधिसमापन्नः पर्वतैः परिवारितः ॥ 6-5-17 (38818) आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते। ततोऽन्य उच्यते चायमेनं संक्षेपतः श्रृणु ॥ ॥ 6-5-18 (38819) इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि पञ्चमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-5-13 किमस्य प्रमाणं का वा आकृतिस्तवाभिमतेत्याशङ्क्याह सुदर्शनमिति। सुदर्शनो नाम जम्बूवृक्षविशेषस्तन्नामाङ्कितोऽयं द्वीपः सुदर्शनद्वीपः तं प्रमाणत आकृतितश्च प्रकर्षेण वक्ष्यामि। तुशब्दः पक्षान्तरव्यावृत्त्यर्थः । चक्रसंस्थितः चक्रवत् संस्थितं उस्थंनमाकारो यस्य सः ॥ 6-5-16 नन्वेवंविधस्य कथमतिसूक्ष्मत्वमुच्यतेऽत आह यथा हीति ॥
भीष्मपर्व - अध्याय 006

॥ श्रीः ॥

6.6. अध्यायः 006

Mahabharata - Bhishma Parva - Chapter Topics

संजयेन भारतादिनवखण्डानां तत्तत्सीमापर्वतानां मेरोश्च वर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-6-0 (38820) धृतराष्ट्र उवाच। 6-6-0x (3967) उक्तो द्वीपस्य संक्षेपो विधिवद्बुद्धिमंस्त्वया। तत्त्वज्ञश्चासि सर्वस्य विस्तारं ब्रूहि सञ्जय ॥ 6-6-1 (38821) यावान्भूम्यवकाशोऽयं दृश्यते शशलक्षणे। तस्य प्रमाणां प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥ 6-6-2 (38822) वैशम्पायन उवाच। 6-6-3x (3968) एवं राज्ञा स पृष्टस्तु संजयो वाक्यमब्रवीत्। 6-6-3xa संजय उवाच। प्रागायता महाराज षडेते वर्षपर्वताः । अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ 6-6-3 (38823) हिमवान्हेमकूटश्च निषधश्च नगोत्तमः। नीलश्च वैदूर्यमयः श्वेतश्च शशिसन्निभः ॥ 6-6-4 (38824) सर्वधातुविचित्रश्च श्रृङ्गवान्नाम पर्वतः। एते वै पर्वता राजन्सिद्धचारणसेविताः ॥ 6-6-5 (38825) एषामन्तरविष्कम्भा योजनानि सहस्रशः। तत्र पुण्या जनपदास्तानि वर्षाणि भारत ॥ 6-6-6 (38826) वसन्ति तेषु सत्वानि नानाजातीनि सर्वशः । इदं तु भारतं वर्षं ततो हैमवतं परम् ॥ 6-6-8a` ततः किंपुरुषावासं वर्षं हिमवतः परम्'। हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥ 6-6-7 (38827) दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। व्रागायतो महाभाग माल्यवान्नाम पर्वतः ॥ 6-6-9 (38828) ततः परं माल्यवतः पर्वतो गन्धमादनः । परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः । तरुणादित्यसंकाशो विधूम इव पावकः ॥ 6-6-10 (38829) योजनानां सहस्राणि षोडशाधः किल स्मृतः । ऊर्ध्वं च चतुरशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः। अधस्ताच्चतुरशीतिर्योजनानां महीपते॥ 6-6-11 (38830) ऊर्ध्वंमधश्च तिर्यक्व मेरुरावृत्य तिष्ठति । तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः सस्थिता विभो ॥ 6-6-12 (38831) भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत। उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ 6-6-13 (38832) विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल। स वै विचिन्तयामास सौवर्णान्वीक्ष्य वायसान् ॥ 6-6-14 (38833) मेरुरुत्तममध्यानामधमानां च पक्षिणाम्। अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥ 6-6-15 (38834) तमादित्योऽनुपर्येति सततं ज्योतिषां वरः। चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः ॥ 6-6-16 (38835) सपर्वतो महाराज दिव्यपुष्पफलान्वितः। भवनैरावृतः सर्वैर्जाम्बूनदपरिष्कृतैः ॥ 6-6-17 (38836) तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः। अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा ॥ 6-6-18 (38837) तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः। समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥ 6-6-19 (38838) तुम्बुरुर्नारदश्चैव विश्वावसुर्हहाहुहूः । अभिगम्यामरश्रेष्ठांस्तुष्टुवुर्विविधैः स्तवैः ॥ 6-6-20 (38839) सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः । तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥ 6-6-21 (38840) तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते । इमानि तस्य रत्नानि तस्येमे रत्नपर्वताः ॥ 6-6-22 (38841) तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्रुते । ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥ 6-6-23 (38842) पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमैश्चितम्। कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥ 6-6-24 (38843) तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः । उमासहायो भगवान्रमते भूतभावनः ॥ 6-6-25 (38844) कर्णिकारमयी मालां बिभ्रत्पादावलम्बिनीम् । त्रिभिर्नेत्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः ॥ 6-6-26 (38845) तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः । पश्यन्ति नहि दुर्वृत्तैः शक्यो द्रुष्टुं महेश्वरः ॥ 6-6-27 (38846) तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर। विश्वरूपाऽपरिमिता भीमनिर्घातनिःस्वना ॥ 6-6-28 (38847) पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा । प्लवन्तीव प्रवेगेन ह्रदे चन्द्रमसः शुभे ॥ 6-6-29 (38848) तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः । तां धारयामास तदा दुर्धरां पर्वतैरपि ॥ 6-6-30 (38849) शतं वर्षसहस्राणां शिरसैव महेश्वरः । मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ॥ 6-6-31 (38850) जम्बूखण्डे तु तत्रैव महाजनपदो नृप । आयुर्दशसहस्राणि वर्षाणां तत्र भारत ॥ 6-6-32 (38851) सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः । अनामया वीतशोका नित्यं मुदितमानसाः ॥ 6-6-33 (38852) जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः । गन्धमादनश्रृङ्गेषु कुबेरः सह राक्षसैः ॥ 6-6-34 (38853) संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः । गन्धमादनपार्श्वे तु पर त्वपरगण्डिकाः ॥ 6-6-35 (38854) एकादशसहस्राणि वर्षाणां परमायुषः । तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः । स्त्रियश्चोत्पलवर्णाभाः सर्वाः सुप्रियदर्शनाः ॥ 6-6-36 (38855) नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम्। वर्षमैरष्वतं राजन्नानाजनपदावृतम् ॥ 6-6-37 (38856) धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे। इलावृत्तं मध्यमं तु पञ्च दीर्घाणि चैव हि ॥ 6-6-38 (38857) उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः । आयुःप्रमाणमारोग्यं धर्मतः कामतोऽर्थतः॥ 6-6-39 (38858) समन्वितानि भूतानि तेषु वर्षेषु भारत। एवमेषा महाराज पर्वतैः पृथिवी चिता ॥ 6-6-40 (38859) हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः । 6-6-41bयत्र वैश्रवणो राजन्गुह्यकैः सह मोदते ॥ 6-6-41 (38860) तत्र देवो महादेवो नित्यमास्ते सहोमया। शीते शिलातले रम्ये देवर्षिगणपूजितःक ॥ 6-6-42 (38861) अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति। हिरण्यश्रृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ 6-6-43 (38862) तस्य पार्श्वे महद्दिव्यं शुभ्रं काञ्चनवालुकम् । रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ 6-6-44 (38863) दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः। यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः ॥ 6-6-45 (38864) तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः। स्रष्टा भूतपतिर्यत्र सर्वलोकान्सनातनान् ॥ 6-6-46 (38865) उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः । नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥ 6-6-47 (38866) तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता। ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते॥ 6-6-48 (38867) वस्वौकसारा नलिनी पावनी च सरस्वती । जम्बूनदी च सीता च गङ्गा सिंधुश्च सप्तमी ॥ 6-6-49 (38868) अचिन्त्या दिव्यसंकाशा प्रभोरेषैव संविधिः । उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ 6-6-50 (38869) दृश्याऽदृश्या च भवति तत्र तत्र सरस्वती । एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ॥ 6-6-51 (38870) रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः । सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ॥ 6-6-52 (38871) देवासुराणां सर्वेषां श्वेतपर्वत उच्यते। गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा । श्रृङ्गवांस्तु महाराज देवानां प्रतिसंचरः ॥ 6-6-53 (38872) इत्येतानि महाराज सप्त वर्षाणि भागशः। भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥ 6-6-54 (38873) तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी। अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता ॥ 6-6-55 (38874) यां तु पृच्छसि मां राजन्दिव्यामेतां शशाकृतिम्। पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे । कर्णौ तु शाकद्वीपश्च काश्यपद्वीप एव च ॥ 6-6-56 (38875) ताम्रपर्णीशिरो राजञ्छ्रीमान्मलयपर्वतः । एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥ ॥ 6-6-57 (38876) इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि षष्ठोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-6-6 एवं दक्षिणां दिशमारभ्य यावदुत्तरसमाप्ति षट्प्राक्पश्चिमास्थानानि भवन्ति। तेषां स्थानानां वर्षाख्यानामन्तरमाह एषामिति। विष्कम्भो विस्तारः ॥ 6-6-7 वसन्त्येषु तानि वर्षाणीति योगान्तरमाह वसन्तीति। हिमवतो दक्षिणे भारतं वर्षं उत्तरतो हैमवतं वर्षं द्वितीयम्। अस्यैव नामान्तरं किंपुरुषावासमिति ॥ 6-6-8 हेमकूटनिषधयोर्मध्ये हरिवर्षम्। निषधनीलयोर्मध्ये वर्षविभागमाह दक्षिणेनेति। दक्षिणेन दक्षिणतः समीप इत्यर्थः । एवमुत्तरेणेत्यादौ ज्ञेयम् ॥ 6-6-9 नीलनिषधयोर्मध्ये मेरुस्तस्य प्राक् माल्यवान् पूर्वसमुद्रावधिः। पश्चिमसमुद्रावधिर्गन्धमादन इत्यर्थः ॥ 6-6-12 तस्य पार्श्वेष्विति। पार्श्वेषु चतुर्दिक्षु। द्वीपा इव द्वीपाः नद्यन्तरत्वाद्वर्षाणि ॥ 6-6-13 भद्राश्वादिसाहचर्याज्जम्बूद्वीपशब्दोऽत्र भरतवर्षपरस्तस्य तत्सारत्वज्ञापनार्थः । तानेव स्तौति कृतपुण्यप्रतिश्रया इत्यादिना । कृता विहिताः पुण्यैः पुण्यवद्भिः प्रतिश्रया आश्रमा येषु ते ॥ 6-6-16 तं मेरुमादित्योऽनुपर्येति प्रदक्षिणीकरोति ॥ 6-6-22 काव्यः कविश्रेष्ठः शुक्रो रमत इति शेषः। तस्य काव्यस्य ॥ 6-6-23 तस्मात् काव्यात् । ततः कुबेरात् । कलांशं षोडशभागस्यापि लेशम् ॥ 6-6-28 क्षीरवत् श्वेता धारा यस्याः सा गङ्गा। विश्वरूपा विश्वो विष्णुस्तद्रूपा। तथाच स्मरन्ति- योसौ सर्वगतो विष्णुश्चित्वरूपी निरञ्जनः। स एव द्रवरूपेण गाङ्गाम्भो कनात्र संशय इति ॥ 6-6-30 तयैव प्रवेगेन मेरुप्राकारात् पतनजनितबलेन खनन्त्या स ह्रद उत्पादित इति संबन्धः ॥ 6-6-35 अपरगण्डिकाः अन्ये गन्धमादनस्यैवावयवभूता बुद्बुदोपमाः क्षुद्रशैलाः । गण्डो भूषणबुद्ब्रदे इति मेदिनी । स्वार्थिकः कः ॥ 6-6-36 उत्पलवर्णेन आभान्ति ताः उत्पलवर्णाभाः ॥ 6-6-37 एवं हिमवतो दक्षिणे भरतवर्षं। तदुत्तरे हैमवतं वर्ष। हेमकूटादुत्तरे हरिवर्षं। निषधादुत्तरे नीलाच्च दक्षिणे मेरोः परित इलावृतमेकमेव चतुर्थं वर्षं। अत्रैव केचिद्भद्राश्वकेतुमालयोर्वर्ष्नान्तरत्वं प्रकल्प्य नववर्षाणीत्याचक्षते। ततो नीलात्पर्वतात् उत्तरतः श्वेतं पञ्चमं वर्षं। श्वेतात्पर्वतादुत्तरतो हैरण्यकं वर्षं षष्ठम्। ततः शृङ्गवत्पर्वतात् ऐरावतं सप्तमं वर्षम् ॥ 6-6-38 धनुःसंस्थे धनुराकारे। एवमाकारं दक्षिणे भरतवर्षं उत्तरे ऐरावतं च मध्ये पञ्चेति सप्तवर्षाणि ॥ 6-6-41 हेमेति हेमकूटएव कैलासः तस्योत्तरे मैनाकः तस्योत्तरतो हिरण्यशृङ्गः एतयोरन्तराले बिन्दुसरोऽस्तीति श्लोकत्रयार्थः ॥ 6-6-50 प्रभोरीश्वरस्य एष सप्तनद्यात्मकः संविधिः समीचीनं लोकोपकारार्थं विधानम्। एषैवेति संधिरार्षः ॥ 6-6-53 श्वेतपर्वतः स्थानमिति शेषः। गन्धर्वा वसन्तीति शेषः। प्रतिसंचरः व्यवहारस्थानम् ॥ 6-6-54 इतीति। वर्षाणि तत्र उपनिविष्टानि गतिमन्ति जङ्गमानि ध्रुवाणि स्थावराणि च सर्वाणि भूतान्येव। सर्वं दृश्यं आश्रयाश्रितरूपं पाञ्चभौतिकमेवेत्यर्थः ॥ 6-6-55 बुभूषता श्रेयःप्राप्तुमिच्छता श्रद्धेया ॥
भीष्मपर्व - अध्याय 007

॥ श्रीः ॥

6.7. अध्यायः 007

Mahabharata - Bhishma Parva - Chapter Topics

मेरोरुत्तरभागस्थोत्तरकुरुवर्णनम् ॥ 1 ॥ तथा मेरोः पूर्वभागस्थभद्राश्वखण्डवर्णनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-7-0 (38877) धृतराष्ट्र उवाच। 6-7-0x (3969) मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय। निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥ 6-7-1 (38878) संजय उवाच। 6-7-2x (3970) दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे। उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥ 6-7-2 (38879) तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः। पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ 6-7-3 (38880) सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप । अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥ 6-7-4 (38881) ये क्षरन्ति सदा क्षीरं षड्रसं चामृपोतमम् । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ 6-7-5 (38882) सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप । पुष्करिष्यः शुभास्तत्र सुखस्पर्शा मनोरमाः ॥ 6-7-6 (38883) देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः। शुक्लाभिजनसंयन्नाः सर्वे सुप्रियदर्शनाः॥ 6-7-7 (38884) मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः। तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ॥ 6-7-8 (38885) मिथुनं जायते काले समं तच्च प्रवर्धते। तुल्यरूगुणोपेतं समवेषं तथैव च ॥ 6-7-9 (38886) एवमेवानुरूपं च चक्रवाकसमं विभो । निरापगाम ते लोका नित्यं मुदितमानसाः ॥ 6-7-10 (38887) दशवर्षसहस्राणि शशवर्षशतानि च । जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥ 6-7-11 (38888) भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः । तान्निहेरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ॥ 6-7-12 (38889) उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः। मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥ 6-7-13 (38890) तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशांपते । भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥ 6-7-14 (38891) कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः । द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः ॥ 6-7-15 (38892) तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः। स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥ 6-7-16 (38893) चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः । चन्द्रशीतलगात्र्यश्च नृत्तिगीतविशारदाः ॥ 6-7-17 (38894) दशवर्षसहस्राणि तत्रायुर्भरतर्षभ । कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥ 6-7-18 (38895) दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥ 6-7-19 (38896) सर्वकामफलः पुण्यः सिद्धचारणसेवितः। तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥ 6-7-20 (38897) योजनानां सहस्त्रं च शतं च भरतर्षभ । उत्सेधो वृक्षराजस्य दिवस्पृङ्भनुजेश्वर ॥ 6-7-21 (38898) अरत्नीनां सहस्रं च शतानि दश पञ्च च । परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥ 6-7-22 (38899) पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम् । मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम् ॥ 6-7-23 (38900) तस्या जम्बाः फलरसो नदी भूत्वा जनाधिप । मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् ॥ 6-7-24 (38901) तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप । तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥ 6-7-25 (38902) तत्र जाम्बूनदं नाम कनकं देवभूषणम् । इन्द्रगोपकसंकाशं जायते भास्वरं तु तत् ॥ 6-7-26 (38903) तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः । तथा माल्यवतः श्रृङ्गे दृश्यते हव्यवाट् सदा ॥ 6-7-27 (38904) नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ । तथा माल्यवतः श्रृङ्गे पूर्वपूर्वानुगण्डिका ॥ 6-7-28 (38905) योजनानां सहस्राणि पञ्चषण्माल्यवानथ । महारजतसंकाशा जायन्ते तत्र मानवाः ॥ 6-7-29 (38906) ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः । तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः । रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम् ॥ 6-7-30 (38907) षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च। अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ 6-7-31 (38908) षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च। आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥ ॥ 6-7-32 (38909) इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि सप्तमोऽध्यायाः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-7-3 मधुफलाः स्वादुफलाः ॥ 6-7-7 शुक्लाभिजनो विष्णुभक्तजनस्तेन संपमास्तत्सङ्गिनः ॥ 6-7-10 चक्रवाकौ सहचरौ पक्षिदम्पती ॥ 6-7-14 मूर्धाभिषेको मूर्धाभिषिक्तम्। मुख्यमिति यावत् ॥ 6-7-28 गण्डिका क्षुद्रपर्वतः ॥ 6-7-29 पञ्चषट् पञ्चाधिकाः षट् एकादशेत्यर्थः । महारजतं काञ्चनं तत्संकाशाः ॥ 6-7-30 ब्रह्मलोकेति। ये इतः कर्मणा ब्रह्मलोकं गतास्ते ततश्च्युताः सन्तो माल्यवति पर्वते जन्म लब्धा भूतानां रक्षणार्थं तपस्तप्त्वा दिवाकरं प्रविशन्ते तत्समीपं प्राप्नुवन्ति ॥
भीष्मपर्व - अध्याय 008

॥ श्रीः ॥

6.8. अध्यायः 008

Mahabharata - Bhishma Parva - Chapter Topics

मेरोरुत्तरभागस्थखण्डत्रयवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-8-0 (38910) धृतराष्ट्र उवाच। 6-8-0x (3971) वर्षाणां चैव नामानि पर्वतानां च संजय। आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥ 6-8-1 (38911) संजय उवाच। 6-8-2x (3972) दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु। वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ 6-8-2 (38912) शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः। निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥ 6-8-3 (38913) दशवर्षसहस्राणि शतानि दश पञ्च च। जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥ 6-8-4 (38914) दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण तु। वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥ 6-8-5 (38915) यत्र चायं महाराज पक्षिराट् पतगोत्तमः। यक्षानुगा महाराज धनिनः प्रियदर्शनाः ॥ 6-8-6 (38916) महाबलास्तत्र जना राजन्मुदितमानसाः। एकादशसहस्राणि वर्षाणां ते जनाधिप ॥ 6-8-7 (38917) आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च। श्रृङ्गाणि वै श्रृङ्गवतस्त्रीण्येव मनुजाधिप ॥ 6-8-8 (38918) एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम् । तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली ॥ 6-8-9 (38919) उत्तरेण तु श्रृङ्गस्य समुद्रान्ते जनाधिप । वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ॥ 6-8-10 (38920) न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः । चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ॥ 6-8-11 (38921) पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः । पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ 6-8-12 (38922) अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः । देवलोकच्युताः सर्वे तथा विरजसो नृप ॥ 6-8-13 (38923) त्रयोदशसहस्राणि वर्षाणां ते जनाधिप । आयुःप्रमाणं जीवन्ति नरा भरतसत्तम ॥ 6-8-14 (38924) क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः । हरिर्वसति वैकुण्ठः शकटे कनकोञ्ज्वले ॥ 6-8-15 (38925) अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् । अग्निवर्णं महातेजो जाम्बूनदविभूषितम् ॥ 6-8-16 (38926) स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ । संक्षेपो विस्तरश्चैव कर्ता कारयिता तथा ॥ 6-8-17 (38927) पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव । स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः ॥ 6-8-18 (38928) वैशम्पायन उवाच। 6-8-19x (3973) एवमुक्तः संजयेन धृतराष्ट्रो महामनाः। ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ॥ 6-8-19 (38929) स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः। असंशयं सूतपुत्र कालः संक्षिपते जगत् ॥ 6-8-20 (38930) सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् । नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत् ॥ 6-8-21 (38931) देवा वैकुण्ठ इत्याद्दुर्वेदा विष्णुरिति प्रभुम् ॥ ॥ 6-8-22 (38932) इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण़्डविनिर्माणपर्वणि अष्टमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-8-2 यत्पूर्वं श्वेतवर्षमित्युक्तं तस्यैव रमणकमिति संज्ञान्तरम् ॥ 6-8-8 शृङ्गवतः षष्ठस्य वर्षपर्वतस्य ॥ 6-8-10 शृङ्गस्य शृङ्गवतः ॥ 6-8-13 अनिष्पन्दा अश्वेदाः । देवतुल्या इत्यर्थः ॥
भीष्मपर्व - अध्याय 009

॥ श्रीः ॥

6.9. अध्यायः 009

Mahabharata - Bhishma Parva - Chapter Topics

भारतवर्षस्थनदीपर्वतदेशानां विस्तरेण कथनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-9-0 (38933) धृतराष्ट्र उवाच। 6-9-0x (3974) यदिदं भारतं वर्षं यत्रेदं मूर्च्छितं बलम्। यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम ॥ 6-9-1 (38934) यत्र गृद्धा पाण्डुपुत्रा यत्र मे सञ्जते मनः। एतन्मे तत्त्वमाचक्ष्व त्वं हि मे बुद्धिमान्मतः ॥ 6-9-2 (38935) संजय उवाच। 6-9-3x (3975) न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम। गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥ 6-9-3 (38936) अपरे क्षत्रियाश्चैव नानाजनपदेश्वराः । ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥ 6-9-4 (38937) अत्र ते कीर्तयिष्यामि वर्षं भारत भारतम् । प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ 6-9-5 (38938) पृथोस्तु राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः । ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥ 6-9-6 (38939) तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च। ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ 6-9-7 (38940) कुशिकस्य च दुर्धर्ष गाधेश्चैव महात्मनः । सोमकस्य च दुर्धर्ष दिलीपस्य तथैव च ॥ 6-9-8 (38941) अन्येषां च महाराज क्षत्रियाणां बलीयसाम् । सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥ 6-9-9 (38942) तत्ते वर्षं प्रवक्ष्यामि यथायथमरिन्दम । श्रृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥ 6-9-10 (38943) महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ 6-9-11 (38944) तेषां सहस्रशो राजन्पर्वतास्ते समीपतः। अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥ 6-9-12 (38945) अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः। आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥ 6-9-13 (38946) नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् । गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥ 6-9-14 (38947) शतद्रूं चन्द्रभागां च यमुनां च महानदीम् । दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥ 6-9-15 (38948) नदीं वेत्रवतीं चैव कृष्णवेणीं च निम्नगाम्। इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥ 6-9-16 (38949) वेदस्मृतां वेदवतीं त्रिदिवामिक्षुलां कृमिम्। करीषिणीं चित्रवाहां चित्रसेनां च निम्नगाम् ॥ 6-9-17 (38950) गोमतीं धूतपापां च वन्दनां च महानदीम् । कौशिकीं त्रिविदां कृत्यां निचितां लोहितारणीं ॥ 6-9-18 (38951) रहस्यां शतकुम्भां च सरयूं च तथैव च। चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥ 6-9-19 (38952) शरावतीं पयोष्णीं च वेणां भीमरथीमपि । कावेरीं चुलुकां चापि वाणीं शतबलामपि ॥ 6-9-20 (38953) नीवारामहितां चापि सुप्रयोगां जनाधिप । पवित्रां कुण्डलीं सिन्धुं राजनीं पुरमालिनीम् ॥ 6-9-21 (38954) पूर्वाभिरामां वीरां च भीमामोघवतीं तथा। पाशाशिनीं पापहरां महेन्द्रां पाटलावतीम् ॥ 6-9-22 (38955) करीषिणीमसिक्नीं च कुशचीरां महानदीम् । मकरीं प्रवरां मेनां हेमां घृतवतीं तथा ॥ 6-9-23 (38956) पुरावतीमनुष्णां च शैब्यां कापीं च भारत । सदानीरामधृष्यां च कुशधारां महानदीम् ॥ 6-9-24 (38957) सदाकान्तां शिवां चैव तथा वीरवतीमपि। वस्त्रां सुवस्त्रां गौरीं च कम्पनां सहिरण्वतीम् ॥ 6-9-25 (38958) वरां वीरकरां चापि पञ्चमीं च महानदीम् । रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥ 6-9-26 (38959) उपेन्द्रां बहुलां चैव कुवीरामम्बुवाहिनीम् । विनदीं पिञ्जलां वेणां तुङ्गवेणां महानदीम् ॥ 6-9-27 (38960) विदिशां कृष्णवेणां च ताम्रां च कपिलामपि। खलुं सुवामां वेदाश्वां हरिश्रावां महापगाम् ॥ 6-9-28 (38961) शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम्। कौशिकीं निम्नगां शोणा बाहुदामथ चन्द्रमाम् ॥ 6-9-29 (38962) दुर्गां चित्रशिलां चैव ब्रह्मवेध्यां बृहद्वतीम् । यवक्षामथ रोहीं च तथा जाम्बूनदीमपि ॥ 6-9-30 (38963) सुनसां तमसां दासीं वसामन्यां वराणसीम् । नीलां धृतवतीं चैव पर्णाशां च महानदीम् ॥ 6-9-31 (38964) मानवीं वृषभां चैव ब्रह्ममेध्यां बृहद्ध्वनीम्। एताश्चान्याश्च बहुधा महानद्यो जनाधिप ॥ 6-9-32 (38965) सदानिरामयां कृष्णां मन्दगां मन्दवाहिनीम् । ब्राह्मणीं च महागौरीं दुर्गामपि च भारत ॥ 6-9-33 (38966) चित्रोपलां चित्ररथां मञ्चुलां वाहिनीं तथा । मन्दाकिनीं वैतरणीं कोषां चापि महानदीम् ॥ 6-9-34 (38967) शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम् । लोहित्यां करतोयां च तथैव वृषकाह्वयाम् ॥ 6-9-35 (38968) कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम्। मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च भारत ॥ 6-9-36 (38969) विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः। तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः॥ 6-9-37 (38970) इत्येताः सरितो राजन्समाख्याता यथास्मृति। अत ऊर्ध्वं जनपदान्निबोध गदतो मम ॥ 6-9-38 (38971) तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः । शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च ॥ 6-9-39 (38972) मत्स्याः कुशल्याः सौशल्याः कुंतयः कांतिकोसलाः । चेदिमत्स्यकरूशाश्च भोजाः सिन्धुपुलिन्दकाः ॥ 6-9-40 (38973) उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह । पञ्चालाः कोसलाश्चैव नैकपृष्ठा धुरन्धराः ॥ 6-9-41 (38974) गोधा मद्रकलिङ्गाश्छ काशयोऽपरकाशयः । जठराः कुकुराश्चैव सदशार्णाश्च भारत ॥ 6-9-42 (38975) कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः । गोमन्ता मन्दकाः सण्डा विदर्भा रूपवाहिकाः ॥ 6-9-43 (38976) अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः। अधिराज्यकुशाद्यश्च मल्लराष्ट्रं च केवलम् ॥ 6-9-44 (38977) वारवास्यायवाहाश्च चक्राश्चक्रातयः शकाः। विदेहा मगधाः स्वक्षा मलजा विजयास्तथा ॥ 6-9-45 (38978) अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च। मल्लाः सुदेष्णाः प्रह्लादा माहिकाः शशिकास्तथा ॥ 6-9-46 (38979) बाह्लीका वाटधानाश्च आभीराः कालतोयकाः। अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः ॥ 6-9-47 (38980) अटवीशिखराश्चैव मेरुभूताश्च मारिष । उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा ॥ 6-9-48 (38981) कुन्दापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः । अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च ॥ 6-9-49 (38982) बहिर्गिर्याङ्गमलजा मगधा मानवर्जकाः । समन्तराः प्रावृषेया भार्गवाश्च जनाधिप ॥ 6-9-50 (38983) पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा। शका निषादा निषधास्तथैवानर्तनैर्ऋताः ॥ 6-9-51 (38984) दुर्गालाः प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा। तीरग्रहाः शूरसेना ईजिकाः कन्यका गुणाः ॥ 6-9-52 (38985) तिलभारा मसीराश्च मधुमन्तः सकुन्दकाः। काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥ 6-9-53 (38986) अभीसारा उलूताश्च शैवला बाह्लिकास्तथा । दार्वी च वानवा दर्वा वातजामरथोरगाः ॥ 6-9-54 (38987) बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः। वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा ॥ 6-9-55 (38988) वनायवो दशापार्श्वरोमाणः कुशबिन्दवः। कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः ॥ 6-9-56 (38989) किराता बर्बराः सिद्धा वैदेहास्ताम्रलिप्तकाः। ओण्ड्रा म्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष ॥ 6-9-57 (38990) अथापरे जनपदा दक्षिणा भरतर्षभ । द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः ॥ 6-9-58 (38991) कर्णाटका महिषका विकल्पा मूषकास्तथा । झिल्लिकाः कुन्तलाश्चैव सौहृदानभकाननाः ॥ 6-9-59 (38992) कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः । समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः ॥ 6-9-60 (38993) ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः साल्वसेनयः। व्यूकाः कोकबकाः प्रोष्ठाः सर्मवेगवशास्तथा ॥ 6-9-61 (38994) तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह। मालवा बल्लवाश्चैव तथैवापरबल्लवाः ॥ 6-9-62 (38995) कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा । मूषकास्तनबालाश्च सनीपा घटसृञ्जयाः॥ 6-9-63 (38996) अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा । ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः ॥ 6-9-64 (38997) उत्तराश्चापरे म्लेच्छाः क्रूरा भरतसत्तम। यवनाश्चीनकाभ्योजा दारुणा म्लेच्छजातयः ॥ 6-9-65 (38998) सकृद्ग्रहाः कुलत्थाश्च हूणाः पारसिकैः सह। तथैव रमणाश्चीनास्तथैव दशमालिकाः ॥ 6-9-66 (38999) क्षत्रिकयोपनिवेशाश्च वैश्यशूद्रकुलानि च। शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह ॥ 6-9-67 (39000) खाशीराश्चान्तचाराश्च पह्लवा गिरिगह्वराः। आत्रेयाः सभरद्वाजास्तथैव स्तनपोषिकाः ॥ 6-9-68 (39001) प्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः। तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ 6-9-69 (39002) एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च। उद्देशमात्रेण मया देशाः संकीर्तिता विभो ॥ 6-9-70 (39003) यथागुणबलं चापि त्रिवर्गस्य महाफलम् । दुह्याद्धेनुः कामधुक्क भूमिः सम्यगनुष्ठिता ॥ 6-9-71 (39004) तस्यां गृद्ध्यन्ति राजानः शूरा धर्मार्थक्रोविदाः । ते त्यजन्त्याहवे प्राणान्वसुगृद्धास्तरस्विनः ॥ 6-9-72 (39005) देवमानुषकायानां कामं भूमिः परायणम् । अन्योन्यस्यावलुम्पन्ति सारमेया यथाऽऽमिषम् ॥ 6-9-73 (39006) राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम्। न चापि तृप्तिः कामानां विद्यतेऽद्यापि कस्यचित् ॥ 6-9-74 (39007) तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः । साम्ना भेदेन दानेन दण्डेनैव च भारत ॥ 6-9-75 (39008) पिता भ्राता च पुत्राश्च खं द्यौश्च नरपुङ्गव । भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना ॥ ॥ 6-9-76 (39009) इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि नवमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-9-2 गृद्धाः लोभयुक्ताः । एतत् एतस्य । मे मह्यम् । तत्त्वं याथार्थ्यम् ॥ 6-9-5 प्रियमिति। कर्मभूमित्वादिन्द्रादीनामिदं प्रियंक ॥ 6-9-71 ययागुणबलमिति। यथागुणं सत्त्वादिगुणान् अनतिक्रम्य। तद्वत् यथाबलं शौर्यं चानतिक्रम्य। त्रिवर्गस्य धर्मार्थकामात्मकस्य महाफलं उत्कृष्टफलं हैरण्यगर्भपदप्राप्त्यन्तं सम्यगनुष्ठिता सम्यक् पालिता भूमिर्दुह्यात् पूरयेत् । धेनुरिव कामान् अन्यांश्च दुग्धे इति कामधुक् ॥ 6-9-73 देवकायानां यज्ञेन मानुषकायानामन्नप्रसवेन भूमिः परायणं शरणम् ॥ 6-9-76 अच्छिद्रं संपूर्णं दर्शनं यस्याः सा भूमिः ॥
भीष्मपर्व - अध्याय 010

॥ श्रीः ॥

6.10. अध्यायः 010

Mahabharata - Bhishma Parva - Chapter Topics

चतुर्युगवर्णनम् ॥

Mahabharata - Bhishma Parva - Chapter Text

6-10-0 (39010) धृतराष्ट्र उवाच। 6-10-0x (3976) भारतस्यास्य वर्षस्य तथा हैमवतस्य च। प्रमाणमायुषः सूत बलं चापि शुभाशुभम् ॥ 6-10-1 (39011) अनागतमतिक्रान्तं वर्तमानं च संजय । आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥ 6-10-2 (39012) संजय उवाच। 6-10-3x (3977) चत्वारि भारते वर्षे युगानि भरतर्षभ। कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन ॥ 6-10-3 (39013) पूर्वं कृतयुगं नाम ततस्रेतायुगं प्रभो । संक्षेपाद्द्वापरस्याथ ततस्तिष्यं प्रवर्तते ॥ 6-10-4 (39014) चत्वारि तु सहस्राणि वर्षाणां कुरुसत्तम। आयुःसंख्या कृतयुगे संख्याता राजसत्तम ॥ 6-10-5 (39015) तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप । द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति सांप्रतम् ॥ 6-10-6 (39016) न प्रमाणस्थितिर्ह्यस्ति तिष्येऽस्मिन्भरतर्षभ । गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥ 6-10-7 (39017) महाबला महासत्वाः प्रज्ञागुणसमन्विताः। प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ॥ 6-10-8 (39018) जाताः कृतयुगे राजन्धनिनः प्रयदर्शनाः । प्रजायन्ते च जाताश्च मुनयो वै तपोधनाः ॥ 6-10-9 (39019) महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः। प्रियदर्शना वपुष्मन्तो महावीर्या धनुर्धराः ॥ 6-10-10 (39020) वरार्हा युधि जायन्ते क्षत्रियाः शूरसत्तमाः। त्रेतायां क्षत्रिया राजन्सर्वे वै चक्रवर्तिनः ॥ 6-10-11 (39021) सर्ववर्णाश्च जायन्ते सदा चैव च द्वापरे । महोत्साहा वीर्यवन्तः परस्परजयैषिणः ॥ 6-10-12 (39022) तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप। लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत ॥ 6-10-13 (39023) ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च। तिष्ये भवति भूतानां रागो लोभश्च भारत ॥ 6-10-14 (39024) संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप । गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥ ॥ 6-10-15 (39025) इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि दशमोऽध्यायः॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-10-3 तिष्यं कलियुगम् ॥ 6-10-8 प्रजायन्ते प्रजां जनयन्ति ॥ 6-10-10 वपुष्मन्तः प्रशस्तदेहाः ॥ 6-10-12 सर्वे वर्णाः परस्परजयैषिणो जायन्त इति संबन्धः ॥ 6-10-14 ईर्ष्या परोत्कर्षासहिष्णुत्वम् । मानः स्वस्मिन्पूज्यताबुद्धिः । क्रोधोऽभिज्वलनम् । माया कपटम्। असूया परगुणेषु दोषाविष्करणम्। रागो विषयेषु प्रीतिः। लोभस्तल्लिप्सा ॥ 6-10-15 संक्षेपो गुणानामिति शेषः ॥
भीष्मपर्व - अध्याय 011

॥ श्रीः ॥

6.11. अध्यायः 011

Mahabharata - Bhishma Parva - Chapter Topics

शाकद्वीपवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-11-0 (39026) धृतराष्ट्र उवाच। 6-11-0x (3978) जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय। विष्कम्भमस्य प्रब्रूहि परिमाणं तु तत्त्वतः ॥ 6-11-1 (39027) समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम् । शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ॥ 6-11-2 (39028) शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च। ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥ 6-11-3 (39029) सञ्जय उवाच। 6-11-4x (3979) राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत्। सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा ॥ 6-11-4 (39030) अष्टादश सहस्राणि योजनानि विशांपते। षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥ 6-11-5 (39031) लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः । नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥ 6-11-6 (39032) नैकधातुविचित्रैश्च पर्वतैरुपशोभितः। सिद्धचारणसंकीर्णः सागरः परिमण्डलः ॥ 6-11-7 (39033) शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव । शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥ 6-11-8 (39034) जम्बूद्वीपपरमाणेन द्विगुणः स नराधिप । विष्कम्भेण महाराज सागरोऽपि विभागशः ॥ 6-11-9 (39035) क्षीरोदो भरतश्रेष्ठ येन संपरिवारिताः । तत्र पुण्या जनपदास्तत्र न म्रियते जनः। कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ॥ 6-11-10 (39036) शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ। उक्त एष महाराज किमन्यत्कथयामि ते ॥ 6-11-11 (39037) धृतराष्ट्र उवाच। 6-11-12x (3980) शाकद्वीपस्य संक्षेपो यथावदिह सञ्जय । उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ॥ 6-11-12 (39038) सञ्जय उवाच। 6-11-13x (3981) तथैव पर्वता राजन्सप्तात्र मणिभूषिताः। रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ॥ 6-11-13 (39039) अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप ॥ 6-11-14 (39040) देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते। प्रागायतो महाराज मलयो नाम पर्वतः ॥ 6-11-15 (39041) ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः । ततः परेण कौरव्य जलधारो महागिरिः ॥ 6-11-16 (39042) ततो नित्युमुपादत्ते वासवः परमं जलम्। ततो वर्षं प्रभवति वर्षकाले जनेश्वर ॥ 6-11-17 (39043) उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठिता। रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥ 6-11-18 (39044) उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः । नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः । यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥ 6-11-19 (39045) धृतराष्ट्र उवाच। 6-11-20x (3982) सुमहान्संशयो मेऽद्य प्रोक्तोऽयं सञ्जय त्वया। प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह ॥ 6-11-20 (39046) सञ्जय उवाच। 6-11-21x (3983) सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन। गौरः कृष्णश्च पतगस्तयोर्वर्णान्तरे नृप ॥ 6-11-21 (39047) श्यामो यस्मात्प्रवृत्तो वै तस्माच्छ्यामो गिरिःस्मृतः 6-11-22 (39048) ततः परं कौरवेन्द्र दुर्गशैलो महोदयः । केसरः केसरयुतो यतो वातः प्रवर्तते ॥ 6-11-23 (39049) तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः। वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः ॥ 6-11-24 (39050) महामेरुर्महाकाशो जलदः कुमुदोत्तरः । जलधारो महाराज सुकुमार इति स्मृतः ॥ 6-11-25 (39051) रेवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः । केसरस्याथ मौदाकी परेण तु महापुमान् ॥ 6-11-26 (39052) परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च। जम्बूद्वीपेन संक्यातस्तस्य मध्ये महाद्रुमः ॥ 6-11-27 (39053) शाको नाम महाराज प्रजा तस्य सदानुगा। तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ॥ 6-11-28 (39054) तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च। धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥ 6-11-29 (39055) वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते । दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥ 6-11-30 (39056) प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः। नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता ॥ 6-11-31 (39057) सुकुमारी कुमारी च शीताशी वेणिका तथा। महानदी च कौरव्य तथा मणिजला नदी ॥ 6-11-32 (39058) चक्षुर्वर्धनिका चैव नदी भरतसत्तम । तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ॥ 6-11-33 (39059) सहस्राणां शतान्येव यतो वर्षति वासवः । न तासां नामधेयानि परिमाणं तथैव च ॥ 6-11-34 (39060) शक्यन्ते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः । तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः ॥ 6-11-35 (39061) मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा । मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ॥ 6-11-36 (39062) मशकेषु च राजन्या धार्मिकाः सर्वकामदाः । मानसाश्च महाराज वैश्यधर्मोपजीविनः ॥ 6-11-37 (39063) सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः । शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः ॥ 6-11-38 (39064) न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः। स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥ 6-11-39 (39065) एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्। एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ॥ ॥ 6-11-40 (39066) इति श्रीमन्महाभारते भीष्मपर्वणि भूमिपर्वणि एकादशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-11-4 ग्रहं राहुम् ॥ 6-11-5 पर्वताकृतित्वाज्जम्बुपर्वत इत्युच्यते ॥ 6-11-6 क्षेत्रफलतः पञ्चसहस्रायामत्वाज्जम्बूद्वीपस्य तदुभयतः पञ्चपञ्चभिः सहस्रैः समुद्रस्य विष्कम्भो विस्तारः तेन समुद्रस्य द्वीपस्य पञ्चदशसहस्रयोजनो व्यासः। द्विगुणः दशसहस्रयोजनः परिमण्डलश्चेदुभयतः समुद्रवेष्टनेन सह चत्वारिंशत्सहस्रः। एवं तृतीयोऽशीतिसहस्रः। चतुर्थः षष्टिसहस्राधिकं लक्षम्। पञ्चमो लक्षत्रयं विंशतिसहस्राणि । षष्ठो लक्षषङ्कं चत्वारिंशत्सहस्राणि। सप्तमो द्वादशलक्षाण्यशीतिसहस्राणि। एतेषां संकलने पञ्चविंशतिलक्षाणि पञ्चत्रिंशत्सहस्राणि योजनानि सप्तानां द्वीपानां समुद्राणं विस्तारः॥ 6-11-18 रेवती ज्योतिर्मण्डलरूपेण दिवि विभ्रम्यमाणापि दिव्येन रूपेणात्रापि वर्तते एव । विधिर्मर्यादा पितामहेन कृता ॥ 6-11-21 पतगवर्णं व्याचष्टे तमोरिति। मिश्रोवर्णः पतग इत्यर्थः ॥ 6-11-22 यस्मात् श्यामो गिरिस्तस्मात्तत्स्थानां श्यामो वर्णः प्रवृत्त इत्यर्थः ॥
भीष्मपर्व - अध्याय 012

॥ श्रीः ॥

6.12. अध्यायः 012

Mahabharata - Bhishma Parva - Chapter Topics

क्रौञ्चदिद्वीपवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-12-0 (39067) सञ्जय उवाच। 6-12-0x (3984) उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा। एवं तत्र महाराज ब्रुवतश्च निबोध मे ॥ 6-12-1 (39068) घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः । सुरोदः सागरश्चैव तथान्यो जलसागरः ॥ 6-12-2 (39069) परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप । पर्वताश्च महाराज समुद्रैः परिवारिताः ॥ 6-12-3 (39070) गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् । पर्वतः पश्चिमे कृष्णो नारायणसखो नृप ॥ 6-12-4 (39071) तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः । प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधत्सुखम् ॥ 6-12-5 (39072) कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह । संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके नृप ॥ 6-12-6 (39073) क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः । संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥ 6-12-7 (39074) गोमन्तः पर्वतो राजन्सुमहान्सर्वधातुमान् । यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥ 6-12-8 (39075) मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः । कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः ॥ 6-12-9 (39076) सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः । द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः ॥ 6-12-10 (39077) चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः । षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ॥ 6-12-11 (39078) तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः । औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ 6-12-12 (39079) तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम् । धृतिमत्पञ्चमं वर्षं षष्ठं प्रभाकरम् ॥ 6-12-13 (39080) सप्तमं कापिलं वर्षं सप्तैते वर्षलम्भकाः । एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर ॥ 6-12-14 (39081) विहरन्ते रमन्ते च न तेषु म्रियते जनः। न तेषु दस्यवः सन्ति म्लेच्छजात्योपि वा नृप ॥ 6-12-15 (39082) गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव । अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर ॥ 6-12-16 (39083) यथाश्रुतं महाराज तदव्यग्रमनाः श्रृणु । क्रौञ्चद्वीपे महारा क्रौञ्चो नाम महागिरिः ॥ 6-12-17 (39084) क्रौञ्चात्परो वामनको वामनादन्धकारकः। अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः । 6-12-18 (39085) मैनाकात्परतो रादन्गोविन्दो गिरिरुत्तमः । गोविन्दात्परतो राजन्निबिडो नाम पर्वतः ॥ 6-12-19 (39086) परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन । देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥ 6-12-20 (39087) क्रोञ्चस्य कुशलो देशो वामनस्य मनोनुगः। मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह ॥ 6-12-21 (39088) उष्णात्परः प्रावरकः प्रावारादन्धकारकः। अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥ 6-12-22 (39089) मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः। सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप ॥ 6-12-23 (39090) एते देशा महाराज देवगन्धर्वसेविताः । पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ॥ 6-12-24 (39091) तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः । तं पर्युपासते नित्यं देवाः सर्वे महर्षयः ॥ 6-12-25 (39092) वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप। जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत ॥ 6-12-26 (39093) द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम। ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च ॥ 6-12-27 (39094) आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः। एको जनपदो राजन्द्वीपेष्वेतेषु भारत। उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥ 6-12-28 (39095) ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः । द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥ 6-12-29 (39096) स राजा स शिवो राजन्स पिता प्रतितामहः । गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥ 6-12-30 (39097) भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् । सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा ॥ 6-12-31 (39098) ततः परं समा नाम दृश्यते लोकसंस्थितिः। चतुरश्र महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥ 6-12-32 (39099) तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः। दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ॥ 6-12-33 (39100) सुप्रतीकस्तदा राजन्प्रभिन्नकरटामुखः। तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे ॥ 6-12-34 (39101) असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा । तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि ॥ 6-12-35 (39102) असंबद्धा महाराज तान्निगृह्णन्ति ते गजाः । पुष्करैः पद्मसंकाशैर्विकसद्भिर्महाप्रभैः ॥ 6-12-36 (39103) शतधा पुनरेवाशु ते तान्मुञ्चन्ति नित्यशः । श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः । आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ॥ 6-12-37 (39104) धृतराष्ट्र उवाच। 6-12-38x (3985) परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः। दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ॥ 6-12-38 (39105) सञ्जय उवाच। 6-12-39x (3986) उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः । स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः ॥ 6-12-39 (39106) परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः । योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥ 6-12-40 (39107) परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ । षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥ 6-12-41 (39108) चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः । विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ॥ 6-12-42 (39109) एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः ॥ 6-12-43 (39110) सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन। विष्कम्भेण ततो राजन्मण्डलं त्रिंशता समम् ॥ 6-12-44 (39111) अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ। श्रूयते परमोदारः पतगोऽसौ विभावसुः ॥ 6-12-45 (39112) एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत । स राहुश्छादयत्येतौ यथाकालं महात्तया ॥ 6-12-46 (39113) चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः । इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा ॥ 6-12-47 (39114) सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि । यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ॥ 6-12-48 (39115) तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति। श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् ॥ 6-12-49 (39116) श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः । आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते ॥ 6-12-50 (39117) यः शृणोति महीपाल पर्वणीदं यतव्रतः । प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥ 6-12-51 (39118) इदं तु भारतं वर्षं यत्र वर्तामहे वयम्। पूर्वैः प्रवर्तितं पुण्यं तत्सर्वं श्रुतवानसि ॥ ॥ 6-12-52 (39119) इति श्रीमन्महाभारते भीष्मपर्वणि भूमिपर्वणि द्वादशोऽध्यायः ॥ ॥ समाप्तमिदं भूमिपर्व ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-12-4 मानःशिलो मनःशिलामयः ॥ 6-12-34 तस्य गजचतुष्टयस्य पृथिव्या आश्रयभूतस्य । तत्कस्योपरिवर्तते इति दुर्वचम्। तेन ईश्वरशक्त्यैव दिग्गजा ध्रियन्त इति भावः ॥ 6-12-36 पुष्करैः शुण्डाग्रैः ॥ 6-12-39 उत्तरं सूर्येन्दुराहुप्रमाणम् ॥ 6-12-41 परिणाहेन परिधिना षट्त्रिंशत्सहस्राणि विपुलत्वेन ततोऽप्याधिक्येन ॥ 6-12-42 षष्टिर्योजनानि परिणाह एवेत्यर्थः ॥ 6-12-45 पतगः शीघ्रगः । विभावसुः सूर्यः ॥
भीष्मपर्व - अध्याय 013

॥ श्रीः ॥

6.13. अध्यायः 013

Mahabharata - Bhishma Parva - Chapter Topics

सञ्जयेन धृतराष्ट्रंप्रति भीष्महननकथनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-13-0 (39120) वैशम्पायन उवाच। 6-13-0x (3987) अथ गावल्गणिर्विद्वान्संयुगादेत्य भारत। प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥ 6-13-1 (39121) ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः । आचष्ट निहतं भीष्मं भरतानां पितामहम् ॥ 6-13-2 (39122) सञ्जय उवाच। 6-13-3x (3988) सञ्जयोऽहं महाराज नमस्ते भरतर्षभ। हतो भीष्मः शान्तनवो भरतानां पितामहः ॥ 6-13-3 (39123) ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्। शरतल्पगतः सोऽद्य शेते कुरुपितामहः॥ 6-13-4 (39124) यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्। स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना ॥ 6-13-5 (39125) यः सर्वान्पृथिवीपालान्समवेतान्महामृधे । जिगायैकरथेनैव काशिपुर्यां महारथः ॥ 6-13-6 (39126) जामदग्न्यं रणे रामं योऽयुध्यदपसंभ्रमः । न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥ 6-13-7 (39127) महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव । समुद्र इव गाम्भीर्यो सहिष्णुत्वे धरासमः ॥ 6-13-8 (39128) शरदंष्ट्रो धनुर्वक्रः खङ्गिजिह्वो दुरासदः। नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥ 6-13-9 (39129) पाण्डवानां महासैन्यं यं दृष्ट्वोद्यतमाहवे। प्रावेपत भयोद्विग्नं सिंह दृष्ट्वेव गोगणः ॥ 6-13-10 (39130) परिरक्ष्य स सेनां ते दशरात्रमनीकहा । जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ 6-13-11 (39131) यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः। जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ 6-13-12 (39132) स शेते निहतो भूमौ वातभग्न इव द्रुमः। तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥ ॥ 6-13-13 (39133) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयोदशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-13-4 ककुदं राज्ञां मध्ये ध्वजतुल्यम्। धाम तेजः ॥ 6-13-7 अपसंभ्रमो निर्भयः ॥
भीष्मपर्व - अध्याय 014

॥ श्रीः ॥

6.14. अध्यायः 014

Mahabharata - Bhishma Parva - Chapter Topics

धृतराष्ट्रेण भीष्महननश्रवणात्परिशोचनपूर्वकं संजयंप्रति विस्तरेण भीष्मादियुद्धवर्णनचोदना ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-14-0 (39134) धृतराष्ट्र उवाच। 6-14-0x (3989) कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना। कथं रथार्त्स न्यपतित्पिता मे वासवोपमः ॥ 6-14-1 (39135) कथमाचक्ष्व मे योधा हीना भीष्मेण संजय । बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥ 6-14-2 (39136) तस्मिन्हते महाप्राज्ञे महेष्वासे महाबले । महासत्वे नरव्याघ्रे किमु आसीन्मनस्तव ॥ 6-14-3 (39137) आर्तिं परामाविशति मनः शंससि मे हतम् । कुरूणामृषभं वीरमकम्पं पुरुषर्षभम् ॥ 6-14-4 (39138) के तं यान्तमनुप्राप्ताः के वास्यसन्पुरोगमाः। केऽतिष्ठन्के न्यवर्तन्त केऽन्ववर्तन्त सञ्जय ॥ 6-14-5 (39139) के शूरा रथशार्दूलमद्भुतं क्षत्रियर्षभम् । तथाऽनीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥ 6-14-6 (39140) यस्तमोर्क इवापोहन्परसैन्यममित्रहा । सहस्ररश्मिप्रतिमः परेषां भयमादधत् ॥ 6-14-7 (39141) अकरोद्दुष्करं कर्म रणे पाण्डुसुतेषु यः । ग्रसमानमनीकानि य एनं पर्यवारयन् ॥ 6-14-8 (39142) कृतिनं तं दुराधर्षं सञ्जयास्य त्वमन्तिके । कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥ 6-14-9 (39143) निकृन्तन्तमनीकानि शरदंष्ट्रं मनस्विनम् । चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ॥ 6-14-10 (39144) अनर्हं पुरुषव्याघ्रं ह्रीमन्तमपराजितम् । पातयामास कौन्तेयः कथं तमजितं युधि ॥ 6-14-11 (39145) उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे । परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः ॥ 6-14-12 (39146) पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यतमाहवे । कालाग्निमिव दुर्धर्षं समचेष्टत नित्यशः ॥ 6-14-13 (39147) परिकृष्य स सेनां तु दशरात्रमनीकहा । दगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ 6-14-14 (39148) यः स शक्र इवाक्षय्यं वर्षं शरमयं क्षिपन् । जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ 6-14-15 (39149) स शेते निहतो भूमौ वातभुग्न इव द्रुमः । मम दुर्मन्त्रितेनाजौ यथा नार्हति भारतः ॥ 6-14-16 (39150) कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी । प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ॥ 6-14-17 (39151) कथं भीष्मेण संग्रामं प्राकुर्वन्पाण्डुनन्दनाः। कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय ॥ 6-14-18 (39152) कृपे सन्निहिते तत्र भरद्वाजात्मजे तथा। भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥ 6-14-19 (39153) कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना। भीष्मो विनिहतो युद्धे देवैरपि दुरासदः ॥ 6-14-20 (39154) यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् । अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ॥ 6-14-21 (39155) तं हतं समरे भीष्मं महारथकुलोदितम् । सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥ 6-14-22 (39156) मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् । दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ॥ 6-14-23 (39157) यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः । कच्चित्ते कुरवः सर्वे नाजहुः सञ्जयाच्युतम् ॥ 6-14-24 (39158) अश्मसारमयं नूनं हृदयं मुदृढं मम। यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ 6-14-25 (39159) यस्मिन्सत्यं च मेधा च नीतिश्च भरतर्षभे । अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ 6-14-26 (39160) मौर्वीघोषस्तनयुत्नुः पृषत्कपृषतो महान् । धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः ॥ 6-14-27 (39161) योऽभ्यवर्षत कौन्तेयान्सपाञ्चालान्ससृञ्जयान्। निघ्नन्परथान्वीरो दानवानिव वज्रभृत् ॥ 6-14-28 (39162) इष्वस्त्रसागरं घोरं बाणग्रहं दुरासदम् । कार्मुकोर्मिणमक्षय्यमद्वीपं चलमप्लवम् ॥ 6-14-29 (39163) गदासिमकरावासं हयावर्त्तं गजाकुलम् । पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥ 6-14-30 (39164) हयान्गजपदातींश्च रथांश्च तरसा बहून् । निमञ्जयन्तं समरे परवीरापहारिणम् ॥ 6-14-31 (39165) विदह्यमानं कोपेन तेजसा च परंतपम् । वेलेव मकरावासं के वीराः पर्यवारयन् ॥ 6-14-32 (39166) भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा । दुर्योधनहितार्थाय के तस्यास्य पुरोऽभवन् ॥ 6-14-33 (39167) के रक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः । पृष्ठतः के परान्वीरानपासेधन्यतव्रताः ॥ 6-14-34 (39168) के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके। के रक्षन्नुत्तरं चक्रं वीरा वीरकस्य युध्यतः ॥ 6-14-35 (39169) वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान्। अग्नतोऽग्न्यमनीकेषु केऽभ्यरक्षन्दुरासदम् ॥ 6-14-36 (39170) पार्श्वतः केऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम्। समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय ॥ 6-14-37 (39171) रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते। दुर्जयानामनीकानि नाजयंस्तरसा युधि ॥ 6-14-38 (39172) सर्वलोकेश्वरस्येव परमस्य प्रजापतेः। कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः ॥ 6-14-39 (39173) यस्मिन्द्वीपे समाश्वस्य युध्यन्ते कुरवः परैः । तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय ॥ 6-14-40 (39174) यस्य वीर्यं समाश्रित्य मम पुत्रो बृहद्बलः । न पाण्डवानगणयत्कथं स निहतः परैः ॥ 6-14-41 (39175) यः पुरा विबुधैः सर्वैः सहाये युद्धदुर्मदः । काङ्क्षितो दानवान्ध्नद्भिः पिता मम महाव्रतः ॥ 6-14-42 (39176) यस्मिज्जाते महावीर्ये शान्तनुर्लोकविश्रुतः । शोकं दैन्यं च दुःस्वं च प्राजहात्स च तत्क्षणे ॥ 6-14-43 (39177) प्रोक्तं परायणं प्राज्ञं स्वधर्मनिरतं शुचिम्। वेदवेदाङ्गतत्वज्ञं कथं शंससि मे हतम् ॥ 6-14-44 (39178) सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम्। हतं शान्तनवं श्रुत्वा मन्ये शेषं हतं बलम् ॥ 6-14-45 (39179) धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः । यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ 6-14-46 (39180) जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः । अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ॥ 6-14-47 (39181) तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम्। हतं शंससि मे भीष्मं किं नु दुःखमतः परम् ॥ 6-14-48 (39182) असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः । जामदग्न्येन वीरेण परवीरनिघातिना। न हतो यो महाबुद्धिः स हतोऽद्य शिखण्डिना ॥ 6-14-49 (39183) तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात्। तेजोवीर्यबलैर्यूयाञ्शिखण्डी द्रुपदात्मजः ॥ 6-14-50 (39184) यः शूरं कृतिनं युद्धे सर्वशस्त्रविशारदम्। परमास्त्रविदं वीरं जघान भग्तर्षभम् ॥ 6-14-51 (39185) के वीरास्तममित्रघ्नमन्वयुः शस्त्रसंसदि । शंस मे तद्यथा चासीद्युद्भं भीष्मस्य पाण्डवैः ॥ 6-14-52 (39186) योषेव हतवीरा मे सेन्म पुत्रस्य सञ्जय । अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ॥ 6-14-53 (39187) पौरुषं सर्वलोकस्य परं यस्मिन्महाहवे। परासक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ॥ 6-14-54 (39188) जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय। घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ॥ 6-14-55 (39189) अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः । भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ॥ 6-14-56 (39190) अद्रिसारमयं नूनं हृदयं मम सञ्जय। यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ 6-14-57 (39191) यस्मिन्नस्त्राणि मेधा च नीतिश्च पुरुषर्षभे। अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ 6-14-58 (39192) न चास्त्रेण न शौर्येण तपसा मेधया न च। न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥ 6-14-59 (39193) कालो नूनं महावीर्यः सर्वलोकदुरत्ययः । यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ॥ 6-14-60 (39194) पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् । आशंसेऽहं परं त्राणं भीष्माच्छान्तनुनन्दनात् ॥ 6-14-61 (39195) यदादित्यमिवापश्यत्पतितं भ्रुवि सञ्जय । दुर्योधनः शान्तनवं किं तदा प्रत्यपद्मत ॥ 6-14-62 (39196) नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् । शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥ 6-14-63 (39197) दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः । यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ 6-14-64 (39198) वयं वा राज्यमिच्छामो घातयित्वा महाव्रतम्। क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ॥ 6-14-65 (39199) एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय । पराक्रमः पराशक्तिस्तत्तु तस्मिन्प्रतिष्ठितम् ॥ 6-14-66 (39200) अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् । कथं शान्तनवं तातं पाण्डुपुत्रा न्यवारयन् ॥ 6-14-67 (39201) यथायुक्तान्यनीकानि कथं युद्धं महात्मभिः। कथं वा निहतो भीष्मः पिता सञ्जय मे परैः ॥ 6-14-68 (39202) दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ॥ 6-14-69 (39203) यच्छरीरैरुपास्तीर्णां नरवारणवाजिनाम् । शरशक्तिमहाखङ्गतोमराक्षां महाभयाम्। प्राविशन्कितवा मन्दाः सभां युद्धदुरासदाम् ॥ 6-14-70 (39204) प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः । के जीयन्ते जितास्तत्र कृतलक्ष्या निपातिताः । अन्ये भीष्माच्चान्तनवात्तन्ममाचक्ष्व सञ्जय ॥ 6-14-71 (39205) न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम्। पितरं भीमकर्माणं भीष्ममाहवशोभिनम् ॥ 6-14-72 (39206) आर्तिं मे हृदये रूढां महतीं पुत्रहानिजाम्। त्वं हि मे सर्पिषेवाग्निमुद्दीपयसि सञ्जय ॥ 6-14-73 (39207) महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम्। दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ॥ 6-14-74 (39208) श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् । तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ॥ 6-14-75 (39209) यद्वृत्तं तत्र संग्रामे मन्दस्याबुद्धिसंभवम् । अपनीतं सुनीतं यत्तन्ममाचक्ष्व सञ्जय ॥ 6-14-76 (39210) यत्कृतं तत्र संग्रामे भीष्मेण जयमिच्छता । तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ॥ 6-14-77 (39211) यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः । क्रमेण येन यस्मिंश्च काले यच्च यथाऽभवत् ॥ ॥ 6-14-78 (39212) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुर्दशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-14-1 अस्य त्वमन्तिके स्थित्वा सर्वं दृष्टवानसीति शेषः ॥ 6-14-12 प्रचिन्वन्तं पुष्पवदाददानम् ॥ 6-14-13 समचेष्टत म्रियमाणपशुवद्धस्तपादविक्षेपं कृतवत् ॥ 6-14-23 अजुस्त्यक्तवन्तः ॥ 6-14-27 मौर्वीघोषेण स्तनयित्नुर्गर्जन्मेघ इव । पृषत्कपृषतो बाणबिन्दुः ॥ 6-14-34 अपासेधन् न्यवारयन् ॥ 6-14-44 प्रोक्त लोके ख्याढम् ॥ 6-14-45 सर्वास्त्रविनयोपेतं सर्वास्त्रशिक्षायुक्तम् ॥ 6-14-54 परासक्ते परलोकप्रिये ॥
भीष्मपर्व - अध्याय 015

॥ श्रीः ॥

6.15. अध्यायः 015

Mahabharata - Bhishma Parva - Chapter Topics

दुर्योधनेन दुःशासनंप्रति भीष्मरक्षणाज्ञापनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-15-0 (39213) सञ्जय उवाच। 6-15-0x (3990) त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि। न तु दुर्योधने दोषमिममासङ्क्तुमर्हसि ॥ 6-15-1 (39214) य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः। एनसा तेन नान्यं स उपाशङ्कितुमर्हति॥ 6-15-2 (39215) महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्। स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ 6-15-3 (39216) निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया । अनुभूतः सहामात्यैः क्षान्तश्च सुचिरं वने ॥ 6-15-4 (39217) हयानां च गजानां च राज्ञां चामिततेजसाम्। प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥ 6-15-5 (39218) शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः । दिष्टमेतत्पुरा नूनमिदमेव नराधिप ॥ 6-15-6 (39219) नमस्कृत्वा प्रवक्ष्यामि पाराशर्याय धीमते। यस्य प्रसादाद्दिव्यं तत्प्राप्तं ज्ञानमनुत्तमम् ॥ 6-15-7 (39220) दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च । परचित्तस्य विज्ञानमतीतानागतस्य च ॥ 6-15-8 (39221) व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः शुभा । अस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥ 6-15-9 (39222) श्रृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् । भरतानामभूद्युद्धं यथा तद्रोमहर्षणम् ॥ 6-15-10 (39223) तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः । दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥ 6-15-11 (39224) दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः। अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥ 6-15-12 (39225) अयं स मामभिप्राप्तो वर्षपूगाभिचिन्तितः । पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥ 6-15-13 (39226) नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्। हन्युद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥ 6-15-14 (39227) अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनाम् । श्रूयते स्त्री ह्यसौ पूर्वं तस्मादूर्त्यो रणे मम ॥ 6-15-15 (39228) तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः। शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥ 6-15-16 (39229) तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः । सर्वथाऽस्त्रेषु कुशलास्ते रक्षन्तु पितामहम् ॥ 6-15-17 (39230) अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् । मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥ 6-15-18 (39231) वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्। गोप्तारौ फाल्गुनं प्राप्तौ फाल्गुनोपि शिखण्डिनः । 6-15-19 (39232) संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः । यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥ ॥ 6-15-20 (39233) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि पञ्चदशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-15-1 आसङ्क्तं आसञ्जयितुम् ॥ 6-15-2 एनसा पापेन ॥ 6-15-9 व्युत्थितस्य उच्छास्त्रवर्तिन उत्पत्तिः कारणं तस्य विज्ञानम् ॥ 6-15-11 व्यूढेषु व्यूहरचनया स्थितेषु ॥
भीष्मपर्व - अध्याय 016

॥ श्रीः ॥

6.16. अध्यायः 016

Mahabharata - Bhishma Parva - Chapter Topics

कुरुपाण्डवसेनावर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-16-0 (39234) सञ्जय उवाच। 6-16-0x (3991) ततो रजन्यां व्युष्टायां शब्दः समभवन्महान्। क्रोशतां भूमिपलानां युज्यतां युज्यतामिति ॥ 6-16-1 (39235) शङ्खदुन्दुभिघोषैश्च सिंहनादैश्च भारत। हयहेषितनादैश्च रथनेमिस्वनैस्तथा ॥ 6-16-2 (39236) गाजानां बृहतां चैव योधानां चापि गर्जताम्। क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥ 6-16-3 (39237) उदतिष्ठन्महाराज सर्वं युक्तमशेषतः । सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ॥ 6-16-4 (39238) राजेन्द्र तव पुत्राणां पाण्डवानां तथैव च। दुष्प्रधृष्याणि चास्त्राणि सशस्रकवचानि च ॥ 6-16-5 (39239) ततः प्रकाशे सैन्यानि समदृश्यन्त भारत। त्वदीयानां परेषां च शस्त्रवन्ति महान्ति च ॥ 6-16-6 (39240) तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः। विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ॥ 6-16-7 (39241) रथानीकान्यदृश्यन्त नगराणीव भूरिशः । अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ॥ 6-16-8 (39242) धनुर्भिर्ऋष्टिभिः खङ्गैर्गदाभिः शक्तितोमरैः । योधाः प्रहरणैः शुभ्रैस्तेष्वनीकेष्ववस्थिताः ॥ 6-16-9 (39243) गजाः पदाता रथिनस्तुरगाश्च विशांपते । व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ॥ 6-16-10 (39244) ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः। स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ॥ 6-16-11 (39245) काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः। अर्चिष्मन्तो व्यरोचन्त गजारोहाः सहस्रशः ॥ 6-16-12 (39246) महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव। सन्नद्धास्ते प्रवीराश्च ददृशुर्युद्धकाङ्क्षिणः ॥ 6-16-13 (39247) उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः । ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ॥ 6-16-14 (39248) शकुनिः सौबलः शल्य आवन्त्योऽथ जयद्रथः । विन्दानुविन्दौ कैकेयाः काम्भोजश्च सुदक्षिणः ॥ 6-16-15 (39249) श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः । बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ॥ 6-16-16 (39250) दशैते पुरुषव्याघ्राः शूराः परिघबाहवः । अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ॥ 6-16-17 (39251) एते चान्ये च बहवो दुर्योधनवशानुगाः । राजानो राजपुत्राश्च नीतिमन्तो महारथाः ॥ 6-16-18 (39252) सन्नद्धाः समदृश्यन स्वेष्वनीकेष्ववस्थिताः । बद्धकृष्णाजिनाः सर्वे बलिनो युद्धशालिनः ॥ 6-16-19 (39253) हृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः। समर्था दश वाहिन्यः परिगृह्य व्यवस्थिताः ॥ 6-16-20 (39254) एकादशी धार्तराष्ट्री कौरवाणां महाचमूः । अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः ॥ 6-16-21 (39255) श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् । अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥ 6-16-22 (39256) हेमतालध्वजं भीष्मं राजते स्यन्दते स्थितम् । श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥ 6-16-23 (39257) दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः । सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः । जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा ॥ 6-16-24 (39258) धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः । एकादशैताः श्रीजुष्टा वाहिन्यस्तव पार्थिव ॥ 6-16-25 (39259) पाण्डवानां तथा सप्त महापुरुषपालिताः । उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ ॥ 6-16-26 (39260) युगान्ते समवेतौ द्वौ दृश्येते सागराविव । नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः । अनीकानां समेतानां कौरवाणां तथाविधः ॥ ॥ 6-16-27 (39261) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि षोडशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-16-4 युक्तं सन्नद्धम् । अशेषतः सर्वप्रकारैः ॥ 6-16-10 वागुराकाराः परेषां बन्धनार्थमित्यर्थः ॥ 6-16-14 तलबद्धाः तलं ज्याधातत्राणं बद्धं यैस्ते । कलापिनः तूणवन्तः ॥ 6-16-27 तथाविधः संमर्द इति शेषः ॥
भीष्मपर्व - अध्याय 017

॥ श्रीः ॥

6.17. अध्यायः 017

Mahabharata - Bhishma Parva - Chapter Topics

युद्धाय कुरुसेनानिर्याणम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-17-0 (39262) सञ्जय उवाच। 6-17-0x (3992) यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत्। तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ॥ 6-17-1 (39263) मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत। दीप्यमानाश्च संपेतुर्दिवि सप्त महग्रहाः ॥ 6-17-2 (39264) द्विधाभूत इवादित्य उदये प्रत्यदृश्यत। ज्वलन्त्या शिखया भूयो भानुमानुदितो रविः ॥ 6-17-3 (39265) ववाशिरे च दीप्तायां दिशि गोमायुवायसाः । लिप्समानाः शरीराणि मांसशोणितभोजनाः ॥ 6-17-4 (39266) अहन्यहनि पार्थानां वृद्धः कुरुपितामहः । भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ॥ 6-17-5 (39267) जयोऽस्तु पाण्डुपुत्राणामित्यूचतुरिन्दमौ । युयुधाते तवार्थाय यथा स समयः कृतः ॥ 6-17-6 (39268) सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव । समानीय महीपालानिदं वचनमब्रवीत् ॥ 6-17-7 (39269) इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्। गच्छध्वं तेन शक्रस्य ब्रह्मणः सहलोकताम् ॥ 6-17-8 (39270) एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैः कृतः । संभावयध्वमात्मानमव्यग्रमनसो युधि ॥ 6-17-9 (39271) नाभागोऽथ ययातिश्च मान्धाता नहुषो नृगः । संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ॥ 6-17-10 (39272) अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे । यदयोनिधनं याति सोऽस्य धर्मः सनातनः ॥ 6-17-11 (39273) एवमुक्ता महीपाला भीष्मेण भरतर्षभ। निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ॥ 6-17-12 (39274) स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः । न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ॥ 6-17-13 (39275) अपेतकर्णाः पुत्रास्ते राजनश्चैव तावकाः । निर्ययुः सिंहनादेन नादयन्तो दिशो दश ॥ 6-17-14 (39276) श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः । तान्यनीकानि शोभन्ते गजैरथ पदातिभिः ॥ 6-17-15 (39277) भेरीपणवशब्दैश्च दुन्दुभीनां च निःस्वनैः । रथनेमिनिनादैश्च बभूवाकुलिता मही ॥ 6-17-16 (39278) काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः । भ्राजमाना व्यराजन्त साग्नयः पर्वता इव ॥ 6-17-17 (39279) तालेन महता भीष्मः पञ्चतारेण केतुना । विमलादित्यसंकाशस्तस्थौ कुरुचमूपरि ॥ 6-17-18 (39280) ये त्वदीया महेष्वासा राजानो भरतर्षभ । अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते ॥ 6-17-19 (39281) स तु गोवासनः शैब्यः सहितः सर्वराजभिः । ययौ मातङ्गराजेन राजार्हेण पताकिना । पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ॥ 6-17-20 (39282) अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतुना । श्रुतायुधश्चित्रसेनः पुरुमित्रो विविंशतिः ॥ 6-17-21 (39283) शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः । एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ॥ 6-17-22 (39284) स्यन्दनैर्वरवर्माणो भीष्मस्यासन्पुरोगमाः। तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् ॥ 6-17-23 (39285) भ्राजमाना व्यरोचन्त जाम्बूनदमया ध्वजाः। जाम्बूनदमयी वेदी कमण्डलुविभूषिता ॥ 6-17-24 (39286) केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह । अनेकशतसाहस्रमनीकमनुकर्षतः ॥ 6-17-25 (39287) महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः । तस्य पौरवकालिङ्गकाम्भोजाः समुदक्षिणाः ॥ 6-17-26 (39288) क्षेमधन्वा च शल्यश्च तस्थुः प्रमुखतो रथाः। स्यन्दनेन महार्हेण केतुना वृषभेण च। प्रकर्षन्नेव सेनाग्नं मागधस्य कृपो ययौ ॥ 6-17-27 (39289) तदङ्गपतिनां गुप्तं कृपेण च मनस्विना । शारदाम्बुधरप्रख्यं प्राच्यानां सुमहद्बलम् ॥ 6-17-28 (39290) अनीकप्रमुखे तिष्ठन्वराहेण महायशाः। शुशुभे केतुमुख्येन राजतेन जयद्रथः ॥ 6-17-29 (39291) शतं रतसहस्राणां तस्यासन्वशवर्तिनः। अष्टौ नागसहस्राणि सादिनामयुतानि षट् ॥ 6-17-30 (39292) तत्सिन्धुपतिना राज्ञा पालितं ध्वजिनीमुखम्। अनन्तरथनागाश्वमशोभत महद्बलम् ॥ 6-17-31 (39293) षष्ट्या रथसहस्रैस्तु नागानामयुतेन च। पतिः सर्वकलिङ्गानां ययौ केतुमता सह ॥ 6-17-32 (39294) तस्य पर्वतसंकाशा व्यरोचन्त महागजाः । यन्त्रतोमरतूणीरैः पताकाभिः सुशोभिताः ॥ 6-17-33 (39295) शुशुभे केतुमुख्येन पावकेन कलिङ्गकः। श्वेतच्छत्रेण निष्केण चामरव्यजनेन च॥ 6-17-34 (39296) केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्। आस्थितः समरे राजन्मेघस्थ इव भानुमान् ॥ 6-17-35 (39297) तेजसा दीप्यमानस्तु वारणोत्तममास्थितः । भगदत्तो ययौ राजा यथा वज्रधरस्तथा ॥ 6-17-36 (39298) गजस्कन्धगतावास्तां भगदत्तेन संमितौ । विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ॥ 6-17-37 (39299) स रथानीकवान्व्यूहो हस्त्यङ्गो नृपशीर्षवान् । वाजिपक्षः पतत्युग्रः प्रहसन्सर्वतोमुखः ॥ 6-17-38 (39300) द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च। तथैवाचार्यपुत्रेण बाह्लीकेन कृपेम च ॥ ॥ 6-17-39 (39301) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि सप्तदशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-17-2 मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यतेति। मघा पित्र्यां नक्षत्रं तस्य विषयो देशः पितृलोकस्तद्गतः सोमः। कुरुपाण्डवयुद्धारम्भदिनमुक्तं भारतसावित्र्याम्-हेमन्ते प्रथमे मासि शुक्लपक्षे त्रयोदशीम्। प्रवृत्तं भारतं युद्धं नक्षत्रे यमदैवते। प्रथमे मार्गशीर्षे। अत्र त्रयोदशीशब्देन तद्युक्ता चतुर्दश्येव ग्राह्या। अर्जुनेन हतो भीष्मो माघमासेऽसिताष्टमीति। त्रयोदश्यां तु मध्याह्ने भारद्वाजो निपातित इति। तत्रैव युद्धस्य दशमे पञ्चदशे चाह्नि तयोर्भीष्मद्रोणयोरष्टमीत्रयोदशीसंयोगदर्शनात्। अत्र पौषेति माघशब्दो मकरायनाभिप्रायेण। तदानीं तत्संभवात् असिताष्टमीति छेदः। अन्यथा सप्तमीद्वादश्योरेव तयोर्हननं प्राप्नोति। यत्तु अमावास्यायां दुर्योधनहननं तत्रैवोक्तं तत्राप्यमावास्याशब्द इष्टिदिने प्रतिपद्येव प्रयुक्तो वेदितव्यः। यमदैवते इति भरणी न ग्राह्य किंतु युग्मदैवतं मृगशीर्षमेव ग्राह्यम्। तस्य हि पूर्वदलं शुक्रदैवत्यत्वादासुरं उत्तरार्थं बुधदैवत्यत्वाद्दैव्यम्। तेन तत्रासुराणामुपरमो देवानामभ्युदयश्च सिद्ध्यति। किंच-चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै। पुष्येण संप्रयातोस्मि श्रवणे पुनरागत इति युद्धारम्भादष्टादशेऽह्नि तीर्थयात्रात आगतस्य बलदेवस्य वचनात् श्रवणे युद्धसमाप्तिर्दृश्यते। ततः प्राचीनेऽष्टादशर्क्षे मृगशीर्ष एव युद्धारम्भः संभवति नत्वेकविंशे भरण्याम्। अष्टादशदिनमध्ये नक्षत्रत्रयक्षयस्य कल्पयितुमयुक्तत्वात् कार्तिकी कृत्तिकायोगानुपातेन चतुर्दश्यां मृगस्यैव संभावनाच्च। एतेन युद्धारम्भं प्रकृत्य- मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यतेति भीष्मपर्वणि सञ्जयवाक्यान्मघायां युद्धारम्भ इत्यपि निरस्तम्। बलदेववाक्यविरुद्धत्वात् । शब्दार्थस्तु मघापदेन तत्सहचराः पितरो लक्ष्यन्ते। तेन युद्धे मृतानां उत्तमदेहप्रदानार्थं चन्द्रस्तदा पितृलोके सन्निहितोऽभूदिति। स्वर्गिणां दिव्यदेहलाभश्चन्द्राधीन इति शास्त्रप्रसिद्धेः । तथा द्वादश्यां रात्रियुद्धे चन्द्रोदयकाले-त्रिभागमात्रशेषायां रात्रौ युद्धमवर्ततेत्युक्तम् तत्र त्रिभागेत्यस्य त्रिमुहूर्तशेषायामित्यर्थः। तथा-अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः इति भीष्मवचनं तु-माघोऽयं समनु प्राप्तः- त्रिभगमात्रः पक्षोऽयं इति वाक्यशेषानुसारात्। अशतं शतहीनं यथा स्यात्तथा अष्टपञ्च अष्टपञ्चाशद्रात्रयो व्यतीता इति व्याख्येयम्। विलोमशोधनात् अष्टपञ्चाशदूनं शतं रात्रयो द्वाचत्वारिंशद्रात्रयो व्यतीता इत्यर्थः। तथाच पौषकृष्णाष्टमीतो माघशुक्लपञ्चम्यां तावती दिनसंख्या पूर्यते पक्षस्य च तृतीयो भागो गतो भवति। ततत्राप्येकतिथिक्षयात् पञ्चम्याः द्विचत्वारिंशत्तमत्वं ज्ञेयम्। शेषो भवितुमर्हतीत्यत्र कार्यशेषो देहत्यागादिरेव शेषो नतु पक्षशेष इति व्याख्या ज्ञेया। तत्रायं निष्कर्षः। कार्तिकशुक्लद्वादश्यां रेवत्यां कृष्णप्रयाणम्। ततो निष्कर्षः। कार्तिकशुक्लद्वादश्यां रेवत्यां कृष्णप्रयाणम्। ततो मार्गशीर्षकृष्णपञ्चम्यां पुष्ये सेनयोर्निर्याणम्। ततः पञ्चम्यां उपरि षष्ठीमारभ्य सप्तदिनानि गणयित्वा तदुपर्यष्टमेऽह्नि अमावास्या भविष्यतीत्यनेन त्रयोदशदिनात्मकोऽयं कृष्णपक्षो महोत्पातजनक इति सूचितम्। क्षीणयोश्च तिथ्योः पक्षान्तरे पुनर्वृद्ध्या संख्यापूरणेभवतीति मार्गशीर्षकृष्णपञ्चमीमारभ्य पौषशुक्लप्रतिपत् द्विचत्वारिंशी तिथिर्भवतीति बलदेववाक्योक्ता दिनसंख्या नक्षत्रसंख्या चानुगृहीत भवति। यत्तु- सप्तमाच्चापि दिवसादमावाक्या भविष्यति। संग्रामयोजयेत्तत्र तां ह्याहुः शक्रदैवताम्। प्रयाध्वं वै कुरुक्षेत्रं पुष्यो द्येति पुनःपुनरिति दुर्योधनवाक्यम् तत्र संग्राममित्यनेन संग्रामे जयसाधनं धाराबन्धादिकं तस्यां योजयेदित्युक्तम्। शक्रदैवतामित्यनेन तस्यां ज्येष्ठानक्षत्रयोग उच्यते। सच तिथिद्वयक्षयात्तत्रासंभवन्नपि तत्र तिथिवदेव नक्षत्रक्षयाद्वा तिथिनक्षत्रयोराद्यन्तयोगाद्वा ज्ञेय इति सर्वं समञ्जसम्। महाग्रहाः राहुकेतो रुपग्रहत्वात्सप्तैव ॥ 6-17-4 ववाशिरे शब्दं कृतवन्तः ॥ 6-17-11 अयोनिधनं अयसा शस्त्रेण मरणम् ॥ 6-17-18 तालेन ध्वजभूतेन ॥ 6-17-20 गोवासनः तद्द्रेश्यः ॥ 6-17-29 वराहेण केतुमुख्येनेति संबन्धः ॥ 6-17-34 निष्केण कण्ठाभरणेन ॥
भीष्मपर्व - अध्याय 018

॥ श्रीः ॥

6.18. अध्यायः 018

Mahabharata - Bhishma Parva - Chapter Topics

कुरुसेनावर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-18-0 (39302) सञ्जय उवाच। 6-18-0x (3993) ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः। अश्रूयत महाराज योधानां प्रयुयुत्सताम् ॥ 6-18-1 (39303) शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः । नोमिघोषै रथानां च दीर्यतीव वसुन्धरा ॥ 6-18-2 (39304) हयानां हेषमाणानां योधानां चैव गर्जताम्। क्षणेनैव नभो भूमिः शब्देनापूरितं तदा ॥ 6-18-3 (39305) पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च । समकम्पन्त सैन्यानि परस्परसमागमे ॥ 6-18-4 (39306) तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः । भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ॥ 6-18-5 (39307) ध्वजा बहुविधाकारास्तावकानां नराधिप । काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥ 6-18-6 (39308) स्वेषां चैव परेषां च समदृश्यन्त भारत। महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ॥ 6-18-7 (39309) काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः। सन्नद्धाः समदृश्यन्त ज्वलनार्कसमप्रभाः ॥ 6-18-8 (39310) कुरुयोधवरा राजन्विचित्रायुधकार्मुकाः । उद्यतैरायुथैश्चित्रैस्तलबद्धाः पताकिनः ॥ 6-18-9 (39311) ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः । पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप । दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ॥ 6-18-10 (39312) विविंशतिश्चित्रसेनो विकर्णश्च महारथः । सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ॥ 6-18-11 (39313) रथा विंशतिसाहस्रास्तथैषामनुयायिनः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 6-18-12 (39314) शाल्वा मत्स्यास्तथाम्बष्ठास्त्रैगर्ताः केकयास्तथा। सौवीराः कैतवाः प्राच्याः प्रतीच्येदीच्यवासिनः ॥ 6-18-13 (39315) द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः । महता रथवंशेन ते ररक्षुः पितामहम् ॥ 6-18-14 (39316) अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् । मागधो यत्र नृपतिस्तद्रथानीकमन्वयात् ॥ 6-18-15 (39317) रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्। अभवन्वाहिनीमध्ये शतानामयुतानि षट् ॥ 6-18-16 (39318) पादाताश्चाग्रतो गच्छन्धनुश्चर्मासिपाणयः । अनेकशतसाहस्रा नखरप्रासयोधिनः ॥ 6-18-17 (39319) अक्षौहिण्यो दशैका च तव पुत्रस्य भारत। अदृश्यत महाराज गङ्गेव यमुनान्तरा ॥ ॥ 6-18-18 (39320) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि अष्टादशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-18-16 शतानागयुतानि षट् षट्शतान्ययुतगुणानि। षष्टिलक्षाणीति यावत् ॥
भीष्मपर्व - अध्याय 019

॥ श्रीः ॥

6.19. अध्यायः 019

Mahabharata - Bhishma Parva - Chapter Topics

युद्धाय पाण्डवसेनानिर्याणम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-19-0 (39321) धृतराष्ट्र उवाच। 6-19-0x (3994) अर्क्षांहिणीं दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः। कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ॥ 6-19-1 (39322) यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् । कथं भीष्मं स कौन्तेयः प्रत्ययूहत सञ्जय ॥ 6-19-2 (39323) सञ्जय उवाच। 6-19-3x (3995) धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः। अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् ॥ 6-19-3 (39324) महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः । संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ॥ 6-19-4 (39325) सूचीमुखमनीकं स्यादल्पानां बहुभिः सह। अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ॥ 6-19-5 (39326) एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव । एतच्छ्रुत्वा धर्मराजं प्रत्यभाषत पाण्डवः॥ 6-19-6 (39327) एष व्यूहामि ते व्यूहं राजसत्तम दुर्जयम्। अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥ 6-19-7 (39328) यः स वात इवोद्भूतः समरे दुःसहः परैः। स नः पुरो योत्सयते वै भीमः प्रहरतां वरः ॥ 6-19-8 (39329) तेजांसि रिपुसैन्यानां मृद्गन्पुरुषसत्तमः। अग्नेऽग्रणीर्योत्स्यति नो युद्धोपायविचक्षणः ॥ 6-19-9 (39330) यं दृष्ट्वा कुरवः सर्वे दुर्योधनपुरोगमाः। निवर्तिष्यन्ति संत्रस्ताः सिंहं क्षुद्रमृगा यथा ॥ 6-19-10 (39331) तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयाः । भीमं प्रहरतां श्रेष्ठं देवाराजमिवामराः ॥ 6-19-11 (39332) न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम्। द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ॥ 6-19-12 (39333) भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् । चरन्वेगेन महता समुद्रमपि शोषयेत् ॥ 6-19-13 (39334) भीमसेनं तदा राजन्दर्शयस्व महाबलम् । केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् ॥ 6-19-14 (39335) एते गच्छन्तु सामात्याः प्रकर्षन्तो जनाधिप । धृतराष्ट्रस्य दायादानिति बीभत्सुरब्रवीत् ॥ 6-19-15 (39336) ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि भारत । अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ॥ 6-19-16 (39337) एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः। व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तथा ॥ 6-19-17 (39338) संप्रयातान्कुरून्दृष्ट्वा पाण्डंवानां महाचमूः। गङ्गेव पूर्णा स्तिमिता स्पन्दमाना व्यदृश्यत ॥ 6-19-18 (39339) भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च वीर्यवान् । नकुलः सहदेवश्च धृष्टकेतुश्च पार्थिवः ॥ 6-19-19 (39340) विराटश्च ततः पश्चाद्राजाथाक्षौहिणीवृतः । भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ॥ 6-19-20 (39341) चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती। द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः ॥ 6-19-21 (39342) धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः । सहितः पृतनाशूरैः रथमुख्यैः प्रभद्रकैः ॥ 6-19-22 (39343) शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः। यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ॥ 6-19-23 (39344) पृष्ठतोऽप्यर्जुनस्यासीद्युयुधानो महाबलः । चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमोजसौ ॥ 6-19-24 (39345) राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः । बृहद्भीः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ॥ 6-19-25 (39346) अक्षौहिण्याथ पाञ्चाल्यो यज्ञसेनो महामनाः । विराटमन्वयात्पश्चात्पाण्डवार्थं पराक्रमी ॥ 6-19-27aतेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः । नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ॥ 6-19-26 (39347) समुत्सार्य ततः पश्चाद्धृष्टद्युम्नो महारथः । भ्रातृभिः सहपुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ॥ 6-19-28 (39348) त्वदीयानां परेषां च रथेषु विपुलान्ध्वजान्। अभिभूयार्जुनस्यैको रथे तस्थौ महाकपिः ॥ 6-19-29 (39349) पदातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः। अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ॥ 6-19-30 (39350) वारणा दशसाहस्राः प्रभिन्नकरटामुखाः । शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ॥ 6-19-31 (39351) क्षरन्त इव जीमूता महार्हाः पद्मगन्धिनः। राजानमन्वयुः यश्चाज्जीमूता इव वार्षिकाः ॥ 6-19-32 (39352) भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम्। प्रचकर्ष महासैन्यं दुराधर्षो महामनाः ॥ 6-19-33 (39353) तमर्कमिव दुष्प्रेक्ष्यं तपन्तमिव वाहिनीम् । न शेकुः सर्वयोधास्ते प्रतिवीक्षितुमन्तिके ॥ 6-19-34 (39354) वज्रो नामैष स व्यूहो निर्भयः सर्वतोमुखः। चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ॥ 6-19-35 (39355) यं प्रतिव्यूहय् तिष्ठन्ति पाण्डवास्तव वाहिनीम् । अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ॥ 6-19-36 (39356) संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति। प्रववौ पृष्ठतो वायुर्निरभ्रे स्तनयित्नुमान् ॥ 6-19-37 (39357) विष्वग्वाताश्च विववुर्नीचैः शर्करकर्षिणः । रजश्चोद्धूयत महत्तम आच्छादयञ्जगत् ॥ 6-19-38 (39358) पपात महती चोल्का प्राङ्भुखी भरतर्षभ । उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ॥ 6-19-39 (39359) अथ संनह्यमानेषु सैन्येषु भरतर्षभ । निष्प्रभोऽभ्युद्ययौ सूर्यः सघोषं भूश्चचाल च ॥ 6-19-40 (39360) व्यशीर्यत सनादा च भूस्तदा भरतर्षभ । निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् । प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन ॥ 6-19-41 (39361) ध्वजानां धूयमानानां सहसा मातरिश्वना । किङ्किणीजालबद्धानां काञ्चनस्रग्वराम्बरैः ॥ 6-19-42 (39362) महतां सपताकानामादित्यसमतेजसाम् । सर्वं झणझणीभूतमासीत्तालवनेष्विव ॥ 6-19-43 (39363) एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः । व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ॥ 6-19-44 (39364) ग्रसन्त इव मञ्जानो योधानां भरतर्षभ । दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ॥ ॥ 6-19-45 (39365) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकोनविंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-19-4 संहतानिति। अल्पैः संहत्यैव योद्धव्यम्। बहुभिस्तु विशकलितैरपि योद्धुं शक्यमित्यर्थः ॥ 6-19-6 व्यूह व्यूहं कुरु ॥ 6-19-18 स्पन्दमाना किंचिञ्चलन्ती ॥ 6-19-31 वारणा राजनमन्वयुरिति संबन्धः । अचलाः निष्कम्भाः ॥ 6-19-32 जीमूतः पर्वताः ॥ 6-19-39 आहत्य आस्फाल्य ॥ 6-19-45 मज्जान इति। नोऽस्माकं योधामञ्नाः धातुविशेषान् ग्रसन्त इवेति योज्यम्। भीमसेनं दृष्ट्वा वस्थिता इति संबन्धः ॥
भीष्मपर्व - अध्याय 020

॥ श्रीः ॥

6.20. अध्यायः 020

Mahabharata - Bhishma Parva - Chapter Topics

कुरुसेनागमनप्रकारवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

धृतराष्ट्र उवाच। सूर्योदये सञ्जय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन्। मामका वा भीष्मनेत्राः समीपे पाण्डवा वा भीमनेत्रास्तदानीम् ॥ 6-20-1 (39366) केषां जघन्यौ समसूर्यौ सवायू केषां सेनां श्वापदाश्चाभषन्त । केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥ 6-20-2 (39367) सञ्जय उवाच। 6-20-3x (3996) उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र। उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे॥ 6-20-3 (39368) उभे सेने बृहत्यौ भीमरूपे तथैवोभे भारत दुर्विषह्ये । तथैवोभे स्वर्गजयाय सृष्टे तथैवोभे सत्पुरुषोपजुष्टे ॥ 6-20-4 (39369) पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः । दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम् ॥ 6-20-5 (39370) शीतो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ्श्वापदा व्याहरन्त । गजेन्द्राणां मदगन्धांश्च तीव्रा- न्न सेहिरे तव पुत्रस्य नागाः ॥ 6-20-6 (39371) दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्षं जालवन्तं प्रभिन्नम् । समास्थितो मध्यगतः कुरूणां संस्तूयमानो बन्दिभिर्मागधैश्च ॥ 6-20-7 (39372) चन्द्रप्रभं श्वेतमथातपत्रं सौवर्णस्रग्भ्राजति चोत्तमाङ्गे । तं सर्वतः शकुनिः पार्वतीयैः सार्धं गान्धारैर्याति गान्धारराजः ॥ 6-20-8 (39373) भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सखङ्गः । श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशैः ॥ 6-20-9 (39374) तस्य सैन्ये धार्तराष्ट्राश्च सर्वे बाह्लीकानामेकदेशः शलश्च। ये चाम्बष्ठाः क्षत्रिया ये च सिन्धो- स्तथा सौवीराः पञ्चनदाश्च शूराः ॥ 6-20-10 (39375) शोणैर्हयै रुक्मरथो महात्मा द्रोणो धनुष्पाणिरदीनसत्वः । आप्तो गुरुः प्रथितः सर्वराज्ञां पश्चाच्चमूमिन्द्र इवाभियाति ॥ 6-20-11 (39376) वार्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च। साल्वा मत्स्याः केकयाश्चेति सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः ॥ 6-20-12 (39377) शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी। शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभियाति॥ 6-20-13 (39378) महारथैर्वष्णिभोजैः सुगुप्तं सुराष्ट्रकैर्विदितैरात्तशस्त्रैः । बृहद्बलं कृतवर्माभिगुप्तं बलं त्वदीयं दक्षिणेनाभियाति ॥ 6-20-14 (39379) संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः। येनार्जुनस्तेन राजन्कृतास्त्राः प्रयातारस्ते त्रिगर्ताश्च शूराः ॥ 6-20-15 (39380) साग्रं शतसहस्रं तु नागानां तव भारत । नागेनागे रथशतं शतमश्वा रथेरथे ॥ 6-20-16 (39381) अश्वेऽश्वे दश धानुष्का धानुष्के शत चर्मिणः। एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥ 6-20-17 (39382) संव्यूह्य मानुषं व्यूहं दैवं गान्धर्वमासुरम्। दिवसेदिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ॥ 6-20-18 (39383) महारथौघविपुलः समुद्र इव घोषवान्। भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ॥ 6-20-19 (39384) अनन्तरूपा ध्वजिनी नरेन्द्र भीमा त्वदीया न तु पाण्डवानाम्। तां चैव मन्ये बृहतीं दुष्प्रघर्षां यस्या नेता केशवश्चार्जुनश्च ॥ ॥ 6-20-20 (39385) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि विंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-20-1 भीष्मो नेत्रः नेता येषां ते भीष्मनेत्राः ॥ 6-20-15 येन यत्र। तेन तत्र ॥ 6-20-20 अनन्तरूपा वह्वी त्वदीया नतु पाण्डवानां सेना वह्वी। तथापि तां बृहतीमेव मन्ये इति संबन्धः ॥
भीष्मपर्व - अध्याय 021

॥ श्रीः ॥

6.21. अध्यायः 021

Mahabharata - Bhishma Parva - Chapter Topics

परसेनादर्शनचकितं युधिष्ठिरं प्रत्यर्जुनेन सयुक्तिनिरूपणं समाश्वासनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-21-0 (39386) सञ्जय उवाच। 6-21-0x (3997) बृहतीं धार्तराष्ट्रस्य सेनां दृष्ट्वा समुद्यताम्। विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 6-21-1 (39387) व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः। अभेद्यमिव संप्रेक्ष्य विवर्णोऽर्जुनमब्रवीत् ॥ 6-21-2 (39388) धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे । धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः ॥ 6-21-3 (39389) अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्षिणा । कल्पितः शास्त्रदृष्टेन विधिना भूरिवर्चसा ॥ 6-21-4 (39390) ते वयं संशय्नं प्राप्ताः ससैन्याः शत्रुकर्षण । कथमस्मान्महाव्यूहादुत्थानं नो भविष्यति ॥ 6-21-5 (39391) अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा । विषण्णमिव संप्रेक्ष्य तव राजन्ननीकिनीम् ॥ 6-21-6 (39392) प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि । जयन्त्यल्पतरा येन तन्निबोध विशांपते ॥ 6-21-7 (39393) तत्र ते कारणं राजन्प्रवक्ष्याम्यनसूयवे । नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ॥ 6-21-8 (39394) एनमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्। पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ॥ 6-21-9 (39395) न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः । यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ॥ 6-21-10 (39396) त्वक्त्वाऽधर्मं तथा सर्वे धर्मं चोत्तममास्थिताः । युध्यध्वमतहंकारा यतो धर्मस्ततो जयः ॥ 6-21-11 (39397) एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः। यथा तु नारदः प्राह यतः कृष्णस्ततो जयः ॥ 6-21-12 (39398) गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम् । तद्यथा विजयश्चास्य सन्नतिश्चापरो गुणः ॥ 6-21-13 (39399) अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः। पुरुषः सनातनमयो यतः कृष्णस्ततो जयः ॥ 6-21-14 (39400) पुरा ह्येष हरिर्भूत्वा विकुण्ठोऽकुण्ठसायकः। सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ॥ 6-21-15 (39401) अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् । तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ॥ 6-21-16 (39402) तस्य ते न व्यथां कांचिदिह पश्यामि भारत । यस्य ते यजमाशास्ते विश्वभुक् त्रिदिवेश्वरः ॥ ॥ 6-21-17 (39403) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकविंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-21-13 गुणभूतो दासभूतः ॥ 6-21-15 अकुण्ठसायकः अप्रतिहतायुधः ॥
भीष्मपर्व - अध्याय 022

॥ श्रीः ॥

6.22. अध्यायः 022

Mahabharata - Bhishma Parva - Chapter Topics

युधिष्ठिरादीनां युद्धाय निर्गमः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् । प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ॥ 6-22-1 (39404) यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाःक । स्वर्गं परममिच्छन्तः सुयुद्धेन कुरूद्वहाः ॥ 6-22-2 (39405) मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना । धृष्टद्युम्नश्चरन्नग्रे भीमसेनेन पालितः ॥ 6-22-3 (39406) अनीकं दक्षिणं राजन्युयुधानेन पालितम् । श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥ 6-22-4 (39407) महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम्। युधिष्ठिरः काञ्चनभाण्डयोक्रं समास्थितो नागबलस्य मध्ये ॥ 6-22-5 (39408) समुच्छ्रितं दन्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति। प्रदक्षिणं चैनमुपाचरन्त महर्षयः संस्तुतिभिर्महेन्द्रम् ॥ 6-22-6 (39409) पुरोहिताः शत्रुवधं वदन्तो ब्रह्मर्षिसिद्धाः श्रुतवन्त एनम् । जप्यैश्च मन्त्रैश्च महौषधीभिः समन्ततः स्वस्त्ययनं ब्रुवन्तः ॥ 6-22-7 (39410) ततः स वस्त्राणि तथैव गाश्च फलानि पुष्पाणि तथैव निष्कान् । कुरूत्तमो ब्राह्मणसान्महात्मा कुर्वन्ययौ शक्र इवामरेशः ॥ 6-22-8 (39411) सहस्रसूर्यः शतकिङ्किणीकः परार्ध्यजाम्बूनदहेमचित्रः। रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः ॥ 6-22-9 (39412) तमास्थितः केशवसंगृहीतं कपिध्वजो गाण्डिवबाणपाणिः। धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता कदाचित् ॥ 6-22-10 (39413) उद्धर्तयिष्यंस्तव पुत्रसेना- मतीव रौद्रं स बिभर्ति रूपम् । अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात्॥ 6-22-11 (39414) स भीमसेनः सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता । तं तत्र सिंहर्षभमत्तखेलं लोके महेन्द्रप्रतिमानकल्पम् ॥ 6-22-12 (39415) समीक्ष्य सेनाग्रगतं दुरासदं संविव्यथुः पङ्कगता यथा द्विपाः । वृकोदरं वारणाजदर्पं योधास्त्वदीया भयविग्नसत्त्वाः ॥ 6-22-13 (39416) अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् । अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥ 6-22-14 (39417) वासुदेव उवाच। 6-22-15x (3998) य एष रोषात्प्रतपन्बलस्थो यो नः सेनां सिंह इवेक्षते च। स एष भीष्मः कुरुवंशकेतु- र्येनाहृतास्त्रिशतं वाजिमेधाः ॥ 6-22-15 (39418) एतान्यनीकानि महानुभावं गूहन्ति मेघा इव रश्मिमन्तम्। एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण ॥ ॥ 6-22-16 (39419) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि द्वाविंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-22-9 सहस्रं सूर्यतुल्यान्यादर्शचक्राणि यस्मिन्स सहस्रसूर्यः ॥ 6-22-16 गूहन्ति परिवारयन्ति ॥
भीष्मपर्व - अध्याय 023

॥ श्रीः ॥

6.23. अध्यायः 023

Mahabharata - Bhishma Parva - Chapter Topics

अर्जुनेन दुर्गास्तोत्रपठनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-23-0 (39420) सञ्जय उवाच। 6-23-0x (3999) धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम्। अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ॥ 6-23-1 (39421) श्रीभगवानुवाच। 6-23-2x (4000) शुचिर्भूत्वा महाबाहो संग्रामाभिमुखे स्थितः। पराजयाय श्त्रुणां दुर्गास्तोत्रमुदीरय ॥ 6-23-2 (39422) सञ्जय उवाच। 6-23-3x (4001) एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता। अवतीर्य रथात्पार्थः स्तोत्रमाह कृताञ्जलिः ॥ 6-23-3 (39423) अर्जुन उवाच। 6-23-4x (4002) नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि । कुमारि कालि कापालि कपिले कृष्णपिङ्गले ॥ 6-23-4 (39424) भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते । चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि ॥ 6-23-5 (39425) कात्यायनि महाभागे करालि विजये जये। शिखिपिच्छध्वजधरे नानाभरणभूषिते॥ 6-23-6 (39426) अट्टशूलप्रहरणे स्वङ्गखेटकधारिणि । गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे ॥ 6-23-7 (39427) महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि । अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ॥ 6-23-8 (39428) उभे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि । हिरण्याश्चि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ॥ 6-23-9 (39429) वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि । जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥ 6-23-10 (39430) त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम्। स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥ 6-23-11 (39431) स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती। सावित्री वेदमाता च तथा वेदान्त उच्यते ॥ 6-23-12 (39432) स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना । जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥ 6-23-13 (39433) कान्तारभयदुर्गेषु भक्तानां चालयेषु च । नित्यं वससि पाताले युद्धे जयसि दानवान् ॥ 6-23-14 (39434) त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च । संध्या प्रभावती चैव सावित्री जननी तथा ॥ 6-23-15 (39435) तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी । भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥ 6-23-16 (39436) सञ्जय उवाच। 6-23-17x (4003) ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला। 6-23-17bअन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता ॥ 6-23-17 (39437) देव्युवाच। 6-23-18x (4004) स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव । नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ॥ 6-23-18 (39438) अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् । इत्येवमुक्त्वा वरदा क्षणेनान्तरधीयत ॥ 6-23-19 (39439) लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः । आरुरोह ततः पार्थो रथं परमसंमतम् ॥ 6-23-20 (39440) कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौः प्रदध्मतुः । य इदं पठते स्तोत्रं कल्य उत्थाय मानवः ॥ 6-23-21 (39441) यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा। न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ॥ 6-23-22 (39442) न भयं विद्यते तस्य सदा राजकुलादपि । विवादेक जयमाप्नोति बद्धो मुच्यति बन्धनात् ॥ 6-23-23 (39443) दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते। संग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ॥ 6-23-24 (39444) आरोग्यबलसंपन्नो जीवेद्वर्षशतं तथा । एतद्दृष्टं प्रसादात्तु मया व्यासस्य धीमतः ॥ 6-23-25 (39445) मोहादेतौ न जानन्ति नरनारायणावृषी । तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः ॥ 6-23-26 (39446) प्राप्तकालमिदं वाक्यं कालपाशेन कुण्ठिताः । द्वैपायनो नारदश्च कण्वो रामस्तथानघः । अवारयंस्तव सुतं न चासौ तद्गृहीतवान् ॥ 6-23-27 (39447) यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः। यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥ ॥ 6-23-28 (39448) इति श्रीमन्महाभरते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयोविंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-23-1 हितार्थाय हितश्चासावर्थश्च हितार्थो जयस्तदर्थम् ॥ 6-23-3 सङ्ख्ये सङ्ग्रामे ॥ 6-23-4 इदं स्तोत्रं झo पुस्तक एव दृश्यते न दाक्षिणात्यकोशेषु क्वापि। हे सिद्धसेनानि सिद्धानां सेनाया नेत्रि। मन्दरे मन्दरवने वसतीति तथा। कुमारि अविप्लुतब्रह्मचर्ये जादिहीने इति वा। कालि कालशक्ते। कापालि कपालस्यायं पतिः कापालो रुद्रस्तत्पत्नि। कपिलः कृष्णपिङ्गलश्च वर्णविशेषौ तद्वति ॥ 6-23-5 भद्रं कल्याणं कालयति भक्तान् प्रति आनयति सा भद्रकाली। महती चासी काली च कालयित्री संहत्री कालरूपा महाकाली। चण्डि चण्डस्य कालान्तकस्य भार्ये। चण्डे प्रगल्भे। तारिणि संकटोत्तरणकर्त्रि । वरवर्णिनी सर्वसौभाग्यलक्षणोपेता स्त्री तद्रूपे ॥ 6-23-6 कात्यायनि कतगोत्रोद्भवे। महाभागे अतिपूज्ये। करालि क्रूरे। विजये विशिष्टो जयो यया सा। जयप्रदे इत्यर्थः। जये जयस्वरूपे ॥ 6-23-7 भट्टं अत्युत्कटं शूलं तदेव प्रहरणायुधं यस्याः। खेटकं चर्म ॥ 6-23-8 कौशिकि कुशिककुलोत्पन्ने। अट्टहासे प्रशस्तस्मिते। कोकं चक्रवत् वृत्तं वा रक्तबीजवधेऽसुरादानशीलं वा मुखं यस्याः सा कोकमुखा ॥ 6-23-9 हिरण्याक्षि पीतनेत्रे। विरूपाक्षि विविधरूपयुक्तनेत्रे ॥ 6-23-10 ब्रह्मण्ये यज्ञकर्मविप्रादिषु साध्वी ब्रह्मण्या। जातवेदसि अतीतज्ञे अतीतैर्ज्ञाते वा। जम्बूकटकेषु जम्बूद्वीपराजधानीषु चैत्येषु देवतालयेषु नित्यं सन्निहित आलयः स्थानं यस्याः सा तथा ॥ 6-23-13 रणाजिरे युद्धाङ्गणे ॥ 6-23-15 जम्भनी तन्द्रा । मोहिनी निद्रा। श्रीर्लक्ष्मीः विद्यातपोधनादिसमृद्धिरूपा ॥
भीष्मपर्व - अध्याय 024

॥ श्रीः ॥

6.24. अध्यायः 024

Mahabharata - Bhishma Parva - Chapter Topics

सञ्जयेनोभयसेनयोरभ्युदयवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-24-0 (39449) धृतराष्ट्र उवाच। 6-24-0x (4005) केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय। उदग्रमनसः के वा के वा दीना विचेतसः ॥ 6-24-1 (39450) के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने । मामकाः पाण्डवेया वा तन्ममाचक्ष्व सञ्जय ॥ 6-24-2 (39451) कस्य सेनासमुदये गन्धो माल्यसमुद्भवः । वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम् ॥ 6-24-3 (39452) सञ्जय उवाच। 6-24-4x (4006) उभयोः सेनयोस्तत्र योधा जहृषिरे तदा। स्रजः समाः सुगन्धानामुभयत्र समुद्भवः ॥ 6-24-4 (39453) संहतानामनीकानां व्यूढानां भरतर्षभ । संसर्गात्समुदीर्णानां विमर्दः सुमहानभूत् ॥ 6-24-5 (39454) वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः। शूराणां रणशूराणां गर्जतामितरेतरम् ॥ 6-24-6 (39455) उभयोः सेनयो राजन्महान्व्यतिकरोऽभवत्। अन्योन्यं वीक्षमाणानां योधानां भरतर्षभ। कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥ ॥ 6-24-7 (39456) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुर्विशोऽध्यायः ॥
भीष्मपर्व - अध्याय 025

॥ श्रीः ॥

6.25. अध्यायः 025

Mahabharata - Bhishma Parva - Chapter Topics

पञ्चविंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-25-0 (39457) धृतराष्ट्र उवाच। 6-25-0x (4007) धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ 6-25-1 (39458) सञ्जय उवाच। 6-25-2x (4008) दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ 6-25-2 (39459) पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 6-25-3 (39460) अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 6-25-4 (39461) धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कृन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ 6-25-5 (39462) युधामन्युश्च विक्रान्त उत्तमौजाश्च नरपुङ्गवः ॥ सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ 6-25-6 (39463) अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम। नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ 6-25-7 (39464) भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थांमा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ 6-25-8 (39465) अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 6-25-9 (39466) अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 6-25-10 (39467) अयनेषु च सर्वेषु यथाभागमवस्थिताः। भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ 6-25-11 (39468) तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ 6-25-12 (39469) ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 6-25-13 (39470) ततः श्वेतैर्हयैर्युक्ते महति स्यन्दते स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ 6-25-14 (39471) पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 6-25-15 (39472) अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 6-25-16 (39473) काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ 6-25-17 (39474) द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ 6-25-18 (39475) स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ 6-25-19 (39476) अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥ 6-25-20 (39477) हृषीकेशं तदा वाक्यमिदमाह महीपते । 6-25-21 (39478) अर्जुन उवाच। सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ 6-25-21x (4009) यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्। कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ 6-25-22 (39479) योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ 6-25-23 (39480) सञ्जय उवाच। 6-25-24x (4010) एवमुक्तो हृषीकेशो गुडाकेशेन भारत। सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ 6-25-24 (39481) भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ 6-25-25 (39482) तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्। आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ 6-25-26 (39483) श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ 6-25-27 (39484) कृपया परयाऽविष्टो विषीदन्निदमब्रवीत् । 6-25-28 (39485) अर्जुन उवाच। दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ 6-25-28x (4011) सीदन्ति मम गात्राणि मुखं च परिशुष्यति। वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥ 6-25-29 (39486) गाण्डीवं स्रंसते हस्तात्त्वक्वैव परिदह्यते। न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 6-25-30 (39487) निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ 6-25-31 (39488) न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ 6-25-32 (39489) येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ 6-25-33 (39490) आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा ॥ 6-25-34 (39491) एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ 6-25-35 (39492) निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन। पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ 6-25-36 (39493) तस्मान्नार्हा यवं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्। स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ 6-25-37 (39494) यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं पित्रद्रोहे च पातकम् ॥ 6-25-38 (39495) कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ 6-25-39 (39496) कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः। धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ 6-25-40 (39497) अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ 6-25-41 (39498) सङ्करो नरकायैव कुलघ्नानां कुलस्य च। पतन्ति पितरो ह्येषां कुप्तपिण्डोदकक्रियाः ॥ 6-25-42 (39499) दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ 6-25-43 (39500) उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ 6-25-44 (39501) अहो बत महत्पापं कर्तुं व्यवसिता वयम्। यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ 6-25-45 (39502) यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ 6-25-46 (39503) सञ्जय उवाच। 6-25-47x (4012) एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ॥ 6-25-47 (39504) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि पञ्चविंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगोनाम प्रथमोऽध्यायः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-25-8 सौमदत्तिस्तञ्चैवचेति माध्वपाठः ॥ 6-25-18 शङ्खं दध्मुः पृथक्पृथक् इति माध्वपाठः ॥ 6-25-30 गाण्डीवं स्रवते हस्तात् इति माध्वपाठः ॥ 6-25-34 श्याला इति माध्वपाठः ॥
भीष्मपर्व - अध्याय 026

॥ श्रीः ॥

6.26. अध्यायः 026

Mahabharata - Bhishma Parva - Chapter Topics

षड्विंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-26-0 (39505) सञ्जय उवाच। 6-26-0x (4013) तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ 6-26-1 (39506) श्रीभगवानुवाच। 6-26-2x (4014) कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ 6-26-2 (39507) क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥ 6-26-3 (39508) अर्जुन उवाच। 6-26-4x (4015) कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 6-26-4 (39509) गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भेक्षमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ 6-26-5 (39510) न चैतद्वीद्मः कतरन्नो गरीयो यद्वा जयम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ 6-26-6 (39511) कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः। यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ 6-26-7 (39512) न हि प्रपश्यामि ममापनुद्या- द्यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ 6-26-8 (39513) सञ्जय उवाच। 6-26-9x (4016) एवमुकत्वा हृषीकेशं गुडाकेशं परंतप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ 6-26-9 (39514) तमुवाच हृषीकेशः प्रहसन्निव भारत। सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ 6-26-10 (39515) श्रीभगवानुवाच। 6-26-11x (4017) अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पाण्डिताः ॥ 6-26-11 (39516) नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। न चैव नभविष्यामः सर्वे वयमतः परम् ॥ 6-26-12 (39517) देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ 6-26-13 (39518) मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्स्यास्तांस्तितिक्षस्व भारत ॥ 6-26-14 (39519) यं हि व्यथयन्त्येते पुरुषं पुरुषर्षभ। समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ 6-26-15 (39520) नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिःक ॥ 6-26-16 (39521) अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्। विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ 6-26-17 (39522) अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ 6-26-18 (39523) य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ 6-26-19 (39524) न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्तये हन्यमाने शरीरे ॥ 6-26-20 (39525) वेदाविनाशिनं नित्यं य एनमजमव्ययम्। कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ 6-26-21 (39526) वासांसि जीर्णानि यथा विहाय नवानि गृह्णानि नरोऽपराणि। तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥ 6-26-22 (39527) नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ 6-26-23 (39528) अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ 6-26-24 (39529) अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते। तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ 6-26-25 (39530) अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्। तथापि कत्वं महाबाहो नैनं शोचितुमर्हसि ॥ 6-26-26 (39531) जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ 6-26-27 (39532) अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत। अव्यक्तनिधनान्येन तत्र का परिदेवना ॥ 6-26-28 (39533) आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः श्रृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित् ॥ 6-26-29 (39534) देही नित्यमवध्योऽयं देहे सर्वस्य भारत। तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ 6-26-30 (39535) स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ 6-26-31 (39536) यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लन्ते युद्धमीदृशम् ॥ 6-26-32 (39537) अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि। ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ 6-26-33 (39538) अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ 6-26-34 (39539) भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ 6-26-35 (39540) अवाच्यवादांश्चक बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ 6-26-36 (39541) हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ 6-26-37 (39542) सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ 6-26-38 (39543) एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श्रृणु। बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ 6-26-39 (39544) नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ 6-26-40 (39545) व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ 6-26-41 (39546) यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ 6-26-42 (39547) कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ 6-26-43 (39548) भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ 6-26-44 (39549) त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ॥ 6-26-45 (39550) यावानर्थ उदपाने सर्वतः संप्लुतोदके। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ 6-26-46 (39551) कर्मण्येवाधिकारस्ते मा फलेषु कदा च न । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ 6-26-47 (39552) योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ 6-26-48 (39553) दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ 6-26-49 (39554) बुद्धियुक्तो जहातीहक उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ 6-26-50 (39555) कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ 6-26-51 (39556) यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति। तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ 6-26-52 (39557) श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ 6-26-53 (39558) अर्जुन उवाच। 6-26-54x (4018) स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किं ॥ 6-26-54 (39559) श्रीभगवानुवाच । 6-26-55x (4019) प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्। आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ 6-26-55 (39560) दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ 6-26-56 (39561) यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ 6-26-57 (39562) यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 6-26-58 (39563) विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ 6-26-59 (39564) यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः। इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ 6-26-60 (39565) तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियामि तस्य प्रज्ञा प्रतिष्ठिता ॥ 6-26-61 (39566) ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते। सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥ 6-26-62 (39567) क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुदिनाशो बुद्धिनाशात्प्रणश्यति ॥ 6-26-63 (39568) रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ 6-26-64 (39569) प्रसादे सर्वदुःखानां हानिरस्योपजायते। प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ 6-26-65 (39570) नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ 6-26-66 (39571) इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ 6-26-67 (39572) तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 6-26-68 (39573) या निशा सर्वभूतानां तस्यां जागर्तिं संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ 6-26-69 (39574) आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ 6-26-70 (39575) विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥ 6-26-71 (39576) एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति ॥ ॥ 6-26-72 (39577) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि षड्विंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे शाङ्ख्ययोगोनाम द्वितीयोऽध्यायः ॥ 2 ॥
भीष्मपर्व - अध्याय 027

॥ श्रीः ॥

6.27. अध्यायः 027

Mahabharata - Bhishma Parva - Chapter Topics

सप्तविंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 3 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-27-0 (39578) अर्जुन उवाच। 6-27-0x (4020) ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन। तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ 6-27-1 (39579) व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ 6-27-2 (39580) श्रीभगवानुवाच। 6-27-3x (4021) लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोप्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ 6-27-3 (39581) न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्रुते। न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ 6-27-4 (39582) न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 6-27-5 (39583) कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचाराः स उच्यते ॥ 6-27-6 (39584) यस्त्विन्द्रियाणि पनसा नियम्यारमभतेऽर्जुन। कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ 6-27-7 (39585) नियतं कुरु कर्म त्वं ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रतिद्ध्येदकर्मणः ॥ 6-27-8 (39586) यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ 6-27-9 (39587) सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ 6-27-10 (39588) देवान्भावयताऽनेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ 6-27-11 (39589) इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ 6-27-12 (39590) यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ 6-27-13 (39591) अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 6-27-14 (39592) कर्म ब्रह्मोद्भवं विद्धि ब्रह्माऽक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ 6-27-15 (39593) एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ 6-27-16 (39594) यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ 6-27-17 (39595) नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ 6-27-18 (39596) तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पुरूषः ॥ 6-27-19 (39597) कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥ 6-27-20 (39598) यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ 6-27-21 (39599) न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 6-27-22 (39600) यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्न्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 6-27-23 (39601) उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ 6-27-24 (39602) सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ 6-27-25 (39603) न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ 6-27-26 (39604) प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ 6-27-27 (39605) तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणाऽनुणेषु वर्तन्त इति मत्वा न सञ्जते ॥ 6-27-28 (39606) प्रकृतेर्गुणसंमूढाः सञ्जन्ते गुणकर्मसु। तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ 6-27-29 (39607) मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ 6-27-30 (39608) ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ 6-27-31 (39609) ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ 6-27-32 (39610) सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ 6-27-33 (39611) इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ 6-27-34 (39612) श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 6-27-35 (39613) अर्जुन उवाच। 6-27-36x (4022) अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ 6-27-36 (39614) श्रीभगवानुवाच। 6-27-37x (4023) काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ 6-27-37 (39615) धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ 6-27-38 (39616) आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ 6-27-39 (39617) इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्त्य देहिनम् ॥ 6-27-40 (39618) तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ 6-27-41 (39619) इन्द्रियामि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ 6-27-42 (39620) एवं बुद्धेः परं बुद्धाः संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ॥ 6-27-43 (39621) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि सप्तविंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगोनाम तृतीयोऽध्यायः ॥
भीष्मपर्व - अध्याय 028

॥ श्रीः ॥

6.28. अध्यायः 028

Mahabharata - Bhishma Parva - Chapter Topics

अष्टाचिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 4 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-28-0 (39622) श्रीभगवानुवाच। 6-28-0x (4024) इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ 6-28-1 (39623) एवं परम्पराप्राप्तमिमं राजर्षयोऽविदुः । स कालेनेह महता योगो नष्टः परंतप ॥ 6-28-2 (39624) स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ 6-28-3 (39625) अर्जुन उवाच। 6-28-4x (4025) अपरं भवतो जन्म परं जन्म विवस्वतः। कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ 6-28-4 (39626) श्रीभगवानुवाच। 6-28-5x (4026) बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥ 6-28-5 (39627) अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥ 6-28-6 (39628) यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ 6-28-7 (39629) परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ 6-28-8 (39630) जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्वक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ 6-28-9 (39631) वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ 6-28-10 (39632) ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 6-28-11 (39633) काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ 6-28-12 (39634) चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ 6-28-13 (39635) न मां कर्माणि लिम्पन्तिक न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ 6-28-14 (39636) एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ 6-28-15 (39637) किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥ 6-28-16 (39638) कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ 6-28-17 (39639) कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ 6-28-18 (39640) यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ 6-28-19 (39641) त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥ 6-28-20 (39642) निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 6-28-21 (39643) यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः। समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 6-28-22 (39644) गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ 6-28-23 (39645) ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना ॥ 6-28-24 (39646) दैवमेवापरे यज्ञं योगिनः पर्युपासते। ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ 6-28-25 (39647) श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ 6-28-26 (39648) सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ 6-28-27 (39649) द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे। स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ 6-28-28 (39650) अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ 6-28-29 (39651) अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥ 6-28-30 (39652) यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ 6-28-31 (39653) एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे। कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ 6-28-32 (39654) श्रेयान्द्रव्यमयाद्यजाज्ज्ञानयज्ञः परंतप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ 6-28-33 (39655) तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ 6-28-34 (39656) यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ 6-28-35 (39657) अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ 6-28-36 (39658) यथैधांसि समिद्धोऽग्निर्भस्मासात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते यथा ॥ 6-28-37 (39659) न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ 6-28-38 (39660) श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ 6-28-39 (39661) अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति। नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ 6-28-40 (39662) योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ 6-28-41 (39663) तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ॥ 6-28-42 (39664) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि अष्टविंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशस्त्रे श्रीकृष्णार्जुनसंवादे यज्ञविभागयोगोनाम चतुर्थोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-28-39 मत्परः संयतेन्द्रियः इति माध्वपाठः ॥ 6-28-* ज्ञानयोगोनाम इति माध्वपाठः ॥
भीष्मपर्व - अध्याय 029

॥ श्रीः ॥

6.29. अध्यायः 029

Mahabharata - Bhishma Parva - Chapter Topics

एकोनत्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 5 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-29-0 (39665) अर्जुन उवाच। 6-29-0x (4027) संन्यासं कर्मणां कृष्ण कपुनर्योगं च शंससि। यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ 6-29-1 (39666) श्रीभगवानुवाच। 6-29-2x (4028) संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ 6-29-2 (39667) ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति। निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ 6-29-3 (39668) साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ 6-29-4 (39669) यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ 6-29-5 (39670) संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ 6-29-6 (39671) योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ 6-29-7 (39672) नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्रन्गच्छन्स्वपन्श्वसन् ॥ 6-29-8 (39673) प्रलपन्विसृजन्गृह्णन्नृन्मिषन्निमिषन्नपि। इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ 6-29-9 (39674) ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ 6-29-10 (39675) कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ 6-29-11 (39676) युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ 6-29-12 (39677) सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ 6-29-13 (39678) न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ 6-29-14 (39679) नादत्ते कस्य चित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ 6-29-15 (39680) ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ 6-29-16 (39681) तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ 6-29-17 (39682) विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 6-29-18 (39683) इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ 6-29-19 (39684) न प्रहृष्येत्प्रियं व्याप्य नोद्विजेत्प्राप्य चाप्रियम्। स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ 6-29-20 (39685) बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्रुते ॥ 6-29-21 (39686) ये हि संस्पर्शजा भोगा दुःखयोनय एव ते। आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ 6-29-22 (39687) शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात्। कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ 6-29-23 (39688) योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ 6-29-24 (39689) लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः। छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ 6-29-25 (39690) कामक्रोधवियुक्तानां यतीनां यतचेतसाम्। अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ 6-29-26 (39691) स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ 6-29-27 (39692) यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः। विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः । 6-29-28 (39693) भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ॥ 6-29-29 (39694) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकोनत्रिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे संन्यासयोगोनाम पञ्चमोऽध्यायः ॥
भीष्मपर्व - अध्याय 030

॥ श्रीः ॥

6.30. अध्यायः 030

Mahabharata - Bhishma Parva - Chapter Topics

त्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 6 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-30-0 (39695) श्रीभगवानुवाच। 6-30-0x (4029) अनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 6-30-1 (39696) यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसिंकल्पो योगी भवति कश्चन ॥ 6-30-2 (39697) आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 6-30-3 (39698) यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषञ्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ 6-30-4 (39699) उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 6-30-5 (39700) बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6-30-6 (39701) जितात्मनः प्रशान्तस्य परमात्मा समाहितः। शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ 6-30-7 (39702) ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्ठाश्मकाञ्चनः ॥ 6-30-8 (39703) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 6-30-9 (39704) योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 6-30-10 (39705) शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ 6-30-11 (39706) तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ 6-30-12 (39707) समं कायशिरोग्रीवं धारयन्नचलं स्थिरः। संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकथन् ॥ 6-30-13 (39708) प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । प्रनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 6-30-14 (39709) युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 6-30-15 (39710) नात्यश्रतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्रशीलस्य जाग्रतो नैव चार्जुन ॥ 6-30-16 (39711) युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नाववोधस्य योगो भवति दुःखहा ॥ 6-30-17 (39712) यदा विनियतं चित्तमात्मन्येवावतिष्ठते। निस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 6-30-18 (39713) यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ 6-30-19 (39714) यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ 6-30-20 (39715) मुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 6-30-21 (39716) यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ 6-30-22 (39717) तं विद्याद्दुःखसंयोगवयोगं योगसंज्ञितम्। स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ 6-30-23 (39718) संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनिवम्य समन्ततः ॥ 6-30-24 (39719) शनैः शनैरुपरमेद्भुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ 6-30-25 (39720) यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ 6-30-26 (39721) प्रशान्तमनसं ह्येनं योगिनं मुखमुत्तमम् । उपैति श्चान्तरजसं ब्रह्मभूतमकल्मषम् ॥ 6-30-27 (39722) युञ्चयेवं सदात्मानं योगी विमतकल्मषःक । मुखेन ब्रह्मसंस्कपर्शमत्यन्तं सुखमश्रुते ॥ 6-30-28 (39723) सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि। ईक्षते कयोगयुक्तात्मा सर्वत्र समदर्शनः ॥ 6-30-29 (39724) यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 6-30-30 (39725) सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 6-30-31 (39726) आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखंक वा यदि वा दुःखं स योगी मरमो मतः ॥ 6-30-32 (39727) अर्जुन उवाच। 6-30-33x (4030) योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिरां ॥ 6-30-33 (39728) चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 6-30-34 (39729) श्रीभगवानुवाच। 6-30-35x (4031) असंशयं महाबाहो मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 6-30-35 (39730) असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽऽवाप्तुमुपायतः ॥ 6-30-36 (39731) अर्जुन उवाच। 6-30-37x (4032) अयतिः श्रद्धयोपेतो योगाच्चलितमानसः। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ 6-30-37 (39732) कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति। अप्रतिकष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 6-30-38 (39733) एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 6-30-39 (39734) श्रीभगवानुवाच। 6-30-40x (4033) पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ 6-30-40 (39735) प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ 6-30-41 (39736) अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृश्यम् ॥ 6-30-42 (39737) तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ 6-30-43 (39738) पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशेऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 6-30-44 (39739) प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः । अनेकन्मसंसिद्धस्ततो याति परां गतिम् ॥ 6-30-45 (39740) तपस्विभ्योऽधिको योगी ज्ञानिभ्योपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भावार्जुन ॥ 6-30-46 (39741) योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ॥ 6-30-47 (39742) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अध्यात्मयोगोनाम षष्ठोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-30-11 चेलाजिनेति माध्वपाठः ॥ 6-30-28 एवं युञ्जन् इति माध्वपाठः ॥ 6-30-41 पुण्यकृताँल्लोकान् इति माध्वपाठः ॥ 6-31-* आत्मसंयमयोगोनाम इति माध्वपाठः ॥
भीष्मपर्व - अध्याय 031

॥ श्रीः ॥

6.31. अध्यायः 031

Mahabharata - Bhishma Parva - Chapter Topics

एकत्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 7 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-31-0 (39743) श्रीभगवानुवाच। 6-31-0x (4034) मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ 6-31-1 (39744) ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ 6-31-2 (39745) मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ 6-31-3 (39746) भूमिरापोऽनलो वायुः स्वं मनो बुद्धिरेव च । अहंकार इती यं मे भिन्ना प्रकृतिरष्टधा ॥ 6-31-4 (39747) अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ 6-31-5 (39748) एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ 6-31-6 (39749) मत्तः परतरं नान्यत्किंचिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ 6-31-7 (39750) रसोऽहमंप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ॥ प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ 6-31-8 (39751) पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ 6-31-9 (39752) बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ 6-31-10 (39753) बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ 6-31-11 (39754) ये चैव सात्विका भावा राजसास्तामसाश्च ये। मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ 6-31-12 (39755) त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ 6-31-13 (39756) दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ 6-31-14 (39757) न मां तुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ 6-31-15 (39758) चुत्रर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 6-31-16 (39759) तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ 6-31-17 (39760) उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितःक स हि युक्तात्मा मामेवानुत्तमां गतिं ॥ 6-31-18 (39761) बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ 6-31-19 (39762) कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ 6-31-20 (39763) यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ 6-31-21 (39764) स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हितान् ॥ 6-31-22 (39765) अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ 6-31-23 (39766) अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः। परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ 6-31-24 (39767) नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ 6-31-25 (39768) वेदाहं समतीतानि वर्तमानानि चार्जुन। भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ 6-31-26 (39769) इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥ 6-31-27 (39770) योषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्त भजन्ते मां दृढव्रताः ॥ 6-31-28 (39771) जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ 6-31-29 (39772) साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ॥ 6-31-30 (39773) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकत्रिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानयोगोनाम सप्तमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-31-* ज्ञानविज्ञानयोगोनाम इति माध्वपाठः ॥ 6-31-16 आब्रह्मभवनात् इति माध्वपाठः ॥
भीष्मपर्व - अध्याय 032

॥ श्रीः ॥

6.32. अध्यायः 032

Mahabharata - Bhishma Parva - Chapter Topics

द्वात्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 8 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-32-0 (39774) अर्जुन उवाच। 6-32-0x (4035) किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम्। अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 6-32-1 (39775) अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसीदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ 6-32-2 (39776) श्रीभगवानुवाच। 6-32-3x (4036) अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ 6-32-3 (39777) अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ 6-32-4 (39778) अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 6-32-5 (39779) यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ 6-32-6 (39780) तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च। मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ 6-32-7 (39781) अभ्यासयोगयुक्तेन चेतसाऽनान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ 6-32-8 (39782) कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूप- मादित्यवर्णं तमसः परस्तात् ॥ 6-32-9 (39783) प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवोर्मध्ये प्राणमावेश्य सम्य- क्स तं परं पुरुषमुपैति दिव्यम् ॥ 6-32-10 (39784) यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ 6-32-11 (39785) सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च। मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणां ॥ 6-32-12 (39786) ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्दें स याति परमां गतिम् ॥ 6-32-13 (39787) अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ 6-32-14 (39788) मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ 6-32-15 (39789) आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ 6-32-16 (39790) सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः ॥ 6-32-17 (39791) अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यामे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ 6-32-18 (39792) भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यगमेऽवशः पार्थत प्रभवत्यहरागमे ॥ 6-32-19 (39793) परस्तस्मात्तु भावोऽन्यो व्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषुक नश्यत्सु न विनश्यति ॥ 6-32-20 (39794) अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ 6-32-21 (39795) पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ॥ 6-32-22 (39796) यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ 6-32-23 (39797) अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ 6-32-24 (39798) धूमो रात्रिस्तथा कृष्णः षण्मसा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ 6-32-25 (39799) शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥ 6-32-26 (39800) नैते सृती पार्थ जानन्योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ 6-32-27 (39801) वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ ॥ 6-32-28 (39802) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि द्वात्रिंशोऽध्यायः ॥ इतित श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे तारकब्रह्मयोगोनाम अष्टमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-32-* अक्षरब्रह्मयोगोनाम इति माध्वपाठः ॥
भीष्मपर्व - अध्याय 033

॥ श्रीः ॥

6.33. अध्यायः 033

Mahabharata - Bhishma Parva - Chapter Topics

त्रयस्त्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 9 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-33-0 (39803) श्रीभगवानुवाच। 6-33-0x (4037) इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 6-33-1 (39804) राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ 6-33-2 (39805) अश्रद्दधानां पुरुषा धर्मस्यास्य परंतप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ 6-33-3 (39806) मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितःक ॥ 6-33-4 (39807) न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ 6-33-5 (39808) यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ 6-33-6 (39809) सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ 6-33-7 (39810) प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ 6-33-8 (39811) न च मां तानि कर्माणि निबध्नन्ति धनंजय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ 6-33-9 (39812) मयाऽऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ॥ 6-33-10 (39813) अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ 6-33-11 (39814) मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ 6-33-12 (39815) महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ 6-33-13 (39816) सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ 6-33-14 (39817) ज्ञानयज्ञेन चाप्यन्ते यजन्तो मामुपासते। एकत्वेन पृथक्त्कवेन बहुधा विश्वतोमुम् ॥ 6-33-15 (39818) अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्। मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ 6-33-16 (39819) पिताऽहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च ॥ 6-33-17 (39820) गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ 6-33-18 (39821) तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ 6-33-19 (39822) त्रैविद्या मां सोमपाः पूतपापा यज्ञेरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोक- मश्रन्ति दिव्यान्दिवि देवभोगान् ॥ 6-33-20 (39823) ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणो पुण्ये पर्त्यलोकं विशन्ति। एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ 6-33-21 (39824) अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 6-33-22 (39825) येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ 6-33-23 (39826) अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ 6-33-24 (39827) यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोपि माम् 6-33-25 (39828) पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ 6-33-26 (39829) यत्करोषि यदश्रासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ 6-33-27 (39830) शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ 6-33-28 (39831) समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ 6-33-29 (39832) अपि चेत्सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ 6-33-30 (39833) क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति । 6-33-31 (39834) मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिं ॥ 6-33-32 (39835) किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ 6-33-33 (39836) मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ॥ 6-33-34 (39837) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयस्त्रिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगोनाम नवमोऽध्यायः ॥
भीष्मपर्व - अध्याय 034

॥ श्रीः ॥

6.34. अध्यायः 034

Mahabharata - Bhishma Parva - Chapter Topics

चतुस्त्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 10 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-34-0 (39838) श्रीभगवानुवाच। 6-34-0x (4038) भूय एव महाबाहो श्रृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ 6-34-1 (39839) न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ 6-34-2 (39840) यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥ 6-34-3 (39841) बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो भवो भयं चाभयमेव च ॥ 6-34-4 (39842) अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ 6-34-5 (39843) महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भाव मानसा जाता येषां लोक इमाः प्रजाः ॥ 6-34-6 (39844) एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ 6-34-7 (39845) अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ 6-34-8 (39846) मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ 6-34-9 (39847) तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ 6-34-10 (39848) तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ 6-34-11 (39849) अर्जुन उवाच। 6-34-12x (4039) परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ 6-34-12 (39850) आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथाक । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ 6-34-13 (39851) सर्वतेमदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ 6-34-14 (39852) स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम। भूतभावन भूतेश देवदेव जगत्पते ॥ 6-34-15 (39853) वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ 6-34-16 (39854) कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्। केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ 6-34-17 (39855) विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ 6-34-18 (39856) श्रीभगवनुवाच। 6-34-19x (4040) हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ 6-34-19 (39857) अहमात्मा गुडाकेश सर्वभूताशयस्थितःक । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ 6-34-20 (39858) आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्। मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ 6-34-21 (39859) वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ 6-34-22 (39860) रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्। वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ 6-34-23 (39861) पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्। सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ 6-34-24 (39862) महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ 6-34-25 (39863) अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ 6-34-26 (39864) उच्चैः श्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ 6-34-27 (39865) आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ 6-34-28 (39866) अनन्तश्चास्मि नागानां वरुणो यादसामहम्। पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ 6-34-29 (39867) प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्। मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च परिणाम् ॥ 6-34-30 (39868) पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ 6-34-31 (39869) सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ 6-34-32 (39870) अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥ 6-34-33 (39871) मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्। कीर्तिः श्रीर्वाक्क नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ 6-34-34 (39872) बृहत्साम कतथा साम्नां गायत्री छन्दसामहम्। मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ 6-34-35 (39873) द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्। जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ 6-34-36 (39874) वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ 6-34-37 (39875) दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ 6-34-38 (39876) यच्चापि सर्वभूतानां बीजं तदहमर्जुन। न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ 6-34-39 (39877) नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ 6-34-40 (39878) यद्यद्विभूतितत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् ॥ 6-34-41 (39879) अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ॥ 6-34-42 (39880) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुस्त्रिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगोनाम दशमोऽध्यायः ॥
भीष्मपर्व - अध्याय 035

॥ श्रीः ॥

6.35. अध्यायः 035

Mahabharata - Bhishma Parva - Chapter Topics

पञ्चत्रिंशोऽध्यायः ॥ भगवद्गीताद्यायः ॥ 11 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-35-0 (39881) अर्जुन उवाच। 6-35-0x (4041) मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्। यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ 6-35-1 (39882) भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ 6-35-2 (39883) एवमेतद्यथात्थ त्वमात्मानं परमेश्वर। द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ 6-35-3 (39884) मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो। योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ 6-35-4 (39885) श्रीभगवानुवाच। 6-35-5x (4042) पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ 6-35-5 (39886) पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा। बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत॥ 6-35-6 (39887) इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ 6-35-7 (39888) न तु मां शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ 6-35-8 (39889) सञ्जय उवाच। 6-35-9x (4043) एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः। दर्शयामास पार्थाय मरमं रूपमैश्वरम् ॥ 6-35-9 (39890) अनेकवक्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभारणं दिव्यानेकोद्यतायुधम् ॥ 6-35-10 (39891) दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ 6-35-11 (39892) दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ 6-35-12 (39893) तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ 6-35-13 (39894) ततः स विस्मयाविष्टो हृष्टरोमा धऩञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ 6-35-14 (39895) अर्जुन उवाच। 6-35-15x (4044) पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थ- मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ 6-35-15 (39896) अनेकबाहूदरवक्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ 6-35-16 (39897) किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ता- द्दीप्तानलार्कद्युतिमप्रमेययम् ॥ 6-35-17 (39898) त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ 6-35-18 (39899) अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ 6-35-19 (39900) द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तदेवं लोकत्रयं प्रव्यथितं महात्मन् ॥ 6-35-20 (39901) अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणान्ति। स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ 6-35-21 (39902) रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ 6-35-22 (39903) रूपं महत्ते बहुवक्रनेत्रं महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ 6-35-23 (39904) नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ 6-35-24 (39905) दंष्ट्राकरालानि च ते सुखानि दृष्ट्वैव कालानलसन्निभानि। दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ 6-35-25 (39906) अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ 6-35-26 (39907) वक्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ 6-35-27 (39908) यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति। तथा तवामी नरलोकवीरा विशन्ति वक्राण्यभिविज्वलन्ति ॥ 6-35-28 (39909) यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोका- स्तवापि वक्राणि समृद्धवेगाः ॥ 6-35-29 (39910) लेलिह्यसे ग्रसमानः समन्ता- ल्लोकान्समग्रान्वदनैर्ज्वलद्भिःक । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ 6-35-30 (39911) आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ 6-35-31 (39912) श्रीभगवानुवाच। 6-35-32x (4045) कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ 6-35-32 (39913) तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्। मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ 6-35-33 (39914) द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्। मया हतांस्त्वं जहि माव्यथिष्ठा युद्ध्यस्व जेतानि रणे सपत्नान् ॥ 6-35-34 (39915) सञ्जय उवाच। 6-35-35x (4046) एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ 6-35-35 (39916) अर्जुन उवाच। 6-35-36x (4047) स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च। रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः॥ 6-35-36 (39917) कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे। अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ 6-35-37 (39918) त्वमादिदेवः पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानम् । वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ 6-35-38 (39919) वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च। नमो नमस्तेऽतु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ 6-35-39 (39920) नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व। अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ 6-35-40 (39921) सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वाऽपि ॥ 6-35-41 (39922) यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ 6-35-42 (39923) पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश् गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभावः ॥ 6-35-43 (39924) तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ 6-35-44 (39925) अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे। तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ 6-35-45 (39926) किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव। तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ 6-35-46 (39927) श्रीभगवानुवाच। 6-35-47x (4048) मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्। तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ 6-35-47 (39928) न वेद यज्ञाध्ययनैर्न दानै- र्न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ 6-35-48 (39929) मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्भमेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ 6-35-49 (39930) सञ्जय उवाच। 6-35-50x (4049) इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ 6-35-50 (39931) अर्जुन उवाच। 6-35-51x (4050) दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ 6-35-51 (39932) श्रीभगवानुवाच। 6-35-52x (4051) सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ 6-35-52 (39933) नाहं वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ 6-35-53 (39934) भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ 6-35-54 (39935) मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ॥ 6-35-55 (39936) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि पञ्चत्रिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः ॥
भीष्मपर्व - अध्याय 036

॥ श्रीः ॥

6.36. अध्यायः 036

Mahabharata - Bhishma Parva - Chapter Topics

षट्त्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 12 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-36-0 (39937) अर्जुन उवाच। 6-36-0x (4052) एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ 6-36-1 (39938) श्रीभगवानुवाच। 6-36-2x (4053) मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते। श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ 6-36-2 (39939) ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ 6-36-3 (39940) संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताःक ॥ 6-36-4 (39941) क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गदिर्दुःखं देहवद्भिरवाप्यते ॥ 6-36-5 (39942) ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ 6-36-6 (39943) तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ 6-36-7 (39944) मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न शंशकयः ॥ 6-36-8 (39945) अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाऽऽप्तुं धनंजय ॥ 6-36-9 (39946) अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव। मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्य्यसि ॥ 6-36-10 (39947) अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ 6-36-11 (39948) श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते। ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ 6-36-12 (39949) अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥ 6-36-13 (39950) संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मे भक्तः स मे प्रियः ॥ 6-36-14 (39951) यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ 6-36-15 (39952) अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ 6-36-16 (39953) यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ 6-36-17 (39954) समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ 6-36-18 (39955) तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केन चित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ 6-36-19 (39956) ये तु धर्मामृतमिदं यथोक्तं पर्युपासते। श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ ॥ 6-36-20 (39957) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि षट्त्रिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगोनाम द्वादशोऽध्यायः ॥
भीष्मपर्व - अध्याय 037

॥ श्रीः ॥

6.37. अध्यायः 037

Mahabharata - Bhishma Parva - Chapter Topics

सप्तत्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 13 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-37-0 (39958) अर्जुन उवाच। 6-37-0x (4054) प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च। एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ 6-37-1 (39959) श्रीभगवानुवाच। 6-37-2x (4055) इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ 6-37-2 (39960) क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ 6-37-3 (39961) तत्क्षेत्रं यच्च यादृक् यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु ॥ 6-37-4 (39962) ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ 6-37-5 (39963) महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ 6-37-6 (39964) इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ 6-37-7 (39965) अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ 6-37-8 (39966) इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ 6-37-9 (39967) असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ 6-37-10 (39968) मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ 6-37-11 (39969) अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ 6-37-12 (39970) ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्रुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ 6-37-13 (39971) सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 6-37-14 (39972) सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ 6-37-15 (39973) बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ 6-37-16 (39974) अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ 6-37-17 (39975) ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ 6-37-18 (39976) इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ 6-37-19 (39977) प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ 6-37-20 (39978) कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ 6-37-21 (39979) पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ 6-37-22 (39980) उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ 6-37-23 (39981) य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ 6-37-24 (39982) ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ 6-37-25 (39983) अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ 6-37-27aयावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ 6-37-26 (39984) समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ 6-37-28 (39985) समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिं ॥ 6-37-29 (39986) प्रत्यत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ 6-37-30 (39987) यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ 6-37-31 (39988) अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ 6-37-32 (39989) यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ 6-37-33 (39990) यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ 6-37-34 (39991) क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ॥ 6-37-35 (39992) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि सप्तत्रिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगोनाम त्रयोदशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-37-1 अयं श्लोकः प्रक्षित इति केचित् ॥ 6-37-5 विनिश्चिताम् इति माध्वपाठः ॥ 6-37-18 सर्वस्य धिष्ठितमिति पाठान्तरम् ॥ 6-37-24 य एनं वेत्ति इति माध्वपाठः ॥
भीष्मपर्व - अध्याय 038

॥ श्रीः ॥

6.38. अध्यायः 038

Mahabharata - Bhishma Parva - Chapter Topics

अष्टत्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 14 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-38-0 (39993) श्रीभगवानुवाच। 6-38-0x (4056) परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ 6-38-1 (39994) इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ 6-38-2 (39995) मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥ 6-38-3 (39996) सर्वयोनिषु कौन्तेय मूर्तयः संभवन्तिः याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ 6-38-4 (39997) सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ 6-38-5 (39998) तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ 6-38-6 (39999) रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ 6-38-7 (40000) तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ 6-38-8 (40001) सत्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥ 6-38-9 (40002) रजस्तमश्चाभिभूय सत्वं भवति भारत। रजः सत्वं तमश्चैव तमः सत्वं रजस्तथा ॥ 6-38-10 (40003) सर्वद्वारेषु देहेऽस्मिन्प्राकाश उपजायते। ज्ञानं यदा तदा विद्याद्विवृद्धं सत्वमित्युत ॥ 6-38-11 (40004) लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ 6-38-12 (40005) अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ 6-38-13 (40006) यदा सत्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ 6-38-14 (40007) रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ 6-38-15 (40008) कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम्। रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ 6-38-16 (40009) सत्वात्संजायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ 6-38-17 (40010) ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तस्था अघो गच्छन्ति तामसाः ॥ 6-38-18 (40011) नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ 6-38-19 (40012) गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्रुते ॥ 6-38-20 (40013) अर्जुन उवाच। 6-38-21x (4057) कैर्लिङ्गैस्त्रीन्गुणानेतानीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ 6-38-21 (40014) श्रीभगवानुवाच। 6-38-22x (4058) प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ 6-38-22 (40015) उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ 6-38-23 (40016) समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ 6-38-24 (40017) मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ 6-38-25 (40018) मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्म भूयाय कल्पते ॥ 6-38-26 (40019) ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ ॥ 6-38-27 (40020) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि अष्टत्रिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्दुनसंवादे गुणत्रयविभागयोगोनाम चतुर्दशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-38-18 जघन्यगुणवृत्तिस्थाः इति माध्यपाठः ॥
भीष्मपर्व - अध्याय 039

॥ श्रीः ॥

6.39. अध्यायः 039

Mahabharata - Bhishma Parva - Chapter Topics

एकोनचत्वारिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 15 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-39-0 (40021) श्रीभगवानुवाच। 6-39-0x (4059) ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ 6-39-1 (40022) अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥ 6-39-2 (40023) न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूल- मसङ्गशस्त्रेण दृढेन छित्वा ॥ 6-39-3 (40024) ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ 6-39-4 (40025) निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वद्वैर्विमुक्ताः सुखदुःखसंज्ञै- र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ 6-39-5 (40026) न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ 6-39-6 (40027) ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ 6-39-7 (40028) शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ 6-39-8 (40029) श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ 6-39-9 (40030) उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ 6-39-10 (40031) यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ 6-39-11 (40032) यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मार्मकम् ॥ 6-39-12 (40033) गामाविश्य च भूतानि धारयम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ 6-39-13 (40034) अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ 6-39-14 (40035) सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ 6-39-15 (40036) द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ 6-39-16 (40037) उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ 6-39-17 (40038) यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रस्थितः पुरुषोत्तमः ॥ 6-39-18 (40039) यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ 6-39-19 (40040) इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ। एवद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ ॥ 6-39-20 (40041) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकोनचत्वारिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगोनाम पञ्चशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-39-3 न च संप्रविष्टः इति माध्वपाठः ॥ 6-39-* पुराणपुरुषोत्तमयोयोनाम इति माध्वपाठः ॥
भीष्मपर्व - अध्याय 040

॥ श्रीः ॥

6.40. अध्यायः 040

Mahabharata - Bhishma Parva - Chapter Topics

चत्वारिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 16 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-40-0 (40042) श्रीभगवानुवाच। 6-40-0x (4060) अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ 6-40-1 (40043) अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥ 6-40-2 (40044) तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥ 6-40-3 (40045) दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥ 6-40-4 (40046) दैवी संपद्विमोक्षाय निबन्धायासुरी मता। मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥ 6-40-5 (40047) द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ 6-40-6 (40048) प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः। न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ 6-40-7 (40049) असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥ 6-40-8 (40050) एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ 6-40-9 (40051) काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ 6-40-10 (40052) चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा एतावदिति निश्चिताः ॥ 6-40-11 (40053) आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्तो कामभोगार्थमन्यायेनार्थसंचयान् ॥ 6-40-12 (40054) इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ 6-40-13 (40055) असौ मया हतः शत्रुर्हनिष्ये चापरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ 6-40-14 (40056) आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ 6-40-15 (40057) अनेकचित्तविभ्रान्त मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ 6-40-16 (40058) आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ 6-40-17 (40059) अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामत्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ 6-40-18 (40060) तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ 6-40-19 (40061) आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ 6-40-20 (40062) त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ॥ 6-40-21 (40063) एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ 6-40-22 (40064) यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ 6-40-23 (40065) तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ ॥ 6-40-24 (40066) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चत्वारिंशोऽध्यायः ॥ इति श्रीमन्मद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे देवासुरसंपद्विभागयोगोनाम षोडशोऽध्यायः ॥
भीष्मपर्व - अध्याय 041

॥ श्रीः ॥

6.41. अध्यायः 041

Mahabharata - Bhishma Parva - Chapter Topics

एकचत्वारिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 17 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-41-0 (40067) अर्जुन उवाच। 6-41-0x (4061) ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता। तेषां निष्ठा तु का कृष्ण सत्वमाहो सजस्तमः ॥ 6-41-1 (40068) श्रीभगवानुवाच। 6-41-2x (4062) त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्विकी राजसी चैव तामसी चेति तां श्रृणु ॥ 6-41-2 (40069) सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ 6-41-3 (40070) यजन्ते सात्विका देवान्यक्षरक्षांसि राजसाः। प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ 6-41-4 (40071) अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ 6-41-5 (40072) कर्शयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ 6-41-6 (40073) आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु ॥ 6-41-7 (40074) आयुःसत्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याःस्रिग्धाः स्थिरा हृद्या आहाराःसात्विकप्रियाः ॥ 6-41-8 (40075) कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ 6-41-9 (40076) यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ 6-41-10 (40077) अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥ 6-41-11 (40078) अभिसंघाय तु फलं दम्भार्थमपि चैव यत्। इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ 6-41-12 (40079) विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ 6-41-13 (40080) देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ 6-41-14 (40081) अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्भयं तप उच्यते ॥ 6-41-15 (40082) मनःप्रसादः सम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ 6-41-16 (40083) श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्विकं परिचक्षते ॥ 6-41-17 (40084) सत्कारमानपूजाराथं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ 6-41-18 (40085) मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ 6-41-19 (40086) दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥ 6-41-20 (40087) यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ 6-41-21 (40088) अदेशकाले यद्दानमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ 6-41-22 (40089) ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृताः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ 6-41-23 (40090) तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ 6-41-24 (40091) तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ 6-41-25 (40092) सद्भावे साधुभावे च सदित्येतत्प्रुयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ 6-41-26 (40093) यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सादित्येवाभिधीयते ॥ 6-41-27 (40094) अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ ॥ 6-41-28 (40095) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकचत्वारिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयबिभागयोगोनाम सप्तदशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-41-27 तदर्थोयं इति माध्वपाठः ॥
भीष्मपर्व - अध्याय 042

॥ श्रीः ॥

6.42. अध्यायः 042

Mahabharata - Bhishma Parva - Chapter Topics

द्विचत्वारिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 18 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-42-0 (40096) अर्जुन उवाच। 6-42-0x (4063) संन्यासत्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिपूदन ॥ 6-42-1 (40097) श्रीभगवानुवाच। 6-42-2x (4064) काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ 6-42-2 (40098) त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ 6-42-3 (40099) निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥ 6-42-4 (40100) यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ 6-42-5 (40101) एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ 6-42-6 (40102) नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ 6-42-7 (40103) दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ 6-42-8 (40104) कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्विको मतः ॥ 6-42-9 (40105) न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ 6-42-10 (40106) न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ 6-42-11 (40107) अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनीं प्रेत्य न तु संन्यासिनां क्वचित् ॥ 6-42-12 (40108) पञ्चैतानि महाबाहो कारणानि निबोध मे। साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणां ॥ 6-42-13 (40109) अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक्केष्टा दैवं चैवात्र पञ्चमम् ॥ 6-42-14 (40110) शरीरवाङ्भनोभिर्यत्कर्म प्रारभते नरः। न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ 6-42-15 (40111) तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ 6-42-16 (40112) यस्य नाहंकृतो भवो बुद्धिर्यस्य न लिप्यते । हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ 6-42-17 (40113) ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥ 6-42-18 (40114) ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ 6-42-19 (40115) सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकं ॥ 6-42-20 (40116) पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ 6-42-21 (40117) यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तासममुदाहृतम् ॥ 6-42-22 (40118) नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्विकमुच्यते ॥ 6-42-23 (40119) यत्तु कामेप्सुना कर्म ताहङ्कारेण वा पुनः। क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ 6-42-24 (40120) अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ 6-42-25 (40121) मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः । 6-42-26bसिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते ॥ 6-42-26 (40122) रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ 6-42-27 (40123) अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 6-42-28 (40124) बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श्रृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥ 6-42-29 (40125) प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्विकी ॥ 6-42-30 (40126) यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ 6-42-31 (40127) अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता। सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ 6-42-32 (40128) धृत्या यया धारयते मनःप्रणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्विकी ॥ 6-42-33 (40129) यया तु धर्मकामार्धान्धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी॥ 6-42-34 (40130) यथा स्वप्नं भयं शोकं विषादं भदेमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ 6-42-35 (40131) सुखं त्विदानीं त्रिविधं श्रुणु मे भारतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ 6-42-36 (40132) यत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ 6-42-37 (40133) विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपभम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ 6-42-38 (40134) यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्ताभसमुदाहृतम् ॥ 6-42-39 (40135) न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेमिः स्यात्रिभिर्गुणैः ॥ 6-42-40 (40136) ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ 6-42-41 (40137) शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ 6-42-42 (40138) शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ 6-42-43 (40139) कृषिगोरक्ष्यरभावश्च क्षात्रं कर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ 6-42-44 (40140) स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरत्तः सिद्धिं यथा विन्दति तच्छृणु ॥ 6-42-45 (40141) यतः प्रवृत्तिर्भूतानां योन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवःक ॥ 6-42-46 (40142) श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्विषम् ॥ 6-42-47 (40143) सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ 6-42-48 (40144) असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ 6-42-49 (40145) सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नेति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ 6-42-50 (40146) बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च। शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ 6-42-51 (40147) विविक्तसेवी लध्वाशी यतकाक्कायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ 6-42-52 (40148) अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ 6-42-53 (40149) ब्रह्मभूतः प्रसन्नात्मा न शोचतिक न काङ्क्षति । समः सर्वेषु भूतेषु मद्तभक्तिं लभते पराम् ॥ 6-42-54 (40150) भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ 6-42-55 (40151) सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ 6-42-56 (40152) चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगमपाश्रित्य मच्चित्तः सततं भव ॥ 6-42-57 (40153) मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ 6-42-58 (40154) यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ 6-42-59 (40155) स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ॥ 6-42-60 (40156) ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ 6-42-61 (40157) तमेव शरणं गच्छ सर्वभावेन भारत। तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतं ॥ 6-42-62 (40158) इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ 6-42-63 (40159) सर्वगुह्यतमं भूयः श्रृणु मे परमं वचः । इष्टेऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ 6-42-64 (40160) मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ 6-42-65 (40161) सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ 6-42-66 (40162) इदं ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 6-42-67 (40163) य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 6-42-68 (40164) न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ 6-42-69 (40165) अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ 6-42-70 (40166) श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः। सोपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणां ॥ 6-42-71 (40167) कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥ 6-42-72 (40168) अर्जुन उवाच। 6-42-73x (4065) नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥ 6-42-73 (40169) सञ्जय उवाच। 6-42-74x (4066) इत्यहं वासुदेवस्य पार्थस्य च महात्मनः। संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ 6-42-74 (40170) व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्। योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ 6-42-75 (40171) राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुवयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ 6-42-76 (40172) तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः। विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ॥ 6-42-77 (40173) यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ॥ 6-42-78 (40174) इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि द्विचत्वारिंशोऽध्यायः ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे संन्यासयोगोनाम अष्टादशोऽध्यायः ॥ ॥ समाप्तं भगवद्गीतापर्व ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-42-14 विविधा चेति माध्वपाठः ॥ 6-42-42ब्रह्मं कर्म स्वभावजम् इति माध्वपाठः ॥ 6-42-57 बुद्धियोगमुपाश्रित्येति माध्वपाठः ॥ 6-42-78 यत्र योगीश्वर इति माध्वपाठः ॥
भीष्मपर्व - अध्याय 043

॥ श्रीः ॥

6.43. अध्यायः 043

Mahabharata - Bhishma Parva - Chapter Topics

युधिष्ठिरेण रथादवरुह्य भीष्मद्रोणाद्यभिवादनपूर्वकं तेभ्यो जयाशीर्ग्रहणम् ॥ 1 ॥ युधिष्ठिरे पुनर्भ्रातृभिः सह रथारूढे सन्नहाभेरीन्नादनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-43-0 (40175) वैशम्पायन उवाच। 6-43-0x (4067) गीता सुगीता कर्तव्या किमन्यैः शास्त्रसंग्रहैः । या स्वयं पद्मनाभस्य सुखपद्माद्विनिःसृता ॥ 6-43-1 (40176) सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः। सर्वतीर्थमयी गङ्गा सर्वदेवमयो मनुः ॥ 6-43-2 (40177) गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते। चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते ॥ 6-43-3 (40178) षट्शतानि सविंशानि श्लोकानां प्राह केशवः। अर्जुनः सप्तपञ्चाशत्सप्तषष्टिं तु सञ्जयः॥ 6-43-4 (40179) धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते । भारतामृतसर्वस्वगीताया मथितस्य च। सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम् ॥ 6-43-5 (40180) सञ्जय उवाच। 6-43-6x (4068) ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् । पुनरेव महानादं व्यसृजन्त महारथाःक ॥ 6-43-6 (40181) पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः । दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् ॥ 6-43-7 (40182) ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः । सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ॥ 6-43-8 (40183) तथा देवाः सगन्धर्वाः पितरश्च जनाधिप । सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया ॥ 6-43-9 (40184) ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् । समीयुस्तत्र सहिता द्रुष्टुं तद्वैशसं महत् ॥ 6-43-10 (40185) ` ते सेने स्तिमिते सञ्जे वीक्षमाणे परस्परम् । गङ्गायमुनयोर्वेगो यथैवैत्य परस्परम् ॥ 6-43-11 (40186) एवं प्रवत्ते ते सेने निःशब्दे जनसंसदि । चित्रे पट इवालेख्ये दर्शनीयतरे शुभे ॥' 6-43-12 (40187) ततो युधिष्ठिरो दृष्ट्वा युद्धाय समवस्थिते। ते सेने सागरप्रख्ये मुहुः प्रज्वलिते नृप ॥ 6-43-13 (40188) विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् । अवरुह्य रथात्क्षिप्रं पद्म्यामेव कृताञ्जलिः ॥ 6-43-14 (40189) पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः । वाग्यतः प्रययौ धीरः प्राङ्भुखो रिपुवाहिनीम् ॥ 6-43-15 (40190) तं प्रयान्तमभिप्रेभ्य कुन्तीपुत्रो धनञ्जयः । अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ॥ 6-43-16 (40191) वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम तम् । तथा मुख्याश्च राजानस्तच्चित्ता जग्मुरुत्सुकाः ॥ 6-43-17 (40192) अर्जुन उवाच। 6-43-18x (4069) किं ते व्यवसितं राजन्यदस्मानपहाय वै। प्रद्म्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ॥ 6-43-18 (40193) भीमसेन उवाच। 6-43-19x (4070) क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः। दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ॥ 6-43-19 (40194) नकुल उवाच। 6-43-20x (4071) एवं गते त्वयि ज्येष्ठे मम भ्रातरि भारत। भीमे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ॥ 6-43-20 (40195) सहदेव उवाच। 6-43-21x (4072) अस्मिन्रणसमूहे वै वर्तमाने महाभये। उत्सृज्य क्व नु गन्तासि शत्रूनभिमुखो नृप ॥ 6-43-21 (40196) सञ्जय उवाच। 6-43-22x (4073) एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः। नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः ॥ 6-43-22 (40197) तानुवाच महाप्राज्ञो वासुदेवो महामनाः । अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ॥ 6-43-23 (40198) एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च। अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ॥ 6-43-24 (40199) श्रूयते हि पुराकल्पे गुरूनननुमान्य यः। युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ॥ 6-43-25 (40200) अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः । ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ॥ 6-43-26 (40201) एवं ब्रुवति कृष्णेऽत्र धार्तराष्ट्रचमूं प्रति। हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ॥ 6-43-27 (40202) दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः । मिथः संकथयांचक्रुरेषो हि कुलपांसनः ॥ 6-43-29aव्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकम् । युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ॥ 6-43-28 (40203) धनञ्जये कथं नाथे पाण्डवे च वृकोदरे । नकुले सहदेवे च भीतिरभ्येति पाण्डवम् ॥ 6-43-30 (40204) न नूनं क्षत्रियकुले जातः संप्रथिते भुवि। यथाऽस्य हृदयं भीतमल्पसत्वस्य संयुगे ॥ 6-43-31 (40205) ततस्ते सैनिकाः सर्वे प्रशंसन्ति स्म कौरवान् । हृष्टाः सुमनसो भूत्वा चेलानि दुधुवुश्च ह ॥ 6-43-32 (40206) व्यनिन्दंश्च तथा सर्वे योधास्तव विशांपते। युधिष्ठिरं ससोदर्यं सहितं केशवनेन हि ॥ 6-43-33 (40207) ततस्तत्कौरवं सैन्यं धिक्वृत्वा तु युधिष्ठिरम् । निःशब्दमभवत्तूर्णं पुनरेव विशांपते ॥ 6-43-34 (40208) किं नु वक्ष्याति राजाऽसौ किं भीष्मः प्रतिवक्ष्यति। किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ॥ 6-43-35 (40209) विवक्षितं किमस्येति संशयः सुमहानभूत् । उभयो सेनयो राजन्युधिष्ठिरकृते तदा ॥ 6-43-36 (40210) सोऽवगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् । भीष्ममेवाभ्यात्तूर्णं भ्रातृभिः परिवारितः ॥ 6-43-37 (40211) तमुवाच ततः पादौ कारभ्यां पीड्य पाण्डवः । भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् ॥ 6-43-38 (40212) युधिष्ठिर उवाच। 6-43-39x (4074) आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सह। अनजानीहि मां तात आशिषश्च प्रयोजय ॥ 6-43-39 (40213) भीष्म उवाच। 6-43-40x (4075) यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते। शपेयं त्वां महाराज परीभावाय भारत ॥ 6-43-40 (40214) प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव । यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ॥ 6-43-41 (40215) व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि । एवं गते महाराज न तवास्ति पराजयः ॥ 6-43-42 (40216) अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ 6-43-43 (40217) अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन । भृतोऽस्त्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ॥ 6-43-44 (40218) युधिष्ठिर उवाच। 6-43-45x (4076) मन्त्रयस्व महाबाहो हितैषी मम नित्यशः। युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥ 6-43-45 (40219) भीष्म उवाच। 6-43-46x (4077) राजन्किमत्र साह्यं ते करोमि कुरुनन्दन। कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ॥ 6-43-46 (40220) युधिष्ठिर उवाच। 6-43-47x (4078) कथं जयेयं संग्रामे भवन्तमपराजितम्। एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ॥ 6-43-47 (40221) भीष्म उवाच। 6-43-48x (4079) नैनं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे। विजयेत पुमान्कश्तित्साक्षादपि शतक्रतुः ॥ 6-43-48 (40222) युधिष्ठिर उवाच। 6-43-49x (4080) हन्त पृच्छामि तस्मात्त्वां पितामह नमोस्तु ते। वधोपायं ब्रवीहि त्वमात्मनः समरे परैः ॥ 6-43-49 (40223) भीष्म उवाच। 6-43-50x (4081) न स्म तं तात पश्यामि समरे यो जयेत माम्। न तावन्मृत्युकालोऽपि पुनरागमनं कुरु ॥ 6-43-50 (40224) सञ्जय उवाच। 6-43-51x (4082) ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन। शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ॥ 6-43-51 (40225) प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति। पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ॥ 6-43-52 (40226) स द्रोणमभिवाद्याथ कृत्वं चाभिप्रदक्षिणम् । उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ 6-43-53 (40227) आमन्त्रये त्वां भगवन्योत्स्ये विगितकल्मषः । कथं जये रिपून्सर्वाननुज्ञातस्त्वया द्विज ॥ 6-43-54 (40228) द्रोण उवाच। 6-43-55x (4083) यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः। शपेयं त्वां महाराज परीभावाय सर्वशः ॥ 6-43-55 (40229) तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ। अनुजानामि युध्यस्व विजयं समवाप्नुहि ॥ 6-43-56 (40230) करवाणि च ते कामं ब्रूहि त्वमभिकाङ्क्षितम् । एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ 6-43-57 (40231) अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैःक ॥ 6-43-58 (40232) ब्रवीम्येतत्क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि। योत्स्येऽहं कौरवस्यार्थे तवाशास्यो जयो मया ॥ 6-43-59 (40233) युधिष्ठिर उवाच। 6-43-60x (4084) जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम्। युध्यस्व कौरवस्यार्थे वर एष वृतो मया ॥ 6-43-60 (40234) द्रोण उवाच। 6-43-61x (4085) ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव । अहं त्वामभिजानामि रणे शत्रून्विजेष्यसि ॥ 6-43-61 (40235) यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः। युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ॥ 6-43-62 (40236) युधिष्ठिर उवाच। 6-43-63x (4086) पृच्छामि त्वां द्विजश्रेष्ठ श्रृणु यन्मेऽभिकाङ्क्षितम्। कथं जयेयं संग्रामे भवन्तमपराजितम् ॥ 6-43-63 (40237) द्रोण उवाच। 6-43-64x (4087) न तेऽस्ति विजयस्तावद्यावद्युद्ध्याम्यहं रणे। ममाशु निधने राजन्यतस्व सह सदरैः ॥ 6-43-64 (40238) युधिष्ठिर उवाच। 6-43-65x (4088) हन्त तस्मान्महाबाहो वधोपायं वदात्मनः। आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ॥ 6-43-65 (40239) द्रोण उवाच। 6-43-66x (4089) न शत्रुं तात पश्यामि यो मां हन्याद्रथे स्थितम्। युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ॥ 6-43-66 (40240) ऋते प्रायगतं रजन्न्यस्तशस्त्रमचेतनम् । हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते । 6-43-67 (40241) शस्त्रं चाहं रणे जह्यां श्रुत्वा तु महदप्रियम्। श्रद्धेपवाक्यात्पुरुषादेतत्सत्यं ब्रवीति ते ॥ 6-43-68 (40242) सञ्जय उवाच। 6-43-69x (4090) एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः। अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ॥ 6-43-69 (40243) सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् । उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः ॥ 6-43-70 (40244) अनुमानये त्वां योत्स्येऽहं गुरो विगतकल्मषः । जयेयं च रिपून्सर्वाननुज्ञातस्त्वयाऽनघ ॥ 6-43-71 (40245) कृप उवाच। 6-43-72x (4091) यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः। शपेयं त्वां महाराज परीभावाय सर्वशः ॥ 6-43-72 (40246) अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः । 6-43-73 (40247) तेषामर्थे महाराज योद्धव्यमिति मे मतिः । अतस्त्वां क्लीबवद्ब्रूयांयुद्धादन्यत्किमिच्छसि ॥ 6-43-74 (40248) युधिष्ठिर उवाच। 6-43-75x (4092) हन्त पृच्छामि ते तस्मादाचार्य श्रृणु मे वचः। इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः ॥ 6-43-75 (40249) सञ्जय उवाच 6-43-76x (4093) तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम्। अवध्योऽहं महीपाल यद्ध्यस्व जयमाप्नुहि ॥ 6-43-76 (40250) प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप । आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ॥ 6-43-77 (40251) एतच्छ्रुत्वा महाराज गौतमस्य विशांपते। अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ॥ 6-43-78 (40252) स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् । उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ 6-43-79 (40253) अनुमानये त्वां दुर्धर्ष योत्स्ये विगतकल्मषः । जयेयं नु परान्राजन्ननुज्ञातस्त्वया रिपून् ॥ 6-43-80 (40254) शल्य उवाच। 6-43-81x (4094) यदि मां नाधिगच्छेथा युद्धाय कृतनिश्चयः । शपेयं त्वां महाराज परीभावाय वै रणे ॥ 6-43-81 (40255) तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते । अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ॥ 6-43-82 (40256) ब्रूहि चैष परं वीर केनार्थः किं ददामि ते। एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ 6-43-83 (40257) अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोस्म्यर्थेन कौरवैः ॥ 6-43-84 (40258) करिष्यामि हि ते कामं भागिनेय यथेप्सितम्। ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ॥ 6-43-85 (40259) युधिष्ठिर उवाच। 6-43-86x (4095) मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम्। कामं युद्ध्य परस्यार्थे वरमेतं वृणोम्यहम् ॥ 6-43-86 (40260) शल्य उवाच। 6-43-87x (4096) किमत्र ब्रूहि साह्यं ते करोमि नृपसत्तम। कामं योत्स्ये परस्यार्थे बद्धोऽस्म्यर्थेन कौरवैः ॥ 6-43-87 (40261) युधिष्ठिर उवाच। 6-43-88x (4097) स एव मे वरः शल्य उद्योगे यस्त्वया कृतः। सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया ॥ 6-43-88 (40262) शल्य उवाच। 6-43-89x (4098) संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितम् । गच्छ युध्यस्व विस्रब्धः प्रतिजाने वचस्तव ॥ 6-43-89 (40263) सञ्जय उवाच। 6-43-90x (4099) अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् । निर्जगाम महासैन्याद्भ्रतृभिः परिवारितः ॥ 6-43-90 (40264) वासुदेवस्तु राधेयमाहवेऽभिजगाम वै। तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ॥ 6-43-91 (40265) श्रुतं मे कर्ण भीष्मस्य द्वोषात्किल न योत्स्यसे। अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ॥ 6-43-92 (40266) हते तु भीष्मे राधेय पुनरेष्यसि संयुगम् । धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ॥ 6-43-93 (40267) कर्ण उवाच। 6-43-94x (4100) न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव । त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ॥ 6-43-94 (40268) सञ्जय उवाच। 6-43-95x (4101) तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत । युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः ॥ 6-43-95 (40269) अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः । योऽस्मान्वृणोति तमहं वरये साह्यकारणात् ॥ 6-43-96 (40270) अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् । प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ॥ 6-43-97 (40271) अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान् । युष्मदर्थं महाराज यदि मां वृणुषेऽनघ ॥ 6-43-98 (40272) युधिष्ठिर उवाच। 6-43-99x (4102) एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान्। युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ॥ 6-43-99 (40273) वृणोमि त्वां महाबाहो युध्यस्व मम कारणात्। त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ॥ 6-43-100 (40274) भजस्वास्मान्राजपुत्र भजमानान्महाद्युते । न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ॥ 6-43-101 (40275) सञ्जय उवाच। 6-43-102x (4103) ततो युयुत्सुः कौरव्यान्परित्यज्य सुतांस्तव। जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिं ॥ 6-43-102 (40276) ततो युधिष्ठिरो राजा संप्रहृष्टःक सहानुजः । जग्राह कवचं भूयो दीप्तिमत्कनकोञ्ज्वलम् ॥ 6-43-103 (40277) प्रत्यपद्यन्त ते सर्वे स्वरथान्पुरुषर्षभाः । ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ॥ 6-43-104 (40278) अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् । सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ॥ 6-43-105 (40279) रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः । धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे तदा ॥ 6-43-106 (40280) गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान्। दृष्ट्वा महीक्षितस्तत्र पूजयांचक्रिरे भृशम् ॥ 6-43-107 (40281) सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् । दयां च ज्ञातिषु परां कथयांचक्रिरे नृपाः ॥ 6-43-108 (40282) साधुसाध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः। वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षणाः ॥ 6-43-109 (40283) म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तथा । वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ॥ 6-43-110 (40284) ततो जघ्नुर्महाभेरीः शतशश्च सहस्रशः । शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ॥ ॥ 6-43-111 (40285) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि त्रिचत्वारिंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-43-8 पेश्यः काहलाः। क्रकचा जयमङ्गलाः। गोविषाणिकाः गवादिश्रृङ्गाणि ॥ 6-43-25 पुराकल्पे प्राचीनशास्त्रे ॥ 6-43-29 व्यक्तं नियतम्। भीष्मं भीष्मस्य। अन्तिकं समीपम् ॥ 6-43-36 विवक्षितं वक्तुमिष्टम् ॥ 6-43-50 तावत् संप्रति ॥ 6-43-53 आत्मनिःश्रेसं स्वहित साधनम् ॥ 6-43-65 अभिजानामि अनुजानामि ॥ 6-43-67 प्रायगतं मरणाय नियतम् । अचेतनं योगबलेन त्यक्तदेहम् । योधानां मध्ये कश्चिदिति शेषः ॥ 6-43-68 जह्यां त्यजेयम् ॥ 6-43-98 भवतः भवत्संबन्धी ॥ 6-43-100 तन्तुः संततिः । पिण्डः पितृयज्ञः । अन्ये सर्वे मरिष्यन्तीति भावः ॥ 6-43-107 गौरवं मान्यत्वम् ॥ 6-43-108 सौहृदं मैत्रीम् । कृपां स्नेहम्। दयां परदुःखप्रहाणेच्छाम् ॥ 6-43-109 कीर्तिमतां पाण्डवानां स्तुतिसंहिता वाच इति संबन्धः ॥
भीष्मपर्व - अध्याय 044

॥ श्रीः ॥

6.44. अध्यायः 044

Mahabharata - Bhishma Parva - Chapter Topics

कुरुपाण्डवसेनयोर्युद्धारम्भः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-44-0 (40286) धृतराष्ट्र उवाच। 6-44-0x (4104) एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च। के पूर्वं प्राहरंस्तत्र कुरवःक पाण्डवा नु किम् ॥ 6-44-1 (40287) सञ्जय उवाच। 6-44-2x (4105) भ्रातृभिः सहितो राजन्पुत्रो दुःशासनस्तव। भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ 6-44-2 (40288) तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः । भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥ 6-44-3 (40289) क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः । भेरीमृदङ्गमुरजा हयकुञ्जरनिःस्वनाः ॥ 6-44-4 (40290) उभयोःक सेनयोर्ह्यासंस्ततस्तेऽस्मान्समाद्रवन्। वयं तान्प्रतिर्दन्तस्तदाऽऽसीत्तुमुलं महत् ॥ 6-44-5 (40291) महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः। चकम्पिरे शङ्खमृदङ्गनिःस्वनैः प्रकम्पितानीव वनानि वायुना ॥ 6-44-6 (40292) नरेन्द्र नागाश्वरताकुलाना- मभ्यागतानामशिवे मुहूर्ते। बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥ 6-44-7 (40293) तस्मिन्समुत्थिते शब्दे तुमुले रोमहर्षणे। भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥ 6-44-8 (40294) शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम्। सिंहनादं च सैन्यानां भीससेनरवोऽभ्यभूत् ॥ 6-44-9 (40295) हयानां हेषमाणानामनीकेषु सहस्रशः । सर्वानभ्यभवच्चब्दान्भीमस्य नदतः स्वनः ॥ 6-44-10 (40296) तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः । जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥ 6-44-11 (40297) वाहनानि च सर्वाणि शकृन्मूत्रं प्रमुस्रुवुः । शब्देन तस्य वीरस्य सिंहस्येवेतरेक मृगाः ॥ 6-44-12 (40298) दर्शयन्घोरमात्मानं महाभ्रमिव नादयन्। विभीषयंस्तव सुतान्भीमसेनः समभ्ययात् ॥ 6-44-13 (40299) तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् । छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥ 6-44-14 (40300) दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः । दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृपः ॥ 6-44-15 (40301) विविंशतिश्चित्रसेनो विकर्णश्च महारथः । पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥ 6-44-16 (40302) महाचापानि धुन्वन्तो मेघा इव सविद्युतः । आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥ 6-44-17 (40303) अथ ते द्रौपदीपुत्राः सौभद्रश्च महारथः । नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-44-18 (40304) धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः । वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥ 6-44-19 (40305) तस्मिन्प्रथमसंग्रामे भीमज्यातलनिःस्वने। तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ 6-44-20 (40306) लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ । निमित्तवेधिनां चैव शरानुत्सृजतां भृशम् ॥ 6-44-21 (40307) नोपशाम्यति निर्घोषो धनुषां कूजतां तथा। विनिश्चेरुः शरा दीप्ताज्योतींषीव नभस्तलात् ॥ 6-44-22 (40308) सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत। ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥ 6-44-23 (40309) ततस्ते जातसंरम्भाः परस्परकृतागसः । अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥ 6-44-24 (40310) कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले । शुशुभाते रणेऽतीव पटे चित्रार्पिते इव ॥ 6-44-25 (40311) ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः । सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥ 6-44-26 (40312) युधिष्ठिरेण चदिष्टाः पार्थिवास्ते सहस्रशः । विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥ 6-44-27 (40313) उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः । अन्तर्धीयत चादित्यः सैन्येन रजसा वृतः ॥ 6-44-28 (40314) प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि। नात्र स्वेषां परेषां वा विशेषः समदृश्यत ॥ 6-44-29 (40315) तस्मिस्तु तुमुले युद्धे वर्तमाने महाभये। अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥ ॥ 6-44-30 (40316) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-44-6 महान् समुच्छ्रयः संप्रहारो यत्र ॥ 6-44-9 अभ्यभूत् अभिभूतवान् ॥ 6-44-14 सोदर्याः राजानुजाः ॥ 6-44-21 निमित्तं लक्ष्यम् ॥ 6-44-25 पटे इति सप्तम्यन्तम् ॥ 6-44-28 सैन्येन सेनाभवेन ॥ 6-44-30 अति अतिक्रम्य ॥
भीष्मपर्व - अध्याय 045

॥ श्रीः ॥

6.45. अध्यायः 045

Mahabharata - Bhishma Parva - Chapter Topics

कुरुपाण्डवसेनयोर्द्वन्द्वयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-45-0 (40317) सञ्जय उवाच। 6-45-0x (4106) पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशांपते। प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ॥ 6-45-1 (40318) कुरूणां सृञ्जयानां च जिगीषूणां परस्परम् । सिंहानामिव संह्रादो दिवमुर्वी च नादयन् ॥ 6-45-2 (40319) आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह । जझिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ॥ 6-45-3 (40320) तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ। पत्तीनां पादशब्दश्च वाजिनां च महास्वनः ॥ 6-45-4 (40321) तोत्राङ्कुशनिपातश्च आयुधानां च निःस्वनः। घण्टाशब्दश्च नागानामन्योन्यमभिधावताम् ॥ 6-45-5 (40322) तस्मिन्समुदिते शब्दे तुगुले रोमहर्षणे । बभूव रथनिर्घोषः पर्जन्यनिनदोपमःक ॥ 6-45-6 (40323) ते मनः क्रूरमाधाय समभित्यक्तजीविताः । पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ 6-45-7 (40324) अथ शान्तनवो राजन्नभ्यधावद्धनञ्जयम् । प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥ 6-45-8 (40325) अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् । अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥ 6-45-9 (40326) तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ। गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ॥ 6-45-10 (40327) तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि। सात्यकिस्तु महेष्वासः कृतवर्माणमभ्यात् ॥ 6-45-11 (40328) तयोः समभयवद्युद्धं तुमुलं रोमहर्षणम् । सात्यकिः कृतवर्माणं कृतवार्मा च सात्यकिम् ॥ 6-45-12 (40329) आनर्च्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम्। तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ ॥ 6-45-13 (40330) वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ । अभिमन्युर्महेष्वासं बृहद्बलमयोधयत् ॥ 6-45-14 (40331) ततः कोसलराजाऽसावभिमन्योर्विशांपते । ध्वजं चिच्छेद समरे सारथिं च व्यपातयत् ॥ 6-45-15 (40332) सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ। बृहद्बलं महाराज विव्याध नवभिः शरैः ॥ 6-45-16 (40333) अथापराभ्यां भल्लाभ्यां शिताभ्यामरिमर्दनः । ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ॥ 6-45-17 (40334) अन्योन्यं च शरैः क्रुद्धौ ततक्षाते परस्परम् । मानिनं समरे दृप्तं कृतवैरं महारथम्॥ 6-45-18 (40335) भीमसेनस्तव सुतं दुर्योधनमयोधयत् । तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ ॥ 6-45-19 (40336) अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे। तौ वीक्ष्य तु महात्मानौ कृतिनौ चित्रयोधिनौ ॥ 6-45-20 (40337) विस्मयः सर्वभूतानां समपद्यत भारत। दुःशासनस्तु नकुलं प्रत्युद्याय महाबलम् ॥ 6-45-21 (40338) अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः । तस्य माद्रीसुतः केतुं सशरं च शरासनम् ॥ 6-45-22 (40339) चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत । अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ 6-45-23 (40340) पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे । तुरङ्गांश्चिच्छिदे बाणैर्ध्वजं चैवाभ्यपातयत् ॥ 6-45-24 (40341) दुर्मुखः सहदेवं च प्रत्युद्याय महाबलम् । विव्याध शरवर्षेण यतमानं महाहवे ॥ 6-45-25 (40342) सहदेवस्ततो वीरो दुर्मुखस्य महारणे। शरेण भृतशीक्ष्णेन पातयामास सारथिम् ॥ 6-45-27aतावन्योन्यं समासाद्य समरे युद्धदुर्मदौ । 6-45-27bत्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ॥ 6-45-26 (40343) युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात्। तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ॥ 6-45-28 (40344) तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः । अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥ 6-45-29 (40345) ततो मद्रेश्वरं राजा शरैः सन्नतपर्वभिः । छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 6-45-30 (40346) धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत। तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम् ॥ 6-45-31 (40347) त्रिधा चिच्छेद समरे पाञ्चाल्यस्य तु कार्मुकम् । शरं चैव महाघोरं कालदण्डमिवापरम् ॥ 6-45-32 (40348) प्रेषयामास समरे सोऽस्य काये न्यमञ्जत। अथान्यद्धनुरादाय सायकांश्च चतुर्दश ॥ 6-45-33 (40349) द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे । तावन्योन्यं सुसंक्रुद्धौ चक्रतुः शुभृशं रणम् ॥ 6-45-34 (40350) सौमदत्तिं रणे शङ्खो रभसं रभसो युधि । प्रत्युद्ययौ महाराज तिष्ठतिष्ठेति चाब्रवीत् ॥ 6-45-35 (40351) तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् । समदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ॥ 6-45-36 (40352) तयोस्तदभवद्युद्धं घोररूपं विशांपते । दृप्तयोः समरे पूर्वं वृत्रवासवयोरिव ॥ 6-45-37 (40353) बाह्लीकं तु रणे क्रुद्ध क्रुद्धरूपो विशांपते। अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥ 6-45-38 (40354) बाह्लीकस्तु रणे राजन्धृष्टकेतुममर्षणः । शरैर्बहुभिरानर्च्छत्सिंहनादमथानदत् ॥ 6-45-39 (40355) चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः । विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥ 6-45-40 (40356) तौ तत्र समरे क्रुद्धौ नर्दन्तौ च पुनः पुनः । समीयतुः सुसंक्रुद्धावङ्गारवबुधाविव ॥ 6-45-41 (40357) राक्षसं रौद्रकर्माणं क्रूरकर्मा घटोत्कचः । अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ॥ 6-45-42 (40358) घटोत्कचस्ततः क्रुद्धो राक्षसं तं महाबलम् । नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ॥ 6-45-43 (40359) अलम्बुसस्तु समरे भैमसेनिं महाबलम् । बहुधा दारयामास शरैः सन्नतपर्वभिः ॥ 6-45-44 (40360) व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ। यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ 6-45-45 (40361) शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली । अश्वत्थामा ततः क्रुद्दः शिखण्डिनमुपस्थितम् ॥ 6-45-46 (40362) नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत् । शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ॥ 6-45-47 (40363) सायकेन सुपीतेन तीक्ष्णेन निशितेन च। तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ॥ 6-45-48 (40364) भगदत्तं रणे शूरं विराटो वाहिनीपतिः। अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥ 6-45-49 (40365) विराटो भगदत्तं तु शरवर्षण भारत। अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम् ॥ 6-45-50 (40366) भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् । छादयामास समरे मेघः सूर्यमिवोदितम् ॥ 6-45-51 (40367) बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ । तं कृपः शरवर्षेण च्छादयामास भारत ॥ 6-45-52 (40368) गौतमं कैकयः क्रुद्धः शरवृष्ट्याऽभ्यपूरयत् । तावन्योन्यं हयान्हत्वा धनुश्छित्वा च भारत ॥ 6-45-53 (40369) विरथावसियुद्धाय समीयतुरमर्षणौ । तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ॥ 6-45-54 (40370) द्रुपदस्तु ततो राजन्सैन्धवं वै जयद्रथम् । अभ्युद्ययौ हृष्टरूपो हृष्टरूपं परंतपः ॥ 6-45-55 (40371) ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः । ताजयामास समरे स च तं प्रत्यबिध्यत ॥ 6-45-56 (40372) तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् । ईक्षणप्रीतिजननं शुक्राङ्गरकयोरिव ॥ 6-45-57 (40373) विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् । अभ्ययाञ्जवनैरश्वैस्ततो युद्धमवर्तत ॥ 6-45-58 (40374) विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः । सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ॥ 6-45-59 (40375) सुशर्माणं नरव्याघ्रश्चेकितानो महारथः । अभ्यद्रवत्सुसंक्रुद्धः पाण्डवार्थे पराक्रमी ॥ 6-45-60 (40376) शुशर्मा तु महाराज चेकितानं महारथम् । महता शरवर्षेण वारयामास संयुगे ॥ 6-45-61 (40377) चेकितानोऽपि संरब्धः सुशर्माणां महाहवे । प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ॥ 6-45-62 (40378) शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी । अभ्यद्रवत राजेन्द्र मत्तः सिंह इव द्विपम् ॥ 6-45-63 (40379) यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः । व्यदारयत संग्रामे मघवानिव दानवम् ॥ 6-45-64 (40380) शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे। व्यदारयन्महाप्राज्ञः शरैः सन्नतपर्वभिः ॥ 6-45-65 (40381) सुदक्षिणं तु राजेन्द्र काम्भोजानां महारथम् । श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ॥ 6-45-66 (40382) सुदक्षिणस्तु समरे साहदेविं महारथम् । विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ॥ 6-45-67 (40383) श्रुतकर्मा ततः क्रुद्धः काम्भोजानां महारथम् । शरैर्बहुभिरानर्च्छद्दारयन्निव सर्वशः ॥ 6-45-68 (40384) इरावानथ संक्रुद्धः श्रुतायुषमरिन्दमम् । प्रत्युद्ययौ रणे यत्तो यत्तरूपं परंतपः ॥ 6-45-69 (40385) आर्जुनिस्तस्य समरे हयान्हत्वा महारथः । ननाद बलवान्नादं तत्सैन्यं प्रत्यपूरयत् ॥ 6-45-70 (40386) श्रुतायुस्तु ततः क्रुद्धः फाल्गुनेः समरे हयान्। निजघान गदाग्रेण ततो युद्धमवर्तत ॥ 6-45-71 (40387) विन्दानिविन्दावावन्त्यौ कुन्तिभोजं महारथम् । ससेनं ससुतं वीरं संसस़ञ्जतुराहवे ॥ 6-45-72 (40388) तत्राद्भुतमपश्याम तयोर्घोरं पराक्रमम् । अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह ॥ 6-45-73 (40389) अनुविन्दस्तु गदया कुन्तिभोजमताडयत्। कुन्तिभोजश्च तं तूर्णं शरव्रातैरवाकिरत् ॥ 6-45-74 (40390) कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः । स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ॥ 6-45-75 (40391) केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष । ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ॥ 6-45-76 (40392) वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् । उत्तरं योधयामास विव्याध निशितैः शरैः ॥ 6-45-77 (40393) उत्तरश्चापि तं वीरं विव्याध निशितैः शरैः । चेदिराट् समरे राजन्नुलूकं समभिद्रवत् ॥ 6-45-78 (40394) तथैव शरवर्षेण उलूकं समविद्ध्यत । उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ॥ 6-45-79 (40395) तयोर्युद्धं समभवद्धोररूपं विशांते । दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ ॥ 6-45-80 (40396) एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम् । पदातीनां च समरे तव तेषां च संकुले ॥ 6-45-81 (40397) मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् । तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन ॥ 6-45-82 (40398) गजो गजेन समरे रथिनं च रथी ययौ । अश्वोऽश्वं समभिप्रायात्पदातिश्च पदातिनम् ॥ 6-45-83 (40399) ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत। शूराणां समरे तत्र समासाद्येतरेतरम् ॥ 6-45-84 (40400) तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः । प्रेक्षन्त तद्रणं घोरं देवासुरसमं भुवि ॥ 6-45-85 (40401) ततो दन्तिसहस्राणि र्थानां चापि मारिष। अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ॥ 6-45-86 (40402) तत्रतत्र प्रदृश्यन्ते रथवारणपत्तयः । सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ॥ ॥ 6-45-87 (40403) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे पञ्चचत्वारिंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-45-1 पूर्वाह्णे पूर्वभागे ॥ 6-45-5 तोत्रं गजदमनं वेणुकाख्यं वेणुवुध्नसमाकारम् ॥ 6-45-13 आनर्च्छतुः पीडितवन्तौ। तक्षमाणौ तनूकुर्वाणौ ॥ 6-45-14 पुष्पैः शबलौ विचित्रौ ॥ 6-45-17 एकेन प्राष्णि पृष्ठगोपं एकेन सारथिमिति च ॥ 6-45-23 क्षुद्रकाणां बाणविशेषाणाम् ॥ 6-45-31 परासुकरणं मारणसाधनम् ॥ 6-45-36 वीरः शङ्खः। जत्रुदेशे अंससंधौ ॥ 6-45-38 धृष्टकेतुः शिशुपालसुतः ॥ 6-45-44 सन्नतपर्वभिः अलक्षितग्रन्थिभिः ॥ 6-45-48 तीक्ष्णेन सूक्ष्मधारेण । निशिते शाणोल्लीढेन । मृधे संग्रामे ॥ 6-45-58 तुभ्यं तव। सुतसोमं भैमसेनिम् ॥ 6-45-60 चेकितानो यादवः ॥ 6-45-69 इरावानर्जुनपुत्रः ॥ 6-45-72 संससज्जतुः संसक्तावभूताम् ॥ 6-45-81 द्वन्द्वं द्वयोर्द्वयोर्युद्धम् ॥ 6-45-86 विपरीतं अतीतक्रमम् ॥
भीष्मपर्व - अध्याय 046

॥ श्रीः ॥

6.46. अध्यायः 046

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-46-0 (40404) सञ्जय उवाच। 6-46-0x (4107) राजञ्शतसहस्राणि तत्रतत्र पदातिनाम् । निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ॥ 6-46-1 (40405) न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम् । न भ्राता भ्रातरं तत्र स्वस्त्रीयं न च मातुलः ॥ 6-46-2 (40406) न मातुलं च स्वस्रीयो न सखायं सखा तथा। आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ॥ 6-46-3 (40407) रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः । अभज्यन्त युगैरेव युगानि भरतर्षभ ॥ 6-46-4 (40408) रथेषाश्च रतेषाभिः कूरा रथकूबरैः। संगतैः सहिताः केचित्परस्परजिघांसवः ॥ 6-46-5 (40409) न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः । प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः ॥ 6-46-6 (40410) बहुधा दारयन्क्रुद्धा विषाणैरितरेतरम्। सतोरणपताकैश्च वारणा वरवारणैः ॥ 6-46-7 (40411) अभिसृत्य महाराज वेगवद्भिर्महागजैः । दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ॥ 6-46-8 (40412) अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः। अप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ॥ 6-46-9 (40413) प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः । क्रौञ्चवन्निनदं कृत्वा दुद्रुवुः सर्वतो दिशम् ॥ 6-46-10 (40414) सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः । ऋषितोमरनाराचैर्निर्विद्धा वरवारणाः ॥ 6-46-11 (40415) प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः। प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ॥ 6-46-12 (40416) गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः । ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वथैः ॥ 6-46-13 (40417) गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः । आयसैः परिघैश्चैव निस्तिरंशैर्विमलै शितैः । 6-46-14 (40418) प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः। व्यदृश्यन्त महाराज परस्परजिघांसवः ॥ 6-46-15 (40419) राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः। प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ॥ 6-46-16 (40420) अवक्षिप्तावधूतानामसीनां वीरबाहुभिः । संजज्ञे तुमुलः शब्दः पततां परमर्मसु ॥ 6-46-17 (40421) गदामुसलरुग्णानां भिन्नानां च वरासिभिः । दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ॥ 6-46-18 (40422) तत्र तत्र नरौघाणां क्रोशतामितरेतरम् । शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ॥ 6-46-19 (40423) हयैरपि हयारोहाश्चामरापीडधारिभिः । हंसैरिव महावेगैरन्योन्यमभिविद्रुताः ॥ 6-46-20 (40424) तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः । आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ॥ 6-46-21 (40425) अश्वैरग्न्यजवैः केचिदाप्लुत्य महतो रथात् । शिरांस्याददिरे वीरा रथिनामश्वसादिनः ॥ 6-46-22 (40426) बहूनपि हयारोहान्भल्लैः सन्नतपर्वभिः । रथी जघान संप्राप्य बाणगोचरमागतान् ॥ 6-46-23 (40427) नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः । पादैरेव विमृद्गन्ति मत्ताः कनकभूषणाः ॥ 6-46-24 (40428) पाठ्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः। प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ॥ 6-46-25 (40429) साश्वारोहान्हयान्कांश्चिदुन्मथ्य वरवारणाः । सहसा चिक्षिपुस्तत्र संकुले भैरवे सति ॥ 6-46-26 (40430) साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्गजाः । रथौघानभिमृद्गन्तः सध्वजानभिचक्रमुः ॥ 6-46-27 (40431) पुंस्त्वादतिमदत्वाच्च केचित्तत्र महागजाः । साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ॥ 6-46-28 (40432) अश्वारोहैश्च समरे हस्तिसादिभिरेव च । प्रतिमानेषु गात्रेषु पार्श्वष्वभि च वारणान् । आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ॥ 6-46-29 (40433) नराश्वकायान्निर्भिद्य लौहानि कवचानि च। निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः ॥ 6-46-30 (40434) महोल्ककाप्रतिमा घोरास्तत्र तत्र विशांपते। द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि ॥ 6-46-31 (40435) विकोशैर्विमलैः खङ्गैरभिजध्नुः परान्रणे । अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् ॥ 6-46-32 (40436) विदर्शयन्तः संपेतुः खङ्गचर्मपरश्वथैः। केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः ॥ 6-46-33 (40437) विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः। शङ्कुभिर्दारिताः केचित्संभिन्नाश्च परश्वथैः ॥ 6-46-34 (40438) हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः । रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वथैः ॥ 6-46-35 (40439) व्याक्रोशन्त नरा राजंस्तत्रतत्र स्म बान्धवान्। पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बन्धुभिः ॥ 6-46-36 (40440) मातुलान्भागिनेयांश्च परानपि च संयुगे । विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत ॥ 6-46-37 (40441) बाहुभिश्चापरे छिन्नैः पार्श्वेषु च विदारिताः । क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ॥ 6-46-38 (40442) तृषापरिगताः केचिदल्पसत्वा विशांपते। भूमौ निपतिताः सङ्ख्ये मृगयांचक्रिरे जलम् ॥ 6-46-39 (40443) रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत । व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान् ॥ 6-46-40 (40444) अपरे क्षत्रिकयाः शूराः कृतवैराः परस्परम् । नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष । तर्जयन्ति च संहृष्टास्तत्रतत्र परस्परम् ॥ 6-46-41 (40445) आदश्य दशनैश्चापि क्रोधात्स्वरदनच्छदम् । भ्रुकुटीकुटिलैर्वक्रैः प्रेक्षन्ति च परस्परम् ॥ 6-46-42 (40446) अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः। निष्कूजाः समपद्यन्त दृढसत्वा महाबलाः ॥ 6-46-43 (40447) अन्ये च विरथाः शूरा रथमन्यस्य संयुगे। प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः । अशोभन्त महाराज सपुष्पा इव किंशुकाः ॥ 6-46-44 (40448) संबभूवुरनीकेषु बहवो भैरवस्वनाः। वर्तमाने महाभीमे तस्मिन्वीरवरक्षये॥ 6-46-45 (40449) निजघान पिता पुत्रं पुत्रश्च पितरं रणे। स्वस्त्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ॥ 6-46-46 (40450) सखा सखायं च तथा संबन्धी बान्धवं तथा। एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ॥ 6-46-47 (40451) वर्तमाने तथा तस्मिन्निर्मर्यादे भयानके । भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ॥ 6-46-48 (40452) केतुना पञ्चतारेण तालेन भारतर्षभ । राजतेन महाबाहुरुच्छ्रितेन महारथे । बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ॥ ॥ 6-46-49 (40453) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे षट्चत्वारिंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-46-1 प्रयुद्धानि युद्धं कृतवन्ति ॥ 6-46-2 जज्ञे ज्ञातवान् ॥ 6-46-3 आविष्टा इव भूतादिना गृहीता इव ॥ 6-46-4 युगानि अश्वस्कन्धार्पितानि दारूणि ॥ 6-46-5 रथेषा रथदण्डः । कूबरो युगकीलः। संगतैः संमुखागतैः ॥ 6-46-6 प्रभिन्नाश्र्योतन्मदाः ॥ 6-46-7 विषाणैर्दन्तैः तोरणानि चतुःस्तम्भमण्डपाकारस्य गजपल्याणस्य अम्बारीति भाषया प्रसिद्धस्य। द्वाराणि पताकाश्च तत्रैव स्तम्भशेखरस्थाः ॥ 6-46-9 संमुखाभिमुखाः अन्योन्यसंमुखा इत्यर्थः ॥ 6-46-17 अवक्षिप्तावधूतानां अधोमुखं पातितानां परेषां मर्मसु पततामसीनामिति संबन्धः ॥ 6-46-19 प्रेतानां नारकाणाम् ॥ 6-46-26 सहसा बलेन ॥ 6-46-28 पुंस्त्वाद्वीर्यवत्त्वात्। अतिमदत्वादुद्भिन्नमदत्वात् ॥ 6-46-29 प्रतिमानेषु ललाटेषु ॥ 6-46-30 शक्त्यः शक्तयः 6-46-43 निष्कूजा निःशब्दाः ॥
भीष्मपर्व - अध्याय 047

॥ श्रीः ॥

6.47. अध्यायः 047

Mahabharata - Bhishma Parva - Chapter Topics

उत्तरकुमारवधः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-47-0 (40454) सञ्जय उवाच। 6-47-0x (4108) गतपूर्वाह्णभूयिष्ठि तस्मिन्नहनि दारुणे। वर्तमाने तथा रौद्रे महावीरवरक्षये ॥ 6-47-1 (40455) दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः। भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ॥ 6-47-2 (40456) एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः । पाण्डवानामनीकानि विजगाहे महारथः ॥ 6-47-3 (40457) चेदिकाशिकरूषेषु पञ्चालेषु च भारत । भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत ॥ 6-47-4 (40458) स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान् । निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः ॥ 6-47-5 (40459) नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ । भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ॥ 6-47-6 (40460) अभिमन्युः सुसंक्रुद्धः पिशह्गैस्तुरगोत्तमैः । संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ॥ 6-47-7 (40461) जाम्बूनदविचित्रेण कर्णिकारेण केतुना । अभ्यवर्तत भीष्मं च तांश्चैव रथसत्तमान् ॥ 6-47-8 (40462) स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा । भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह ॥ 6-47-9 (40463) कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः । विद्ध्वा नवभिरानर्च्छच्छिताग्रैः प्रतिपामहम् ॥ 6-47-10 (40464) पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च। ध्वजमेकेन विव्याध जाम्बूनदपरिष्कृतम् ॥ 6-47-11 (40465) दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना । जहार सारथेः कायाच्छिरः सन्नतपर्वणा ॥ 6-47-12 (40466) धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्। कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ॥ 6-47-13 (40467) जघान परमक्रुद्धो नृत्यन्निव महारथः । तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ॥ 6-47-14 (40468) लब्धलक्षतया कार्ष्णेः सर्वे भीष्ममुखा रथाः । सत्ववन्तममन्यन्त साक्षादिव धनंजयम् ॥ 6-47-15 (40469) तस्य लाघवमार्गस्थमलातसदृशप्रभम्। दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ॥ 6-47-16 (40470) तमासाद्य महावेगैर्भीष्मो नव्रभिराशुगैः । विव्याध समरे तूर्णमार्जुनिं परवीरहा ॥ 6-47-17 (40471) ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः । सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ॥ 6-47-18 (40472) तथैव कृतवर्मा च कृपः शल्यश्च मारिष । विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ॥ 6-47-19 (40473) स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः । ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ॥ 6-47-20 (40474) ततस्तेषां सहस्राणि संवार्य शरवृष्टिभिः । ननाद बलवान्कार्ष्णिर्भीष्माय विसृज्यञ्शरान् ॥ 6-47-21 (40475) तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत । यतमानस्य समरे भीष्ममर्दयतः शरैः ॥ 6-47-22 (40476) पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् । स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ॥ 6-47-23 (40477) ततो ध्वजमामोघेंषुर्भीष्मस्य नवभिः शरैः । चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ॥ 6-47-24 (40478) स राजतो महास्कन्धस्तालो हेमविभूषितः । सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ॥ 6-47-25 (40479) तं तु सौभद्रविशिखैः पातितं भरतर्षभ । दृष्ट्वा भीमो ननादोच्चैः सौभद्रमभिहर्षयन् ॥ 6-47-26 (40480) अथ भीष्मो महास्राणि दिव्यानि सुबहूनि च । प्रादुश्चक्रे महारौद्रे रणे तस्मिन्महाबलः ॥ 6-47-27 (40481) ततः शरसहस्रेण सौभद्रं प्रतितामहः । अवाकिरदमेयात्मा तदद्भुतमिवाभवत् ॥ 6-47-28 (40482) ततो दश महेष्वासाः पाण्डवानां महारथाः । रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ॥ 6-47-29 (40483) विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः । भीमश्च केकयाश्चैव सात्यकिश्च विशांपते ॥ 6-47-30 (40484) तेषां जवेनापततां भीष्मः शान्तनवो रणे । पाञ्चाल्यं त्रिभिरानर्च्छत्सात्यकिं नवभिः शरैः । 6-47-31 (40485) पूर्णायतविसृष्टेन क्षुरेण निशितेन च। ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ॥ 6-47-32 (40486) जाम्बूनदमयः श्रीमान्केसरी स नरोत्तम । पपात भीमसेनस्य भीष्मेण मथितो रथात् ॥ 6-47-33 (40487) ततो भीमस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे। कृपमेकेन विव्याध कृतवर्माणमष्टभिः ॥ 6-47-34 (40488) प्रगृहीताग्रहस्तेकन वैराटिरपि दन्तिना । अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ॥ 6-47-35 (40489) तस्य वारणराजस्य जवेनापततो रथे । शल्यो निवारयामास वेगमप्रतिमं शरैः । 6-47-36 (40490) तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः । पदा युगमधिष्ठाय जघान चतुरो हयान् ॥ 6-47-37 (40491) स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् । उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ॥ 6-47-38 (40492) तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः। स पपात गजस्कन्धात्परमुक्ताङ्कुशतोमरः ॥ 6-47-39 (40493) असिमादाय शल्योऽपि अवप्लुत्य रथोत्तमात्। तस्य वारणराजस्य चिच्छेदाथ महाकरम् ॥ 6-47-40 (40494) भिन्नमर्मा शरशतैश्छिन्नहस्तः सवारणः। भीममार्तस्वरं कृत्वा पपात च ममार च ॥ 6-47-41 (40495) एतदीदृशकं कृत्वा मद्रराजो नराधिप । आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ 6-47-42 (40496) उत्तरं वै हतं दृष्ट्वा वैराटिर्भ्रातरं तदा । कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥ 6-47-43 (40497) श्वेतः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव । स विस्फार्य महच्चापं शक्रचापोपमं बली ॥ 6-47-44 (40498) अभ्यधाव़ञ्जिघांसन्वै शल्यं मद्राधिपं बली। महता रथवंशेन समन्तात्परिवारितः ॥ 6-47-45 (40499) मुञ्चन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति। तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ॥ 6-47-46 (40500) तावकानां रथाः सप्त समन्तात्पर्यवारयन् । मद्रराजमभीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ 6-47-47 (40501) बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः । तथा रुक्मरथो राजञ्शल्यपुत्रः प्रतापवान् ॥ 6-47-48 (40502) विन्दानुविन्दावावान्त्यौ काम्भोजश्च सुदक्षिणः । बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ॥ 6-47-49 (40503) नानावर्णविचित्राणि धनूंषि च महात्मनाम् । विस्फारितानि दृश्यन्ते तोयदेष्विव विद्युतः ॥ 6-47-50 (40504) ते तु बाणमयं वर्षं श्वेतमूर्धन्यपातयन्। निदाघान्तेऽनिलोद्धूता मेघा इव नगे जलम् ॥ 6-47-51 (40505) ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः । धनूंषि तेषामाच्छिद्य ममर्द पृतनापतिः ॥ 6-47-52 (40506) निकृत्तान्येव तानि स्म समदृश्यन्त भारत । ततस्ते तु निमेषार्धात्प्रत्यपद्यन्धनूंषि च ॥ 6-47-53 (40507) सप्त चैव पृषत्कांश्च श्वेतस्योपर्यपातयन्। ततः पुनरमेयात्मा भल्लैः सप्तभिराशुगैः । निचकर्त महाबाहुस्तेषां चापानि धन्विनाम् ॥ 6-47-54 (40508) ते निकृत्तमहाचापास्त्वरमाणा महारथाः । रथशक्तीः परामृश्य विनेदुर्भैरवान्रवान् ॥ 6-47-55 (40509) अन्वयुर्भरतश्रेष्ठ सप्त श्वेतरथं प्रति। ततस्ता ज्वलिताः सप्त महेन्द्राशनिनिःस्वनाः ॥ 6-47-56 (40510) अप्राप्ताः सप्तभिर्भल्लैश्चिच्छेद परमास्त्रवित्। 6-47-57bततः समादाय शरं सर्वकायविदारणम् ॥ 6-47-57 (40511) प्राहिणोद्भरतश्रेष्ठ श्वेतो रुक्मरथं प्रति। तस्य देहे निपतितो बाणो वज्रातिगो महान् ॥ 6-47-58 (40512) ततो रुक्मरथो राजन्सायकेन दृढाहतः । निषसाद रथोपस्थे कश्मलं चाविशन्महत् ॥ 6-47-59 (40513) तं विसंज्ञं विमनसं त्वरमाणस्तु सारथिः । अपोवाह नसंभ्रान्तः सर्वलोकस्य पश्यतः ॥ 6-47-60 (40514) ततोऽन्यान्षट् समादाय श्वेतो हेमविभूषितान् । तेषां षण्मां महाबाहुर्ध्वजशीर्षण्यपातयत् ॥ 6-47-61 (40515) हयांश्च तेषां निर्भिद्य सारथींश्च परंतप । शरैश्चैतान्समाकीर्य प्रायाच्छल्यरथं प्रति ॥ 6-47-62 (40516) ततो हलहलाशब्दस्तव सैन्येषु भारत। दृष्ट्वा सेनापतिं तूर्णं यान्तं शल्यरथं प्रति ॥ 6-47-63 (40517) ततो भीष्मं पुरस्कृत्य तव पुत्रो महाबलः । वृतस्तु सर्वसैन्येन प्रायाच्छ्वेतरथं प्रति ॥ 6-47-64 (40518) मृत्योरास्यमनुप्राप्तं मद्रराजममोचयत् । ततो युद्धं समभवत्तुमुलं रोमहर्षणम् ॥ 6-47-65 (40519) तावकानां परेषां च व्यतिषक्तरथद्विपम् । सौभद्रे भीमसेन च सात्यकौ च महारथे ॥ 6-47-66 (40520) कैकेये च विराटे च धृष्टद्युम्ने च पार्षते । एतेषु नरसिंहेषु चेदिमत्स्येषु चैव ह । ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः ॥ ॥ 6-47-67 (40521) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-47-7 पिशङ्कैः पिङ्गलैः ॥ 6-47-8 कर्णिकारेण कर्णिकारद्रुमोपमेन ॥ 6-47-9 अनुरथैः पार्ष्णिगोपादिभिः ॥ 6-47-11 पूर्णयतविसृष्टेन आकर्णाकृष्टत्यक्तेन। प्रणिहितेन प्रेरितेन ॥ 6-47-36 रथे रथोपरि ॥ 6-47-43 वैराटिः शङ्खः ॥ 6-47-47 सप्तचत्वारिंशोऽध्यायः ॥
भीष्मपर्व - अध्याय 048

॥ श्रीः ॥

6.48. अध्यायः 048

Mahabharata - Bhishma Parva - Chapter Topics

श्वेतयुद्धम् ॥ 1 ॥ भीष्मेण श्वेतवधः ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-48-0 (40522) धृतराष्ट्र उवाच। 6-48-0x (4109) एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति। कुरवः पाण्डवेयाश्च किमकुर्वत सञ्जय ॥ 6-48-1 (40523) भीष्मः शान्तनवः किं वा तन्ममाचक्ष्व पृच्छतः । 6-48-2 (40524) सञ्जय उवाच। राजञ्शतसहस्राणि ततः क्षत्रियपुङ्गवाः ॥ 6-48-2x (4110) श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः । राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत ॥ 6-48-3 (40525) शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः । अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ 6-48-4 (40526) जिघांसन्तं युधांश्रेष्ठं तदासीत्तुमुलं महत् । तत्तेऽहं संप्रवक्ष्यामि महावैशसमच्युत ॥ 6-48-5 (40527) तावकानां परेषां च यथा युद्धमवर्तत । तत्राकरोद्रथोपस्थाञ्शून्याञ्शान्तनवो बहून् ॥ 6-48-6 (40528) तत्राद्भुतं महच्चक्रे शरैरार्च्छद्रथोत्तमान् । समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान् ॥ 6-48-7 (40529) नुदन्समन्तात्समरे रविरुद्यन्यथा तमः । तेनाजौ प्रेषिता राजञ्शराः शतसहस्रशः ॥ 6-48-8 (40530) क्षत्रियान्तकराः सङ्ख्ये महावेगा महाबलाः । शिरांसि पातयामासुर्वीराणां शतशो रणे ॥ 6-48-9 (40531) गजान्कण्टकसन्नाहान्वज्रेणेव शिलोच्चयान् । रथा रथेषु संसक्ता व्यदृश्यन्त विशांपते ॥ 6-48-10 (40532) एके रथं पर्यवहंस्तुरगाः सतुरंगमम् । युवानं निहतं वीरं लम्बमानं सकार्मुकम् ॥ 6-48-11 (40533) उदीर्णाश्च हया राजन्वहनक्तस्तत्रतत्र ह। बद्धस्वङ्गनिषङ्गाश्च विध्वस्तशिरसो हताः ॥ 6-48-12 (40534) शतशः पतिता भूमौ वीरशय्यासु शेरते । परस्पेरण धावन्तः पतिताः पुनरुत्थिताः ॥ 6-48-13 (40535) उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन् । पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि ॥ 6-48-14 (40536) सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः । विस्रब्धहतवीराश्च शतशः परिपीडिताः ॥ 6-48-15 (40537) तेनतेनाभ्यधावन्त विसृजन्तश्च भारत । मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः ॥ 6-48-16 (40538) सरथा रथिनश्चापि विमृद्गन्तः समन्ततः । स्यान्दनादपतत्कश्चिन्निहतोऽन्येन सायकैः ॥ 6-48-17 (40539) हतसारथिरप्युच्चैः पपात काष्ठवद्रथः । युध्यमानस्य संग्रामे व्यूढे रजसि चोत्थिते ॥ 6-48-18 (40540) धनुःकूजितविज्ञानं तत्रासीत्प्रतियुद्ध्यतः। गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम् ॥ 6-48-19 (40541) युद्ध्यमानं शरै राजन्सिञ्जिनीध्वजिनीरवात्। अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः ॥ 6-48-20 (40542) शब्दायमाने संग्रामे पटहे कर्णदारिणि। युध्यमानस्य संग्रामे कुर्वतः पौरुषं स्वकम् ॥ 6-48-21 (40543) नाश्रौषं नामगोत्राणि कीर्तनं च परस्परम् । भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे ॥ 6-48-22 (40544) परस्परेषां वीराणां मनांसि समकम्पयन् । तस्मिन्नत्याकुले युद्धे दारुणे रोमहर्षणे ॥ 6-48-23 (40545) पिता पुत्रं च समरे नाभिजानाति कश्चन । चक्रे भग्ने युगे च्छिन्ने एकधुर्ये हये हतः ॥ 6-48-24 (40546) आक्षिप्तः स्यन्दनाद्वीरः समारथिरजिह्मगैः। एवं च समरे सर्वे वीराश्च विरथीकृताः ॥ 6-48-25 (40547) तेन तेन स्म दृश्यन्ते धावमानाः समंततः । गजो हतः शिरश्छिन्नं मर्म भिन्नं हयो हतः ॥ 6-48-26 (40548) अहतः कोपि नैवासीद्भीष्मे नघ्नति शात्रवान् । श्वेतः कुरूणामकरोत्क्षयं तस्मिन्महाहवे ॥ 6-48-27 (40549) राजपुत्रान्रथोदारानवधीच्छतसङ्घशः। चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ ॥ 6-48-28 (40550) साङ्गदा बाहवश्चैव धनूंषि च समंततः। रथेषां रथचक्राणि तूणीराणि युगानि च ॥ 6-48-29 (40551) छत्राणि च महार्हाणि पताकाश्च विशांपते। हयैघाश्च रथौघाश्च नरौघाश्चैव भारत ॥ 6-48-30 (40552) वारणाः शतशश्चैव हताः श्वेतेन भारत । वयं श्वेतभयाद्भीता विहाय रथसत्तमम् ॥ 6-48-31 (40553) अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः । शरपातमतिक्रम्य कुरवः कुरुनन्दन ॥ 6-48-32 (40554) भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः । अदीनो दीनसमये भीष्मोऽस्माकं महाहवे ॥ 6-48-33 (40555) एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः। आददान इव प्राणान्सविता शिशिरात्यये ॥ 6-48-34 (40556) गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान्। स मुमोच महेष्वासः शरसङ्घाननेकशः ॥ 6-48-35 (40557) निघ्नन्नमित्रान्समरे वज्रपाणिरिवासुरान् । ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम् ॥ 6-48-36 (40558) स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् । तमेवमुपलक्ष्यैको हृष्टः पुष्टः परंतप ॥ 6-48-37 (40559) दुर्योधनप्रिये युक्तः पाण्डवान्परिशोचयन्। जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे ॥ 6-48-38 (40560) पातयामास सैन्यानि पाण्डवानां विशांपते । प्रहरन्तमनीकानि पिता देवव्रतस्तव ॥ 6-48-39 (40561) दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात्। स भीष्मं शरजालेन महता समवाकिरत् ॥ 6-48-40 (40562) श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् । तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ ॥ 6-48-41 (40563) व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः । अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ ॥ 6-48-42 (40564) भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ । एकाह्ना निर्दहेद्भीष्मः पाम्डवानामनीकिनीम् ॥ 6-48-43 (40565) शरैः परमसंक्रुद्धो यदि श्वेतो न पालयेत्। पितामहं ततो दृष्ट्वा श्वेतो विमुखीकृतम् ॥ 6-48-44 (40566) प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाभवत्। ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः ॥ 6-48-45 (40567) ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे। दुर्मुखः कृतवर्मा च कृपः शल्यो विशांपतिःक ॥ 6-48-46 (40568) भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः। दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः ॥ 6-48-47 (40569) पाण्डवानामनीकानि वध्यमानानि संयुगे। श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम् ॥ 6-48-48 (40570) नाशयामास वेगेन वायुर्वृक्षानिवौजसा । द्रावयित्वा चमूं राजन्वैराटिः क्रोधमूर्च्छितः ॥ 6-48-49 (40571) आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः । तौ तत्रोपगतौ राजञ्शरदीप्तौ महाबलौ ॥ 6-48-50 (40572) अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ । अन्योन्यं तु महाराज परस्परवधैषिणौ ॥ 6-48-51 (40573) निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः । पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी॥ 6-48-52 (40574) तरसा वारयामास मत्तो मत्तमिव द्विपम्। श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः ॥ 6-48-53 (40575) विव्याध प़ञ्चविंशत्या तदद्भुतमिवाभवत्। तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा ॥ 6-48-54 (40576) स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः । वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम् ॥ 6-48-55 (40577) आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः। संप्रहस्य तत श्वेतः सृक्किणी परिसंलिहन् ॥ 6-48-56 (40578) घनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः । संधाय विशिखं चैव शरं लोमप्रवाहिनम् ॥ 6-48-57 (40579) उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः । केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव ॥ 6-48-58 (40580) हतं भीष्मममन्यन्त श्वेतस्य वशमागतम्। पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः ॥ 6-48-59 (40581) भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः । ततो दुर्योधनः क्रोधात्स्वमनीकमनोदयत् ॥ 6-48-60 (40582) यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समंततः। मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति ॥ 6-48-61 (40583) भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः। राज्ञस्तु वचनं श्रत्वा त्वरमाणा महारथाः ॥ 6-48-62 (40584) बलेन चतुरङ्गेण गाङ्गेयप्रन्वपालयन्। बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत ॥ 6-48-63 (40585) जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः। त्वरमाणास्त्वराकाले परिवार्य समंततः ॥ 6-48-64 (40586) शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन्। तान्क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः ॥ 6-48-65 (40587) अवारयदमेयात्मा दर्शयन्पाणिलाघवम् । स निवार्य तु तान्सर्वान्केसरी कुञ्जराविव ॥ 6-48-66 (40588) महता शरवर्षेण भीष्मस्य धनुराच्छिनत्। ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि ॥ 6-48-67 (40589) श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः । ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः ॥ 6-48-68 (40590) विव्याध समरे राजन्सर्वलोकस्य पश्यतः । ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम् ॥ 6-48-69 (40591) प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा। निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत् ॥ 6-48-70 (40592) तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् । हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम् ॥ 6-48-71 (40593) ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव । ध्वजमुन्मतितं दृष्ट्वा तां च सेनां निवारिताम् ॥ 6-48-72 (40594) श्वेतं प्रति महाराज व्यसृजत्प्तायकान्बहून् । तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः ॥ 6-48-73 (40595) धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव। उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः ॥ 6-48-74 (40596) अन्यत्कार्मुकमादाय विपुलं बलवत्तरम्। तत्र संधाय विपुलान्भल्लान्सप्त शिलाशितान् ॥ 6-48-75 (40597) चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः । ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे ॥ 6-48-76 (40598) शिरश्चिच्छेद भल्लेन संक्रुद्धोऽलघुविक्रमः । हताश्वसूतात्सु रथादवप्लुत्य महाबलः ॥ 6-48-77 (40599) अमर्षवशमापन्नो व्याकुलः समपद्यत । विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः ॥ 6-48-78 (40600) ताडयामास निशितैः शरसङ्घैः समंततः । स ताड्यमानः समरे भीष्मचापच्युतैः शरैः ॥ 6-48-79 (40601) स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् । ततः शक्तिं रणे श्वेतो जग्राहोग्रं महाभयाम् ॥ 6-48-80 (40602) कालदण्डोपमां घोरां मृत्योर्जिह्वामेव श्वसन् । अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे ॥ 6-48-81 (40603) तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव। एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी ॥ 6-48-82 (40604) ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम्। पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः ॥ 6-48-83 (40605) हाहाकारो महानासीत्पुत्राणां ते विशांपते । दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम् ॥ 6-48-84 (40606) श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् । अपतत्सहसा राजन्महोल्केव नभस्तलात् ॥ 6-48-85 (40607) ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् । असंभ्रान्तस्तदा राजन्पिता देवव्रतस्तव ॥ 6-48-86 (40608) अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः । उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः ॥ 6-48-87 (40609) उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ । शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः ॥ 6-48-88 (40610) कालोपहतचेतास्तु कर्तवक्यं नाभ्यजानत। क्रोधसंमूर्च्छितो राजन्वैराटिः प्रहसन्निव ॥ 6-48-89 (40611) गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति। क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः ॥ 6-48-90 (40612) भीष्मं समिदुद्राव जलौघ इव पर्वतम्। तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान् ॥ 6-48-91 (40613) प्रहारविप्रमोक्षार्थं सहसा धरणींगतः। श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम् ॥ 6-48-92 (40614) रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः । तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः ॥ 6-48-93 (40615) सध्वजः सह सूतेन साश्वः सयुगबन्धुरः । विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमकाः ॥ 6-48-94 (40616) अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः। ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः ॥ 6-48-95 (40617) शनकैरभ्यायाच्छ्वेतं गाङ्गेयः प्रहसन्निव। एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम् ॥ 6-48-96 (40618) आकाशादीरितां दिव्यामात्मनो हितसंभवाम् । भीष्मभीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै ॥ 6-48-97 (40619) एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना । एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम् ॥ 6-48-98 (40620) संप्रहृष्टमना भूत्वा वधे तस्य मनो दधे । विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम् ॥ 6-48-99 (40621) सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः । सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-48-100 (40622) कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान्। एतानापततः सर्वान्द्रोणशल्यकृपैः सह ॥ 6-48-101 (40623) अवारयदमेयात्मा वारिवेगानिवाचलः । स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु ॥ 6-48-102 (40624) श्वेतः खङ्गमथाकृष्य भीष्मस्य धनुराच्छिनात्। तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः ॥ 6-48-103 (40625) देवदूतवचः श्रुत्वा वधे तस्य मनो दधे । ततः प्रचरमाणस्तु पिता देवव्रतस्तव ॥ 6-48-104 (40626) अन्यत्कार्मुकमादाय त्वरमाणो महारथः। क्षणेन सज्यमकरोच्छक्रचापसमप्रभम् ॥ 6-48-105 (40627) पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः । वृतं तं मनुजव्याघ्रैर्भीमसेनपुरोगमैःक ॥ 6-48-106 (40628) अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् । आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान् ॥ 6-48-107 (40629) आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः । अभिमन्युं च समरे पिता देवव्रतस्तव ॥ 6-48-108 (40630) आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः । सात्यकिं च शतेनाजौ भरतानां पितामहः ॥ 6-48-110aधृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः । तांश्च सर्वान्महेष्वासान्पिता देवव्रतस्तव ॥ 6-48-109 (40631) वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे। ततः शरं मृत्युसमं भारसाधनमुत्तमम् ॥ 6-48-111 (40632) विकृष्य बलवान्भीष्मः समाधत्त दुरासदम्। ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् ॥ 6-48-112 (40633) ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः । स तस्य कवचं भित्वा हृदयं चामितौजसः ॥ 6-48-113 (40634) जगाम धरणीं बाणो महाशनिरिव ज्वलन्। अस्तं गच्छन्यथाऽऽदित्यः प्रभाप्रादाय सत्वरः ॥ 6-48-114 (40635) एवं जीवितमादाय श्वेतदेहाञ्जगाम ह। तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि ॥ 6-48-115 (40636) प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम्। अशोचन्पाण्डवास्तत्र क्षत्रियाश्च महारथाः ॥ 6-48-116 (40637) प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः । 6-48-117bततो दुःशासनो राजञ्श्वेतं दृष्ट्वा निपातितम् ॥ 6-48-117 (40638) वादित्रनिनदैर्घोरैर्नृत्यति स्म समंततः । तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना ॥ 6-48-118 (40639) प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः । ततो धनंजयो राजन्वार्ष्णेयश्चापि सर्वशः ॥ 6-48-119 (40640) अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ। ततोऽवहारः सैन्यानां तव तेषां च भारत ॥ 6-48-120 (40641) तावकानां परेषां च नर्दतां च मुहुर्मुहुः । पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः । चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः ॥ ॥ 6-48-121 (40642) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः ॥
भीष्मपर्व - अध्याय 049

॥ श्रीः ॥

6.49. अध्यायः 049

Mahabharata - Bhishma Parva - Chapter Topics

शङ्खयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-49-0 (40643) धृतराष्ट्र उवाच। 6-49-0x (4111) ( श्वेते सेनापतौ तात संग्रमे निहते परैः। किमकुर्वन्महेष्वासाः पाञ्चालाः पाण्डवैः सह ॥ 6-49-1 (40644) सेनापतिं समाकर्ण्य श्वेतं युधि निपातितम् । तदर्थं यततां चापि परेषां प्रपलायिनाम् ॥ 6-49-2 (40645) मनः प्रीणाति मे वाक्यं जयं संजय श्रृण्वतः। प्रत्युपायं चिन्तयन्तः सञ्जनाः प्रस्रवन्ति मे ॥ 6-49-3 (40646) स हि वीरोऽनुरक्तश्च वृद्धः कुरुपतिस्तदा । कृतं वैरं सदा तेन पितुः पुत्रेण धीमता ॥ 6-49-4 (40647) तस्योद्वेगभयाच्चापि संश्रितः पाण्डवान्पुरा । सर्वं बलं परित्यज्य दुर्गं संश्रित्य तिष्ठति ॥ 6-49-5 (40648) पाण्डवानां प्रतापेन दुर्गं देशं निवेश्य च । सपत्नान्सततं बाधन्नार्यवृत्तिमनुष्ठितः ॥ 6-49-6 (40649) आश्चर्यं वै सदा तेषां पुरा राज्ञां सुदुर्मतिः। ततो युधिष्ठिरे भक्तः कथं सञ्जय सूदितः ॥) 6-49-7 (40650) प्रक्षिप्तः संमतः क्षुद्रः पुत्रो मे पुरुषाधमः। न युद्धं रोचयेद्भीष्मो न चाचार्यः कथंचन ॥ 6-49-8 (40651) न कृपो न च गान्धारी नाहं सञ्जय रोचये । न वासुदेवो वार्ष्णेयो धर्मराजश्च पाण्डवः ॥ 6-49-9 (40652) न भीमो नार्जुनश्चैव न यमौ पुरुषर्षभौ । वार्यमाणो मया नित्यं गान्धार्या विदुरेण च ॥ 6-49-10 (40653) जामदग्न्येन रामेण व्यासेन च महात्मना । दुर्योधनो युध्यमानो नित्यमेव हि सञ्जय ॥ 6-49-11 (40654) कर्णस्य मतमास्थाय सौबलस्य च पापकृत् । दुःशासनस्य च तथा पाण्डवान्नान्वचिन्तयत् ॥ 6-49-12 (40655) तस्याहं व्यसनं घोरं मन्ये प्राप्तं तु सञ्जय । श्वेतस्य च विनाशेन भीष्मस्य विजयेन च ॥ 6-49-13 (40656) संक्रुद्धः कृष्णसहितः पार्थः किमकरोद्युधि । अर्जुनाद्धि भयं भूयस्तन्मे तात न शाम्यति ॥ 6-49-14 (40657) स हि शूरश्च कौन्तेयः क्षिप्रकारी धनंजयः । मन्ये शरैः शरीराणि शत्रूणां प्रमथिष्यति ॥ 6-49-15 (40658) ऐन्द्रिमिन्द्रानुजसमं महेन्द्रसदृशं बले । अमोघक्रोधसंकल्पं दृष्ट्वा वः किमभून्मनः ॥ 6-49-16 (40659) तथैव वेदविच्छूरो ज्वलनार्कसमद्युतिः । इन्द्रास्त्रविदमेयात्मा प्रपतन्समितिंजयः ॥ 6-49-17 (40660) वज्रसंस्पर्शरूपाणामस्त्राणां च प्रयोजकः । सखङ्गाक्षेपहस्तस्तु घोषं चक्रे महारथः ॥ 6-49-18 (40661) स सञ्जय महाप्राज्ञो द्रुपदस्यात्मजो बली । धृष्टद्युम्नः किमकरोच्छ्वेते युधि निपातिते ॥ 6-49-19 (40662) पुरा चैवापराधेन वधेन च चमूपतेः । मन्ये मनः प्रजज्वाल पाण्डवानां महात्मनाम् ॥ 6-49-20 (40663) तेषां क्रोधं चिन्तयंस्तु अहःसु च निशासु च । न शान्तिमधिगच्छामि दुर्योदनकृतेन हि । कथं चाभून्महायुद्धं सर्वमाचक्ष्व सञ्जय ॥ 6-49-21 (40664) सञ्जय उवाच। 6-49-22x (4112) श्रृणु राजन्स्थिरो भूत्वा तवापनयनो महान् । न च दुर्योधने दोषमिमामाधातुमर्हसि ॥ 6-49-22 (40665) गतोदके सेतुबन्धो यादृक्तादृङ्भतिस्तव। संदीप्ते भवने यद्वत्कूपस्य खननं तथा ॥ 6-49-23 (40666) गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे । तावकानां परेषां च पुनर्युद्धमवर्तत ॥ 6-49-24 (40667) श्वेतं तु निहतं दृष्ट्वा विराटस्य चमूपतिम् । कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥ 6-49-25 (40668) शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव । स विस्फार्य महच्चापं शक्रचापोपमं बली ॥ 6-49-26 (40669) अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं युधि । महता रथसङ्घेन समन्तात्परिरक्षितः ॥ 6-49-27 (40670) सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति। तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ॥ 6-49-28 (40671) तावकानां रथाः सप्त समन्तात्पर्यवारयन् । मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ 6-49-29 (40672) बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः। तथा रुक्मरथो राजन्पुत्रः शल्यस्य मानितः ॥ 6-49-30 (40673) विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणःक । बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ॥ 6-49-31 (40674) नानाधातुविचित्राणि कार्मुकाणि महात्मनाम् । विस्फारितान्यदृश्यन्त तोयदेष्विव विद्युतः ॥ 6-49-32 (40675) ते तु बाणमयं वर्षं शङ्खमूर्ध्निं न्यपातयन् । निदाघान्तेऽनिलोद्धृता मेघा इव नगे जलम् ॥ 6-49-33 (40676) ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः । धनूंषि तेषामाच्छिद्य ननर्द पृतनापतिः ॥ 6-49-34 (40677) ततो भीष्मो महाबाहुर्विनद्य जलदो यथा। तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ॥ 6-49-35 (40678) तमुद्यन्तमुदीक्ष्याथ महेष्वासं महाबलम् । संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥ 6-49-36 (40679) ततोऽर्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः । भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ॥ 6-49-37 (40680) हाहाकारो महानासीद्योधानां युधि युध्यताम् । तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः ॥ 6-49-38 (40681) अथ शल्यो गदापाणिरवतीर्य महारथात् । शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ॥ 6-49-39 (40682) स हताश्वाद्रथात्तूर्णं खङ्गमादाय विद्रुतः । बीभत्सोश्च रथं प्राप्य पुनः शान्तिमविन्दत ॥ 6-49-40 (40683) ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः । यैरन्तरीक्षं भूमिश्च सर्वतः समवस्तृता ॥ 6-49-41 (40684) पञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् । भीष्मः प्रहरतां श्रेष्ठः पातयामास पत्रिभिः ॥ 6-49-42 (40685) उत्सृज्य समरे राजन्पाण्डवं सव्यसाचिनम् । अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ॥ 6-49-43 (40686) प्रियं संबन्धिनं राजञ्शरानवकिरन्बहून् । अग्निनेव प्रदग्धानि वनानि शिशिरात्यये ॥ 6-49-44 (40687) शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह। अत्यतिष्ठद्रणे भीष्मो विधूम इव पावकः ॥ 6-49-45 (40688) मध्यन्दिने यथाऽऽदित्यं तपन्तमिव तेजसा। न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ॥ 6-49-46 (40689) वीक्षांचक्रुः समंतात्ते पाण्डवा भयपीडिताः । त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥ 6-49-47 (40690) सा तु यौधिष्ठिरी सेना गाङ्गेयशरपीडिता । सिंहेनेव विनिर्भिन्ना शुक्ला गौरिव गोपतेः ॥ 6-49-48 (40691) हते विप्रुद्रुते सैन्ये निरुत्साहे विमर्दिते। हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ॥ 6-49-49 (40692) ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः । मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ 6-49-50 (40693) शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः। जघान पाण्डवरथानादिश्यादिश्य भारत ॥ 6-49-51 (40694) ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः । प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन ॥ 6-49-52 (40695) भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे । अवहारमकुर्वन्त सैन्यानां भरतर्षभ ॥ ॥ 6-49-53 (40696) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे एकोनपञ्चाशोऽध्यायः ॥ ॥ इति प्रथमदिवसयुद्धम् ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-49-51 एकायनीकुर्वन् एकमार्गाः कुर्वन् ॥
भीष्मपर्व - अध्याय 050

॥ श्रीः ॥

6.50. अध्यायः 050

Mahabharata - Bhishma Parva - Chapter Topics

धृष्टद्युम्नेन क्रौञ्चव्यूहनिर्माणम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-50-0 (40697) सञ्जय उवाच। 6-50-0x (4113) कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ । भीष्मे च युद्धसंरब्धे हृष्टे दुर्योधने तथा ॥ 6-50-1 (40698) धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् । भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥ 6-50-2 (40699) शुचा परमया युक्तश्चिन्तयानः पराजयम्। वार्ष्णेयमब्रवीद्रजान्दृष्ट्वा भीष्मस्य विक्रमम् ॥ 6-50-3 (40700) कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् । शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥ 6-50-4 (40701) कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् । लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥ 6-50-5 (40702) एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् । दृष्ट्वा विप्रद्रुर्त सैन्यं समरे मार्गणाहतम् ॥ 6-50-6 (40703) शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे । वरुणः पाशभृद्वापि कुबेरो वा गदाधरः ॥ 6-50-7 (40704) न तु भीष्मो महाजेताः शक्यो जेतुं महाबलः । सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लुवे ॥ 6-50-8 (40705) आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव । वनं यात्सामि वार्ष्णेय श्रेयो मे तत्र जीवितुम् ॥ 6-50-9 (40706) न त्वेतान्पृथिवीपालान्दातुं भीष्माय मृत्यवे । क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥ 6-50-10 (40707) यथाऽनलं प्रज्वलितं पतङ्गाः समभिद्रुताः । विनाशायोपगच्छन्ति तथा मे सनिको जनः ॥ 6-50-11 (40708) क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी । भ्रातश्चैव मे वीराः कर्शिताः शरपीडिताः ॥ 6-50-12 (40709) मत्कृते भ्रातृहार्देन राज्याद्भ्रष्टास्तथा सुखात्। जीवितं बहुमन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥ 6-50-13 (40710) जीवितस्य च शेषेण तपस्तप्स्यामि दुश्चरम् । न घातयिष्यामि रणे मित्राणीमानि केशव ॥ 6-50-14 (40711) रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः । घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ॥ 6-50-15 (40712) किं नु कृत्वा हितं मे स्याद्ब्रूहि माधव माचिरम् । मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥ 6-50-16 (40713) एको भीमः परं शक्त्या युध्यत्येव महाभुजः । केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥ 6-50-17 (40714) गदया वीरघातिन्या यथोत्साहं महामनाः । करोत्यसुकरं कर्म रथाश्वनरपङ्क्तिषु ॥ 6-50-18 (40715) नालमेष क्षयं कर्तुं परसैन्यस्य मारिष । आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥ 6-50-19 (40716) एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते । निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ॥ 6-50-20 (40717) दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः । धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ॥ 6-50-21 (40718) कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः । क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥ 6-50-22 (40719) स त्वं पश्य महाभाग योगेश्वर महारथम् । भीष्मं यः शमयेत्संख्ये दावाग्निं जलदो यथा ॥ 6-50-23 (40720) तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः । स्वराज्यमनुसंप्राप्ता मोदिष्यन्ते सबान्धवाः ॥ 6-50-24 (40721) एवमुक्त्वा ततः पार्थो ध्यान्नास्ते महामनाः । चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥ 6-50-25 (40722) शोकार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम् । अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥ 6-50-27aमाशुचो भरतश्रेष्ट न त्वं शोचितुमर्हसि । यस्य ते भ्रातरः शूराः सर्वलोकेषु धन्विनःक ॥ 6-50-26 (40723) अहं च प्रियकृद्राजन्सात्यकिश्च महायशाः । विराटद्रुपदौ चेमौ धृष्टद्युम्नश्च पार्षतः ॥ 6-50-28 (40724) तथैव सबलाश्चेमे राजानो राजसत्तम। त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशांपते ॥ 6-50-29 (40725) एष ते पार्षतो नित्यं हितकामः प्रिये रतः । सैनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ॥ 6-50-30 (40726) शिखण्डी च महाबाहो भीष्मस्य निधनं किल। एतच्छ्रुत्वा ततो धर्मो धृष्टद्युम्नं महारथम् । अब्रवीत्समितौ तस्यां वासुदेवस्य श्रृण्वतः ॥ 6-50-31 (40727) धृष्टद्युम्न निबोधेदं यत्त्वां वक्ष्यामि मारिष। नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ॥ 6-50-32 (40728) भवान्सेनापतिर्मह्यं वासुदेवेन संमितः। कार्तिकेयो यथा नित्यं देवानामभवत्पुरा ॥ 6-50-33 (40729) तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ। स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् ॥ 6-50-34 (40730) अहं च तेऽनुयास्यामि भीमः कृष्णश्च मारिष । माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः ॥ 6-50-35 (40731) ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ । तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत ॥ 6-50-36 (40732) अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा। रणे भीष्मं कृपं द्रोणं तथा शल्यं जयद्रथम् ॥ 6-50-37 (40733) सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव । अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः ॥ 6-50-38 (40734) समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने । तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् ॥ 6-50-39 (40735) व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः । यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् ॥ 6-50-40 (40736) तं यथावत्प्रतिव्यूहं परानीकविनाशनम् । अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥ 6-50-41 (40737) यथोक्तः स नृदेवेन विष्णुर्वज्रभृता यथा। प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् ॥ 6-50-42 (40738) आदित्यपथगः केतुस्तस्याद्भुतमनोरमः । शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ॥ 6-50-43 (40739) इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः । 6-50-44bआकाशग इवाकाशे गन्धर्वनगरोपमः ॥ 6-50-44 (40740) नृत्यमान इवाभाति रथचर्यासु मारिष । तेन रत्नवता पार्थः स च गाण्डीवधन्वना ॥ 6-50-45 (40741) बभूव परमोपेतः सुमेरुरिव भानुना । शिरोभूद्द्रुपदो राजा महत्या सेनया वृतः ॥ 6-50-46 (40742) कुन्तिभोजश्च चैद्यश्च चक्षुर्भ्यां तौ जनेश्वरौ । दाशार्णकाः प्रभद्राश्च दाशेरकगणैः सह ॥ 6-50-47 (40743) अनूपकाः किराताश्च ग्रीवायां भरतर्षभ । पटच्चरैश्च पौण्ड्रैश्च राजन्पौरवकैस्तथा ॥ 6-50-48 (40744) निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः। पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-50-49 (40745) द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः । पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैः सह ॥ 6-50-50 (40746) मारुता धेनुकाश्चैव तंगमाः परतंगणाः । बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ॥ 6-50-51 (40747) एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः । अग्निवेशास्तुद्दुण्डाश्च मालवा दानभारयः ॥ 6-50-52 (40748) शबरा उद्भसाश्चैव वत्साश्च सह नाकुलैः । नकुलः सहदेवश्च वामं पक्षं समाश्रिताः ॥ 6-50-53 (40749) रथानामयुतं पक्षौ शिरस्तु नियुतं तथा। पृष्ठमर्बुदमेवासीत्सहस्रामि च विंशतिः ॥ 6-50-54 (40750) ग्रीवायां नियुतं चापि सहस्रामि च सप्ततिः । पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः ॥ 6-50-55 (40751) जग्मुः परिवृता राजंश्चलन्त इव पर्वताः । जघनं पालयामास विराटः सह केकयैः ॥ 6-50-56 (40752) काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः । एवमेनं महाव्यूहं व्यूह्य भारत पाण्डवाः ॥ 6-50-57 (40753) सूर्योधयं त इच्छतः स्थिता युद्धाय दंशिताः । तेषामादित्यवर्मानि विमलानि महान्ति च । श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥ ॥ 6-50-58 (40754) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे पञ्चाशोऽद्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-50-19 आर्जवेन अकुटिलेन दिव्यास्त्रमायाहीनेन ॥ 6-50-25 अन्तर्मनाः विमनाः ॥ 6-50-31 निधनं निधनहेतुः ॥ 6-50-32 भाषितमुक्तम् ॥ 6-50-33 मह्यं मम ॥ 6-50-44 आकाशग इव पक्षीव ॥ 6-50-45 रथचर्यासु रथवर्त्मसु ॥ 6-50-46 परमोपेतः परा उत्कृष्टा चासौ मा लक्ष्मीश्चेति परमा तया उपेतः ॥
भीष्मपर्व - अध्याय 051

॥ श्रीः ॥

6.51. अध्यायः 051

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मादिभिः प्रतिव्यूहरचना ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-51-0 (40755) सञ्जय उवाच। 6-51-0x (4114) क्रौञ्चं दृष्ट्वा ततो व्यूहमभेद्यं तनयस्तव । रक्षमाणं महाघोरं पार्थेनामिततेजसा ॥ 6-51-1 (40756) आचार्यमुपसंगम्य कृपं शल्यं च पार्थिव । सौमदत्तिं विकर्णं च सोऽश्वत्थामानमेव च ॥ 6-51-2 (40757) दुःशाकसनादीन्भ्रातॄंश्च सर्वनेव च भारत । अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् ॥ 6-51-3 (40758) प्राहेदं वचनं काले हर्षयंस्तनयस्तव । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 6-51-4 (40759) एकैकशः समर्था हि यूयं सर्वे महारथाः । पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ॥ 6-51-5 (40760) अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तमिदमेतेषां बलं भीमाभिरक्षितम् ॥ 6-51-6 (40761) संस्थानाः शूरसेनाश्च वेत्रिकाः कुकुरास्तथा । आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा ॥ 6-51-7 (40762) शत्रुंजयेन सहितास्तथा दुःशासनेन च । विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ॥ 6-51-8 (40763) चित्रसेनेन सहिताः सहिताः पारिभद्रकैः । भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः ॥ 6-51-9 (40764) ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष । अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधकम् ॥ 6-51-10 (40765) भीष्मः सैन्येन महता समनन्तात्परिवारितः । ययौ प्रकर्षन्महतीं वाहिनीं सरराडिव ॥ 6-51-11 (40766) तमन्वायान्महेष्वासो भारद्वाजः प्रतापवान् । कुन्तलैश्च दशार्णैश्च मागधैश्च विशांपते ॥ 6-51-12 (40767) विदमर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि । सहिताः सर्वसैन्येन भीष्ममहावशोभिनम् ॥ 6-51-13 (40768) गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः। शकुनिश्च स्वसैन्येन भीष्ममाहवशोभिनम् ॥ 6-51-14 (40769) ततो दुर्योधनो राजा सहितः सर्वसोदरैः । अश्वातर्केर्विकर्णैश्च तथा चाम्बष्ठकोसलैः ॥ 6-51-15 (40770) दरदैश्च शकैश्चैव तथा क्षुद्रकमालवैः । अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ॥ 6-51-16 (40771) भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिषः। विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ॥ 6-51-17 (40772) सौमदत्तिः सुशर्मा च काम्भोजश्च सुदक्षिणः। श्रुतायुश्चाच्युतायुश्च दक्षिणं पक्षमास्थिताः ॥ 6-51-18 (40773) अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । महत्या सेनया सार्धं सेनापृष्टे व्यवस्थिताः ॥ 6-51-19 (40774) पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः। 6-51-20bकेतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ 6-51-20 (40775) ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत। दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांस्तथोन्नदन् ॥ 6-51-21 (40776) तेषां श्रुत्वा तु हृष्टानां वृद्धः कुरुपितामहः। सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ 6-51-22 (40777) ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः। आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 6-51-23 (40778) ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ॥ 6-51-24 (40779) पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 6-51-25 (40780) अन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 6-51-26 (40781) काशिराजश्च शैब्यश्च शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ॥ 6-51-27 (40782) पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः । सर्वे दध्युर्महाशङ्खान्सिंहनादांश्च नेदिरे ॥ 6-51-28 (40783) स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ 6-51-29 (40784) एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः। पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम् ॥ ॥ 6-51-30 (40785) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे एकपञ्चाशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-51-6 अपर्याप्तमपरिमेयम् ॥ 6-51-20 अभिभवत्यभिभूः ॥
भीष्मपर्व - अध्याय 052

॥ श्रीः ॥

6.52. अध्यायः 052

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मार्जुनयोर्युद्धम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-52-0 (40786) धृतराष्ट्र उवाच। 6-52-0x (4115) एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च । कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे ॥ 6-52-1 (40787) सञ्जय उवाच। 6-52-2x (4116) तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः। `तावकाः पाण्डवैः सार्धं यथाऽयुध्यन्त तच्छृणु।' अपारमिव संदृश्य सागरप्रतिमं बलम् ॥ 6-52-2 (40788) तेषां मध्ये स्थितो राजन्पुत्रो दुर्योधनस्तव । अब्रवीत्तावकान्सर्वान्युद्ध्यध्वमिति दंशिताः ॥ 6-52-3 (40789) ते मनः क्रूरमाधाय समभित्यक्तजीविताः । पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ 6-52-4 (40790) ततो युद्धं समभवत्तुमुलं रोमहर्षणम्। तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥ 6-52-5 (40791) मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजिताःक । सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥ 6-52-6 (40792) तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः । अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥ 6-52-7 (40793) सौभद्रे भीमसेने च सात्यकौ च महारथे । कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ॥ 6-52-8 (40794) एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः । ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥ 6-52-9 (40795) अभिद्यत ततो व्यूहस्तस्मिन्वीरसमागमे। सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ 6-52-10 (40796) सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः । विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः ॥ 6-52-11 (40797) अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् । वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥ 6-52-12 (40798) एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् । नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥ 6-52-13 (40799) एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन । धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥ 6-52-14 (40800) पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना । सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन ॥ 6-52-15 (40801) तमब्रवीद्वासुदेवो यत्तो भव धनंजय। एष त्वां प्रापयिष्यामि पितामहरथं प्रति ॥ 6-52-16 (40802) एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् । प्रापयामास भीष्मस्य रथं प्रति जनेश्वर ॥ 6-52-17 (40803) चलद्बहुपातकेन बलाकावर्णवाजिना । समुच्छ्रितमहाभीमनदद्वानरकेतुना ॥ 6-52-18 (40804) महता मेघनादेन रथेनामिततेजसा । विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः ॥ 6-52-19 (40805) प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः । तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ॥ 6-52-20 (40806) त्रसयनतं रणे शूरान्मर्दयन्तं च सायकैः । सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः । सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ॥ 6-52-21 (40807) को हि गाण्डीवधन्वानमन्यः कुरुपितामहात्। द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति ॥ 6-52-22 (40808) ततो भीष्मो महाराज सर्वलोकमहारथः । अर्जुनं सप्ततसप्तत्या नाराचानां समाचिनोत् ॥ 6-52-23 (40809) द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः। दुर्योधनश्रतुःषष्ट्या शल्यश्च नवभिः शरैः ॥ 6-52-24 (40810) सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः । विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥ 6-52-25 (40811) स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः। न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥ 6-52-26 (40812) स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः । द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥ 6-52-27 (40813) शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः । प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥ 6-52-28 (40814) तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः। सौभद्रो द्रौपदेयाश्च परिवव्रुर्धनंजयम् ॥ 6-52-29 (40815) ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम्। अभ्यवर्तत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥ 6-52-30 (40816) भीष्मस्तु रथिनां श्रेष्ठो राजन्विव्याध पाण्डवम्। अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त पाण्डवाः ॥ 6-52-31 (40817) तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत्। प्रविवेश ततो मध्यं नरसिंहः प्रतापवान् ॥ 6-52-32 (40818) तेषां महारथानां स मध्यं प्राप्य धनंजयः। चिक्रीड धनुषा राजँल्लक्षं कृत्वा महारथान् ॥ 6-52-33 (40819) `क्षत्रियाणां शिरांस्युग्रैः कृन्तञ्शस्त्रैर्महारथः । शून्यान्कृत्वा रथोपस्थान्व्यचरत्फल्गुनस्तदा ।' 6-52-34 (40820) ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः । पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥ 6-52-35 (40821) एष पाण्डुसुतस्तात कृष्णेन सहितो बली। यततां सर्वसैन्यानां मूलं नः परिकृन्तति। त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे ॥ 6-52-36 (40822) त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशांपते। न युध्यति रणे पार्थान्हितकामः सदा मम। स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः ॥ 6-52-37 (40823) एवमुक्तस्ततो राजन्पिता देवव्रतस्तव। धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात्पार्थं रथं प्रति ॥ 6-52-38 (40824) उभौ श्वेतहयौ राजन्संसक्तौ प्रेक्ष्य पार्थिवाः । सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च मारिषत ॥ 6-52-39 (40825) द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः । परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥ 6-52-40 (40826) तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् । स्थिता युद्धाय महते ततो युद्धमवर्तत ॥ 6-52-41 (40827) गाङ्गेयस्तु रणे पार्थमानर्च्छन्नवभिः शरैः । तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मभेदिभिः ॥ 6-52-42 (40828) ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः । अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥ 6-52-43 (40829) शरजालं ततस्तत्तु शरजालेन मारिष। वारयामास पार्थस्य भीष्मः शान्तनवस्तदा ॥ 6-52-44 (40830) उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ । निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ॥ 6-52-45 (40831) भीष्मचापविमुक्तानि शरजालानि शङ्घशः। शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैःक ॥ 6-52-46 (40832) तथैवार्जुनमुक्तानि शरजालानि सर्वशः । गाङ्गेयशरनुन्नानि प्रापतन्त महीतले ॥ 6-52-47 (40833) अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः । भीष्मोपि समरे पार्थं विव्याध निशितैः शरैः । 6-52-48 (40834) अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ । रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ ॥ 6-52-49 (40835) ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः। वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ 6-52-50 (40836) भीष्मचापच्युतैस्तैस्तु निर्विद्धो मधुसूदनः । विरराज रणे राजन्सपुष्प इव किंशुकः ॥ 6-52-51 (40837) ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् । सारथिं कुरुवृद्धस्य निर्बिभेद शितैः शरैः ॥ 6-52-52 (40838) यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति। न शक्नुतां तदाऽन्योन्यमभिसन्धातुमाहवे ॥ 6-52-53 (40839) तौ मण्डलानि चित्राणि गतत्प्रत्यागतानि च। अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥ 6-52-54 (40840) अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम् । राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥ 6-52-55 (40841) उभौ सिंहरवोन्मिश्रं शङ्खशब्दं च चक्रतुः । तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥ 6-52-56 (40842) तयोः शङ्खनिनादेन रथनेमिस्वनेन च। दारिता सहसा भूमिश्चकम्पे च ननाद च ॥ 6-52-57 (40843) नोभयोरन्तरं कश्चिद्ददृशे भरतर्षभ । बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ ॥ 6-52-58 (40844) चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः । तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरेक ॥ 6-52-59 (40845) तयोर्नृवरयोर्दृष्ट्वा तादृशं तं पराक्रमम्। विस्कमयं सर्वभूतानि जग्मुर्भारतसंयुगे ॥ 6-52-60 (40846) न तयोर्विवरं कश्चिद्रणे पश्यति भारत। धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥ 6-52-61 (40847) उभौ च शरजालेन तावदृश्यो बभूवतुः। प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे॥ 6-52-62 (40848) तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह। अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥ 6-52-63 (40849) न शक्यौ युधि संरब्धौ जेतुमेतौ कथंचन। सदेवासुरगन्धर्वैर्लोकैरपि महारथौ ॥ 6-52-64 (40850) आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् । नैतादृशानि युद्धानि भविष्यन्ति कथंचन ॥ 6-52-65 (40851) न हि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता। सधनुः सरथः साश्वः प्रवपन्सायकान्रणे ॥ 6-52-66 (40852) तथैव पाण्डवं युद्धे देवैरपि दुरासदम् । न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥ 6-52-67 (40853) आलोकादपि युद्धं हि सममेतद्भविष्यति। इति स्म वाचोऽश्रूयन्त प्रोच्चरन्त्यकस्ततस्ततः। गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशांपते ॥ 6-52-68 (40854) त्वदीयास्तु तदा योधाः पाण्डवेयाश्च भारत। अन्योन्यं समरे जघ्नुस्तयोस्तत्र समागमे ॥ 6-52-69 (40855) शितधारैस्तथा स्वङ्गैर्विमलैश्च परश्वधैः । शरैरन्यैश्च बहुभिः सस्त्रैर्नानाविधैरपि ॥ 6-52-70 (40856) उभयोः सेनयोः शूरा न्यकृन्तन्त परस्परम् । वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे। द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥ ॥ 6-52-71 (40857) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे द्विपञ्चशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-52-10 व्यतिकरो मेलकः। समागम इत्यर्थः ॥ 6-52-15 दृढधन्वना भीष्मेण ॥ 6-52-55 अन्तरं छिद्रम्। तर्कयन्तौ चिन्तयन्तौ। अन्तरमार्गस्थौ छिद्रान्वेषणपरौ ॥ 6-52-59 चिह्नं ध्वजः ॥ 6-52-68 आलोकात् आसंसारस्थितेः ॥
भीष्मपर्व - अध्याय 053

॥ श्रीः ॥

6.53. अध्यायः 053

Mahabharata - Bhishma Parva - Chapter Topics

द्रोणधृष्टद्युम्नयोर्युद्धम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-53-0 (40858) धृतराष्ट्र उवाच। 6-53-0x (4117) कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः। उभौ समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय ॥ 6-53-1 (40859) दिष्टमेव परं मन्ये पौरुषादिति मे मतिः। यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् ॥ 6-53-2 (40860) भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान्। स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा ॥ 6-53-3 (40861) सञ्जय उवाच। 6-53-4x (4118) श्रृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम्। न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ 6-53-4 (40862) द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमविध्यत। सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 6-53-5 (40863) तथाऽस्य चतुरो वाहांश्चतुर्भिः सायकोत्तमैः । पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष ॥ 6-53-6 (40864) धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः । विव्याध प्रहसन्वीरस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 6-53-7 (40865) ततः पुनरमेयात्मा भारद्वाजः प्रतापवान्। शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् ॥ 6-53-8 (40866) आददे च शरं घोरं पार्षतान्तचिकीर्षकया। शक्राशनिसमस्पर्शं कालदण्डमिवापरम् ॥ 6-53-9 (40867) हाहाकारो महानासीत्सर्वसैन्येषु भारत । तमिषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे ॥ 6-53-10 (40868) तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम्। यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ॥ 6-53-11 (40869) तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः । चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ॥ 6-53-12 (40870) तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह। धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ 6-53-13 (40871) ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् । द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ॥ 6-53-14 (40872) तामापतन्तीं सहसा शक्तिं कनकभूषिताम्। त्रिधा चिच्छेद समरे भारद्वाजो हसन्निव ॥ 6-53-15 (40873) शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतपवान् । ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वरः॥ 6-53-16 (40874) शरवर्षं ततस्तत्तु सन्निवार्य महायशाः। द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ॥ 6-53-17 (40875) स च्छिन्नधन्वा समरे गदां गुर्वी महायशाः । द्रोणाय प्रेषयामास गिरिसारमयीं बली ॥ 6-53-18 (40876) सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया । तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ॥ 6-53-19 (40877) लाघवाद्व्यंसयामास गदां हेमविभूषिताम्। व्यंसयित्वा गदां तां च प्रेषयामास पार्षतम् ॥ 6-53-20 (40878) भल्लान्सुनिशितान्पीतातान्रुक्मपुङ्खान्सुदारुणान्। ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ 6-53-21 (40879) अथान्यद्धनुरादाय धृष्टद्युम्नो महारथः । द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः ॥ 6-53-22 (40880) रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ । वसन्तसमये राजन्पुष्पिताविव किंशुकौ ॥ 6-53-23 (40881) अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे । द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् ॥ 6-53-24 (40882) अथैनं छिन्नधन्वानं शरैः सन्नतपर्वभिः । अभ्यवर्षदमेयात्मा वृष्ट्या मेघ इवाचलम् ॥ 6-53-25 (40883) सारथिं चास्य भल्लेन रथनीजादपातयत् । अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ 6-53-26 (40884) पातयामास समरे सिंहनादं ननाद च। ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ॥ 6-53-27 (40885) स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवारोहत्स्व्यापयन्पौरुषं महत्॥ 6-53-28 (40886) तामस्य विशिस्वैस्तूर्णं पातयामास भारत । रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ 6-53-29 (40887) ततः स विपुलं चर्म शतचन्द्रं च भानुमत्। खङ्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ॥ 6-53-30 (40888) अभिदुद्राव वेगेन द्रोणस्य वधाकाङ्क्षया। आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ॥ 6-53-31 (40889) तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् । लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ॥ 6-53-32 (40890) यदेनं शरवर्षेण वारयामास पार्षतम् । न शशाक ततो गन्तुं बलवानपि संयुगे ॥ 6-53-33 (40891) निवारितस्तु द्रोणेन धृष्टद्युम्नो महारथः । न्यावारयच्छरौघांस्तांश्चर्मणा कृतहस्तवत् ॥ 6-53-34 (40892) ततो भीमो महाबाहुः सहसाऽभ्यपतद्बली । साहाय्यकारी समरे पार्षतस्य महात्मनः ॥ 6-53-35 (40893) स द्रोमं निशितैर्बाणै राजन्विव्याध सप्तभिः । पार्षतं च रथं तूर्णं स्वकमारोहयत्तदा॥ 6-53-36 (40894) ततो दुर्योधनो राजन्कलिङ्गं समचोदयत्। सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ॥ 6-53-37 (40895) ततः सा महती सेन कलिङ्गानां जनेश्वर । भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ॥ 6-53-38 (40896) पाञ्चाल्यमथ संत्यज्य द्रोणोऽपि रथिनां वरः। विराटद्रुपदौ वृद्धौ वारयामास संयुगे॥ 6-53-39 (40897) धृष्टद्युम्नोऽपि समरे धर्मराजानमभ्ययात्। ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥ 6-53-40 (40898) कलिङ्गानां च समरे भीष्मस्य च महात्मनः । जगतः प्रक्षयकरं घोररूपं भयावहम् ॥ ॥ 6-53-41 (40899) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे त्रिपञ्चाशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-53-3 नातरत् न लङ्घितवान् ॥ 6-53-5 नीडात् स्थानात् ॥ 6-53-20 व्यंसयामास वञ्चयतिस्म ॥ 6-53-21 पीतान् पायितजलान् ॥
भीष्मपर्व - अध्याय 054

॥ श्रीः ॥

6.54. अध्यायः 054

Mahabharata - Bhishma Parva - Chapter Topics

भीमसेनेन कलिङ्गादिवधः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-54-0 (40900) धृतराष्ट्र उवाच। 6-54-0x (4119) मम पुत्रसमादिष्टः कलिङ्गोः वाहिनीपतिः। कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥ 6-54-1 (40901) चरन्तं गदया वीर दण्डहस्तमिवान्तकम् । योधयामास समरे कलिङ्गः सह सेनया ॥ 6-54-2 (40902) सञ्जय उवाच। 6-54-3x (4120) पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः । महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥ 6-54-3 (40903) तामापतन्तीं महतीं कलिङ्गानां महाचमूम्। रथाश्वनागकलिलां प्रगृहीतमहायुधाम् ॥ 6-54-4 (40904) भीमसेनः कलिङ्गानामार्च्छद्भारत वाहिनीम् । केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥ 6-54-5 (40905) ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह। आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥ 6-54-6 (40906) रथैरनेकसाहस्रैः कलिङ्गानां नराधिप । अयुतेन गजानां च निषादैःक सह केतुमान् ॥ 6-54-7 (40907) भिमसेनं रणे राजन्समन्तात्पर्यवारयत् । चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः ॥ 6-54-8 (40908) अभ्यधावन्त समरे निषादान्सह राजभिः । ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ 6-54-9 (40909) न प्राजानन्त योधाः स्वान्परस्परजिघांसया । घोरमासीत्ततो युद्धं भीमस्य सहसा परैः ॥ 6-54-10 (40910) यथेन्द्रस्य महाराज महत्या दैत्यसेनया। तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत ॥ 6-54-11 (40911) बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः। अन्योन्यं स्म तदा योधा विकर्षन्तो विशांपते ॥ 6-54-12 (40912) महीं चक्रुश्चितां सर्वां शशलोहितसन्निभाम् । योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया ॥ 6-54-13 (40913) स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः। विमर्दः सुमहानासीदल्पानां बहुभिः सह ॥ 6-54-14 (40914) कलिङ्गैः सह चैदीनां निषादैश्च विशांपते । कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः ॥ 6-54-15 (40915) भीमसेनं परित्यज्य संन्यवर्तनक्त चेदयः। सर्वैः कलिङ्गैरासन्नः सन्निवृत्तेषु चेदिषु ॥ 6-54-16 (40916) स्वबाहुबलमस्थाय अभ्यवर्षन्त पाण्डवम् । न चचाल रथोपस्थाद्भीमसेनो महाबलः ॥ 6-54-17 (40917) शितैरवाकिरद्बाणैः कलिङ्गानां वरूथिनीम् । कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः ॥ 6-54-18 (40918) शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः। ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः ॥ 6-54-19 (40919) योधयामास कालिङ्गं स्वबाहुबलमाश्रितः। शक्रदेवस्तु समरे विसृजन्सायकान्बहून् ॥ 6-54-20 (40920) अश्वाञ्जघान समरे भीमसेनस्य सायकैः। तं दृष्ट्वा विरथं तत्र भीमसेनमरिन्दमम् ॥ 6-54-21 (40921) शक्रदेवोऽभिदुद्राव शरैरवकिरञ्सितैः। भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः ॥ 6-54-22 (40922) ववर्ष शरवर्षाणि तपान्ते जलदो यथा। हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः ॥ 6-54-23 (40923) शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्। स तया निहतो राजन्कालिङ्गतनयो रथात् ॥ 6-54-24 (40924) विरथः सह सूतेन जगाम धरणीतलम्। कहतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः ॥ 6-54-25 (40925) रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः । `अयुतेन गजानां च निषादैः परिवारितः।' ततो भीमो महावेगां त्यक्त्वा गुर्वी महागदां ॥ 6-54-26 (40926) निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दारुणम् । चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ ॥ 6-54-27 (40927) नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् । कालिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य च ॥ 6-54-28 (40928) प्रगृह्य च शरं घोरमेकं सर्पविषोपमम्। प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥ 6-54-29 (40929) तमापतन्तं वेगेन प्रेरितं निशितं शरम्। भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ॥ 6-54-30 (40930) उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् । कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे ॥ 6-54-31 (40931) तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्। तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः ॥ 6-54-32 (40932) चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना। नित्यत्य तु रणे भीमस्तोमरान्वै चतुर्दश ॥ 6-54-33 (40933) भानुमन्तं ततो भीमः प्राद्रवत्पुरुषर्षभः । भानुमांस्तु ततो भीमं शरवर्षेण च्छादयन् ॥ 6-54-34 (40934) ननाद बलवन्नादं नादयानो नभस्तलम्। न च तं ममृषे भीमः सिंहनादं महाहवे॥ 6-54-35 (40935) ततः शब्देन महता विननाद महास्वनः। तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी ॥ 6-54-36 (40936) न भीमं समरे मेने मानुषं भरतर्षभ । ततो भीमो महाबाहुर्नर्दित्वा विपुलं स्वनम् ॥ 6-54-37 (40937) सासिर्वेगवदाप्लुत्य दन्ताभ्यां वारणोत्तमम् । आरुरोह ततो मध्यं नागराजस्य मारिष ॥ 6-54-38 (40938) ततो मुमोच कालिङ्गः शक्तिं तामकरोद्द्वीधा । खङ्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥ 6-54-39 (40939) सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः। गुरुभारसहे स्कन्धे नागस्यासिमपातयत् ॥ 6-54-40 (40940) छिन्नस्कन्धः स विनदन्पपात गजयूथपः। आरुगणः सिन्धुवेगन सानुमानिव पर्वतः ॥ 6-54-41 (40941) ततस्तस्मादप्लुत्य गजाद्भारत भारतः। खङ्गपाणिरदीनात्मा तस्थौ भूमौ सुदंशितः ॥ 6-54-42 (40942) स चचार बहून्मार्गानभितः पातयन्गजान् । अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥ 6-54-43 (40943) अश्वबृन्देषु नागेषु रथानीकेषु चाभिभूः । पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः। 6-54-44 (40944) श्येनवद्व्यचरद्भीमो रणेऽरिषु बलोत्कटः। छिन्दंस्तेषाकं शरीराणि शिरांसि च महाबलः ॥ 6-54-45 (40945) खङघ्गेकन शितधारेण संयुगे गजयोधिनाम्। पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः॥ 6-54-46 (40946) संमाहयामास स तान्कालान्तकयमोपमः। मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् ॥ 6-54-47 (40947) सासिमुत्तमवेगेन विचरन्तं महारणे। निकृत्य रथिनां चाजौ रथेषाश्च युगानि च ॥ 6-54-48 (40948) जघान रथिनश्चापि बलवान्रिपुमर्दनः। भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत॥ 6-54-49 (40949) भ्रान्तमाविद्धमुद्भ्रान्तमाप्लुतं प्रसृतं प्लुतम् । संपातं समुदीर्णं च दर्शयामास पाण्डवः ॥ 6-54-50 (40950) केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना। विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥ 6-54-51 (40951) छइन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथाऽपरे । वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः । 6-54-52 (40952) निपेतुरुर्व्यां च तथा विनदन्तो महारवान्। छिन्नांश्च तोमरान्राजन्महामात्रशिरांसि च ॥ 6-54-53 (40953) परिस्तोमान्विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः। ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा ॥ 6-54-54 (40954) तूणीरानथ यन्त्राणि धनूंषि च। भिन्दिपालानि शुभ्राणि तोत्राणि चाङ्कुशैः सह ॥ 6-54-55 (40955) घण्टाश्च विविधा राजन्हेमगर्भान्त्सरूनपि । पततः पातितांश्चैव पश्यामः सह सादिभिः ॥ 6-54-56 (40956) छिन्नगात्रावरकरैर्निहतैश्चाप वारणैः ॥ आसीद्भूमिःक समास्तीर्णा पतितैर्भूधरैरिव ॥ 6-54-57 (40957) विमृद्यैवं महानागान्ममर्दाश्वान्महाबलः । अश्वारोहवरांश्चैव पातयामास संयुगे ॥ 6-54-58 (40958) तद्धोरमभवद्युद्धं तस्य तेषां च भारत। खलीनान्यथ योक्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥ 6-54-59 (40959) परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः। कवचान्यथ चर्माणि चित्राण्यास्तरणानि च ॥ 6-54-60 (40960) तत्रतत्रापविद्धआनि व्यदृश्यन्त महाहवे। प्रासैर्यन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा ॥ 6-54-61 (40961) स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव । आप्लुत्य रथिनः काश्चित्परामृश्य महाबलः ॥ 6-54-62 (40962) पातयामास खङ्गेन सध्वजानपि पाण्डवः। मुहुरुत्पततो दिक्षु धावतश्च यशस्विनःक ॥ 6-54-63 (40963) मार्गांश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः । स जघान पदा कांश्चिद्व्याक्षिप्यान्यानपोथयत् ॥ 6-54-64 (40964) खह्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्। ऊरुवेगेन चाप्यन्यान्पातयामास भूतले ॥ 6-54-65 (40965) अपरे चैनमालोक्य भयात्पञ्चत्वमागताः। एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् ॥ 6-54-66 (40966) परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्। ततः कालिङ्गयैन्यानां प्रमुखे भरतर्षभ ॥ 6-54-67 (40967) श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्। तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः । 6-54-68 (40968) भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे । कलिङ्गबाणाभिहतस्तोत्रार्दित इव द्विपः ॥ 6-54-69 (40969) भीमसेनः प्रजज्वाल क्रोदेनाग्निरिवैधितः। अथाशोकः समादाय रथं हेमपरिष्कृतम् ॥ 6-54-70 (40970) भीमं संपादयामास रथेन रथसारथिः। तामरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः ॥ 6-54-71 (40971) कलिङ्गमभिदुद्राव तिष्ठितिष्ठेति चाब्रवीत् । ततः श्रुतायुर्बलावान्भीमाय निशिताञ्शरान् ॥ 6-54-72 (40972) प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम्। स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः ॥ 6-54-73 (40973) समाहतो महाराज कलिङ्गेन महात्मना । संचुक्रुशे भृशं भीमो दण्डाहत इवोरगः ॥ 6-54-74 (40974) क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः। कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥ 6-54-75 (40975) क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ । सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥ 6-54-76 (40976) ततः पुनमेयात्मा नासचैर्निशितैस्त्रिभिः । केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥ 6-54-77 (40977) ततः कलिङ्गाः सन्नद्धा भीमसेनममर्षणम् । अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥ 6-54-78 (40978) ततः शक्तिगदाखङ्गतोमरर्ष्टिपरश्वथैः । कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥ 6-54-79 (40979) संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्। गदामादाय तरसा संनिपत्य महाबलः ॥ 6-54-80 (40980) भीमः सप्तशतान्वीराननयद्यमसादनम् । पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः ॥ 6-54-81 (40981) प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्। एवं स तान्यनीकानि कलिङ्गानां पुनःपुनः ॥ 6-54-82 (40982) बिभेद समरे तूर्णं प्रेक्ष्य भीष्मं महारथम् । हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे ॥ 6-54-83 (40983) विप्रजग्मुरनीकेषु मेघा वातहता इव। मृद्गन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥ 6-54-84 (40984) ततो भीमो महाबाहुः खङ्गहस्तो महाभुजःक । संप्रहृष्टो महाघोषं शङ्खं प्राध्मापयद्बली ॥ 6-54-85 (40985) सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् । मोहश्चापि कलिङ्गानामाविवेश परंतप ॥ 6-54-86 (40986) प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः । भीमेन समरे राजन्गजेन्द्रेणेव सर्वशः ॥ 6-54-87 (40987) मार्गान्बहून्विचरता धावता च ततस्ततः। मुहुरुत्पतता चैव संमोहः समपद्यत॥ 6-54-88 (40988) भीमसेनभयत्रस्तं सैन्यं च समकम्पत। क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः ॥ 6-54-89 (40989) त्रासितेषु च सर्वेषु भीमेनाद्भुतकर्मणा । पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ॥ 6-54-90 (40990) सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः । अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥ 6-54-91 (40991) सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः। भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥ 6-54-93aधर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः। महता मेघवर्णेन नागानीकेन पृष्ठतः॥ 6-54-92 (40992) एवं संनोद्य सर्वामि स्वान्यनीकानि पार्षतः। भीमसेनस्य जग्राह पार्ष्णि सत्पुरुषैर्वृतः ॥ 6-54-94 (40993) न हि पञ्चालराजस्य लोके कश्चन विद्यते। भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥ 6-54-95 (40994) सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः । भीमसेनं महाबाहुं पार्षतः परवीरहा ॥ 6-54-96 (40995) ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः। शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥ 6-54-97 (40996) स च पारावताश्वस्य रथे हेमपरिष्कृते। कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् । 6-54-98 (40997) धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ॥ भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥ 6-54-99 (40998) तौ दूरात्सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ । कलिङ्गान्समरे वीरौ योधयेतां मनस्विनौ । 6-54-100 (40999) स तत्र गत्वा शैनेयो जवेन जयतां वरः। पार्थपार्षतयोः पार्षिं जग्राह पुरुषर्षभः ॥ 6-54-101 (41000) स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः । आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत ॥ 6-54-102 (41001) कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्। रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥ 6-54-103 (41002) अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्। तां संततार दुस्तारां भीमसेनो महाबलः ॥ 6-54-104 (41003) भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप। कालोऽयं भीमरूपेण कलिङ्गैः कसह युध्यते ॥ 6-54-105 (41004) ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे। अभ्ययात्त्वरितो भीमं व्यूढानीकः समंततः ॥ 6-54-106 (41005) तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः । अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ 6-54-107 (41006) परिवार्य तु ते सर्वे गाङ्गेयं तरसा रणे। त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्च्छुरोजसा ॥ 6-54-108 (41007) प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव । यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥ 6-54-109 (41008) ततः शरसहस्रेण सन्निवार्य महारथान् । हयान्काञ्चनसन्नाहान्भीमस्य न्यहनच्छरैः ॥ 6-54-110 (41009) हताश्वे स रथे तिष्ठन्भीमसेनः प्रतापवान् । शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥ 6-54-111 (41010) अप्राप्तामथ तां शक्तिं पिता देवव्रतस्तव । त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥ 6-54-112 (41011) ततः शैक्यायसीं गुर्वी प्रगृह्य बलवान्गदाम् । भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ ॥ 6-54-113 (41012) सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया । गाङ्गेयसारथिं तूर्णं पातयामास सायकैः ॥ 6-54-114 (41013) भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः । वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥ 6-54-115 (41014) भीमसेनस्ततो राजन्नपयाते महाव्रते । प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥ 6-54-116 (41015) स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत। नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥ 6-54-117 (41016) धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः। पश्यतां सर्वसैन्यानामपोवाहक यशस्विनम् ॥ 6-54-118 (41017) संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ । धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥ 6-54-119 (41018) अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः । प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥ 6-54-120 (41019) दिष्ट्या कालिङ्गराजश्च राजपुत्रश्च केतुमान । शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥ 6-54-121 (41020) स्वबाहुबलवीर्येण नागाश्वरथसंकुलः । महापुरुषभूयिष्ठो धीरयोधनिषेवितः ॥ 6-54-122 (41021) महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया । एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दम। रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥ 6-54-123 (41022) ततः स्वरथमास्थाय पुनरेव महारथः । तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥ ॥ 6-54-124 (41023) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे चतुःपञ्चाशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-54-34 भानुमन्तं कलिङ्गात्मजम् ॥ 6-54-40 अन्तरायुधिनं गजारूढयोधम् ॥ 6-54-43 आविद्धं भ्रामितम् ॥ 6-54-47 कालान्तकयमोपमः प्रलयकालीननाशकयमतुल्यः ॥ 6-54-53 महामात्रो हस्तिपकः ॥ 6-54-54 कणपान् मुद्गरान् ॥ 6-54-57 गात्रावरैर्गात्रैः पूर्वकायैः अवररधःकायैः ॥ 6-54-59 खलीनानि अश्वास्यनिवेश्यनि अडिआलीती प्रसिद्धानि। कक्ष्या गजमध्यबन्धनम् ॥ 6-54-70 अशोको विशोकः ॥ 6-54-108 आनर्च्छुः आच्छादितवन्तः ॥ 6-54-115 वातायमानैः इतस्ततो धावद्भिः ॥
भीष्मपर्व - अध्याय 055

॥ श्रीः ॥

6.55. अध्यायः 055

Mahabharata - Bhishma Parva - Chapter Topics

अर्जुनयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-55-0 (41024) सञ्जय उवाच। 6-55-0x (4121) ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि भारत। रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥ 6-55-1 (41025) द्रोणपुत्रेण शल्येन कृपेण च महात्मना । समसज्जत पाञ्चाल्यस्त्रिभिरैतैर्महारथैः ॥ 6-55-2 (41026) स लोकविदितानश्वान्निजघान महाबलः । द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥ 6-55-3 (41027) ततः शल्यरथं तूर्णमास्थाय हतवाहनः । द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥ 6-55-4 (41028) धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत। सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ॥ 6-55-5 (41029) स शल्यं प़ञ्चविंशत्या कृपं च नवभिः शरैः । अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः ॥ 6-55-6 (41030) आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा। शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥ 6-55-7 (41031) लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् । अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥ 6-55-8 (41032) दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा । विव्याध समरे राजंस्तदद्भुतमिवाभवत् ॥ 6-55-9 (41033) अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ । शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत ॥ 6-55-10 (41034) लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा। मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः ॥ 6-55-11 (41035) तद्विहाय धनुश्छिन्नं सौभद्रं परवीरहा। अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥ 6-55-12 (41036) तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ । अन्योन्यं विशिस्वैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥ 6-55-13 (41037) ततो दुर्योधनो राज दृष्ट्वा पुत्रं महारथम्। पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः ॥ 6-55-14 (41038) सन्निवृत्ते तव सुते सर्व एव जनाधिपाः । आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ॥ 6-55-15 (41039) स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः । न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः ॥ 6-55-16 (41040) सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः । अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम् ॥ 6-55-17 (41041) ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः । अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥ 6-55-18 (41042) उद्वूतं सहसा भौमं नागाश्वरथपत्तिभिः । दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत ॥ 6-55-19 (41043) तानि नागसहस्राणि भूमिपालशतानि च। तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥ 6-55-20 (41044) प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः। कुरूणां चानयस्तीव्रः समदृश्यत दारुणः ॥ 6-55-21 (41045) नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः । प्रजज्ञे भरतश्रेष्ठ सस्त्रसङ्घैः किरीटिनः ॥ 6-55-22 (41046) सादिता रथनागाश्च हताश्वा रथिनो रणे। विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥ 6-55-23 (41047) विरथा रथिनश्चान्ये धावमानाः समन्ततः । तत्रतत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥ 6-55-24 (41048) हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः । अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥ 6-55-25 (41049) रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः । पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः ॥ 6-55-26 (41050) सगदानुद्यतान्बाहून्सखङ्गांश्च विशांपते । सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥ 6-55-27 (41051) साङ्कुशाकन्सपताकांश्च तत्रतत्रार्जुनो नृणाम् । निचकर्त शरैरुग्रै रौद्रं वपुरधारयत् ॥ 6-55-28 (41052) परिघाणां प्रदीप्तानां मुद्गराणां च मारिष । प्रासानां भिन्दिपालानां निस्त्रिशानां च संयुगे ॥ 6-55-29 (41053) परश्वथानां पीक्ष्णानां तोमराणां च भारत। वर्मणां चापविद्धानां काञ्चनानां च भूमिप ॥ 6-55-30 (41054) ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः । छत्राणां हेमदण्डानां तोमराणां च भारत ॥ 6-55-31 (41055) प्रतोदानां च योक्राणां कशानां चैव मारिष । राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥ 6-55-32 (41056) नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत । योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन ॥ 6-55-33 (41057) यो यो हि समरे पार्थं प्रत्युद्याति विशांपते। स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते ॥ 6-55-34 (41058) तेषु विद्रवमाणेषु तव योधेषु सर्वशः। अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥ 6-55-35 (41059) तत्पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव। अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥ 6-55-36 (41060) एष पाण्डुसुतो वीर कृष्णेन सहितो बली । तथा करोति सैन्यानि यथा कुर्याद्धऩञ्जयः ॥ 6-55-37 (41061) न ह्येष समरे शक्यो विजेतुं हि कथंचन । यथास्य दृश्यते रूप कालान्तकयमोपमम् ॥ 6-55-38 (41062) न निवर्तयितुं चापि शक्येयं महती चमूः । अन्योन्यप्रेया पश्य द्रवतीयं वरूथिनी ॥ 6-55-39 (41063) एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते। चक्षूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥ 6-55-40 (41064) तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ । श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन ॥ 6-55-41 (41065) एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् । अवहारमथो चक्रे तावकानां महारथः ॥ 6-55-42 (41066) `ततः सरथनागाश्वा जंय प्राप्य समोपकाः। पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः ॥ 6-55-43 (41067) प्रययुः शिबिरायैव धनञ्जयपुरस्कृताः। वादित्रघोषैः संहृष्टा प्रणद्यन्तो महारथाः ॥' 6-55-44 (41068) ततोऽवहारः सैन्यानां तव तेषां च भारत। अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ॥ ॥ 6-55-45 (41069) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे प़ञ्चपञ्चाशोऽध्यायः ॥ ॥ इति द्वितीयदिवसयुद्धम् ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-55-8 तव पौत्रमवस्थितं इति कo घo पुस्तकपाठः ॥ 6-55-37 यथा कुर्याद्धनंजयः । धनञ्जयोऽग्निः ॥ 6-55-43 नरोति वतमानै ॥
भीष्मपर्व - अध्याय 056

॥ श्रीः ॥

6.56. अध्यायः 056

Mahabharata - Bhishma Parva - Chapter Topics

उभयपक्षयोर्व्यूहरचना ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-56-0 (41070) सञ्जय उवाच। 6-56-0x (4122) प्रभातायां च शर्वर्यां भीष्मः शान्तनस्तदा। अनीकान्यनुसंयाने व्यादिदेशाय भारत ॥ 6-56-1 (41071) गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा। पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः । 6-56-2 (41072) गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव। चक्षुषी च भरज्वाजः कृतवर्मा च सात्वतः ॥ 6-56-3 (41073) अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ । त्रैगर्त्तैरथ कैकेयैर्वाटधानैश्च संयुगे ॥ 6-56-4 (41074) भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष । मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये ॥ 6-56-5 (41075) जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः । पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः ॥ 6-56-6 (41076) विन्दानुविन्दावावन्त्यौ काम्भोजश्च शकैः सह। पच्छमासन्महाराज शूरसेनाश्च सर्वशः ॥ 6-56-7 (41077) मागधाश्च कलिङ्गाश्च दासेरकगणैः सह । दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ॥ 6-56-8 (41078) काकरुशा विकुञ्चाश्च मुण्डाः कुण्डीवृषास्तथा। बृहद्वलेन सहिता वामं पार्श्वमवस्थिताः ॥ 6-56-9 (41079) व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः। धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ॥ 6-56-10 (41080) अर्धचन्द्रेण व्यूहेन व्यूहन्तमतिदारुणम् । दक्षिणं शृङ्गमास्वय भिमसेनो व्यरोचत ॥ 6-56-11 (41081) नानासंस्त्रौपसंषत्रैर्नानादेश्यैर्नृपैर्वृतः । तदन्येव विराटश्च द्रुपदश्च महारथः ॥ 6-56-12 (41082) तदनन्तरमेवासीन्नीलो नीलायुधैः सह । नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः ॥ 6-56-13 (41083) चेदिकाशिकरूपेश्च पौरवैरपि संवृतः। धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः ॥ 6-56-14 (41084) मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत। तत्रैव धर्मराजोऽपि गजानीकेन संवृतः । 6-56-15 (41085) ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः । अभिमन्युस्ततः शूर इरावांश्च ततः परम् ॥ 6-56-16 (41086) भैमसेनिस्ततो राजन्केकयाश्च महारथाः । एते सर्वे महाराज वामं पार्श्वमुपाश्रिताः ॥ 6-56-17 (41087) सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः। `तत्रानुरथिनां श्रेष्ठो वामश्रृङ्गे व्यवस्थितः।' एवमेतं महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः ॥ 6-56-18 (41088) वधार्थं तव पुत्रामां तत्पक्षे ये च सङ्गताः । ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ॥ 6-56-19 (41089) तावकानां परेषां च निघ्नतामितरेतरम् । हयौघाश्च रथौघाश्व तत्र तत्र विशांपते ॥ 6-56-20 (41090) संपतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम् । धावतां च रथोघानां निघ्नतां च पृथक् पृथक् ॥ 6-56-21 (41091) बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः । दिवस्पृङ्वरवीराणां निघ्नतामितरेतरम् । संप्रहारे सुतुमुले तव तेषां च भारत ॥ ॥ 6-56-22 (41092) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे षट्पञ्चाशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-56-17 ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमपाश्रितः इति खo पाठः ॥
भीष्मपर्व - अध्याय 057

॥ श्रीः ॥

6.57. अध्यायः 057

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-57-0 (41093) सञ्जय उवाच। 6-57-0x (4123) ततो व्यूढेष्वनीकेषु तावकेषु परेषु च। धनञ्जयो रथानीकमवधीत्तव भारत ॥ 6-57-1 (41094) शरैरथिरथो युद्धे दारयन्रथयूथपान् । ते वध्यमानाः पार्थेन कालेनेव युगक्षये ॥ 6-57-2 (41095) धार्तराष्ट्रा रणे यत्नात्पाण्डवान्प्रत्ययोधयन् । प्रार्थयाना यशो दीप्तां मृत्युं कृत्वा निवर्तनम् ॥ 6-57-3 (41096) एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् । बभञ्जुर्बहुशो राजंस्ते चासञ्जन्त संयुगे ॥ 6-57-4 (41097) द्रवद्भिरथभग्नैश्च परिवर्तद्भिरेव च। पाण्डवैः कौरवेयैश्च न प्राज्ञायत किंचन ॥ 6-57-5 (41098) उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्। न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः ॥ 6-57-6 (41099) अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे। अवर्तत तदा युद्धं तत्र तत्र विशांपते ॥ 6-57-7 (41100) न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन । रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे ॥ 6-57-8 (41101) तथैव पाण्डवानां च रक्षितः सव्यसाचिना। नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ॥ 6-57-9 (41102) सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः । उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥ 6-57-10 (41103) हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे। ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे ॥ 6-57-11 (41104) रथी रथिनमासाद्य शरैः कनकभूषणैःक । पातयामास समरे तस्मिन्नतिभयंकरे ॥ 6-57-12 (41105) गजारोहा गजारोहान्नाराचशरतोमरैः । संसक्तान्पातयामासुस्तव तेषां च सर्वशः ॥ 6-57-13 (41106) कश्चिदुत्पत्य समरे वस्वारणमास्थितः । केशपक्षे परामृश्य जहार समरे शिरः ॥ 6-57-14 (41107) अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे। वेमुश्च रुधिरं वीरा निःश्वसन्तः समन्ततः ॥ 6-57-15 (41108) कश्चित्करिविषाणस्थो वीरो रणविशारदाः । प्रावेपच्छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना ॥ 6-57-16 (41109) पत्तिमङ्घा रणे पक्तीन्भिमन्दिपालपरश्वथैः । न्यतापतयन्त संहृष्टाः परस्परकृतागसः ॥ 6-57-17 (41110) रथी च समरे राजन्नासाद्य गजयूथपम् । स गजं पातयामास गजी च रथिनां वरम् ॥ 6-57-18 (41111) रथिनं च हयारोहः प्रासेन भरतर्षभ । पातयामास समरे रथी च हयसादिनम् ॥ 6-57-19 (41112) पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् । न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥ 6-57-20 (41113) गजारोहा हयारोहान्पातयांचक्रिरे तदा। हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥ 6-57-21 (41114) गजारोहवरैश्चापि तत्रतत्र पदातयः। पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥ 6-57-22 (41115) पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः । पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ 6-57-23 (41116) ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा। प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥ 6-57-24 (41117) शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि। निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥ 6-57-25 (41118) परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः । भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥ 6-57-26 (41119) नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे । अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ 6-57-27 (41120) प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः । दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर ॥ 6-57-28 (41121) उत्थितान्यगणेयानि कबन्धानि समन्ततः। चिह्नभूतानि जगतो विनाशार्थाय भारत ॥ 6-57-29 (41122) तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे । प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥ 6-57-30 (41123) ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः । पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः ॥ 6-57-31 (41124) एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः। पाण्डवानामनीकानि बभञ्जुःस्म पुनःपुनः ॥ 6-57-32 (41125) तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः । सात्यकिश्चेकितानश्च द्रोपदेयाश्च भारत॥ 6-57-33 (41126) तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः । द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥ 6-57-34 (41127) तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः । रक्तोक्षिता घोररूपा विरेर्जुर्दानवा इव ॥ 6-57-35 (41128) विनिर्जित्य रिपून्वीरा सेकनयोरुभयोरपि। व्यदृस्यन्त महामात्रा ग्रहा इव नभस्तले ॥ 6-57-36 (41129) ततो रथसहस्रेण पुत्रो दुर्योधनस्तव । अभ्ययात्पाण्डवं युद्धे राक्षसं च घटोत्कचम् ॥ 6-57-38aतथैव पाण्डवाः सर्वे महत्या सेनया सह । द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिन्दमौ ॥ 6-57-37 (41130) किरीटी च ययौ क्रुद्धः समन्तात्पार्थिवोत्तमान् । आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥ 6-57-39 (41131) ततः प्रववृते भूयः संग्रामो रोमहर्षणः । तावकानां परेषां च समरे विजयैषिणाम् ॥ ॥ 6-57-40 (41132) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे सप्तपञ्चशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-57-3 मृत्युरेव निवर्तनहेतुर्नान्य इत्यर्थः ॥ 6-57-7 अनुमानेन ध्वजादिचिह्नेन। संज्ञाभि संकेतैश्च ॥ 6-57-26 परिकस्तोमैश्चित्रकम्बलैः । कुथाभिस्तैरेव क्षुद्रैः । कम्बलै राङ्कवैः । महाधनैर्महामूल्यैः ॥ 6-57-36 महामात्राः प्रधानाः ॥
भीष्मपर्व - अध्याय 058

॥ श्रीः ॥

6.58. अध्यायः 058

Mahabharata - Bhishma Parva - Chapter Topics

अर्जुनादियुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-58-0 (41133) सञ्जय उवाच। 6-58-0x (4124) ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे। रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ॥ 6-58-1 (41134) अथैनं रथबृन्देन कोष्ठकीकृत्य भारत। शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ॥ 6-58-2 (41135) शक्तीश्च विमलाकस्तीक्ष्णा गदाश्च परिघैः सह । प्रासान्परश्वथांश्चैव मुद्गरान्मुसलानपि ॥ 6-58-3 (41136) चिक्षिषुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति। शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् ॥ 6-58-4 (41137) रुरोध सर्वतः पार्थः शरैः कनकभूषणैः । तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् ॥ 6-58-5 (41138) देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । साधुसाध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ॥ 6-58-6 (41139) सात्यकिश्चाभिमन्युश्च महत्या सेकनया वृतौ । गान्धारान्समरे शूराञ्जग्मतुः सहसौबलान् ॥ 6-58-7 (41140) तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् । तिशलश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ॥ 6-58-8 (41141) सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे । अभिमन्यो रथं तूर्णमारुरोह परंतपः ॥ 6-58-9 (41142) तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् । व्यधमेतां शितैस्तूर्णं शरैःक सन्नतपर्वभिः ॥ 6-58-10 (41143) द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् । नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥ 6-58-11 (41144) ततो धर्मसुतोक राजा माद्रीपुत्रौ च पाण्डवौ । मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ॥ 6-58-12 (41145) तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् । यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ॥ 6-58-13 (41146) कुर्वाणौ सुमहत्कर्म भीमसेनघटोत्कचौ। दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत् ॥ 6-58-14 (41147) तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्। अतीत्य पीतरं युद्धे यदयुध्यत भारत ॥ 6-58-15 (41148) भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम्। हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ॥ 6-58-16 (41149) ततो दुर्योधननो राजा प्रहारवरपीडितः। निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ 6-58-17 (41150) तं विसंज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः । अपोवाह रणाद्राजंस्ततः सैन्यमभज्यत ॥ 6-58-18 (41151) ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः। निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ॥ 6-58-19 (41152) पार्षतश्च रथश्रोष्ठो धर्मपुत्रश्च पाण्डवः। द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ॥ 6-58-20 (41153) जघ्नतुर्विशिकैस्तीक्ष्णैः परानीकविनाशनैः । द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे ॥ 6-58-21 (41154) नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ । वार्यमाणं च भीष्मेण द्रोणेन च महात्मना ॥ 6-58-22 (41155) विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः। ततो रथसहस्रेषु विद्रवत्सु ततस्ततःक ॥ 6-58-23 (41156) तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ । सौबलीं समरे सेनां शातयेतां समन्ततः ॥ 6-58-24 (41157) शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ। अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ॥ 6-58-25 (41158) अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशांपते । ववर्ष शरवर्षेण धाराभिरिव तोयदः ॥ 6-58-26 (41159) वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे। दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ॥ 6-58-27 (41160) द्रवतस्तान्समालक्ष्य भीष्मद्रोणौ महारथौ । न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ॥ 6-58-28 (41161) ततो दुर्योधनो राजा समाश्वस्य विशांपते । न्यवर्तयत तत्सैन्यं द्रवमाणां समन्ततः ॥ 6-58-29 (41162) यत्र यत्र हि पुत्रं ते ये ये पश्यन्ति भारत। तत्र तत्र न्यवर्तन्त क्षत्रियाणां महरथाः ॥ 6-58-30 (41163) तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः। अन्योन्यस्पर्धया राजँल्लज्जया चावतस्थिरे ॥ 6-58-31 (41164) पुनरावर्ततां तेषां वेग आसीद्विशांपते। पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ॥ 6-58-32 (41165) अन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः। अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः ॥ 6-58-33 (41166) पितामह निबोधेदं यत्त्वां वक्ष्यामि भारत। नानुरूपमहं मन्ये त्वयि जीवति कौरव ॥ 6-58-34 (41167) द्रोणो चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृञ्जने। कृपे चैव महेष्वासे द्रवते यद्वरूथिनी ॥ 6-58-35 (41168) न पाण्डवान्प्रतिलांस्तव मन्ये कथंचन । तथा द्रोणस्य सङ्ग्रमे द्रौमेश्चैव कृपस्य च ॥ 6-58-36 (41169) अनुग्राह्याः पाण्डुसुतास्तव नूनं पितामह । यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ॥ 6-58-38aसोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे। न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी ॥ 6-58-37 (41170) श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च। कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ॥ 6-58-39 (41171) यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे । विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥ 6-58-40 (41172) एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः । अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ॥ 6-58-41 (41173) बहुशोऽसि मया राजंस्तथ्यमुक्तो हितं वचः। अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ॥ 6-58-42 (41174) यत्तु शक्यं मया कर्तुं वृद्धेनाद्य गतायुषा। करिष्यामि यथाशक्ति पश्येदानीं सबान्धवः ॥ 6-58-43 (41175) अद्य पाण्डुसुतानेकः ससैन्यान्सह बन्धुभिः । सोऽहं निवारयिष्यामि सर्वलोकस्य पश्यतः ॥ 6-58-44 (41176) एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर । दध्मुः शङ्खान्मुदा युक्ता भेरीः संजघ्निरे भृशम् ॥ 6-58-45 (41177) पाण्डवा हि ततो राजञ्श्रुत्वा तं निनदं महत्। दध्मुः शङ्खांश्च भेरीश्च मुरजांश्चाप्यनादयन् ॥ ॥ 6-58-46 (41178) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे अष्टपञ्चाशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-58-2 कोष्ठकीकृत्य वेष्टयित्वा ॥ 6-58-39 चिन्तयानः अभविष्यमिति शेषः ॥
भीष्मपर्व - अध्याय 059

॥ श्रीः ॥

6.59. अध्यायः 059

Mahabharata - Bhishma Parva - Chapter Topics

स्वप्रतिज्ञां विहाय गृहीतचक्रेम कृष्णेन पादचारेम भीष्मं हन्तुमभियानम् ॥ 1 ॥ अर्जुनेन कृष्णस्य प्रतिनिवर्तनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-59-0 (41179) धृतराष्ट्र उवाच। 6-59-0x (4125) प्रतिज्ञाते ततस्तस्मिन्युद्धे भीष्मेण दारुणे। क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ॥ 6-59-1 (41180) भीष्मः किमकरोत्तत्र पाण्डवेयेषु भारत। पितामहे वा पञ्चालास्तन्ममाचक्ष्व सञ्जय ॥ 6-59-2 (41181) स़ञ्जय उवाच। 6-59-3x (4126) गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत। पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे ॥ 6-59-3 (41182) जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्ससु। सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ॥ 6-59-4 (41183) अभ्ययाञ्जवनैरश्वैः पाण्डवानामनीकिनीम् । महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ॥ 6-59-5 (41184) प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम् । अस्माकं पाण्डवैः सार्धमनायात्तव भारत ॥ 6-59-6 (41185) घनुषां कूजतां तत्र तलानां चाभिहन्यताम्। महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ॥ 6-59-7 (41186) तिष्ठ स्थितोऽस्मि विद्ध्यैनं निवर्तस्व स्थिरो भव। स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः ॥ 6-59-8 (41187) काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च। शिलानामिव शैलेषु पतितानामभूद्ध्वनिः ॥ 6-59-9 (41188) पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः । व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ॥ 6-59-10 (41189) हृतोत्तमाह्गाः केचित्तु तथैवोद्यतकार्मुकाः। प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाःक ॥ 6-59-11 (41190) प्रावर्तत महावेगा नदी रुधिरवाहिनी । मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा ॥ 6-59-12 (41191) वरश्वनरनागानां शरीरप्रभवा तदा। परलोकार्णवमुखी गृध्रगोमायुमोदिनी ॥ 6-59-13 (41192) न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप। यथा तव सुतानां च पाण्डवानां च भारत ॥ 6-59-14 (41193) नासीद्रथपथस्तत्र यौधैर्युधि निपातितैः । गजैश्च पतितैर्नीलैर्गिरिश्रृङ्गैनिरवावृतः ॥ 6-59-15 (41194) विकीर्णैः कवचैश्चित्रैः शिरस्त्रणैश्च मारिष । शुशुभे तद्राणस्थानं शरदीव नभस्तलम् ॥ 6-59-16 (41195) विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः । अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः ॥ 6-59-17 (41196) तात भ्रातः सखे बन्धो वयस्य मम मातुल । मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ॥ 6-59-18 (41197) अथाभ्येहि त्वमागच्छ किं भीतोसि क्व यास्यसि। स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ॥ 6-59-19 (41198) तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः । मुमीच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ 6-59-20 (41199) शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः । जघान पाण्डवरथानादिश्य भारतर्षभ ॥ 6-59-21 (41200) स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् । अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ॥ 6-59-22 (41201) तमेकं समरे शूरं पाण्डवाः सृञ्जयैः सह। अनेकशतसाहस्रं समपश्यन्त लाघवात् ॥ 6-59-23 (41202) मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे । पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ॥ 6-59-24 (41203) उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो। एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत ॥ 6-59-25 (41204) न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् । विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ॥ 6-59-26 (41205) कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् । व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु ॥ 6-59-27 (41206) अमानुषेण रूपेण चरन्तं पितरं तव। शलभा इव राजानः पतन्ति विधिचोदिताः ॥ 6-59-28 (41207) भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः । न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ॥ 6-59-29 (41208) नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः । भिनत्त्येकेन बाणेन सुमुखेन पतत्रिणा ॥ 6-59-30 (41209) गजं कंकटसन्नद्धं वज्रेणेव शिलोच्चयम् । द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ॥ 6-59-31 (41210) नाराचेन सुमुक्तेन निजघान पिता तव। यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ॥ 6-59-32 (41211) मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते। एवं सा धर्मराजस्य वध्यमाना महाचमूः ॥ 6-59-33 (41212) भीष्मेणातुलवीर्येण व्यशीर्यत संहस्रधा। प्राकम्पत महासेना शरवर्षेण तापिता ॥ 6-59-34 (41213) पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः। यतमानाऽपि ते वीरा द्रवमाणान्महारथान् ॥ 6-59-35 (41214) नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान्। महेन्द्रसमवीर्येण वध्यमाना महाचमूः ॥ 6-59-36 (41215) अभज्यत महाराज न च द्वौ सह धावतः। आविद्धरनागाश्वं पतितध्वजकूबरम् ॥ 6-59-37 (41216) अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्। जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ॥ 6-59-38 (41217) प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः । 6-59-39bविमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः ॥ 6-59-39 (41218) विनुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत। तद्गोकुलमिवोद्धान्तमुद्धान्तरथयूथपम् ॥ 6-59-40 (41219) ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा। प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ॥ 6-59-41 (41220) उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्। असं स कालः संप्राप्तः पार्थ पस्तेऽभिकाङ्क्षितः ॥ 6-59-42 (41221) प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे। यत्त्वया कथितं वीर पुरा राज्ञां समागमे । 6-59-43 (41222) भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्। सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥ 6-59-44 (41223) इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम । बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः ॥ 6-59-45 (41224) द्रवतश्च महीपालान्पश्य यौधिष्ठिरे बले। दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम् ॥ 6-59-46 (41225) भयार्ताः प्रपलायन्ते सिंहात्क्षुद्रमृगा इव। एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः ॥ 6-59-47 (41226) नोदयाश्वान्यतो भीष्मो विगाहे तद्वलार्णवम् । पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥ 6-59-48 (41227) सञ्जय उवाच। 6-59-49x (4127) ततोऽश्वान्रजतप्रकख्यान्नोदयामास माधवः। यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ॥ 6-59-49 (41228) ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्। दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे॥ 6-59-50 (41229) ततो भीष्मःक कुरुश्रेष्ठ सिंहवद्विनदन्मुहुः । धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ॥ 6-59-51 (41230) क्षणेन स रथस्तस्य सहयः कसहसारथिः । शरवर्षेण महता संछन्नो न प्रकाशते ॥ 6-59-52 (41231) वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् । चोदयामास तानश्वान्विभिन्नान्भीष्मसायकैः ॥ 6-59-53 (41232) ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् । पातयामास भीष्मस्य धनुश्छित्वा त्रिभिः शरैः ॥ 6-59-54 (41233) स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः । निमिषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ 6-59-55 (41234) विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् । अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥ 6-59-56 (41235) तस्य तत्पूजयामास लाघवं शन्तनोः सुतः। साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ॥ 6-59-57 (41236) त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय । प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह ॥ 6-59-58 (41237) इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः । मुमोच समरे वीरः शरान्पार्थरथं प्रति॥ 6-59-59 (41238) अदर्शयद्वासुदेवो हययाने परं बलम् । मोघान्कुर्वञ्शरांस्तस्य मण्डलान्व्यचरल्लुघु ॥ 6-59-60 (41239) तथा भीष्मस्तु सुदृढं वासुदेवधनंजयौ। विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत ॥ 6-59-61 (41240) शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ । गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्क्तितौ ॥ 6-59-62 (41241) पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः । कृष्णयोर्युधि संरब्धो भीष्माः प्राच्छादयद्दिशः । `पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः ॥' 6-59-63 (41242) वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः । मुहुरभ्यर्दयन्भीष्मः प्रहस्य स्वनवत्तदा ॥ 6-59-64 (41243) ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम्। संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ॥ 6-59-65 (41244) भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि । प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ॥ 6-59-66 (41245) वारन्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्। युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥ 6-59-67 (41246) अमृष्यमाणो भगवान्केशवः परवीरहा। अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ॥ 6-59-68 (41247) एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान्। किं नु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ॥ 6-59-69 (41248) द्रवते च महासैन्यं पाण्डवस्य महात्मनः । एते च कौरवास्तूर्णं प्रभग्नान्वीक्ष्य सोमकान् ॥ 6-59-70 (41249) प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम् । सोहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ॥ 6-59-71 (41250) भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् । अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे ॥ 6-59-72 (41251) कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्। तथा चिन्तयतस्तस्य भूय एव पितामहः । प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति ॥ 6-59-73 (41252) तेषां बहुत्वासु भृसं शराणां दिशश्च सर्वाः पिहिता बभूवुः । न चान्तरिक्षं न दिशो न भूमि- र्न भास्करोऽदृश्यत रश्मिमालीक ॥ 6-59-74 (41253) ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः। द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च ॥ 6-59-75 (41254) श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च। प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च॥ 6-59-76 (41255) किरीटिनं त्वरमाणाभिस्रु- र्निदेशगाः शान्तनवस्य राज्ञः। तं वाजिपादातरथौघजालै- रनेकसाहस्रशतैर्ददर्श ॥ 6-59-77 (41256) किरीटिनं संपरिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च। ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात् ॥ 6-59-78 (41257) अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम्। स तान्यनीकानि महाधनुष्मान् शिनिप्रवीरः सहसाऽभिपत्य ॥ 6-59-79 (41258) चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य। विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम् ॥ 6-59-80 (41259) युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच संदृश्य शिनिप्रवीरः । क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः ॥ 6-59-81 (41260) मा स्वां प्रतिज्ञां त्यजत प्रवीराः स्वं वीरधर्मं परिपालयध्वम्। तान्वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान्द्रवतः समन्तात् ॥ 6-59-82 (41261) पार्थस्य दृष्टवा मृदुयुद्धातां च भीष्मं च सङ्ख्ये समुदीर्यमाणम्। अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता ॥ 6-59-83 (41262) उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततः समग्रान्। ये यान्ति ते यान्तु शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु ॥ 6-59-84 (41263) भीष्मं रथात्पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाऽद्य। न सारथेः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ॥ 6-59-85 (41264) तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य। निहत्य भीष्मं सगणं तथाजौ द्रोणं च शैनेय रथप्रवीरौ ॥ 6-59-86 (41265) प्रीतिं करिष्यामि धनंजयस्य राज्ञश्च भीमस्य तथाऽश्विनोश्च। निहत्य सर्वान्धृतराष्ट्रपुत्रां- स्तत्पक्षिणो ये च नरेन्द्रमुख्याः । राज्येन राजानमजातशत्रुं संपादयिष्याम्यहमद्य हृष्टः ॥ 6-59-87 (41266) ` इतीदमुक्त्वा स महानुभावः सस्मार चक्रं निशितं पुराणम्। सुदर्शनं चिन्तितमात्रमेव तस्याग्रहस्तं स्वयमारुरोह ॥ 6-59-88 (41267) तच्चक्रपद्मं प्रगृहीतमाजौ रराज नारायणबाहुनालम्। यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातमक् ॥ 6-59-89 (41268) तत्कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्। तेस्यैव देहोरुसरःप्ररूढं रराज नारायणबाहुनालम् ॥' 6-59-90 (41269) ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभं वज्रसमप्रभावम् । क्षुरान्तमुद्यम्य भुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान्। संकम्पयन्गां चरणैर्महात्मा वेगेन कृष्मः प्रससार भीष्मम् ॥ 6-59-91 (41270) मदान्धमाजौ समुदीर्णदर्पं सिंहो जिघांसन्निव वारणेन्द्रम्। सोऽभिद्रवन्भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी । व्यालम्बिपीताम्बरधृक्ककाशे घनो यथा खे तडितावनद्धः ॥ 6-59-92 (41271) तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य । सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिव चिन्तयित्वा ॥ 6-59-93 (41272) स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव सर्वलोकम्। अभ्युत्पतँल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः ॥ 6-59-94 (41273) तमाद्रवन्तं प्रगृहीतचक्रं दृष्ट्वा देवं शान्तनवस्तदानीम्। असंभ्रमं तद्विचकर्ष दोर्भ्यां महाधनुर्गामडिवतुल्यघोषम्। उवाच भीष्मस्तमनन्तपौरुषं गोविन्दमाजावविमूढचेताः ॥ 6-59-95 (41274) एह्येहि देवेश जगन्निवास नमोस्तु ते माधव चक्रपाणे। प्रसह्य मां पातय लोकनाथ रथोत्तमात्सर्वशरण्य सङ्ख्ये ॥ 6-59-96 (41275) त्वया हतस्यापि ममाऽद्य कृष्ण श्रेयः परिस्मिन्निह चैव लोके। संभावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात् ॥ 6-59-97 (41276) रथादवप्लुत्य ततस्त्वरावान् पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्। जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः ॥ 6-59-98 (41277) निगृह्यमणाश्च तदाऽऽदिदेवो भृश सरोषः किल नाम योगी । आदाय वेगेन जगाम विष्णु- र्जिष्णुं महावात इवैकवृक्षम् ॥ 6-59-99 (41278) पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम्। बलान्निजग्राह हरिं किरीटी पदेऽथ राजन्दशमे कथंचित् ॥ 6-59-100 (41279) अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली। उवाच कोपे प्रतिसंहरेति गतिर्भवान्केशव पाण्डवानाम् ॥ 6-59-101 (41280) न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च । अन्तं करिष्यामि यथा कुरूणां त्वयाऽहमिन्द्रानुजसंप्रयुक्तः ॥ 6-59-102 (41281) ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य। स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह ॥ 6-59-103 (41282) `ततः प्रतिज्ञां समवाप्य भीष्मः कृताञ्चलिः स्तुत्यमथाकरोद्वै । त्रैविक्रमे यस्य वपुर्बभासे तथैव दृष्ट्वा तु समुञ्ज्वलन्तम् ॥ 6-59-104 (41283) प्रगृह्य शङ्खं द्विषताकं निहन्ता स तानभूषून्पुनराददानः । भीष्मं शरैः संपरिवार्य सङ्ख्ये चिच्छेद भूरिश्रवसश्च चापम् ॥ 6-59-105 (41284) शल्यं च विद्ध्वा नवभिः पृषत्कै- र्दुर्योधं वक्षसि निर्बिभेद।' विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः ॥ 6-59-106 (41285) व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपद्मनेत्रम् । विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ॥ 6-59-107 (41286) मृदङ्गभेरीपणवप्रणादा नेमिस्वना दुन्दुभिनिःस्वनाश्च। ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम् ॥ 6-59-108 (41287) गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च। जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः ॥ 6-59-109 (41288) तं कौरवाणामधिपो जवेन भीष्मेण भूरिश्रवसा च सार्धम्। अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः ॥ 6-59-110 (41289) अथार्जुनाय प्रजिघाय भल्लान् भूरिश्रवाः सप्त सुवर्णपुङ्खान्। दुर्योदनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम् ॥ 6-59-111 (41290) स सप्तभिः सप्त शरप्रवेकान् संवार्य भीरिश्रवसा विसृष्टान् । शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ ॥ 6-59-112 (41291) ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शान्तनवेन मुक्ताम्। गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचर्त वीरः ॥ 6-59-113 (41292) ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् । माहेन्द्रमस्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे ॥ 6-59-114 (41293) तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान्। शरौघजालैर्विमलाग्निवर्णै- र्निवारयामास किरीटमाली ॥ 6-59-115 (41294) शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् । निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम् । 6-59-116 (41295) ततो दिशः सोऽनुदिशश्च पार्थः शरैः सुधारैः समरे वितत्य । गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयांचकार ॥ 6-59-117 (41296) तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिःस्वनाश्च। अन्तर्हिता गाण्डिवनिःस्वनेन बभूवुरुग्राश्वरथप्रणादाः ॥ 6-59-118 (41297) गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखाः प्रवीराः। पाञ्चालराजो द्रुपदश्च वीर- स्तं देशमाजग्मुरदीनसत्त्वाः ॥ 6-59-119 (41298) सर्वाणि सैन्यानि तु तावकानि यतोयतो गाण्डिवजः प्रणादः । ततस्ततः सन्नतिमेव जग्मु- र्न तं प्रतीपोऽभिससार कश्चित् ॥ 6-59-120 (41299) तस्मिन्सुघोरे कनृप संप्रहारे हताः प्रवीराः सरथाश्वसूताः। गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः ॥ 6-59-121 (41300) परीतसत्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः । दृढं हताः पात्रिभिरुग्रवेगैः पार्थेन भल्लैर्विमलैः शिताग्नैः ॥ 6-59-122 (41301) निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनिमुखेषु। पदातिसङ्घाश्च रथाश्च सङ्ख्ये हयाश्च नागाश्च धनञ्जयेन ॥ 6-59-123 (41302) बाणाहतास्तूर्णमपेतसत्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् । ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः ॥ 6-59-124 (41303) ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा। नदी सुघोरा नरमेदफेना प्रवर्तिता तत्र रणाजिरे वै ॥ 6-59-125 (41304) वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधाः। नरेन्द्रमञ्जोच्छ्रितमांसपङ्काः प्रभूतरक्षोगणभूतसेविता ॥ 6-59-126 (41305) शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्रवाहिनी । विशीर्णनानाकवचोर्मिसंकुला नराश्वनागास्थिनिकृत्तशर्करा ॥ 6-59-127 (41306) श्वकङ्कशालावृकगृध्रकाकैः क्रव्यादसङ्घैश्च तरक्षुभिश्च। उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम् ॥ 6-59-128 (41307) प्रवर्तितामर्जुनबाणसङ्घै- र्मेदोवसासृकप्रवहां सुभीमाम्। हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फल्गुनेन ॥ 6-59-129 (41308) ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः । जयप्रगल्भाःक पुरुषप्रवीराः संत्रासयन्तः कुरुवीरयोधान् ॥ 6-59-130 (41309) हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन । वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान् ॥ 6-59-131 (41310) विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च। ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ॥ 6-59-132 (41311) तदैन्द्रमस्त्रं विततं च घोर- मसह्यमुद्वीक्ष्य युगान्तकल्पम् । अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च॥ 6-59-133 (41312) चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम्। अवापय कीर्ति च यशश्च लोके विजित्य शत्रूंश्च धनंजयोऽपि ॥ 6-59-134 (41313) ययौ नरेन्द्रैः सहसोदरैश्च समाप्तकर्मा शिबिरं निशायाम्। ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः ॥ 6-59-135 (41314) रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन । प्राज्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च ॥ 6-59-136 (41315) महत्कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः। श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ ॥ 6-59-137 (41316) द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन्। अन्ये च योधाः शतशः समेताः क्रुद्धेन पार्थेन रणस्य मध्ये॥ 6-59-138 (41317) स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन। इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः ॥ 6-59-139 (41318) उल्कासहस्रैश्च सुसंप्रदीप्तै- र्विभ्राजमानैश्च तथा प्रदीप्रैः। किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम् ॥ ॥ 6-59-140 (41319) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे एकोनषष्टितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-59-31 पिण्डितान् एकस्थान्। वर्मितान् कवचिनः ॥ 6-59-39 आक्रन्दे युद्धे ॥ 6-59-83समुदीर्यमाणं वर्धमानप्रयत्नम् ॥ 6-59-87 अश्विनोरश्विपुत्रयोर्नकुलसहदेवयोः ॥ 6-59-111 प्रजिघाय प्रेषयामास ॥ 6-59-112 शरप्रवेकान् बाणश्रेष्ठान् ॥
भीष्मपर्व - अध्याय 060

॥ श्रीः ॥

6.60. अध्यायः 060

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मार्जुनयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-60-0 (41320) सञ्जय उवाच। 6-60-0x (4128) व्युष्टां निशां भारत भारताना- मनीकिनीनां प्रमुखे महात्मा। ययौ सपत्नान्प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः ॥ 6-60-1 (41321) तं द्रोणदुर्योधनबाह्लिकाश्च तथैव दुर्मर्षणचित्रसेनौ। जयद्रथश्चातिबलो बलौघै- र्नृपास्तथान्ये प्रययुः समन्तात् ॥ 6-60-2 (41322) स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन्। रराज राजा स तु राजमुख्यै- र्वृतः सदेवैरिव वज्रपाणिः ॥ 6-60-3 (41323) तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः । सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः ॥ 6-60-4 (41324) सा वाहिनी शान्तनवेन गुप्ता महारथैर्वारणवाजिभिश्च। बभौ सविद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा ॥ 6-60-5 (41325) ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता। सेनामहोग्ना सहसा कुरूणां वेगो यथा भीम इवापगायाः ॥ 6-60-6 (41326) तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम्। व्यूहं महामेघसमं महात्मा ददर्श दूरात्कपिराजकेतुः ॥ 6-60-7 (41327) विनिर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन काले। ` जये धृतः शत्रुवरूथिनीनां यथा सुरेन्द्रोऽसुरवाहिनीनाम् ॥ 6-60-8 (41328) नारायणेनेन्द्र इवाभिगुप्तः शशीव सूर्येण समेयिवान्यथा । तथा महात्मा सह केशवेन वरीथिनीनां प्रमुखे रराज '॥ 6-60-9 (41329) सोपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण सङ्ख्ये। कपिध्वजं प्रेक्ष्य रथं विषेदुः सहैव पुत्रैस्तव कौरवेयाः ॥ 6-60-10 (41330) प्रकल्पितं गुप्तमुदायुधेन किरीटिना लोकमहारथेन । तं व्यूहराजं ददृशुस्त्वदीया- श्चतुश्चतुर्व्यालसहस्रकीर्णम् ॥ 6-60-11 (41331) यथैव पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवसत्तमेन। यथा न भूतो भुवि मानुषेषु न दृष्टपूर्वो न च संश्रुतश्च ॥ 6-60-12 (41332) ततो यथादेशमुपेत्य तस्थुः पाञ्चालमुख्याः सह चेदिमुख्यैः। ततः समादेशसमाहतानि भेरीसहस्राणि विनेदुराजौ ॥ 6-60-13 (41333) शङ्खस्वनास्तूर्यरवाः प्रणेदुः सर्वेष्वनीकेषु ससिंहनादाः। ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः ॥ 6-60-14 (41334) क्षणेन भेरीपणवप्रणादा- नन्तर्दधुः शङ्खमहास्वनांश्च। तच्छङ्खशब्दावृतमन्तरिक्ष- मुद्धूतभौमद्रुतरेणुजालम् ॥ 6-60-15 (41335) महानुभावाश्च ततः प्रकाश- नालोक्य वीराः सहसाऽभिपेतुः । रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः ॥ 6-60-16 (41336) गजो गजेनाभिहताः पपात पदातिना चाभिहतः पदातिः। आवर्तमानान्यभिवर्तमानै- र्घोरीकृतान्यद्भुतदर्शनानि ॥ 6-60-17 (41337) प्रासैश्च खङ्गैश्च समाहतानि सदश्वबृन्दानि सदश्वबृन्दैः। सुवर्णतारागणभूषितानि सूर्यप्रभाभानि शरावराणि ॥ 6-60-18 (41338) विदार्यमाणानि परश्वथैश्च प्रासैश्च स्वङ्गैश्च निपेतुरुर्व्याम्। गजैर्विषणापरगात्ररुग्णाः केचित्ससूता रथिनः प्रपेतुः ॥ 6-60-19 (41339) गजर्षभाश्चापि जगर्षभेण निपातिता बाणहताः पृथिव्याम्। गजौघवेगोद्धतसादितानां श्रुत्वा विषेदुः सहसा मनुष्याः ॥ 6-60-20 (41340) आर्तस्वनं सादिपदातियूनां विषाणगात्रावरताडितानाम् । संभ्रान्तनागाश्वरथे मुहूर्ते महाक्षये सादिपदातियूनाम् ॥ 6-60-21 (41341) महारथैः संपरिवार्यमाणं संदृश्य दूरात्कपिराजकेतुम् । तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगाद्भुतवीर्ययानः॥ 6-60-22 (41342) महास्त्रबाणाशनिदीप्तमन्तं किरीटिनं शान्तनवोऽभ्यधावत्। तथैव शक्रप्रतिमप्रभाव- मिन्द्रात्मजं द्रोणमुखा विसस्नुः ॥ 6-60-23 (41343) कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन्। ततो रथानां प्रमुखादुपेत्य सर्वास्त्रिवित्काञ्चनचित्रवर्मा ॥ 6-60-24 (41344) जवेन शूरोऽभिससार सर्वां- स्तानर्जुनस्यात्मभवोऽभिमन्युः। तेषां महास्त्राणि महारथाना- मसह्यकर्मा विनिहत्य कार्ष्णिः ॥ 6-60-25 (41345) बभौ महामन्त्रहुतार्चिमाली सदोगतः सन्भगवानिवाग्निः । ततः स तूर्णं रुधिरोदफेनां कृत्वा नदीमाशु रणे रिपूणाम् ॥ 6-60-26 (41346) जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्वः । ततः प्रहस्याद्भुतविक्रमेण गाण्डीवमुक्तेन शिलाशितेन ॥ 6-60-27 (41347) विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली। तमुत्तमं सर्वधनुर्धराणा- मसक्तकर्मा कपिराजकेतुः ॥ 6-60-28 (41348) भीष्मं महात्माऽभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः। तथैव भीष्माहतमन्तरिक्षे महास्त्रजालं कपिराजकेतोः ॥ 6-60-29 (41349) विशीर्यमाणं ददृशुस्त्वदीया दिवाकरेणेव तमोभिभूतम्। एवंविधं कार्मुकभीमनाद- मदीनवत्सत्पुरुषोत्तमाभ्याम्। ददर्श लोकः कुरुसृंजयाश्च 6-60-30 (41350) 6-60-30f" तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ॥ ॥ इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे षष्टितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-60-1 व्युष्टां प्रभाताम् ॥ 6-60-7 व्यालो व्यूहविशेषस्तेन नानाविधं गूढसारं च ॥ 6-60-9 सोत्तरबन्धुरेषं उत्तरेणाच्छादनेन बन्धुरा रम्या ईषा तत्सहितम् ॥ 6-60-18 शरावराणि कवचानि ॥
भीष्मपर्व - अध्याय 061

॥ श्रीः ॥

6.61. अध्यायः 061

Mahabharata - Bhishma Parva - Chapter Topics

धृष्टद्युन्मेन शलपुत्रवधः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-61-0 (41351) सञ्जय उवाच। 6-61-0x (4129) द्रौणिर्भूरिश्रवाः शत्यश्चित्रसेनश्च मारिषः। पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन् ॥ 6-61-1 (41352) संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः। पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥ 6-61-2 (41353) नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे । बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥ 6-61-3 (41354) तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम्। दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत् ॥ 6-61-4 (41355) पीडयानं तु तत्सैन्यं पौत्रं तव विशांपते। दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥ 6-61-5 (41356) ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् । प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥ 6-61-6 (41357) तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् । व्यदृश्यत महच्चापं समरे युध्यतः परैः । 6-61-7 (41358) स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः । ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः ॥ 6-61-8 (41359) रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन । शितेनोरगसंकाशां पत्रिणाभिजघान ताम् ॥ 6-61-9 (41360) शल्यस्य च महावेगानस्यतः समरे शरान्। `धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः' जघानार्जुनदायादश्चतुर्भिश्चतुरो हयान् ॥ 6-61-10 (41361) भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः। नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात् ॥ 6-61-11 (41362) ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः । पञ्चविंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥ 6-61-12 (41363) धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि। सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥ 6-61-13 (41364) तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ । ददर्श राजन्पाञ्चल्यः सेनापतिररिन्दम ॥ 6-61-14 (41365) स वारणरथोघानां सहस्रैर्बहुभिर्वृतः। वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥ 6-61-15 (41366) `पारावताश्वः स रथमास्थाय परवीरहा' धनुर्विष्फार्य संक्रुद्धो नोदयित्वा च वाहिनीम् । ययौ तं मद्रकानीकं केकयांश्च परंतप ॥ 6-61-16 (41367) तेन कीर्तिमता गुप्तमनीकं दृढधन्वना। संरब्धरथनागाश्वं योत्स्यमानमशोभत ॥ 6-61-17 (41368) सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः । त्रिभिः शारद्वतं बाणैर्जत्रदेशे समार्पयत् ॥ 6-61-18 (41369) ततः स मद्रकान्हत्वा दशैव दशभिः शरैः । पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः ॥ 6-61-19 (41370) दमनं चापि दायादं पौरवस्य महात्मनः । जघान विमलाग्नेण नाराचेन परंतपः ॥ 6-61-20 (41371) ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् । अविध्यत्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥ 6-61-21 (41372) सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्। भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥ 6-61-22 (41373) अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत् । अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥ 6-61-23 (41374) स हताश्वे रते तिष्ठन्ददर्श भरतर्षभ । पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥ 6-61-24 (41375) स प्रगृह्य महाघोरं निस्त्रिंशवरमायसम् । पदातिस्तूर्णमानर्च्छद्रथस्यं पुरुषर्षभः ॥ 6-61-25 (41376) तं महौघमिवायान्तं स्वात्पतन्तमिवोरगम् । भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥ 6-61-26 (41377) दीप्यमानमिवादित्यं मत्तवारणविक्रमम् । अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥ 6-61-27 (41378) तस्य पाञ्चालदायादः प्रतीपमभिधावतः। शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥ 6-61-28 (41379) बाणवेगमतीतस्य तथाभ्याशमुपेयुषः । त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥ 6-61-29 (41380) तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् । हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥ 6-61-30 (41381) तं निहत्य गदाग्रेण स लेभे परमां मुदम्। पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥ 6-61-31 (41382) तस्मिन्हते महेष्वासे शल्यपुत्रे महारथे । हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥ 6-61-32 (41383) ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतामात्मजम् । अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥ 6-61-33 (41384) तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ । ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥ 6-61-34 (41385) ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा। आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम् ॥ 6-61-35 (41386) तथैव पार्षतं शूरं शल्यः समितिशोभनः। आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥ ॥ 6-61-36 (41387) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे एकषष्टितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-61-1 सांयमनेः शलस्य पुत्रः ॥
भीष्मपर्व - अध्याय 062

॥ श्रीः ॥

6.62. अध्यायः 062

Mahabharata - Bhishma Parva - Chapter Topics

भीमसेनादियुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-62-0 (41388) धृतराष्ट्र उवाच। 6-62-0x (4130) दैवमेव परं मन्ये पौरुषादपि सञ्जय। यत्सैन्यं मम पुत्रस्य पाण्डुपुत्रेण वध्यते ॥ 6-62-1 (41389) नित्यं हि मामकांस्तात हतानेव हि शंससि। अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंशसि पाण्डवान् ॥ 6-62-2 (41390) `विभग्नांश्च प्रनष्टांश्च नित्यं शंससि मामकान्।' हीनान्पुरुषकारेण मामकानद्य सञ्जय । पातितान्पात्यमानांश्च हतानेव च शंससि ॥ 6-62-3 (41391) युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति। पाण्डवा हि जयन्त्येव जीयन्ते चैव मामकाः ॥ 6-62-4 (41392) सोऽहं तीव्राणि दुःस्वानि दुर्योधनकृतानि च। श्रोष्यामि सततं तात दुःसहानि बहूनि च ॥ 6-62-5 (41393) तमुपायं न पश्यामि जीयेरन्येन पाण्डवान् । मामका विजयं युद्धे प्राप्नुयुर्येन सञ्जय ॥ 6-62-6 (41394) सञ्जय उवाच। 6-62-7x (4131) क्षयं मनुष्यदेहानां गजवाजिरथक्षयम्। श्रृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ॥ 6-62-7 (41395) धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः। पीडयामास संक्रुद्धो मद्राधिपतिमायसैःक ॥ 6-62-8 (41396) तत्राद्भुतमपश्याम पार्षस्य पराक्रमम् । न्यवारयत यस्तूर्णं शल्यं समितिशोभनम् ॥ 6-62-9 (41397) नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा। मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ॥ 6-62-10 (41398) ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे। धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥ 6-62-11 (41399) अथैनं शरवर्षेण च्छादयामास संयुगे। गिरिं जलागमे यद्वञ्जलदा जलवृष्टिभिः ॥ 6-62-12 (41400) अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने च पीडिते । अभिदुद्राव वेगेन मद्रराजरथं प्रति ॥ 6-62-13 (41401) ततो मद्राधिपस्थं कार्ष्णिः प्राप्यातिकोपनः । आर्तायनिममेयात्मा विव्याध निशितैः शरैः ॥ 6-62-14 (41402) ततस्तु तावका राजन्परीप्सन्तोऽर्जुनं रणे। मद्रराजरथं तूर्णं परिवार्यावतस्थिरे॥ 6-62-15 (41403) दुर्योधनो विकर्णश्च दुःशासनविविंशती। दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः ॥ 6-62-16 (41404) सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत। एते मद्राधिपरथं पालयन्तः स्थिता रणे ॥ 6-62-17 (41405) तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः । द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ॥ 6-62-18 (41406) धार्तराष्ट्रान्दश रथान्दशैव प्रत्यवारयन् । नानारूपाणि शस्त्राणि विसृजन्तो विशांपते ॥ 6-62-19 (41407) अभ्यवर्तन्तं संहृष्टाः परस्परवधैषिणः। ते वै समेयुः संग्रामे राजन्दुर्मन्त्रिते तव ॥ 6-62-20 (41408) तस्मिन्दशरथे क्रुद्धे वर्तमाने महाभये। तावकानां परेषां वा प्रेक्षका रथिनोऽभवन् ॥ 6-62-21 (41409) शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः। अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे ॥ 6-62-22 (41410) ते तदा जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः । अन्योन्यमभिमर्दन्तः स्पर्धमानाः परस्परम् ॥ 6-62-23 (41411) अन्योन्यस्पर्धया राजञ्ज्ञातयः संगता मिथः । महास्राणि विमुञ्चन्तः समापेतुरमर्षिणः ॥ 6-62-24 (41412) दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे । विव्याध निशितैर्बाणैश्चतुर्भिः समरे द्रुतम् ॥ 6-62-25 (41413) दुर्मर्षणश्च विंशत्या चित्रसेनश्च प़ञ्चभिः । दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ॥ 6-62-26 (41414) विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा। तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः ॥ 6-62-27 (41415) एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् । सत्यव्रतं च समरे पुरुमित्रं च भारत ॥ 6-62-28 (41416) अभिमन्युरविध्यत्तु दशभिर्दशभिः शरैः। माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ ॥ 6-62-29 (41417) अविध्येतां शरैस्तीक्ष्णैस्तदद्भुतमिवाभवत्। ततः शल्यो महाराज स्वस्त्रीयौ रथिनां वरौ ॥ 6-62-30 (41418) शरैर्बहुभिरानर्च्छत्कृतप्रतिकृतैषिणौ । छाद्यमानौ ततस्तौ कतु माद्रीपुत्रौ न चेलतुः ॥ 6-62-31 (41419) अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः । विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥ 6-62-32 (41420) तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम्। भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ॥ 6-62-33 (41421) दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत्। अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥ 6-62-34 (41422) गजानीकेन सहितस्तेन राजा सुयोधनाः । मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥ 6-62-35 (41423) आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः । गदापाणिरवारोहद्रथांत्सिंह इवोन्नदन् ॥ 6-62-36 (41424) अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम्। अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥ 6-62-37 (41425) स गजान्गदया निघ्नन्व्यचरत्समरे बली। भीमसेनो महाबाहुः सवज्र इव वासवः ॥ 6-62-38 (41426) तस्य नादेन महता मनोहृदयकम्पिना । व्यत्यचेष्टन्त संहत्य गजा भिमस्य गर्जतः ॥ 6-62-39 (41427) ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः। नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-62-40 (41428) पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान्। अभ्यवर्षन्त धावन्तो मेघा इव गिरिव्रजान् ॥ 6-62-41 (41429) नाकुलिस्तु शतानीकः समरे शत्रुपूगहा । क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैश्चाञ्जलिकैः शितैः। न्यहनच्चोत्तमाङ्गानि पाण्डवो गजयोधिनाम् ॥ 6-62-42 (41430) शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः । अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ॥ 6-62-43 (41431) हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः। अदृश्यन्ताचलाग्रेकषु द्रुमा भग्नशिखा इव ॥ 6-62-44 (41432) धृष्टद्युम्नहतानन्यानपश्याम महागजान्। पततः पात्यमानांश्च पार्षतेन महात्मना ॥ 6-62-45 (41433) मागधोऽथ महीपालो गजमैरावणोपमम्। प्रेषयामास समरे सौभद्रस्य रथं प्रति॥ 6-62-46 (41434) तमापतन्तं संप्रेक्ष्य मागधस्य महागजम् । जघानैकेषुणा वीरःत सौभद्रः परवीरहा ॥ 6-62-47 (41435) तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः। राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः॥ 6-62-48 (41436) विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः। व्यचरत्समरे मृद्गन्गजानिन्द्रो गिरीनिव ॥ 6-62-49 (41437) एकप्रहारनिहतान्भीमसेनेन दन्तिनः। अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ॥ 6-62-50 (41438) भग्नदन्तान्भग्नकरान्भग्नसक्थीश्च वारणान्। भग्नपृष्ठत्रिकानन्यान्निहतान्पर्वतोपमान् ॥ 6-62-51 (41439) नदतः सीदतश्चान्यान्विमुखान्समरे गतान्। विद्रुतान्भयसंविग्नांस्तथा विशकृतोऽपरान् ॥ 6-62-52 (41440) भीमसेनस्य मार्गेषु पतितान्पर्वतोपमान् । अपश्यं निहतान्नागान्राजन्निष्ठीवतोपरान् ॥ 6-62-53 (41441) वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः । विह्नलन्तो गता भूमिं शैला इव धरातले ॥ 6-62-54 (41442) मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः । व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ॥ 6-62-55 (41443) गजानां रुधिरक्लिन्नां गदां बिभ्रद्वृकोदरः । घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकभृत् ॥ 6-62-56 (41444) संमथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः । सहसा प्राद्रवन्क्लिष्ठा मृद्गन्तस्तव वाहिनीम् ॥ 6-62-57 (41445) तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः । पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ॥ 6-62-58 (41446) शोणिताक्तां गदां बिभ्रदुक्षितां गजशोणितैः । कृतान्त इव रोद्रात्मा भीमसेनो व्यदृश्यत ॥ 6-62-59 (41447) व्यायच्छमानं गदया दिक्षु सर्वासु भारत। अपश्याम रणे भीमं नृत्यन्तमिव शङ्करम् ॥ 6-62-60 (41448) यमदण्डोपमां गुर्वीमिन्द्राशनिसमकस्वनाम् । अपश्याम महाराय रौद्रां विशसनीं गदाम् ॥ 6-62-61 (41449) विमिश्रां केशमञ्जाभिः प्रदिग्धां रुधिरेण च। पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ 6-62-62 (41450) यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत्। तथा भीमो गजानीकं गदया समकालयत् ॥ 6-62-63 (41451) गदया वध्यमानास्ते मार्गणैश्च समन्ततः। स्वान्यनीकानि मृद्गन्तः प्राद्रवन्कुञ्जरास्तव ॥ 6-62-64 (41452) महावात इवाभ्राणि विधमित्वा स वारणान्। अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥ ॥ 6-62-65 (41453) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे द्विषष्टितमोऽद्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-62-14 आर्तायनिं ऋतायनपुत्रं शल्यम् ॥
भीष्मपर्व - अध्याय 063

॥ श्रीः ॥

6.63. अध्यायः 063

Mahabharata - Bhishma Parva - Chapter Topics

सात्यकिभूरिश्रवसोः समागमः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-63-0 (41454) सञ्जय उवाच। 6-63-0x (4132) हते तस्मिन्गजानीके पुत्रो दुर्योधनस्तव। भीमसेनं ध्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥ 6-63-1 (41455) ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्। अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥ 6-63-2 (41456) तं बलौघमपर्यन्तं देवैरपि सुदुःसहम् । आपतन्तं सुदुष्पारं समुद्रिमिव पर्वणि ॥ 6-63-3 (41457) रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् । अनन्तरथपादातं रजसा सर्वतो वृतम् ॥ 6-63-4 (41458) तं भीमसेनः समरे महोदधिमिवापरम् । सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥ 6-63-5 (41459) तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः । भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥ 6-63-6 (41460) उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् । असंभ्रमं भीमसेनो गदया समवारयत् ॥ 6-63-7 (41461) स संवार्य बलौघांस्तन्गदया रथिनां वरः। अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥ 6-63-8 (41462) तस्मिन्सुतुमुले घोरे काले परमदारुणे। भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः॥ 6-63-9 (41463) द्रौपदेयाभिमन्युश्च शिखण्डी चापराजितः । न प्राजहन्भीमसेनं भये जाते महाबलम् ॥ 6-63-10 (41464) ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्। अधावत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥ 6-63-11 (41465) पोययन्रथबृन्दानि वाजिबृन्दनि चाभिभूः । कर्षयन्रथवृन्दानि बाहुवेगेन पाण्डवः ॥ 6-63-12 (41466) विनिध्रन्यचतत्सङ्ख्ये युगान्ते कालविद्विभुः । ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः ॥ 6-63-13 (41467) बलानि संममर्दाशु नड्वलानीव कुञ्जरः । मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ॥ 6-63-14 (41468) सादिनश्चाश्वपृष्ठेभ्यो भूमौ वापि पदातिनः । गदया व्यवमत्सर्वान्वातो वृक्षानिवौजसा ॥ 6-63-15 (41469) भीमसेनो महाबाहुस्तव पुत्रस्य वै बले। सापि प्रञ्जानसामासैः प्रदिग्धा रुधिरेण च ॥ 6-63-16 (41470) अदृश्यत महारौद्रा गदा नागाश्वपातनी। तत्रतत्र हतैश्चापि मनुष्यगजवाजिभिः ॥ 6-63-17 (41471) रणाङ्गणं समभवन्मृत्योरावाससन्निभम् । पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ 6-63-18 (41472) यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् । ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥ 6-63-19 (41473) आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः । बभौ रूपं महाघोरं कालस्येव युगक्षये ॥ 6-63-20 (41474) तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः । दृष्ट्वा मृत्युमवायान्तं सर्वे विमनसोऽभवन् ॥ 6-63-21 (41475) यतोयतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः। तेनतेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥ 6-63-22 (41476) प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् । ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥ 6-63-23 (41477) तं तथा भीमकर्माणं प्रगृहीतमहागदम् । दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥ 6-63-24 (41478) महता रथघोषेण रथेनादित्यवर्चसा । छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥ 6-63-25 (41479) तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् । भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ॥ 6-63-26 (41480) तस्मिन्क्षणे सात्यकिः सत्यसन्धः शिनिप्रवीरोऽभ्यपतत्पितामहम्। निघ्नन्नमित्रान्धनुषा दृढेन संकम्पयंस्तव पुत्रस्य सैन्यम् ॥ 6-63-27 (41481) तं यान्तमश्वै रजतप्रकाशैः शरान्वपन्तं निशितान्सुपुङ्खान्। नाशक्नवन्धारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः ॥ 6-63-28 (41482) अविध्यदेनं दशभिः पृषत्कैः- रलम्बुसो राक्षसोऽसौ तदानीम् । शरैश्चतुर्भिः प्रतिविद्ध्य तं च नप्ता शिनेरभ्यपतद्रथेन ॥ 6-63-29 (41483) अन्वागतं वृष्णिवरं निशम्य तं शत्रुमध्ये परिवर्तमानम्। प्रद्रावयन्तं कुरुपुङ्गवांश्च पुनः पुनश्च प्रणदन्तमाजौ ॥ 6-63-30 (41484) योधास्त्वदीयाः शरवर्षैरवर्ष- न्मेघा यथा भूधरमम्बुवेगैः । तथापि तं धारयितुं न शेकु- र्मध्यंदिने सूर्यमिवातपन्तम् ॥ 6-63-31 (41485) न तत्र कश्चिन्नविषण्ण आसी- दृते राजन्सोमदत्तस्य पुत्रात्। स वै समादाय धनुर्महात्मा भिरिश्रवा भारत सौमदत्तिः ॥ 6-63-32 (41486) दृष्ट्वा रथान्स्वान्व्यपनीयमाना- न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥ ॥ 6-63-33 (41487) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे त्रिषष्टितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 064

॥ श्रीः ॥

6.64. अध्यायः 064

Mahabharata - Bhishma Parva - Chapter Topics

भीमेन दुर्योधनानुजाष्टकवधः ॥ 1 ॥ घटोत्कचभयेन कुरुभिः सेनावहारः ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-64-0 (41488) सञ्जय उवाच। 6-64-0x (4133) ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः। प्राविध्यद्भृशसंक्रुद्धस्तोत्रैरिव महाद्विपम् ॥ 6-64-1 (41489) कौरवं सात्यकिश्चैव शरैः सन्नतपर्वभिः। अवारयदमेयात्मा सर्वलोकस्य पश्यतः॥ 6-64-2 (41490) ततो दुर्योधनो राजा सोदर्यैः परिवारितः। सोमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ॥ 6-64-3 (41491) तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे। परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ॥ 6-64-4 (41492) भीमसेनस्तु संक्रुद्धो गजामुद्यम्य भारत । दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ॥ 6-64-5 (41493) रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः । नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ॥ 6-64-6 (41494) विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः । दुर्योधनस्तदा राजन्भीमसेनं महारथम् ॥ 6-64-7 (41495) आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः । ततो भीमो महाबाहुः स्वरथं सुमहाबलः ॥ 6-64-8 (41496) आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् । एते महारथाः शूरा धार्तराष्ट्राः समागताः ॥ 6-64-9 (41497) मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि। मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः ॥ 6-64-10 (41498) सफलः सूत चाद्येह योऽहं पश्यामि सोदरान्। यत्राशोकसमुत्क्षिप्ता रेणवो रथनेमिभिः ॥ 6-64-11 (41499) प्रयास्यन्त्यन्तरिक्षं हि शरबृन्दैर्दिगन्तरे । तत्र तिष्ठति सन्नद्धः स्वयं राजा सुयोधनः ॥ 6-64-12 (41500) भ्रातरश्चास्य सन्नद्धाः कुलपुत्रा मदोत्कटाः । एतानद्य हनिष्यामि पश्यतस्ते न संशयः ॥ 6-64-13 (41501) तस्मान्ममाश्वान्संग्रमे यत्तः संयच्छ सारथे। एवमुक्त्वा ततः पार्थस्तव पुत्रं विशांपते ॥ 6-64-14 (41502) विव्याध निशितैस्तीक्ष्णैः शरैः कनकभूषणैः। नन्दकं च त्रिभिर्भाणैरभ्यविध्यत्स्तनान्तरे ॥ 6-64-15 (41503) तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम्। त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ॥ 6-64-16 (41504) भिमस्य च रणे राजन्धनुश्चिच्छेद भासुरम् । मुष्टिदेशे भृशं तीक्ष्णौस्त्रिभिर्भल्लैर्हसन्निव ॥ 6-64-17 (41505) समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः । पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ॥ 6-64-18 (41506) अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशम् । पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥ 6-64-19 (41507) समादधत्सुसंक्रुद्धः क्षुरप्रं रोमवाहिनम् । तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ॥ 6-64-20 (41508) सोऽपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्च्छितः । अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ॥ 6-64-21 (41509) संदधे विशिखं घोर कालमृत्युसमप्रभम् । तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे ॥ 6-64-22 (41510) स गाढविद्धो व्यथितः स्यान्दनोपस्थ आविशत्। स निषण्णो रथोपस्थे मूर्च्छामभिजगाम ह ॥ 6-64-23 (41511) तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः । नामृष्यन्त महेष्वासाः पाण्डवानां महारथः ॥ 6-64-24 (41512) ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् । पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ॥ 6-64-25 (41513) प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः । दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ 6-64-26 (41514) शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः। रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ॥ 6-64-27 (41515) प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश । सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ॥ 6-64-28 (41516) उद्रो भीमरथो भीमो वीरबाहुरलोलुपः । दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥ 6-64-29 (41517) विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः । भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ॥ 6-64-30 (41518) पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः । सृक्किणी विलिहन्वीरः पशुमध्ये यथा वृकः ॥ 6-64-31 (41519) अभिपत्य महाबाहुर्गरुत्मानिव वेगितः। सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ॥ 6-64-32 (41520) संप्रहस्य च हृष्टात्मा त्रिभिर्बाणैर्महाभुजः । जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् ॥ 6-64-33 (41521) सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे। उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि ॥ 6-64-34 (41522) पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्। वीरबाहुं च सप्तत्या साश्वकेतुं ससारथिम् ॥ 6-64-35 (41523) निनाय समरे वीरः परलोकाय पाण्डवः। भीमं भीमरथं चोभौ भीमसेनो हसन्निव ॥ 6-64-36 (41524) पुत्रौ ते दुर्मदौ राजन्ननयद्यमसादनम् । ततः सुलोचनं भीमः क्षुरप्रेण महामृधे ॥ 6-64-37 (41525) मिषतां सर्वसैन्यानामनयद्यमसादनम्। पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् ॥ 6-64-38 (41526) शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः। विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ॥ 6-64-39 (41527) ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान्। एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ॥ 6-64-40 (41528) यथा प्राग्र्यान्यथा ज्येष्ठान्यथा शूरांश्च संगतान्। निपातयत्युग्रधन्वा तं प्रगृह्णीत माचिरम् ॥ 6-64-41 (41529) एवमुक्त्वा ततः सर्वे धार्तराष्ट्रस्य सैनिकाः। अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् ॥ 6-64-42 (41530) भगदत्तः प्रभिन्नेन कुञ्जरेण विशांपते । अभ्ययात्सहसा तत्रयत्र भीमो व्यवस्थितः ॥ 6-64-43 (41531) आपतन्नेव च रणे भीमसेनं शिलीमुखैः । अदृश्यं समरे चक्रे जीमूत इव भास्करम् ॥ 6-64-44 (41532) अभिमन्युमुखास्तत्तु नामृष्यन्त महारथाः । भीमस्याच्छादनं शङ्ख्ये स्वबाहुबलमाश्रिताः ॥ 6-64-45 (41533) त एनं शरवर्षेण समन्तात्पर्यवारयन् । 6-64-46bगजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः ॥ 6-64-46 (41534) स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः। प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ॥ 6-64-47 (41535) संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे। गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ 6-64-48 (41536) संचोदितो मदस्रावी भगदत्तेन वारणः। अभ्यधावत तन्सर्वान्कालोत्सृष्ट इवान्तकः ॥ 6-64-49 (41537) द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम्। तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः ॥ 6-64-50 (41538) असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन् । ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे ॥ 6-64-51 (41539) आजघान महाराज शरेणानतपर्वणा। सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः । 6-64-52 (41540) मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत्। तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्च्छितम् ॥ 6-64-53 (41541) ननाद बलवन्नादं भगदत्तः प्रतापवान्। ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथाऽऽगतं ॥ 6-64-54 (41542) संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत। स कृत्वा दारुणां मायां भूरूणां भयवर्धिनीम् ॥ 6-64-55 (41543) अदृश्यत निमेषार्धाद्धोररूपं समास्थितः। ऐरावतं समारूढः स वै मायाकृतं स्वयम् ॥ 6-64-56 (41544) तस्य चान्येऽपि दिङ्वागा बभूवुरनुयायिनः। अञ्जनो वमानश्चैव महापद्मश्च सुप्रभः ॥ 6-64-57 (41545) त्रय एते महानागा राक्षसैः समधिष्ठिताः। महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु ॥ 6-64-58 (41546) तेजोवीर्यबलोपेता महाबलपराक्रमाः। घटोत्कचस्तु स्वं नागं चोदयामास तं तदा ॥ 6-64-59 (41547) सगजं भगदत्तं तु हन्तुकामः परंतपः। ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः ॥ 6-64-60 (41548) परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम्। भगदत्तस्य तं नागं विषाणैरभ्यपीडयन् ॥ 6-64-61 (41549) स पीड्यमानस्तैर्नागैर्वेदनार्तः शराहतः। अनदत्सुमहानादमिन्द्राशनिसमस्वनम् ॥ 6-64-62 (41550) `व्यवर्तत महाघोषो भैमसेनिशरार्दितः । मृदित्वा सर्वसैन्यानि तव पुत्रस्य भारत'॥ 6-64-63 (41551) तस्य तं नदतो नादं सुघोरं भीमनिःश्वनम् । श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ॥ 6-64-64 (41552) एष युध्यति संग्रामे हैडिम्बेन दुरात्मना। भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते ॥ 6-64-65 (41553) राक्षसश्च महामायः स च राजाऽतिकोपनः । एतौ समेतौ समरे कालमृत्युसमावुभौ ॥ 6-64-66 (41554) श्रीयते चैव हृष्टानां पाण्डवानां महास्वनः । हस्तिनश्चैव सुमहान्भीतस्य रुदितध्वनिः ॥ 6-64-67 (41555) तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् । अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यति ॥ 6-64-68 (41556) ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे । महान्हि वर्तते रौद्रः संग्रामो रोमहर्षणः ॥ 6-64-69 (41557) भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः। युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत ॥ 6-64-70 (41558) भीष्मस्य तद्वचः श्रुत्वा सर्व एव महारथाः । द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया ॥ 6-64-71 (41559) उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्। तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः ॥ 6-64-72 (41560) पञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान्। तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् ॥ 6-64-73 (41561) ननाद सुमहानादं विस्फोटमशनेरिव । तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः ॥ 6-64-74 (41562) भीष्मः शान्तनवो भूयो भारद्वाजमभाषत । न रोचते मे संग्रामो हैडिम्बेन दुरात्मना ॥ 6-64-75 (41563) बलवीर्यमसाविष्टः ससहायश्च सांप्रतज् । नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् ॥ 6-64-76 (41564) लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः। पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ॥ 6-64-77 (41565) इदानीं युधि निर्जेतुं न शक्योऽसौ स राक्षसः । अस्तमभ्येति सविता रात्रौ योद्धुं कन शक्यते। अवहारमतः कुर्मः श्वो योत्स्यामः परै सह ॥ 6-64-78 (41566) पितामहवचः श्रुत्वा यथा चक्रुःस्म कौरवाः । उपायेनापयानं ते घटोत्कचभयार्दिताः ॥ 6-64-79 (41567) कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः। सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च भारत ॥ 6-64-80 (41568) एवं तदभवद्युद्धं दिवसं भरतर्षभ । पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ॥ 6-64-81 (41569) कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम्। व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥ 6-64-82 (41570) शरविक्षतगात्रास्तु पाण्डपपुत्रा महारथाः। युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति ॥ 6-64-83 (41571) पुरस्कृत्य महाराज भीमसेनघटोत्कचौ। पूजयन्तस्तदान्योन्यं मुदा परमया युताः ॥ 6-64-84 (41572) नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् । सिंहनादांश्च कुर्वन्तो विमिश्राञ्शङ्खनिः स्वनैः ॥ 6-64-85 (41573) विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् । घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष । 6-64-86 (41574) प्रयाताः शिबिरायैव निशाकाले परंतप । दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च ॥ 6-64-87 (41575) मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः। ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि । प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः ॥ ॥ 6-64-88 (41576) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे चतुःषष्टितमोऽध्यायः ॥ ॥ इति चतुर्थदिवसयुद्धं समाप्तम् ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-64-47 सुतेजनैर्बाणैरिति शेषः ॥ 6-64-85 घट्टयन्तः स्पृशन्तः ॥
भीष्मपर्व - अध्याय 065

॥ श्रीः ॥

6.65. अध्यायः 065

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मेण दुर्योधनंप्रति विश्वोपाख्यानकथनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-65-0 (41577) धृतराष्ट्र उवाच। 6-65-0x (4134) भयं मे सुमहञ्जातं विस्मयश्चैव सञ्जय। श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ॥ 6-65-1 (41578) पुत्राणां च पराभावं श्रुत्वा सञ्जय सर्वशः। चिन्ता मे महती सूत भविष्यति कथं त्विति ॥ 6-65-2 (41579) ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम। तथा हि दृश्यते सर्वं दैवयोगेन सञ्जय ॥ 6-65-3 (41580) यत्र भीष्ममुखान्सर्वाञ्शस्त्रज्ञान्योधसत्तमान्। पाण्डवानामनीकेषु योधयन्ति प्रहारिणः ॥ 6-65-4 (41581) केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः । केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ॥ 6-65-5 (41582) येन क्षयं न गच्छन्ति दिवि तारागणा इव। पुनःपुनर्न मृष्यामि हतं सैन्यं तु पाण्डवैः ॥ 6-65-6 (41583) मय्येव दण्डः पतति दैवात्परमदारुणः। यथाऽवध्याः पाण्डुसुता यथा वाध्याश्च मे सुताः ॥ 6-65-7 (41584) एतन्मे सर्वमाचक्ष्व याथातथ्येन सञ्जय । न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन॥ 6-65-8 (41585) समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः । पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् ॥ 6-65-9 (41586) घातयिष्यति मे स्रवान्पुत्रान्भीमो न शंसयः। न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे ॥ 6-65-10 (41587) ध्रुवं विनाशः संप्राप्तः पुत्रामां मम सञ्जय। तस्मान्मे कारणं सूत शक्तिं चैव विशेषतः ॥ 6-65-11 (41588) पृच्छतो वै यथातत्त्वं सर्वमाख्यातुमर्हसि। दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे ॥ 6-65-12 (41589) भीष्मद्रोणौ कृपश्चैव सौबलश्च जयद्रथः । द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ॥ 6-65-13 (41590) निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मानाम् । विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय ॥ 6-65-14 (41591) सञ्जय उवाच। 6-65-15x (4135) श्रृणु राजन्नवहितः श्रुत्वा चैवावधारय। नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम् ॥ 6-65-15 (41592) न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः । युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे ॥ 6-65-16 (41593) धर्मेण सर्वकार्याणि जीवितादीनि भारत। आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः॥ 6-65-17 (41594) न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः । श्रिया परमया युक्ता यतो धर्मस्ततो जयः ॥ 6-65-18 (41595) तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव । तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा ॥ 6-65-19 (41596) निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे। सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वरे ॥ 6-65-20 (41597) निकृतानीह पाण्डूनां नीचैरिव यथा नरैः । सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् ॥ 6-65-21 (41598) धर्ममूलाः सदैवासन्पाण्डवाः पाण्डुपूर्वज। न चैतान्बहुमन्यन्ते पुत्रास्तव विशांपते । 6-65-22 (41599) तस्य पापस्य सततं क्रियमाणस्य कर्मणः। सांप्रतं सुमहद्धोरं फलं प्राप्तं जनेश्वर ॥ 6-65-23 (41600) स त्वं भुङ्क्ष्व महाराज सपुत्रः समुहृञ्जनः। नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः ॥ 6-65-24 (41601) विदुरेणाथ भीष्मेण द्रोणेन न महात्मना। तथा मया चाप्यसकृद्वार्यमाणो न बुध्यसे ॥ 6-65-25 (41602) वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् । पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ॥ 6-65-26 (41603) शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि। कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ॥ 6-65-27 (41604) तत्तेऽहं कथयिष्यामि यथाश्रुतमरिन्दम। दुर्योधनेन संपृष्ट एतमर्थं पितामहः ॥ 6-65-28 (41605) दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितांस्तु महारथान् । शोकसंमूढहृदयो निशाकाले स्म कौरवः ॥ 6-65-29 (41606) पितामहं महाप्राज्ञं विनयोपगम्य ह। यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ॥ 6-65-30 (41607) दुर्योधन उवाच। 6-65-31x (4136) भवान्द्रोणश्च कर्णश्च कृपो द्रौणिस्तथैव च। कृतवर्मा च हार्दिक्यः काम्भोजश्च सुदक्षिणः ॥ 6-65-31 (41608) भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् । महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ 6-65-32 (41609) त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः। पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ॥ 6-65-33 (41610) तत्र मे संशयो जातस्तत्त्वमाचक्ष्व पृच्छतः। यं समाश्रित्य कौन्तेय जयन्त्यस्मान्क्षणेक्षणे ॥ 6-65-34 (41611) भीष्म उवाच। 6-65-35x (4137) शृणु राजन्वचो मह्यं यथा वक्ष्यामि कौरव। बहुशश्च मयोक्तोऽसि न च मे तत्त्वया कृतम् ॥ 6-65-35 (41612) क्रियतां पाण्डवैः सार्ध समो भरतसत्तम। एतत्क्षेममहं मन्ये पृथिव्यास्तव वा विभो ॥ 6-65-36 (41613) भुङ्क्ष्वेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी। दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ॥ 6-65-37 (41614) न च मे क्रोशतस्तात श्रुतवानसि वै पुरा। तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ॥ 6-65-38 (41615) यश्च हेतुरवध्यत्वे तेकषामक्लिष्टकर्मणाम्। तं शृणुष्व महाबाहो मम कीर्तयतः प्रभो ॥ 6-65-39 (41616) नास्ति लोकेषु तद्भूतं भविता नो भविष्यति। यो जयेत्पाण्डवान्सर्वान्पालिताञ्छार्ङ्गधन्वना ॥ 6-65-40 (41617) यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः। पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ॥ 6-65-41 (41618) पुरा किल सुराः सर्वे ऋषयश्च समागताः । पितामहमुपासेदुः पर्वत गन्धमादने ॥ 6-65-42 (41619) तेषां मध्ये समासीनः प्रजापतिरपश्यत । विमानं प्रज्वलद्भासा स्थितं प्रवरमम्बरे ॥ 6-65-43 (41620) ध्यानेनावेद्य तद्ब्रह्मा कृत्वा च नियतोऽञ्जलिम् । नमश्चकार हृष्टात्मा पुरुषं परमेश्वरम् ॥ 6-65-44 (41621) ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् । स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ॥ 6-65-45 (41622) यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः । जगाद जगतः स्रष्टा परं परमधर्मवित् ॥ 6-65-46 (41623) विश्वावसुर्विश्वमूर्तिर्हि विश्वे विष्वक्सेनो विश्वकर्मा वशी च। विश्वेश्वरो वासुदेवोऽसि तस्मा- द्योगात्मानं देवतं त्वामुपैमि ॥ 6-65-47 (41624) जय विश्वमहादेव जय लोकहिते रत। जय योगीश्वर विभो जय योगपरावर ॥ 6-65-48 (41625) पद्मगर्भविशालाक्ष जय लोकेश्वरेश्वर। भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥ 6-65-49 (41626) असङ्क्येयगुणाधार जय सर्वपरायण। नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥ 6-65-50 (41627) जय सर्वगुणोपेत विश्वमूर्ते निरामय। विश्वेश्वर महाबाहो जय लोकार्थतत्पर ॥ 6-65-51 (41628) महोरगवराहाद्य हरिकेश विभो जय। हरिवासदिशामीश विश्ववासामिताव्यय ॥ 6-65-52 (41629) व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सत्त्क्रिय । असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद ॥ 6-65-53 (41630) अनन्त विदित ब्रह्मन्नित्यभूतविभावन । कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह ॥ 6-65-54 (41631) गुह्यात्मन्सर्वयोगात्मन्स्फुटसंभूतसंभव। भूताद्य लोकत्त्वेश जय भूतविभावन ॥ 6-65-55 (41632) आत्मयोगे महाभाग कल्पसंक्षेपतत्पर । उद्भावनमनोभाव जय ब्रह्म जयप्रिय ॥ 6-65-56 (41633) निसर्गसर्गनिरत कामेश परमेश्वर । अमृतोद्भवसद्भाव मुक्तात्मन्विजयप्रद ॥ 6-65-57 (41634) प्रजापतिपते देव पद्मनाभ महाबल। आत्मभूतमहाभूत सत्वात्मञ्जय सर्वदा ॥ 6-65-58 (41635) पादौ तव धा देवी दिशो बाहु दिवं शिरः। मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ॥ 6-65-59 (41636) बलं तपश्च सत्यं च कर्म धर्मात्मकं तव। तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ॥ 6-65-60 (41637) अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती। वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥ 6-65-61 (41638) न सङ्ख्यानं परीमाणं न तेजो न पराक्रमम् । न बलं योगयोगीश जानीमस्ते परंतप ॥ 6-65-62 (41639) त्वद्भक्तिनिरता देव नियमैस्त्वां समाश्रिताः। अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥ 6-65-63 (41640) ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः। पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥ 6-65-64 (41641) एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् । पद्मनाभ विशालाक्ष कृष्ण दुःश्वप्रणाशन ॥ 6-65-65 (41642) त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगद्गुरुः । त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥ 6-65-66 (41643) पृथिवी निर्भया देव त्वत्प्रसादात्सदाऽभवत् । तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥ 6-65-67 (41644) धर्मसंस्थापनार्थाय दैत्यानां च बधाय च। जगतो धारणार्थाय विज्ञाप्यं कुरु मे विभो ॥ 6-65-68 (41645) यत्तत्परमकं गुह्यं त्वत्प्रसादादिदं विभो। वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥ 6-65-69 (41646) सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना। कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् ॥ 6-65-70 (41647) प्रद्युम्नादनिरुद्धं त्वं यं विदुर्विष्णुमव्ययम्। अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम्॥ 6-65-71 (41648) वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः। तस्माद्याचामि लोकेश चतुरात्मानमात्मना। विभज्य भागशोत्मानं व्रज मानुषतां विभो ॥ 6-65-72 (41649) तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै। धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यति तत्त्वतः ॥ 6-65-73 (41650) त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम । तैस्तैर्हि नामभिर्युक्ता गायन्ति परमात्मकम् ॥ 6-65-74 (41651) स्थिताश्च सर्वे त्वयि भूतसङ्घाः कृत्वाश्रयं त्वां वरदं सुबाहो। अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः ॥ ॥ 6-65-75 (41652) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चषष्टितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-65-22 सापह्नवाः इति पाठे अपरिसंख्यातकिल्बिषा ॥ 6-65-26 मन्यसि कमन्यसे ॥ 6-65-35 मह्यं नम ॥
भीष्मपर्व - अध्याय 066

॥ श्रीः ॥

6.66. अध्यायः 066

Mahabharata - Bhishma Parva - Chapter Topics

विश्वोपाख्यानम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-66-0 (41653) भीष्म उवाच। 6-66-0x (4138) ततः स भगवान्देवो लोकानामीश्वरेश्वरः। ब्रह्माणं प्रत्युवाचेदं स्रिग्धगम्भीरया गिरा ॥ 6-66-1 (41654) विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् । तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ॥ 6-66-2 (41655) ततो देवर्षिगन्धर्वा विस्मयं परमं गताः । कौतूहलपराः सर्वे पितामहमथाब्रुवन् ॥ 6-66-3 (41656) कोन्वयं यो भगवता प्रणम्य विनयाद्विभो । वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ॥ 6-66-4 (41657) एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः । देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ॥ 6-66-5 (41658) यत्तत्परं भविष्यं च भवितव्यं च यत्परम् । भूतात्मा च प्रभुश्चैव ब्रह्म यच्च परं पदम् ॥ 6-66-6 (41659) तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः । जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः । 6-66-7 (41660) मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः । अस्रुराणां वधार्थाय संभवस्व महीतले ॥ 6-66-8 (41661) संग्रामे निहता ये ते दैत्यदानवराक्षसाः । त इमे नृषु संभूता घोररूपा महाबलाः ॥ 6-66-9 (41662) तेषां वधार्थं भगवान्नरेण सहितो वशी । मानुषीं योनिमास्थाय चरिष्यति महीतले ॥ 6-66-10 (41663) नरनारायणौ यौ तौ पुराणावृषिसत्तमौ । सहितो मानुषे लोके संभूतावमितद्युती ॥ 6-66-11 (41664) अजेयौ समरे यत्तौ सहितैरमरैरपि । मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ॥ 6-66-12 (41665) तस्याहमग्रजः पुत्रः सर्वस्य जगतः प्रभुः । वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ॥ 6-66-13 (41666) तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः । नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ॥ 6-66-14 (41667) एतत्परमकं गुह्यमेतत्परमकं पदम् । एतत्परमकं ब्रह्म एतत्परमकं यशः ॥ 6-66-15 (41668) एतदक्षरमव्यक्तमेतद्वै शाश्वतं महः । यत्तत्पुरुषसंज्ञं वै गीयते ज्ञायते न च ॥ 6-66-16 (41669) एतत्परमकं तेज एतत्परमकं सुखम्। एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ॥ 6-66-17 (41670) तस्मात्सेन्द्रैः सुरैः सर्वैर्लोकैश्चामितविक्रमःक । नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ॥ 6-66-18 (41671) यश्च मानुषमात्रोऽयमिति ब्रूयात्स मन्दधीः । हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ॥ 6-66-19 (41672) योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् । अवमन्येद्वासुदेवं तमाहुस्तमसं जनाः ॥ 6-66-20 (41673) देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम्। पद्मनाभं न जानाति तमाहुस्तामसं बुधाः ॥ 6-66-21 (41674) किरीटकौस्तुभधरं मित्राणामभयंकरम्। अवजानन्महात्मानं घोरे तमसि मञ्जति ॥ 6-66-22 (41675) एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः । वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः । तस्यामहात्माजो ब्रह्मा सर्वस्य जगतः पतिः ॥ 6-66-23 (41676) भीष्म उवाच। 6-66-24x (4139) एवमुक्त्वा स भगवान्देवान्सर्षिगकणान्पुरा। विसृज्य सर्वभूतानि जगाम भवनं स्वकम् ॥ 6-66-24 (41677) ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च। कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ॥ 6-66-25 (41678) एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम्। वासुदेवं कथयतां समवाये पुरातनम् ॥ 6-66-26 (41679) रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः । व्यासनारदयोश्चापि सकाशाद्भरतर्षभ ॥ 6-66-27 (41680) एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् । वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ॥ 6-66-28 (41681) यस्य चैवात्मजो ब्रह्मा सर्वस्य जगतः पिता । कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ॥ 6-66-29 (41682) वारितोऽसि मया तात मुनिर्भिर्वेदपारगैः । मा गच्छ संयुगं तेन वासुदेवेन धन्विना ॥ 6-66-30 (41683) मा पाण्डवैः सार्धमिति तत्त्वं मोहान्न बुध्यसे। मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः ॥ 6-66-31 (41684) यस्माद्द्विषसि गोविन्दं पाण्डवं तं धनञ्जयम् । नरनारायणौ देवी कोऽन्यो द्विष्याद्धि मानवः ॥ 6-66-32 (41685) तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः । सर्कवलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥ 6-66-33 (41686) यो धारयति लोकांस्त्रींश्चराचरगुरुः प्रभुः । योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ॥ 6-66-34 (41687) राजन्सर्वमयो ह्येष तमोरागविवर्जितः । यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ 6-66-35 (41688) तस्य माहात्म्ययोगेन योगेनात्ममयेन च । धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ॥ 6-66-36 (41689) श्रेयोयुक्तां सदा बुद्धिं पाण़्डवानां दधाति यः। बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ॥ 6-66-37 (41690) स एष शाश्वतो देवाः सर्वगुह्यमयः शिवः । वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ॥ 6-66-38 (41691) ब्राह्मणैः क्षत्रिकयैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिःक ॥ 6-66-39 (41692) द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च। सात्वतं विधिमास्थाय गीतः संकर्षणेन वै ॥ 6-66-40 (41693) स एष सर्वं सुरमर्त्यलोकं समुद्रकक्ष्यान्तरितां पुरीं च। युगेयुगे मानुषं चैव वासं पुनःपुनः सृजते वासुदेवाःक ॥ ॥ 6-66-41 (41694) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षट्षष्टितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-66-39 कृतलक्षणैः स्वस्वगुणप्रख्यातैः ॥ 6-66-40 सात्वताः पञ्चरात्रागमविधिना पूजकास्तदीयं सात्वतम् ॥ 6-66-41 कक्ष्या काञ्ची। पुरीं द्वारकाम् ॥
भीष्मपर्व - अध्याय 067

॥ श्रीः ॥

6.67. अध्यायः 067

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मेण विश्वोपाख्यानकथने वासुदेवमाहात्म्यकथनम् ॥ 1 ॥ युधिष्ठिरस्य कृष्मसमाश्रयणेन विजय इति कथनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-67-0 (41695) दुर्योधन उवाच। 6-67-0x (4140) वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते। तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥ 6-67-1 (41696) भीष्म उवाच। 6-67-2x (4141) वासुदेवो महद्भूतं सर्वदैवतदैवतम् । न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ॥ 6-67-2 (41697) श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः। नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च। असितो देवलश्चापि वालखिल्यास्तपोधनाः ॥ 6-67-3 (41698) मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्। सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः ॥ 6-67-4 (41699) आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्। स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ॥ 6-67-5 (41700) अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः । सर्वदेवमयो देवः शयानः शयने सुखम् ॥ 6-67-6 (41701) मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च। सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युत ॥ 6-67-7 (41702) एषक लोकान्ससर्जादौ देवांश्च ऋषिभिः सह। अमृतं चैव मृत्युं च प्रजानां प्रभवाप्ययौ ॥ 6-67-8 (41703) एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः । एष कर्ता च कार्यं च आदेरादिः स्वयं प्रभुः ॥ 6-67-9 (41704) भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् । उभे सन्ध्ये दिवः खं च नियमांश्च जनार्दनः ॥ 6-67-10 (41705) ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् । स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥ 6-67-11 (41706) अग्रजं सर्वभूतानां संकर्षणमकल्पयत्। शेषं चाकल्पयद्देवमनन्तमिति तं विदुः ॥ 6-67-12 (41707) यो धारयति भूतानि धरां चेमां सपर्वताम्। ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम्। कर्णस्रोतोभवं चापि मधुं नाम महासुरम् ॥ 6-67-13 (41708) तमुग्रमुग्रकर्माणमुग्रां बुद्धइं समास्थितम् । हरन्तं ब्रह्मणो वेदाञ्जघान ब्रह्मणः पिता। ब्रह्मणोपचितिं कुर्वन्महात्मा पुरुषोत्तमः ॥ 6-67-14 (41709) तस्य तात वधादेव देवदानवमानवाः । मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम् ॥ 6-67-15 (41710) वराहं नारसिंहं च त्रिविक्रममिति प्रभुम् । एष धाता विधाता च सर्वेषां प्रामिनां हरिः ॥ 6-67-16 (41711) परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति। मुखतः सोसृजद्विप्रान्बाहुभ्यां क्षत्रियांस्तथा ॥ 6-67-17 (41712) वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैवच। तपसा नियतं देवं निधानं सर्वदेहिनाम् ॥ 6-67-18 (41713) ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च। योगभूतं परिचरन्केशवं महदाप्नुयात्॥ 6-67-19 (41714) केशवः परमं तेजः सर्वलोकपितामहः । एवमार्हुर्हृषीकेशं मुनयो वै नराधिप ॥ 6-67-20 (41715) एवमेनं विजानीहि आचार्यं पितरं गुरुम् । कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥ 6-67-21 (41716) यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् । सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥ 6-67-22 (41717) ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः । भये महति मग्नांश्च पाति नित्यं जनार्दनःक ॥ 6-67-23 (41718) स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत। सर्वात्मना महात्मानं केशवं जगदीश्वरम्। प्रपन्नः शरणं राजन्योगानां प्रभुमीश्वरम् ॥ ॥ 6-67-24 (41719) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तषष्टितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-67-8 प्रभव उत्पत्तिहेतुः। अप्ययः प्रलयहेतुः ॥ 6-67-13 कर्णात्स्रवतीति कर्णस्रोतः कर्णमलम् ॥
भीष्मपर्व - अध्याय 068

॥ श्रीः ॥

6.68. अध्यायः 068

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मेण दुर्योधनंप्रति ब्रह्मर्षिकृतकृष्णस्तवकथनम् ॥ 1 ॥ तथा कृष्णस्य पाण्डवेषु प्रीतिकथनपूर्वकं तैः सह शमविधानम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-68-0 (41720) भीष्म उवाच। 6-68-0x (4142) स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत। ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥ 6-68-1 (41721) साध्यानामपि देवानां देवदेवेश्वरः प्रभुः । लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ॥ 6-68-2 (41722) भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह। यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि ॥ 6-68-3 (41723) देवानामपि देवं च त्वामाह भगवान्भृगुः । पुराणां चैव परमं विष्णो रूपं तवेति च ॥ 6-68-4 (41724) वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा। देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥ 6-68-5 (41725) पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम्। स्रष्टारं सर्वभूतानामङ्गिरास्त्वां तथाऽब्रवीत् ॥ 6-68-6 (41726) अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् । देवास्त्वत्संभवाश्चैव देवलस्त्वसितोऽब्रवीत् ॥ 6-68-7 (41727) शिरसा ते दिव्यं व्याप्तं बाहुभ्यां पृथिवी तथा । जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥ 6-68-8 (41728) एवं त्वामभिजानन्ति तपसा भाविता नराः। आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः ॥ 6-68-9 (41729) राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् । सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥ 6-68-10 (41730) इति नित्यं योगविर्द्भिर्भगवान्पुरुषोत्तमः। सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः ॥ 6-68-11 (41731) एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः । केशवस्य यथा तत्त्वं सुप्रीतो भज केशवम् ॥ 6-68-12 (41732) सञ्जय उवाच। 6-68-13x (4143) पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव। केशवं बहुमेने स पाण्डवांश्च महारथान् ॥ 6-68-13 (41733) तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः । माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः ॥ 6-68-14 (41734) नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप। यदर्थं नृषु संभूतौ नरानारायणावृषी ॥ 6-68-15 (41735) अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ । यथा च पाण्डवा राजन्नवध्या युधि कस्यचित् ॥ 6-68-16 (41736) प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु । तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥ 6-68-17 (41737) पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी । नरानारायणौ देवाववज्ञाय नशिष्यसि ॥ 6-68-18 (41738) एवमुक्त्वा तव पिता तूष्णीमासीद्विशांपते । व्यसर्जयच्च राजानं शयनं च विवेश ह ॥ 6-68-19 (41739) राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने । शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ ॥ ॥ 6-68-20 (41740) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टषष्टितमोऽध्यायः ॥ ॥ विश्वोपाख्यानं समाप्तम् ॥
भीष्मपर्व - अध्याय 069

॥ श्रीः ॥

6.69. अध्यायः 069

Mahabharata - Bhishma Parva - Chapter Topics

कुरुपाण्डवयोर्मकरश्येनव्यूहरचनापूर्वकं युद्धारम्भः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-69-0 (41741) सञ्जय उवाच। 6-69-0x (4144) व्युषितायां तु शर्वर्यामुदिते च दिवाकरे। उभे सेने महाराज युद्धायैव समीयतुः ॥ 6-69-1 (41742) अभ्यधावन्त संक्रुद्धाः परस्परजिगीषवः । ते सर्वे सहिता युद्धे समालोक्य परस्परम् ॥ 6-69-2 (41743) पाण्डवा धार्तराष्ट्राश्च राजन्दर्मन्त्रिते तव। व्यूहौ च व्यूह्य संरब्धाः संप्रहृष्टाः प्रहारिणः ॥ 6-69-3 (41744) अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः । तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ॥ 6-69-4 (41745) `अजातशत्रुः शत्रूणां मनांसि समकम्पयत्।' श्येनवद्व्यूह्य तं व्यूहं धौम्यस्य वचनात्स्वयम् ॥ 6-69-5 (41746) स हि तस्य सुविज्ञात अग्निचित्येषु भारत। मकरस्तु महाव्यूहस्तव पुत्रस्य धीमतः ॥ 6-69-6 (41747) स्वयं सर्वेण सैन्येन द्रोणेनानुमतस्तदा । यथाव्यूहं शान्तनवः सोऽन्ववर्तत तत्पुनः ॥ 6-69-7 (41748) स निर्ययौ महाराज पिता देवव्रतस्तव । महता रथवंशेन संवृतो रथिनां वरः ॥ 6-69-8 (41749) इतरेतरमन्वीयुर्यथाभागमवस्थिताः । रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ॥ 6-69-9 (41750) तान्दृष्ट्वाऽभ्युद्यतान्सङ्ख्ये पाण्डवा हि यशस्विनः । श्येनव्यूहेन संव्यूह्य समनह्यन्त संयुगे ॥ 6-69-10 (41751) अशोभत मुखे तस्य भीमसेनो महाबलः । नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ॥ 6-69-11 (41752) शीर्षे तस्याभवद्वीरः सात्यकिः सत्यविक्रमः । विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ॥ 6-69-12 (41753) अक्षौहिण्या समं तत्र वामपक्षोऽभवत्तदा । महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ॥ 6-69-13 (41754) दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः । पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ॥ 6-69-14 (41755) पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरःक । भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः ॥ 6-69-15 (41756) प्रविश्य तु रणे भीमो मकरं मुखतस्तदा। भीष्ममासाद्य संग्रामे च्छादयामास सायकैः ॥ 6-69-16 (41757) ततो भीष्मो महास्राणि पातयामास भारत। मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ॥ 6-69-17 (41758) संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः । भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ॥ 6-69-18 (41759) प्रतिसंवार्य चास्राणि भीष्ममुक्तानि संयुगे। स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः ॥ 6-69-19 (41760) ततो दुर्योधनो राजा भारज्वाजमभाषत । पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ॥ 6-69-20 (41761) भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः। आचार्यः सततं हि त्वं हितकामो ममानघ ॥ 6-69-21 (41762) वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् । देवानपि रणे जेतुं प्रार्थयामो न संशयः ॥ 6-69-22 (41763) किमु पाण्डुसुताकन्युद्धे हीनवीर्यपराक्रमान् । स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः ॥ 6-69-23 (41764) एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष । तत्र संप्रेक्ष्य राजनं संक्रुद्ध इव निश्चसन् ॥ 6-69-24 (41765) बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम् । न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः ॥ 6-69-25 (41766) यथाबलं यथावीर्यं कर्म कुर्यामहं हि ते। इत्युक्तवा ते सुतं राजन्नभ्यपद्यत वाहिनीम् । अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ॥ 6-69-26 (41767) सात्यकिस्तु ततो द्रौणं वारयामात भारत। तयोः प्रववृते युद्धं घोररूपं भयावहम् ॥ 6-69-27 (41768) शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापावान्। अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ॥ 6-69-28 (41769) भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत । संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ॥ 6-69-29 (41770) ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष। भीमसेनं रणे क्रुद्धाश्छादयांचक्रिरे शरैः ॥ 6-69-30 (41771) तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष । विव्यधुर्निशितैर्बैणैः सर्वांस्तानुद्यतायुधान् ॥ 6-69-31 (41772) द्रोणभीष्मौ तु संक्रुद्धावापतन्तौ महाबलौ । प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ॥ 6-69-32 (41773) प्रगृह्य बलवद्वीरो धनुर्जलदनिःश्वनम् । अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ॥ 6-69-33 (41774) शिखण्डिनं समासाद्य भरतानां पितामहः । अवर्जयत संग्रामं स्त्रीत्वं तस्यानुसंस्मरन् ॥ 6-69-34 (41775) ततो द्रोणो महाराज अभ्यद्रवत तं रणे। रक्षमाणस्तदा भीष्मं तव पुत्रेण चोदितः ॥ 6-69-35 (41776) शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्। अवर्जयत संत्रस्तो युगान्ताग्निमिवोल्बणम् ॥ 6-69-36 (41777) ततो बलेन महता पुत्रस्तव विशांपते । जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ॥ 6-69-37 (41778) तथैव पाण्डवा राजन्पुरुस्कृत्य धनञ्जयम्। भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ॥ 6-69-38 (41779) तद्युद्धमभवद्धोरं देवानां दानवैरिव। जयमाकाङ्क्षतां सङ्क्ष्ये यशश्च सुमहाद्भुतम् ॥ ॥ 6-69-39 (41780) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे एकोनसप्ततितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 070

॥ श्रीः ॥

6.70. अध्यायः 070

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-70-0 (41781) सञ्जय उवाच। 6-70-0x (4145) अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा। भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ॥ 6-70-1 (41782) पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत । कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥ 6-70-2 (41783) तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये । अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ॥ 6-70-3 (41784) नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः । भेरीशङ्खनिनादैश्च तुमुलं समपद्यत ॥ 6-70-4 (41785) युयुत्सवस्ते विक्रान्ता विजयाय महाबलाःक । अन्योन्यमभिगर्जन्तो गोष्ठिष्विव महर्षभाः ॥ 6-70-5 (41786) शिरासं पात्यमानानां समरे निशितैः शरैः। अश्यवृष्टिरिवाकाशे बभूव भरतर्षभ ॥ 6-70-6 (41787) कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च। पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥ 6-70-7 (41788) विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः । सहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥ 6-70-8 (41789) कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः । मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ॥ 6-70-9 (41790) गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते । आसीत्सर्वा समास्तीर्णा मुहूर्तेन वसुंधराः ॥ 6-70-10 (41791) रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः । आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥ 6-70-11 (41792) स संप्रहारस्तुमुलःक कटुकः शोणितोदकः। प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥ 6-70-12 (41793) तस्मिन्महाभये घोरे तुमुले रोमहर्षणे। ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥ 6-70-13 (41794) आक्रोशन्कुञ्जरास्तत्र शरवर्षप्रतापिताः । तावकानां परेषां च संयुगे भरतर्षभ ॥ 6-70-14 (41795) संरब्धानां च वीराणां धीराणाममितौजसाम् । धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ॥ 6-70-15 (41796) उत्थितेषु कबन्धेषु सर्वतः शोमितोदके। समरे पर्यधावन्त नृपा रिपुवधोद्यताः ॥ 6-70-16 (41797) शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः । निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः ॥ 6-70-17 (41798) बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः । अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ 6-70-18 (41799) उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः। तावकानां परेषां च योधा भरतसत्तम ॥ 6-70-19 (41800) वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत। गदानां परिघाणां च हस्तानां चोरुभिः सह ॥ 6-70-20 (41801) पादानां भूषणानां च केयूराणां च सङ्घशः। राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे ॥ 6-70-21 (41802) अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् । सङ्घाताः स्म प्रदृश्यन्ते तत्रतत्र विशांपते ॥ 6-70-22 (41803) गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः । जघ्नुः परस्पर तत्र क्षत्रियाः काल आगते ॥ 6-70-23 (41804) अपरे बाहुभिर्वीरा नियुद्धकुशला युधि। बहुधा समसञ्जन्त आयसैः परिघैरिव ॥ 6-70-24 (41805) मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशांपते । अन्योन्यं जघ्रिरे वीरास्तावकाः पाण्डवैः सह ॥ 6-70-25 (41806) पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले। घोरमायोधनं जज्ञे तत्रतत्र जनेश्वर ॥ 6-70-26 (41807) विरथा रथिनश्चात्र निस्त्रिंशवरधारिणःक । अन्योन्यमभिधावन्तः परस्परवधैषिणः ॥ 6-70-27 (41808) ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः। पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥ 6-70-28 (41809) तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्। भीष्ममभ्यद्रवन्क्रुद्धास्ततो युद्धमवर्तत ॥ ॥ 6-70-29 (41810) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे सप्ततितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 071

॥ श्रीः ॥

6.71. अध्यायः 071

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-71-0 (41811) सञ्जय उवाच। 6-71-0x (4146) दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् । समभ्यधावद्गांङ्गेयमुद्यतास्त्रो धनञ्जयः ॥ 6-71-1 (41812) पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च। ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥ 6-71-2 (41813) सिंहलाङ्गूलमाकाशे ज्वलन्तमिव पर्वतम्। असञ्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् ॥ 6-71-3 (41814) बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम् । अपश्याम महाराज ध्वजं गाण्डीवधन्वनः ॥ 6-71-4 (41815) सुवर्णपृष्ठं गाण्डीवं रणे द्रक्ष्यामि भारत। विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे । ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महामृधे ॥ 6-71-5 (41816) आशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः। सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥ 6-71-6 (41817) चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् । दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः ॥ 6-71-7 (41818) समभ्यधावद्गाङ्गेयं भैरवास्त्रो धनञ्जयः । दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥ 6-71-8 (41819) कान्दिग्भूता श्रान्तपत्रा हताश्वा हतचेतसः। अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥ 6-71-9 (41820) भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः । तेषामार्तायनमभूद्भीष्मः शान्तनवो रणे ॥ 6-71-10 (41821) समुत्पतन्ति वित्रस्ता रथेभ्यो रथिनस्तथा । सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ 6-71-11 (41822) श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः । सर्वसैन्यानि भीतानि व्यवालीयन्त भारत ॥ 6-71-12 (41823) अथ काम्भोजैजरश्वैर्महद्भिः शीघ्रगामिभिः । गोपानां बहुसाहस्त्रैर्बालैर्गापायनैर्वृतः ॥ 6-71-13 (41824) मद्रसौवीरगान्धारैस्त्रैगर्तैश्च विशांपते । सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥ 6-71-14 (41825) नानानरगणौघैश्च दुःशासनपुरःसरः । जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥ 6-71-15 (41826) हयारोहवराश्चैव तव पुत्रेण चोदिताः । चतुर्दशसहस्राणि सौबलं पर्यवारयन् ॥ 6-71-16 (41827) ततस्ते सहिताः सर्वे विभक्तरथवाहनाः । अर्जुनं समरे जघ्नुस्तावका भरतर्षभ ॥ 6-71-17 (41828) चेदिकाशिपदातैश्च रथैः पाञ्चालसृञ्जयैः । पाण्डवाः सहिताः सर्वे धृष्टद्युम्नपुरोगमाः। तावकान्समरे जघ्नुर्धर्मपुत्रेण चोदिताः ॥ 6-71-18 (41829) रथिभिर्वारणैरश्वैः पादातैश्च समीरितम् । घोरमायोधनं चक्रे महाभ्रसदृशं रजः ॥ 6-71-19 (41830) तोमरप्रासनाराचगजाश्वरथयोधिनाम् । बलेन महता भीष्मः समसञ्जत्किरीटिना ॥ 6-71-20 (41831) आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः । अजातशत्रुर्मद्राणामृषभेण यशश्विना ॥ 6-71-21 (41832) सहपुत्रः सहामात्यः शल्येन समसञ्जत। विकर्णः सहदेवेन चित्रसेनः शिखण्डिना ॥ 6-71-22 (41833) मत्स्या दुर्योधनं जग्मुः शंकुनिं न विशांपते। द्रुपदश्चेकितानश्च सात्यकिश्चक महारथः ॥ 6-71-23 (41834) द्रोणेन समसञ्जन्त सपुत्रेण महात्मना । कृपश्च कृतवर्मा च धृष्टद्युम्नमभिद्रुतौ ॥ 6-71-24 (41835) एवं प्रव्रजिताश्वानि भ्रान्तनागरथानि च। सैन्यानि समसञ्जन्त प्रयुद्धानि समन्ततः ॥ 6-71-25 (41836) निरभ्रे विद्युतस्तीव्रा दिशश्च रजसा वृताः । प्रादुरासन्महोत्काश्च सनिर्घाता विशांपते ॥ 6-71-26 (41837) प्रादुर्भूतो महावातः पांसुवर्षं पपात च । नभस्यन्तर्दधे सूर्यः सैन्येन सजसा वृतः ॥ 6-71-27 (41838) प्रमोहः सर्वसत्वानामतीव समपद्यत। रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥ 6-71-28 (41839) वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् । संघातः शरजालानां तुमुलः समपद्यत ॥ 6-71-29 (41840) प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः । नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥ 6-71-30 (41841) आर्षभाणि विचित्राणि रुक्मजालावृतानि च । संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥ 6-71-31 (41842) सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः । दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च । 6-71-32 (41843) भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः । हताश्वाः पृथिवीं जग्मुस्तत्रतत्र महारथाः ॥ 6-71-33 (41844) परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः । रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ॥ 6-71-34 (41845) शराहता भिन्नदेहा बद्धयोक्रा हयोत्तमाः । युगानि पर्यकर्षन्त तत्रतत्र स्म भारत। 6-71-35 (41846) अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः । एकेन बलिना राजन्वारणेन विमर्दिताः ॥ 6-71-36 (41847) गन्धहस्तिमदस्रावमाघ्राय बहवो रणे। सन्निपाते बलौघानां गजैर्ममृदिरे गजाः ॥ 6-71-37 (41848) सतोमरैर्महामात्रैर्निपतद्भिर्गतासुभिः । बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥ 6-71-38 (41849) सन्निपाते बलौघानां प्रेषितैर्वरवारणैः । निपेतुर्युधि संभग्नाः सयोधाः सध्वजा गजाः ॥ 6-71-39 (41850) नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे । व्यदृश्यन्त महाराज संभग्ना रथकूबराः ॥ 6-71-40 (41851) विशीर्णरथसङ्घाश्च केशेष्वाक्षिप्य दन्तिभिः । द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥ 6-71-41 (41852) रथेषु च रथान्युद्धे संसक्तान्वरवारणाः । विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ॥ 6-71-42 (41853) तेषां तथा कर्षतां तु गजानां रूपमाबभौ । सरःसु नलिनीजालं विषक्तमिव कर्षताम् ॥ 6-71-43 (41854) एवं संछादितं तत्र बभूवायोधनं महत्। सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ॥ ॥ 6-71-44 (41855) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे एकसप्ततितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-71-7 स्तनयित्नुर्गर्जितम् ॥
भीष्मपर्व - अध्याय 072

॥ श्रीः ॥

6.72. अध्यायः 072

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-72-0 (41856) सञ्जय उवाच। 6-72-0x (4147) शिखण्डी सह मत्स्येन विराटेन विशांपते। भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ॥ 6-72-1 (41857) द्रोणं कृपं विकर्णं च महेष्वासं महाबलम् । राज्ञश्चान्यान्रणे शूरान्बहूनार्च्छद्धनंजयः ॥ 6-72-2 (41858) सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः । प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ॥ 6-72-3 (41859) पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् । दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ॥ 6-72-4 (41860) सहदेवस्तु शकुनिमुलूकं च महारथम् । पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ॥ 6-72-5 (41861) युधिष्ठिरो महाराज गजानीकं महारथः । समवर्तत संग्रामे पुत्रेण निकृतस्तव ॥ 6-72-6 (41862) माद्रीपुत्रस्तु नकुलः शूरसंक्रन्दनो युधि । त्रिगर्तानां बलैः सार्धं समसञ्जत पाण्डवः ॥ 6-72-7 (41863) अभ्यवर्तन्त संक्रुद्धाः समरे साल्वकेकयान्। सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ॥ 6-72-8 (41864) धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः । नाकुलिश्च शतानीकः समरे रथपुङ्गवः । पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ॥ 6-72-9 (41865) सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः । द्रोणेन समरे राजन्समियायोग्रकर्मणा ॥ 6-72-10 (41866) एवमेते महेष्वासास्तावकाः पाण्डवैः सह । समेत्य समरे शूराः संप्राहारं प्रचक्रिरे ॥ 6-72-11 (41867) मध्यंदिनगते सूर्ये नभस्याकुलतां गते । कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ॥ 6-72-12 (41868) ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे । सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ॥ 6-72-13 (41869) समेतानां च समरे जिगीषूणां परस्परम् । बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ॥ 6-72-14 (41870) तत्राद्भुतमपश्यास संप्रहारं सुदारुणम्। यदकुर्वन्रणे शूराः सृञ्जयाः कुरुभिः सह ॥ 6-72-15 (41871) नैव खं न दिशो राजन्न सूर्यं शत्रुतापन। विदिशो वापि पश्यामः शरैर्मुक्तैः समन्ततः ॥ 6-72-16 (41872) शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् । निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ॥ 6-72-17 (41873) कवचानां विचित्राणां भूषणानां प्रभास्तथा । खं दिशः प्रदिशश्चैव भासयामासुरोजसा ॥ 6-72-18 (41874) वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः । विरराज तदा राजंस्तत्रतत्र रणाङ्गणम् ॥ 6-72-19 (41875) रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे। विरेजुः समरे राजन्ग्रहा इव नभस्तले ॥ 6-72-20 (41876) भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् । अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः ॥ 6-72-21 (41877) ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः। अभ्यङ्गन्तमरे भीमं तैलघौताः सुतेजनाः ॥ 6-72-22 (41878) तस्य शक्तिं महावेगं भीमसेनो महाबलः । क्रुद्धाशीविषसंकाशं प्रेषयामास भारत ॥ 6-72-23 (41879) तामापतन्तीं सहसा रुक्मदण्डं दुरासदाम्। चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः ॥ 6-72-24 (41880) ततोऽपरेण भल्लेन पीतेन निशितेन च। कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ॥ 6-72-25 (41881) अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः । शरैर्बहुभिरानर्च्छद्भीष्मं शान्तनवं युधि ॥ 6-72-26 (41882) सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे । आकर्णप्रहितैस्त्रीक्ष्णैर्निशितैस्तिग्मतेजनैः ॥ 6-72-27 (41883) शरैर्बहुभिरानर्च्छत्पितरं ते जनेश्वर । ततः संधाय वै तीक्ष्णं शरं परमदारुणम् ॥ 6-72-28 (41884) वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम्। तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ ॥ 6-72-29 (41885) तेन तेनैव धावन्ति मनोमारुतरंहसः। ततः सर्वस्य सैन्यस्य निःस्वनस्तुमुलोऽभवत् ॥ 6-72-30 (41886) हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् । अभ्यद्रवत गृह्णीत हयान्यच्छत धावत ॥ 6-72-31 (41887) इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति । एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा ॥ 6-72-32 (41888) न्यहनत्पाण्डवीं सेनामासुरीमिव वृत्राहा । ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह । स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ॥ 6-72-33 (41889) धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे। अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ॥ 6-72-34 (41890) तथैव कौरवा राजन्भीष्मद्रोणपुरोगमाः। अभ्यधावन्त वेगेन ततो युद्धमवर्तत ॥ ॥ 6-72-35 (41891) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे द्विसप्ततितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-72-18 ओजसा स्वप्रभावेण ॥
भीष्मपर्व - अध्याय 073

॥ श्रीः ॥

6.73. अध्यायः 073

Mahabharata - Bhishma Parva - Chapter Topics

युद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-73-0 (41892) सञ्जय उवाच। 6-73-0x (4148) विराटोऽय त्रिभिर्बाणैर्भीष्ममार्च्छन्महारथम् । विव्याध तुरमांत्रास्य त्रिभिर्बाणैर्महारथः ॥ 6-73-1 (41893) तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः। रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ॥ 6-73-2 (41894) द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः । अविध्यदिषुभिः षङ्भिर्दृढहस्तः स्तनान्तरे ॥ 6-73-3 (41895) कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा । अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ॥ 6-73-4 (41896) सोऽन्यत्कार्मुकमादाय वेगवान्क्रोधमूर्च्छितः। अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ॥ 6-73-5 (41897) अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः । वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥ 6-73-6 (41898) ततः क्रोधाभिताम्राक्षः कृष्णेन सह फल्गुनः । दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पुनःपुनः ॥ 6-73-7 (41899) धनुः प्रपीड्य वामेन करेणामित्रकर्शनः । गाण्डीवधन्वा संक्रुद्धः शितान्सन्नतपर्वणः ॥ 6-73-8 (41900) जीवितान्तकरान्घोरान्समादत्त शिलीमुखान्। तैस्तूर्णं समरेऽविध्यद्रौणिं बलवतां वरः ॥ 6-73-9 (41901) तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे। न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना ॥ 6-73-10 (41902) तथैव च शरान्द्रौणिः प्रविमुञ्चन्नविह्वलः । तस्थौ च समरे राजंस्त्रातुमिच्छन्महाव्रतम् ॥ 6-73-11 (41903) तस्य तत्सुमहत्कर्म शशंसुः कुरुसत्तमाः । यत्कृष्णाभ्यां समेताभ्यामभ्यापतत संयुगे ॥ 6-73-12 (41904) स हि नित्यमनीकेषु युध्यतेऽभयमास्तितः। अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ॥ 6-73-13 (41905) ममैष आचार्यसुतो द्रोणस्यापि प्रियः सुतः । ब्राह्मणश्च विशेषेण माननीयो ममेति च ॥ 6-73-14 (41906) समास्थआय मतिं वीरो बीभत्सुः सत्रुतापनः । कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ॥ 6-73-15 (41907) द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः श्वेतवाहनः। युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ॥ 6-73-16 (41908) दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः । भीमसेनं महेष्वासं रुक्मपुङ्खैः समार्पयत् ॥ 6-73-17 (41909) भीमसेनः सुसंक्रुद्धः परासुकरणं दृढम् । चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ॥ 6-73-18 (41910) आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः। अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ॥ 6-73-19 (41911) तस्य काञ्चनसूत्रस्थः शरैः संछादितो मणिः। रराजोरसि खे सूर्यो ग्रहैरिव समावृतः॥ 6-73-20 (41912) पुत्रस्तु तव तेजस्वी भीमसेनेन ताडित। नामृष्यत यथा नागस्तलशब्दं मदोत्कटः ॥ 6-73-21 (41913) ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः । भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम् ॥ 6-73-22 (41914) तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ । पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ ॥ 6-73-23 (41915) चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा। अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ॥ 6-73-24 (41916) सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि। नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ॥ 6-73-25 (41917) तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः । सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ॥ 6-73-26 (41918) स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत्। चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ॥ 6-73-27 (41919) भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् । ततस्ते तावका वीरा राजपुत्रा महारथाः ॥ 6-73-28 (41920) समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः। तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ॥ 6-73-29 (41921) तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव। दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम् ॥ 6-73-30 (41922) अपेतशिशिरे काले समिद्धमिव पावकम् । अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन् ॥ 6-73-31 (41923) तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशांपते । लक्ष्मणोऽभ्यपतत्तूर्णं सात्तीपुत्रमाहवे ॥ 6-73-32 (41924) अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् । विव्याध निशितैः षङभिः सारथिं च त्रिभिः शरैः ॥ 6-73-33 (41925) तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः। अविध्यत महाराज तदद्भुतमिवाभवत् ॥ 6-73-34 (41926) तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः । अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ॥ 6-73-35 (41927) हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा । शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति॥ 6-73-36 (41928) तामापतन्तीं सहसा घोररूपां दुरासदाम्। अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ॥ 6-73-37 (41929) ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा। अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥ 6-73-38 (41930) ततः समाकुले तस्मिन्वर्तमाने महाभये । अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ॥ 6-73-39 (41931) तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः । जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ॥ 6-73-40 (41932) मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभइः समयुध्यन्त सृञ्जयाः कुरुभिः सह ॥ 6-73-41 (41933) ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् । सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः ॥ 6-73-42 (41934) हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः । रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ॥ ॥ 6-73-43 (41935) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे त्रिसप्ततितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-73-32 सात्वतीपुत्रं अभिमन्युम् ॥
भीष्मपर्व - अध्याय 074

॥ श्रीः ॥

6.74. अध्यायः 074

Mahabharata - Bhishma Parva - Chapter Topics

भूरिश्रवसा सात्यकिपुत्रदशकवधः ॥ 1 ॥ सात्यकिभूरिश्रवसोयुर्द्धम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-74-0 (41936) सञ्जय उवाच। 6-74-0x (4149) अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः। विकृष्य चापं समरे भारसाहमनुत्तमम् ॥ 6-74-1 (41937) यत्तत्सख्युस्तु पूर्वेण अर्जुनादुपशिक्षितम् । प्रगाढं लघु चित्रं च दर्शयन्हस्तलाघवम्। प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् ॥ 6-74-2 (41938) तस्य विक्षिपतस्छापं शरानन्यांश्च मुञ्चतः। आददानस्य भूयश्च संदधानस्य चापरान् ॥ 6-74-3 (41939) क्षिपतश्च परांस्तस्य रणे शत्रून्विनिघ्नतः। ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥ 6-74-4 (41940) तमुदीर्यन्तमालोक्य राजा दुर्योधस्ततः । रथानामयुतं तस्य प्रेषयामास भारत ॥ 6-74-5 (41941) तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः । जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥ 6-74-6 (41942) स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः। आससाद ततो वीरो भूरिश्रवसमाहवे॥ 6-74-7 (41943) स हि संदृश्य सेनां ते युयुधानेन पातिताम् । अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ॥ 6-74-8 (41944) इन्द्रायुधसवर्णं तु विस्फार्य सुमहद्धनुः । सृष्टवान्वज्रसंकाशाञ्शरानाशीविषोपमान् ॥ 6-74-9 (41945) सहस्रशो माहाराज दर्शयन्पाणिलाघवम् । शरांस्तान्मृत्युसंस्पर्शान्सात्यकेश्च पदानुगाः ॥ 6-74-10 (41946) न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः । विहाय सात्यकिं राजन्समरे युद्धदुर्मदम् ॥ 6-74-11 (41947) तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः । महारथाःक समाख्याताश्चित्रवर्मायुधध्वजाः ॥ 6-74-12 (41948) समासाद्य महेष्वासं भूरिश्रवसमाहवे। ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥ 6-74-13 (41949) भोभो कौरवादायाद सहास्माभिर्महाबल । एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा ॥ 6-74-14 (41950) अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे। वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः ॥ 6-74-15 (41951) एवमुक्तस्तदा शूरैस्तानुवाच महाबलः । वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समवस्थितान् ॥ 6-74-16 (41952) साध्विदं कथ्यते वीरा यंद्येवं मतिरद्य वः। युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥ 6-74-17 (41953) एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः । महता शरवर्षेण अभ्यधावन्नरिन्दमम् ॥ 6-74-18 (41954) सोऽपराह्णे महाराज संग्रामस्तुमुलोऽभवत्। एकस्य च बहूनां च समेतानां रणाजिरे ॥ 6-74-19 (41955) तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन् । प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप ॥ 6-74-20 (41956) तैस्तु मुक्ताञ्शरान्घोरान्यमदण्डाशनिप्रभान् । असंप्राप्तानसंभ्राकन्तिश्चिच्छेदाशु महारथः ॥ 6-74-21 (41957) तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् । यदेको बहुबिर्युद्धे समसञ्जदभीतवत् ॥ 6-74-22 (41958) विसृज्य शरवृष्टिं तां दश राजन्महारथाः । परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥ 6-74-23 (41959) समदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत । चिच्छेद समरे राजन्युध्यमानो महारथैः ॥ 6-74-24 (41960) अथैषां छिन्नधनुषां शरैः सन्नतपर्वभिः । चिच्छेद समरे राजञ्शिरांसि भरतर्षभ ॥ 6-74-25 (41961) ते हता न्यपतन्राजन्वज्रभग्ना इव द्रुमाः । 6-74-26bतान्दृष्ट्वा निहतान्वीरो रणे पुत्रान्महाबलान् ॥ 6-74-26 (41962) वार्ष्णेयो विनदराजन्भूरिश्रवसमभ्ययात्। रथं रथेन समरे पीडयित्वा महाबलौ ॥ 6-74-27 (41963) तावन्योन्यं हि समरे निहत्य रथवाजिनः । विरथावभिवल्गन्तौ समेयातां महारथौ ॥ 6-74-28 (41964) प्रगृहीतमहाखङ्गौ तौ चर्मवरधारिणौ । शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥ 6-74-29 (41965) असह्यमसियुद्धाय भूरिश्रवसमाहवे। मत्वा वृकोदरस्तूर्णमभिप्लुत्य महारथः ॥ 6-74-30 (41966) ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् । भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥ 6-74-31 (41967) तवापि तनयो राजन्भूरिश्रवसमाहवे। आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥ 6-74-32 (41968) तस्मिस्तथा वर्तमाने रणे भीष्मं महारथम्। अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥ 6-74-33 (41969) लोहितायति चादित्ये त्वरमाणो धनञ्जयः । पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ 6-74-34 (41970) ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे । संप्राप्यैव गता नाशं शलभा इव पावकम् ॥ 6-74-35 (41971) ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः । परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥ 6-74-36 (41972) एवस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति। सर्वेषां चैव सैन्यानां प्रमोहः समजायत ॥ 6-74-37 (41973) अवहारं ततश्चक्रे पिता देवव्रतस्तव । संध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥ 6-74-38 (41974) पाण्डवानां कुरूणां च परस्परसमागमे। ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥ 6-74-39 (41975) ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत। पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधिः ॥ ॥ 6-74-40 (41976) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प़ञ्चमदिवसयुद्धए चतुःसप्ततितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 075

॥ श्रीः ॥

6.75. अध्यायः 075

Mahabharata - Bhishma Parva - Chapter Topics

कुरुपाण्डवयोः क्रौञ्चमकरव्यूहरचनापूर्वकमायोधनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-75-0 (41977) सञ्जय उवाच। 6-75-0x (4150) विहृत्य तु ततो राजन्सहिताः कुरुपाण्डवाः । व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥ 6-75-1 (41978) ततः शब्दो महानासीत्तव तेषां च भारत । युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥ 6-75-2 (41979) संनह्यतां पदातीनां हयानां चैव भारत। शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥ 6-75-3 (41980) ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत। व्यूहं व्यूहस्व पाञ्चाल मकरं शत्रुनाशनम् ॥ 6-75-4 (41981) एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः। व्यादिदेश यथान्यायं रथिनो रथिनां वरः ॥ 6-75-5 (41982) शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः। चक्षुषी सहदेवश्च नकुलश्च महारथः ॥ 6-75-6 (41983) तुण्डमासीन्महाराज भीमसेनो महाबलः । सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ॥ 6-75-7 (41984) सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः । पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ॥ 6-75-9aधृष्टद्युम्नो महाराज महत्या सेनया वृतः । केकया भ्रातरः पञ्च वामपार्श्वं समाश्रिताः ॥ 6-75-8 (41985) धृष्टकेतुर्नरव्याघ्रश्चेकितानश्च वीर्यवान्। दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे ॥ 6-75-10 (41986) पादयोस्तु महाराज स्थितः श्रीमान्महारथः। कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥ 6-75-11 (41987) शिखण्डी तु महेष्वासः सोमकैः संवृतो बली । इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥ 6-75-12 (41988) एवमेतं महाव्यूहं व्यूह्य भारत पाण़्डवाः । सूर्योदये महाराज पुनर्युद्धाय दंशिताःक ॥ 6-75-13 (41989) कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः । समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः ॥ 6-75-14 (41990) व्यूढं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव । कौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥ 6-75-15 (41991) तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत। अश्वत्थामा कृपश्चैव चक्षुरास्तां जनेश्वर ॥ 6-75-16 (41992) कृतवर्मा तु सहितः काम्भोजैरथ बाह्लिकैः । शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ 6-75-17 (41993) ग्रीवायां शूरसेनश्च तव पुत्रश्च मारिष । दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥ 6-75-18 (41994) प्राग्जोतिषस्तु सहितो मद्रसौवीरकेकयैः । उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥ 6-75-19 (41995) पृष्ठे चास्तां महेष्वासावावन्त्यौ सपदानुगौः । स्वसेनया च सहितः शुशर्मा प्रस्थलाधिपः । वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥ 6-75-20 (41996) तुषारा यवनाश्चैव शकाश्च सह चूचुपैः । दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्त भारत ॥ 6-75-21 (41997) श्रुतायुश्च शातायुश्च सौमदत्तिश्च मारिष । व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥ 6-75-22 (41998) ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह। सूर्योदये महाराज प्रावर्तत जनक्षयः ॥ 6-75-23 (41999) प्रतीयू रथिनो नामान्नागाश्च रथिनो ययुः । हयारोहान्रथारोहा रथिनश्चापि सादिनः ॥ 6-75-24 (42000) सादिनश्च हयान्राजन्रथिनश्च महारणे । हस्त्यारोहान्हयारोहा रथिनः सादिनस्तथा ॥ 6-75-25 (42001) रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः । अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥ 6-75-26 (42002) भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः । शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥ 6-75-27 (42003) तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः । तवापि च बभौ सेना ग्रहैर्द्यौरिव संवृताः ॥ 6-75-28 (42004) भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी । अभ्ययाञ्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥ 6-75-29 (42005) द्रोणास्तु समरे क्रुद्धो भीमं नवभिरायसैः । विव्याध समरश्लाघी मर्माण्युद्दिष्य वीर्यवान् ॥ 6-75-30 (42006) दृढाहतस्तो भीमो भारद्वाजस्य संयुगे। सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ 6-75-31 (42007) स संगृह्य स्कवयं वाहान्भारद्वाजः प्रतापवान् । व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥ 6-75-32 (42008) ते वद्यमाना द्रोणेन भीष्मेण च नरोत्तमाः । सृञ्जयाः तावकं सैन्यं भीमार्जुनपरिक्षतम् ॥ 6-75-33 (42009) तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम्। मुह्यते तत्रतत्रैव समदेव वराङ्गना॥ 6-75-34 (42010) अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये। आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥ 6-75-35 (42011) तदद्भुतमपश्याम तावकानां परैः सह । एकायनगताः सर्वे यदयुध्यन्त भारत ॥ 6-75-36 (42012) प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशांपते । युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः ॥ ॥ 6-75-37 (42013) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे पञ्चसप्ततितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 076

॥ श्रीः ॥

6.76. अध्यायः 076

Mahabharata - Bhishma Parva - Chapter Topics

धृतराष्ट्रेण स्वसेनाक्षयश्रवणेन शोचनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-76-0 (42014) धृतराष्ट्र उवाच। 6-76-0x (4151) एवं बहुगुणं सैन्यमेवं बहुविधं परम्। व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ॥ 6-76-1 (42015) जुष्टमस्माकमत्यन्तमभिकामं च नः सदा । प्रहृष्टं व्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ॥ 6-76-2 (42016) नातिवृद्धमबालं च न कृशं न च पीवरम् । लघुवृत्तायतप्रायं सागराकारमव्ययम् ॥ 6-76-3 (42017) आत्तसन्नाहशस्त्रं च बहुशस्त्रपरिग्रहम् । असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ॥ 6-76-4 (42018) प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च । भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ॥ 6-76-5 (42019) कम्पनेषु च चापेषु कणपेषु च सर्वशः । क्षेणणीयेषु चित्रेषु मुष्टयुद्धेषु च क्षमम् ॥ 6-76-6 (42020) अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम् । शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ॥ 6-76-7 (42021) आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते । सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥ 6-76-8 (42022) नागाश्वरथयानेषु बहुशः सुपरीक्षितम् । परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ 6-76-9 (42023) न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः । न सौहृदबलैर्वापि नाकुलीनपरिग्रहैः ॥ 6-76-10 (42024) समृद्धजनमार्यं च तुष्टसंबन्धिबान्धवम् । कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ॥ 6-76-11 (42025) स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः । लोकपालोपमैस्तात पालितं लोकविश्रुतम् ॥ 6-76-12 (42026) बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः । अस्मानभिगतैः कामात्सबलैः सपदानुगैः ॥ 6-76-13 (42027) महोदधिमिवापूर्णमापगाभिः समन्ततः । अपक्षपक्षिसंकाशै रथैर्नागैश्च संवृतम् ॥ 6-76-14 (42028) नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्। क्षेपण्यसिगदाशक्तिशरप्राससामाकुलम् ॥ 6-76-15 (42029) ध्वजभूषणसंबाधं रत्नपट्टसुसंचितम् । परिधावद्भिरश्वैश्च वायुवेगविकम्पितम् ॥ 6-76-16 (42030) अपारमिव गर्जन्तं सागरप्रतिमं महत्। द्रोणभीष्मासिसंगप्तं गुप्तं च कृतवर्मणा ॥ 6-76-17 (42031) कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा । भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ॥ 6-76-18 (42032) गुप्तं प्रवीरैर्लौकैश्च सारवद्भिर्महात्मभिः । यदहन्यत सैन्यं मे दिष्टमत्र परायणम् ॥ 6-76-19 (42033) नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः । ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ॥ 6-76-20 (42034) ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसंपदा । वध्यते यत्र संग्रामे किमन्यद्भागधेयतः ॥ 6-76-21 (42035) विपरीतमिदं सर्वं प्रतिभाति हि सञ्जय । यत्रेदृशं बलं घोरं नावधीद्युधि पाण्डवान् ॥ 6-76-22 (42036) पाण्डवार्थाय नियतं देवास्तत्र समागताः । युध्यन्ते मामकं सैन्यं यथाऽवध्यत सञ्जय ॥ 6-76-23 (42037) उक्तोऽपि विदुरेणाहं हितं पथ्यं च नित्यशः । न च जग्राह तन्मन्दः पुत्रो दुर्योधनो मम ॥ 6-76-24 (42038) तथ्यां मन्ये मतिं तस्य सर्वज्ञस्य महात्मनः । आसीत्तथाऽऽगतं तात येन दृष्टमिदं पुरा ॥ 6-76-25 (42039) अथवा भाव्यमेवं हि संजयैतेन सर्वथा । पुरा धात्रा यथा दिष्टं तत्तथा न तदन्यथा ॥ ॥ 6-76-26 (42040) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे षट्सप्ततितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-76-2 नः अस्मान् अभिकामं आकाङ्क्षमाणम्। प्रह्वनिमिपाठे प्रणतम् ॥ 6-76-3 लघुवृत्तं शीघ्रकारि। आयतप्रायं प्रांशुबहुलम् ॥ 6-76-8 आरोहे हस्त्यादीनाम्। पर्यवस्कन्दे हस्त्यादिभ्योऽवतरणे ॥ 6-76-11 मनस्वि साहंकारम् ॥
भीष्मपर्व - अध्याय 077

॥ श्रीः ॥

6.77. अध्यायः 077

Mahabharata - Bhishma Parva - Chapter Topics

भीमद्रोणपराक्रमवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-77-0 (42041) सञ्जय उवाच। 6-77-0x (4152) आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् । न हि दुर्योधनस्तानि पश्यते भरतर्षभ ॥ 6-77-1 (42042) यानि त्वं पश्यसे राजन्धर्मसंकरकारणात्। तव दोषात्पुरा वृत्तं द्यूतमेतद्विशांपते ॥ 6-77-2 (42043) तव दोषेण युद्दं च प्रवृत्तं सह पाण्डवैः । त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ॥ 6-77-3 (42044) आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते। इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ॥ 6-77-4 (42045) तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत्। शृणु युद्धं यथा वृत्तं शंसतो मे नराधिप ॥ 6-77-5 (42046) भीमसेनः सुनिशितैर्बाणैर्भित्त्वा महाचमूम् । आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ॥ 6-77-6 (42047) दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम्। जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ॥ 6-77-7 (42048) चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च । एतांश्चान्यांश्च सुबहून्समीपस्थान्महारथान् ॥ 6-77-8 (42049) धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महारथः । भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ॥ 6-77-9 (42050) अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु । जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ॥ 6-77-10 (42051) स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः । प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ॥ 6-77-11 (42052) संप्राप्य मध्यं सैन्यस्य न भीः पाण्डवमाविशत्। यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान् । 6-77-12 (42053) ततः शतसहस्राणि रथिनां सर्वशः प्रभो । उद्यतानि शरैस्तीव्रैस्तमेकं परिवव्रिरे ॥ 6-77-13 (42054) स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः । जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ॥ 6-77-14 (42055) तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम्। समस्तानां वधे राजन्मतिं चक्रे महामनाः ॥ 6-77-15 (42056) ततो रथं समुत्सृज्य गदामादाय पाण्डवः । उवाच सारथिं भीमं स्थीयतामिति भारत ॥ 6-77-16 (42057) यावदेतान्हनिष्यामि धार्तराष्ट्रान्सहानुगान् । इत्युक्त्वा भीमसेनस्तु प्रविश्य महतीं चमूम् । जघान धार्तराष्ट्राणां तद्बलौघमहार्णवम् ॥ 6-77-17 (42058) गदया भिमसेनेन ताडिता वारणोत्तमाः । भिन्नकुम्भा महाकाया भिन्नपृष्ठास्तथैवच ॥ 6-77-18 (42059) भिन्नगात्राः सहारोहैः शेरते पर्वता इव। रथाश्च भग्नास्तिलशः सयोधाः शतशो रणे ॥ 6-77-19 (42060) अश्वाश्च सादिनश्चैव पादातैः सह भारत । तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ॥ 6-77-20 (42061) यदेकः समरे राजन्बहुभिः समयोधयत् । अन्तकाले प्रजाः सर्वा दण्डपाणिरिवान्तकः ॥ 6-77-21 (42062) भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः । द्रोणमुत्सृज्य तरसा ययौ यत्र वृकोदरः ॥ 6-77-22 (42063) विदार्य महतीं सेनां तावकानां नरर्षभः । आससाद रथं शून्यं भीमसेनस्य संयुगे ॥ 6-77-23 (42064) दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् । धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ॥ 6-77-24 (42065) अपृच्छद्बाष्पसंरुद्धो निःश्वसन्वाचमीरयन् । मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ॥ 6-77-25 (42066) विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः । संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी ॥ 6-77-26 (42067) प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् । मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः ॥ 6-77-27 (42068) प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम्। यावदेवान्निहन्म्यद्य य इमे मद्वधोद्यताः । अभ्यधावद्गदापाणिस्तद्बलं स महाबलः ॥ 6-77-28 (42069) ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम् । सर्वेषामेव सैन्यानां संहर्षः समजायत ॥ 6-77-29 (42070) तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके । भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ॥ 6-77-30 (42071) विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः । प्रत्युवाच ततः सूतं रणमध्ये महाबलः ॥ 6-77-31 (42072) न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम् । भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ॥ 6-77-32 (42073) यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति। एकायनगते भीमे मयि चावस्थिते युधि ॥ 6-77-33 (42074) तस्य न स्वस्ति कुर्वन्ति देवाः शक्रपुरोगमाः । यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहम् ॥ 6-77-34 (42075) `रौरवे नरके मञ्जेदप्लवे दुस्तरे नृभिः ।' मम भीमः सखा चैव संबन्धी च महाबलः । भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ॥ 6-77-35 (42076) सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः । निघ्नन्तं मां रिपून्पश्य दानवानिव वासवम् ॥ 6-77-36 (42077) एवमुक्त्वा ततो वीरो ययौ मध्येन वाहिनीम् । भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ॥ 6-77-37 (42078) स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम्। वातो वृक्षानिव बलात्प्रभञ्जन्तं रणे रिपून् ॥ 6-77-38 (42079) ते वध्यमानाः समरे रथिनः सादिनस्तथा । पादाता दन्तिनश्चैव चक्रुरात्स्वरं महत् ॥ 6-77-39 (42080) हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष । वध्यतो भीमसेनेन कृतिना चित्रयोधिना ॥ 6-77-40 (42081) ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् । अभीताः समवर्तन्त शस्त्रवृष्ट्या परंतप ॥ 6-77-41 (42082) अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरः। सैन्येन घोरेण सुसंहितेन दृष्ट्वा बली पार्षतो भीमसेनम् ॥ 6-77-42 (42083) अथोपगच्छच्छरविक्षताङ्गं पदातिनं क्रोधविषं वमन्तम्। आश्वासयन्पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले ॥ 6-77-43 (42084) विशल्यमेनं च चकार तूर्ण- मारोपयच्चात्मरथे महात्मा। भृशं परिष्वज्य च भीमसेन- माश्वासयामास स शत्रुमध्ये ॥ 6-77-44 (42085) तथा तस्मिन्वर्तमानेऽतिवेगं भ्रातॄनथोपेत्य तवापि पुत्रः । तस्मिन्विमर्दे तव संप्रवृत्ते दृष्ट्वा रणे वाक्यमिदं बभाषे ॥ 6-77-45 (42086) अयं दुरात्मा द्रुपदस्य पुत्रः समागतो भीमसेनेन सार्धम् ॥ 6-77-46 (42087) तं याम सर्वे महता बलेन मा वो रिपुः प्रार्थयतामनीकम्। श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठज्ञया नोदिता धार्तराष्ट्राः ॥ 6-77-47 (42088) वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः। प्रगृह्य चास्त्राणि धनूंषि वीरा ज्यां नेमिघोषैः प्रविकम्पयन्तः ॥ 6-77-48 (42089) शरैरवर्षन्द्रुपदस्य पुत्रं यथाम्बुदा भूधरं वारिजालैः । निहत्य तांश्चापि शरैः सुतीक्ष्णै- र्न विव्यथे समरे चित्रयोधी ॥ 6-77-49 (42090) समभ्युदीर्णांश्च तवात्मजांस्तथा निशाम्य वीरानभितः स्थितान्रणे । जिघांसुरुग्रो द्रुपदात्मजो युवा। प्रमोहनास्त्रं युयुजे महारथः । क्रुद्धो भृशं तव पुत्रेषु राज- न्दैत्येषु यद्वत्समरे महेन्द्रः ॥ 6-77-50 (42091) `स वै ततोऽस्त्रं सुमहाप्रभावं' प्रमोहनं द्रोणदत्तं महात्मा। प्रयोजयामास उदारकर्मा तस्मिन्रणे तव सैन्यस्य राजन्॥' 6-77-51 (42092) ततो व्यमुह्यन्त रणे नृवीराः प्रमोहनास्त्राहतबुद्धिसत्वाः प्रदुद्रुवुः कुरवश्चैव सर्वे सवाजिनागाः सरथाः समन्तात्। परीतकालानिव नष्टसंज्ञा- न्मोहोपेतांस्तव पुत्रान्निशम्य ॥ 6-77-52 (42093) एतस्मिन्नेव काले तु भीमः प्रहरतां वरः। विश्रम्य च तदा राजन्पीत्वाऽमृतरसं जलम् ॥ 6-77-53 (42094) पुनः सन्नह्य संक्रुद्धो योधयामास संयुगे। धृष्टद्यम्नेन सहितः कालयामास भारत ॥ 6-77-54 (42095) एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः। द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ॥ 6-77-55 (42096) सोऽतिविद्धस्ततो राजन्रणे द्रोणेन पार्थिवः । अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् । 6-77-56 (42097) जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् । तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ॥ 6-77-57 (42098) अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः। प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ॥ 6-77-58 (42099) ततो द्रोणो महाराज त्वरितोऽभ्याययौ रणात्। तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ॥ 6-77-59 (42100) धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे । मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः ॥ 6-77-60 (42101) ततः प्रज्ञांस्त्रमदाय मोहनास्त्रं व्यनाशयत् । ततः प्रत्यागतप्राणास्तव पुत्रा महारथाः ॥ 6-77-61 (42102) पुनर्युद्धाय समरे प्रत्युद्याता जिगीषवः । ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् ॥ 6-77-62 (42103) गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि। सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः ॥ 6-77-63 (42104) प्रवृत्तिमधिगच्छन्तु न हि शुद्ध्यति मे मनः । प्रवृत्तिर्भिमसेनस्य पार्षतस्य च संयुगे ॥ 6-77-64 (42105) विज्ञेया समरे शीघ्रं प्रविशध्वं रथार्णवम् । गच्छन्तु परया शक्त्या भवन्त इति मे मतिः ॥ 6-77-65 (42106) त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः । बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः । मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ॥ 6-77-66 (42107) केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् । अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ॥ 6-77-67 (42108) ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमम् । बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ॥ 6-77-68 (42109) तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान्। भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ॥ 6-77-69 (42110) न संवारयितुं शक्ता तव सेना जनाधिप । मदमूर्च्छन्वितात्मा वै प्रमदेवाध्वनि स्थिता ॥ 6-77-70 (42111) तेऽभिजाता महेष्वासाः सुवर्णविकृतध्वजाः । परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्रवृकोदरौ ॥ 6-77-71 (42112) तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान् । बभूवतुर्मुदायुक्तौ निघ्नन्तौ तव वाहिनीम् ॥ 6-77-72 (42113) `द्रोणमिष्वस्त्रकुशलं सर्वविद्यासु पारगम्।' दृष्ट्वा तु सहसायान्तं पाञ्चाल्यो गुरुमात्मनः । नाशंसत वधं वीरः पुत्राणां तव पार्षतः ॥ 6-77-73 (42114) ततो रथं समारोप्य कैकेयस्य वृकोदरम् । अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम् ॥ 6-77-74 (42115) तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान्। क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः ॥ 6-77-75 (42116) अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते । दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ॥ 6-77-76 (42117) अथान्यद्धनुरादाय पार्षतः परवीरहा । द्रोणं विव्याध विंशत्या रुक्मपुङ्खैः शिलाशितैः ॥ 6-77-77 (42118) तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनःक । हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ॥ 6-77-78 (42119) वैवस्वतक्षयं घोरं प्रेषयामास भारत । सारथिं चास्य भल्लेन प्रेषयामास भारत । 6-77-79 (42120) हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः । आरुरोह महाबाहुरभिमन्योर्महारथम् ॥ 6-77-80 (42121) ततः सरथनागाश्वा समकम्पत वाहिनी । पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ॥ 6-77-81 (42122) तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा । नाशक्रुवन्वारयितुं समस्तास्ते महारथाः ॥ 6-77-82 (42123) वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः । व्यभ्रमत्तत्रतत्रैव क्षोभ्यमाण इवार्णवः ॥ 6-77-83 (42124) तथा दृष्ट्वा च तत्सैन्यं जहृषे तावकं बलम् । दृष्ट्वाचार्यं सुसंक्रुद्धं तपन्तं रिपुवाहिनीम् । तुष्टुवुः सर्वतो योधाः साधुसाध्विति भारत ॥ ॥ 6-77-84 (42125) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे सप्तसप्ततितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 078

॥ श्रीः ॥

6.78. अध्यायः 078

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-78-0 (42126) सञ्जय उवाच। 6-78-0x (4153) ततो दुर्योधनो राजा महोत्प्रत्यागतस्मृतिः । शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ॥ 6-78-1 (42127) एकीभूतास्ततश्चैव तव पुत्रा महारथाः । समेत्य समरे भीमं योधयामासुरुद्यताः ॥ 6-78-2 (42128) भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः । समारुह्य महाबाहुर्ययौ येन तवात्मजः ॥ 6-78-3 (42129) प्रगृह्य च महावेगं परासुकरणं दृढम् । सज्यं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतम् ॥ 6-78-4 (42130) ततो दुर्योधनो राजा भीमसेनं महाबलम् । नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ॥ 6-78-5 (42131) सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना । क्रोधसंरक्तनयनो वेगेनाक्षिप्य कार्मुकम् ॥ 6-78-6 (42132) दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् । स तत्र शुशुभे राजा शिखरैर्गिरिराडिव ॥ 6-78-7 (42133) तौ दष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् । दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः ॥ 6-78-8 (42134) संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः । निश्चयं परमं कृत्वा निग्रहीतुं प्रचक्रमुः ॥ 6-78-9 (42135) तानापतत एवाजौ भीमसेनो महाबलः । प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ॥ 6-78-10 (42136) भृशं क्रुद्धश्च तेजस्वी नाराचेन समार्पयत् । चित्रसेनं महाराज तव पुत्रं महायशाः ॥ 6-78-11 (42137) तथेतरांस्तव सुतांस्ताडयामास भारत । शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुतेजनैः ॥ 6-78-12 (42138) ततः संप्रेक्ष्य पुत्रैस्ते भीमसेनं समावृतम् । अभिमन्युप्रभृतयस्ते द्वदश महारथाः ॥ 6-78-13 (42139) प्रेषिता धर्मराजेन भीमसेनपदानुगाः । प्रतिजग्मुर्महाराज तव पुत्रान्महाबलान् ॥ 6-78-14 (42140) दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः । सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ॥ 6-78-15 (42141) महाहवे दीष्यमानान्सुवर्णमकुटोञ्ज्वलान्। तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥ 6-78-16 (42142) तान्नामृष्यत कौन्तेयो जीवमाना गता इति । अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ॥ 6-78-17 (42143) अथाभिमन्युः समरे भीमसेनेन संगतः । पार्षतेन च ते सर्वे कैकया द्रौपदीसुताः ॥ 6-78-18 (42144) तादृष्ट्वा समरे क्रुद्धांस्तव सैन्ये महारथाः। दुर्योधनप्रभृतयः प्रगृहीतशरासनाः। भृशमर्श्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ॥ 6-78-19 (42145) अपराह्णे महाराज प्रावर्तत महारणः। तावकानां च बलिनां परेषां चैव भारत ॥ 6-78-20 (42146) अभिमन्युर्विकर्णस्य हयान्हत्वा महाहवे। अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ 6-78-21 (42147) हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः । आरुरोह रथं राजंश्चित्रसेनस्य भारत । योधयामास समरे तदद्भुतमिवाभवत् ॥ 6-78-22 (42148) स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ। आर्जिनिः शरजालेन च्छादयामास भारत ॥ 6-78-23 (42149) चित्रसेनो विकर्णश्च कार्ष्णिं पञ्चभिरायसैः । विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिव स्थितः ॥ 6-78-24 (42150) दुःशासनस्तु समरे केकयान्पञ्च मारिप । योधयामास राजेन्द्र तदद्भुतमिवाभवत् ॥ 6-78-25 (42151) द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् । शरैराशीविषाकारैः पुत्रं तव विशांपते ॥ 6-78-26 (42152) पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे । सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ॥ 6-78-27 (42153) तैश्चापि विद्धः शुशुभे रुधिरेम समुक्षितः । गिरिः प्रस्रवणैर्यद्वद्गैरिकादिविमिश्रितैः ॥ 6-78-28 (42154) भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् । कालयामास बलवान्पालः पशुगणानिव ॥ 6-78-29 (42155) ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशांपते । दक्षिणेन वरूथिन्याः पार्थस्यरीन्विनिघ्नतः ॥ 6-78-30 (42156) उत्तस्थुः समरे तत्र कबन्धानि समन्ततः। कुरूणां चैव सैन्येषु पाण्डवानां च भारत ॥ 6-78-31 (42157) शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम् । रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ॥ 6-78-32 (42158) छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः । दृश्यन्ते पतितास्तत्र शतशोऽथ सहस्रशः ॥ 6-78-33 (42159) निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः । भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ॥ 6-78-34 (42160) तत्राद्भुतमपश्याम तव तेषां च भारत । न तत्रासीत्पुमान्कश्चिद्यो युद्धं नाभिकाङ्क्षति ॥ 6-78-35 (42161) एवं युयुधिरे वीराः प्रार्थयाना महद्यशः। तावकाः पाण्डवैः सार्धमाकाङ्क्षन्तो जयं युधि ॥ ॥ 6-78-36 (42162) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे अष्टसप्ततितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 079

॥ श्रीः ॥

6.79. अध्यायः 079

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-79-0 (42163) सञ्जय उवाच। 6-79-0x (4154) ततो दुर्योधनो राजा लोहितायति भास्करे। संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ॥ 6-79-1 (42164) तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् । भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत् ॥ 6-79-2 (42165) अयं स कालः संप्राप्तो वर्षपूगाभिवाञ्छितः । अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ॥ 6-79-3 (42166) अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः। द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि ॥ 6-79-4 (42167) यत्पुरा मत्सरीभूत्वा पाण्डवानवमन्यसे । तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ॥ 6-79-5 (42168) कर्णस्य मतमास्थाय सौबलस्य च यत्पुरा । अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ॥ 6-79-6 (42169) याचमानं च यन्मोहाद्दाशार्हमवमन्यसे। उलूकस्य समादेशं यद्ददासि च हृष्टवत् ॥ 6-79-7 (42170) तेन त्वां निहनिष्यामि सानुबन्धं सबान्धवम् । शमीकरिष्ये तत्पापं यत्पुरा कृतवानसि ॥ 6-79-8 (42171) एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् । समाधत्त शरान्घोरान्महाशनिसमप्रभान् ॥ 6-79-9 (42172) षड्विंशतिमसं क्रुद्धो मुमोचाशु सुयोधने । ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ॥ 6-79-10 (42173) ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे । चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ॥ 6-79-11 (42174) द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः । छत्रं चिच्छेद समरे राज्ञस्तस्य नरोत्तम् ॥ 6-79-12 (42175) षङ्भिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् । छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ॥ 6-79-13 (42176) रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितात्। पपात सहसा भूमौ विद्युञ्जलधरादिव ॥ 6-79-14 (42177) ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् । ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ 6-79-15 (42178) अथैनं दशभिर्बाणैस्तोत्रैरिव महाद्विपम् । आजघान रणे वीरं स्मयन्निव महारथः ॥ 6-79-16 (42179) स गाढविद्धो व्यथितो भीमसेनेन संयुगे । निषसाद रथोपस्थे मूर्च्छाभिहतचेतनः ॥ 6-79-17 (42180) ततः स राजा सिन्धूनां रथश्रेष्ठो महाबलः । दुर्योधनस्य जग्राह पार्ष्णिं स्वपुरुषैर्वृतः ॥ 6-79-18 (42181) कृपश्च रथिनां श्रेष्ठस्तव पुत्रमचेतनम् । आरोपयद्रथं राजन्दुर्योधनममर्षणम् ॥ 6-79-19 (42182) परिवार्य ततो भीमं जेतुकामो जयद्रथः । रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥ 6-79-20 (42183) धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्। केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ॥ 6-79-21 (42184) चित्रसेनः सुचित्रश्च चित्राङ्गश्चित्रदर्शनः । चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ॥ 6-79-22 (42185) अष्टावेते महेष्वासाः सुकुमारा यशस्विनः । अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ॥ 6-79-23 (42186) आजघान ततस्तूर्णमभिमन्युर्महामनाः । एकैकं पञ्चभिर्बाणैः शितैः सन्नतपर्वभिः ॥ 6-79-24 (42187) वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः । अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् ॥ 6-79-25 (42188) ववृषुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः । स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः ॥ 6-79-26 (42189) अभिमन्युर्महाराज तावकान्समकम्पयत्। यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ॥ 6-79-27 (42190) विकर्णस्य ततो भल्लान्प्रेषयामास भारत। चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ॥ 6-79-28 (42191) स तैर्विकर्णस्य रथात्पातयामास वीर्यवान् । ध्वजं सूतं हयांश्चैव नृत्यमान इवाहवे ॥ 6-79-29 (42192) पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान्। प्रेषयामास संक्रुद्धो विकर्णाय महाबलः ॥ 6-79-30 (42193) ते विकर्णं समासाद्य कङ्कबर्हिणवाससः। भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ॥ 6-79-31 (42194) ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले । विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ॥ 6-79-32 (42195) विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः । अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ॥ 6-79-33 (42196) अभियात्वा तथैवान्यान्रथांस्तान्सूर्यवर्चसः । अविध्यन्समरेऽन्योन्यं संरम्भाद्युद्धदुर्मदाः ॥ 6-79-34 (42197) दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः । ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तमिः ॥ 6-79-35 (42198) अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः । जघान षङ्भिरासाद्य सारथिं चाभ्यपातयत् ॥ 6-79-36 (42199) स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः । शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव ॥ 6-79-37 (42200) सा दुर्मुखस्य विमलं वर्म भित्त्वा यशस्विनः । विदार्य प्राविशद्भूभिं दीप्यमाना स्वतेजसा ॥ 6-79-38 (42201) दुर्मुखो विह्वलस्तत्र निषसाद रणे विभो। विसंज्ञं प्रेक्ष्य ते सर्वे भ्रातरः पर्यवारयन् ॥ 6-79-39 (42202) तं दृष्ट्वा विरथं तत्र सुतसोमो महारथः । पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ॥ 6-79-40 (42203) श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव। अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ॥ 6-79-41 (42204) तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महास्वनम्। चिच्छेद समरे तूर्णं जयत्सेनः सुतस्तव ॥ 6-79-42 (42205) क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत। तं दृष्ट्वा च्छिन्नधन्वानं शतानीकः सहोदरम् ॥ 6-79-43 (42206) अभ्यपद्यत तेजस्वी सिंहवन्निनदन्मुहुः । शतानीकस्तु समरे दृढं विस्पार्य कार्मुकम् ॥ 6-79-44 (42207) विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः । ननाद सुमहानादं प्रभिन्न इव वारणः ॥ 6-79-45 (42208) अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना । शतानीको जयत्सेनं विव्याध हृदये भृशम् ॥ 6-79-46 (42209) तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके । मुमोचास्मैशितान्बाणांस्तीक्ष्णानाशीविषोपमान् चिच्छेद समरे चापं नाकुलेः क्रोधमूर्च्छितः ॥ 6-79-47 (42210) अथान्यद्धनुरादाय भारसाहमनुत्तमम् । समादत्त शरान्घोराञ्शतानीको महाबलः ॥ 6-79-48 (42211) तिष्ठतिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः। मुमोचास्मै शितान्बाणाज्ज्वलितान्पन्नगानिव ॥ 6-79-49 (42212) ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष । चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥ 6-79-50 (42213) अश्वान्मनोजवांस्तस्य कर्बुरान्वातरंहसः । जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ॥ 6-79-51 (42214) अथापरेण भल्लेन सुयुक्तेनाशुपातिना। दुष्कर्णं नाकुलिः क्रुद्धो विव्याध हृदये भृशम् ॥ 6-79-52 (42215) स पपात ततो भूमौ वज्राहत इव द्रुमः । दुष्कर्णं व्यथितं दृष्ट्वा पञ्च राजन्महारथाः ॥ 6-79-53 (42216) दिघांसन्तः शतानीकं सर्वतः पर्यवारयन्। छाद्यमानं शरव्रतैः शतानीकं यशस्विनम् ॥ 6-79-54 (42217) अभ्यधावन्त संक्रुद्धाः केकयाः पञ्च सोदराः । तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः ॥ 6-79-55 (42218) प्रत्युद्ययुर्महाराज गजानिव महागजाः । दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा ॥ 6-79-56 (42219) शत्रुंजयः सत्रुसहः सर्वे क्रुद्धा यशस्विनः । प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ॥ 6-79-57 (42220) रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः । नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ॥ 6-79-58 (42221) शरचापधरा वीरा विचित्रकवचध्वजाः । विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ॥ 6-79-59 (42222) तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम्। अवर्तत महारौद्रं निघ्नतामितरेतरम् ॥ 6-79-60 (42223) अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् । मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् ॥ 6-79-61 (42224) रथिनः सादिनश्चाथ व्यकीर्यन्त सहस्रशः । ततः शान्तनवः क्रुद्धः शरैः सन्नतपर्वभिः ॥ 6-79-62 (42225) नाशयामास सेनां तां भीष्मस्तेषां महात्मनाम् । पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ॥ 6-79-63 (42226) एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम्। कृत्वाऽवहारं सैन्यानां ययौ स्वशिबिरं नृप ॥ 6-79-64 (42227) नाशयामासतुर्वीरौ धृष्टद्युम्नवृकोदरौ। करवाणामनीकानि शरैः सन्नतपर्वभिः ॥ 6-79-65 (42228) धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ । मूर्ध्नि चैतावुपाघ्राय प्रहृष्टः शिबिरं ययौ ॥ 6-79-66 (42229) ` अर्जुनो वासुदेवश्च कौरवाणामनीकिनीम् ।' हत्वा विद्राव्य च शरैः शिबिरायैव जग्मतुः ॥ ॥ 6-79-67 (42230) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे एकोनाशीतितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 080

॥ श्रीः ॥

6.80. अध्यायः 080

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मदुर्योधनसंवादः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-80-0 (42231) सञ्जय उवाच। 6-80-0x (4155) क्षत्रियास्ते महाराज परस्परकृतागसः। जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥ 6-80-1 (42232) विश्रम्य च यथान्यायं पूजयित्वा परस्परम् । सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षवः ॥ 6-80-2 (42233) ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः । विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥ 6-80-3 (42234) सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि। विदार्य हत्वा च निपीड्य शूरां- स्ते पाण्डवा लब्धजयाः प्रहृष्टाः ॥ 6-80-4 (42235) संमोह्य सर्वान्युधि कीर्तिमन्तो व्यूहं च तं मकरं मृत्युकल्पम् । प्रविश्य भीमेन रणे हतोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥ 6-80-5 (42236) क्रुद्धं तमुद्वीक्ष्य भयेन राज- न्संमूर्च्छितो न लभे शान्तिमद्य । इच्छे प्रसादात्तव सत्यसन्ध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥ 6-80-6 (42237) तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं मन्युगतं विदित्वा। तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः सस्त्रभृतां वरिष्ठः ॥ 6-80-7 (42238) परेण यत्नेन विगाह्य सेनां सर्वात्मनाऽहं तव राजपुत्र। इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे ॥ 6-80-8 (42239) एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः । ये पाण्डवानां समरे सहाया जितक्लमा रोषविषं वमन्ति ॥ 6-80-9 (42240) केनेह शक्याः सहसा विजेतुं वीर्योद्धताः कृतवैरास्त्वया च। अहं ह्येतान्प्रतियोत्स्यामि राज- न्सर्वात्मना जीवितं त्यज्य वीर ॥ 6-80-10 (42241) रणे तवार्थाय महानुभाव न जीवितं रक्षितव्यं ममाद्य। सर्वांस्तवार्थाय सदेवदैत्याँ- ल्लोकान्दहेयं किमु शत्रुसेनाम् ॥ 6-80-12aतान्पाण्डवान्योधयिष्यामि राजन् प्रियं च ते सर्वमहं करिष्ये। 6-80-11 (42242) सञ्जय उवाच। श्रुत्वा पितुस्ते वचनं प्रतीतो दुर्योधनः प्रीतमना बभूव ॥ 6-80-12x (4156) सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान्। तदाक्षया तानि विनिर्ययुर्द्रुतं गजाश्वपादातरथायुतानि ॥ 6-80-13 (42243) प्रहर्षयुक्तानि तु तानि राज- न्महान्ति नानाविधशस्त्रवन्ति। स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन्बलानि ॥ 6-80-14 (42244) शस्त्रास्त्रविद्भिर्नरवीरयोधै- रधिष्ठिताः सैन्यगणास्त्वदीयाः। रथौघपादातगजाश्वसङ्घैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः ॥ 6-80-15 (42245) समुद्धतं वै तरुणार्कवर्णं रजो बभौ च्छादयत्सूर्यश्मीन्। रेजुः पताका रथदन्तिसंस्था वातेरिता भ्राम्यमाणाः समन्तात् ॥ 6-80-16 (42246) नानालिङ्गैः समरे तत्र राजन् मेघैर्युता विद्युतः खे यथैव। वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता- श्चकाशिरे दन्तिगणाः समन्तात् ॥ 6-80-17 (42247) धनूंषि विष्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः। विमथ्यतो देवमहासुरौघै- र्यथार्णवस्यादियुगे तदानीम् ॥ 6-80-18 (42248) तदुग्रनागं बहुरूपवर्णं तवात्मजानां समुदीर्णकोपम् । बभूव सैन्यं रिपुसैन्यहन्त- युगान्तमेघौघनिभं तदानीम् ॥ ॥ 6-80-19 (42249) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे अशीतितमोऽद्यायः ॥
भीष्मपर्व - अध्याय 081

॥ श्रीः ॥

6.81. अध्यायः 081

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मेण दुर्योधनसंहर्षणम् ॥ 1 ॥ राज्ञां द्वन्द्वीभूय मेलनम् ॥ 2 ॥ अर्जुनपराक्रमवर्णनम् ॥ 3 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-81-0 (42250) सञ्जय उवाच। 6-81-0x (4157) अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् । अब्रवीद्भरतश्रेष्ठः संप्रहर्षकर वचः ॥ 6-81-1 (42251) भीष्म उवाच। 6-81-2x (4158) अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः। अश्वत्थामा विकर्णश्च भगदत्तोऽथ सौबलः ॥ 6-81-2 (42252) विन्दानुविन्दावावन्त्यौ बाह्लीकः सह बाह्लिकैः । त्रिगर्तराजो बलवान्मागधश्च सुदुर्जयः ॥ 6-81-3 (42253) बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः । `कृपश्च सह सोदर्यैस्तव राजन्पदानुगाः।' रथाश्च बहुसाहस्राः शोभनाश्च महाध्वजाः ॥ 6-81-4 (42254) देशजाश्च हया राजन्स्वारूढा हयसादिभिः । गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥ 6-81-5 (42255) पादाताश्च तथा शूरा नानाप्रहरणा युधि। नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥ 6-81-6 (42256) एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः। देवानपि रणे जेतुं समर्था इति मे मतिः ॥ 6-81-7 (42257) अवश्यं हि मया राजंस्तव वाच्यं हितं सदा। अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ 6-81-8 (42258) वासुदेवसहायाश्च महेन्द्रसमविक्रमाः । सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव ॥ 6-81-9 (42259) पाण्डवांश्च रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः । 6-81-10 (42260) सञ्जय उवाच। एवमुक्त्वा ददावस्मै विशल्यकरणीं शुभाम् ॥ 6-81-10x (4159) ओषधीं वीयसंपन्नां विशल्यश्चाभवत्तदा । ततः प्रभाते विमले स्वेन सैन्येन वीर्यवान् ॥ 6-81-11 (42261) अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः । मण़्डलं मनुजश्रेष्ठो नानाशस्त्रसमाकुलम् ॥ 6-81-12 (42262) संपूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः । रथैरनेकसाहस्रैः समन्तत्परिवारितम् ॥ 6-81-13 (42263) अश्ववृन्दैर्महद्भिश्च रिष्टितोमरधारिभिः । नागेनागे रथाः सप्त सप्त चाश्वा रथेरथे ॥ 6-81-14 (42264) अन्वश्वं दश धानुष्का धानुष्के दश चर्मिणः। एवं व्यूहं महाराज तव सैन्यस्य दंशितम् ॥ 6-81-15 (42265) स्थितं रणाय महते भीष्मेण युधि पालितम् । दशाश्वानां सहस्राणि दन्तिनां च तथैव च ॥ 6-81-16 (42266) रथानामयुतं चापि पुत्राश्च तव दंशिताः। चित्रसेनादयः शूरा अभ्यरक्षन्तितामहम् ॥ 6-81-17 (42267) रक्ष्यमाणाः स तैः शूरैर्गोप्यमानाश्च तेन ते। सन्नद्धाः समदृश्यन्त राजानश्च महाबलाः ॥ 6-81-18 (42268) दुर्योधनस्तु समरे दंशितो रथमास्थितः । व्यराजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥ 6-81-19 (42269) ततः शब्दो महानासीत्पुत्राणां तव भारत । रथघोषश्च विपुलो वादित्राणां च निःस्वनः ॥ 6-81-20 (42270) भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्भुखो युधि। मण्डलः स महाव्यूहो दुर्भेद्योऽमित्रघातनः ॥ 6-81-21 (42271) सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः । मण्डलं तु समालोक्य व्यूहं परमदुर्ययम् ॥ 6-81-22 (42272) स्वयं युधिष्ठिरो राजा वज्रं व्यूहमथाकरोत्। तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः ॥ 6-81-23 (42273) रथिनः सादिनः सर्वे सिंहनादमथानदन् । बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः ॥ 6-81-24 (42274) इतरेतरतः शूराः सहसैन्याः प्रहारिणः । भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि सिखण्डिनम् ॥ 6-81-25 (42275) स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् । नकुलः सहदेवश्च मद्रराजानमीयतुः ॥ 6-81-26 (42276) विन्दानुविन्दावावन्त्यौ युयुधानमभिद्रुतौ । सर्वे नृपास्तु समरे धनंजयमयोधयन् ॥ 6-81-27 (42277) भीमसेनो रणे यान्तं हार्दिक्यं समवारयत्। चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभुः ॥ 6-81-28 (42278) आर्जुनिः समरे राजंस्तव मुत्रानयोधयत् । प्राग्ज्योतिषो महेष्वासो हैडिम्बं राक्षसोत्तमम् ॥ 6-81-29 (42279) अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् । अलम्बुसस्तदा राजन्सात्यकिं युद्धदुर्मदम् ॥ 6-81-30 (42280) ससैन्यं समरे क्रुद्धो राक्षसः समुपाद्रवत्। भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् ॥ 6-81-31 (42281) श्रुतायुषं च राजानं धर्मपुत्रो युधिष्ठिरः । चेकितानश्च समरे कृपमेवान्वयोधयत् ॥ 6-81-32 (42282) शेषाः प्रतिययुर्यत्ता भीष्ममेव महारथम् । ततो राजसमूहास्ते परिवव्रुर्धनंजयम् ॥ 6-81-33 (42283) शक्तितोमरनाराचगदापरिघपाणयः। अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत्॥ 6-81-34 (42284) पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे। व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥ 6-81-35 (42285) युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् । त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥ 6-81-36 (42286) अद्यैतान्नाशयिष्यामि पश्यतस्ते जनार्दन । य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥ 6-81-37 (42287) एतदुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृद्य च । ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥ 6-81-38 (42288) तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् । तटाकं वारिधाराभिर्यथा प्रावृषि तोयदाः ॥ 6-81-39 (42289) हाहाकारो महानासीत्तव सैन्ये विशांपते । छाद्ममानौ रणे कृष्णौ शरैर्दृष्ट्वा महारणे ॥ 6-81-40 (42290) देवा देवर्षयश्चैव गन्धर्वाश्च सहोरगैः । विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथाऽऽगतौ ॥ 6-81-41 (42291) ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदैरयत् । तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥ 6-81-42 (42292) शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् । न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशांपते ॥ 6-81-43 (42293) तेषां राजसहस्राणां हयानां दन्तिनां तथा। द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥ 6-81-44 (42294) ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः । अगाधे मञ्जमानानां भीष्मः पोतोऽभवत्तदा ॥ 6-81-45 (42295) आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् । संचुक्षुभे महाराज वातैरिव महार्णवः ॥ ॥ 6-81-46 (42296) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे एकाशीतितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 082

॥ श्रीः ॥

6.82. अध्यायः 082

Mahabharata - Bhishma Parva - Chapter Topics

द्रोणेन विराटसूनोः शङ्खस्य वधः ॥ 1 ॥ द्वन्द्वयुद्धम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-82-0 (42297) सञ्जय उवाच। 6-82-0x (4160) प्रवृत्तमात्रे संग्रामे निवृत्ते च सुशर्मणि । भग्नेषु चापि वीरेषु पाण्डवेन महात्मना ॥ 6-82-1 (42298) क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव। प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥ 6-82-2 (42299) दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम् । त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥ 6-82-4aतेषां तु प्रमुखे शूरं सुशर्माणं महाबलम् । मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्निव॥ 6-82-3 (42300) एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् । सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥ 6-82-5 (42301) तं प्रयान्तं रणे वीरं सर्वसैन्येन भारतम् । संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥ 6-82-6 (42302) बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः । नरेन्द्राणां महाराज समाजग्मुः पितामहम् ॥ 6-82-7 (42303) ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् । रणे भारतमायान्तमाससाद महाबलः ॥ 6-82-8 (42304) महाश्वेताश्वयुक्तेन भीमवानरकेतुना । महता मेघनादेन रथेनातिविराजता ॥ 6-82-9 (42305) समरे सर्वसैन्यानामुपयानं धनञ्जयम्। अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥ 6-82-10 (42306) अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् । मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ॥ 6-82-11 (42307) तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् । न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवोदितम् ॥ 6-82-12 (42308) स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः । भ्रातृभिः सह पुत्रैश्च तथाऽन्यैश्च महारथैः ॥ 6-82-13 (42309) भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा। ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥ 6-82-14 (42310) तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः । अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ॥ 6-82-15 (42311) शरांश्चाशीविषाकाराज्ज्वलितान्पन्नगानिव । द्रोणं त्रिभिश्च विव्याध चतुर्भिश्चास्य वाजिनः ॥ 6-82-16 (42312) ध्वजमेकेन विव्याधक सारथिं चास्य पञ्चभिः । धनुरेकेषुणाऽविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥ 6-82-17 (42313) तस्य द्रोणोऽवधीदश्वाञ्शरैः सन्नतपर्वभिः। अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥ 6-82-18 (42314) स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः। आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः ॥ 6-82-19 (42315) ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ । महता शरवर्षेण वारयामाससतुर्बलात् ॥ 6-82-20 (42316) भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् । चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वरः ॥ 6-82-21 (42317) स तस्य हृदयं भित्त्वा पीत्त्वा शोणितमाहवे। जगाम धरणीं बाणो लोहितार्द्रवरच्छदः ॥ 6-82-22 (42318) स पपात रणे तूर्णं भारद्वाजशराहतः। धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥ 6-82-23 (42319) हतं तमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात्। उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥ 6-82-24 (42320) भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम्। दारयामास समरे शतशोऽथ सहस्रशः ॥ 6-82-25 (42321) शिखण्डी तु महाराज द्रौणिमासाद्य संयुगे। आजघान भ्रवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥ 6-82-26 (42322) स बभौ रथशार्दूलो ललाटे संस्थितैस्त्रिभिः । शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥ 6-82-27 (42323) अश्वत्थाम ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः । ध्वजं सूतमथो राजंस्तुरगानायुधानि च ॥ 6-82-28 (42324) शरैर्बहुभिराच्छिद्य पातयामास संयुगे ष। स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः ॥ 6-82-29 (42325) खङ्गमादाय सुशितं विमलं च शरावरम् । श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥ 6-82-30 (42326) सखङ्गस्य महाराज चरतस्तस्य संयुगे । नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ॥ 6-82-31 (42327) ततः शरसहस्राणि बहूनि भरतर्षभ । प्रेषयामास समरे द्रौणिः परमकोपनः ॥ 6-82-32 (42328) तामापतन्तीं समरे शरवृष्टिं सुदारुणाम्। असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ॥ 6-82-33 (42329) ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम्। चर्माच्छिनदसिं चास्थ खण्डयामास संयुगे ॥ 6-82-34 (42330) शितैस्तु बहुशो राजंस्तं च विव्याध पत्रिभिः । शिखण्डी तु ततः खङ्गं खण्डितं तेन सायकैः ॥ 6-82-35 (42331) आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् । तमापतन्तं सहसा कालानलसमप्रभम् ॥ 6-82-36 (42332) चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् । शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ॥ 6-82-37 (42333) शिखण्डी तु भृशं राजंस्तड्यमानः शितैः शरैः । आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥ 6-82-38 (42334) सात्यकिश्चापि संक्रुद्धो राक्षसं क्रूरमाहवे। अलम्बुसं शरैस्तीक्ष्णैर्विव्याध बलिनां वरः ॥ 6-82-39 (42335) राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत। अर्धचन्द्रेण समरे तं च विव्याध सायकैः ॥ 6-82-40 (42336) मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत्। तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् ॥ 6-82-41 (42337) असंभ्रमस्तु समरे वध्यमानः शितैः शरैः । ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत ॥ 6-82-42 (42338) विजयाद्यदनुप्राप्तं माधवेन यशस्विना। तदस्त्रं भस्मासात्कृत्वा मायां तां राक्षसीं तदा ॥ 6-82-43 (42339) अलम्बुसं शरैरन्यैरभ्याकिरत सर्वतः। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ 6-82-44 (42340) तत्तथा पीडितं तेन माधवेन यशस्विना । प्रदुद्राव भयाद्रक्षस्त्यक्त्वा सात्यकिमाहवे ॥ 6-82-45 (42341) ........ माघवता जित्वा भारत सात्यकिः। शैनेयः प्राणद़ज्जित्वा योधानां तव पश्यताम् ॥ 6-82-46 (42342) न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः । निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥ 6-82-47 (42343) एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली। धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम् ॥ 6-82-48 (42344) छादयामास समरे शरैः सन्नतपर्वभिः । स च्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत ॥ 6-82-49 (42345) विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वर । धृष्टद्युम्नं च समरे तूर्णं विव्याध पत्रिभिःक ॥ 6-82-50 (42346) षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् । तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष ॥ 6-82-51 (42347) हयांश्च चतुरः शीघ्रं निजघान महाबलः । शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥ 6-82-52 (42348) स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली । पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति॥ 6-82-53 (42349) शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः । राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ॥ 6-82-54 (42350) ततो नृपं पराजित्य पार्षतः परवीरहा । न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरान् ॥ 6-82-55 (42351) कृतवर्मा रणे भीमं शरैरार्च्छन्महारथः । प्रच्छादयामास च तं महामेघो रविं यथा ॥ 6-82-56 (42352) ततः प्रहस्य समरे भीमसेनः परंतपः । प्रेषयामास संक्रुद्धः सायंकान्कृतवर्मणे ॥ 6-82-57 (42353) तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः । नाकम्पत महाराज भीमं चार्च्छच्छितैः शरैः ॥ 6-82-58 (42354) तस्याश्वांश्चतुरो हत्वा भीमसेनो महारथः । सारथिं पातयामास सध्वजं सुपरिष्कृतम् ॥ 6-82-59 (42355) शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा । शकलीकृतसर्वाङ्गः श्वावित्तु शललैर्यथा ॥ 6-82-60 (42356) हताश्वश्च ततस्तूर्णं सुबलस्य रथं ययौ। स्वालस्य ते महाराज तव पुत्रस्य पश्यतः ॥ 6-82-61 (42357) भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत्। निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः ॥ ॥ 6-82-62 (42358) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे द्वशीतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-82-60 सर्वाङ्गो हताश्वः प्रत्यदृश्यतेति झo पाठः ॥
भीष्मपर्व - अध्याय 083

॥ श्रीः ॥

6.83. अध्यायः 083

Mahabharata - Bhishma Parva - Chapter Topics

द्वन्द्वयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-83-0 (42359) धृतराष्ट्र उवाच। 6-83-0x (4161) बहूनि हि विचित्राणि द्वैरथानि स्म सञ्जय। पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ॥ 6-83-1 (42360) न चैव मामकं किंचिद्धृष्टं शंससि सञ्जय । नित्यं पाण्डुसुतान्हृष्टानभग्नान्संप्रशंससि ॥ 6-83-2 (42361) जीयमानान्विमनसो मामकान्विगतौजसः । वदसे संयुगे सूत दिष्टमेतन्न संशयः ॥ 6-83-3 (42362) सञ्जय उवाच। 6-83-4x (4162) यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः। दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥ 6-83-4 (42363) गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् । महोदधिसमभ्याशे लवणत्वं निगच्छति ॥ 6-83-5 (42364) तथा तत्पौरुषं राजंस्तावकानां परंतप । प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ॥ 6-83-6 (42365) घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् । न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ॥ 6-83-7 (42366) तवापराधात्सुमहान्सपुत्रस्य विशांपते । पृतिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ॥ 6-83-8 (42367) आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप । न हि रक्षन्ति राजानः सर्वथाऽत्रापि जीवितम् ॥ 6-83-9 (42368) युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः। चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः ॥ 6-83-10 (42369) पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः। तं त्वमेकमना भूत्वा शृणु देवासुरोपमम् ॥ 6-83-11 (42370) आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ । युधामन्युमभिप्रेक्ष्य समेयता रणोत्कटौ ॥ 6-83-12 (42371) तेषां प्रववृते युद्धं समुहद्रोणहर्षणम् । युधामन्युः सुसंक्रुद्धो भ्रातरौ देवरूपिणौ ॥ 6-83-13 (42372) विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः। तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ॥ 6-83-14 (42373) युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत । यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ॥ 6-83-15 (42374) युधामन्युस्ततो राजन्ननुविन्दस्य सायकैः । चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥ 6-83-16 (42375) भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष । चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ॥ 6-83-17 (42376) त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः। धनुर्गृहीत्वा परमं भारसाधनमुत्तमम् ॥ 6-83-18 (42377) तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ। शरान्मुमुचतुस्तूर्णं युधामन्यौ महात्मनि ॥ 6-83-19 (42378) ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः । दिवाकरपथं प्राप्य च्छादयामासुरम्बरम् ॥ 6-83-20 (42379) युधामन्यू रणे क्रुद्धो भ्रातरौ तौ महारथौ । ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ॥ 6-83-21 (42380) तस्मिंस्तु पतिते भूमौ गतसत्वे तु सारथौ । रथः प्रदुद्राव दिशः समुद्धान्तहयस्ततः ॥ 6-83-22 (42381) तौ स जित्वा महाराज यज्ञसेनसुतः प्रभुः। पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ॥ 6-83-23 (42382) सा वध्यमाना समरे धार्तराष्ट्री महाचमूः । वेगान्बहुविधांश्चक्रे विषं पीत्वेन मानवः ॥ 6-83-24 (42383) हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्। रथेनादित्यवर्णेन सध्वजेन महाबलः ॥ 6-83-25 (42384) ततः प्राग्ज्योतिषो राजा नागराजं समास्थितःक । यथा वज्रधरः पूर्वं संग्रामे तारकामये ॥ 6-83-26 (42385) तत्र देवाः सगन्धर्वा ऋषयश्च समागताः । विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ॥ 6-83-27 (42386) यथा सुरपतिः शक्रस्त्रासयामास दानवान्। तथैव समरे राजा द्रावयामास पाण्डवान् ॥ 6-83-28 (42387) तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम्। त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत ॥ 6-83-29 (42388) भैमसेनिं रथस्थं तु तत्रापश्याम भारत । शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ॥ 6-83-30 (42389) निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत । आसीन्निष्ठानको घोरस्तव सैन्यस्य संयुगे ॥ 6-83-31 (42390) घटोत्कचस्ततो राजन्भगदत्तं महारणे। शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ॥ 6-83-32 (42391) निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्र्युतान्। भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ॥ 6-83-33 (42392) स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः । न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः ॥ 6-83-34 (42393) तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश । प्रेषयामास समरे तांश्चिच्छेद स राक्षसः ॥ 6-83-35 (42394) स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः । भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥ 6-83-36 (42395) ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत। तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ॥ 6-83-37 (42396) स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् । शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति ॥ 6-83-38 (42397) तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् । त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीं ॥ 6-83-39 (42398) शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् । यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ॥ 6-83-40 (42399) तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् । अजय्यं समरे वीरं यमेन वरुणेन च ॥ 6-83-41 (42400) पाण्डवीं समरे सेनां संममर्द स कुञ्जरः । यथा वनगजो राजन्मृद्गश्चरति पद्मिनीम् ॥ 6-83-42 (42401) मद्रेश्वरस्तु समरे यमाभ्यां समसञ्जत । स्वस्त्रीयौ छादयांचक्रे शरौघैः पाण्डुनन्दनौ ॥ 6-83-43 (42402) सहदेवस्तु समरे मातुलं दृश्य संगतम् । अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ॥ 6-83-44 (42403) छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् । तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ॥ 6-83-45 (42404) ततः प्रहस्य समरे नकुलस्य महारथः। ` ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष ॥ 6-83-46 (42405) अथैनं छिन्नधन्वानं छादयामास भारत। निजघान रणे तं तु सूतं चास्य न्यपातयत् ॥ 6-83-47 (42406) ततः प्रसह्य समरे नकुलस्य महारथः । अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः ॥ 6-83-48 (42407) प्रेषयामास समरे यमस्य सदनं प्रति। हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ॥ 6-83-49 (42408) आरुरोह ततो यानं भ्रातुरेव यशस्विनः । एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके ॥ 6-83-50 (42409) मद्रराजरथं तूर्णं च्छादयामासतुः क्षणात्। स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः ॥ 6-83-51 (42410) स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः। प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह ॥ 6-83-52 (42411) सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान्। मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ॥ 6-83-53 (42412) स शरः प्रेषितस्तेन गरुडानिलवेगवान् । मद्रराजं विनिर्भिद्य निपपात महीतले ॥ 6-83-54 (42413) स गाढविद्धो व्यथितो रथोपस्थे महारथः । निषसाद महाराज कश्मलं च जगाम ह ॥ 6-83-55 (42414) तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे। अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ॥ 6-83-56 (42415) दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्भुखम्। सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ॥ 6-83-57 (42416) निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ । दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः ॥ 6-83-58 (42417) अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशांपते । यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ॥ ॥ 6-83-59 (42418) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे त्र्यशीतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-83-12 इरावन्तमभिप्रेक्ष्य इति झo पाठः ॥ 6-83-13 इरावांस्तु सुसंक्रुद्ध इति झo पाठः ॥ 6-83-16 इरावांस्तु ततं इति झo पाठः ॥ 6-83-19 इरावति महात्मनीति झo पाठः ॥ 6-83-21 इरावांस्तु रणे इति झo पाठः ॥ 6-83-23 नागराजसुतासुत इति झo पाठः । तत्र नागराजः कौरव्यस्तस्य सुता उलूपी तस्याः सुत इरावानित्यर्थः ॥ 6-83-31 निष्ठानकः सव्यथः कशब्दः ॥
भीष्मपर्व - अध्याय 084

॥ श्रीः ॥

6.84. अध्यायः 084

Mahabharata - Bhishma Parva - Chapter Topics

युधिष्ठिरादियुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-84-0 (42419) सञ्जय उवाच। 6-84-0x (4163) ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे। श्रुतायुपमभिप्रेक्ष्य प्रेषयामास वाजिनः ॥ 6-84-1 (42420) ततस्तु त्वरितो राजञ्श्रुतायुषमरिन्दमन् । निजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिःक ॥ 6-84-2 (42421) स संवार्य रमे राजा प्रेषितान्धर्मसूनुना । शरान्सप्त महेष्वासः कौन्तेयाया समार्षयत्॥ 6-84-3 (42422) ते तस्व कवचं भित्त्वा पपुः शोणितमाहवे। असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥ 6-84-4 (42423) पाण्डवस्तु भृशं क्रुद्धो विद्धस्तेन महात्मना । रणे वराहकर्णेन राजानं हृद्यविध्यता ॥ 6-84-5 (42424) अथापरेण भल्लेन केतुं तस्य महात्मनः । रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ॥ 6-84-6 (42425) केतु निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः । पाण्डवं विशिखैतीक्ष्णै राजन्विव्याध सप्तभिः ॥ 6-84-7 (42426) ततः क्रोघात्प्रजज्वल धर्मपुत्रो युधिष्ठिरः । यथा युगान्ते भूतानि दिधक्षुरिव पावकः ॥ 6-84-8 (42427) क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः । प्रविव्यधुर्महाराज व्याकुलं जाप्यभूज्जगत् ॥ 6-84-9 (42428) सर्वेषां चैव भूतानामिदमासीन्मनोगतम् । त्रींल्लोकान्म संक्रुद्धो नृपोऽयं धक्ष्यतीति वै ॥ 6-84-10 (42429) ऋष..... देवाश्च चक्रुः स्वस्त्ययनं महत्। लोकानां नृपाशान्त्यर्थं क्रोधिते पाण्डवे तदा ॥ 6-84-11 (42430) स च क्रोधसमाविष्टः सृक्विणी परिसंलिहन । इवारात्सवपुर्घोरं युगान्तादित्यसन्निभम् ॥ 6-84-12 (42431) ततः सैन्यानि सर्वाणि तावकानि विशांपते । निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥ 6-84-13 (42432) स तु धैर्येण तं कोपं सन्निवार्य महायशाः । श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महाधनुः ॥ 6-84-14 (42433) अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे । निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥ 6-84-15 (42434) सत्वरं च रणे राजंस्तस्य वाहान्महात्मनः । निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥ 6-84-16 (42435) हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञोऽस्य पौरुषम् । विप्रदुद्राव वेगेन श्रुतायुः समरे तदा॥ 6-84-17 (42436) तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे। दुर्योधनबलं राजन्सर्वमासीत्पराङ्भुखम् ॥ 6-84-18 (42437) एवं जित्वा महाराज धर्मपुत्रो युधिष्ठिरः । व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥ 6-84-19 (42438) चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् । प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥ 6-84-20 (42439) संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि। चेकितानां रणे यत्तं राजन्विव्याध पत्रिभिः ॥ 6-84-21 (42440) अथापरेण भल्लेन धनुश्चिच्छेद मारिष । सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ॥ 6-84-22 (42441) अश्वांस्छास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी । अवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः ॥ 6-84-23 (42442) स तया वीरघातिन्या गदया गदिनां वरः । गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ॥ 6-84-24 (42443) भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडशक । शरास्ते सात्वतं भित्त्वा प्राविशन्धरणीतलम् ॥ 6-84-25 (42444) चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् । गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः ॥ 6-84-26 (42445) तामापतन्तीं विमलामश्यमगर्भां महागदाम्। शरैरनेकसाहस्त्रैर्वारयामास गौतमः ॥ 6-84-27 (42446) चेकितानस्ततः खङ्गं क्रोधादुद्धृत्य भारत। लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥ 6-84-28 (42447) गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंयतः । वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥ 6-84-29 (42448) तावुभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ । निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः ॥ 6-84-30 (42449) निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ । धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ॥ 6-84-31 (42450) मूर्छयाऽभिपरीताङ्गौ व्यायामेन तु मोहितौ । ततोऽभ्यधावद्वेगेन भीमसेनः सुहृत्तया ॥ 6-84-32 (42451) चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदः । रथमारोपयच्चैनं सर्वसैकन्यस्य पश्यतः ॥ 6-84-33 (42452) तथैव शकुनि शूरः स्यालस्तव विशांपतेक । आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥ 6-84-34 (42453) सौमदत्तिं ततः क्रुद्धो धृष्टकेतुर्महाबलः । नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ॥ 6-84-35 (42454) सौमदत्तिरुरस्थैस्तैर्भृशं बाणैरशोभत । मध्यंदिने महाराज रश्मिभिस्तपनो यथा ॥ 6-84-36 (42455) भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् । हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥ 6-84-37 (42456) विरथं तं समालोक्य हताश्वं हतसारथिम् । महता शरवर्षेण च्छादयामास संयुगे ॥ 6-84-38 (42457) स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः । आरुरोह ततो यानं शतानीकस्य मारिष ॥ 6-84-39 (42458) चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा। रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः ॥ 6-84-40 (42459) अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत। शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ॥ 6-84-41 (42460) विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे । न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ॥ 6-84-42 (42461) ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः । संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥ 6-84-43 (42462) प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव । अभिमन्युं समुद्दिश्य बालमेकं महारथम् ॥ 6-84-44 (42463) वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः । चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः ॥ 6-84-45 (42464) एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः। यथा हन्युर्न नः सेनां तथा माधव चोदय ॥ 6-84-46 (42465) एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा । रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥ 6-84-47 (42466) निष्ठानको महानासीत्तव सैन्यस्य मारिष । यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ॥ 6-84-48 (42467) समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः । सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥ 6-84-49 (42468) जानामि त्वां युधां श्रेष्ठमत्यन्तं पूर्ववैरिणम् । अनयस्याद्य संप्राप्तं फलं पश्य सुदारुणम् ॥ 6-84-50 (42469) अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् । एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः ॥ 6-84-51 (42470) श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः । न चैनमब्रवीत्किंचिच्छुभं वा यदि वाऽशुभम् ॥ 6-84-52 (42471) अभिगम्यार्जुनं वीरं राजभिर्बहुभिर्वृतः। पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ॥ 6-84-53 (42472) परिवार्यार्जुनं सङ्ख्ये तव पुत्रैर्महारथः । शरैः संछादयामास मेघैरिव दिवाकरम् ॥ 6-84-54 (42473) 6-84-55 (42474) ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः। तावकानां च समरे पाण्डवानां च भारत ॥
भीष्मपर्व - अध्याय 085

॥ श्रीः ॥

6.85. अध्यायः 085

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-85-0 (42475) सञ्जय उवाच। 6-85-0x (4164) स ताड्यमानस्तु शरैर्धनंजयः पदाहतो नाग इव श्वसन्बली । बाणांश्च बाणेन महारथानां चिच्छेद चापानि रणे प्रसह्य ॥ 6-85-1 (42476) संछिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन। विव्याध बाणैर्युगपन्महात्मा निःशेषतां तेष्वथ मन्यमानः ॥ 6-85-2 (42477) निपेतुराजौ रुधिरप्रदिग्धा- स्ते ताडिताः शक्रसुतेन राजन्। विभिन्नगात्राः पतितोत्तमाङ्गा गतासवश्छिन्नतनुक्रकायाः ॥ 6-85-3 (42478) महीं गताः पर्थबलाभिभूता विचित्ररूपा युगपद्विनेशुः। दृष्ट्वा हतांस्तान्युधि राजपुत्रां- स्त्रिगर्तराजः प्रययौ रथेन ॥ 6-85-4 (42479) तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽभ्यपतन्त पार्थम्। तथैव ते तं परिवार्य पार्थं विकृष्य चापानि महारवाणि ॥ 6-85-5 (42480) अवीवृषन्बाणमहौघवृष्ट्या यथा गिरिं तोयधरा जलौघैः। संपीड्यमानस्तु शरौघवृष्ट्या धनंजयस्तान्युधि जातरोषः ॥ 6-85-6 (42481) षष्ट्या शरैः संयति तैलधौतै- र्जघान तानप्यथ पृष्ठगोपान्। रथांश्च तांस्तनवजित्य सङ्ख्ये धनञ्जयः प्रीतमना यशस्वी॥ 6-85-7 (42482) अथात्वरद्भीष्मवधाय जिष्णु- र्बलानि राजन्समरे निहत्य। त्रिगर्तराजो निहतान्समीक्ष्य महात्मना तानथ बन्धुवर्गान् ॥ 6-85-8 (42483) रणे पुरस्कृत्य नराधिपांस्तान् जगाम पार्थं त्वरितो वधाय अभिद्रुतं चास्त्रभृतां वरिष्ठं धनंजयं वीक्ष्य शिखण्डिमुख्याः ॥ 6-85-9 (42484) अभ्यद्ययुस्ते शितशस्त्रहस्ता रिरक्षिषन्तो रथमर्जुनस्य। पार्थोऽपि तानापततः समीक्ष्य त्रिगर्तराज्ञा सहितान्नृवीरान ॥ 6-85-10 (42485) विध्वंसयित्वा समरे धनुष्मान् गाण्डीवमुक्तैर्निशितैः पृषत्कैः । भीष्मं यियासुर्युधि संददर्श दुर्योधनं सैन्धवादींश्च राज्ञः ॥ 6-85-11 (42486) संवारयिष्णूनभिवारयित्वा मुहूर्तमायोध्य बलेन वीरः। उत्सृज्य राजानमनन्तवीर्यो जयद्रथादींश्च नृपान्महौजाः। ययौ ततो भीमबलो मनस्वी गाङ्गेयमाजौ शरचापपाणिः ॥ 6-85-12 (42487) भीष्मोऽपि दृष्ट्वा समरे कृतास्त्रान् स पाण्डवानां रथिनोऽभ्युदारान्। विहाय संग्राममुखे धनंजयं जवेन पार्थं पुनराजगाम॥ 6-85-13 (42488) युधिष्ठिरश्च प्रबलो महात्मा समाययौ त्वरितो जातकोपः। मद्राधिपं समभित्यज्य सङ्ख्ये स्वभागमाप्तं तमनन्तकीर्तिः। सार्धं स माद्रीसुतभीमसेनै- र्भीष्मं ययौ शान्तनवं रणाय ॥ 6-85-14 (42489) तैः संप्रयुक्तैः स महारथाग्र्यै- र्गङ्गासुतः समरे चित्रयोधी। न विव्यधे शान्तनवो महात्मा समागतैः पाण्डुसुतैः समस्तैः ॥ 6-85-15 (42490) अथैत्य राजा युधि सत्यसन्धो जयद्रथोऽत्युग्रबलो मनस्वी। चिच्छेद चापानि महारथानां प्रसह्य तेषां धनुषा वरेण ॥ 6-85-16 (42491) युधिष्ठिरं भीमसेनं यमौ च पार्थं कृष्णं युधि संजातकोपः । दुर्योदनः क्रोधविषो महात्मा जघान बाणैरनलप्रकाशैः ॥ 6-85-17 (42492) कृपेण शल्येन शलेन चैव तथा विभो चित्रसेनेन चौजौ। विद्धाः शरैस्तेऽतिविवृद्धकोपै- र्देवा यथा दैत्यगणैः समेतैः ॥ 6-85-18 (42493) छिन्नायुधं शान्तनवेन राजा शिखण्डिनं प्रेक्ष्य च जातकोपः। अजातशत्रुः समरे महात्मा शिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥ 6-85-19 (42494) उक्त्वा तथा त्वं पितुरग्रतो मा- महं हनिष्यामि महाव्रतं तम्। भीष्मं शरौघैर्विमलार्कवर्णैः सत्यं वदामीति कृता प्रतिज्ञा ॥ 6-85-20 (42495) त्वया च नैनां सफलां करोषि देवव्रतं यन्न निहंसि युद्धे। मिथ्याप्रतिज्ञो भव मात्र वीर रक्षस्व धर्मं स्वकुलं यशश्च॥ 6-85-21 (42496) प्रेक्षस्व भीष्मं युधि भीमवेगं सर्वांस्तपन्तं मम सैन्यसङ्घान्। शरौघजालैरतितिग्मवेगैः कालं यथा कालकृतं क्षणेन ॥ 6-85-22 (42497) निकृत्तचापः समरेऽनपेक्षः पराजितः शान्तनवेन चाजौ । विहाय बन्धूनथ सदरांश्च क्व यास्यसे नानुरूपं तवेदम् ॥ 6-85-23 (42498) दृष्ट्वा हि भीष्मं तमनन्तवीर्यं भग्नं च सैन्यं द्रवमाणमेवम् । भीतोऽसि नूनं द्रुपदस्य पुत्र तथा हि ते मुखवर्णोऽप्रहृष्टः ॥ 6-85-24 (42499) अज्ञायमाने च धनंजये तु महाहावे संप्रसक्ते नृवीरे। कथं हि भीष्मात्प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोषि वीर ॥ 6-85-25 (42500) स धर्मराजस्य वचो निशम्य 6-85-26bरूक्षाक्षरं विप्रलापानुबद्धम् । प्रत्यादेशं मन्यमानो महात्मा प्रतत्वरे भीष्मवधाय राजन् ॥ 6-85-26 (42501) तमापतन्तं महता जवेन शिखण्डिनं भीष्ममभिद्रवन्तम्। निवारयामास हि शल्य एन- मस्त्रेण घोरेण सुदुर्जयेन ॥ 6-85-27 (42502) स चापि दृष्ट्वा समुदीर्यमाण- मस्त्रं युगान्ताग्निसमप्रकाशम्। न संमुमोह द्रुपदस्य पुत्रो राजन्महेन्द्रप्रतिमप्रभावः । तस्थौ च तत्रैव महाधनुष्मान् शरैस्तदस्त्रं प्रतिबाधमानः ॥ 6-85-28 (42503) अथाददे वारुणमन्यदस्त्रं शिखण्ड्यथोऽग्रं प्रतिघातमस्य। तदस्त्रमस्त्रेण विदार्यमाणं खस्थाः सुरा ददृशुः पार्थिवाश्च ॥ 6-85-29 (42504) भीष्मस्तु राजन्समरे महात्मा धनुश्च चित्रं ध्वजमेव चापि। छित्त्वाऽनदत्पाण्डुसुतस्य वीरो युधिष्ठिरस्याजमीढस्य राज्ञः ॥ 6-85-30 (42505) ततः समुत्सृज्य धनुः सबाणं युधिष्ठिरं वीक्ष्य भयाभिभूतम्। गदां प्रगृह्याभिपपात सङ्ख्ये जयद्रथं भीमसेनः पदातिः ॥ 6-85-31 (42506) तमापतन्तं सहसा जवेन जयद्रथः सगदं भीमसेनम्। विव्याध घोरैर्यमदण्डकल्पैः शितैः शरैः पञ्चशरैः समन्तात् ॥ 6-85-32 (42507) अचिन्तयित्वा स शरांस्तरस्वी वृकोदरः क्रोधपरीतचेताः । जघान वाहान्समरे समन्तात् सुसंमतान्सिन्धुराजस्य सङ्ख्ये ॥ 6-85-33 (42508) ततोऽभिवीक्ष्याप्रतिमप्रभाव- स्तवात्मजस्त्वरमाणो रथेन अभ्यायौ भीमसेनं निहन्तुं समुद्यतास्त्रः सुरराजकल्पः ॥ 6-85-34 (42509) जयद्रथो भग्रवाहं रथं त त्यक्त्वा ययौ यत्र राजा कुरूणाम् । भयेन भीमस्य समूढचेताः ससौबलस्तत्र युद्धस्य भीतः ॥ 6-85-35 (42510) भीमोऽप्यथैनं सहसा विनद्य प्रत्युद्ययौ गदया तर्जयानः। समुद्यतां तां यमदण्डकल्पां दृष्ट्वा गदां ते कुरवः समन्तात् ॥ 6-85-36 (42511) विहाय सर्वे तव पुत्रमुग्नं 6-85-37 (42512) पातं गदायाः परिहर्तुकामाः। अपक्रान्तास्तुमुले संप्रमर्दे सुदूरुणे भारत मोहनीये ॥ 6-85-37 (42513) अमूढचेतास्त्वथ चित्रसेनो महागदामापतन्तीं निरीक्ष्य। रथं समुत्सृज्य पदातिराजौ प्रगृह्य खङ्गं विपुलं च चर्म। अवप्लुतः सिंह उवाचलाग्रा- ज्जगामान्यं भ्रमप भूमिदेशम् ॥ 6-85-38 (42514) गदापि सा प्राप्य रथं सुचित्रं साश्व ससूतं विनिहत्य सङ्ख्ये। जगाम भूमिं ज्वलिता महोल्क भ्रष्टाऽम्बराद्गामिव संपतन्ती ॥ 6-85-39 (42515) आश्चर्यभूतं सुमहत्त्वदीया दृष्ट्वैव तद्भारत संप्रहृष्टाः। सर्वे विनेदुः सहिताः समन्ता- त्पुपूजिरे तव पुत्रस्य शौर्यम् ॥ ॥ 6-85-40 (42516) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे पञ्चाशीतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-85-25 अज्ञायमाने पश्चात्स्थिते ॥ 6-85-26 प्रत्यादेशं भर्त्सनं ॥
भीष्मपर्व - अध्याय 086

॥ श्रीः ॥

6.86. अध्यायः 086

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-86-0 (42517) सञ्जय उवाच। 6-86-0x (4165) विरथं तं समासाद्य चित्रसेनं यशस्विनम् । रथमारोपयामास विकर्णस्तनयस्तव ॥ 6-86-1 (42518) तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम्। भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥ 6-86-2 (42519) ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः । मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ॥ 6-86-3 (42520) युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः । महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ॥ 6-86-4 (42521) ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि । भीष्मं संछादयामास यथा मेघो दिवाकरम् ॥ 6-86-5 (42522) तेन सम्यक्प्रणीतानि शरजालानि मारिष । प्रतिजग्राह गाङ्गयः शतशोऽथ सहस्रशः ॥ 6-86-6 (42523) तथैव शरजालानि भीष्मोणास्तानि मारिष । आकाशे समदृश्यन्त स्वगमानां व्रजा इव ॥ 6-86-7 (42524) निमेषार्धेन कौन्तेयं भीष्मः शान्तनवो युधि । अदृश्यं समरे चक्रे शरजालेन भारत ॥ 6-86-8 (42525) ततो युधिष्ठिरे राजा कौरव्यस्य महात्मनः । नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ॥ 6-86-9 (42526) असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः । चच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ॥ 6-86-10 (42527) तं तु च्छित्वा रणे भीष्मो नाराचं कलसंमितम् । नजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ॥ 6-86-11 (42528) हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः। आरुरोह रथं तूर्णं नकुलस्य महात्मनःक ॥ 6-86-12 (42529) यमावपि हि संक्रुद्धः समासाद्य रणे तदा । शरैः संछादयामास भीष्मः परपुरंजयः ॥ 6-86-13 (42530) तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ। जगाम परमां चिन्तां भीष्मस्य वधकाङ्क्षया ॥ 6-86-14 (42531) ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् । भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ॥ 6-86-15 (42532) ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् । महता रथवंशेन परिवव्रुः पितामहम् ॥ 6-86-16 (42533) स समन्तात्परिवृतः पिता देवव्रतस्तव। चिक्रीड धनुषा राजन्पातयानो महारथान् ॥ 6-86-17 (42534) तं चरन्तं रणे पार्था ददृशुः कौरवं युधि। मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ॥ 6-86-18 (42535) तर्जयानं रमे वीरांस्त्रासयानं च सायकैः । दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ॥ 6-86-19 (42536) रणे भारत सिंहस्य ददृशुः क्षत्रिया गतिम्। अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ॥ 6-86-20 (42537) शिरांसि रथिनां भीष्मः पातयामास संयुगे। तालेभ्यः परिपक्वानि फलानि कुशलो नरः ॥ 6-86-21 (42538) पतद्भिश्च महाराज शिरोभिर्धरणीतले। बभूव तुमुलः शब्दः पततामश्मनामिव ॥ 6-86-22 (42539) तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके। सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ 6-86-23 (42540) भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् । एकमेकं समाहूय युद्धायैवावतस्थिरे ॥ 6-86-24 (42541) शिखण्डी तु समासाद्य भरतानां पितामहम् । अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ॥ 6-86-25 (42542) अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे । प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं तस्य विचिन्तयन् ॥ 6-86-26 (42543) सृंजयास्तु ततो दृष्ट्वा हृष्टं भीष्म महारणे । सिंहनादांश्च विविधांश्चक्रुः शङ्खविमिश्रितान् ॥ 6-86-27 (42544) ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् । पश्चिमां दिशमासाद्य स्थिते सवितरि प्रभो ॥ 6-86-28 (42545) धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः । पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ॥ 6-86-29 (42546) शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे । ते हन्यमानाः समरे तावका भरतर्षभ ॥ 6-86-30 (42547) आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्। यथोत्साहं तु समरे निजघ्नुस्तावका रणे ॥ 6-86-31 (42548) तत्राक्रन्दो महानासीत्तावकानां महात्मानाम् । वध्यतां समरे राजन्पार्षतेन महात्मना ॥ 6-86-32 (42549) तं श्रुत्वा निनदं घोरं तावकानां महारथौ । विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ ॥ 6-86-33 (42550) तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ । छादयामासतुरुभौ शरवर्षेण पार्षतम् ॥ 6-86-34 (42551) अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः । आरुरोहक रथं तूर्णं सात्यकेस्तु महात्मनः ॥ 6-86-35 (42552) ततो युधिष्ठिरो राजा महत्या सेनया वृतः। आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ ॥ 6-86-36 (42553) तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष । विन्दानुविन्दौ समरे परिवार्यावतस्थिवान् ॥ 6-86-37 (42554) अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभः । अयोधयत संग्रामे वज्रपाणिरिवासुरान् ॥ 6-86-38 (42555) द्रोणास्तु समरे क्रुद्धः पुत्रस्य प्रियकृत्तव । व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ॥ 6-86-39 (42556) दुर्योधनपुरोगास्तु पुत्रास्तव विशांपते । परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ॥ 6-86-40 (42557) ततो दुर्योधनो राजा लोहितायति भास्करे। अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ॥ 6-86-41 (42558) युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम्। अस्तं गिरिमथारूढे अप्रकाशति भास्करे ॥ 6-86-42 (42559) प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी । गोमायुगणसंकीर्णा क्षणेन क्षणदामुखे ॥ 6-86-43 (42560) शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम्। घोरमायोधनं जज्ञे भूतसङ्घैः समाकुलम् ॥ 6-86-44 (42561) राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशिनः । समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ 6-86-45 (42562) अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान्। विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ॥ 6-86-46 (42563) युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तथा। ययौ स्वशिबिरं राजा निशायां सेनया वृतः ॥ 6-86-47 (42564) भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् । अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति ॥ 6-86-48 (42565) दुर्योधनोऽपि नृपतिः परिवार्य महारणे। भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ॥ 6-86-49 (42566) द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः । परिवार्य चमूं सर्वाः प्रययुः शिबिरं प्रति ॥ 6-86-50 (42567) तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः। परिवार्य रणे योधान्ययतुः शिबिरं प्रति ॥ 6-86-51 (42568) एवमेते महाराज तावकाः पाण्डवैः सह। पर्यवर्तन्त सहिता निशाकाले परंतप ॥ 6-86-52 (42569) ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा । न्यवसन्त महाराज पूजयन्तः परस्परम् ॥ 6-86-53 (42570) रक्षां कृत्वा ततः शूरा न्यस्य गुल्मान्यथाविधि। अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः ॥ 6-86-54 (42571) कृतस्वस्त्ययनाः सर्वे स्तूयमानाश्च बन्दिभिः । गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ॥ 6-86-55 (42572) मुहूर्तादिव तत्सर्वमभवत्स्वर्गसन्निभम् । न हि युद्धकथां कांचित्तत्राकुर्वन्महारथाः ॥ 6-86-56 (42573) ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप । हस्त्यश्वबहुले रात्रौ प्रेक्षणीये बभूवतुः ॥ ॥ 6-86-57 (42574) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे षडशीतितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 087

॥ श्रीः ॥

6.87. अध्यायः 087

Mahabharata - Bhishma Parva - Chapter Topics

उभयसेनयोर्व्यूहरचनापूर्वकं परस्पराभियानम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-87-0 (42575) सञ्जय उवाच। 6-87-0x (4166) परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः। कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ॥ 6-87-1 (42576) ततः शब्दो महानासीत्सेनयोरुभयोर्नृप । निर्गच्छमानयोः सङ्ख्ये यथा सागरयोरिव ॥ 6-87-2 (42577) ततो दुर्योधनो राजा चित्रसेनो विविंशतिः। भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ॥ 6-87-3 (42578) एकीभूताः सुसंयत्ताः कौरवाणां महाचमूम् । व्यूहाय विदधू राजन्पाण्डवान्प्रतिदंशितान् ॥ 6-87-4 (42579) कूर्मव्यूहं ततः कृत्वा पिता तव विशांपते । सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ॥ 6-87-5 (42580) अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ । मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ॥ 6-87-6 (42581) ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान । पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ॥ 6-87-7 (42582) द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् । मगधैश्च कलिङ्गैश्च पिशाचैश्च विशांपते ॥ 6-87-8 (42583) प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः । मेकलैः कुरुविन्दैश्च त्रैपुरैश्च समन्विताः ॥ 6-87-9 (42584) बृहद्बलादनु नृपस्त्रिगर्तः प्रस्थलाधिपः। काम्भोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ॥ 6-87-10 (42585) द्रौणिस्तु रभसः शूरस्त्रैगर्तादनु भारत। प्रययौ सिंहनादेन नादयानो धरातलम् ॥ 6-87-11 (42586) तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा। द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ॥ 6-87-12 (42587) दुर्योधनादनु ततः कृपः शारद्वतो ययौ। एवमेष महाव्यूहः प्रययौ सागरोपमः ॥ 6-87-13 (42588) रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि भारत । अङ्गदान्यत्र चित्राणि महार्हाणि धनूंषि च ॥ 6-87-14 (42589) तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः । युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ॥ 6-87-15 (42590) पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् । प्रतिव्यूहं रणे शूर कुरु क्षिप्रं महारथ ॥ 6-87-16 (42591) ततः स पार्षतः क्रूरो व्यूहं चक्रे सुदारुणम् । श्रृङ्गाटकं महाराज परव्यूहविनाशनम् ॥ 6-87-17 (42592) श्रृङ्गाभ्यां भीमसेनश्च सात्यकिश्च महारथः । रथैरनेकसाहस्रैस्तथा हयपदातिभिः ॥ 6-87-18 (42593) नाभावभून्नरश्रेष्ठः श्वेताश्वः कृष्णसारथिः । मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥ 6-87-19 (42594) अथेतरे महेष्वासाः सहसैन्या नराधिपाः । व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ॥ 6-87-20 (42595) एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः । अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ॥ 6-87-21 (42596) भेरीशब्दैश्च विमलैर्विमिश्रैः शङ्खनिःस्वनैः । क्ष्वेडितास्फोटितोत्क्रुष्टैर्नादिताः सर्वतो दिशः ॥ 6-87-22 (42597) ततः शूराः समासाद्य समरे ते परस्परम। नेत्रैरनिमिषै राजन्नवैक्षन्त परस्परम् ॥ 6-87-24a`मनोभिस्ते मनुष्येन्द्र युद्धं योधाः प्रचक्रिरे ।' पुनराहूय तेऽन्योन्यं शरीरैरपि चक्रिरे ॥ 6-87-23 (42598) ततः प्रववृते युद्धं घोररूपं भयावहम् । तावकानां परेषां च निघ्नतामितरेतरम् ॥ 6-87-25 (42599) नाराचा निशिताः सङ्ख्ये संपतन्ति स्म भारत । व्यात्तानना भयकरा उरगा इव सङ्घशः ॥ 6-87-26 (42600) निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः । अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ॥ 6-87-27 (42601) गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः। पतन्त्यस्तत्र दृस्यन्ते गिरिशृङ्गोपमाः शुभाः ॥ 6-87-28 (42602) निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसन्निभाः । आर्षभाणि च चर्माणि शतचन्द्राणि भारतत ॥ 6-87-29 (42603) अशोभन्त रणे राजन्पात्यमानानि सर्वशः । तेऽन्योन्यं समरे सेने युध्यमाने नराधिप ॥ 6-87-30 (42604) अशोभेतां यथा देवदैत्यसेने समुद्यते। अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ॥ 6-87-31 (42605) रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे। युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥ 6-87-32 (42606) दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् । दन्तेषु भरतश्रेष्ठ सधूमः सर्वतो दिशम् ॥ 6-87-33 (42607) प्रासैरभिहताः केचिद्गजयोधाः समन्ततः । पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ॥ 6-87-34 (42608) पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम् । चित्ररूपधराः शूरा नखरप्रासयोधिनः ॥ 6-87-35 (42609) अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः । अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ॥ 6-87-36 (42610) ततः शान्तनवो भीष्मो रथघोषेण नादयन् । अभ्यागमद्रणे पार्थान्धनुःशब्देन मोहयन् ॥ 6-87-37 (42611) पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम् । अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ॥ 6-87-38 (42612) ततः प्रववृते युद्धं तव तेषां च भारत। नराश्वरथनागानां व्यतिषक्तं परस्परम् ॥ ॥ 6-87-39 (42613) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे सप्ताशीतितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 088

॥ श्रीः ॥

6.88. अध्यायः 088

Mahabharata - Bhishma Parva - Chapter Topics

भीमेन सुनाभादिदुर्योधनानुजाष्टकहननम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-88-0 (42614) सञ्जय उवाच। 6-88-0x (4167) भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः। न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ॥ 6-88-1 (42615) ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्। अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥ 6-88-2 (42616) स तु भीष्मो रणश्लाघी तोमकान्सहसृज्जयान् । पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ॥ 6-88-3 (42617) ते वध्यमाना भीष्मेण पाञ्चालाः पाण्डवैः सह। भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ॥ 6-88-4 (42618) स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि । चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ॥ 6-88-5 (42619) विरथान्रथिनश्चक्रे पिता देवव्रतस्तव। पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ॥ 6-88-6 (42620) निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् । अपश्याम महाराज भीष्मास्त्रेण प्रमाथितान् ॥ 6-88-7 (42621) न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशांपते। अन्यत्र रथिनां श्रेष्ठद्भीमसेनान्महाबलात् ॥ 6-88-8 (42622) स हि भीष्मं समासाद्य छादयामास सायकैः । ततो निष्टानको घोरो भीष्मभीमसमागमे ॥ 6-88-9 (42623) बभूव सर्वसैन्यानां घोररूपो भयानकः । तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ॥ 6-88-10 (42624) ततो दुर्योधनो राजा सोदर्यैः परिवारितः। भीष्मं जुगोप समरे वर्तमाने जनक्षये ॥ 6-88-11 (42625) भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः। प्रद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ॥ 6-88-12 (42626) सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत । क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥ 6-88-13 (42627) हते तस्मिन्महाराज तव पुत्रे महारथे । नामृष्यन्त रणे शूराः सोदराः सप्त संयुगे ॥ 6-88-14 (42628) आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः । अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ॥ 6-88-15 (42629) पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः । अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः ॥ 6-88-16 (42630) महोदरस्तु समरे भीमं विव्याध पत्रिभिः । नवभिर्वद्रसंकाशैर्नमुचिं वृत्रहा यथा ॥ 6-88-17 (42631) आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः । नवत्या कुण्डधारश्च विशालाक्षश्च पञ्चभिः ॥ 6-88-18 (42632) अपराजितो महाराज पराजिष्णुर्महारथम् । शरैर्बहुभिरानर्च्छद्भीमसेनं महाबलम् ॥ 6-88-19 (42633) रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत्। स तं न ममृषे भीमः शत्रुभिर्वधमाहवे॥ 6-88-20 (42634) धनुः प्रपीड्य वामेन करेणामित्रकर्सनः । शिरश्चिच्छेद समरे शरेणानतपर्वणा ॥ 6-88-21 (42635) अपराजितस्य सुनसं तव पुत्रस्य संयुगे । पराजितस्य भीमेन कृत्तं गामपतच्छिरः ॥ 6-88-22 (42636) अथापरेण भल्लेन कुण्डधारं महारथम् । प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ॥ 6-88-23 (42637) ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् । प्रेषयामास समरे पण्डितं प्रति भारत॥ 6-88-24 (42638) स शरः पण्डितं हत्वा विवेश धरणीतलम् । यथा नरं निहत्याशु भुजगः कालचोदितः ॥ 6-88-25 (42639) विशालाक्षशिरश्छित्त्वा पातयामास भूतले। त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ॥ 6-88-26 (42640) महोदरं महेष्वासं नाराचेन स्तनान्तरे । विव्याध समरे राजन्स हतो न्यपतद्भुवि ॥ 6-88-27 (42641) आदित्यकेतोः केतुं च च्छित्त्वा बाणेन संयुगे । भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत ॥ 6-88-28 (42642) बह्वाशिनं तत भीमः शरेणानतर्वणा । प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥ 6-88-29 (42643) प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशांपते । मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ॥ 6-88-30 (42644) ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः। अब्रवीत्तावकान्योधान्भीमोऽयं वध्यतामिति ॥ 6-88-31 (42645) एवमेते महेष्वासाः पुत्रास्त्व विशांपते । भ्रातॄन्संदृश्य निहतान्प्रस्मरंस्ते हि तद्वचः ॥ 6-88-32 (42646) यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् । तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥ 6-88-33 (42647) लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप। न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ॥ 6-88-34 (42648) तथैव च वधार्थाय पुत्राणां पाण्डवो बली। नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ॥ 6-88-35 (42649) ततो दुरयोधनो राजा भीष्ममासाद्य संयुगे। दुःखेन महताऽऽविष्टो विललाप सुदुःखितः ॥ 6-88-36 (42650) निहता भ्रातरः शूरा भीमसेनेन मे युधि। यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ॥ 6-88-37 (42651) भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते। सोऽहं कुपथमारूढः पश्य दैवमिदं मम ॥ 6-88-38 (42652) एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव। दुर्योधनमिदं वाक्यमब्रवीत्समाश्रुलोचनः ॥ 6-88-39 (42653) उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च । गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ॥ 6-88-40 (42654) समयश्च मया पूर्वं कृतो वै शत्रुकर्शन । नाहंयुधि नियोक्तव्यो नाप्याचार्यः कथंचना ॥ 6-88-41 (42655) यय हि धर्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे। हनिष्यति रणे नित्यं सत्यमेतद्ब्रवीमि ते ॥ 6-88-42 (42656) स त्वं राजन्स्थिरो भूत्वा रणे कृत्वा दृढां मतिम् । योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ॥ 6-88-43 (42657) न शक्यः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः । तस्माद्युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत ॥ ॥ 6-88-44 (42658) इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे अष्टाशीतितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 089

॥ श्रीः ॥

6.89. अध्यायः 089

Mahabharata - Bhishma Parva - Chapter Topics

धृतराष्ट्रेण पुत्रवधश्रवणात् शोचनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-89-0 (42659) धृतराष्ट्र उवाच। 6-89-0x (4168) दृष्ट्वा मे निहतान्पुत्रान्बहूनेकेन सञ्जय । भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे॥ 6-89-1 (42660) अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय । मन्येऽहं सर्वथा पुत्रान्दैवेनोपहतान्भृशम् ॥ 6-89-2 (42661) यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत । यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ॥ 6-89-3 (42662) सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः । अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम् ॥ 6-89-4 (42663) अन्येषां चैव शूराणां मध्यगास्तनया मम । यदहन्यन्त संग्रामे किमन्यद्भागधेयतः ॥ 6-89-5 (42664) न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत । वार्यमाणो मया तात भीष्मेण विदुरेण च ॥ 6-89-6 (42665) गन्धार्या चैव दुर्मेधाः सततं हितकाम्यया । नाबुध्यत पुरा मोहात्तस्य प्राप्तमिदं फलम् ॥ 6-89-7 (42666) यद्भीमसेनः समरे पुत्रान्मम विचेतसः । अहन्यहनि संक्रुद्धो नयते यमसादनम् ॥ 6-89-8 (42667) इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् । न बुद्धवानस्मि विभो प्रोच्यमानमिदं तदा ॥ 6-89-9 (42668) निवारय सुतं द्यूतात्पाण्डवान्मा द्रुहेति च । सुहृदां हितकामानां ब्रुवतां तत्तदेव च ॥ 6-89-10 (42669) न शृणोमि पुरा वाक्यं मर्त्यः पथ्यमिवौषधम् । तदिदं समनुप्राप्तं वचनं साधु भाषितम् ॥ 6-89-11 (42670) विदुरद्रोणभीष्माणां तथाऽन्येषां हितैषिणाम् । अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ॥ 6-89-12 (42671) तदेतत्समतिक्रान्तं पूर्वमेव हि सञ्जय। तस्मान्मे वद तत्त्वेन यथा युद्धमवर्तत ॥ 6-89-13 (42672) सञ्जय उवाच। 6-89-14x (4169) मध्याह्ने मुमहारौद्रः संग्रामः समुपद्यत। लकक्षयकरो राजंस्तन्मे निगदतः शृणु ॥ 6-89-14 (42673) ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्। संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया ॥ 6-89-15 (42674) धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः । युक्तानीका महाराज भीष्ममेव समभ्ययुः ॥ 6-89-16 (42675) विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः । अभ्यद्रवन्त संग्रामे भीष्ममेव महारथम् ॥ 6-89-17 (42676) केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः । शुक्तानीका महाराज भीष्ममेव समभ्ययुः ॥ 6-89-18 (42677) अर्जुनो द्रौपदश्चैव कुन्तिभोजश्च दंशितः । दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ॥ 6-89-19 (42678) अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः । भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान् ॥ 6-89-20 (42679) त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि। तथैव कौरवै राजन्नवध्यन्त परे रणे ॥ 6-89-21 (42680) द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह । अभ्यधावत संक्रुद्धः प्रेषयिष्यन्यमक्षयम् ॥ 6-89-22 (42681) तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मानाम् । वध्यतां समरे राजन्भारद्वाजेन धन्विना ॥ 6-89-23 (42682) द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे। विचेष्टन्तो हृदृश्यन्त व्याधिक्लिष्टा वरा इव ॥ 6-89-24 (42683) कूजतां क्रन्दतां चैव स्तनतां चैव भारत। अनिशं शुश्रुवे शब्दः क्षुत्क्लिष्टानां नृणामिव ॥ 6-89-25 (42684) तथैव कौरवेयाणां भीमसेनो महाबलः । चकार कदनं घोरं क्रुद्धः काल इवापरः ॥ 6-89-26 (42685) वध्यतां तत्र सैन्यानामन्योन्येन महारणे । प्रावर्तत नदी घोरा रुधिरौघपरवाहिनी ॥ 6-89-27 (42686) स संग्रामो महाराज घोररूपोऽभवन्महान् । कुरूणां पाणडवानां च यमराष्ट्रविवर्धनः ॥ 6-89-28 (42687) ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः। गजानीकं समासाद्य प्रेषयामास मृत्यवे ॥ 6-89-29 (42688) तत्र भारत भीमेन नाराचाभिहता गजाः । पेतुर्नेदुश्च सेदुश्च दिशश्च परिबभ्रमुः ॥ 6-89-30 (42689) छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष । क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशेरते ॥ 6-89-31 (42690) नकुलः सहदेवश्च हयानीकमभिद्रुतौ। ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ॥ 6-89-32 (42691) वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः। पतिद्भिस्तुरगै राजन्समास्तीर्यत मेदिनी ॥ 6-89-33 (42692) निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः । हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ॥ 6-89-34 (42693) अर्जुनेन हतैः सङ्ख्ये तथा भारत राजभिः । प्रबभौ वसुधा घोरा तत्रतत्र विशांपते ॥ 6-89-35 (42694) रथैर्भग्नैर्ध्वजैश्छिन्नैर्निकृत्तैश्च महायुधैः । चामरैर्व्यजनैश्चैव च्छत्रैश्च सुमहाप्रभैः ॥ 6-89-36 (42695) हरैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः । उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः ॥ 6-89-37 (42696) अनुकर्षैः शुभै राजन्योक्रैश्चैव सरश्मिभिः । संकीर्णा वसुधा भाति वसन्ते कुसुमैरिव ॥ 6-89-38 (42697) एवमेष क्षयो वृत्तः पाण्डूनामपि भारत। क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ॥ 6-89-39 (42698) अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि। तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ॥ ॥ 6-89-40 (42699) इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे एकोननवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-89-25 कूजतां अव्यक्तं ध्वनताम्। स्तनतां उच्चैः शब्दायमानानाम् ॥ 6-89-37 निष्कैरुरोभूषणैः ॥ 6-89-38 योक्रैरीषायोजनरज्जुभिः रश्मिभिरश्वबन्धनरज्जुभिः ॥
भीष्मपर्व - अध्याय 090

॥ श्रीः ॥

6.90. अध्यायः 090

Mahabharata - Bhishma Parva - Chapter Topics

अर्जुनात्मजेन इरावता शकुनेरनुजानां वधः ॥ 1 ॥ आर्श्चशृङ्गिनाम्ना राक्षसेन इरावतो वधः ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-90-0 (42700) सञ्जय उवाच। 6-90-0x (4170) वर्तमाने तथा रौद्रे राजन्वीरवरक्षये। शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥ 6-90-1 (42701) तथैव सात्वतो राजन्हार्दिक्यः परवीरहा। अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम् ॥ 6-90-2 (42702) ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम् । आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥ 6-90-3 (42703) वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् । वाजिनां बहुभिः सङ्ख्ये समन्तात्परिवारयन् ॥ 6-90-4 (42704) ये चापरे तित्तिरिजा जवना वातरंहसः । सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः ॥ 6-90-5 (42705) हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली । अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपाः ॥ 6-90-6 (42706) अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् । सुतायां नागराजस्य जातः पार्थेन धीमता ॥ 6-90-7 (42707) ऐरावतेन सा दत्ता अनपत्या महात्मना । पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥ 6-90-8 (42708) कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् । एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥ 6-90-9 (42709) स नागलोके संवृद्धो मात्रा च परिरक्षितः । पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥ 6-90-10 (42710) खमुत्पत्य महाराज नागराट् सत्यविक्रमः । इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥ 6-90-11 (42711) सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः । अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥ 6-90-12 (42712) न्यवेदयत चात्मानमर्जुनस्य महात्मनः । इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो ॥ 6-90-13 (42713) मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् । तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥ 6-90-14 (42714) परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः । प्रीतिमाननयत्पार्थो देवराजनिवेशनम् ॥ 6-90-15 (42715) सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप । प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ॥ 6-90-16 (42716) `स चापि नरशार्दूलः शार्दूलसमविक्रमः।' अब्रवीच्च तदा पार्थमयमस्मि तवानघ ॥ 6-90-17 (42717) स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम् । कं करोमि च ते कामं कं च कामं त्वमिच्छसि ॥ 6-90-18 (42718) परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम्। प्रीतिपूर्वं च कार्यं च कार्या प्रीतिश्च मानदः ॥' 6-90-19 (42719) युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति । बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः ॥ 6-90-20 (42720) कामवर्णजवैरश्वैः सर्वतः शुशुभे वृतः । ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ॥ 6-90-21 (42721) उत्पेतुः सहसा राजन्हंसा इव महोदधौ । ते त्वदीयान्समासाद्य हयसंघान्मनोजवान् ॥ 6-90-22 (42722) क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् । निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥ 6-90-23 (42723) निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् । शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥ 6-90-24 (42724) तथैव तावका राजन्समेत्यान्योन्यमाहवे । परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥ 6-90-25 (42725) तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् । उभयोरपि संशान्ता हयसङ्घाः समन्ततः ॥ 6-90-26 (42726) प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः । विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥ 6-90-27 (42727) ततः क्षीणे हयानिके किंचिच्छेषे च भारत । सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि ॥ 6-90-28 (42728) वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते। आरुह्य बलसंपन्नान्वयःस्थांस्तुरगोत्तमान् ॥ 6-90-29 (42729) गजो गवाक्षो वृषकश्चर्मवानार्जयः शुकः। षडेते बलसंपन्ना निर्ययुर्महतो बलात् ॥ 6-90-30 (42730) वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः । सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥ 6-90-31 (42731) तदनीकं महाबहो भित्त्वा परमदुर्जयम् । बलेन महता युक्ताः स्वर्गाय विजयैषिणः ॥ 6-90-32 (42732) विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः । तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ॥ 6-90-33 (42733) अब्रवीत्समरे योधान्स्वान्विचित्रहयस्थितान् । यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ॥ 6-90-34 (42734) हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् । बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ॥ 6-90-35 (42735) जघ्नुस्तेषां बलानीकं दुर्जयं समरे परैः । तदनीकमनीकेन समरे वीक्ष्य पातितम् ॥ 6-90-36 (42736) अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे । इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥ 6-90-37 (42737) ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम्। ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥ 6-90-38 (42738) इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः । स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः ॥ 6-90-39 (42739) उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः । एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥ 6-90-40 (42740) इरावानपि संक्रुद्धः सर्वास्तान्निशितैः शरैः । मोहयामास समरे विद्ध्वा परपुरंजयः ॥ 6-90-41 (42741) प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः । तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥ 6-90-42 (42742) विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम् । पदातिर्द्रुतमागच्छज्जिघांसुः सौबलान्युधि ॥ 6-90-43 (42743) ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः । भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः ॥ 6-90-44 (42744) इरावानपि खङ्गेन दर्शयन्पाणिलाघवम् । अभ्यवर्तत देवांश्च मानुषांश्चैव संयुगे ॥ 6-90-45 (42745) लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः । अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः ॥ 6-90-46 (42746) भूमिष्ठमथ तं सह्ख्ये ह्यन्तरिक्षादवप्लुतम् । परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥ 6-90-47 (42747) अथाभ्याशगतानां तेषां गात्राण्यकृन्तत । असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत ॥ 6-90-48 (42748) आयुधानि च सर्वेषां बाहूनपि विभूषितान्। अपतन्त निकृत्ताङ्गा मृता भूमौ गतासवः ॥ 6-90-49 (42749) वृषकस्तु महाराज बहुधा विपरिक्षतः। अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥ 6-90-50 (42750) तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः। अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम् ॥ 6-90-51 (42751) आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम्। वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥ 6-90-52 (42752) पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली। मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम् ॥ 6-90-53 (42753) त्वं च कामगमस्तात मायास्त्रे च विशारदः । कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥ 6-90-54 (42754) बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः । प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥ 6-90-55 (42755) स योधैर्युद्धकुशलैर्विमलप्रासयोधिभिः । वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः ॥ 6-90-56 (42756) [हतशेषैर्महाराज द्विसाहस्त्रैर्हयोत्तमैः] निहन्तुकामः समरे इरावन्तं महाबलम् ॥ 6-90-57 (42757) इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी हन्तुकाममयित्रघ्नो राक्षसं प्रत्यवारयत् ॥ 6-90-58 (42758) तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः। त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥ 6-90-59 (42759) तेन मायामयाः सृष्टा हयास्तावन्त एव हि। स्वारूढा राक्षसैर्घोरैः शूलपट्टसधारिभिः ॥ 6-90-60 (42760) ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः। अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥ 6-90-61 (42761) तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ। संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ ॥ 6-90-62 (42762) आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् । इरावाथ संरब्धः प्रत्यधावन्महाबलः ॥ 6-90-63 (42763) समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः । चिच्छेद कार्मुकं दीप्तं शरवापं च कञ्चुकम् ॥ 6-90-64 (42764) स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्। इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥ 6-90-65 (42765) ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्। विमोहयित्वा मायाभिसत्स्य गात्रामि सायकैः ॥ 6-90-66 (42766) चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः । तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः ॥ 6-90-67 (42767) संबभूव महाराज समवाप च यौवनम् । माया हि सहराज समवाप च यौवनम् ॥ 6-90-68 (42768) एवं तद्राक्षसस्याङ्गं छिन्नंछिन्नं व्यरोहत । इरावानपि संक्रुद्धो राक्षसं त महाबलम् ॥ 6-90-69 (42769) परश्वथेन तीक्ष्णेन चिच्छेद च पुनः पुनः । स तेन बलिना वीरश्छिद्यमान इव द्रुमः ॥ 6-90-71aराक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत्। परश्वथक्षतं रक्षः सुस्राव बहुशोणितम् ॥ 6-90-70 (42770) ततश्रुक्रोध बलवांश्चक्रे वेगं च संयुगे। आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्चितम् ॥ 6-90-72 (42771) कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे । अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम् ॥ 6-90-73 (42772) संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्। तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः ॥ 6-90-74 (42773) इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे। तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः ॥ 6-90-75 (42774) योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्। स नागैर्बहुभी राजन्निरावान्संवृतो रणे ॥ 6-90-76 (42775) दधार सुमहद्रूपमनन्त इव भोगवान्। ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥ 6-90-77 (42776) छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः। सौपर्णं रूपमास्थाय भक्षयामास पन्नगम् ॥ 6-90-78 (42777) मायया भक्षिते तस्मिन्नन्वये तस्य मातृके । विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना ॥ 6-90-79 (42778) सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् । इरावतः शिरो रक्षः पातयामास भूतले ॥ 6-90-80 (42779) तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे। विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥ 6-90-81 (42780) तस्मिन्महति संग्रामे तादृशे भैरवे पुनः। महान्व्यतिकरो घोरः सेनयोः समपद्यत ॥ 6-90-82 (42781) गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः । रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥ 6-90-83 (42782) तथा पत्तिरथौघाश्च हयाश्च बहवो रणे। रथिभिर्निहता राजंस्तव तेषां च संकुले ॥ 6-90-84 (42783) अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्। जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥ 6-90-85 (42784) तथैव तावका राजन्सृञ्जयाश्च सहस्रशः। जुह्वतः समरे प्राणान्निजघ्रुरितरेतरम् ॥ 6-90-86 (42785) मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥ 6-90-87 (42786) तथा मर्मातिगैर्भीष्मो निजघान महारथान्। कम्पयन्समरे सेनां पाण्डवानां परंतपः ॥ 6-90-88 (42787) तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः। दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥ 6-90-89 (42788) तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् । अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥ 6-90-90 (42789) तथैव भीमसेनस्य पार्षतस्य च भारत। रौद्रमासीद्रणे युद्धं सात्यकस्य च धन्विनः ॥ 6-90-91 (42790) दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् । एक एव रणे शक्तो निहन्तुं सर्वसैनिकान् ॥ 6-90-92 (42791) किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः। इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः॥ 6-90-93 (42792) वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ । उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥ 6-90-94 (42793) आविष्टा इव युध्यन्ते रक्षोभूतैर्महाबलैः । तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥ 6-90-95 (42794) न स्म पश्यामहे कंचित्प्राणान्यः परिरक्षति। दैवासुराभे समरे तस्मिन्योधा नराधिप ॥ ॥ 6-90-96 (42795) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे नवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-90-3 वाजिनां वेगवतां वाजिनामश्वानां बहुभिर्गणैः परिवारयन्निति गणशब्दाध्याहारेण द्वयोः संबन्धः ॥ 6-90-6 पाण्डवस्यार्जुनस्य सुत इरावान् ॥ 6-90-7 नागराजस्य ऐरावतस्य ॥ 6-90-10 पितृव्येण अश्वसेनेन ॥ 6-90-57 अयमर्धः श्लोको दाक्षिणात्यकोशेषु नास्ति खo झo पुस्तकयोरस्ति ॥ 6-90-95 आविष्टाः ग्रहाद्याविष्टाः ॥
भीष्मपर्व - अध्याय 091

॥ श्रीः ॥

6.91. अध्यायः 091

Mahabharata - Bhishma Parva - Chapter Topics

दुर्योधनघटोत्कचयोर्युद्धम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-91-0 (42796) धृतराष्ट्र उवाच। 6-91-0x (4171) इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः । संग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ 6-91-1 (42797) सञ्जय उवाच। 6-91-2x (4172) इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः। व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥ 6-91-2 (42798) नदतस्तस्य शब्देन पृथिवी सागराम्बरा । सपर्वतवना राजंश्चचाल सुभृशं तदा ॥ 6-91-3 (42799) अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा । `चेलुश्च सहसा तत्र तेन नादेन नादिताः' 6-91-4 (42800) तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ॥ ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च। 6-91-5 (42801) सर्व एव महाराज तावका दीनचेतसः ॥ सर्वतः समचेष्टन्त सिंहभीता गजा इव । 6-91-6 (42802) नर्दित्वा सुमहानादं निर्घातमिव राक्षसः ॥ ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् । 6-91-7 (42803) नानारूपप्रहरणैर्वृतो राक्षसपुङ्गवैः ॥ आजघान सुसंक्रुद्धः कालान्तकयमोपभः । 6-91-8 (42804) तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ॥ स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् । 6-91-9 (42805) ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ॥ प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः । 6-91-10 (42806) पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ॥ कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥ 6-91-11 (42807) पुत्रं तव महाराज चुकोप स निशाचरः । ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥ 6-91-12 (42808) राक्षसानां च राजेन्द्र दुर्योधनबलस्य च। गजानीकं च संप्रेक्ष्य मेघबृन्दमिवोदितम् ॥ 6-91-13 (42809) अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः । नदन्तो विविधान्नादान्मेघा इव सविद्युतः ॥ 6-91-14 (42810) शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः । भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वथैः ॥ 6-91-15 (42811) पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् । भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् ॥ 6-91-16 (42812) अपश्याम महाराज वध्यमानान्निशाचरैः । तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ॥ 6-91-17 (42813) दुर्योधनो महाराज राक्षसान्समुपाद्रवत्। अमर्षवशमापन्नस्त्यक्त्वा जीवितात्मनः ॥ 6-91-18 (42814) मुमोच निशितान्बाणान्राक्षसेषु परंतप । जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ॥ 6-91-19 (42815) संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव । वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ॥ 6-91-20 (42816) शरैश्चतुर्भिश्चतुरो निजघान महाबलः । ततः पुनरमेयात्मा शरवर्षं दुरासदम् ॥ 6-91-21 (42817) मुमोच भरतश्रेष्ठो निशाचरबलं प्रति। तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ॥ 6-91-22 (42818) क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः । स विष्फार्य महच्चापमिन्द्राशनिसमप्रभम् ॥ 6-91-23 (42819) अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् । तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् ॥ 6-91-24 (42820) न विव्यथे महाराज पुत्रो दुर्योधनस्तव। अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः ॥ 6-91-25 (42821) घटोत्कच उवाच। 6-91-26x (4173) अद्यानृण्यं गमिष्यामि पितॄणां मातुरेव च। ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ॥ 6-91-26 (42822) यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः । यच्चैव द्रौपदी कृष्णा एववस्त्रा रजस्वला ॥ 6-91-27 (42823) सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया। तव च प्रियकामेन आश्रमस्था दुरात्मना ॥ 6-91-28 (42824) सैन्धवेन परामृष्टा परिभूय पितॄन्मम । एतेषामपमानानामन्येषां च कुलाधम ॥ 6-91-29 (42825) अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम्। एवमुक्त्वा तु हैडिम्बो महद्विष्फार्य कार्मुकम् ॥ 6-91-30 (42826) संदश्य दशनैरोष्ठं सृकिणी परिसंलिहन्। शरवर्षेण महता दुर्योधनमवाकिरत्। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ॥ 6-91-31 (42827) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे एकनवतितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 092

॥ श्रीः ॥

6.92. अध्यायः 092

Mahabharata - Bhishma Parva - Chapter Topics

घटोत्कचयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-92-0 (42828) सञ्जय उवाच। 6-92-0x (4174) ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि। दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥ 6-92-1 (42829) ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः । संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥ 6-92-2 (42830) मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम्। तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ॥ 6-92-3 (42831) आशीविषा इव क्रुद्धाः पर्वते गन्धमादने । स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः ॥ 6-92-4 (42832) दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः। जग्राह च महाशक्तिं गिरीणामपि दारिणीम् ॥ 6-92-5 (42833) संप्रदीप्तां महोल्काभामशनिं ज्वलितामिव । तमागच्छन्महाबाहुर्जिघांसुस्तनयं तव॥ 6-92-6 (42834) तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् । कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत् ॥ 6-92-7 (42835) स नागप्रवरेणाजौ बलिना शीघ्रगामिना । यतो दुर्योधनरथस्तं मार्गं प्रत्यषेधयत् ॥ 6-92-8 (42836) पन्थानं वारयामास कुञ्जरेण सुतस्य ते। मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता ॥ 6-92-9 (42837) घटोत्कचो महाराज क्रोधसंरक्तलोचनः । उद्यतां तां महाशक्तिकं तस्मिंश्चिक्षेप वारणे ॥ 6-92-10 (42838) स तयाऽभिहतो राजंस्तेन बाहुप्रमुक्तया। संजातरुधिरोत्पीडः पपात च ममार च ॥ 6-92-11 (42839) पतत्यथ गजे चापि वङ्गानामीश्वरो बली। जवेन समभिद्रुत्य जगाम धरणीतलम् ॥ 6-92-12 (42840) दुर्योधोऽपि संप्रेक्ष्य पतितं वरवारणम् । प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥ 6-92-13 (42841) `अशक्तः प्रतियोद्धुं वै दृष्ट्वा तस्य पराक्रमम्।' क्षत्रधर्मं पुरस्कृत्य आत्मनश्चातिमानिताम्। प्राप्तेऽपक्रनये राजा तस्थौ गिरिरिवाचलः ॥ 6-92-14 (42842) राधान च शितं बाणं कालाग्निसमतेजसम्। सुयोच धरमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥ 6-92-15 (42843) तमापतन्तं संप्रेक्ष्य वणिमिन्द्राशनिप्रभम् । लाघवान्मोचयामास महात्मा वै घटोत्कचः ॥ 6-92-16 (42844) भूयश्च निननादोषं क्रोधसंरक्तलोचनः । त्रासयामास रौन्यानि युगन्ते जलदो यथा ॥ 6-92-17 (42845) तं श्रुत्वा निनिदं घोरं तस्व भीमस्य रक्षसः। आचार्यमुसंगम्य भीष्मः शान्तनवोऽब्रवीत् ॥ 6-92-18 (42846) यथैव निनन्दो घोरः श्रूयते राक्षसेरितः । हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन च ॥ 6-92-19 (42847) नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित् । तत्र गच्छत भद्रं वो राजानं परिरक्षितुम् ॥ 6-92-20 (42848) अभिद्रुत्य महाबाहुं राक्षसेन प्रपीडितम्। एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः ॥ 6-92-21 (42849) पितामहवचः श्रुत्वा त्वरमाणा महारथाः । उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥ 6-92-22 (42850) द्रोणश्च सोमदत्तश्च बाह्लीकोऽथ जयद्रथः । कृपो भिरिश्रवाः शल्य आवन्त्यः स बृहद्बलः ॥ 6-92-23 (42851) अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः। रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ॥ 6-92-24 (42852) अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव। तदनीकमनाधृष्यं पालितं तु महारथैः ॥ 6-92-25 (42853) पाततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः । ...कम्पत महाबाहुर्मैनाक इव पर्वतःक ॥ 6-92-26 (42854) प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः । शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥ 6-92-27 (42855) ततः समभवद्युद्धं तुमुलं रोमहर्षणम् । राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥ 6-92-28 (42856) धनुषां कूजतां शब्दः सर्वतस्तुमुलो रणे । अश्रूयत महाराज वंशानां दह्यतामिव ॥ 6-92-29 (42857) शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम्। शब्दः समभवद्राजन्गिरीणामिव भिद्यताम् ॥ 6-92-30 (42858) वीरबाहुविसृष्टानां तोमराणां विशांपते । रूपमासीद्वियत्स्थानां सर्पाणामिव सर्पताम् ॥ 6-92-31 (42859) ततः परमसंक्रुद्धो विष्फार्य सुमहद्धनुः । राक्षसन्द्रो महाबाहुर्विनदन्भैरव रवम् ॥ 6-92-32 (42860) आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् । सोमदत्तस्य भल्लेन ध्वजं चोन्मथ्य चानदत् ॥ 6-92-33 (42861) बाह्लीकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे। कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥ 6-92-34 (42862) पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च। जत्रुदेशे समासाद्य विकर्णं समताडयत् ॥ 6-92-35 (42863) न्यषीदत्स्वरथोपस्थे शोणितेन परिप्लुतः । ततः पुनरमेयात्मा नाराचान्दश पञ्च च ॥ 6-92-36 (42864) भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ । ते वर्म भित्त्वा तस्याशु विविशुर्धरणीतलम् ॥ 6-92-37 (42865) विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत्। तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥ 6-92-38 (42866) सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् । उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥ 6-92-39 (42867) चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः । जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥ 6-92-40 (42868) पूर्णायतविसृष्टेन पीतेन निशितेन च । निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ॥ 6-92-41 (42869) स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः ॥ 6-92-42 (42870) चिक्षेप निशितांस्तीक्ष्णाञ्छरानाशीविषोपमान्। बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥ ॥ 6-92-43 (42871) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे द्विनवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

भीष्मपर्व - अध्याय 093

॥ श्रीः ॥

6.93. अध्यायः 093

Mahabharata - Bhishma Parva - Chapter Topics

संकुलमुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-93-0 (42872) सञ्जय उवाच। 6-93-0x (4175) विमुखीकृत्य वर्सांस्तु तावकान्युधि राक्षसः। जिघांसुभरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥ 6-93-1 (42873) तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् । अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाःक ॥ 6-93-2 (42874) तालमात्राणि चापानि विकर्षन्तो महारथाः । तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ॥ 6-93-3 (42875) अथैनं शरवर्षेण समन्तात्पर्यवाकिरन् । पर्वतं वारिधाराभिः शरदीव वलाहकाः ॥ 6-93-4 (42876) स गाढविद्धो व्यथितस्तोत्रार्दित इव द्विपः । उत्पपात तदाऽऽकाशं समन्ताद्वैनतेयवत् ॥ 6-93-5 (42877) व्यनदत्सुमहानादं जीमूत इव शारदः । दिशः खं विदिशश्चैव नादयन्भैरवस्वनः ॥ 6-93-6 (42878) राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः । उवाच भरतश्रेष्ठ भीमसेनमरिन्दमम् ॥ 6-93-7 (42879) युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः । यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम् ॥ 6-93-8 (42880) अतिभारं च पश्यामि तस्मिन्राक्षसपुङ्गवे । पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः ॥ 6-93-9 (42881) तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः। एतज्ज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम् ॥ 6-93-10 (42882) गच्छ रक्षस्व हैडिम्बं शंशयं परमं गतम् । भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः ॥ 6-93-11 (42883) प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् । वेगेन महता राजन्पर्वकाले यथोदधिःक ॥ 6-93-12 (42884) तमन्वगात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः । श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ 6-93-13 (42885) अभिमन्युमुखाश्चैव द्रौपदेया महारथाः । क्षत्रदेवश्च विक्रन्तः क्षत्रधर्मा तथैव च ॥ 6-93-14 (42886) अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः । महता रथवंशेन हैडिम्बं पर्यवारयन् ॥ 6-93-15 (42887) कुञ्चरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिःक । अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥ 6-93-16 (42888) सिंहनादेन महता नेमिघोषेण चैव ह। खुरशब्दनिपातैश्च कम्पयन्तो वसुंधराम् ॥ 6-93-17 (42889) तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् । भीमसेनभयोद्विग्नं विवर्णवदनं तथा ॥ 6-93-18 (42890) परिवृत्य महाराज परित्यज्य घटोत्कचम् । ततः प्रववृते युद्धंक तत्र तेषां महात्मनाम् ॥ 6-93-19 (42891) तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् । नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ॥ 6-93-20 (42892) अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे । व्यतिष्यक्तं महारौद्रं युद्धं भीरुभयावहम् ॥ 6-93-21 (42893) हया हयैः समाजग्मुः पादाताश्च पदातिभिः । `रथा रथैः समागच्छन्नागा नागैश्च संयुगे' अन्योन्यं समरे राजन्प्रार्थयानाः समभ्ययुः ॥ 6-93-22 (42894) सहसा चाभवत्तीव्रं सन्निपातन्महद्रजः। गजाश्वरथपत्तीनां पादनेमिसमुद्धतम् ॥ 6-93-23 (42895) धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत्। नैव स्वे न परे राजन्समजानन्परस्परम् ॥ 6-93-24 (42896) पिता पुत्रं न जानीते पुत्रो वा पितरं तथा । निर्मर्यादे तथाभूते वैशसे रोमहर्षणे ॥ 6-93-25 (42897) शस्त्राणां भरतश्रेष्ठ मनुष्याणां च र्जताम् । सुमहानभवच्छब्दः प्रेतानामिव भारत ॥ 6-93-26 (42898) गजवाजिमनुष्याणां शोणितान्रतरङ्गिणी । प्राववर्तत नदी तत्र केशशैवलशाद्वला ॥ 6-93-27 (42899) नराणां चैव कायेभ्यः शिरसां पततां रणे। शुश्रुवे सुमहाञ्छब्दः पततामश्मनामिव ॥ 6-93-28 (42900) विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः । अश्वैः संभिन्नदेहैश्च संकीर्णाऽभूद्वसुंधरा ॥ 6-93-29 (42901) नानाविधानि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिधावन्तः संप्रहारार्थमुद्यताः ॥ 6-93-30 (42902) हया हयान्समासाद्य प्रेषिता हयसादिभिः । समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥ 6-93-31 (42903) नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् । उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥ 6-93-32 (42904) प्रेषिताश्च महामात्रैर्वारणाः परवारणैः । अभ्यघ्नन्त विषणाग्रैर्वारणानेव संयुगे ॥ 6-93-33 (42905) ते जातरुधिरोत्पीडाः पताकाभिरलङ्कृताः । संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ 6-93-34 (42906) केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः । विनदन्तोऽभ्यधावन्त गर्जमाना धना इव ॥ 6-93-35 (42907) केचिद्धस्तैर्द्विधाच्छिन्नैश्छिन्नगात्रास्तथाऽपरे । निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥ 6-93-36 (42908) पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः । मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥ 6-93-37 (42909) नाराचनिहतास्त्वन्ये तथा विद्धाश्च तोमरैः । विनदन्तोऽभ्यधावन्त विशृङ्गा इव पर्वताः ॥ 6-93-38 (42910) केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः । रथान्हयान्पदातींश्च ममृदुः शतशो रणे ॥ 6-93-39 (42911) तथा हया हयारोहैस्ताडिताः प्रासतोमरैः । तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥ 6-93-40 (42912) रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः। परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥ 6-93-41 (42913) स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् । प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥ 6-93-42 (42914) तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे। धार्तराष्ट्रं महत्सैन्यं प्रययौ विमुखीकृतम् ॥ ॥ 6-93-43 (42915) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे त्रिनवतितमोऽध्यायः ॥
भीष्मपर्व - अध्याय 094

॥ श्रीः ॥

6.94. अध्यायः 094

Mahabharata - Bhishma Parva - Chapter Topics

घटोत्कचयुद्धम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-94-0 (42916) सञ्जय उवाच। 6-94-0x (4176) स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्। अभ्यधावत्सुसंक्रुद्धो भीमसेनमरिन्दमम् ॥ 6-94-1 (42917) प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् । महता शरवर्षेण पाण्डवं समवाकिरत् ॥ 6-94-2 (42918) अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवापिनम् । भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥ 6-94-3 (42919) तदन्तरं च संप्रेक्ष्य त्वरमामो महारथः । प्रसंदधे शितं बाणं गिरीणामपि दारणम् ॥ 6-94-4 (42920) तेनोरसि महाराज भीमसेनमताडयत् । स गाढविद्धो व्यथितः सृक्विणी परिसंलिहन् ॥ 6-94-5 (42921) समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम्। तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः ॥ 6-94-6 (42922) क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः। अभिमन्युमुखाश्चापि पाण्डवानां महारथाः ॥ 6-94-7 (42923) समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः । संप्रेक्ष्य तान्संपततः संक्रुद्धाञ्जातसंभ्रमान् ॥ 6-94-8 (42924) भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् । क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ॥ 6-94-9 (42925) संशयं परमं प्राप्तं मञ्जन्तं व्यसनार्णवे। एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः ॥ 6-94-10 (42926) भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन्। नानाविधानि शस्त्राणि विसृजन्तो महारथाः ॥ 6-94-11 (42927) नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिपान् । तदाऽऽचार्यवचः श्रुत्वा सौमदत्तिपुरोगमाः ॥ 6-94-12 (42928) तावकाः समवर्तन्त पाम्डवानामनीकिनीम् । कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ॥ 6-94-13 (42929) चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः । आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥ 6-94-14 (42930) ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे । पाण़्डवा धार्तराष्ट्राश्च परस्परजिघांसवःक ॥ 6-94-15 (42931) एवमुक्त्वा महाबाहुर्महद्विष्फार्य कार्मुकम् । भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥ 6-94-16 (42932) भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् । पर्वतं वारिधाराभिः प्रावृषीव वलाहकः॥ 6-94-17 (42933) तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः । त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥ 6-94-18 (42934) स गाढविद्धो व्यथितो वयोवृद्धश्च भारत। प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत्॥ 6-94-19 (42935) गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् । द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥ 6-94-20 (42936) तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ । भीमसेनो महाबाहुर्गदामादाय सत्वरम् ॥ 6-94-21 (42937) अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः। समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे। 6-94-22 (42938) तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्। कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥ 6-94-23 (42939) तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ। अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥ 6-94-24 (42940) तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् । समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥ 6-94-25 (42941) भारद्वाजमुखाः सर्वे भीमसेनजिघांसया । नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ॥ 6-94-26 (42942) सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः। तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ॥ 6-94-27 (42943) अभिमन्युप्रभृतयः पाण़्डवानां महारथाःक । अभ्यदावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् 6-94-28 (42944) अनूपाधिपतिः शूरो भीमस्य दयितः सखा । नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्यात् ॥ 6-94-29 (42945) स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः। स विष्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ॥ 6-94-30 (42946) यथा शक्रो महाराज पुरा विव्याध दानवम् । विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् ॥ 6-94-31 (42947) येन लोकत्रयं क्रोधात्रासितं स्वेन तेजसाक । 6-94-32b`स रुद्रेण जितः पूर्वं निहतो मातरिश्वना' तथा नीलेन निर्भिन्नः सम्यङ्भुक्तेन पत्रिणा ॥ 6-94-32 (42948) संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः । स विष्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ॥ 6-94-33 (42949) दध्रे नीलविनाशाय मतिं मतिमतां वरः। ततः संधाय विमलान्भल्लान्कर्मारमार्जितान् ॥ 6-94-34 (42950) जघान चतुरो वाहान्पातयामास च ध्वजम्। `सूतं चैकेन भल्लेन रथनीडादपाहरत्' सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ॥ 6-94-35 (42951) स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। मोहितं वीक्ष्य राजानं नीलमश्मचयोपमम् ॥ 6-94-36 (42952) घटोत्कचोऽभिसंक्रुद्धो ज्ञातिभिः परिवारितः । अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् । तथेतरे चाभ्यधावन्राक्षसा युद्धदुर्मदाः ॥ 6-94-38a` भीमसेनो महाबाहुर्नीलं नीलाञ्जनप्रभम्।' आरोप्य स्वरथं वीरो दुर्योधनमपाद्रवत् ॥ 6-94-37 (42953) घटोत्कचं च संप्रेक्ष्य राक्षसं घोरदर्शनम् ॥ अभ्यधावत तेजस्वी भारज्वाजात्मजस्त्वरन् ॥ 6-94-39 (42954) निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान्। योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः । विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः ॥ 6-94-40 (42955) अक्रुद्ध्यत महाकायो भैमसेनिर्घटोत्कचः। प्रादुश्चक्रे ततो मायां घोररूपां सुदारुणाम् ॥ 6-94-41 (42956) मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः। ततस्ते तावकाः सर्वे मायया विमुखीकृताःक ॥ 6-94-42 (42957) अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले। विचेष्टमानाः कृपणाः शोणितेन परिप्लुताः ॥ 6-94-43 (42958) द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च। प्रायशश्च महेष्वासा ये प्रधानाः स्म कौरवाः ॥ 6-94-44 (42959) विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः। हयाश्चैव हयारोहाः सन्निकृत्ताः सहस्रशः ॥ 6-94-45 (42960) तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति। मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥ 6-94-46 (42961) युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे। घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः ॥ 6-94-47 (42962) नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः । तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ॥ 6-94-48 (42963) घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे । शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम् ॥ 6-94-49 (42964) एवं तव बलं सर्वं हैडिम्बेन महात्मना। सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥ ॥ 6-94-50 (42965) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे चतुर्नवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-94-44 द्रोणाद्रींश्चापश्यन्तेति संबन्धः ॥
भीष्मपर्व - अध्याय 095

॥ श्रीः ॥

6.95. अध्यायः 095

Mahabharata - Bhishma Parva - Chapter Topics

भगदत्तादियुद्धम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-95-0 (42966) सञ्जय उवाच। 6-95-0x (4177) तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा। `पराजयं राक्षसेन नामृष्यत परंतपः।' गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च ॥ 6-95-1 (42967) तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे। घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥ 6-95-2 (42968) कथयामास दुर्धर्षो विनिःश्वस्य पुनःपुनः । अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ॥ 6-95-3 (42969) भवन्तं समुपाश्रित्य द्रोणं चैव पितामह । पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥ 6-95-4 (42970) एकादश समाख्याता अक्षौहिण्यश्च या मम। निदेशे तव तिष्ठन्ति मया सार्धं परंतप ॥ 6-95-5 (42971) सोऽहं भरतशार्दूल भीमसेनपुरोगमैः । घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ॥ 6-95-6 (42972) तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः । तदिच्छामि महाभाग त्वत्प्रसादात्परंतप ॥ 6-95-7 (42973) राक्षसापशदं हन्तुं स्वयमेव पितामह । त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ॥ 6-95-8 (42974) सञ्जय उवाच। 6-95-9x (4178) एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम। दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ 6-95-9 (42975) शृणु राजन्मम वचो यत्त्वां वक्ष्यामि कौरव। यथा त्वया महाराज वर्तितव्यं परंतप ॥ 6-95-10 (42976) आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम। धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ ॥ 6-95-11 (42977) अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः । अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति ॥ 6-95-12 (42978) न तु कार्यस्त्वया राजन्हैडिम्बेन दुरात्मा। अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः। शल्यश्च वृषसेनश्च विकर्णश्च महारथः ॥ 6-95-13 (42979) शेषाश्च भ्रातरस्त्वन्ये दुःशासनपुरोगमाः। त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥ 6-95-14 (42980) रौद्रे तस्मिन्राक्षसेन्द्रे यदि ते हृच्छयो महान् । अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः ॥ 6-95-15 (42981) भगदत्तो महीपालः पुरन्दरसमो युधि । एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ॥ 6-95-16 (42982) समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः। गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ॥ 6-95-17 (42983) वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् । राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥ 6-95-18 (42984) तव दिव्यानि चास्त्राणि विक्रमश्च परंतप । समागमश्च बहुभिः पुराऽभूदमरैः सह ॥ 6-95-19 (42985) त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे । स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम् ॥ 6-95-20 (42986) सञ्जय उवाच। 6-95-21x (4179) एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः। प्रययौ सिंहनादेन परानभिमुखको द्रुतम् ॥ 6-95-21 (42987) तमापतन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् । अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ॥ 6-95-22 (42988) भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः । द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत ॥ 6-95-23 (42989) चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा । सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ॥ 6-95-24 (42990) ततः समभवद्युद्धं घोररूपं भयानकम्। पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ॥ 6-95-25 (42991) प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः । ते निपेतुर्महाराज नागेषु च रथेषु च ॥ 6-95-26 (42992) प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः । परस्परं समासाद्य संनिपेतुरभीतवत् ॥ 6-95-27 (42993) मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे । बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥ 6-95-28 (42994) हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः । चोदिताः सादिभिः क्षिप्रं निजघ्रुरितरेतरम् ॥ 6-95-29 (42995) पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः। न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ॥ 6-95-30 (42996) रथिनश्च रथाकंश्चित्रान्कर्णिनालीकतोमरैः । निहत्य समरे वीरान्सिंहनादान्विनेदिरे ॥ 6-95-31 (42997) तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे । भगतत्तो महेष्वासो भीमसेनमथाद्रवत् ॥ 6-95-32 (42998) कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्। पर्वतेन यथा तोयं स्रवमाणेन सर्वशः ॥ 6-95-33 (42999) किरञ्छरसहस्राणि सुप्रतीकशिरोगतः । ऐरावतस्थो मघवान्वारिधारा इवानघ ॥ 6-95-34 (43000) स भीमं शरधाराभिस्ताजयामास पार्थिवः । पर्वतं वारिधाराभिस्तपान्ते जलदो यथा ॥ 6-95-35 (43001) भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान्। निजघान महेष्वासः संरब्धः शरवृष्टिभिः ॥ 6-95-36 (43002) तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् । चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥ 6-95-37 (43003) स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा। अभ्यधावत वेगेन भीमसेनपुरोगमाः ॥ 6-95-38 (43004) तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः। अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ॥ 6-95-39 (43005) केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः। दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ॥ 6-95-40 (43006) चेदिपो धृष्टकेतुश्च संरब्धाः सर्व एव ते। उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः ॥ 6-95-41 (43007) तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् । स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ॥ 6-95-42 (43008) संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट्। दशार्णाधिपतिश्चाऽपि गजं भूमिधरोपमम् ॥ 6-95-43 (43009) समास्थितोऽभिदुद्राव भगदत्तस्य वारणम्। तमापतन्तं समरे जगं जगपतिः स च ॥ 6-95-44 (43010) दधार सुप्रतीकोऽपि वेलेव मकरालयम् । वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः ॥ 6-95-45 (43011) साधुसाध्विति सैन्यानि त्वदीयान्यभ्यपूजयन् । ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ॥ 6-95-46 (43012) प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम। तस्य कुम्भपरित्राणां शातकुम्भपरिष्कृतम् ॥ 6-95-47 (43013) विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः। स गाढविद्धो व्यथितो नागो भरतसत्तम ॥ 6-95-48 (43014) उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगिनः । स प्रदुद्राव वेगेन प्रणदन्भैरवं रवम् ॥ 6-95-49 (43015) संमर्दमानः स्वबलं वायुर्वृक्षानिवौजसा । तस्मिन्पराजिते नागे पाण्डवानां महारथाः ॥ 6-95-50 (43016) सिंहनादं विनद्योच्चैर्युद्धायैवावतस्थिरे । ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् ॥ 6-95-51 (43017) किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च। तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् ॥ 6-95-52 (43018) श्रुत्वा स निनदंक घोरममर्षाद्गतसाध्वसः । भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥ 6-95-53 (43019) अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि। तस्मिन्क्षणे समभवत्सांवर्तक इवानलः ॥ 6-95-54 (43020) रथसङ्घांस्तथा नागान्हयांश्च हयसादिनः । पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशःक ॥ 6-95-55 (43021) अमृद्गात्समरे नागः संप्रधावंस्ततस्ततः। तेन संलोड्यमानं तु पाण्डवानां बलं महत् ॥ 6-95-56 (43022) संचुकोच महाराज चर्मेवाग्नौ समाहितम् । भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता ॥ 6-95-57 (43023) घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत्। विकटः परुषो राजन्दीप्तास्यो दीप्तलोचनः ॥ 6-95-58 (43024) रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव । जग्राह विमलं शूलं गिरीणामपि दारणम् ॥ 6-95-59 (43025) नागं जिघांसुः सहसा चिक्षेप च महाबलः। स विस्फुलिङ्गमालाभिः समन्तात्परिवेष्टितम् ॥ 6-95-60 (43026) तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः । चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम् ॥ 6-95-61 (43027) चिच्छेद तन्महच्छूलं तेन बाणेन वेगवान् । उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम् ॥ 6-95-62 (43028) महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता । शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः ॥ 6-95-63 (43029) रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमान् । चिक्षेप तां राक्षसस्य तिष्ठितिष्ठेति चाब्रवीत् ॥ 6-95-64 (43030) तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव । उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥ 6-95-65 (43031) बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत। पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ॥ 6-95-66 (43032) तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा। दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥ 6-95-67 (43033) पाण्डवाश्च महाराज भीमसेनपुरोगमाः । साधुसाध्विति नादेन पृथिवीमन्वनादयन् ॥ 6-95-68 (43034) तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् । नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥ 6-95-69 (43035) स विष्फार्य महच्चापमिन्द्राशानिसमप्रभम् । अभिदुद्राव वेगेन पाण्डवानां महारथान् ॥ 6-95-70 (43036) विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् । भीममेकेन विव्याध राक्षसं नवभिः शरैः ॥ 6-95-71 (43037) अभिमन्युं त्रिभिश्चैव केकयान्पञ्च पञ्चभिः । पूर्णायतविसृष्टेन शरेणानतपर्वणा ॥ 6-95-72 (43038) बिभेद दक्षिणं बाहुं क्षत्रेदवस्य चाहवे । पपात सहसा तस्य सशरं धनुरुत्तमम् ॥ 6-95-73 (43039) द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् । भीमसेनस्य च क्रोधान्निजघान तुरंगमान् ॥ 6-95-74 (43040) ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः । निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ॥ 6-95-75 (43041) स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ॥ 6-95-76 (43042) ततो भीमो महाबाहुर्विरथो रथिनां वरः । गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात् ॥ 6-95-77 (43043) तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् । तावकानां भयं घोरं समपद्यत भारत ॥ 6-95-78 (43044) एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः । आजगाम महाराज निघ्नञ्शत्रून्समन्ततः ॥ 6-95-79 (43045) यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ । प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ ॥ 6-95-80 (43046) दृष्ट्वा च पाण्डवो भ्रातॄन्युध्यमानान्महारथान् । त्वरितो भरतश्रेष्ठ तत्रायुध्यत्किरञ्छरान् ॥ 6-95-81 (43047) ततो दुर्योधनो राजा त्वरमाणो महारथः । सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् ॥ 6-95-82 (43048) तामापतन्तीं सहसा कौरवाणां महाचमूम् । अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥ 6-95-83 (43049) भगदत्तश्च समरे तेन नागेन भारत। विमृद्गन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥ 6-95-84 (43050) तदासीत्सुमहद्युद्धं भगदत्तस्य मारिष। पाञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः ॥ 6-95-85 (43051) भीमसेनोऽपि समरे तावुभौ केशवार्जिनौ । अश्रावयद्यथावृत्तमिरावद्वधतुत्तमम् ॥ ॥ 6-95-86 (43052) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे पञ्चनवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-95-4 भवन्तं समुपाश्रित्य वासुदेवं यथा परैः इति झo पाठः। ड पाठे अयमर्थश्लोको नास्ति॥ 6-95-15 अनुशय इति पाठे पश्चात्तापः ॥ 6-95-77 प्रचस्कन्द अवततार ॥
भीष्मपर्व - अध्याय 096

॥ श्रीः ॥

6.96. अध्यायः 096

Mahabharata - Bhishma Parva - Chapter Topics

भीमेन दुर्योधनानुजानां कतिपयानां हननम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-96-0 (43053) सञ्जय उवाच। 6-96-0x (4180) पुत्रं विनिहतं श्रुत्वा इरावन्तं धऩञ्जयः। दुःखेन महताऽऽविष्टो निःश्वसन्पन्नगो यथा ॥ 6-96-1 (43054) अब्रवीत्समरे राजन्वासुदेवमिदं वचः। इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥ 6-96-2 (43055) कुरूणां पाण्डवानां च क्षयं घोरं महामतिःक । स ततो निवारितवान्धृतराष्ट्रं जनेश्वरम् ॥ 6-96-3 (43056) अन्ये च बहवो वीराः संग्रामे मधुसूदन। निहताः कौरवैः सङ्ख्ये तथाऽस्माभिश्च कौरवाः ॥ 6-96-4 (43057) अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्। धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ॥ 6-96-5 (43058) अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्वनम् । किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥ 6-96-6 (43059) दुर्योधनापराधेन शकुनेः सौबलस्य च। क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥ 6-96-7 (43060) इदानीं च विजानामि सुकृतं मधुसूदन। कृतं राज्ञा महाबाहो याचता त सुयोधनम् ॥ 6-96-8 (43061) राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिःक । दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ॥ 6-96-9 (43062) निन्दामि भृशमात्मानं धिगस्तु क्षत्रिजीविकाम् । अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे ॥ 6-96-10 (43063) एतदर्थं मया युद्धं रोचितं मधुसूदन। संचोदय हयाञ्शीघ्रं धार्तराष्ट्रचमूं प्रति ॥ 6-96-11 (43064) प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् । नायं क्लीबायितुं कालो विद्यते माधव क्वचित् ॥ 6-96-12 (43065) सञ्जय उवाच। 6-96-13x (4181) एवमुक्तस्तु पार्थेन केशवः परवीरहा। चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥ 6-96-13 (43066) अथ शब्दो महानासीत्तव सैन्यस्य भारत। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ 6-96-14 (43067) अपराह्णे महाराज संग्रामः समपद्यत । पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥ 6-96-15 (43068) ततो राजंस्तव सुता भीमसेनमुपाद्रवन् । परिवार्य रणे द्रोणं वसवो वासवं यथा ॥ 6-96-16 (43069) ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः। भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ॥ 6-96-17 (43070) हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ । अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः ॥ 6-96-18 (43071) शेषास्त्वन्ये महाराज शेषानेव महारथान् । ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ 6-96-19 (43072) `भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव विशांपते'। प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥ 6-96-20 (43073) पुत्रास्तु तव कौन्तेयं छादयांचक्रिरे शरैः। प्रावृषीव महाराज जलदा इव पर्वतम् ॥ 6-96-21 (43074) स च्छाद्यमानो बहुधा पुत्रैस्तव विशांपते । सृक्विणी संलिहन्वीरः शार्दूल इव दर्पितः ॥ 6-96-22 (43075) व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम् । क्षुरप्रेण सुतीक्ष्णेन सुमुक्तेन महारणे ॥ 6-96-23 (43076) ताडयामास संक्रुद्धः सोऽभवद्व्यथितेन्द्रियः । अपरेण तु भल्लेन पीतेन निशितेन तु। अपातयत्कुण्डलितं सिंहः क्षुद्रमृगं यथा ॥ 6-96-24 (43077) ततः सुनिशितान्बाणान्भीमसेनः शिलाशितान् । स सप्त संदधे हन्तुं पुत्रास्ते भरतर्षभ ॥ 6-96-25 (43078) प्रेषिता भिमसेनेन शरास्ते दृढधन्वना । अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥ 6-96-26 (43079) अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम् । दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम् ॥ 6-96-27 (43080) प्रपतन्तिस्म वीरास्ते विरेजुर्भरतर्षभ। वसन्ते पुष्पशबलाः किंशुकाः पतिता इव ॥ 6-96-28 (43081) ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे । तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥ 6-96-29 (43082) द्रोणस्तु समरे वीरं निर्दहनक्तं सुतांस्तव । यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥ 6-96-30 (43083) तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् । द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥ 6-96-31 (43084) यथा गोवृषभो वर्षं संधारयति स्वात्पतत् । भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥ 6-96-32 (43085) अद्भुतं च महाराज तत्र चक्रे वृकोदरः । यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्यवारयत् ॥ 6-96-33 (43086) पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः । मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥ 6-96-34 (43087) यथा हि पशुमध्यस्थो द्रावयेत पशून्वृकः । वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥ 6-96-35 (43088) गाङ्गेयो भगदत्तश्च गोतमश्च महारथाः । पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥ 6-96-36 (43089) अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥ 6-96-37 (43090) अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् । विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥ 6-96-38 (43091) विरथो वध्यमानस्तु सौभद्रेण यशस्विना । अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ॥ 6-96-39 (43092) असिं चिक्षेप समरे सौभद्रस्य महात्मनः । आरुरोह रथं चैव हार्दिक्यस्य महाबलः ॥ 6-96-40 (43093) आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः । लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥ 6-96-41 (43094) व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा। साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशांपते ॥ 6-96-42 (43095) धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्। तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥ 6-96-43 (43096) तत्राक्रन्दो महानासीत्तव तेषां च भारत। निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम् ॥ 6-96-44 (43097) अन्योन्यं हि रणे शूराः केशेष्वाक्षिष्य मानिनः। नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥ 6-96-45 (43098) तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः। विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥ 6-96-46 (43099) न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा। व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः ॥ 6-96-47 (43100) रणे चारूणि चापानि हेमपृष्ठानि मारिष । हतानामपविद्धानि कलापाश्च महाधनाः ॥ 6-96-48 (43101) जातरूपमयैः पुङ्खै राजतैर्निशिताः शराः। तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥ 6-96-49 (43102) खङ्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः । चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनां ॥ 6-96-50 (43103) सुवर्णाविकृताः प्रासाः प्रभग्ना हेमभूषिताः। जातरूपमया यष्ट्यः शक्त्यश्च कनकोज्ज्वलाः ॥ 6-96-51 (43104) अवस्कन्दाश्च पतिता मुसलानि गुरूणि च । परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष ॥ 6-96-52 (43105) पतिता विविधाश्चापाश्चित्रा हेमपरिष्कृताः । कुथा बहुविधाकाराश्चामरा व्यजनानि च ॥ 6-96-53 (43106) नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः। जीवन्त इव दृश्यनते गतसत्त्वा महारथाः ॥ 6-96-54 (43107) गजाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः। गजावाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥ 6-96-55 (43108) तथैवाश्वनृनागानां शरीरैर्विबभौ तदा। संछन्ना वसुधा राजन्पर्वतैरिव शातितैः ॥ 6-96-56 (43109) समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः। निस्त्रिंशैः पट्टसैः प्रासैरवस्कन्दैः परश्वथैः ॥ 6-96-57 (43110) परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष। शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी ॥ 6-96-58 (43111) विशब्दैरल्पशब्दैश्च शोणितौगपरिप्लुतैः। गतासुभिरमित्रघ्न विबभौ निचिता मही ॥ 6-96-59 (43112) सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः । हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ 6-96-60 (43113) बद्धचूजामणिवरैः शिरोभिश्च सकुण्डलैः । पातितै ऋषभाक्षाणां बभौ भारत मेदिनी ॥ 6-96-61 (43114) कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः । रराज सुभृशं भूमिः शान्तार्चिर्भिरिवानलैः ॥ 6-96-62 (43115) विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः । विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः ॥ 6-96-63 (43116) रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः । वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः ॥ 6-96-64 (43117) अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि । प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥ 6-96-65 (43118) स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही । नानारूपेरलंकारैः प्रमदेवाभ्यलङ्कृता॥ 6-96-66 (43119) दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः । करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ॥ 6-96-67 (43120) विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः। नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम् ॥ 6-96-68 (43121) वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः। घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ॥ 6-96-69 (43122) विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा। ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ॥ 6-96-70 (43123) यन्त्रैश्च बहुधा च्छिन्नैस्तोमरैश्चापि काञ्चनैः। `रराज सुभृशं भूमिस्तत्रतत्र विशांपते' अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः॥ 6-96-71 (43124) सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा। प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः॥ 6-96-72 (43125) उष्णीषैश्च तथा चित्रैर्विप्रविद्धैस्ततस्ततः। विचित्रैर्बाणवर्षैश्च जातरूपपरिष्कृतैः ॥ 6-96-73 (43126) अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा। नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ॥ 6-96-74 (43127) छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि । पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ॥ 6-96-75 (43128) क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः । अपविद्धैर्महाराज सुवर्णाज्ज्वलकुण्डलैः ॥ 6-96-76 (43129) ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा। एवमेते महासेने मृदिते तत्र भारत ॥ 6-96-77 (43130) परस्परं समासाद्य तव तेषां च संयुगे । तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ॥ 6-96-78 (43131) रात्रिः समभवत्तत्र नापश्याम ततोऽनुगान् । ततोऽवहारं सैकन्यानां प्रचुक्रुः कुरुपाण्डवाः ॥ 6-96-79 (43132) घोरे निशामुखे रौद्रे वर्तमाने महाभये। अवहारं ततः कृत्वा सहिताः कुरुपाणड्वाः । न्यविशन्त निशाकाले गत्वा स्वशिबिरं तदा ॥ ॥ 6-96-80 (43133) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे षण्णवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-96-23 व्यूढोरस्कं इति झo पाठः ॥ 6-96-48 अपविद्धानि पतितानि ॥
भीष्मपर्व - अध्याय 097

॥ श्रीः ॥

6.97. अध्यायः 097

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मो न्यस्तशस्त्रश्चेदहं पाण्डवान् जेष्यामीति कर्णबोधितेन दुर्योधनेन रात्रौ भीष्ममेत्य कर्णस्य युद्धानुज्ञाप्रार्थना ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-97-0 (43134) सञ्जय उवाच। 6-97-0x (4182) ततो दुर्योधनो राजा शकुनिश्चापि सौबलः। दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ॥ 6-97-1 (43135) समागम्य महाराज मन्त्रं चक्रुर्विवक्षितम् । कथं पाण्डुसुताः सङ्ख्ये जेतव्याः सगणा इति॥ 6-97-2 (43136) ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः । सूतपुत्रं समाभाष्य सौबलं च महाबलम् ॥ 6-97-3 (43137) द्रोणो भीष्म कृपः शल्यः सौमदत्तिश्च संयुगे। न पार्थान्प्रति बाधन्ते न जाने किंनु कारणम् ॥ 6-97-4 (43138) अवध्यमानास्ते चापि क्षपयन्ति बलं मम। सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ॥ 6-97-5 (43139) `द्रोणस्य प्रमुखे वीरा हतास्ते भ्रातरो मम। भीमसेनेन राधेय मम चैव च पश्यतः '॥ 6-97-6 (43140) निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि । सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ॥ 6-97-7 (43141) सञ्जय उवाच। 6-97-8x (4183) तमब्रवीन्महाराज सूतपुत्रो नराधिपम् । मा शोच भरतश्रेष्ठ करिष्येऽहं प्रियं तव ॥ 6-97-8 (43142) भीष्मः शान्तनवस्तूर्णमपयातु महारणात् । निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ॥ 6-97-9 (43143) अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः । पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ॥ 6-97-10 (43144) पाण्डवेषु दयां नित्यं स हि भीष्मः करोति वै। अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ॥ 6-97-11 (43145) अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः । स कथं पाण्डवान्युद्धे जेष्यते तात संगतान् ॥ 6-97-12 (43146) स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति । अनुमान्य गुरुं वृद्धं शस्त्रं न्यासय भारत ॥ 6-97-13 (43147) न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् । मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ॥ 6-97-14 (43148) एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव । अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ॥ 6-97-15 (43149) अनुयात्रं यथा सर्वं सज्जीभवति सर्वशः । दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ॥ 6-97-16 (43150) एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः । अनुमान्य रणे भीष्ममेषोऽहं द्विपदां वरम् ॥ 6-97-17 (43151) आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम। अपक्रान्ते ततो भीष्मे प्रहरिष्यसि संयुगे ॥ 6-97-18 (43152) निष्पपात ततस्तूर्णं पुत्रस्तव विशांपते । सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः ॥ 6-97-19 (43153) ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् । आरोपयद्धयं तूर्णं भ्राता दुःशासनस्तदा ॥ 6-97-20 (43154) अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृप । धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन् ॥ 6-97-21 (43155) भण्डीपुष्पनिकाशेन तपनीयनिभेन च। अनुलिप्तः परार्द्ध्येन चन्दनेन सुगन्धिना ॥ 6-97-22 (43156) अरजोम्बरसंवीतः सिंहखेलगतिर्नृप । शुशुभे विमलार्चिष्मान्नभसीव दिवाकरः ॥ 6-97-23 (43157) तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति । अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः । भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ॥ 6-97-24 (43158) हयानन्ये समारुह्य गजानन्ये च भारत । रथानन्ये नरश्रेष्ठं परिवव्रुः समन्ततः ॥ 6-97-25 (43159) `पदातयश्च त्वरिता नखरप्रासयोधिनः। परिवव्रुर्महेष्वासं धार्तराष्ट्रं महारथम् ॥' 6-97-26 (43160) आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः । प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ॥ 6-97-27 (43161) स पूज्यमानः कुरुभिः कौरवाणां महाबलः । प्रययौ सदनं राजा गाङ्गेयस्य यशस्विनः । अन्वीयमानः सततं सोदरैः परिवारितः ॥ 6-97-28 (43162) दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा। हस्तिहस्तोपमं सौम्यं सर्वशत्रुनिबर्हणम् ॥ 6-97-29 (43163) प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतो दिशः। शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ॥ 6-97-30 (43164) संस्तूयमानः सूतैश्च मागधैश्च महायशाः। पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः॥ 6-97-31 (43165) प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचितैः । परिवव्रुर्महाराजं प्रज्वलद्भिः समन्ततः ॥ 6-97-32 (43166) स तैः परिवृतो राजा प्रदीपैः काञ्चनैर्ज्वलन्। शुशुभे चन्द्रमायुक्तो दीप्तैरिव महाग्रहैः ॥ 6-97-33 (43167) कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः। प्रोत्सारयन्तः शनकैस्तं जनं सर्वतो दिशम् ॥ 6-97-34 (43168) संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् । अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ॥ 6-97-35 (43169) अभिवाद्य ततो भीष्मं निषण्णः परमासने। काञ्चने सर्वतोभद्रे स्पर्द्ध्यास्तरणसंवृते। उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ॥ 6-97-36 (43170) त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन । उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् । किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् ॥ 6-97-37 (43171) तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो। जहि पाणडुसुतान्वारान्महेन्द्र इव दानवान् ॥ 6-97-38 (43172) पूर्वमुक्तं महाबाहो हनिष्यामि ससोमकान् । पाञ्चालान्केकयैः सार्धं करूपांश्चेति भारत ॥ 6-97-39 (43173) त्वद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् । सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ॥ 6-97-40 (43174) दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो । मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ॥ 6-97-41 (43175) अनुजानीहि समरे कर्णमाहवशोभिनम् । स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ॥ 6-97-42 (43176) सञ्जय उवाच। 6-97-43x (4184) स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव। नोवाच वचनं किंचिद्भीष्मं सत्यपराक्रमम् ॥ ॥ 6-97-43 (43177) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तनवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-97-21 भण्डीपुष्पं मञ्जिष्ठापुष्पम् ॥ 6-97-29 दक्षिणं स्वभुजं संभृत्य समुद्धृत्य ॥
भीष्मपर्व - अध्याय 098

॥ श्रीः ॥

6.98. अध्यायः 098

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मेण दुर्योधनंप्रति अर्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवानामजय्यत्वमभिधाय शिखण्डिवर्जं पाञ्चालादिवधप्रतिज्ञा ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-98-0 (43178) सञ्जय उवाच। 6-98-0x (4185) वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धो महामनाः । नोवाच दुःखोपहतो ह्यप्रियं प्रियमण्वपि ॥ 6-98-1 (43179) स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः । श्वसन्निव महानागः प्रणुन्नो वाक्शलाकया ॥ 6-98-2 (43180) उद्वृत्य चक्षुषी लोपान्निर्दहन्निव भारत। सदेवासुरगन्धर्वं लोकं काल इवापरः ॥ 6-98-3 (43181) अब्रवीत्तव पुत्रं च सामपूर्वमिदं वचः। किं त्वं दुर्योधनैवं मां वाक्शल्यैरपकृन्तसि ॥ 6-98-4 (43182) घटमानं यथाशक्तिं कुर्वाणं च तव प्रियम् । जुह्वानं समरे प्राणांस्तव वै प्रियकाम्यया ॥ 6-98-5 (43183) यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् । पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ॥ 6-98-6 (43184) यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा । अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ॥ 6-98-7 (43185) द्रवमाणेषु शूरेषु सोदरेषु तव प्रभो । सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ॥ 6-98-8 (43186) यच्च नः सहितान्सर्वान्विराटनगरे तदा । एक एवाजयत्पार्थः पर्याप्तं तन्निदर्शनम् ॥ 6-98-9 (43187) द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे। वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ॥ 6-98-10 (43188) तथा द्रौणिं महेष्वासं शारद्वतमथापि च । गोग्रहे जितवान्पूर्वं पर्याप्तं तन्निदर्शनम् ॥ 6-98-11 (43189) विजित्य च यदा कर्णं सदा पुरुषमानिनम् । उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम् ॥ 6-98-12 (43190) निवातकवचान्युद्धे वासवेनापि दुर्जयान्। जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ॥ 6-98-13 (43191) को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा। यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः ॥ 6-98-14 (43192) वासुदेवोऽनन्तशक्तिः सृष्टिसंहारकारकः । सर्वेश्वरो देवदेवः परमात्मा सनातनः ॥ 6-98-15 (43193) उक्तोऽस्ति बहुशो राजन्नारदाद्यैर्महर्षिभिः । त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन ॥ 6-98-16 (43194) मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान्। तथा त्वमपि गान्धारे विपरीतानि पश्यसि ॥ 6-98-17 (43195) स्वयं वैरं महत्कृत्वा पाण्डवैः सह सृञ्जयैः । युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव। `अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥' 6-98-18 (43196) अहं तु सोमकान्सर्वान्पाञ्चालांश्च समागतान्। निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ॥ 6-98-19 (43197) तैर्वाऽहं निहतः सङ्ख्ये गमिष्ये यमसादनम् । तान्वा निहत्य समरे प्रीतिं दास्याम्यहं तव ॥ 6-98-20 (43198) पूर्व हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि । वरदानात्पुमाञ्जातः सैषा वे स्त्री शिखण्डिनी ॥ 6-98-21 (43199) तमहं न हनिष्यामि प्राणत्यागेऽपि भारत। याऽसौ प्राङ्वर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी॥ 6-98-22 (43200) सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम्। यं जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ॥ 6-98-23 (43201) सञ्जय उवाच। 6-98-24x (4186) एवमुक्तस्तव सुतो निर्जगाम जनेश्वर। अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् ॥ 6-98-24 (43202) आगम्य तु ततो राजा विसृज्य च महाजनम् । प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयंकरः ॥ 6-98-25 (43203) प्रहृष्टः स निशां तां च गमयामास पार्थिवः। प्रभातायां च शर्वर्यां प्रातरुत्थाय तान्नृपः ॥ 6-98-26 (43204) राज्ञः समाज्ञापयत सेनां योजयतेति ह। अद्य भीष्मो रणे क्रद्धो निहनिष्यति सोमकान् ॥ 6-98-27 (43205) दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु। मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ॥ 6-98-28 (43206) निर्वेदं परमं गत्वा विनिन्द्य परवश्यताम् । दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ॥ 6-98-29 (43207) इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् । दुर्योधनो महाराज दुःशासनमचोदयत् ॥ 6-98-30 (43208) दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः । द्वाविंशतिमनीकानि सर्वाण्येवाभिचोदय ॥ 6-98-31 (43209) अयं हि समनुप्राप्तो वर्षपूगाभिचिन्तितः । पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ॥ 6-98-32 (43210) तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्। स नो गुप्तः सहायः स्याद्धन्यात्पार्थांश्च संयुगे ॥ 6-98-33 (43211) अब्रवीद्धि विशुद्धात्मा नाहं हन्यां शिखण्डिनम् । स्त्रीपूर्वको ह्यसौ राजंस्तस्माद्वर्ज्यो मया रणे ॥ 6-98-34 (43212) लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया । राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ॥ 6-98-35 (43213) नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथंचन । हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ 6-98-36 (43214) अयं स्त्रीपूर्वको राजञ्छिखण्डी यदि ते श्रुतः। उद्योगे कथितं सर्वं यथा जाता शिखण्डिनी ॥ 6-98-37 (43215) कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत । तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथंचन ॥ 6-98-38 (43216) युद्धे हि क्षत्रियांस्तात पाण्डवानां जयैषिणः । सर्वानन्यान्हनिष्यामि संप्राप्तान्रणमूर्धनि ॥ 6-98-39 (43217) एवं मां भरतश्रेष्ठ गाङ्गेयः प्राह शास्त्रवित् । तत्र सर्वात्मना मन्ये गाङ्गेयस्यैव पालनम् ॥ 6-98-40 (43218) अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाहवे । मा वृकेणेव गाङ्गेयं घातयेम शिखण्डिना ॥ 6-98-41 (43219) मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः। यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ॥ 6-98-42 (43220) एतच्छ्रुत्वा तु ते सर्वे दुर्योधनवचस्तदा । सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ॥ 6-98-43 (43221) पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा । कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ॥ 6-98-44 (43222) ते रथैः सुप्रसंयुक्तैर्दन्तिभिश्च महारथाः । परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ॥ 6-98-45 (43223) यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम्। सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ॥ 6-98-46 (43224) ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् । सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्। गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ॥ 6-98-47 (43225) रक्ष्यमाणः स पार्थेन तथास्माभिर्विवर्जितः । यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ॥ 6-98-48 (43226) सञ्जय उवाच। 6-98-49x (4187) भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव। भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ 6-98-49 (43227) भीष्मं तु रथवंशेन दृष्ट्वा समभिसंवृतम्। अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ॥ 6-98-50 (43228) शिखण्डिनं नरव्याघ्रं भीष्मस्य प्रमुखे नृप। स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताऽहमित्युत ॥ ॥ 6-98-51 (43229) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे अष्टनवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-98-25 महाजनं जनसमूहम् । क्षयं गृहम् ॥ 6-98-28 प्रत्यादेशं निराकरम् ॥ 6-98-29 निर्वेदं खेदम् ॥ 6-98-37 उद्योगे युद्धात्प्राक् ॥
भीष्मपर्व - अध्याय 099

॥ श्रीः ॥

6.99. अध्यायः 099

Mahabharata - Bhishma Parva - Chapter Topics

कुरुपाण्डवसेनयोर्व्यूहरचनापूर्वकं परस्पराभिगमनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-99-0 (43230) सञ्जय उवाच। 6-99-0x (4188) ततः शान्तनवो भीष्मो निर्ययौ सह सेनया। व्यूहं चाव्यूहत महत्सर्वतोभद्रमात्मनः ॥ 6-99-1 (43231) कृपश्च कृतवर्मा च शैब्यश्चैव महारथः । शकुनिः सैन्धवश्चैव काम्भोजश्च सुदक्षिणः ॥ 6-99-2 (43232) भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत । अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ॥ 6-99-3 (43233) द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष । दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ॥ 6-99-4 (43234) अश्वत्थामा सोमदत्तश्चावन्त्यौ च महारथौ । महत्या सेनया युक्ता वामं पक्षमपालयन् ॥ 6-99-5 (43235) दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः । व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ॥ 6-99-6 (43236) अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः । पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ॥ 6-99-7 (43237) एवं च तं तदा व्यूहं कृत्वा भारत तावकाः। सन्नद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ॥ 6-99-8 (43238) ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः। नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ॥ 6-99-9 (43239) अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः । धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ॥ 6-99-10 (43240) स्थिताः सैन्येन महता परानीकविनाशनाः । शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः ॥ 6-99-11 (43241) चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् । स्थिता रणे महाराज महत्या सेनया वृताः ॥ 6-99-12 (43242) अभिमन्युर्महेष्वासो द्रुपदश्च महाबलः । युयुधानो महेष्वासो युधामन्युश्च वीर्यवान् ॥ 6-99-13 (43243) केकया भ्रातरश्चैव स्थिता युद्धाय दंशिताः । एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् ॥ 6-99-14 (43244) पाण्डवाः समरे शूराः स्थिता युद्धाय दंशिताः । तावकास्तु रणे यत्ताः सहसेना नराधिपाः ॥ 6-99-15 (43245) अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाऽग्रतो नृप। तथैव पाण्डवा राजन्भीमसेनपरोगमाः ॥ 6-99-16 (43246) भीष्मं योद्धुमभीप्सन्तः संग्रामे विजयैषिणः । क्ष्वेलाः किलकिलाः शङ्खान्क्रकचान्गोविषाणिकाः ॥ 6-99-17 (43247) भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान्। पाण्डवा अभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥ 6-99-18 (43248) भेरीमृद्गशङ्खानां दुन्दुभीनां च निःस्वनैः । उत्कृष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ॥ 6-99-19 (43249) वयं प्रतिनदन्तस्तानगच्छाम त्वरान्विताः । सहसैवाभिसंक्रद्धास्तदासीत्तुमुलं महत् ॥ 6-99-20 (43250) ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे । ततः शब्देन महता प्रचकम्पे वसुंधरा ॥ 6-99-21 (43251) पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः । सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ॥ 6-99-22 (43252) ववुश्च वातास्तुमुलाः शंसन्तः सुमहद्भयम् । घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ॥ 6-99-23 (43253) वेदयन्त्यो महाराज महद्वैशसमागतम्। दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च ॥ 6-99-24 (43254) रुधिरेण समुन्मिश्रमस्थिवर्षं पपात च । रुदतां वाहनानां च नेत्रेभ्यः प्रापतञ्जलम् ॥ 6-99-25 (43255) सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशांपते । अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ ॥ 6-99-26 (43256) रक्षसां पुरुषादानां नदतां भैरवान्रवान् । संपतन्तश्च दृश्यन्ते गोमायबलवायसाः ॥ 6-99-27 (43257) श्वानश्च विविधैर्नादैर्भषन्तस्तत्र मारिष । ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् । निपेतुः सहसा भूमौ वेदयन्त्यो महद्भयम् ॥ 6-99-28 (43258) महान्त्यनीकानि महासमुच्छ्रये ततस्तयोः पाण्डवधार्तराष्ट्रयोः। चकम्पिरे शङ्खमृदङ्गनिःस्वनैः प्रकम्पितानीव वनानि वायुना ॥ 6-99-29 (43259) नरेन्द्रनागाश्वसमाकुलाना- मभ्यायतीनामशिवे मुहूर्ते। बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥ ॥ 6-99-30 (43260) इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे एकोनशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-99-27 बलवायसाः बलोदग्राः काकाः ॥ 6-99-29 महासमुच्छ्रये महति युद्धे ॥ 6-99-30 अभ्यायतीनामभिमुखमागच्छन्तीनाम् ॥
भीष्मपर्व - अध्याय 100

॥ श्रीः ॥

6.100. अध्यायः 100

Mahabharata - Bhishma Parva - Chapter Topics

अलम्बुसस्य द्रौपदेयैः सह युद्धमभिमन्युना समागमश्च ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-100-0 (43261) सञ्जय उवाच। 6-100-0x (4189) अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः। अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ॥ 6-100-1 (43262) विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः। न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ॥ 6-100-2 (43263) शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्। निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ॥ 6-100-3 (43264) तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः। क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ॥ 6-100-4 (43265) यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् । सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥ 6-100-5 (43266) सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः । गजारोहांश्च सगजान्दारयामास फाल्गुनिः ॥ 6-100-6 (43267) तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः। पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥ 6-100-7 (43268) तान्यनीकानि सौभद्रो द्रावयामास भारत। तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ॥ 6-100-8 (43269) तेन विद्राव्यमाणानि तव सैन्यानि भारत । त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः ॥ 6-100-9 (43270) विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम । अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ॥ 6-100-10 (43271) न चैनं तावका राजन्विषेहुररिघातिनम् । प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ॥ 6-100-11 (43272) प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः । अदृश्यत महेष्वासः सवज्र इव वासवः ॥ 6-100-12 (43273) हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः । तोयदेषु यथा राजन्राजमाना शतह्रदा ॥ 6-100-13 (43274) शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे । वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥ 6-100-14 (43275) तथैव चरतस्तस्य सौभद्रस्य महात्मनः । रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ॥ 6-100-15 (43276) मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम्। सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ॥ 6-100-16 (43277) मण्डलीकृतमेवास्य धनुः पश्याम भारत। सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम् ॥ 6-100-17 (43278) तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् । द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥ 6-100-18 (43279) तेनार्दिता महाराज भारती सा महाचमूः । व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव ॥ 6-100-19 (43280) द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् । नन्दयामास सुहृदो मयं जित्वेव वासवः ॥ 6-100-20 (43281) तेन निद्राव्यमाणानि तव सैन्यानि संयुगे। चक्रुरार्तस्वनं घोरं पर्जन्यनिनदोपमम् ॥ 6-100-21 (43282) तं श्रुत्वा निनदं घोरं तव सैन्यस्य भारत। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ 6-100-22 (43283) दुर्योधनस्तदा राजन्नार्श्यशृङ्गिमभाषत। एष कार्ष्णिर्महाबाहो द्वितीय इव फल्गुनः ॥ 6-100-23 (43284) चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव । तस्य चान्यत्र पश्यामि संयुगे भेषजं महत् ॥ 6-100-24 (43285) ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम् । स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ॥ 6-100-25 (43286) वयं पार्थं हनिष्यामो भीष्मद्रोणपुरोगमाः । स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् ॥ 6-100-26 (43287) प्रययौ समरे तूर्णं तव पुत्रस्य शासनात्। नर्दमानो महानादं प्रावृषीव बलाहकः ॥ 6-100-27 (43288) तस्य शब्देन महता पाण्डवानां बलं महत् । प्राचलत्सर्वतो राजन्वातोद्धूत इवार्णवः ॥ 6-100-28 (43289) बहवश्च महाराज तस्य नादेन भीषिताः। प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥ 6-100-29 (43290) कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः । नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥ 6-100-30 (43291) ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे। नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ॥ 6-100-31 (43292) तां वध्यमानां च तथा पाण्डवानां महाचमूम्। प्रत्यद्ययौ रणे रक्षो देवसेनां यथा बलः ॥ 6-100-32 (43293) विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष । रक्षसा घोररूपेण वध्यमानस्य संयुगे॥ 6-100-33 (43294) ततः शरसहस्त्रैस्तां पाण्डवानां महाचमूम्। व्यद्रावयद्रणे रक्षो दर्शयतत्स्वपराक्रमम् ॥ 6-100-34 (43295) सा वध्यमाना च तथा पाण्डवानामनीकिनी । रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ॥ 6-100-35 (43296) प्रमृद्य च रणे सेनां पद्मिनीं वारणो यथा। ततोऽभिद्रद्राव रणे द्रौपदेयान्महाबलान् ॥ 6-100-36 (43297) ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः। राक्षसं दुद्रुवुः सङ्ख्ये ग्रहाः पञ्च रविं यथा ॥ 6-100-37 (43298) वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः । यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥ 6-100-38 (43299) प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः । सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ॥ 6-100-39 (43300) स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः । मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ 6-100-40 (43301) विषक्तैः सशरैश्चापि तपनीयपरिच्छदैः । आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ॥ 6-100-41 (43302) ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे। विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः । 6-100-42 (43303) स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव । अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥ 6-100-43 (43304) सोऽतिविद्धो महाराज मुहूर्तमथ मारिष । प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥ 6-100-44 (43305) प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः । चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ॥ 6-100-45 (43306) एकैकं पञ्चभिर्बाणैराजघान स्मयन्निव । अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ॥ 6-100-46 (43307) त्वरमाणः सुसंबद्धो हयांस्तेषां महात्मनाम् । जघान राक्षसः क्रुद्धः सारथींश्च सहस्रशः ॥ 6-100-47 (43308) बिभेद च सुसंरब्धः पुनश्चैनान्सुतांशितैः। शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ॥ 6-100-48 (43309) विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः । अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥ 6-100-49 (43310) तानर्दितान्रणे तेन राक्षसेन दुरात्मना । दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ॥ 6-100-50 (43311) तयोः समभवद्युद्धं वृत्रवासवयोरिव। ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम् ॥ 6-100-51 (43312) तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम्। महाबलौ महाराज क्रोधसंरक्तलोचनौ ॥ 6-100-52 (43313) परस्परमवेक्षेतां कालानलसमौ युधि। `आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम् ।' तयोः समागमो घोरो बभूव कटुकोदयः ॥ 6-100-53 (43314) यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा ॥ ॥ 6-100-54 (43315) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे शततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-100-16 लघु सुष्ठु च शीघ्रं शोभनं च यथा स्तात्तथा ॥ 6-100-23 आर्ष्यशृङ्गिमलम्बुसम् ॥ 6-100-39 सर्वपारशवैः सर्वलोहमयैः ॥ 6-100-40 संस्यूतो ग्रथितः ॥
भीष्मपर्व - अध्याय 101

॥ श्रीः ॥

6.101. अध्यायः 101

Mahabharata - Bhishma Parva - Chapter Topics

अभिमन्युनाऽलम्बुसस्य पराजयः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-101-0 (43316) धृतराष्ट्र उवाच। 6-101-0x (4190) आर्जुनं समरे शूरं विनिघ्नन्तं महारथान्। अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ॥ 6-101-1 (43317) आर्श्यशृङ्गिं कथं चैव सौभद्रः परवीरहा। तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे ॥ 6-101-2 (43318) धनंजयश्च किं चक्रे मम सैन्येषु संयुगे । भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥ 6-101-3 (43319) नकुलः सहदेवो वा सात्यकिर्वा महारथः । एतदाचक्ष्व मे सत्यं कुशलो ह्यसि सञ्जय ॥ 6-101-4 (43320) सञ्जय उवाच। 6-101-5x (4191) हन्ते तेऽहं प्रवक्ष्यामि संग्रामं रोमहर्षणम्। यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥ 6-101-5 (43321) अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः । नकुलः सहदेवश्च रणे चक्रुः पराक्रमम्॥ 6-101-6 (43322) तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः। अद्भुतानि विचिन्राणि चक्रुः कर्माण्यभीतवत् ॥ 6-101-7 (43323) अलम्बुसस्तु समरे अभिमन्युं महारथम् । विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ॥ 6-101-8 (43324) अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् । अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ॥ 6-101-9 (43325) आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् । ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ ॥ 6-101-10 (43326) रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ । मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ॥ 6-101-11 (43327) ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः। आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः ॥ 6-101-12 (43328) अलम्बुरोऽपि संक्रुद्धः कार्ष्णि नवभिराशुगैः । हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ॥ 6-101-13 (43329) ततः शरसहस्रेण क्षिप्रकारी निशाचरः । अर्जुनास सुतं सङ्ख्ये पीडयामास भारत ॥ 6-101-14 (43330) अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः । बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि ॥ 6-101-15 (43331) ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु। स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ॥ 6-101-16 (43332) पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः । स संदधानश्च शरान्हेमपुङ्खान्महाबलः ॥ 6-101-17 (43333) विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः । ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः ॥ 6-101-18 (43334) महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः । तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ॥ 6-101-19 (43335) अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् । तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ॥ 6-101-20 (43336) अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् । सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ॥ 6-101-21 (43337) चक्रे विमुखमासाद्य बलं शक्र इवाहवे । विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ॥ 6-101-22 (43338) प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् । ततस्ते तमसा सर्वे वृताश्चासन्महीपते ॥ 6-101-23 (43339) नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे । अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ॥ 6-101-24 (43340) प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः । ततः प्रकाशमभवज्जगत्सर्वं महीपते ॥ 6-101-25 (43341) तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः । संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ॥ 6-101-26 (43342) छादयामास समरे शरैः सन्नतपर्वभिः। बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा ॥ 6-101-27 (43343) सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः। हतमायं ततो रक्षो वध्यमानं च सायकैः ॥ 6-101-28 (43344) रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्। तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ॥ 6-101-29 (43345) आर्जुनिः समरे सैन्यं तावकं संममर्द ह। मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥ 6-101-30 (43346) ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाऽभिविद्रुतम्। महता शरवर्षेण सौभद्रं पर्यवारयत् ॥ 6-101-31 (43347) कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथः । एवं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥ 6-101-32 (43348) स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः । सदृशो वासुदेवस्य विक्रमेण बलेन च ॥ 6-101-33 (43349) उभयोः सदृशं कर्म स पितुर्मातुलस्य च । रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥ 6-101-34 (43350) ततो धनञ्जयो वीरो विनिघ्नंस्तव सैनिकान् । आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥ 6-101-35 (43351) तथैव समरे राजन्पिता देवव्रतस्तव । आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥ 6-101-36 (43352) ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर । परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥ 6-101-37 (43353) तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् । रणाय महते युक्ता दंशिता भरतर्षभ ॥ 6-101-38 (43354) शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् । अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥ 6-101-39 (43355) प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः । पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥ 6-101-40 (43356) गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः । हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः ॥ 6-101-41 (43357) शैनेयोऽपि ततः क्रुद्धश्चापमानम्य वेगवान् । गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम् ॥ 6-101-42 (43358) तमापतन्तं वेगेन शक्राशनिसमद्युतिम् । द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः ॥ 6-101-43 (43359) समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः । अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥ 6-101-44 (43360) तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत। अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥ 6-101-45 (43361) सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् । द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥ 6-101-46 (43362) स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः। निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः ॥ 6-101-47 (43363) प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् । वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत् ॥ 6-101-48 (43364) शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् । वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥ 6-101-49 (43365) अथापरेण भल्लेन माधवस्य ध्वजोत्तमम् । चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह ॥ 6-101-50 (43366) पुनश्चैनं शरैर्घोरैश्छादयामास भारत। निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥ 6-101-51 (43367) सात्यकोऽपि महाराज शरजालं निहत्य तत्। द्रौणिमभ्याकिरत्तूर्णं शरजालैरनेकधा ॥ 6-101-52 (43368) तापयामास च द्रौणिं शैनेयः परवारहा । विमुक्तो मेघजालेन यथैव तपनस्तथा ॥ 6-101-53 (43369) शराणां च सहस्रेण पुनरेव समुद्यतः । सात्यकिश्छादयामास ननाद च महाबलः ॥ 6-101-54 (43370) दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम् । अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥ 6-101-55 (43371) विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे । परीप्सन्खसुतं राजन्वार्ष्णेयेनाभिपीडितम् ॥ 6-101-56 (43372) सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम् । द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥ 6-101-57 (43373) तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः । अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥ 6-101-58 (43374) ततो द्रोणश्च पार्थश्च समेयातां महामृधे । यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥ ॥ 6-101-59 (43375) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे एकाधिकशततमोऽध्यायः ॥
भीष्मपर्व - अध्याय 102

॥ श्रीः ॥

6.102. अध्यायः 102

Mahabharata - Bhishma Parva - Chapter Topics

द्रोणार्जुनयुद्धं भीमसेनपराक्रमश्च ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-102-0 (43376) धृतराष्ट्र उवाच। 6-102-0x (4192) कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः । समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ ॥ 6-102-1 (43377) प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः । आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ॥ 6-102-2 (43378) तावुभौ रथिनो सङ्ख्ये हृष्टौ सिंहाविवोत्कटौ । कथं समीयतुर्यत्तौ भारद्वाजधनञ्जयौ ॥ 6-102-3 (43379) सञ्जय उवाच। 6-102-4x (4193) न द्रोणः समरे पार्थं जानीते प्रियमात्मनः । क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥ 6-102-4 (43380) न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् । निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ॥ 6-102-5 (43381) रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः । नाचिन्तयच्च तान्बाणान्पार्थचापच्युतान्युधि ॥ 6-102-6 (43382) शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे । स प्रजज्वाल रोषेण गहनेऽग्निरिवोर्जितः ॥ 6-102-7 (43383) ततोऽर्जुनं रणे द्रोणः शरैः सन्नतपर्वभिः । छादयामास राजेन्द्र नचिरादेव भारत ॥ 6-102-8 (43384) ततो दुर्योधनो राजा सुशर्माणमचोदयत् । द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥ 6-102-9 (43385) त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् । छादयामास समरे पार्थं बाणैरयोमुखैः ॥ 6-102-10 (43386) ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे । हंसा इव महाराज शरत्काले नभस्तले ॥ 6-102-11 (43387) ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो । फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः ॥ 6-102-12 (43388) अर्जुनस्तु रणे नादं विनद्य रथिनां वरः। त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥ 6-102-13 (43389) ते वध्यमानाः पार्थेन कालेनेव युगक्षये । पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः । मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ॥ 6-102-14 (43390) शरवृष्टिं ततस्तां तु शरवर्षैः समन्ततः । प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः॥ 6-102-15 (43391) तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् । विमुक्तां बहुभिर्योधैः शस्त्रवृष्टिं दुरासदाम् ॥ 6-102-16 (43392) यदेको वारयामास मारुतोऽभ्रगणानिव । कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ॥ 6-102-17 (43393) अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत। मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ॥ 6-102-18 (43394) प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् । पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ॥ 6-102-19 (43395) ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम्। शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ॥ 6-102-20 (43396) द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे नराधिप। प्रशशाम ततो वयुः प्रसन्नाश्च दिशो दश ॥ 6-102-21 (43397) ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् । निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ॥ 6-102-22 (43398) ततो दुर्योधनश्चैव कृपश्च रथिनां वरः। अश्वत्थामा तथा शल्यः काम्भोजश्च सुदक्षिणः ॥ 6-102-23 (43399) विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः । महता रथवंशेन पार्थस्यावारयन्दिशः ॥ 6-102-24 (43400) तथैव भगदत्तश्च श्रतायुश्च महाबलः। गजानीकेन भीमस्य ताववारयतां दिशः ॥ 6-102-25 (43401) भूरिश्रवाः शलश्चैव सौबलश्च विशांपते । शरौघैर्विमलैस्तीक्ष्णैर्माद्रीपुत्राववारयन् ॥ 6-102-26 (43402) भीष्मस्तु संहतः सङ्ख्ये धार्तराष्ट्रैः ससैनिकैः । युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ॥ 6-102-27 (43403) आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः। लोलिहन्सृक्किणी वीरो मृगराडिव कानने ॥ 6-102-28 (43404) भीमस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे । अवप्लुत्य रथात्तूर्णं तव सैन्यान्यभीषयत् ॥ 6-102-29 (43405) तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः । परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥ 6-102-30 (43406) गजमध्यमनुप्राप्तः पाण्डवः स व्यराजत। मेघजालस्य महतो यथा मध्यगतो रविः ॥ 6-102-31 (43407) व्यधमत्स गजानीकं गदया पाण्डवर्षभः । महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ॥ 6-102-32 (43408) ते वध्यमाना बलिना भीमसेनेन दन्तिनः । आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ॥ 6-102-33 (43409) बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः । फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ॥ 6-102-34 (43410) `सादिनां शस्त्रवृष्टिं च व्यधमद्गदया ततः।' वायुवेगसमायुक्तो व्यचरत्पाण्डवो युधि ॥ 6-102-35 (43411) विषाणोल्लिखितैर्गात्रौर्विषाणाभिहतो भृशम्। विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ॥ 6-102-36 (43412) विषाणेन च तेनैव कुम्भोऽभ्याहत्य दन्तिनम् । पातयामास समरे दण्डहस्त इवान्तकः ॥ 6-102-37 (43413) शोणिताक्तां गदां बिभ्रन्मेदोभञ्जाकृतच्छविः । कृताभ्यङ्गः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥ 6-102-38 (43414) एवं के वध्यमानाश्च हतशेषा महागजाः । प्राद्रवन्त दिशो राजन्विमृद्गन्तः स्वकं बलम् ॥ 6-102-39 (43415) द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ। दुर्योधनबलं सर्वं पुनरासीत्पराङ्भुखम् ॥ 6-102-40 (43416) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे द्व्यधिकशततमोऽध्यायः ॥
भीष्मपर्व - अध्याय 103

॥ श्रीः ॥

6.103. अध्यायः 103

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-103-0 (43417) सञ्जय उवाच। 6-103-0x (4194) मध्यंदिनो महाराज संग्रामः समपद्यत। लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥ 6-103-1 (43418) गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् । व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः॥ 6-103-2 (43419) संममर्द च तत्सैन्यं पिता देवव्रतस्तव। मर्दयेच्च यथा राजन्सिंहः प्राप्य मृगव्रजम् ॥ 6-103-3 (43420) धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा। भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥ 6-103-4 (43421) धृष्टद्युम्नं ततो विद्ध्वा विराटं च शरैस्त्रिभिः । द्रुपदस्य च नाराचं प्रेषयामास भारत ॥ 6-103-5 (43422) तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना । चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥ 6-103-6 (43423) शिखण्डी तं च विव्याध भरतानां पितामहम् । स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥ 6-103-7 (43424) धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन् । पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 6-103-8 (43425) द्रुपदः पञ्चविंशत्या विराटो दशमिः शरैः। शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥ 6-103-9 (43426) सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः। वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥ 6-103-10 (43427) तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः । द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥ 6-103-11 (43428) सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः । सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥ 6-103-12 (43429) तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः । केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥ 6-103-13 (43430) अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया । प्रति रक्षणकार्यार्थं धृष्टद्युम्नमुखान्रणे ॥ 6-103-14 (43431) तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः । प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥ 6-103-15 (43432) तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् । नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥ 6-103-16 (43433) रथी रथिनमासाद्य प्राहिणोद्यमसादनम्। तथेतरान्समासाद्य नरनागाश्वसादिनः ॥ 6-103-17 (43434) अनयन्परलोकाय शरैः सन्नतपर्वभिः । शरैश्च विविधैर्घोरैस्तत्रतत्र विशांपते ॥ 6-103-18 (43435) रथास्तु रथिभिर्हीना हतसारथयस्तथा । विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥ 6-103-19 (43436) मृद्गन्तस्ते नरान्राजन्हयांश्च सुबहून्रणे। वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥ 6-103-20 (43437) रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः। कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः ॥ 6-103-21 (43438) देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि। ऋद्ध्या वैश्रवणां चाति नयेन च बृहस्पतिम् ॥ 6-103-22 (43439) सर्वलोकेश्वराः शूरास्तत्रतत्र विशांपते। विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥ 6-103-23 (43440) दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः । मृद्गन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः ॥ 6-103-24 (43441) चर्मभिश्चामरैश्चित्रैः पताकाभिश्च मारिष । छत्रैः सितैर्हेमदण्डैश्चामरैश्च समन्ततः ॥ 6-103-25 (43442) विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश। नवमेघप्रतीकाशा जलदोपमनिःस्वनाः ॥ 6-103-26 (43443) तथैव दन्तिभिर्हीना गजारोहा विशांपते। प्रधावन्तोऽन्वदृश्यन्त तव तेषां च संकुले ॥ 6-103-27 (43444) नानादेशसमुत्थांश्च तुरगान्हेमभीषितान् । वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥ 6-103-28 (43445) अश्वारोहान्हतैरश्वैर्गृहीतासन्समन्ततः । द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥ 6-103-29 (43446) गजो गजं समासाद्य द्रवमाणं महाहवे । ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा । तथैव च रथान्राजन्प्रममर्द रणे गजः ॥ 6-103-30 (43447) रथाश्चैव समासाद्य पतितांस्तुरगान्भुवि। व्यमृद्गन्समरे राजंस्तुरगांश्च नरान्रमे ॥ 6-103-31 (43448) एवं ते बहुधा राजन्प्रत्यमृद्गन्परस्परम्। `दृश्यन्तेस्म महाबाहो तत्रतत्र महाबलाः ॥' 6-103-32 (43449) तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये। प्रावर्तत नदी घोरा शोमितान्त्रतरङ्गिणी ॥ 6-103-33 (43450) अस्थिसङ्घातसंबाधा केशशैवलाद्वला । रथह्रदा शरावर्ता हयमीना दुरासदा॥ 6-103-34 (43451) शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला । कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा ॥ 6-103-35 (43452) ` शङ्खनक्रौघसंकीर्णा छत्रकूर्मरथोडुपा।' पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी । क्रव्यादहंससंकीर्णा यमराष्ट्रविवर्धनी ॥ 6-103-36 (43453) तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः । प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महारथाः ॥ 6-103-37 (43454) अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान्। यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥ 6-103-38 (43455) प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत्। दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम् ॥ 6-103-39 (43456) गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः । कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥ 6-103-40 (43457) एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम् । पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥ 6-103-41 (43458) ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः। आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥ 6-103-42 (43459) भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत। युध्यध्वमनहंकराः किं चिरं कुरुथेति च ॥ 6-103-43 (43460) `इति दुर्योधनोत्सृष्टाः सर्वे युयुधिरे नृपाः' ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह। अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥ 6-103-44 (43461) यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः । वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम् ॥ 6-103-45 (43462) न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः । रक्षन्ति समरे प्राणान्कौरवा वापि संयुगे ॥ 6-103-46 (43463) 6-103-47 (43464) एतस्मात्कारणाद्धोरो वर्तते स्वजनक्षयः । दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥ ॥ इति श्रामन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे त्र्यधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-103-7 स्त्रीमयं अयं भीष्मः स्त्रीं ध्यात्वा चिन्तयित्वा। यद्वा स्त्रीमयं स्वार्थे मयट् ॥ 6-103-22 वैश्रवणं कुबेरं चाति अतिक्रान्ता ॥ 6-103-28 अद्राक्षमहं सञ्जयः ॥ 6-103-42 आगस्कृदपराधी ॥
भीष्मपर्व - अध्याय 104

॥ श्रीः ॥

6.104. अध्यायः 104

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-104-0 (43465) सञ्जय उवाच। 6-104-0x (4195) अर्जुनस्तान्नरव्याघ्रः सुशर्मानुचरान्नृपान् । अनयत्प्रेतराजस्य सदनं सायकैः शितैः ॥ 6-104-1 (43466) सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे। वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥ 6-104-2 (43467) तं निवार्य शरौघेण सक्रुसूनुर्महारथः । सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥ 6-104-3 (43468) ते वध्यमानाः पार्थेन कालेनेव युगक्षये। व्यद्रवन्त रणे राजन्भये जाते महारथाः ॥ 6-104-4 (43469) उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष। गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥ 6-104-5 (43470) अपरे तु तदादाय वाजिनागरथान्रणे । त्वरया परया युक्ताः प्राद्रवन्त विशांपते ॥ 6-104-6 (43471) पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे । निरपेक्षा व्यधावन्त तेनतेन स्म भारत॥ 6-104-7 (43472) वार्यमाणाः सुबहुशस्त्रैगर्तेन सुशर्मणा । तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥ 6-104-8 (43473) तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव। पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतः ॥ 6-104-9 (43474) सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् । त्रिगर्ताधिपतेरर्थे जीवितस्य विशांपते ॥ 6-104-10 (43475) स एकः समरे तस्थौ किरन्बहुविधाञ्शरान्। भ्रातृभिः सहितः सर्वैः शेषा हि प्रद्रुता नराः ॥ 6-104-11 (43476) तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः। प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यतिष्ठत ॥ 6-104-12 (43477) ज्ञायमाना रणे वीर्यं घोरं गाण्डीवधन्वनः। हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥ 6-104-13 (43478) ततस्तालध्वजः शूरः पाण्डवानां वरूथिनीम्। छादयामास समरे शरैः सन्नतपर्वभिः ॥ 6-104-14 (43479) एकीभूतास्ततः सर्वे कुरवः सह पाण्डवैः । अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥ 6-104-15 (43480) सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराशुगैः । अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥ 6-104-16 (43481) तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः । पुनर्विव्याध सप्तत्या सारथिं चास्य पञ्चभिः ॥ 6-104-17 (43482) भीमसेनस्तु राजानं बाह्लीकं प्रपितामहम् । विद्ध्वा नदन्महानादं शार्दूल इव कानने ॥ 6-104-18 (43483) आर्जुनिश्चित्रसेनेन विद्धो बहुभिरशुगैः । अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः। चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम् ॥ 6-104-19 (43484) समागतौ तौ तु रणे महामात्रौ व्यरोचताम्। यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥ 6-104-20 (43485) तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः। ननाद बलवान्नादं सौभद्रः परवीरहा ॥ 6-104-21 (43486) हताश्वात्तु रथात्तूर्णं सोऽवप्लुत्य महारथः । आरुरोह रथं तूर्णं दुर्मुखस्य विशांपते ॥ 6-104-22 (43487) द्रोणश्च द्रुपदं भित्त्वा शरैः सन्नतपर्वभिः। सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥ 6-104-23 (43488) पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे। अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥ 6-104-24 (43489) भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् । व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥ 6-104-25 (43490) ससंभ्रमो महाराज संशयं परमं गतः ॥ 6-104-26 (43491) अवप्लुत्य ततो वाहाद्बाह्लीकः पुरुषोत्तमः। आरुरह रथं तूर्णं लक्ष्मणस्य महारणे ॥ 6-104-27 (43492) सात्यकिः कृतवर्माणं वारयित्वा महारणे । शरैर्बहुविधै राजन्नाससाद पितामहम् ॥ 6-104-28 (43493) स विद्ध्वा भारतं षष्ट्या निशितै रोमवाहिभिः। नृत्यन्निव रथोपस्थे विधुन्वानो महद्धनुः ॥ 6-104-29 (43494) तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः । हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥ 6-104-30 (43495) तामापतन्तीं सहसा मृत्युकल्पां सुदुर्जयाम्। व्यंसयामास वार्ष्णेयो लाघवेन महायशाः ॥ 6-104-31 (43496) अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा । न्यपतद्धरणीपृष्ठे महोल्केव महाप्रभा ॥ 6-104-32 (43497) वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं कनकप्रभाम् । वेगवद्गृह्य चिक्षेप पितामहरथं प्रति॥ 6-104-33 (43498) वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे । अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥ 6-104-34 (43499) तामापतन्तीं सहसा द्विधा चिच्छेद भारतः । क्षुरप्राभ्यां सुतीक्ष्णाभ्यांसा व्यशीर्यत मेदिनीम् ॥ 6-104-35 (43500) छित्त्वा शक्तिं तु गाङ्गयः सात्यकिं नवभिः शरैः । आजघानोरसि क्रुद्धः प्रहसञ्छत्रुकर्शनः ॥ 6-104-36 (43501) ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज। परिवब्रू रणे भीष्मं माधवत्राणकारणात् ॥ 6-104-37 (43502) ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् । पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥ ॥ 6-104-38 (43503) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे चतुरधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-104-7 तेनतेन पथा ॥ 6-104-20 महामात्रौ श्रेष्ठौ ॥ 6-104-29 भारत भीष्मम् । रोमवाहिभिः रोमच्छेदकैः ॥ 6-104-35 मेदिनीं प्राप्येति शेषः ॥ 6-104-37 माधवः सात्यकिः ॥
भीष्मपर्व - अध्याय 105

॥ श्रीः ॥

6.105. अध्यायः 105

Mahabharata - Bhishma Parva - Chapter Topics

युधिष्ठिरादियुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-105-0 (43504) सञ्जय उवाच। 6-105-0x (4196) दृष्ट्वा भीष्मं रणे युद्धं पाण्डवैरभिसंवृतम्। यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥ 6-105-1 (43505) दुर्योधनो महाराज दुःशासनमभाषत। एष शूरो महेष्वासो भीष्मः शूरनिषूदनः ॥ 6-105-2 (43506) छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ । तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ॥ 6-105-3 (43507) रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः । निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ॥ 6-105-4 (43508) तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् । गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः ॥ 6-105-5 (43509) स भवान्सर्वसैन्येन परिवार्य पितामहम् । समरे कर्म कुर्वाणं दुष्करं परिरक्षतु ॥ 6-105-6 (43510) सञ्जय उवाच। 6-105-7x (4197) स एवमुक्तः समरे पुत्रो दुःशासनस्तव। परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥ 6-105-7 (43511) ततः शतसहस्राणां हयानां सुबलात्मजः । विमलप्रासहस्तानामृष्टितोमरधारिणाम् ॥ 6-105-8 (43512) दर्पितानां सुवेगानां बलस्थानां पताकिनाम् । शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥ 6-105-9 (43513) नकुलं सहदेवं च धर्मराजं च पाण्डवम् । न्यवारयन्नरश्रेष्ठान्परिवार्य समन्ततः ॥ 6-105-10 (43514) ततो दुर्योधनो राजा शूराणां हयसादिनाम् । अयुतं प्रेषयामास पाण्डवानां निवारणे ॥ 6-105-11 (43515) तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे। खुराहता धरा राजंश्चकम्पे च ननाद च ॥ 6-105-12 (43516) खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा। महावंशवनस्येव दह्यमानस्य पर्वते ॥ 6-105-13 (43517) उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः। दिवाकररथं प्राप्य च्छादयामास भास्करम् ॥ 6-105-14 (43518) वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवीक चमूः। निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ॥ 6-105-15 (43519) हेषतां चैव शब्देन न प्राज्ञायत किंचन । `अन्तर्दधे महाञ्शब्दस्तेन शब्देन मोहितः॥' 6-105-16 (43520) ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ। प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ॥ 6-105-17 (43521) उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः। पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ॥ 6-105-18 (43522) ततस्ते रथिनो राजञ्शरैः सन्नतपर्वभिः। न्यकृन्तन्नुत्तमाङ्गानि शरेण हयसादिनाम् ॥ 6-105-19 (43523) ते निपेतुर्महाराज निहता दृढधन्विभिः । नागैरिव महानागा यथावद्गिरिगह्वरे ॥ 6-105-20 (43524) तेऽपि प्रासैः सुनिशितैः शरैः सन्नतपर्वभिः । न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ॥ 6-105-21 (43525) अभ्याहता हयारोहा ऋष्टिभिर्भरतर्षभ । अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः ॥ 6-105-22 (43526) समादिनो हया राजंस्तत्रतत्र निषूदिताः। पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः ॥ 6-105-23 (43527) वध्यमाना हयाश्चैव प्राद्रवन्त भयार्दिताः। यथा सिंहं समासाद्य मृगाः प्राणपरायणाः ॥ 6-105-24 (43528) पाण्डवाश्च महाराज जित्वा शत्रून्महामृधे । दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ॥ 6-105-25 (43529) ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम् । अब्रवीद्रतश्रेष्ठ मद्रराजमिदं वचः ॥ 6-105-26 (43530) एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे । पश्यतां वो महाबाहो सेनां द्रावयति प्रभो ॥ 6-105-27 (43531) तं वारय महाबाहो वेलेव मकरालयम् । त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ॥ 6-105-28 (43532) सञ्जय उवाच। 6-105-29x (4198) पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान्। स ययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥ 6-105-29 (43533) तदापतद्वै सहसा शल्यस्य सुमहद्बलम् । महौघवेगं समरे वारयामास पाण्डवः ॥ 6-105-30 (43534) मद्रराजं च समरे धर्मराजो महारथः। दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे । नकुलः सहदेवश्च तं सप्तभिरजिह्नगैः ॥ 6-105-31 (43535) मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः । युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ॥ 6-105-32 (43536) माद्रीपुत्रौ च संभ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत्। ततो भीमो महाबहुर्दृष्ट्वा राजनमाहवे॥ 6-105-33 (43537) मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा। अभ्यपद्यत संग्रामे युधिष्ठिरममित्रजित् ॥ 6-105-34 (43538) `आपतन्नेव भीमस्तु मद्रराजमताडयत्।' सर्वपारशवैस्तीक्ष्णैर्नाराचैर्मर्मभेदिभिः ॥ 6-105-35 (43539) ततो भीष्मश्च द्रोणश्च सैन्येन महता वृतौ। राजानमभ्यपद्येतामञ्जसा शरवर्षिणौ ॥ 6-105-36 (43540) ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्। अपरां दिशमास्थाय द्योतमाने दिवाकरे ॥ ॥ 6-105-37 (43541) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे पञ्चाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-105-8 तत इति। सैन्येनेति पूर्वस्मादनुकृष्यते। हयानां सैन्येन परिवार्य न्यवारयदिति तृतीयेनान्वयः ॥
भीष्मपर्व - अध्याय 106

॥ श्रीः ॥

6.106. अध्यायः 106

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मपराक्रमममृष्यता कृष्णेन रथादवरुह्य तद्वधायाभियानम् ॥ 1 ॥ अर्जुनेन पश्चादनुधाव्य निवर्तितस्य कृष्णस्य तेन सह पुना रथारोहणम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-106-0 (43542) सञ्जय उवाच। 6-106-0x (4199) ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः। आजघान रणे पार्थान्सहसेनान्समन्ततः ॥ 6-106-1 (43543) भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः । नकुलं च त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ 6-106-2 (43544) युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत्। धृष्टद्युम्नं ततो विद्ध्वा ननाद सुमहाबलः ॥ 6-106-3 (43545) तं द्वादशाख्यैर्नकुलो माधवश्च त्रिभिः शरैः । धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च सप्तभिः । युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ॥ 6-106-4 (43546) द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत । एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ॥ 6-106-5 (43547) तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः । तोत्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ॥ 6-106-6 (43548) सौवीरा कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः। संग्रमे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ॥ 6-106-7 (43549) तथैवान्ये महीपाला नानादेशसमागताः । पाण्डवानभ्यवर्तन्त विविधायुधपाणयः । तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ॥ 6-106-8 (43550) स समन्तात्परिवृतो रथौघैरपराजितः । गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ॥ 6-106-9 (43551) रथाग्न्यगारश्चापार्चिरसिशक्तिगजेन्धनः । शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ॥ 6-106-10 (43552) ` यथा हि सुमहानग्निः कक्षे चरसि सानिलः ।' तथा भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ॥ 6-106-11 (43553) सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः । कर्णिनालीकनाराचैश्छादयामास तद्बलम् ॥ 6-106-12 (43554) अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः । मुण्डतालवनानीव चकार स रथव्रजान् ॥ 6-106-13 (43555) निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे। अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ॥ 6-106-14 (43556) तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः। निशम्य सर्वभूतानि समकम्पन्त भारत ॥ 6-106-15 (43557) अमोघा ह्यपत्नबाणाः पितुस्ते भरतर्षभ। नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥ 6-106-16 (43558) हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः । अपश्याम महाराज ह्रियमाणान्रणाजिरे ॥ 6-106-17 (43559) चेदिकाशिकरूषाणां सहस्राणि चतुर्दश । महारथाः समाख्याताः कलपुत्रास्तनुत्यजः । अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः॥ 6-106-18 (43560) संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्। निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥ 6-106-19 (43561) भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च भारत। अपश्याम महाराज शतशोऽथ सहस्रशः ॥ 6-106-20 (43562) सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः । शरैः सुकवचैश्छिन्नैः पट्टसैश्च विशांपते ॥ 6-106-21 (43563) गदाभिर्भिण्डिपालैश्च निशितैश्च शिलीमुखैः । अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ॥ 6-106-22 (43564) बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः। तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः। चापैश्च बहुधा च्छिन्नैः समास्तीर्यत मेदिनी ॥ 6-106-23 (43565) गजारोहा गजान्राजन्हयांश्च हयसादिनः । अभिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ॥ 6-106-24 (43566) यतमानाश्च ते वीरा द्रवमाणान्महारथान्। नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ॥ 6-106-25 (43567) महेन्द्रसमवीर्येण वध्यमाना महाचमूः । अभज्यत महाराज न च द्वौ समधावताम् ॥ 6-106-26 (43568) आविद्धरथनागाश्वं पतितध्वजसंकुलम् । अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥ 6-106-27 (43569) जघानात्र पिता पुत्रं पुत्रश्च पितरं तथ। प्रियं सखाय चाक्रन्दे सखा दैवबलात्कृतः ॥ 6-106-28 (43570) विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः । प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त सर्वशः ॥ 6-106-29 (43571) तद्गोकुलमिवोद्भ्रान्तमुद्भान्तरथकूबरम् । ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥ 6-106-30 (43572) प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः । उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥ 6-106-31 (43573) श्रीभगवानुवाच। 6-106-32x (4200) अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तव। प्रहरास्मै नरव्याघ्र भीष्मायाहवशोभिने ॥ 6-106-32 (43574) यत्पुरा कथितं वीर त्वया राज्ञां समागमे। विराटनगरे तात सञ्जयस्य समीपतः ॥ 6-106-33 (43575) भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् । सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति सङ्गरे ॥ 6-106-34 (43576) इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम। क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः ॥ 6-106-35 (43577) सञ्जय उवाच। 6-106-36x (4201) इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः। अकाम इव बीभत्सुरिदं वचनमब्रवीत् ॥ 6-106-36 (43578) अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् । दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ॥ 6-106-37 (43579) चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव। पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम् ॥ 6-106-38 (43580) सञ्जय उवाच। 6-106-39x (4202) स चाश्वान्रजतप्रख्यांश्चोदयामास माधवः। यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव । 6-106-39 (43581) ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्। दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ॥ 6-106-40 (43582) ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः । धनंजयरथं शीघ्रं शरवर्षैरवाकिरत् ॥ 6-106-41 (43583) क्षणेन स रथस्तस्य सहयः सहसारथिः । शरवर्षेण महता न प्राज्ञायत भारत ॥ 6-106-42 (43584) वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्वरः । चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः ॥ 6-106-43 (43585) ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् । पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ॥ 6-106-44 (43586) स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः । निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ 6-106-45 (43587) चकर्ष च ततो दोर्भ्यां धनुर्जलदनिःस्वनम् । अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः । तस्य तत्पूजयामास लाघवं शन्तनोः सुतः ॥ 6-106-46 (43588) गाङ्गेयस्त्वब्रवीत्पार्थं धन्विश्रेष्ठमरिंदम। साधुसाधु महाबाहो साधु कुन्तीसुतेति च ॥ 6-106-47 (43589) समाभाष्यैवमपरं प्रगृह्य रुचिरं धनुः। मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ॥ 6-106-48 (43590) अदर्शयद्वसुदेवो हययाने परं बलम्। मोघान्कुर्वञ्शरांस्तस्य मण्डलानि निदर्शयन् ॥ 6-106-49 (43591) शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ । गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ॥ 6-106-50 (43592) वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् । भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥ 6-106-51 (43593) प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः । वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥ 6-106-52 (43594) युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले । नामृष्यत महाबाहुर्माधवः परवीरहा ॥ 6-106-53 (43595) उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष । वासुदेवस्ततो योगी प्रचस्कन्द महारथात् ॥ 6-106-54 (43596) अभिदुद्राव भीष्मं स भुजप्रहरणो बली। प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः ॥ 6-106-55 (43597) दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः । क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः ॥ 6-106-56 (43598) ग्रसन्निव च तेजांसि तावकानां महाहवे । दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके ॥ 6-106-57 (43599) हतो भीष्मो हतो भीष्म इति तत्रस्म सैनिकाः । क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयातुराः ॥ 6-106-58 (43600) पीतकौशेयसंवीतो मणिश्यामो जनार्दनः । शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ॥ 6-106-59 (43601) स सिंह इव मातङ्गं यथर्षभ इवर्षभम् । अभिदुद्राव वेगेन विनदन्यादवर्षभः ॥ 6-106-60 (43602) तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे। असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः । उवाच चैव गोविन्दमसंभ्रान्तेन चेतसा ॥ 6-106-61 (43603) एह्येहि पुण्डरीकाक्ष देवदेव नमोस्तु ते । मामद्य सात्वतश्रेष्ठ तापयस्त महाहवे ॥ 6-106-62 (43604) त्वया हि देव संग्रामे हतस्यापि ममानघ । श्रेय एव परं कृष्ण लोके भवति सर्वतः ॥ 6-106-63 (43605) संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे। प्रहरस्व यथेष्टं वै दासोऽस्मि तव चानघ ॥ 6-106-64 (43606) सञ्जय उवाच। 6-106-65x (4203) अन्वगेव ततः पार्थः समभिद्रुत्य केशवम् । निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ॥ 6-106-65 (43607) निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः । जगामैवैनमादाय वेगेन पुरुषोत्तमः ॥ 6-106-66 (43608) पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा । निजग्राह हृषीकेशं कथंचिद्दशमे पदे ॥ 6-106-67 (43609) तत एवमुवाचार्तः क्रोधपर्याकुलेक्षणम् । निःश्वसन्तं यथा नागमर्जुनः प्रणयात्सखा ॥ 6-106-68 (43610) निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि । यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ॥ 6-106-69 (43611) मिथ्यावादीति लोकास्त्वां कथयिष्यन्ति माधव । ममैष भारः सर्वो हि हनिष्यामि पितामहम् ॥ 6-106-70 (43612) शपे केशव शस्त्रेण सत्येन सुकृतेन च। अन्तं यथा गमिष्यामि शत्रूणां शत्रुसूदन ॥ 6-106-71 (43613) अद्यैव पश्य दुर्धर्षं पात्यमानं महारथम् । तारापतिमिवापूर्णमन्तकाले यदृच्छया ॥ 6-106-72 (43614) माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः। `अभवत्परमप्रीतो दृष्ट्वा पार्थस्य विक्रमम्'। न किंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः ॥ 6-106-73 (43615) तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः। ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ ॥ 6-106-74 (43616) प्राणानादत्त योधानां पिता देवव्रतस्तव। गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ॥ 6-106-75 (43617) यथा कुरूणां सैन्यानि बभञ्जुर्युधि पाण्डवाः । तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥ 6-106-76 (43618) हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः । निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ॥ 6-106-77 (43619) मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा । ते वध्यमाना भीष्मेण शतशोऽथ सहस्रशः ॥ 6-106-78 (43620) कुर्वाणं समरे कर्माण्यतिमानुषविक्रमम्। वीक्षांचक्रुर्महाराज पाण्डवा भयपीडिताः ॥ 6-106-79 (43621) तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत। त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव। पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥ 6-106-80 (43622) तथैव योधा राजेन्द्र भीष्मेणामित्रघातिना। समरे मृदिताः सर्वे पाण्डवाः सह सृञ्जयैः ॥ 6-106-81 (43623) महारथं भारत दुष्प्रकम्पं शरौघिणं प्रतपन्तं नरेन्द्रान्। भीष्मं न शेकुः प्रतिवीक्षितुं ते शरार्चिषं सूर्यमिवातपन्तम् ॥ 6-106-82 (43624) विमृद्गतस्तस्य तु पाण्डुसेना- मस्तं जगामाथ सहस्ररश्मिः। ततो हि भीष्मः सबलान्ससैन्या- न्न्यवारयत्पाण्डुसुताञ्शरौघैः ॥ 6-106-83 (43625) जघान चैतान्सुभृशं महाबलो महाव्रतः पाण्डुसुतान्महास्त्रैः । रणे करूणाधिपचेदिपैर्बलै- र्वृतान्सदा चक्रधरस्य पश्यतः। ततो बलानां श्रमकर्शितानां 6-106-84 (43626) 6-106-84f" मनोऽवहारं प्रति संबभूव ॥ ॥ इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे षडधिकशततमोऽध्यायः ॥
भीष्मपर्व - अध्याय 107

॥ श्रीः ॥

6.107. अध्यायः 107

Mahabharata - Bhishma Parva - Chapter Topics

युधिष्ठिरेण कृष्णेनसह संमन्त्र्य रात्रौ भीष्ममेत्य तद्वधोपायकथनप्रार्थना ॥ 1 ॥ तंप्रति भीष्मेण तत्कथनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-107-0 (43627) सञ्जय उवाच। 6-107-0x (4204) युध्यतामेव तेषां तु भास्करेऽस्तमुपागते। सन्ध्या समभवद्धोरा नापश्याम ततो रणम् ॥ 6-107-1 (43628) ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत। वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम् ॥ 6-107-2 (43629) स्वसैन्यं च परावृत्तं पलायनपरायणम्। भीष्मं च युधि संरब्धं पीडयन्तं महारथम् ॥ 6-107-3 (43630) सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान्। ` निशामुखं च संप्रेक्ष्य घोररूपं भयानकम्।' चिन्तयित्वा ततो राज्ञामपहारमकारयत् ॥ 6-107-4 (43631) ततोऽपहारं सैन्यानां चक्रे राजा युधिष्ठिरः । तथैव तव सैन्यानामपहारे ह्यभूत्तदा ॥ 6-107-5 (43632) ततोऽपहारं सैन्यानां कृत्वा तत्र महारथाः । न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः ॥ 6-107-6 (43633) भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः । नालभन्त तदा शान्तिं भीष्मबाणप्रपीडिताः ॥ 6-107-7 (43634) भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयान्। पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ॥ 6-107-8 (43635) न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः । ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ॥ 6-107-9 (43636) तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह । सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥ 6-107-10 (43637) आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः। मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ॥ 6-107-11 (43638) ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप । वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे ॥ 6-107-12 (43639) कृष्ण पश्य माहात्मानं भीष्मं भीमपराक्रमम् । गजं नलवनानीव विमृद्गन्तं बलं मम ॥ 6-107-13 (43640) न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् । लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ॥ 6-107-14 (43641) यथा घोरो महानागस्तक्षको वै विषोल्बणः। तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान् ॥ 6-107-15 (43642) गृहीतचापः समरे प्रमुञ्चन्निशिताञ्छरान्। शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥ 6-107-16 (43643) वरुणः पाशभृच्चापि सगदो वा धनेश्वरः । न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे ॥ 6-107-17 (43644) सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे। आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥ 6-107-18 (43645) वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम् । न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नः सदा ॥ 6-107-19 (43646) यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन्। एकतो मृत्युमभ्येति तथाऽहं भीष्ममेयिवान् ॥ 6-107-20 (43647) क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी । भ्रातरश्चैव मे शुराः सायकैर्भृशपीडिताः ॥ 6-107-21 (43648) मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः। परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ॥ 6-107-22 (43649) जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्। जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥ 6-107-23 (43650) यदि तेऽहमनुग्राह्यो भ्रातृभिः स केशव । स्वधर्मस्याविरोधेन हितं व्याहर केशव ॥ 6-107-24 (43651) सञ्जय उवाच। 6-107-25x (4205) एवं श्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम्। प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥ 6-107-25 (43652) श्रीभगवानुवाच । 6-107-26x (4206) धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर । यस्य ते भ्रातरः शूरा दुर्जयाः सत्रुसूदनाः ॥ 6-107-26 (43653) अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ। माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिविश्वरौ ॥ 6-107-27 (43654) मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव । त्वप्रयुक्तो महाराज किं न कुर्यां महाहवे ॥ 6-107-28 (43655) हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् । पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥ 6-107-29 (43656) यदि भीष्मे हते वीरे जयं पश्यसि पण्डव। हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ॥ 6-107-30 (43657) पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे। विमुञ्चन्तं महास्त्रामि पातयिष्यामि तं रथात् ॥ 6-107-31 (43658) यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः। मदर्था भवदर्था ये ये मदीयास्तवैव ते ॥ 6-107-32 (43659) तव भ्राता मम सखा संबन्धी शिष्य एव च । मांसान्युत्कृत्य दास्यामि फल्गुनार्थे महीपते ॥ 6-107-33 (43660) एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत्। एष नः समयस्तात तारयेम परस्परम् ॥ 6-107-34 (43661) स मां नियुङ्क्ष्व राजेन्द्र यावत्सज्जो भवाम्यहम् । प्रतिज्ञातमुपप्लाव्ये यत्तत्पार्थेन पूर्वतः ॥ 6-107-35 (43662) पातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ। परिरक्ष्यमिदं तावद्वचः पार्थस्य धीमतः ॥ 6-107-36 (43663) अनुज्ञातेन पार्थेन मया कार्यं न संशयः। अथवा फल्गुनस्यैष भारः परिमितो रणे ॥ 6-107-37 (43664) स हनिष्यति संग्रामे भीष्मं परपुरंजयम् । अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः ॥ 6-107-38 (43665) त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः । निहन्त्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ॥ 6-107-39 (43666) विपरीतो महावीर्यो गतसत्वोऽल्पजीवनः । भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ॥ 6-107-40 (43667) युधिष्ठिर उवाच। 6-107-41x (4207) एवमेतन्महाबाहो यथा वदसि माधव। सर्वे ह्येते न पर्याप्तास्तव वेगविधारणे ॥ 6-107-41 (43668) नियतं समावाप्स्यामि सर्वमेतद्यथेप्सितम् । यस्य मे पुरुषव्याघ्र भवान्पक्षे व्यवस्थितः ॥ 6-107-42 (43669) सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर। त्वया नाथेन गोविन्द किमु भीष्मं महारथम् ॥ 6-107-43 (43670) न तु त्वामनृतं कर्तुमुत्सहे स्वात्मगौरवात्। अयुध्यमानाः सहाय्यं यथोक्तं कुरु माधव ॥ 6-107-44 (43671) समयस्तु कृतः कश्चिन्मम भीष्मेण संयुगे। मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन ॥ 6-107-45 (43672) दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो। स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव ॥ 6-107-46 (43673) तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः । भवता सहिताः सर्वे प्रयाम मधुसूदन ॥ 6-107-47 (43674) तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् । रुचिते तव पृच्छामि मन्त्रं वार्ष्णेय माचिरम् ॥ 6-107-48 (43675) स वक्ष्यति हितं वाक्यं सत्यमस्माज्जनार्दन। यथा च वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥ 6-107-49 (43676) स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः । बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥ 6-107-50 (43677) तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव। पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम् ॥ 6-107-51 (43678) सञ्जय उवाच। 6-107-52x (4208) ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् । रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम् ॥ 6-107-52 (43679) देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्। गम्यतां स्ववधोपायं प्रष्टुं सागरगासुतम् ॥ 6-107-53 (43680) वक्तमर्हति सत्यं स त्वया पृष्टो विशेषतः । ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् ॥ 6-107-54 (43681) गत्वा शान्तनवं वृद्धं मन्त्रं पृच्छाम भारत । स नो दास्यति मन्त्रं यं तेन योत्स्यामहे परान् ॥ 6-107-55 (43682) सञ्जय उवाच। 6-107-56x (4209) एवमामन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वज। जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ॥ 6-107-56 (43683) विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति। प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे ॥ 6-107-57 (43684) पूजयन्तो महाराज पाण्डवा भरतर्षभम् । प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः ॥ 6-107-58 (43685) तानुवाच महाबाहुर्भीष्मः कुरुपितामहः । स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ॥ 6-107-59 (43686) स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा। किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनं ॥ 6-107-60 (43687) `युद्धादन्यत्र हे वत्साः प्रीयन्तां मा विशङ्कथ ।' सर्वात्मनापि कर्तास्मि यदपि स्यात्सदुष्करम् । तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनःपुनः ॥ 6-107-61 (43688) उवाच राजा दीनात्मा प्रीतियुक्तमिदं वचः। कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि ॥ 6-107-62 (43689) प्रजानां संशयो न स्यात्कथं तन्मे बद प्रभो । भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः ॥ 6-107-63 (43690) भवन्तं समरे वीर विषहेम कथं वयम्। न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह ॥ 6-107-64 (43691) मण्डलेनैव धनुषा दृश्यसे संयुगे सदा। आददानं संदधानं विकर्षन्तं धनुर्न च ॥ 6-107-65 (43692) पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम् । रथाश्वनरनागानां हन्तारं परवीरहन् ॥ 6-107-66 (43693) कोऽथवोत्सहते जेतुं वां पुमान्भरतर्षभ । वर्षता शरवर्षाणि महान्ति पुरुषर्षभ ॥ 6-107-67 (43694) क्षयं निता हि पृतना संयुगे महती मम। यथा युधि जयेम त्वां यथा राज्यं भृशं मम ॥ 6-107-68 (43695) मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह । 6-107-69xसञ्जय उवाच। ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज ॥ 6-107-69 (43696) न कथंचन कौन्तेय मयि जीवति संयुगे। जयो भवति सर्वज्ञ सत्यमेतद्ब्रवीमि ते ॥ 6-107-70 (43697) निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः । क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ॥ 6-107-71 (43698) अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् । एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् । हते मयि हतं सर्वं तस्मादेवं विधीयताम् ॥ 6-107-72 (43699) युधिष्ठिर उवाच। 6-107-73x (4210) ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि। भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम् ॥ 6-107-73 (43700) शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा। न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥ 6-107-74 (43701) भीष्म उवाच। 6-107-75x (4211) सत्यमेतन्महाबाहो यथा वदसि पाण्डव ॥ 6-107-75 (43702) नाहं जेतुं रणे शक्यः सेन्द्रैरपि सुरासुरैः। आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः । ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः ॥ 6-107-76 (43703) निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे । द्रवमाणे च भीते च तवास्मीति च वादिनि ॥ 6-107-77 (43704) `स्त्रीजिते स्त्रीप्रधाने च स्त्रीप्रधायिनि धर्मज' स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रिणि । अप्रसूते च षण्डे च न युद्धं रोचते मम ॥ 6-107-78 (43705) इमं मे शृणु राजेन्द्र संकल्पं पूर्वचिन्तितम् । असंकल्पध्वजं दृष्ट्वा न युध्येयं कदाचन ॥ 6-107-79 (43706) य एष द्रौपदो राजंस्तव सैन्ये महारथः । शिखण्डी समरामर्षी शूरश्च समितिंजयः ॥ 6-107-80 (43707) यथाऽभवच्च स्त्रीपूर्वं पश्चात्पुंस्त्वं समागतः। जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ॥ 6-107-81 (43708) अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डीनम् । मामेव विशिखैस्तीक्ष्णैरभिद्रवतु दंशितः ॥ 6-107-82 (43709) असंकल्पध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः । न प्रहर्तुमभीप्सामि गृहीतेषु कथंचन ॥ 6-107-83 (43710) तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः। शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ॥ 6-107-84 (43711) न तं पश्यामि लोकेष मां हन्याद्यः समुद्यतम्। ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ॥ 6-107-85 (43712) पार्षतं तु पुरोधाय क्लीबमद्य ममाग्रतः । आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः । मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम् ॥ 6-107-86 (43713) एतत्कुरुष्व कौन्तेय यथोक्तं मम सुव्रत । ततो जेष्वसि संग्रामे धार्तराष्ट्रान्समागतान् ॥ 6-107-87 (43714) सञ्जय उवाच। 6-107-88x (4212) तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति। अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥ 6-107-88 (43715) तथोक्तवति गाङ्गेये परलोकाय दीक्षिते। अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत् ॥ 6-107-89 (43716) गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता । पितामहेन संग्रामे कथं योद्धास्मि माधव ॥ 6-107-90 (43717) क्रीडता हि मया बाल्ये वासुदेव महामनाः । पांसुरूषितगात्रेण महात्मा परुषीकृतः॥ 6-107-91 (43718) यस्याहमधिरुह्याङ्कं वालः किल गदाग्रज । तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥ 6-107-92 (43719) नाहं तातस्तव पितुस्तातोऽस्मि तव भारत । इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥ 6-107-93 (43720) कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना । जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ॥ 6-107-94 (43721) ` कथमस्माद्विधः कृष्ण जानन्धर्मं सनातनम् । न्यस्तशस्त्रे च वृद्धे च प्रहरेद्धि पितामहे ॥' 6-107-95 (43722) श्रीवासुदेव उवाच। 6-107-96x (4213) प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे। क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ॥ 6-107-96 (43723) पातयैनं रथात्पार्थ क्षत्रियं युद्धदुर्मदम् । नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥ 6-107-97 (43724) दृष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते। यद्दृष्टं हि पुरा पार्थ तत्तथा न तदन्यथा ॥ 6-107-98 (43725) न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् । त्वदन्यः शक्नुयाद्योद्धुमपि वज्रधरः स्वयम् ॥ 6-107-99 (43726) जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम। यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥ 6-107-100 (43727) ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम् । आततायिनमायान्तं हन्याद्धातकमात्मनः ॥ 6-107-101 (43728) शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय । योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥ 6-107-102 (43729) अर्जुन उवाच। 6-107-103x (4214) शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् । दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥ 6-107-103 (43730) ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम्। गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥ 6-107-104 (43731) अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः । शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत् ॥ 6-107-105 (43732) श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् । कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत ॥ 6-107-106 (43733) `अर्जुनस्य वचः श्रुत्वा भीष्मस्य वधसंयुतम्। जहृषुर्हृष्टरोमाणः सकृष्णाः पाण्डवास्तदा॥' 6-107-107 (43734) इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः। अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः। शयनानि यथा स्वानि भेजिरे पुरुषर्षभाः ॥ ॥ 6-107-108 (43735) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्ताधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-107-20 एकत इति द्वितीयान्तात्तसिः। एकं केवलं मृत्युमेवाभ्येतीत्यर्थः ॥ 6-107-40 विपरीतः क्षुद्रेषु पराक्रमी । गतसत्वो गतबुद्धिः ॥ 6-107-61 युद्धादन्यत्रेत्यर्धं कः पुस्तक एव दृश्यते ॥ 6-107-91 परुषीकृतः रूक्षीकृतः ॥ 6-107-97 युद्धदुर्मदं युद्धोत्सुकम् ॥ 6-107-98 गमिष्याति यमक्षयं इति पाठे भीष्म इति शेषः ॥ 6-107-101 आततायिनमित्यस्य घातकमिति विशेषणमन्येभ्य आततायिभ्यो व्यवच्छेदायोक्तम् ॥ 6-107-103 निधनं निधनहेतुः ॥
भीष्मपर्व - अध्याय 108

॥ श्रीः ॥

6.108. अध्यायः 108

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मयुद्धम् ॥ 1 । शिखण्डिनो भीष्मेण सह संवादो युद्धसन्नाहश्च ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-108-0 (43736) धृतराष्ट्र उवाच। 6-108-0x (4215) कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे। पाण्डवाश्च कथं भीष्मं तन्ममाचक्ष्व सञ्जय ॥ 6-108-1 (43737) सञ्जय उवाच। 6-108-2x (4216) ततः प्रभाते विमले सूर्यस्योदयनं प्रति। ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥ 6-108-2 (43738) ध्मायमानेषु शङ्खेषु पाण्डरेषु समन्ततः । शिखण्डिनं पुरस्कृत्य निर्याप्ताः पाण्डवा युधि ॥ 6-108-3 (43739) कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् । शिखण्डी सर्वसैन्यानामग्र आसीद्विशांपते ॥ 6-108-4 (43740) चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ । पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥ 6-108-5 (43741) सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः। धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥ 6-108-6 (43742) ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः। प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥ 6-108-7 (43743) विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृत्तः । द्रुपदश्च महाबाहो ततः पञ्चादुपाद्रवत् ॥ 6-108-8 (43744) केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् । जघनं पालयामासुः पाण्डवेयश्च राक्षसः ॥ 6-108-9 (43745) एवं व्यूह्य महासैन्यं पाण्डवास्तव वाहिनीम् । अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः ॥ 6-108-10 (43746) तथैव कुरवो राजन्भीष्मं कृत्वा महारथम् । अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥ 6-108-11 (43747) पुत्रैस्तव दुराधर्षो रक्षितः सुमहाबलैः । ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः ॥ 6-108-12 (43748) भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः । कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥ 6-108-13 (43749) काम्भोजराजो बलवांस्ततः पश्चात्सुदक्षिणः । मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥ 6-108-14 (43750) तथैवान्ये महेष्वासाः सुशर्मप्रमुखा नृपाः । जघनं पालयामासुस्तव सैन्यस्य भारत ॥ 6-108-15 (43751) दिवसेदिवसे प्राप्ते भीष्मः शान्तनवो युधि। आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥ 6-108-16 (43752) ततः प्रववृते युद्धं तव तेषां च भारत। अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ॥ 6-108-17 (43753) अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्। भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान्॥ 6-108-18 (43754) तत्र भारत भीमेन ताडितास्तावकाः शरैः। रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥ 6-108-19 (43755) नकुलः सहदेवश्च सात्यकिश्च महारथः । तव सैनयं समासाद्य पीडयामासुरोजसा ॥ 6-108-20 (43756) ते वध्यामानाः समरे तावका भरतर्षभ । नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥ 6-108-21 (43757) ततस्तु तावकं सैन्यं वध्यमानं समन्ततः। संप्राद्रवद्दशः दिशः काल्यमानं महारथैः ॥ 6-108-22 (43758) त्रातारं नाध्यगच्छन्त तावका भरतर्षभ । वध्यमानाः शितैर्बाणैः पाण्डवैः सह सृञ्जयैः ॥ 6-108-23 (43759) धृतराष्ट्र उवाच। 6-108-24x (4217) पीड्यमानं बलं दृष्ट्वा पार्थैर्भीष्मः पराक्रमी । यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ॥ 6-108-24 (43760) कथं वा पाण्डवा युद्धे प्रत्युद्याताः परंतपाः । निघ्नन्तो मामकान्वीरांस्तन्ममाचक्ष्व सञ्जय ॥ 6-108-25 (43761) सञ्जय उवाच। 6-108-26x (4218) आचक्षे ते महाराज यदकार्षीत्पिता तव। पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः ॥ 6-108-26 (43762) प्रंहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज । अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥ 6-108-27 (43763) तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् । नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥ 6-108-28 (43764) स पाणडवान्महेष्वासः पञ्चालांश्चैव सृञ्जयान् । नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥ 6-108-29 (43765) अभ्यवर्षत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः । स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् ॥ 6-108-30 (43766) आत्तशस्त्रो रणे यत्नाद्वारयामास सायकैः । नानाशस्त्रास्त्रवर्षैस्तान्वीर्यामर्षप्रवेरितैः ॥ 6-108-31 (43767) निजघ्ने समरे क्रुद्धो हस्त्यश्वं चामितं बहु। रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभ ॥ 6-108-32 (43768) सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च समागतान् ॥ 6-108-33 (43769) गजारोहान्गजेभ्यश्च परेषां जयकारिणः । तमेकं समरे भीष्मं त्वरमाणं महारथम् ॥ 6-108-34 (43770) पाण्डवाः समवर्तन्त वज्रहस्तमिवासुराः। शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्छरान् ॥ 6-108-35 (43771) दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः। मण्डलीभूतमेवास्य नित्यं धनुरदृश्यत ॥ 6-108-36 (43772) संग्रामे युध्यमानस्य शक्रचापोपमं महत् ॥ तदृष्ट्वा समरे कर्म पुत्रास्तव विशांपते ॥ 6-108-37 (43773) विस्मायं परमं गत्वा पितामहमपूजयन् । पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ॥ 6-108-38 (43774) युध्यमानं रणे शूरं विप्रचित्तिमिवामराः । न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥ 6-108-39 (43775) दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः । अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥ 6-108-40 (43776) तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्सनान्तरे । आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥ 6-108-41 (43777) स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् । पुनर्नालोकयत्क्रुद्धः प्रहसन्निदमब्रवीत् ॥ 6-108-42 (43778) कामं प्रहर वा मा वा न त्वां योत्स्ये कथंचन । यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥ 6-108-43 (43779) तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः । उवाच भीष्मं समरे सृक्विणी परिलेलिहन् ॥ 6-108-44 (43780) जानामि त्वां महाबाहो क्षत्रियाणां भयंकरम् । मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥ 6-108-45 (43781) दिव्यश्च ते प्रभावोऽयं मया च बहुशः श्रुतः । जनन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥ 6-108-46 (43782) पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ॥ अद्य त्वां योधयिष्यामि रणे पुरुषसत्तम ॥ 6-108-47 (43783) ध्रुवं च त्वां हनिष्यामि शपे सत्येन तेऽग्रतः । एतच्छ्रुत्वा च मद्वाक्यं यत्कृत्यं तत्समाचर ॥ 6-108-48 (43784) कामं युध्यस्व वा मा वा न मे जीवन्प्रमोक्ष्यसे । सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय ॥ 6-108-49 (43785) सञ्जय उवाच। 6-108-50x (4219) एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः। अविध्यत रणे भीष्मं प्रतुदन्वाक्यसायकैः ॥ 6-108-50 (43786) तस्य तद्वचनं श्रुत्वा सव्यसाची महारथः । कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् ॥ 6-108-51 (43787) अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः । अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥ 6-108-52 (43788) न हि ते संयुगे पीडां शक्ताः कर्तुं महाबलाः । तस्मादद्य महाबाहो यत्नाद्भीष्यमभिद्रव ॥ 6-108-53 (43789) अहत्वा समरे भीष्म यदि यास्यसि मारिष । अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥ 6-108-54 (43790) नावहास्या यथा वीर भवेम परमाहवे । तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥ 6-108-55 (43791) कुरूंश्च सहितान्सर्वान्यतमानान्महारथान् । अहमावारयिष्यामि सावयस्व पितामहम् ॥ 6-108-56 (43792) द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् । चित्रसेनं विकर्णं च सैन्धवं च यजद्रथम् ॥ 6-108-57 (43793) विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् । भगदत्तं तथा शूरं मागदं च महाबलम् ॥ 6-108-58 (43794) सौमदत्तिं तथा शूरमार्श्यशृङ्गिं च राक्षसम् । त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ॥ 6-108-59 (43795) अहमावारयिष्यामि वेलेव मकरालयम् । कुरूंश्च सहितान्सर्वान्युध्यमानान्महाबलान् । निवारयिष्यामि रणे साधयस्व पितामहम् ॥ ॥ 6-108-60 (43796) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे अष्टाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-108-43 कामं स्वच्छन्दम्। अभ्यस इति पाठे प्रक्षिप ॥ 6-108-49 सुदृष्टः क्रियतां न पुनर्द्रक्ष्यसि लोकमिममिति भावः ॥ 6-108-55 साधयस्वस्वीकुरु जहि वा ॥
भीष्मपर्व - अध्याय 109

॥ श्रीः ॥

6.109. अध्यायः 109

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मदुर्योधनसंवादः ॥ 1 ॥ भीष्मपराक्रमवर्णनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-109-0 (43797) धृतराष्ट्र उवाच। 6-109-0x (4220) कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् । पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥ 6-109-1 (43798) केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधाः। त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥ 6-109-2 (43799) कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि। अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः ॥ 6-109-3 (43800) न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना । कच्चिन्न रथमद्गोऽस्व धनुर्वाऽशीर्यतास्थतः ॥ 6-109-4 (43801) सञ्जय उवाच। 6-109-5x (4221) नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत्। युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ। निघ्नतः समरे शत्रून्शरैः सन्नतपर्वभिः॥ 6-109-5 (43802) अनेकशतसाहस्रावकानां महारथाः । तथा दन्तिगणा राजन्हायश्चैव सुसञ्जिताः॥ 6-109-6 (43803) अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥ 6-109-7 (43804) यथाप्रतिज्ञं कौरव्य स चापि समिर्तिजयः । पार्यानामकरोद्भीष्मः सततं समिति क्षयम् ॥ 6-109-8 (43805) युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः । पाञ्चालाः पाण्डवैः सार्ध सर्वतः पर्यवारयन् ॥ 6-109-9 (43806) दशमेऽहनि संप्राप्ते ततस्तां रिपुवाहिनीम् । कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥ 6-109-10 (43807) न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज । अशक्नुवन्रणे जेतुं पाशहस्तमिवानतकम् ॥ 6-109-11 (43808) अथोपायान्महाराज सव्यसाची धनञ्जयः । त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ॥ 6-109-12 (43809) सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः । शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥ 6-109-13 (43810) तस्य शब्देन वित्रस्तास्तावका भारतर्षभ । सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ॥ 6-109-14 (43811) जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् । दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥ 6-109-15 (43812) एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः। दहते मामकान्सर्वान्कृष्णवर्त्मेन काननम् ॥ 6-109-16 (43813) पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः । पण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ॥ 6-109-17 (43814) यथा पशुगणान्पालः संकालयति कानने । तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥ 6-109-18 (43815) धनञ्जयशरैर्भग्नं द्रवमाणं ततस्ततः । भीमोऽप्येवं दुराधर्पो विद्रावयति मे बलम् ॥ 6-109-19 (43816) सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ। अभिमन्युः सुविक्रान्तो वाहिनीं द्रवते मम ॥ 6-109-20 (43817) धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः । व्यद्रावयेतां सहसा सैन्यं मम महारणे ॥ 6-109-21 (43818) वध्यमानस्य सैन्यस्य सर्वैरेतैर्महारथैः । नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥ 6-109-22 (43819) ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रमम्। पर्याप्तस्तु भवाञ्शीघ्रं पीडितानां गतिर्भव ॥ 6-109-23 (43820) सञ्जय उवाच। 6-109-24x (4222) एवमुक्तो महाराज पिता देवव्रतस्तव। चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥ 6-109-24 (43821) तव संधारयन्पुत्रमब्रवीच्छंतनोः सुतः। दुर्योधन विजानीहि स्थिरो भूत्वा विशांपते ॥ 6-109-25 (43822) `पातयिष्ये रिपूनन्यान्पाण्डवान्प्रतिपालयन् । प्रतिज्ञातो जयो ह्यद्य पाण्डवानां महात्मनाम् ॥' 6-109-26 (43823) पूर्वकालं तव मया प्रतिज्ञानं महाबल । हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम् ॥ 6-109-27 (43824) संग्रामादपयास्यामि ह्येतत्कर्म समाहितम् । इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥ 6-109-28 (43825) अद्य चापि महत्कर्म प्रकरिष्ये यथाबलम् । अहं वाऽद्य हतः शेष्ये हनिष्ये वाऽद्य पाण्डवान् ॥ 6-109-29 (43826) `अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः।' किं पुनर्मर्त्यधर्मेण क्षत्रियेण महाबलाः ॥ 6-109-30 (43827) अद्य ते पुरुषव्याघ्र प्रतरिष्ये ऋणं तव। भर्तृपिण्डकृतं राजन्निहताः पृतनामुखे ॥ 6-109-31 (43828) सञ्जय उवाच। 6-109-32x (4223) इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान्प्रवपञ्छरैः। आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥ 6-109-32 (43829) अनीकमध्ये तिष्ठन्तं गाङ्गेयं भारतर्षभ । आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन् ॥ 6-109-33 (43830) दशमेऽहनि भीष्मस्तु दर्शयञ्शक्तिमात्मनः । राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥ 6-109-34 (43831) पाञ्चालानां च ये श्रेष्ठा राजपुत्रा महारथाः । तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ॥ 6-109-35 (43832) हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम् । सारोहाणां महाराज हयानां चायुतं तथा ॥ 6-109-36 (43833) पूर्णे शतसहस्रे द्वे पादातानां नरोत्तमः । प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥ 6-109-37 (43834) न चैवं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् । उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥ 6-109-38 (43835) ते पाण्डवेवाः संरब्धा महेष्वासेन पीडिताः । वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ॥ 6-109-39 (43836) स वध्यमानो बहुभिर्भीष्मः शान्तनवस्तथा । अवकीर्णो महेष्वासैः शैलो मेघैरिवावृतः ॥ 6-109-40 (43837) पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् । महत्या सेनया सार्धं ततो युद्धमवर्तत ॥ ॥ 6-109-41 (43838) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे नवाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-109-8 समितिंजयः संग्रामजित्। समिति युद्धे ॥ 6-109-20 द्रवते द्रावयति ॥ 6-109-22 गतिं धाम। आश्रयमिति यावत्। स्थाने अवस्थाने ॥ 6-109-29 शेष्ये स्वप्स्यामि ॥
भीष्मपर्व - अध्याय 110

॥ श्रीः ॥

6.110. अध्यायः 110

Mahabharata - Bhishma Parva - Chapter Topics

अर्जुनदुःशासनयुद्धम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-110-0 (43839) सञ्जय उवाच। 6-110-0x (4224) अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् । शिखण्डिनमथोवाच समभ्योहि पितामहम् ॥ 6-110-1 (43840) न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन । अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥ 6-110-2 (43841) सञ्जय उवच। 6-110-3x (4225) एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ । अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ 6-110-3 (43842) धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः । हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥ 6-110-4 (43843) विराटद्रुपदौ वृद्धौ कुन्तिभोजस्य दंशितः। अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः । नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ॥ 6-110-5 (43844) तथेतराणि सैन्यानि सर्वाम्येव विशांपते । समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ 6-110-6 (43845) प्रत्युद्ययुस्तावकाश्च समेतांस्तान्महारथान् । यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ॥ 6-110-7 (43846) चित्रसेनो महाराज चेकितानं समभ्यायात् । भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ॥ 6-110-8 (43847) धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् । त्वरमाणं रणे यत्तं कृतवर्मा न्यवरायत् ॥ 6-110-9 (43848) भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् । त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ॥ 6-110-10 (43849) तथैव नकुलं शूरं किरन्तं सायकान्बहून् । विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ॥ 6-110-11 (43850) सहदेवं तथा राजन्यान्तं भीष्मरथं प्रति। वारयामास संक्रुद्धः कृपः शारद्वतो युधि ॥ 6-110-12 (43851) राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् । भीष्मस्य निधनप्रेप्सुं दुर्मुखोऽभ्यज्रवद्बली ॥ 6-110-13 (43852) सात्यकिं समरे क्रुद्धमार्स्यशृङ्गिवारयत् । `भीष्मस्य वधमिच्छन्तं पाण्डवप्रीतिकाम्यया' 6-110-14 (43853) अभिमन्युं महाराज यान्तं भीष्मरथं प्रति। सुदक्षिणो महाराज काम्भोज प्रत्यवारयत् ॥ 6-110-15 (43854) विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ । अश्वत्थामा ततः क्रुद्धो वारयामास भारत ॥ 6-110-16 (43855) तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् । भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ॥ 6-110-17 (43856) अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् । भीष्मप्रेप्सुं महाराज भासयन्तं दिशो दश ॥ 6-110-18 (43857) दुःशासनो महेष्वासो वारयामास संयुगे। अन्ये च तावका योधाः पाण्डवानां महारथान् ॥ 6-110-19 (43858) भीष्मस्याभिमुखान्यातान्वारयामासुराहवे । धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशंस्तु पुनः पुनः ॥ 6-110-20 (43859) अभ्यद्रवत संरब्धो भीष्ममेकं महारथः । एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः ॥ 6-110-21 (43860) अभ्यद्रवत माभैष्ट भीष्मो हि प्राप्स्यते न वः । अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः ॥ 6-110-22 (43861) किमु भीष्मो रणे वीरा गतसत्वोऽल्पजीवितः। इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः ॥ 6-110-23 (43862) अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति। आगच्छतस्तान्समरे वार्योघानचला इव ॥ 6-110-24 (43863) अवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः । दुःशासनो महाराज भयं त्यक्त्वा महारथः ॥ 6-110-25 (43864) भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् । 6-110-26bतथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति ॥ 6-110-26 (43865) अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथाः । तत्राद्भुतमपश्याम चित्ररूपं विशांपते ॥ 6-110-27 (43866) दुःशासनरथं प्राप्य यत्पार्थो नात्यवर्तत । यथा वारयते वेला क्षुब्धतोयं महार्णवम् ॥ 6-110-28 (43867) तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत्। उभौ तौ रथिनां श्रेष्ठावुभौ भारतदुर्जयौ ॥ 6-110-29 (43868) उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत। तथा तौ जातसंरम्भावन्योन्यवधकाङ्क्षिणौ ॥ 6-110-30 (43869) समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा। दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः ॥ 6-110-31 (43870) वासुदेवं च विंशत्या ताडयामास संयुगे। ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् ॥ 6-110-32 (43871) दुःशासनं शतेनाजौ नाराचानां समार्पयत्। ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ 6-110-33 (43872) ` यथैव पन्नगा राजंस्तटाकं तृषितास्तथा।' दुःशासनस्त्रिभिः क्रुद्धः पार्थं विव्याध पत्रिभिः। ललाटे भरतश्रेष्ठ शरैः सन्नतपर्वभिः ॥ 6-110-34 (43873) ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवो रणे। यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ॥ 6-110-35 (43874) सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना। व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ॥ 6-110-36 (43875) दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः। पर्वणीव सुसंक्रुद्धो राहुः पूर्णं निशाकरम् ॥ 6-110-37 (43876) पीड्यमानो बलवता पुत्रस्तव विशांपते । विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥ 6-110-38 (43877) तस्य पार्थो धनुश्छित्वा रथं चास्य त्रिभिः शरैः । आजघान ततः पश्चात्पुत्रं ते निशितैः शरैः ॥ 6-110-39 (43878) सोऽन्यत्कार्मुकमादाय भीमस्य प्रमुखे स्थितः। अर्जुनं पञ्चाविंशत्या बाह्वोरुरसि चार्पयत् ॥ 6-110-40 (43879) तस्य क्रुद्धो महाराज पाण्डवः शत्रुतापनः । अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥ 6-110-41 (43880) अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव । यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ॥ 6-110-42 (43881) पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव । ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके ॥ 6-110-43 (43882) प्रेषयामास समरे स्वर्णपुङ्खाञ्छिलाशितान् । न्यमञ्जंस्ते महाराज तस्य काये महात्मनः ॥ 6-110-44 (43883) यथा हंसा महाराज तटाकं प्राप्य भारत। पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ॥ 6-110-45 (43884) हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाव्रजत्। अगाधे मञ्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥ 6-110-46 (43885) प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशांपते । अवारयत्ततः शूरो भूय एव पराक्रमी ॥ 6-110-47 (43886) शरैः सुनिशितैः पार्थं यथा वृत्रं पुरन्दरः। निर्बिभेद महाकायो विव्यथे नैव चार्जुनः ॥ ॥ 6-110-48 (43887) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे दशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-110-18 रभसं कृतोत्साहम् ॥ 6-110-24 प्रलयानिव इति पाठे प्रलयाकालीनानिव॥ 6-110-27 अद्भुतं अभूतपूर्वम् ॥ 6-110-31 यमशक्रौ इति पाठान्तरम् ॥ 6-110-41 अप्रैषीत्। उपसर्गात्पूर्वोऽडगामस्तु छान्दसः। एवमन्यत्रापि ॥ 6-110-46 द्वीप आश्रयः ॥
भीष्मपर्व - अध्याय 111

॥ श्रीः ॥

6.111. अध्यायः 111

Mahabharata - Bhishma Parva - Chapter Topics

द्वन्द्वयुद्धम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-111-0 (43888) सञ्जय उवाच। 6-111-0x (4226) सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे। आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥ 6-111-1 (43889) माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः । आजघान रणे राजन्प्रहसन्निव भारत ॥ 6-111-2 (43890) तथैव राक्षसो राजन्माधवं नवभिः शरैः । अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुङ्गवम् ॥ 6-111-3 (43891) शैनेयः शरसङ्घं तु प्रेषयामास संयुगे । राक्षसाय सुसंक्रुद्धो माधवः परवीरहा ॥ 6-111-4 (43892) ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् । विव्याध विशिखैस्तीक्ष्णैः सिंहनाद ननाद च ॥ 6-111-5 (43893) माधवस्तु भृशं विद्धो राक्षसेन रणे तदा। धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥ 6-111-6 (43894) भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः । ताडयामास समरे तोत्रैरिव महागजम् ॥ 6-111-7 (43895) विहाय राक्षसं युद्धे शैनेयो रथिनां वरः । प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥ 6-111-8 (43896) तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः । चिच्छेद शतधारेण भल्लेन कृतहस्तवत् ॥ 6-111-9 (43897) अथान्यद्धनुरादाय वेगवत्परवीरहा । भगदत्तं रणे क्रुद्धं विव्याध निशितैः शरैः ॥ 6-111-10 (43898) सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् । शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ॥ 6-111-11 (43899) यमदण्डोपमां घोरां चिक्षेप परमाहवे। तामापतन्तीं सहसा तस्य बाहुबलेरिताम् ॥ 6-111-12 (43900) सात्यकिः समरे राजन्द्विधा चिच्छेद सायकैः । ततः पपात सहसा सहोल्केव हतप्रभा ॥ 6-111-13 (43901) शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशांपते । महता रथवंशेन वारयामास माधवम् ॥ 6-111-14 (43902) तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्। दुर्योधनो भृशं क्रुद्धो भ्रातॄन्सर्वानुवाच ह ॥ 6-111-15 (43903) तथा कुरुत कौरव्या यथाः वः सात्यको युधि । न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ॥ 6-111-16 (43904) तस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् । तथेति च वचस्तस्य परिगृह्य महारथाः ॥ 6-111-17 (43905) शैनेयं योधयामासर्भीष्मायाभ्युद्यतं रणे। `अभिमन्युं तदाऽऽयान्तं भीष्मस्याभ्युद्यतं वधे।' काम्भोजराजो बलवान्वारयामास संयुगे ॥ 6-111-18 (43906) आर्जुनिं नृपतिर्विद्ध्वा शरैः सन्नतपर्वभिः। पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृप ॥ 6-111-19 (43907) सुदक्षिणस्तु समरे पुनर्विव्याध तं पञ्चभिः । सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥ 6-111-20 (43908) तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे। यदाभ्यधावद्गाङ्गेयं शिखण्डी शत्रुकर्शनः ॥ 6-111-21 (43909) विराटद्रुपदौ वृद्धौ वारयनतौ महाचमूम् । भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥ 6-111-22 (43910) अश्वत्थामा रणे क्रुद्धः समियाद्रथसत्तमः। ततः प्रववृते युद्धं तयोस्तस्य च भारत ॥ 6-111-23 (43911) विराटो दशभिर्भल्लैराजघान परंतप । यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥ 6-111-24 (43912) द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा। गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ ॥ 6-111-25 (43913) अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः। विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ ॥ 6-111-26 (43914) तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्। यद्द्रौणिसायकान्घोरान्प्रत्यवारयतां युधि ॥ 6-111-27 (43915) सहदेवं तथाऽऽयान्तं कृपः शारद्वतोऽभ्ययात्। यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥ 6-111-28 (43916) कृपश्च समरे शूरो माद्रीपुत्रं महारथम् । आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥ 6-111-29 (43917) तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः । अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥ 6-111-30 (43918) सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् । माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ॥ 6-111-31 (43919) आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् । तथैव पाण्डवो राजञ्छारद्वतममर्षणम् ॥ 6-111-32 (43920) आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया । तयोर्युद्धं समभवद्धोररूपं भयावहम् ॥ 6-111-33 (43921) नकुलं तु रणे क्रुद्धो विकर्णः शत्रुतापनः । विव्याध सायकैः षष्ट्या रक्षन्भीष्मं महाबलम् ॥ 6-111-34 (43922) नकुलोऽपि भृशं विद्धस्तव पुत्रेण धीमता। विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥ 6-111-35 (43923) तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ । अन्योन्यं जघ्नुतुर्वीरौ गोष्ठे गोवृषभाविव ॥ 6-111-36 (43924) घटोत्कचं रणे यान्तं निघ्नन्तं तव वाहिनीम् । दुर्मुखः समरे प्रायाद्भीष्यहेतोः पराक्रमी ॥ 6-111-37 (43925) हैडिम्बस्तु रणे राजन्दुर्मुखं शत्रुतापनम् । आजघानोरसि क्रुद्धः शरेणानतपर्वणा ॥ 6-111-38 (43926) भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः। षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥ 6-111-39 (43927) धृष्टद्युम्नं तथाऽऽयान्तं भीष्मस्य वधकाङ्क्षिणम् । हार्दिक्यो वारयामास रथश्रेष्ठं महारथः ॥ 6-111-40 (43928) हार्दिक्यः पार्षतं चापि विद्ध्वा पञ्चभिरायसैः । पुनः पञ्चाशता तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥ 6-111-41 (43929) आजघान महाबाहुः पार्षतं तं महारथम् । तं चैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः ॥ 6-111-42 (43930) विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्नगैः । तयोः समभवद्युद्धं भीष्महेतोर्महाहवे ॥ 6-111-43 (43931) अन्योन्यातिशये युक्तं यथा वृत्रमहेन्द्रयोः । भीमसेनं तथाऽऽयान्तं भीष्मं प्रति महारथम् ॥ 6-111-44 (43932) भूरिश्रवाभ्ययात्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् । सौमदत्तिरथो भीममाजघान स्तनान्तरे ॥ 6-111-45 (43933) नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे। उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् ॥ 6-111-46 (43934) स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम। तौ शरान्सूर्यसंकाशान्कर्मारपरिमार्जितान् ॥ 6-111-47 (43935) अन्योन्यस्य रणे क्रुद्धौ चिक्षिपते नरर्षभौ । भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् ॥ 6-111-48 (43936) तथा भीष्मजये गृध्नुः सौमदत्तिस्तू पाण्डवम् । कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥ 6-111-49 (43937) युधिष्ठिरं तु कौन्तेयं महत्या सेनया वृत्तम्। भीष्माभिमुखमायान्तं भारद्वाजो न्यवारयत् ॥ 6-111-50 (43938) द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् । श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥ 6-111-51 (43939) सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे। द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥ 6-111-52 (43940) चेकितान रणे यत्तं भीष्मं प्रति जनेश्वर । चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥ 6-111-53 (43941) भीष्महेतोः पराक्रान्तश्चित्रसेनः पराक्रमी । चेकितानं परं शक्त्या योधयामास भारत ॥ 6-111-54 (43942) तथैव चेकितानोऽपि चित्रसेनमवारयत् । तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे ॥ 6-111-55 (43943) अर्जुनो वार्यमाणस्तु बहुशस्तत्र भारत । विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह ॥ 6-111-56 (43944) दुःशासनोऽपि परया शक्त्या पार्थमवारयत्। कथं भीष्मं न नो हन्यादिति निश्चित्य भारत ॥ 6-111-57 (43945) सा वध्यमाना समरे पुत्रस्य तव वाहिनी । लोड्यते रथिभिः श्रेष्ठैस्तत्रतत्रैव भारत ॥ ॥ 6-111-58 (43946) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशदिवसयुद्धे एकादशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-111-58 लोड्यते आकुलीक्रियते ॥
भीष्मपर्व - अध्याय 112

॥ श्रीः ॥

6.112. अध्यायः 112

Mahabharata - Bhishma Parva - Chapter Topics

द्रोणेनाश्वत्थामानंप्रति दुर्निमित्तप्रदर्शपूर्वकं युद्धानुशासनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-112-0 (43947) सञ्जय उवाच। 6-112-0x (4227) अथ वीरो महेष्वासो मत्तवारणविक्रमः। समादाय महच्चापं मत्तवारणवारणम् ॥ 6-112-1 (43948) विधुन्वानो नरश्रेष्ठो द्रावयाणो वरूथिनीम् । पृतनां पाण्डवेयानां गाहमानो महाबलः ॥ 6-112-2 (43949) निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् । प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥ 6-112-3 (43950) द्रोण उवाच। 6-112-4x (4228) अयं हि दिवसस्तात यत्र पार्थो महाबलः। जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥ 6-112-4 (43951) उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च । योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्तते मनः ॥ 6-112-5 (43952) दिक्ष्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः । नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥ 6-112-6 (43953) नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः । रसते व्यथते भूमिः कम्पतीव च सर्वशः ॥ 6-112-7 (43954) कङ्कगृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः । शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद्भयम् ॥ 6-112-8 (43955) पपात महती चोल्का मध्येनादित्यमण्डलात्। सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥ 6-112-9 (43956) परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्। वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥ 6-112-10 (43957) देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः । कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥ 6-112-11 (43958) अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम् । अवाक्शिराश्च भगवानुपातिष्ठत चन्द्रकमाः ॥ 6-112-12 (43959) वपूंषि च नरेन्द्राणां विगताभानि लक्षये । धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताःक ॥ 6-112-13 (43960) सेनयोरुभयोश्चापि समन्ताच्छ्रूयते महान्। पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः ॥ 6-112-14 (43961) ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे। अपास्यान्यान्रणे योधानभ्येष्यति पितामहम् ॥ 6-112-15 (43962) हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः । चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥ 6-112-16 (43963) तं चेह निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् । पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः॥ 6-112-17 (43964) अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् । स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥ 6-112-18 (43965) असंकल्पध्वजश्चैव याज्ञसेनिर्महाबलः । न चामङ्गलिके तस्मिन्प्रहरेदापगासुतः ॥ 6-112-19 (43966) एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् । अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥ 6-112-20 (43967) युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसंगतः । मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम् ॥ 6-112-21 (43968) मनस्वी बलवाञ्शूरः कृतास्त्रोऽलघुविक्रमः । दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥ 6-112-22 (43969) अजेयः समरे चापि देवैरपि सवासवैः । बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ॥ 6-112-23 (43970) विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः । 6-112-24b`अभ्युद्यतं रणे दृष्ट्वा भैरवास्त्रं च पाण्डवम् ।' तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रत ॥ 6-112-24 (43971) पश्याद्यैतन्महाघोरे संयुगे वैशसं महत्। हेमचित्राणि शूरणां महान्ति च शुभानि च ॥ 6-112-25 (43972) कवचान्यवदीर्यन्ते शरैः सन्नतपर्वभिः । छिद्यन्ते च ध्वजाग्राणि तोमराश्च धनूंषि च ॥ 6-112-26 (43973) प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः । वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना ॥ 6-112-27 (43974) नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः । याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ॥ 6-112-28 (43975) रथनागहयावर्तां महाघोरां सुदुर्गमाम् । रथेन संग्रामनदीं तरत्येष कपिध्वजः ॥ 6-112-29 (43976) ब्रह्मण्यता दमो दानं तपश्च चरितं महत्। इहैव दृश्यते पार्थे भ्राता यस्य धनञ्जयः ॥ 6-112-30 (43977) भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ । वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥ 6-112-31 (43978) तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः । तपोभावितदेहस्य कोपो दहति वाहिनीम् ॥ 6-112-32 (43979) एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः । दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ॥ 6-112-33 (43980) एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना । महोर्मिनद्धं सुमहत्तिमिनेव महाजलम् ॥ 6-112-34 (43981) हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे । याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ॥ 6-112-35 (43982) दुर्गमं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः । समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥ 6-112-36 (43983) सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ । पर्यरक्षन्त राजानं यमौ च मनुजेश्वरम् ॥ 6-112-37 (43984) उपेन्द्रसदृशश्यामो महाशाल इवोद्गतः । एष गच्छत्यनीकाग्रे द्वितीय इव फल्गुनः ॥ 6-112-38 (43985) उत्तमास्त्राणि चाधत्स्व गृहीत्वा च महद्धनुः । पार्षतं याहि राजानं युध्यस्व च वृकोदरम् ॥ 6-112-39 (43986) को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः । क्षत्रधर्मं तु संप्रेक्ष्य ततस्त्वां नियुनज्म्यहम् ॥ 6-112-40 (43987) एष चातिरणे भीष्मो दहते वै महाचमूम् । युद्धेषु सदृशस्तात यमस्य वरुणस्य च ॥ 6-112-41 (43988) सञ्जय उवाच। 6-112-42x (4229) पुत्रं समनुशास्यैवं भारद्वाजः प्रतापवान्। महारणे महाराज धर्मराजमयोधयत् ॥ ॥ 6-112-42 (43989) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे द्वादशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-112-6 घोराणि भयंकराणि । अशान्तानि अनुपरतानि॥ 6-112-7 रसते शब्दायते। व्यथते बिभेतीव कम्पत इव च ॥ 6-112-12 अलक्ष्माणं प्रचण्डलक्षणलक्षितम् । अवाक्शिरा अधोमुखकोटिद्वयः ॥ 6-112-15 आस्थाय आलम्ब्य ॥ 6-112-21 अस्त्रसमारम्भः उद्यममात्रं नतु पूर्ववदस्त्राणामुपस्थितिः ॥ 6-112-28 हे पुत्र उपजीविभिरनुगतैः ॥ 6-112-30 पार्थए युधिष्ठिरे ॥ 6-112-32 तस्य धर्मस्य। मन्युर्दैन्यम्। भारतीमिति पाठे सेनामिति शेषः ॥
भीष्मपर्व - अध्याय 113

॥ श्रीः ॥

6.113. अध्यायः 113

Mahabharata - Bhishma Parva - Chapter Topics

भीमसेनपराक्रमवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-113-0 (43990) सञ्जय उवाच। 6-113-0x (4230) भगदत्तः कृपः शल्यः कृतवर्ता तथैव च। विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥ 6-113-1 (43991) चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा। दशैते तावका योधा भीमसेनमयोधयन् ॥ 6-113-2 (43992) महत्या सेनया युक्ता नानादेशसमुत्थया । भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ॥ 6-113-3 (43993) शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् । कृतवर्मा त्रिभिर्भाणैः कृपश्च नवभिः शरैः ॥ 6-113-4 (43994) चित्रसेनो विकर्णश्च भगदत्तश्च मारिष । दशभिर्दशभिर्बाणैर्भीमसेनमताडयन् ॥ 6-113-5 (43995) सैन्धवश्च त्रिभिर्बाणैर्भीमसेनमडायत् । विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ॥ 6-113-6 (43996) दुर्मर्षणस्तु विंशत्या पाण्डवं निशितैः शरैः। स तान्सर्वान्महाराज राजमानान्पृथक्पृथक् ॥ 6-113-7 (43997) प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् । जघान समरे वीरः पाण्डवः परवीरहा ॥ 6-113-8 (43998) सप्तभिः शल्यमाविध्यत्कृतवर्माणमष्टभिः । कृपस्य सशरं चापं मध्ये चिच्छेद भारत ॥ 6-113-9 (43999) अथैनं च्छिन्नधन्वानं पुनर्विव्याध सप्तभिः । विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् ॥ 6-113-10 (44000) दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः । विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् ॥ 6-113-11 (44001) विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः । अथान्यद्धनुरादाय गौतमो रथिनां वरः ॥ 6-113-12 (44002) भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः। स विद्धो दशभिर्बाणैस्तोत्रैरिव महाद्विपः ॥ 6-113-13 (44003) ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् । गौतमं ताडयामास शरैर्बहुभिराहवे ॥ 6-113-14 (44004) सैन्धवस्य तथाऽश्वांश्च सारथिं च त्रिभिः शरैः । प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥ 6-113-15 (44005) हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः । शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥ 6-113-16 (44006) तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद मारिष । भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥ 6-113-17 (44007) स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥ 6-113-18 (44008) अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः । महारथाञ्शरैर्विद्ध्वा वारयित्वा च मारिष ॥ 6-113-19 (44009) विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः । तदा न ममृषे शल्यो भीमसेस्य विक्रमम् ॥ 6-113-20 (44010) स संधाय शरांस्तीक्ष्णान्करमारपरिमार्जितान् । भीमं विव्याध समरे तिष्ठितिष्ठेति चाब्रवीत् ॥ 6-113-21 (44011) कृपश्च कृतवर्माच भगदत्तश्च वीर्यवान् । विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥ 6-113-22 (44012) दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान्। भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः ॥ 6-113-23 (44013) स च तान्प्रति विव्याध पञ्चभिः पञ्चभिः शरैःक । शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥ 6-113-24 (44014) तं शल्यो नवभिर्भित्त्वा पुनर्विव्याध पञ्चभिः । सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥ 6-113-25 (44015) विशोकं प्रेक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् । मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरुसि चार्पयत् ॥ 6-113-26 (44016) तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः । ताजयामास समरे सिंहवाद्विननाद च ॥ 6-113-27 (44017) ते हि यत्ता महेष्वासाः पाण्डवं युद्धकोविदम् । त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥ 6-113-28 (44018) सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे । पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥ 6-113-29 (44019) स तु क्रोधसमाविष्टः पाण्डवानां महारथः । मद्रेश्वरं त्रिभिर्बाणैर्भृशं विद्ध्वा महायशाः ॥ 6-113-30 (44020) कृपं च नवभिर्बाणैर्भृशं विद्ध्वा समन्ततः । प्रग्ज्योतिषं शतैराजौ राजन्विव्याध सायकैः ॥ 6-113-31 (44021) ततस्तु सशरं चापं सात्वतस्य महात्मनः । क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥ 6-113-32 (44022) तथान्यद्धनुरादाय कृतवर्मा वृकोदरम् । आजघान भ्रुवोर्मध्ये नाराचेन परंतपः ॥ 6-113-33 (44023) भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः । भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥ 6-113-34 (44024) द्वाभ्यां द्वाभ्यां तु विव्याध गौतमप्रभृतीन्रथान् । तेऽपि तं समरे राजन्विव्यधुर्निशितैः शरैः ॥ 6-113-35 (44025) स तथा पीड्यमानोऽपि सर्वशस्त्रैर्महारथैः । मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥ 6-113-36 (44026) ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् । प्रेषयामासुरव्याग्राः शतशोऽथ सहस्रशः ॥ 6-113-37 (44027) तस्य शक्तिं महावेगां भगदत्तो महारथः। चिक्षेप समरे वीरः स्वर्णदण्डां महमते ॥ 6-113-38 (44028) तोमरं सैन्धवो राजा पट्टसं च महाभुजः । शतघ्नीं च कृपो राजञ्छरं शल्यश्च संयुगे ॥ 6-113-39 (44029) अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् । भीमसेनं समुद्दिश्य प्रेषयमासुरोजसा ॥ 6-113-40 (44030) तोमरं च द्विधा चक्रे क्षुरप्रेणानिलात्मजः । पट्टसं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥ 6-113-41 (44031) स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः । मद्रराजप्रयुक्तं च शरं छित्त्वा महारथः ॥ 6-113-42 (44032) शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे। तथेतराञ्शरान्घोराञ्शरैः सन्नतपर्वभिः ॥ 6-113-43 (44033) भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत्। तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥ 6-113-44 (44034) ततो धनञ्जयस्तत्र वर्तमाने महारणे । आजगाम रथेनाजौ भीमं दृष्ट्वा महारथम् ॥ 6-113-45 (44035) निघ्नन्तं समरे शत्रून्योधयानं च सायकैः । तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ ॥ 6-113-46 (44036) न शशंसुर्जयं तत्र तावकाः पुरुषर्षभाः । अथार्जुनो रणे भीमं योधयन्तं महारथान् ॥ 6-113-47 (44037) भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम्। आससाद रणे वीरांस्तावकान्दश भारत ॥ 6-113-48 (44038) ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः। बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥ 6-113-49 (44039) ततो दुर्योधनो राजा सुशर्माणमचोदयत् । अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥ 6-113-50 (44040) सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः । जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ॥ 6-113-51 (44041) तच्छ्रुत्वा वचनं तस्य त्रैगर्तः प्रस्थलाधिपः । अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥ 6-113-52 (44042) रथैरनेकसाहस्रैः समन्तात्पर्यवारयत् । ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥ ॥ 6-113-53 (44043) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे त्रयोदशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-113-21 कर्मारं शस्त्रोल्लेखनयन्त्रम् ॥ 6-113-32 सात्वतस्य कृतवर्मणः ॥
भीष्मपर्व - अध्याय 114

॥ श्रीः ॥

6.114. अध्यायः 114

Mahabharata - Bhishma Parva - Chapter Topics

भीमार्जुनपराक्रमवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-114-0 (44044) सञ्जय उवाच। 6-114-0x (4231) अर्जुनस्तु रणे शल्यं यतमानं महारथम्। छादयामास समरे शरैः सन्नतपर्वभिः ॥ 6-114-1 (44045) सुशर्माणं कृपं चव त्रिभीस्त्रिभिरविध्यत। प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥ 6-114-2 (44046) चित्रसेनं विकर्णं च कृतवर्माणमेव च । दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ ॥ 6-114-3 (44047) एकैकं त्रिभिरानर्च्छत्कङ्कबर्हिणवाजितैः । शरैरतिरथो युद्धे पीडयन्वाहिनीं तव॥ 6-114-4 (44048) जयद्रथो रणे पार्थं विद्ध्वा भारत सायकैः । भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥ 6-114-5 (44049) शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः ॥ विव्याधाते महाराज बहुधा मर्ममेदिभिः ॥ 6-114-6 (44050) चित्रसेनादयश्चैव पुत्रास्तव विशांपते । पञ्चाभिः पञ्चभिस्तूर्णं सुंयुगे निशितैः शरैः ॥ 6-114-7 (44051) आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष । तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ ॥ 6-114-8 (44052) अपीडयेतां समरे त्रिगर्तानां महद्बलम् । सुशर्माणि रणे पार्थं शरैर्नवभिराशुगैः ॥ 6-114-9 (44053) ननाद बलवन्नादं त्रासयानो महद्बलम् । अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ ॥ 6-114-10 (44054) विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः । तेषां च रथिनां मध्ये कौन्तेयौ भरतर्षभौ ॥ 6-114-11 (44055) क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम् । आमिषेप्सू गवां मध्ये सिंहाविव मदोत्कटौ ॥ 6-114-12 (44056) छित्त्वा धनूंषि शूराणां शरांश्च बहुधा रणे । पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥ 6-114-13 (44057) रथाश्च बहवो भग्ना हयाश्च शतशो हताः। गजाश्च सगजारोहाः पेतुरुर्व्यां महाहवे ॥ 6-114-14 (44058) रथिनः सादिनश्चापि तत्रतत्र निषूदिताः। दृश्यन्ते बहवो राजन्वेषमानाः समन्ततः ॥ 6-114-15 (44059) हतैर्गजपदात्योघैर्वाजिभिश्च निषूदितैः। रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥ 6-114-16 (44060) छत्रैश्च बहुधा च्छिन्नैर्ध्वजैश्च विनिपातितैः । अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥ 6-114-17 (44061) केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा । उष्णीषैर्ऋष्टिभिश्चैव चामरव्यजनैरपि ॥ 6-114-18 (44062) तत्रतत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः । ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥ 6-114-19 (44063) तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् । शरैः संवार्य तान्वीरान्यज्जघान महाबलः ॥ 6-114-20 (44064) पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनपराक्रमम् । गाङ्गेयस्य रथाभ्याशमुपजग्मे महाबलः ॥ 6-114-21 (44065) कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः । विन्दानुविन्दावावन्त्यौ नाजहुः संयुगं तदा ॥ 6-114-22 (44066) ततो भीमो महेष्वासः फल्गुनश्च महारथः । कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ॥ 6-114-23 (44067) ततो बर्हिणवाजानामयुतान्यर्बुदानि च। धनञ्जयरथे तूर्णं पातयन्ति स्म भूमिपाः ॥ 6-114-24 (44068) ततस्तञ्शरजालेन सन्निवार्य महारथान् । पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ॥ 6-114-25 (44069) शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः । आजघानोरसि क्रुद्धो भल्लैः सन्नतपर्वभिः ॥ 6-114-26 (44070) तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः । अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥ 6-114-27 (44071) अथान्यद्धनुरादाय समरे भारसाधनम् । मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥ 6-114-28 (44072) त्रिभिः शरैर्महाराज वासुदेवं कच पञ्चभिः । भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥ 6-114-29 (44073) ततो द्रोणो महाराज मागधश्च महारथः । दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः॥ 6-114-30 (44074) यत्र पार्थो महाराज भीमसेनश्च पाण्डवः । कौरव्यस्य महासेनां जघ्नुतुः सुमहारथौ ॥ 6-114-31 (44075) जयत्सेनस्तु समरे भीमं भीमायुधं युधि। विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥ 6-114-32 (44076) तं भीमो दशभिर्विद्धा पुनर्वीव्याध पञ्चभिः । सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 6-114-33 (44077) उद्भ्रांतैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः । मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः ॥ 6-114-34 (44078) द्रोणश्च विवरं दृष्ट्वा भीमसेनं शिलीमुखैः । विव्याध बाणैर्निशितैः पञ्चषष्टिभिरायसैः ॥ 6-114-35 (44079) तं भीमः समरश्लाघी गुरुं पितृसमं रणे। विव्याध पञ्चभिर्भल्लैस्तथा षष्ट्या च भारत ॥ 6-114-36 (44080) अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः। व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथाऽनिलः ॥ 6-114-37 (44081) ततो भीष्मश्च राज च कौसल्यश्च बृहद्बलः । समवर्तन्त संक्रुद्धा भीमसेनधनञ्जयौ ॥ 6-114-38 (44082) तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः । अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥ 6-114-39 (44083) शिखण्डी तु समासाद्य भरतानां पितामहम् । अभ्यद्रवत संहृष्टो भयं त्यक्त्वा महारथात् ॥ 6-114-40 (44084) युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् । अयोधयन्रणे भीष्मं सहिताः सर्वसृञ्जयैः ॥ 6-114-41 (44085) तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् । शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ 6-114-42 (44086) ततः प्रववृते युद्धं कौरवाणां भयावहम्। तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥ 6-114-43 (44087) तावकानां जये भीष्मो ग्लह आसीद्विशांपते । तत्र हि द्यूतमासक्तं विजयायेतराय वा ॥ 6-114-44 (44088) धृष्टद्युम्नस्तु राजेन्द्र सर्वसैन्यान्यचोदयत्। अभ्यद्रवत गाङ्गेयं मा भैष्ट रथसत्तमाः ॥ 6-114-45 (44089) सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी । भीष्मं समभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥ 6-114-46 (44090) भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् । आपतन्तीं महाराज वेलामिव महोदधिः ॥ ॥ 6-114-47 (44091) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे चतुर्दशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-114-24 बर्हिणवाजानां मयूरपक्षवतां बाणानाम् ॥ 6-114-30 मागधो जयत्सेनः ॥ 6-114-34 अपसृतः पलायितः ॥
भीष्मपर्व - अध्याय 115

॥ श्रीः ॥

6.115. अध्यायः 115

Mahabharata - Bhishma Parva - Chapter Topics

युद्धे विरक्तेन भीष्मेण युधिष्ठिरंप्रति स्ववधोद्यमचोदना ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-115-0 (44092) धृतराष्ट्र उवाच। 6-115-0x (4232) कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय। अयुध्यत महावीर्यः पाण्डवैः सह सृज्जयैः ॥ 6-115-1 (44093) कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्। आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ॥ 6-115-2 (44094) सञ्जय उवाच। 6-115-3x (4233) कुरवः पाण्डवैः सार्धं यदयुध्यन्त भारत। यथा च तदभूद्युद्धं तत्तु वक्ष्यामि सांप्रतम् ॥ 6-115-3 (44095) गमिताः परलोकाय परमास्त्रैः किरीटिना । अहन्यहनि संप्राप्ते तावकानां महारथाः ॥ 6-115-4 (44096) यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः । पार्थानामकरोद्भीष्मः सततं समिति क्षयम् ॥ 6-115-5 (44097) कुरुभिः सहितं भीष्मं युध्यमानं परंतप । अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ॥ 6-115-6 (44098) दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे । अवर्तत महारौद्रः सततं समिति क्षयः ॥ 6-115-7 (44099) तस्मिन्नयुतशो राजन्भूयशश्च परंतपः । भीष्मः शान्तनवो योधाञ्जघान परामास्त्रवित् ॥ 6-115-8 (44100) येषामज्ञातकल्पानि नामगोत्राणि पार्थिव । ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ॥ 6-115-9 (44101) दशाहानि तथा तप्त्वा भीष्मः पाण्डववाहिनीम् । निरविद्यत धर्मात्मा जीविते स परंतपः ॥ 6-115-10 (44102) स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिसुखं रणे। न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति ॥ 6-115-11 (44103) चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव । अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ॥ 6-115-12 (44104) भीष्म उवाच। 6-115-13x (4234) युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद । शृणुष्व वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ॥ 6-115-13 (44105) निर्विष्णोऽस्मि भृशं तात देहेनानेन भारत । घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ॥ 6-115-14 (44106) तस्मात्पार्थं पुरोधाय पाञ्चालान्सृज्जयांस्तथा । मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ॥ 6-115-15 (44107) सञ्जय उवाच। 6-115-16x (4235) तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः । भीष्मं प्रति ययौ राजा संग्रामे सह सृञ्जयैः ॥ 6-115-16 (44108) धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः । श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ॥ 6-115-17 (44109) अभिद्रवध्यं युद्ध्यध्वं भीष्मं जयत संयुगे । रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ॥ 6-115-18 (44110) अयं चापि महेष्वासः पार्षतो वाहिनीपतिः । भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ॥ 6-115-19 (44111) मा वो भीष्माद्भयं किंचिदस्त्वद्य युधि सृञ्जयाः। ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ॥ 6-115-20 (44112) ते तथा समयं कृत्वा दशमेऽहनि पाण्डवाः। ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्च्छिताः ॥ 6-115-21 (44113) शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् । भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥ 6-115-22 (44114) ततस्त्व सुतादिष्टा नानाजनपदेश्वराः। द्रोणेन सहपुत्रेण सहसेना महाबलाः ॥ 6-115-23 (44115) दुःशासनश्च बलवान्सह सर्वैः सहोदरैः । भीष्मं समरमध्यस्थं पालयांचक्रिरे तदा ॥ 6-115-24 (44116) ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम्। शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ 6-115-25 (44117) चेदिभिस्तु सपाञ्चालैः सहितो वानरध्वजः । ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ॥ 6-115-26 (44118) द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् । अभिमन्युः सहामात्यं दुर्योधमयोधयत् ॥ 6-115-27 (44119) विराटस्तु सहानीकः सहसेनं जयद्रथम् । वृद्धक्षत्रस्य दायादमाससाद परंतप ॥ 6-115-28 (44120) मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः । भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत् ॥ 6-115-29 (44121) अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् । द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः ॥ 6-115-30 (44122) कर्णिकारध्वजं चैव सिंहकैतुररिंदमः । प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ॥ 6-115-31 (44123) शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् । राजभिः समरे पार्थमभिपेतुर्जिघांसवः ॥ 6-115-32 (44124) तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे । संप्रधावत्स्वनीकेषु मेदिनी समकम्पत ॥ 6-115-33 (44125) तान्यनीकान्यनीकेषु समयुध्यन्त भारत । तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ॥ 6-115-34 (44126) ततस्तेषां प्रयततामन्योन्यमभिधावताम् । प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत ॥ 6-115-35 (44127) शङ्खदुन्दुभिघोषश्च वारणानां च बृंहितैः । सिंहनादश्च सैन्यानां दारुणः समपद्यत ॥ 6-115-36 (44128) सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा । हाराङ्गदकिरीटेषु निष्प्रभा समपद्यत ॥ 6-115-37 (44129) रजोमेघास्तु संजज्ञुः शस्त्रविद्युद्भिरावृताः । धनुषां चापि निर्घोषो दारुणः समपद्यत ॥ 6-115-38 (44130) बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः । रथघोषश्च संजज्ञे सेनयोरुभयोरपि ॥ 6-115-39 (44131) प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् । निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ॥ 6-115-40 (44132) अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे । कुञ्जरान्कुञ्जरा जघ्नुः पादातांश्च पदातयः ॥ 6-115-41 (44133) तत्रासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह। भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ॥ 6-115-42 (44134) तयोः समागमो घोरो बभूव युधि भारत। अन्योन्यस्य वधार्थाय जिगीषूणां महाहवे ॥ ॥ 6-115-43 (44135) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे पञ्चादशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-115-10 निरविद्यत निर्वेदं जगाम ॥ 6-115-14 निर्विण्यो विरक्तः ॥ 6-115-21 ब्रह्मलोकपराः बृहत्त्वान्महान्तं लोकं प्रति यतमानाः ॥
भीष्मपर्व - अध्याय 116

॥ श्रीः ॥

6.116. अध्यायः 116

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-116-0 (44136) सञ्जय उवाच। 6-116-0x (4236) अभिमन्युर्महाराज तव पुत्रमयोधयत्। महत्या सेनया युक्तं भीष्महेतोः पराक्रमी ॥ 6-116-1 (44137) दुर्योधनो रणे कार्षिं नवभिर्नतपर्वभिः। आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥ 6-116-2 (44138) तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम्। प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ॥ 6-116-3 (44139) तामापतन्तीं सहसा घोररूपां विशांपते । द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥ 6-116-4 (44140) तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः । दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 6-116-5 (44141) पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे । दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥ 6-116-6 (44142) तद्युद्धमभवद्धोरं चित्ररूपं च भारत। ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम् ॥ 6-116-7 (44143) भीष्मस्य निधनार्थाय पार्थस्य विजयाय च। युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ॥ 6-116-8 (44144) सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः । आजघानोरसि क्रुद्धो नाराचेन परंतपः ॥ 6-116-9 (44145) शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत। अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥ 6-116-10 (44146) अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः । त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥ 6-116-11 (44147) सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्यकिः । द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥ 6-116-12 (44148) पौरवो धृष्टकेतुं च शरैराच्छाद्य संयुगे । बहुधा दारयांचक्रे महेष्वासं महारथः ॥ 6-116-13 (44149) तथैव पौरवं युद्धे धृष्टकेतुर्महारथः। त्रिंशता निशितैर्बाणैर्विव्याधाशु महाभुजः ॥ 6-116-14 (44150) पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः । ननाद बलवन्नादं विव्याध च शितैः शरैः ॥ 6-116-15 (44151) सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः । आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥ 6-116-16 (44152) तौ तु तत्र महेष्वासौ महामात्रौ महारथौ । महता शरवर्षेण परस्परमवर्षताम् ॥ 6-116-17 (44153) अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत। विरथावसियुद्धाय समीयतुरमर्षणौ ॥ 6-116-18 (44154) आर्षभे चर्मणी चित्रे शतचन्द्रपुरस्कृते । तारकाशतचित्रे च निस्त्रिंशौ सुमहाप्रभौ ॥ 6-116-19 (44155) प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ । वासितासंगमे यत्तौ सिंहाविव महावने ॥ 6-116-20 (44156) मण्डलानि विचित्राणि गतप्रत्यागतानि च। चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥ 6-116-21 (44157) पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना । ताडयामास संक्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 6-116-22 (44158) चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् । आजघान शिताग्रेण जत्रुदेशे महासिना ॥ 6-116-23 (44159) तावन्योन्यं महाराज समासाद्य महाहवे । अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥ 6-116-24 (44160) ततः स्वरथमारोप्य पौरवं तनयस्तव । जयत्सेनो रथेनाजावपोवाह रणाजिरात् ॥ 6-116-25 (44161) धृष्टकेतु तु समरे माद्रीपुत्रः प्रतापवान् । अपोवाह रणे क्रुद्धः सहदेवः पराक्रमी ॥ 6-116-26 (44162) चित्रसेनः सुशर्माणं विद्ध्वा बहुभिरायसैः । पुनर्विव्याध तं षष्ट्या पुनश्च नवभि शरैः ॥ 6-116-27 (44163) सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशांपते । दशमिर्दशभिश्चैव विव्याध निशितैः शरैः ॥ 6-116-28 (44164) चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वभिः । आजघान रमे क्रुद्धः स च तं प्रत्यविध्यत ॥ 6-116-29 (44165) भीष्मस्य समरे राजन्यशो मानं च वर्धयन् । सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ॥ 6-116-30 (44166) पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति। आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ॥ 6-116-31 (44167) पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः । सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः ॥ 6-116-32 (44168) नाकम्पयत संग्रामे विव्याध च पुनः शरैः । कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः ॥ 6-116-33 (44169) आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः । सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ॥ 6-116-34 (44170) फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः । तयोर्युद्धं समभवद्भीष्महेतोः परंतप ॥ 6-116-35 (44171) संरब्धयोर्महाराज समरे चित्रयोधिनोः । यथा देवासुरे युद्धे बलिवासवयोरभूत् ॥ 6-116-36 (44172) भीमसेनो गजानीकं योधयन्बह्वशोभत । यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥ 6-116-37 (44173) ते वध्यमाना भीमेन मात्गा गिरिसन्निभाः । निपेतुरुर्व्यां सहिता नादयन्तो वसुधराम् ॥ 6-116-38 (44174) गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः । विरेजुर्वसुधां प्राप्ता विकीर्णा इव पर्वताः ॥ 6-116-39 (44175) युधिष्ठिरो महेष्वासो मद्रराजानमाहवे । महत्या सेनया गुप्तं पीडयामास संगतम् ॥ 6-116-40 (44176) मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् । पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥ 6-116-41 (44177) विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः । नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरार्पयत् ॥ 6-116-42 (44178) विराटश्च महाराज सैन्धवं वाहिनीपतिः । त्रिंशद्भिर्निशितैर्बाणैराजघान स्तनान्तरे ॥ 6-116-43 (44179) चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ । रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ॥ 6-116-44 (44180) द्रोणः पाञ्चालपुत्रेण समागम्य महारणे । महासमुदयं चक्रे शरैः सन्नतपर्वभिः ॥ 6-116-45 (44181) ततो द्रोणो महाराज पार्षतस्य महद्धनुः । छित्त्वा पञ्चाशतेषूंश्च पार्षतं प्रति सृष्टवान् ॥ 6-116-46 (44182) सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा। द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥ 6-116-47 (44183) ताञ्छराञ्छरघातेन चिच्छेद स महारथः । द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥ 6-116-48 (44184) ततः क्रुद्धो महाराज पार्षतः परवीरहा । द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥ 6-116-49 (44185) तामापतन्तीं सहसा हेमपट्टविभूषिताम्। शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥ 6-116-50 (44186) सा छिन्ना बहुधा राजन्द्रोगचापच्युतैः शरैः । चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥ 6-116-51 (44187) गदां विनिहतां दृष्ट्वा पार्षतः शत्रुतापनः । द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥ 6-116-52 (44188) तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत। पार्षतं च महेष्वासं पीजयामास संयुगे ॥ 6-116-53 (44189) एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत्। भीष्मं प्रति महाराज घोररूपं भयानकम् ॥ 6-116-54 (44190) अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः । अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम् ॥ 6-116-55 (44191) प्रत्युद्ययौ च तं राजा भगदत्तः प्रतापवान् । त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥ 6-116-56 (44192) तमापतन्तं सहसा महेन्द्रगजसन्निभम् । परं यत्नं समस्थाय बीभत्सुः प्रत्यपद्यत ॥ 6-116-57 (44193) ततो गजगतो राजा भगदत्तः प्रतापवान् । अर्जुनं शरवर्षेण वारयामास संयुगे ॥ 6-116-58 (44194) अर्जुनस्तु ततो नागमायान्तं रजतोपमैः । विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥ 6-116-59 (44195) शिखण्डिनं च कौन्तेयो याहियाहीत्यचोदयत्। भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥ 6-116-60 (44196) प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज। प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥ 6-116-61 (44197) ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम्। शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत । 6-116-62 (44198) ततस्ते तावकाः शूराः पाण्डवं रभसं युधि । समभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥ 6-116-63 (44199) नानाविधान्यनीकानि पुत्राणां ते जनाधिप । अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ 6-116-64 (44200) शिखण्डी तु समासाद्य भरतानां पितामहम्। इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥ 6-116-65 (44201) रथाग्न्यगारश्चापार्चिरशिशक्तिगदेन्धनः । शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् ॥ 6-116-66 (44202) यथाऽग्निः सुमहानिद्धः कक्षे चरति सानिलः। तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥ 6-116-67 (44203) सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् । न्यवारयत तत्सैन्यं पाण्डवस्य महारथः ॥ 6-116-68 (44204) सुवर्णपुङ्खैरिषुभिः शितैः सन्नतपर्वभिः । नादयन्स दिशो भीष्मः प्रदिशश्च महाहवे ॥ 6-116-69 (44205) पातयन्रथिनो राजन्हयांश्च सह सादिभिः । मुण्डतालवनानीव चकार स रथव्रजान् ॥ 6-116-70 (44206) निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे । चकार समरे भीष्मः सर्वशस्त्रभृतां वरः ॥ 6-116-71 (44207) तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥ 6-116-72 (44208) अघोमा न्यपतन्बाणाः पितुस्ते मनुजेश्वर । नासञ्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥ 6-116-73 (44209) निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः । वातायमानानद्राक्षं ध्रियमाणान्विशांपते ॥ 6-116-74 (44210) चेदिकाशिकरूशानां सहस्राणि चतुर्दश । महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ 6-116-75 (44211) अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः । संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ॥ 6-116-76 (44212) जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम्। न तत्रासीद्रणे राजन्सोमकानां महारथः ॥ 6-116-77 (44213) यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे । तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति ॥ 6-116-78 (44214) नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् । न कश्चिदेनं समरे प्रत्युद्याति महारथः ॥ 6-116-79 (44215) ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् । शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥ ॥ 6-116-80 (44216) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे षोडशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-116-27 चित्रसेन इति। पाण्डवपक्षीयः सुशर्मायमपरो वार्धक्षेमिर्नतु त्रैगर्तः ॥ 6-116-45 समुदयं संग्रामम्। भवेत्समुदयः सङ्घे संयुगे च समुद्रमे इति मेदिनी ॥
भीष्मपर्व - अध्याय 117

॥ श्रीः ॥

6.117. अध्यायः 117

Mahabharata - Bhishma Parva - Chapter Topics

संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-117-0 (44217) सञ्जय उवाच। 6-117-0x (4237) शिखण्डी तु रणे भीष्ममासाद्य पुरुषर्षभम् । दशभिर्निशितैर्भल्लैराजघान स्तनान्तरे ॥ 6-117-1 (44218) शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा । संप्रेक्षत कटाक्षेण निर्दहन्निव भारत ॥ 6-117-2 (44219) स्त्रीत्वं तस्य स्मरन्राजन्सर्वलोकस्य पश्यतः। नाजघान रणे भीष्मः स च तन्नावबुद्धवान् ॥ 6-117-3 (44220) अर्जुनस्तु महाराज शिखण्डिनमभाषत । अभित्वरस्वास्य वधे शिखण्डिन्रथसत्तम ॥ 6-117-4 (44221) किं ते विवक्षया वीर जहि भीष्मं महारथम् । न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले ॥ 6-117-5 (44222) यः शक्तः समरे भीष्मं योधयेत पितामहम् । ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥ 6-117-6 (44223) एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ । शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ॥ 6-117-7 (44224) अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव । अर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥ 6-117-8 (44225) तथैव च चमूं सर्वां पाण्डवानां महारथः । अप्रैषीत्स शरैस्तीक्ष्णैः परलोकाय मारिष ॥ 6-117-9 (44226) तथैव पाण्डवा राजन्सैन्येन महता वृताः । भीष्मं संछादयामासुर्मेघा इव दिवाकरम् ॥ 6-117-10 (44227) स समन्तात्परिवृतो भीष्मो हि भरतर्षभ । निर्ददाह रणे शूरान्वने वह्निरिव ज्वलन् ॥ 6-117-11 (44228) तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् । अयोधयच्च यत्पार्थं जुगोप च पितामहम् ॥ 6-117-12 (44229) कर्मणा तेन समरे तव पुत्रस्य धन्विनः । दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥ 6-117-13 (44230) यदेकः समरे पार्थान्सानुगान्समयोधयत् । न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ॥ 6-117-14 (44231) दुःशासनेन समरे रथिनो विरथीकृताः । सादिनश्च महेष्वासा हस्तिनश्च महाबलाः ॥ 6-117-15 (44232) विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्वसुधातले । शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥ 6-117-16 (44233) यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणम् । तथा जज्वाल पुत्रस्ते पाण्डुसेनां विनिर्दहन् ॥ 6-117-17 (44234) तं भारतमहामात्रं पाण्डवानां महारथः । जेतुं नोत्सहते कश्चिन्नाभ्युद्यातुं कथंचन ॥ 6-117-18 (44235) ऋते महेन्द्रतनयाच्छ्वेताश्वात्कृष्णसारथेः । स हि तं समरे राजन्निर्जित्य विजयोऽर्जुनः ॥ 6-117-19 (44236) भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः । विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः ॥ 6-117-20 (44237) पुनः पुनः समाश्वस्य प्रायुध्यत मदोत्कटः । अर्जुनस्तु रणे राजन्योधयन्संव्यराजत ॥ 6-117-21 (44238) शिखण्डी तु रणे राजन्विव्याधैव पितामहम् । शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥ 6-117-22 (44239) न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर । स्मय्रमानस्तु गाङ्गेयस्तान्बाणाञ्जगृहे तदा ॥ 6-117-23 (44240) उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति । तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥ 6-117-24 (44241) तं क्षत्रिया महाराज ददृशुर्घोरमाहवे। भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनां ॥ 6-117-25 (44242) ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष । अभिद्रवत संग्रामे फल्गुनं सर्वतो रणे ॥ 6-117-26 (44243) भीष्मो वः समरे सर्वान्पायिष्यति धर्मवित्। तद्भयं सुमहत्त्यक्त्वा पाण्डवान्प्रति युध्यत ॥ 6-117-27 (44244) एष तालेन महता भीष्मस्तिष्ठति पालयन्। सर्वेषां धार्तराष्ट्राणां समरे शर्म वर्म च ॥ 6-117-28 (44245) देवा अपि समुद्युक्ता नालं भीष्मं समासितुम् । किमु पार्था महात्मानं मर्त्यभूता महाबलाः ॥ 6-117-29 (44246) तस्माद्द्रवत मा योधाः फल्गुनं प्राप्य संयुगे । अहमद्य रणे यत्तो योधयिष्यामि पाण्डवम् ॥ 6-117-30 (44247) सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपैः । तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः ॥ 6-117-31 (44248) अर्जुनं प्रति संयत्ता बलवन्तो महाबलाः । ते विदेहाः कलिङ्गाश्च दासेरकगणाश्च ह ॥ 6-117-32 (44249) अभिपेतुर्निषादाश्च सौवीराश्च महारणे । बाह्लीका दरदाश्चैव प्रतीच्योदीच्यमालवाः ॥ 6-117-33 (44250) अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः । साल्वः शकास्त्रिगर्ताश्च अम्बष्ठाः केकयौः सह ॥ 6-117-34 (44251) अभिपेतू रणे पार्थं पतङ्गा इव पावकम् । स तान्सर्वान्सहानीकान्महाराज महारथान् ॥ 6-117-35 (44252) दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनञ्जयः । स तैरस्त्रैर्महावेगैर्ददाह सुमहाबलः ॥ 6-117-36 (44253) शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः । तस्य बाणसहस्राणि सृजतो दृढधन्विनः ॥ 6-117-37 (44254) दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत। ते शरार्ता महाराज विप्रकीर्णमहाध्वजाः ॥ 6-117-38 (44255) नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् । सध्वजा रथिनः पेतुर्हयारोहा हयैः सह ॥ 6-117-39 (44256) सगजाश्च गजारोहाः किरीटिशरताडिताः । ततोऽर्जुनभुजोत्सृष्टैरावृताऽऽसीद्वसुंधरा ॥ 6-117-40 (44257) विद्रुतं दिक्षु सर्वासु शरैर्बलमदृश्यत । अथ पार्थो महाराज द्रावयित्वा वरूथिनीम् ॥ 6-117-41 (44258) दुःशासनाय सुबहून्प्रेषयामास सायकान् । ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः ॥ 6-117-42 (44259) धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः । हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥ 6-117-43 (44260) विविंशतिं च विंशत्या विरथीकृतवान्प्रभुः । आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥ 6-117-44 (44261) कृपं विकर्णं शल्यं च विद्ध्वा बहुभिरायसैः । चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥ 6-117-45 (44262) एवं ते विरथाः सर्वे कृपः शल्यश्च मारिष । दुःशासनो विकर्णश्च तथैव च विविंशतिः ॥ 6-117-46 (44263) संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना । पूर्वाह्णे भरतश्रेष्ठ पराजित्य महारथान् ॥ 6-117-47 (44264) प्रजज्वाल रणे पार्थो विधूम इव पावकः । तथैव शरवर्षेण भास्करो रश्मिवानिव ॥ 6-117-48 (44265) अन्यानपि महाराज तापयामास पार्थिवान् । पराङ्मुखीकृत्य तथा शरवर्षैर्महारथान् ॥ 6-117-49 (44266) प्रावर्तयत संग्रामे शोणितोदां महानदीम् । मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥ 6-117-50 (44267) तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये । भीष्मं प्रति पराक्रान्ताः पाण्डवाः सह सृञ्जयैः ॥ 6-117-51 (44268) ते पराक्रान्तमालोक्य युधि राजन्पितामहम् । न न्यवर्तन्त ते पुत्रा ब्रह्मलोकपुरस्कृताः ॥ 6-117-52 (44269) इच्छन्तो निधनं युद्धे स्वर्गलोकपरायणाः । पाण्डवानभ्यवर्तन्त तावका युद्धदुर्मदाः ॥ 6-117-53 (44270) पाण्डवाश्च महाराज स्मरन्तो विविधान्बहून् । क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ॥ 6-117-54 (44271) भयं त्यक्त्वा रणे शूराः स्वर्गलोकपुरस्कृताः। तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ॥ 6-117-55 (44272) गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः । रथाश्च निहता नागैर्हयाश्चैव पदातिभिः ॥ 6-117-56 (44273) अन्तरा च्छिद्यमानानि शरीराणि शिरांसि च । निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ॥ 6-117-57 (44274) छन्नमायोधनं राजन्कुण्डलाङ्गदधारिभिः। पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥ 6-117-58 (44275) रथनेमिनिकृत्तैश्च गजैश्चैवावपोथितैः । पादातश्चाप्यधावन्त साश्वाश्च हययोधिनः ॥ 6-117-59 (44276) गजाश्च रथयोधाश्च परिपेतुः समन्ततः । विकीर्णाश्च रथा भूमौ भग्रचक्रयुगध्वजाः ॥ 6-117-60 (44277) तद्गजाश्वरथौघानां रुधिरेण समुक्षितम । छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥ 6-117-61 (44278) श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह । प्रणेर्दुर्भक्ष्यमासाद्य विकृताश्च सगद्विजाः ॥ 6-117-62 (44279) ववुर्बहुविधश्चैव दिक्षु सर्वासु मारुताः। दृश्यमानेषु रक्षःसु भूतेषु च नदत्सु च ॥ 6-117-63 (44280) काञ्चनानि च दामानि पताकाश्च महाधनाः । धूयमाना व्यदृश्यन्त सहसा मारुतेरिताः ॥ 6-117-64 (44281) श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः । विकीर्णाः समदृश्यन्त शतशोऽथ सहस्रशः ॥ 6-117-65 (44282) सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः। क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः ॥ 6-117-66 (44283) समन्ततश्च दृश्यन्ते पतिता धरणीतले । 6-117-67b`इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः।' पेतुरार्तस्वरं कृत्वा तत्रतत्र महागजाः ॥ 6-117-67 (44284) सेनापतिस्तु समरे प्राह सेनां महारथः । अभ्यद्रवत गाङ्गेयं सैनिकाः किं कृतेन वः ॥ 6-117-68 (44285) सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः । अभ्यद्रवन्त गोङ्गेयं शस्त्रवृष्ट्या समन्ततः ॥ 6-117-69 (44286) ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् । अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ॥ 6-117-70 (44287) तं शिखण्डी रणे यान्तमभ्यद्रवत दंशितः । ततः समाहरद्भीष्मस्तदस्त्रं पावकोपमम् ॥ 6-117-71 (44288) एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः। निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥ ॥ 6-117-72 (44289) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे सप्तदशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-117-5 विवक्षया विचारेण संशयेन वा ॥ 6-117-9 तीक्ष्णैस्तदा शरैः प्रैषीत् इति डo पाठः ॥ 6-117-14 उल्बणमुग्रम् ॥ 6-117-18 भारतमहामात्रं भरतवंशश्रेष्ठम् ॥ 6-117-28 शर्म सुखहेतुत्वात्। वर्म रक्षाहेतुत्वात् ॥ 6-117-29 समासितुं उपसर्पितुं नाशयितुं वा। मर्त्यभूताः मर्त्यस्वरूपाः ॥ 6-117-30 तस्माद्द्रवत हे योधाः इति कo पाठः ॥ 6-117-63 भूतेषु प्रेतेषु ॥ 6-117-64 महाधनाः बहुमूल्याः ॥
भीष्मपर्व - अध्याय 118

॥ श्रीः ॥

6.118. अध्यायः 118

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मपराक्रमवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-118-0 (44290) सञ्जय उवाच। 6-118-0x (4238) असंव्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु । ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ॥ 6-118-1 (44291) च ह्यनीकमनीकेषु समसञ्जत संकले । रथा न रथिभिः सार्धं पादाता न पदातिभिः ॥ 6-118-2 (44292) अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः । उन्मत्तवन्महाराज युध्यन्ते तत्र भारत ॥ 6-118-3 (44293) महान्व्यतिकरो रौद्रः सेनयोः समपद्यत । नरनागगणेष्वेवं विकीर्णेषु च सर्वशः ॥ 6-118-4 (44294) क्षये तस्मिन्महारौद्रे निर्विशेषमजायत । ततः शल्यः कृपश्चैव चित्रसेनश्च भारत ॥ 6-118-5 (44295) दुःशासनो विकर्णश्च रथानास्थाय भास्वरान् । पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ॥ 6-118-6 (44296) सा वध्यमाना समरे पाण्डुसेना महात्मभिः । त्रातारं नाध्यगच्छद्वै मञ्जमानेव नौर्जंले ॥ 6-118-7 (44297) यथा हि शैशिरः कालो गवां मर्माणि कृन्तति। तथा पाण्डुसुतानां वै भीष्मो मर्माणि कृन्तति 6-118-8 (44298) तथैव तव सैन्यस्य पार्थेन च महात्मना। नवमेघप्रतीकाशाः पातिता बहुधा गजाः ॥ 6-118-9 (44299) मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः । इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ॥ 6-118-10 (44300) पेतुरार्तस्वरं घोरं कृत्वा तत्र महागजाः । आनद्धाभरणैः कायैर्निहतानां महात्मनाम् ॥ 6-118-11 (44301) छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः । 6-118-12bतस्मिन्नेव महाराज महावीरवरक्षये ॥ 6-118-12 (44302) भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये । ते पराक्रान्तमालोक्य राजन्युधि पितामहम् ॥ 6-118-13 (44303) अभ्यवर्तन्त ते पुत्राः सर्वे सैन्यपुरस्कृताः । इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् ॥ 6-118-14 (44304) पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये । पाण्डवापि महाराज स्मरन्तो विविधान्बहून् ॥ 6-118-15 (44305) क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप । भयं त्यक्त्वा रणे शूरा ब्रह्मलोकाय तत्पराः ॥ 6-118-16 (44306) तावकांस्तव पुत्रांश्च योधयन्ति प्रहृष्टवत्। सेनापतिस्तु समरे प्राह सेनां महारथः ॥ 6-118-17 (44307) अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह । सेनापतिवचः श्रुत्वा सोमकाः सृञ्जयाश्च ते ॥ 6-118-18 (44308) अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः । वध्यमानस्ततो राजन्पिता शान्तनवस्तव ॥ 6-118-19 (44309) अमर्षवशमापन्नो योधयामास सृञ्जयान्। तस्य कीर्तिमतस्तात पुरा रामेण धीमता॥ 6-118-20 (44310) संप्रदत्ताऽस्त्रशिक्षा वै परानीकविनाशनी । स तां विद्यामधिष्ठाय कुर्वन्तपरबलक्षयम् ॥ 6-118-21 (44311) अहन्यहनि पार्थानां वृद्धः कुरुपितामहः । भीष्मो दशसहस्राणि जघान परवीरहा ॥ 6-118-22 (44312) तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ । एको भीष्मो हि मत्स्येषु पाञ्चालेषु च संयुगे ॥ 6-118-23 (44313) गजाश्वममितं हत्वा हत्वा सप्त महारथान् । हत्वा पञ्चसहस्राणि रथानां प्रतिपामहः ॥ 6-118-24 (44314) नराणां च महायुद्धे सहस्राणि चतुर्दश । दन्तिनां च सहस्राणि हयानामयुतं पुनः ॥ 6-118-25 (44315) शिक्षबलेन न्यहनत्पिता तव विशांपते । ततः सर्वमहीपानां क्षपयित्वा वरूथिनीम् ॥ 6-118-26 (44316) विराटस्य प्रियो भ्राता शतानीको निपातितः। शतानीकं च समरे हत्वा भीष्मः प्रतापवान् ॥ 6-118-27 (44317) सहस्राणि महाराज राज्ञां भल्लैरपातयत्। उद्विग्नाः समरे योधा विक्रोशन्ति धनञ्जयम् ॥ 6-118-28 (44318) ये च केचन पार्थानामभियाता धनञ्जयम् । राजानो भीष्ममासाद्य गतास्ते यमसादनम् ॥ 6-118-29 (44319) किरन्दश दिशो भीष्मः शरजालैः समन्ततः । अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ॥ 6-118-30 (44320) स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि। सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ॥ 6-118-31 (44321) न चैनं पार्थिवाः केचिच्छक्ता राजन्निरीक्षितुम् । मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ॥ 6-118-32 (44322) यथा दैत्यचमूं शक्रस्तापयामास संयुगे । तथा भीष्मः पाण्डवेयांस्तापयामास भारत ॥ 6-118-33 (44323) तथा चैनं पराक्रान्तमालोक्य मधुसूदनः। उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ॥ 6-118-34 (44324) एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः । सन्निहत्य बलादेनं विजयस्ते भविष्यति ॥ 6-118-35 (44325) बलात्संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः । न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ॥ 6-118-36 (44326) ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः । सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ॥ 6-118-37 (44327) स चापि कुरुमुख्यानामृषभः पाण्डवेरितान्। सरव्रतैः शरव्रातान्बहुधा विदुधाव तान् ॥ 6-118-38 (44328) ततः पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् । पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-118-39 (44329) यमौ च चेकितानश्च केकयाः पञ्च चैव ह । सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः ॥ 6-118-40 (44330) द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् । विराटश्च महाराज पाण्डवेया महाबलाः ॥ 6-118-41 (44331) एते चान्ये च बहवः पीडिता भीष्मसायकैः । समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ॥ 6-118-42 (44332) ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्। भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥ 6-118-43 (44333) ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् । भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ॥ 6-118-44 (44334) सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः । विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ 6-118-45 (44335) दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना । अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः ॥ 6-118-46 (44336) ददृशुः समरे भीष्मं समुद्यतमहायुधम् । ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः ॥ 6-118-47 (44337) बहुधा भीष्ममानर्च्छुर्मार्गणैः क्षतमार्गणैः । विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः ॥ 6-118-48 (44338) पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् । चक्रे शरविघातं च क्रीडन्निव पितामहः ॥ 6-118-49 (44339) नाभिसंधत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः । स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिने ॥ 6-118-50 (44340) जघान द्रुपदानीके रथान्सप्त महारथः । ततः किलकिलाशब्दः क्षणेन समभूत्तदा ॥ 6-118-51 (44341) मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् । ते नराश्वरथव्रातैर्मार्गणैश्च परंतप ॥ 6-118-52 (44342) तमेकं छादयामासुर्मेघा इव दिवाकरम् । भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ॥ 6-118-53 (44343) ततस्तस्य च तेषां च युद्धे देवासुरोपमे । किरीटी भीष्ममानर्च्छ पुरस्कृत्य शिखण्डिनम् ॥ ॥ 6-118-54 (44344) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे अष्टादशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-118-1 अनिवर्तिषु इति झo पाठः ॥ 6-118-4 व्यतिकरः क्षोभः ॥ 6-118-49 अदीनात्मा अक्षीणस्वभावः ॥
भीष्मपर्व - अध्याय 119

॥ श्रीः ॥

6.119. अध्यायः 119

Mahabharata - Bhishma Parva - Chapter Topics

भीष्मनिपातः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-119-0 (44345) सञ्जय उवाच। 6-119-0x (4239) एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् । विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥ 6-119-1 (44346) शतघ्नीभिः सुघोराभिः परिघैश्च परश्वथैः । मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः ॥ 6-119-2 (44347) शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः । नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च सर्वशः ॥ 6-119-3 (44348) अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः । स विशीर्णतनुत्रामाः पीडितो बहुभिस्तदा ॥ 6-119-4 (44349) न विव्यथे तदा भीष्मो भिद्यमानेषु मर्मसु । संदीप्तशरचापाग्निरस्त्रप्रसृतमारुतः ॥ 6-119-5 (44350) नेमिनिर्ह्रादसंतापो महास्त्रोदयपावकः । चित्रचापमहाज्वालो वीरक्षयमहेन्धनः ॥ 6-119-6 (44351) युगान्तागनिसमप्रख्यः परेषां समपद्यत । निवृत्य रथसङ्घानामन्तरेण विनिःसृतः॥ 6-119-7 (44352) दृश्यते स्म नेरन्द्राणां पुनर्मध्यगतश्चरन् । ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च ॥ 6-119-8 (44353) पाण्डवानीकिनीमध्यमाससाद विशांपते। ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् ॥ 6-119-9 (44354) द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् । भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः ॥ 6-119-10 (44355) षडेतान्निशितैर्भीष्मः प्रविव्याधोत्तकैः शरैः । तस्य ते निशितान्बाणात्सन्निवार्य महारथाः ॥ 6-119-11 (44356) दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा । शिखण्डी तु महाबाणान्यान्मुमोच महारथः ॥ 6-119-12 (44357) न चक्रुस्ते रुजं तस्य स्वर्मपुङ्खाः शिलाशिताः। ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत ॥ 6-119-13 (44358) शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्। भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः ॥ 6-119-14 (44359) द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः । भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च ॥ 6-119-15 (44360) सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः । तत्र शस्त्राणि दिव्यानि दर्शयन्तो महारथाः ॥ 6-119-16 (44361) अभिपेतुर्भृशं क्रुद्धाश्चादयन्तश्च पाण्डवम् । तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति ॥ 6-119-17 (44362) उद्धूतानां यथा शब्दः समुद्राणां युगक्षये । घ्नत त्वरत गृह्णीत विद्ध्यध्वमवकर्तत ॥ 6-119-18 (44363) इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति । तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः ॥ 6-119-19 (44364) अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ । सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-119-20 (44365) विराटद्रुषदौ चोभौ राक्षसश्च घटोत्कचः । अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्च्छिताः ॥ 6-119-21 (44366) समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः । तेषां समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ 6-119-22 (44367) संग्रमे भरतश्रेष्ठ देवानां दानवैरिव । शिखण्डी तु रणे श्रेष्ठो रक्ष्ममाणः किरीटिना ॥ 6-119-23 (44368) अविध्यद्दशभिर्भीषअमं छिन्नधन्वानमाहवे। सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥ 6-119-24 (44369) सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम्। तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फल्गुनः ॥ 6-119-25 (44370) एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः । धनुश्चिच्छेद भीष्मस्य सव्यसाची परंतपः ॥ 6-119-26 (44371) स च्छिन्नधन्वा संक्रुद्धाः सृक्किणी परिसंलिहन् । शक्तिं जग्राह तरसा गिरीणामपि दारणीम् ॥ 6-119-27 (44372) तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति । तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव ॥ 6-119-28 (44373) समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः । तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः ॥ 6-119-29 (44374) संक्रुद्धो भरतश्रेष्ठ भीष्मवाहुप्रवेरिताम् । सा पपात तथा च्छिन्ना संक्रुद्धेन किरीटिना ॥ 6-119-30 (44375) मेघबृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा । छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः । 6-119-31 (44376) अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः। शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् ॥ 6-119-32 (44377) यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः । `अजय्यश्चैव सर्वेषां लोकानामिति मे मतिः ।' कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवान् ॥ 6-119-33 (44378) अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः। पित्रा तुष्टेन मे पूर्वं यदा कालीमुदवहम् ॥ 6-119-34 (44379) स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा । तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥ 6-119-35 (44380) एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः । ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥ 6-119-36 (44381) यत्ते व्यवसितं तात तदस्माकमपि प्रियम् । तत्कुरुष्व महाराज युद्धे बुद्धिं निवर्तय ॥ 6-119-37 (44382) अस्य वाक्यस्य निधने प्रादुसासीच्छिवोऽनिलः । अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥ 6-119-38 (44383) देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः। पपात पुष्पवृष्टिश्च भीष्मस्योपरि मारिष ॥ 6-119-39 (44384) न च ताः शुश्रुवे कश्चित्तेषां संवदतां गिरः। ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥ 6-119-40 (44385) संभ्रमश्च महानासीत्रिदशानां विशांपते । पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥ 6-119-41 (44386) इति देवगणानां च वाक्यं श्रुत्वा महातपाः। ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥ 6-119-42 (44387) भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः । शिखण्डी तु महाराज भरतानां पितामहम् ॥ 6-119-43 (44388) आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः । स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः ॥ 6-119-44 (44389) नाकम्पत महाराज क्षितिकम्पे यथाऽचलः । ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः ॥ 6-119-45 (44390) गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्। पुनः पुनः शतैरेनं त्वरमाणो धनञ्जयः ॥ 6-119-46 (44391) सर्वगात्रेषु संक्रुद्धस्तथा मर्मस्वताडयत् । एवमन्यैरपि भृशं विद्ध्यमानः सहस्रशः ॥ 6-119-47 (44392) तानप्याशु शरैर्भीष्मः प्रविव्याध महारथः । तैश्च मुक्ताञ्छरान्भीष्मो युधि सत्यपराक्रमः ॥ 6-119-48 (44393) निवारयामास शरैः समं सन्नतपर्वभिः । शिखण्डी तु रणे बाणान्यान्मुमोच महारथः ॥ 6-119-49 (44394) न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलासिताः । ततः किरीटी संक्रुद्धो भीष्ममेवाभ्यवर्तत ॥ 6-119-50 (44395) शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्। अथैनं नवभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥ 6-119-51 (44396) सारथिं विशिखैश्चास्य दशभिः समकम्पयत् । सोऽन्यत्कार्मुकमादाय गाङ्गेयो बलवत्तरम् ॥ 6-119-52 (44397) तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरघातयत् । निमेषार्धेन कौन्तेय आत्तमात्तं महारणे ॥ 6-119-53 (44398) एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यथ। ततः शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत ॥ 6-119-54 (44399) अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्। सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥ 6-119-55 (44400) एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः । शरैरनेकसाहस्त्रैर्मामेवाभ्यपतद्रणे ॥ 6-119-56 (44401) न चैष समरे शक्यो जेतुं वज्रभृता अपि। न चापि सहिता वीरा देवदानवराक्षसाः ॥ 6-119-57 (44402) मां चापि शक्ता निर्जेतुं किमु मर्त्या महारथाः । 6-119-58b`ऋतेऽर्जुनं सुसंक्रुद्धमेतत्सत्यं ब्रवीमि ते ॥' 6-119-58 (44403) एवं तयोः संवदतोः फल्गुनो निशितैः शरैः। शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥ 6-119-59 (44404) ततो दुःशासनं भीष्मः स्मयमान इवाब्रवीत् । अर्दितो निशितैर्बाणैर्भृशं गाण्डीवधन्वना ॥ 6-119-60 (44405) वज्राशनिसमस्पर्शाः सुपुङ्खाः सुप्रतेजनाः । सुमुक्ता अव्यवच्छिन्ना नेमे बाणाःशिखण्डिनः ॥ 6-119-61 (44406) निकृन्तमाना मर्माणि दृढावरणभेदिनः । सुसला इव मे ध्नन्ति नेमे बाणः शिखण्डिनः ॥ 6-119-62 (44407) वज्रदण्डसमस्पर्शा वज्रवेगदुरासदाः । मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ॥ 6-119-63 (44408) नाशयन्तीव मे प्राणान्यमदूता इवागताः । गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥ 6-119-64 (44409) भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः। समाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥ 6-119-65 (44410) अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः । कृन्तन्ति मम गात्राणि माघमां सेगवा इव ॥ 6-119-66 (44411) सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाःक । वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ॥ 6-119-67 (44412) इति ब्रुवञ्छान्तनवो दिधक्षुरिव पाण्डवम् । शक्तिं भीष्मः स पार्थाय ततश्चिक्षेप भारत ॥ 6-119-68 (44413) तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत्। पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥ 6-119-69 (44414) चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् । खङ्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयाय वा ॥ 6-119-70 (44415) तस्य तच्छतधा चर्म व्यधमत्सायकैस्तथा । रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ 6-119-71 (44416) ततो युधिष्ठिरो राजा स्वान्यनीकान्यचोदयत्। अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि ॥ 6-119-72 (44417) अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः। पट्टसैश्च सुनिस्त्रिंशैर्नाराचैश्च तथा शितैः ॥ 6-119-73 (44418) वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः । सिंहनादस्ततो घोरः पाण्डवानामभूत्तदा ॥ 6-119-74 (44419) तथैव तव पुत्राश्च नेदुर्भीष्मजयैषिणः। तमेकमभ्यरक्षन्त सिंहनादांश्च चक्रिरे ॥ 6-119-75 (44420) तत्रासीत्तुमुलं युद्धं तावकानां परैः सह। दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥ 6-119-76 (44421) आसीद्धोर इवावर्तो मुहूर्तमुदधेरिव । सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ॥ 6-119-77 (44422) असौम्यरूपा पृथिवी शोणिताक्ताऽभवत्तदा। समं च विषमं चैव न प्राज्ञायत किंचन ॥ 6-119-78 (44423) योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि । अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥ 6-119-79 (44424) ततः सेनामुखे तस्मिन्स्थितः पार्थो धनुर्धरः। मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥ 6-119-80 (44425) `तत्राद्भुतमपश्याम पाण्डवानां पराक्रमम्। द्रावयामासुरिषुभिः सर्वान्भीष्मपदानुगान् ॥' 6-119-81 (44426) वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात्। पीड्यमानाः शितैः शस्त्रैः प्राद्रवाम रणे तदा ॥ 6-119-82 (44427) `पाण्डवैः पञ्चभिः सार्धं सात्यकेन च धन्विना। धृष्टद्युम्नसुखैः सर्वैः पाञ्चालैश्च समन्ततःक ॥ 6-119-83 (44428) भिद्यमानाः शरैस्तीक्ष्णैः सर्वे कार्ष्णिपुरोगमैः। द्रोणद्रौणिकृतैः सार्धं सर्वे शल्यशलादयः। तावकाः समरे राजञ्जहुर्भीष्मं महामृधे ॥' 6-119-84 (44429) सौवीराः कितवाः प्राच्याःप्रतीच्योदीच्यमालवाः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 6-119-85 (44430) साल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह। द्वादशैते जनपदाः शरार्ता व्रणपीडिताः। संग्रामे प्रजहुर्भीष्मं युध्यमानाः किरीटिना ॥ 6-119-86 (44431) ततस्तमेकं बहवः परिवार्य समन्ततः । परिकाल्य कुरून्सर्वाञ्शरर्षैरवाकिरन् ॥ 6-119-87 (44432) निपातयत गृह्णीत युध्यध्वमवकृन्तत। इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ॥ 6-119-88 (44433) निहत्य समरे राजञ्शतशोऽथ सहस्रशः । न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ॥ 6-119-89 (44434) एवंभूतस्तव पिता शरैर्विशकलीकृतः। शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् ॥ 6-119-90 (44435) किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम् । हाहेति दिवि देवानां पार्थिवानां च भारत ॥ 6-119-91 (44436) पतमाने रथाद्भीष्मे बभूव सुमहास्वनः । संपतन्तमभिप्रेक्ष्य महात्मानं पितामहम् ॥ 6-119-92 (44437) सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः । स पपात महाबाहुर्वसुधामनुनादयन् ॥ 6-119-93 (44438) इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् । धरणीं न स पस्पर्श शरसङ्घैः समावृतः ॥ 6-119-94 (44439) शलतल्पे महेष्वासं शयानं पुरुषर्षभम्। रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥ 6-119-95 (44440) अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी । पतन्स ददृशे चापि दक्षिणेन दिवाकरम् ॥ 6-119-96 (44441) संज्ञां चोपालभद्वीरः कालं संचिन्त्य भारत । अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः ॥ 6-119-97 (44442) कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः । कालकर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने ॥ 6-119-98 (44443) स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत्। धारयिष्याम्यहं प्राणान्पतितिऽपि महीतले ॥ 6-119-99 (44444) उत्तरायणमन्विच्छन्सुगतिप्रतिकाङ्क्षया। तस्य तन्मतमाज्ञाय गह्गा हिमवतः सुताः ॥ 6-119-100 (44445) महर्षीन्हंसरूपेण प्रेषयामास तत्र वै। ततस्तं प्रति ते हंसास्त्वरिता मानसौकसः ॥ 6-119-101 (44446) आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम्। यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥ 6-119-102 (44447) ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः । अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम् ॥ 6-119-103 (44448) ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम्। गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥ 6-119-104 (44449) इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः । भीष्मः कथं महात्मा सन्संस्थाता दक्षिणायने ॥ 6-119-105 (44450) इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम्। संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥ 6-119-106 (44451) तानब्रवीच्छान्तनवो नाहं गन्ता कथंचन । दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम् ॥ 6-119-107 (44452) गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् । उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः ॥ 6-119-108 (44453) धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया। प्राणानां च समुत्सर्ग ऐश्वर्यं नियतं मम ॥ 6-119-109 (44454) तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने। यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना ॥ 6-119-110 (44455) छन्दतस्ते भवेन्मृत्युरिति तत्सत्यमस्तु मे। धारयिष्ये ततः प्राणानुत्सर्गे नियते सति ॥ 6-119-111 (44456) इत्युक्त्वा तांस्तदा हंसान्स शेते शरतल्पगः । एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि ॥ 6-119-112 (44457) पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे । तस्मिन्हते महासत्वे भरतानां पितामहे ॥ 6-119-113 (44458) न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ । संमोहश्चैव तुमुलः करूणामभवत्तदा ॥ 6-119-114 (44459) कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः । विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥ 6-119-115 (44460) दध्युश्चैव महाराज न युद्धे दधिरे मनः । ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥ 6-119-116 (44461) अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि। `दुःखार्तास्ते ततो राजन्कुरूणां पतयोऽभवन् ।' अभाव सहसा राजन्कुरुराजस्य तर्कितः ॥ 6-119-117 (44462) हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः । कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥ 6-119-118 (44463) पाणडवाश्च जयं लब्ध्वा परत्र च परां गतिम् । सर्वे दध्युर्महाशङ्खञ्शूराः परिघवाहवः ॥ 6-119-119 (44464) सोमकाश्च सपाञ्चालाः प्राहृष्यन्त जनेश्वर । ततस्तूर्यसहस्रेषु नदत्सु स महाबलः ॥ 6-119-120 (44465) आस्फोटयामास भृशं भीमसेनो ननाद च। सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ ॥ 6-119-121 (44466) संन्यस्य विराः शस्त्राणि प्राध्यायन्त समन्ततः । प्राक्रोशन्प्राद्रवंश्चान्ये जग्मुर्मोहं तथाऽपरे ॥ 6-119-122 (44467) क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन्। ऋषयः पितरश्चैव प्रशशसुर्महाव्रतम् ॥ 6-119-123 (44468) भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे । महोपनिषदं चैव योगमास्थाय विर्यवान् ॥ 6-119-124 (44469) जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥ ॥ 6-119-125 (44470) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे एकोनविंशत्यधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-119-26 आत्तमात्तं गृहीतं गृहीतम् ॥ 6-119-37 व्यवसितं निश्चितम् ॥ 6-119-38 निधने समाप्तौ ॥ 6-119-40 मुनितेजसा व्यासप्रभावेन ॥ 6-119-61 अव्यवच्छिन्नाः संतताःच ॥ 6-119-66 माघमा कर्कटी प्रोक्ता तदपत्यं तु सेगवा । यथा माघमां कर्कटी मातरं सेगवास्तदपत्यानि कृन्तन्ति उदरस्थान्यपत्यानि पृष्ठं विदार्य वहिर्नर्गच्छन्ति तद्वदित्यर्थः । तेन प्राणापहारिवेदनाजनकत्वं बामानां नेदं शिखण्डिबाणेषु संभवति । तेषां मदङ्गे पुष्पतुल्यत्वात्॥ 6-119-70 अग्रे तेषाम्। मृत्योरिति चतुर्थ्यर्थे षष्ठी । मृत्यवे इत्यर्थः ॥ 6-119-86 प्राणपीडिता इति कo घo पाठः ॥ 6-119-97 कालं मृत्युम् ॥ 6-119-104 दक्षिणेन दक्षिणमार्गस्थं भास्करं च दृष्ट्वेत्यन्वयः ॥ 6-119-105 संस्थाता मरिष्यति ॥ 6-119-109 ऐश्वर्यं स्वसामर्थ्यं स्वच्छन्दमृत्युत्वात् ॥
भीष्मपर्व - अध्याय 120

॥ श्रीः ॥

6.120. अध्यायः 120

Mahabharata - Bhishma Parva - Chapter Topics

कुरुपाण्डवैरन्यै राजभिश्च भीष्माभिवादनम् ॥ 1 ॥ अर्जुनेन भीष्माय बाणमयोपधानसमर्पणम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-120-0 (44471) धृतराष्ट्र उवाच। 6-120-0x (4240) कथमासंस्तदा योधा हीना भीष्मेण सञ्जय । बलिना देवकल्पेन कौमारब्रह्मचारिणा ॥ 6-120-1 (44472) तदैव निहतान्मन्ये कुरूनन्यांश्च पाण्डवैः । न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजम् ॥ 6-120-2 (44473) ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति । अद्यैव निहतं श्रुत्वा पितरं मम दुर्मतेः ॥ 6-120-3 (44474) अश्मसारमयं नूनं हृदयं मम सञ्जय । श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ॥ 6-120-4 (44475) यदन्यन्निहतेनाजौ भीष्मेण जयमिच्छता । चेष्टितं कुरुसिंहेन तन्मे कथय सुव्रत ॥ 6-120-5 (44476) पुनःपुनर्न मृष्यामि हतं देवव्रतं रणे। न हतो जामदग्न्येन दिव्यैरस्त्रैश्च यः पुरा ॥ 6-120-6 (44477) स हतो द्रौपदेयेन पाञ्चाल्येन शिखण्डिना । 6-120-7 (44478) सञ्जय उवाच। सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् ॥ 6-120-7x (4241) पाञ्चालान्हर्षयंश्चैव भीष्मः कुरुपितामहः । स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा ॥ 6-120-8 (44479) भीष्मो रथात्प्रपतितः संछिन्नो बहुभिः शरैः । हाहेति तुमुलः शब्दो भूतानां समपद्यत ॥ 6-120-9 (44480) सीमावृक्षे निपतिते कुरूणां समितिंजये । सेनयोरुभयो राजन्क्षत्रियान्भयमाविशत् ॥ 6-120-10 (44481) भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम् । कुरवः पर्यवर्तन्त पाण्डवाश्च विशांपते ॥ 6-120-11 (44482) खं तमःसंवृतमभूदासीद्भानुर्गतप्रभः । ररास पृथिवी चैव भीष्मे शान्तनवे हते ॥ 6-120-12 (44483) अयं ब्रह्मविदां श्रेष्ठो गतिर्ब्रह्मविदां सदा। इत्यभाषन्त भूतानि शयानं पुरुषर्षभम् ॥ 6-120-13 (44484) अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा । ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ॥ 6-120-14 (44485) इति स्म शरतल्पस्थं भरतानां पितामहम् । ऋषयस्त्वभ्यभाषन्त सहिताः सिद्धचारणैः ॥ 6-120-15 (44486) हते शान्तनवे भीष्मे भरतानां पितामहे । न किंचित्प्रत्यपद्यन्त पुत्रास्तव हि मारिष ॥ 6-120-16 (44487) विषण्णवदनाश्चासन्हतश्रीकाश्च भारत । अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ॥ 6-120-17 (44488) पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः । सर्वे दध्युर्महाशङ्खान्हेमजालपरिष्कृतान् ॥ 6-120-18 (44489) हर्षात्तूर्यसहस्रेषु वाद्यमानेषु चानघ । अपश्याम महाराज भीमसेनं महाबलम् ॥ 6-120-19 (44490) विक्रीडमानं कौन्तेयं हर्षेण महता युतम्। निहत्य तरसा शत्रुं महाबलसमन्वितम् ॥ 6-120-20 (44491) संमोहश्चापि तुमुलः कुरूणामभवत्ततः । कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः ॥ 6-120-21 (44492) तथा निपातिते भीष्मे कौरवाणां पितामहे । हाहाभूतमभूत्सर्वं निर्मर्यादमवर्तत ॥ 6-120-22 (44493) दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव। उत्तमं जवमास्थाय द्रोणानीकभुपाद्रवत् ॥ 6-120-23 (44494) भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः। प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिहर्षयन् ॥ 6-120-24 (44495) तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन्। दुःशासनं महाराज किमयं वक्ष्यतीति च ॥ 6-120-25 (44496) ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः । द्रोणस्तदाऽप्रियं श्रुत्वा मुमोह भरतर्षभ ॥ 6-120-26 (44497) स संज्ञामुपलभ्याशु भारद्वाजः प्रतापवान् । निवारयामास तदा स्वान्यनीकानि मारिष ॥ 6-120-27 (44498) विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान्। रथैः शीघ्राश्वसंयुक्तैः समन्तात्पर्यवारयन् ॥ 6-120-28 (44499) निवृत्तेषु च सैन्येषु पारम्पर्येण सर्वशः । निर्मुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ॥ 6-120-29 (44500) व्युपरम्य ततो युद्धाद्योधाः शतसहस्रशः । उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥ 6-120-30 (44501) ते तु भीष्मं समासाद्य शयानं भरतर्षभम् । अभिवाद्यावतिष्ठन्त पाण्डवाः कुरुभिः सह ॥ 6-120-31 (44502) अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् । अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ॥ 6-120-32 (44503) स्वागतं वो महाभागाः स्वागतं वो महारथाः । तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ॥ 6-120-33 (44504) अभिनन्द्य स तानेवं शिरसा लम्बताऽब्रवीत् । `परपार्श्वे तव सुतान्स्थितानुद्वीक्ष्य भारत।' शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ॥ 6-120-34 (44505) ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च । उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥ 6-120-35 (44506) अथाब्रवीन्नरव्याघ्रः प्रसहन्निव तान्नृपान् । नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥ 6-120-36 (44507) ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् । धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ॥ 6-120-37 (44508) धनञ्जय महाबाहो शिरो मे तात लम्बते। दीयतामुपधानं वै यद्युक्तमिह मन्यसे ॥ 6-120-38 (44509) सञ्जय उवाच। 6-120-39x (4242) समारोप्य महच्चापमभिवाद्य पितामहम्। नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ 6-120-39 (44510) आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर। प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ॥ 6-120-40 (44511) तमब्रवीच्छान्तनवः शिरो मे तात लम्बते । 6-120-41b`दीयतामुपधानं मे यद्युक्तमिह मन्यसे' उपधानं कुरुश्रेष्ठ उपधेहि ममार्जुन ॥ 6-120-41 (44512) वीरशय्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे । त्वं हि पार्थ समर्थो वै श्रेष्ठः सर्वधनुष्मताम् ॥ 6-120-42 (44513) क्षत्रधर्मस्य वेत्ता च बुद्धिसत्वगुणान्वितः । फल्गुनोऽपि तथेत्युक्त्वा व्यवसायं परंजयः ॥ 6-120-43 (44514) गृह्यानुमन्त्र्य गाण्डीवं शरान्सन्नतपर्वणः । अनुमान्य महात्मानं भरतानां महारथम् ॥ 6-120-44 (44515) त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः । अभिप्राये तु विदिते धर्मात्मा स्वयसाचिना ॥ 6-120-45 (44516) अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् । उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् ॥ 6-120-46 (44517) प्राह सर्वान्समुद्वीक्ष्य भरतान्भारतं प्रति। कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ॥ 6-120-47 (44518) शयनस्यानुरूपं मे पाण्डवोपहितं त्वया। यद्यन्यथा प्रपद्येथाः शपेयं त्वामहं पुरा ॥ 6-120-48 (44519) एवमेव महाबाहो धर्मेषु परितिष्ठता। स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ॥ 6-120-49 (44520) एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः । राज्ञश्च राजपुत्रांश्च पाण्डवैरभिसंवृतान् ॥ 6-120-50 (44521) पश्यध्वमुपधानं मे पाणडवेनाभिसन्धितम् । शयेयमस्यां शय्यायां यावदावर्तनं रवेः ॥ 6-120-51 (44522) ये तदा धारयिष्यन्ति ते च प्रेक्ष्यन्ति मां नृपाः। दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः ॥ 6-120-52 (44523) नूनं सप्ताश्वयुक्तेन रथेनोत्तमतेजसा । रक्ष्येऽहं वै मम प्राणान्सुहृदः सुप्रियानिव ॥ 6-120-53 (44524) परिखाः खन्यतामत्र ममावसदने नृपाः । उपासिष्ये विवस्वन्तमेवं शरशताचितः । उपारमध्वं संग्रामाद्वैरमुत्सृज्य पार्थिवाः ॥ 6-120-54 (44525) स़ञ्जय उवाच। 6-120-55x (4243) उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः। सर्वोपकरणैर्युक्ताः कुशलैः साधुशिक्षिताः ॥ 6-120-55 (44526) तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच तनयं तव । दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ॥ 6-120-56 (44527) एवंगते मयेदानीं वैद्यैः कार्यमिहास्ति किम्। क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ॥ 6-120-57 (44528) नैष धर्मो महीपालाः शरतल्पगतस्य मे । एभिरेव शरैश्चाहं दग्धव्योऽग्नौ नराधिपाः ॥ 6-120-58 (44529) तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव। वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ॥ 6-120-59 (44530) ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः । स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ॥ 6-120-60 (44531) उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः । सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ॥ 6-120-61 (44532) उपगम्य महात्मानं शयानं शयने शुभे ॥ 6-120-62 (44533) तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिःप्रदक्षिणम्। विधाय रक्षां भीष्मस्य सर्व एव समन्ततः ॥ 6-120-63 (44534) वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः । निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ॥ 6-120-64 (44535) निविष्टान्पाण्डवांश्चैव प्रीयमाणान्महारथान् । भीष्मस्य पतनं दृष्ट्वा उपगम्य महाबलः ॥ 6-120-65 (44536) उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम् । दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः ॥ 6-120-66 (44537) अवध्यो मानुषैरेव सत्यसन्धो महारथः । अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः ॥ 6-120-67 (44538) त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुष । 6-120-68 (44539) सञ्जय उवाच। एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् ॥ 6-120-68x (4244) तव प्रसादाद्विजयः क्रोधात्तव पराजयः । त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः ॥ 6-120-69 (44540) अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव । रक्षिता समरे नित्यं नित्यं चापि हिते रतः ॥ 6-120-70 (44541) सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः। 6-120-71 (44542) सञ्जय उवाच। एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः। तवैवैतद्युक्तरूपं वचनं पार्थिवोत्तम ॥ ॥ 6-120-71x (4245) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसे विंशत्यधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-120-11 पर्यवर्तन्त परिवृतवन्तः ॥ 6-120-17 व्रीडिताः व्रीडावन्तः । व्रीडा चान्यतः। ह्रीश्चाकार्यकरणात् ॥ 6-120-29 पारम्पर्येण क्रमेण॥ 6-120-34 उपधानं उपबर्हम् ॥ 6-120-38 इह वीरशय्यायाम् ॥ 6-120-43 व्यवसायमुचितोद्योगम् ॥ 6-120-45 अन्वगृह्णात् अवतष्टम्भे ॥ 6-120-48 उपहितं उपधानीयं दत्तम्॥ 6-120-53 विमोक्ष्येऽहं तदा प्राणान् इति झo पाठः ॥ 6-120-54 ममावसदने मन्निवासस्थाने ॥ 6-120-68 चक्षुषा हन्तीति तथा तम्। दृष्टिमात्रेण हननक्षमम् ॥
भीष्मपर्व - अध्याय 121

॥ श्रीः ॥

6.121. अध्यायः 121

Mahabharata - Bhishma Parva - Chapter Topics

तृषार्तेन भीष्मेण पानीययाचनम् ॥ 1 ॥ राजभिः कलशेनानीते जले भीष्मेण तन्निन्दनपूर्वकमर्जुनंप्रति याचनम् ॥ 2 ॥ अर्जुनेन पर्यन्यास्त्रेण भूमिंभित्त्वोत्थापितसलिलधारया भीष्मस्य तृष्णाशमनम् ॥ 3 ॥ भीष्मेण दुर्योधनंप्रति अर्जुनप्रशंसनपूर्वकं पाण्डवैः सह शमोपदेशः ॥ 4 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-121-0 (44543) सञ्जय उवाच। 6-121-0x (4246) व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः। पाण्डवा धार्तराष्ट्राश्च उपातिष्ठन्पितामहम् ॥ 6-121-1 (44544) तं वीरशयने वीरं शयानं कुरुसत्तम। अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ॥ 6-121-2 (44545) कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः । अवाकिरञ्छान्तनवं तत्र गत्वा सहस्रशः ॥ 6-121-3 (44546) स्त्रियो वृद्धास्तथा बालाः प्रेक्षकाश्च पृथग्जनाः । समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ॥ 6-121-4 (44547) तूर्याणि शतसङ्ख्यानि तथैव नटनर्तकाः। शिल्पिनश्च तथाऽऽजग्मुः कुरुवृद्धं पितामहम् ॥ 6-121-5 (44548) उपागम्य च राजेन्द्र सन्नहान्विप्रमुच्य ते। आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ॥ 6-121-6 (44549) अन्वासन्त दुराधर्षं देवव्रतमरिंदमम्। अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ॥ 6-121-7 (44550) सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता। शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ॥ 6-121-8 (44551) विबभौ च नृपाणां सा गङ्गासुतमुपासताम्। देवानामिव देवेशं पितामहमुपासताम् ॥ 6-121-9 (44552) भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ । अभितप्तः शरैश्चैव नातिहृष्टमनाऽब्रवीत् ॥ 6-121-10 (44553) शराभितप्तकायो हि शस्त्रसंपातमूर्च्छितः । पानीयमित संप्रेक्ष्य राज्ञस्तान्प्रत्यभाषत ॥ 6-121-11 (44554) ततस्ते क्षत्रिया राजन्नुपाजह्रुः समन्ततः । भक्ष्यानुच्चावचान्राजन्वारिकुम्भांश्च शीतलान् ॥ 6-121-12 (44555) उपानीतं तु पानीयं दृष्ट्वा शान्तनवोऽब्रवीत्। न मेऽद्य सेवितुं योग्या भोगाः केवलमानुषाः ॥ 6-121-13 (44556) अपक्रान्तो मनुष्येभ्यः शरशय्यां गतो ह्यहम्। प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ॥ 6-121-14 (44557) ` सञ्जय उवाच। 6-121-15x (4247) एवमुक्त्वा तदोवाच भीष्मः शरशतैश्चितः। पयः पास्यामि गोपाला गोमयं न तु गोमयम्। गोपयेनाग्निवर्णेन गोमयं न तु गोमयम् ॥' 6-121-15 (44558) एवमुक्त्वा शान्तनवो निन्दन्वाक्येन पार्थिवान्। अर्जुनं द्रष्टुमिच्छामीत्यभ्यभाषत भारत ॥ 6-121-16 (44559) अथोपेत्य महाबाहुरभिवाद्य पितामहम् । अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ॥ 6-121-17 (44560) तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्। अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम् ॥ 6-121-18 (44561) दह्यतीव शरीर मे संवृतस्य तवेषुभिः। मर्माणि परिदूयन्ते मुखं च परिशुष्यति ॥ 6-121-19 (44562) वेदनार्तशरीरस्य प्रयच्छापो ममार्जुन। त्वं हि शक्तो महेष्वास दातुमापो यथाविधि ॥ 6-121-20 (44563) सञ्जय उवाच। 6-121-21x (4248) अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्। अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ 6-121-21 (44564) तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । वित्रेसुः सर्वभूतानि सर्वे श्रुत्वा च पार्थिवाः ॥ 6-121-22 (44565) ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः। शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ 6-121-23 (44566) संधाय च शरं दीप्तमभिमन्त्र्य स पाण्डवः। पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः॥ 6-121-24 (44567) अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे । उत्पपात ततो धारा वारिणो विमला शुभा ॥ 6-121-25 (44568) शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च । अतर्पयत्ततः पार्थः शीतया जलधारया ॥ 6-121-26 (44569) भीष्मं कुरूणामृषभं दिव्यं दिव्यपराक्रमम् । कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः ॥ 6-121-27 (44570) विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः । तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषविक्रमम् ॥ 6-121-28 (44571) संप्रावेपन्त कुरवो गावः शीतार्दिता इव। विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः ॥ 6-121-29 (44572) शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत्। तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् ॥ 6-121-30 (44573) सर्वपार्थिववीराणां सन्निधौ पूजयन्निव । नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन ॥ 6-121-31 (44574) कथितो नारदेनासि पूर्वर्षिरमितद्युते । वासुदेवसहायस्त्वं महत्कर्म करिष्यसि ॥ 6-121-32 (44575) यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् । विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः ॥ 6-121-33 (44576) धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ॥ 6-121-34 (44577) मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः। सरितं सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥ 6-121-35 (44578) आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः । जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनां ॥ 6-121-36 (44579) न वै श्रुतं धार्तराष्ट्रेण वाक्यं मयोच्यमानं विदुरेण चैव। द्रोणेन रामेण जनार्दनेन मुहुर्मुहुः सञ्जयेनापि चोक्तम् ॥ 6-121-37 (44580) परीतबुद्धिर्हि विसंज्ञकल्पो दुर्योधनो न च तच्छ्रद्दधाति। स शेष्यते वै निहतश्चिराय शास्त्रातिगो भीमबलाभिभूतः ॥ 6-121-38 (44581) सञ्जय उवाच। 6-121-39x (4249) एतच्छ्रुत्वा तद्वचः कौरवेन्द्रो दुर्योधनो दीनमना बभूव। तमब्रविच्छान्तनवोऽभिवीक्ष्य निबोध राजन्भव वीतमन्युः ॥ 6-121-39 (44582) दृष्टं दुर्योधनैतत्ते यथा पार्थेन धीमता। जलस्य धारा जनिता शीतस्यामृतगन्धिनः ॥ 6-121-40 (44583) एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते। आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ॥ 6-121-41 (44584) ऐन्द्रं पाशुपतं ब्रह्मं पारमेष्ठ्यं प्रजापतेः । धातुस्त्वष्टुश्च सवितुर्वैवस्वतमथापि वा॥ 6-121-42 (44585) सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः। कृष्णो वा देवकीपुत्रो नान्यो वेदेह कश्चन ॥ 6-121-43 (44586) अशक्यः पाण्डवस्तात युद्धे जेतुं कथंचन । अमानुषाणि कर्माणि यस्यैतानि महात्मनः ॥ 6-121-44 (44587) तेन सत्ववता सङ्ख्ये शूरेणाहवशोभिना । जिष्णुना समरे राजन्संधिर्भवतु मा चिरम् ॥ 6-121-45 (44588) यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसत्तम। तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम् ॥ 6-121-46 (44589) यावन्न ते चमूः सर्वाः शरैः सन्नतपर्वभिः । नाशयत्यर्जुनस्तावत्संधिस्ते तात य्रुज्यताम् ॥ 6-121-47 (44590) यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः । नृपाश्च बहवो राजंस्तावत्संधिः प्रयुज्यताम् ॥ 6-121-48 (44591) न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् । युधिष्ठिरो रणे तावत्संधिस्ते तात युज्यताम् ॥ 6-121-49 (44592) नकुलः सहदेवश्च भीमसेनश्च पाण्डवः। यावच्चमूं महाराज नाशयन्ति न सर्वशः ॥ 6-121-50 (44593) तावत्ते पाण्डवैर्वीरैः सौहार्दं मम रोचते। युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः ॥ 6-121-51 (44594) एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयाऽनघ। एतत्क्षममहं मन्ये तव चैव कुलस्य च ॥ 6-121-52 (44595) त्यक्त्वा मन्युं व्युपशाम्यस्व पार्थैः पर्याप्तमेतद्यत्कृतं फल्गुनेन । भीष्मस्यान्तादस्तु वः सौहृदं च जीवन्तु शेषाः साधु राजन्प्रसीद ॥ 6-121-53 (44596) राज्यस्यार्दं दीयतां पाण्डवाना- मिन्द्रप्रस्थं धरमराजोऽभियातु। मा मित्रध्रुक्पार्थिवानां जघन्यः पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र॥ 6-121-54 (44597) ममावसानाच्छान्तिरस्तु प्रजानां संगच्छन्तां पाण्डवाः प्रीतिमन्तः। पिता पुत्रं मातुलं भागिनेयो भ्राता चैव भ्रातरं प्रैतु राजन् ॥ 6-121-55 (44598) न चेदेवं प्राप्तकालं वचो मे मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या । तप्स्यस्यन्ते एतदन्ताः स्थ सर्वे सत्यामेतां भारतीमीरयामि ॥ 6-121-56 (44599) सञ्जय उवाच। 6-121-57x (4250) एतद्वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा। तूष्णीमासीच्छल्यसंतप्तमर्मा योज्यात्मानं वेदनां संनियम्य ॥ 6-121-57 (44600) धर्मार्थसहितं वाक्यं श्रुत्वा हितमनामयम् । नारोचयत पुत्रस्ते मुमूर्षुरिव भेषजम् ॥ ॥ 6-121-58 (44601) इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि एकविंशत्यधिकशततमोऽध्यायः ।

Mahabharata - Bhishma Parva - Chapter Footnotes

6-121-4 पृधग्जनाः प्राकृता जनाः। भूतानि प्राणिनो गन्धर्वादीनि वा। तमोनुदं सूर्यम् ॥ 6-121-19 परिदूयन्ते परितप्यन्ते ॥ 6-121-27 विकुर्वतो विशेषेण कुर्वतः ॥ 6-121-29 व्याविध्यन्भ्रामितवन्तः ॥ 6-121-33 निधनं निधनहेतुः। तद्विदो देवरहस्यज्ञाः ॥ 6-121-35 जगति भूलोके ॥ 6-121-52 क्षेममिति पाठे हितं ॥ 6-121-53 फल्गुनेन यत्कृतं एतदेतावदेव पर्याप्तमस्तु। चशब्दादेतावतां भ्रातॄणामन्तादपीति ॥ 6-121-57 योज्ययोगधारणायुक्तं कृत्वा ॥ 6-121-58 धर्मार्थेति श्लोकः झo पुस्त एवास्ति ॥
भीष्मपर्व - अध्याय 122

॥ श्रीः ॥

6.122. अध्यायः 122

Mahabharata - Bhishma Parva - Chapter Topics

अपगतेषु राजसु कर्णेन रसहि भीष्ममेत्य तदभिवादनम् ॥ 1 ॥ भीष्मेण कर्णं प्रति तस्य कुन्तीसुतत्वोक्त्या पाण्डवैः सह संगमचोदना ॥ 2 ॥ कर्णेन सयुक्तिकं पाण्डवैः संगमस्य दुष्करत्वमभिधाय भीष्मक्षमापनपूर्वकं स्वावासगमनम् ॥ 3 ॥

Mahabharata - Bhishma Parva - Chapter Text

6-122-0 (44602) सञ्जय उवाच। 6-122-0x (4251) ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः । तूष्णींभूते महाराज भीष्मे शन्तनुनन्दने ॥ 6-122-1 (44603) श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः । ईषदागतसंत्रासस्त्वरयोपजगाम ह ॥ 6-122-2 (44604) स ददर्श महात्मानं शरतल्पगतं तदा। जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम् ॥ 6-122-3 (44605) निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषा । अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥ 6-122-4 (44606) राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव । द्वेभ्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ॥ 6-122-5 (44607) तच्छ्रुत्वा कुरुवृद्धो हि शरैः संवृतलोचनः। रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ॥ 6-122-6 (44608) पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना । शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥ 6-122-7 (44609) न विप्रियं ममैवेह यत्स्पर्धेथा मया सह । यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत् ॥ 6-122-8 (44610) कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता। सूर्यजस्त्वं महाबाहो विदितो नारदान्मया ॥ 6-122-9 (44611) कृष्णद्वैपायनाच्चैव तेजसा च न संशयः । न च द्वेषोस्ति मे तात त्वयि सत्यं ब्रवीमि ते ॥ 6-122-10 (44612) तेजोवधनिमित्तं तु परुषं त्वाहमब्रुवम्। अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम ॥ 6-122-11 (44613) येनासि बहुशो राज्ञा चोदितः सूतनन्दन । जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी ॥ 6-122-12 (44614) नीचाश्रयान्मत्सरेण द्वेषिणी गुमिनामपि । तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि ॥ 6-122-13 (44615) जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि । ब्रह्मण्यतां च शौर्यं च दाने च परमां स्थितिम् ॥ 6-122-14 (44616) न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम। कुलभेदभयाच्चाहं सदा परुषमुक्तवान् ॥ 6-122-15 (44617) इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा । सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥ 6-122-16 (44618) कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता । कन्यार्थे कुरुराजस्य राजानो मृदिता युधि ॥ 6-122-17 (44619) तथा च बलवान्राजा जरासन्धो दुरासदः। समरे समरश्लाघिन्न त्वया सदृशोऽभवत्॥ 6-122-18 (44620) ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च । देवगर्भसमः सङ्ख्ये मनुष्यैरधिको युधि ॥ 6-122-19 (44621) व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः । दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ 6-122-20 (44622) सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन। संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ॥ 6-122-21 (44623) मया भवतु निर्वृत्तं वैरमादित्यनन्दन । पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ॥ 6-122-22 (44624) कर्ण उवाच। 6-122-23x (4252) जानाम्येव महाबाहो सर्वमेतन्न संशयः। यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः ॥ 6-122-23 (44625) अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः। भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ॥ 6-122-24 (44626) वसुदेवसुतो यद्वत्पाण्डवाय दृढव्रतः । वमु चैव शरीरं च पुत्रदारं तथा यशः ॥ 6-122-25 (44627) सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण । मा चैतद्व्याधिमरणं क्षत्रं स्यादिति कौरव ॥ 6-122-26 (44628) कोपिताः पाण्डवा नित्यं मयाऽश्रित्य सुयोधनम् । अवश्यभावी ह्यर्थोऽयं यो न शक्यो निवर्तितुम् ॥ 6-122-27 (44629) दैवं पुरुषकारेण को विवर्तितुमुत्सहेत्। पृथिवीक्षयसंशीनि निमित्तानि पितामह ॥ 6-122-28 (44630) भवद्भिरुपलब्धानि कथितानि च संसदि । पाण्डवा वासुदेवश्च विदिता मम सर्वशः॥ 6-122-29 (44631) अजेयाः पुरुषैरन्यैरिति तंश्चोत्सहामहे। विजयिष्ये रणे पाण्डूनिति मे निश्चितः मनः ॥ 6-122-30 (44632) न च शक्यमवस्रष्टुं वैरमेतत्सुदारुणम् । धनंजयेन योत्स्येऽहं स्वधर्मप्रीतमानसः ॥ 6-122-31 (44633) अनुजानीष्व मां तात युद्धाय कृतनिश्चयम् । अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ॥ 6-122-32 (44634) दुरुक्तं विप्रतीपं वा रभसाच्चापलात्तथा । यन्मयेह कृतं किंचित्तन्मे त्वं क्षन्तुमर्हसि ॥ 6-122-33 (44635) भीष्म उवाच। 6-112-34x (4253) न चेच्छक्यमवस्रष्टुं वैरमेतत्सुदारुणम्। अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ॥ 6-122-34 (44636) निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह। यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ॥ 6-122-35 (44637) अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि । क्षत्रधर्मजिताँल्लोकानवाप्स्यसि धनंजयात् ॥ 6-122-36 (44638) युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः । धर्म्याद्धि युद्धादधिकं क्षत्रियस्य न विद्यते ॥ 6-122-37 (44639) प्रशमे हि कृतो यत्नः सुमहान्सुचिरं मया। न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ॥ 6-122-38 (44640) सञ्जय उवाच। 6-122-39x (4254) इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च। राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ॥ 6-122-39 (44641) ` वैशम्पायन उवाच। 6-122-40x (4255) इत्येतद्बहुवृत्तान्तं भीष्मपर्वाखिलं मया। शृण्वते ते महाराज प्रोक्तं पापहरं शुभम् ॥ 6-122-40 (44642) यः श्रावयेत्सदा राजन्ब्राह्मणान्वेदपारगान् । श्रद्धावन्तश्च ये चापि श्रोष्यन्ति मनुजा भुवि ॥ 6-122-41 (44643) विधूय सर्वपापानि विहायान्ते कलेवरम् । प्रयान्ति तत्पदं विष्णोर्यत्प्राप्य न निवर्तते ॥ 6-122-42 (44644) तस्मात्सर्वप्रयत्नेन भारतं भरतर्षभ। शृणुयात्सिद्धिमन्विच्छन्निह वामुत्र मानवः ॥ 6-122-43 (44645) भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् । भीष्मपर्वणि राजेन्द्र दद्यात्पानीयमुत्तमम् ॥' ॥ 6-122-44 (44646) इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि भीष्मवधपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ ॥ समाप्तं भीष्मवधपर्व भीष्मपर्व च ।
------------

Mahabharata - Bhishma Parva - Chapter Footnotes

6-122-1xa अस्यानन्तरं द्रोणपर्व भविष्यति। 6-122-1xb तस्यायमाद्यः श्लोकः। 6-122-1xc तमप्रतिमसत्वौजोबलवीर्यपराक्रमम्। 6-122-1xb हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिन ॥ 6-122- 6-122-3 जन्मशय्यागतं जन्मकाले शरशय्यागतम्। शरजन्मत्वात् ॥ 6-122-12 येनासीति सार्धश्लोकः झo पुस्तक एवास्ति ॥ 6-122-15 पुरुषेषु मानुषेषु ॥ 6-122-18 त्वया सदृशो नाभवत् त्वया जित इत्यर्थः । इयं कथा राजधर्मे। अनेन नागायुतबलत्वं कर्णस्य सूचितम् ॥ 6-122-19 युधि संप्रहारे ॥ 6-122-22 निर्वृत्तं समाप्तम् ॥ 6-122-24 अवकीर्णस्त्यक्तः ॥ 6-122-28 निवर्तितुं निवर्तयितुम् ॥ 6-122-30 पाण्डूनर्जुनं विहाय चतुरः । अर्जुनेन योत्स्ये अन्यान्विजेष्ये इति भावः ॥ 6-122-33 विप्रतीपं विरुद्धम् ॥ इदं भीष्मपर्व कुंभघोणस्थेन टीo आर्o कृष्णाचार्येण टीo आर्o व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1829 सन 1907
Home 
व्यास. Date: 2012


AUM shantiH