Mahabharata - महाभारतम्
Sanskrit Documents | Critical Edition | Southern Recension | Mahabharata Resources

Kumbhaghonam Edition

8. कर्णपर्व

कर्णपर्व - अध्याय 001

॥ श्रीः ॥

8.1. अध्यायः 001

Mahabharata - Karna Parva - Chapter Topics

शिबिराद्धास्तिनपुरमुपगतवता सञ्जयेन धृतराष्ट्रंप्रति कर्णादिनिधनकथनम्॥ 1 ॥ तच्छ्रवणेन मूर्च्छामुपगतवतो धृतराष्ट्रस्य सञ्जयादिभिराश्वासनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-1-0 (54873) श्रीवेदव्यासाय नमः। 8-1-0x (4817) नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 8-1-1 (54874) `वैशम्पायन उवाच। शिबिराद्धास्तिनपुरं प्राप्य भारत सञ्जयः। प्रविवेश महाबाहुर्धृतराष्ट्रनिवेशनम्॥ 8-1-1x (4818) शोकेनापहतः सूतो विलपन्भृशदुःखितः। चिन्तयन्निधनं घोरं सूतपुत्रस्य पाण्डवैः॥ 8-1-2 (54875) अन्तःपुरं प्रविश्यैव सञ्जयो राजसत्तमम्। अश्रुपूर्णो भृशं त्रस्तो राजानमुपजग्मिवान्॥ 8-1-3 (54876) उपस्थाय च राजानं विनिश्वस्य च सूतजः। नातिहृष्टमना राजन्निदं वचनमब्रवीत्॥ 8-1-4 (54877) सञ्जय उवाच। 8-1-5x (4819) सञ्चयोऽहं महाराज नमस्ते भरतर्षभ। हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम्॥ 8-1-5 (54878) चेदिकाशिकरूशानां मत्स्यानां सोमकैः सह। कृत्वाऽसौ कदनं शेते वातनुन्न इव द्रुमः॥ 8-1-6 (54879) गोष्ठमध्येव ऋषभो गोव्रजैः परिवारितः। व्यालेन निहतो यद्वत्तथाऽसौ निहतः परैः॥ 8-1-7 (54880) निराशान्पाण्डवान्कृत्वा दृढं राजन्ससात्यकान्। पाञ्चालानां रथांश्चैव विनिहत्य सहस्रशः॥ 8-1-8 (54881) जित्वा शूरान्महेष्वासान्विद्राव्य च दिशोदश। हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना॥ 8-1-9 (54882) वैरस्य गत आनृण्यं दुर्गमस्य दुरात्मभिः। हत्वा कर्णं महाराज विशल्यः पाण्डवोऽभवत्॥ 8-1-10 (54883) शोषणं सागराणां वा पतनं वा विवस्वतः। विशीर्णत्वं यथा मेरोस्तथा कर्णस्य पातनम्॥ 8-1-11 (54884) योधाश्च बहवो राजन्हतास्तत्र जयैषिणः। राजानो राजपुत्राश्च शूराः परिघबाहवः॥ 8-1-12 (54885) रथौघाश्च नरौघाश्च हता राजन्सहस्रशः। वारणा निहतास्तत्र वाजिनश्च महाहवे॥ 8-1-13 (54886) क्षत्रियाश्च महाराज सेनयोरुभयोर्हताः। परस्परं वै वीक्ष्यात्र परस्परकृतागसः॥ 8-1-14 (54887) किञ्चिच्छेषान्परान्कृत्वा तीर्त्वा पाण्डववाहिनीम्। पार्थवेलां समासाद्य हतो वैकर्तनो वृषा॥ 8-1-15 (54888) जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप। तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे॥ 8-1-16 (54889) प्रोच्यमानं महाराज बन्धुभिर्हितबुद्धिभिः। तदिदं समनुप्राप्तं व्यसनं त्वां महाभयम्॥ 8-1-17 (54890) पुत्राणां राज्यकामेन त्वया राजन्हितैषिणा। चरितान्यहितान्येव तेषां ते फलमागतम्॥ 8-1-18 (54891) हतो दुःशासनो राजन्यथोक्तं पाण्डवेन तु। प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे॥ 8-1-19 (54892) पीतं च क्षतजं तस्य धार्तराष्ट्रस्य संयुगे। पाण्डवेन महाराज कर्म कृत्वा सुदुष्करम्*'॥ 8-1-20 (54893) वैशम्पायन उवाच। 8-1-21x (4820) एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः। शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम्। विह्वलः पतितो भूमौ नष्टचेता इव द्विपः॥ 8-1-21 (54894) तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे। आर्तनादो महानासीत्स्त्रीणां भरतसत्तम॥ 8-1-22 (54895) श शब्दः पृथिवीं कृत्स्नां पूरयामास सर्वशः॥ 8-1-23 (54896) शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः। रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः॥ 8-1-24 (54897) राजानं च समासाद्य गान्धारी भरतर्षभ। निःसंज्ञा पतिता भूमौ सर्वाण्यन्तः पुराणि च॥ 8-1-25 (54898) ततस्ताः स़ञ्जयो राजन्समाश्वासयदातुराः। मुह्यामानाः सुबहुशो मुञ्चन्तीर्वारि नेत्रजम्॥ 8-1-26 (54899) समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः। कदल्य इव वातेन धूयमानाः समन्ततः॥ 8-1-27 (54900) राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम्। आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम्॥ 8-1-28 (54901) स लब्ध्वा सनकैः संज्ञां ताश्च दृष्ट्वा स्त्रियो नृपः। उन्मत्त इव राजेन्द्र स्थितस्तूष्णीं विशाम्पते॥ 8-1-29 (54902) ततो ध्यात्वा चिरं कालं निःश्वस्य च पुनःपुनः। स्वान्पुत्रान्गर्हयामास बहुमेने च पाण्डवान्॥ 8-1-30 (54903) गर्हयंश्चात्मनो बुद्धिं शकुनेः सौबलस्य च। ध्यात्वा तु सुचिरं कालं वेपमानो मुहुर्मुहुः॥ 8-1-31 (54904) संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः। पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम्॥ 8-1-32 (54905) न त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया॥ 8-1-33 (54906) कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम्। जये निराशः पुत्रो मे सततं जयकामुकः। ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम्॥ 8-1-34 (54907) वैशम्पायन उवाच। 8-1-35x (4821) एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय। हतो वैकर्तनो राजन्सहपुत्रैर्महारथः। भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः॥ 8-1-35 (54908) दुःशासनश्च निहतः पाण्डवेन यशस्विना। पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे॥ 8-1-36 (54909) `वैशम्पायन उवाच। 8-1-37x (4822) एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः। दह्यमानोऽब्रवीत्सूतं मुहूर्तं तिष्ठ सञ्जय। व्याकुलं मे मनस्तात मा तावत्किंचिदुच्यताम्॥ 8-1-37 (54910) राजापि नाब्रवीत्किञ्चित्सञ्जयो विदुरस्तथा। तूष्णीम्भूतस्तदा सोऽथ बभूव जगतीपतिः'॥ ॥ 8-1-38 (54911) इति श्रीमन्महाभारते कर्णपर्वणि प्रथमोऽध्यायः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Topics

दुर्योधनादिभिः कर्णस्य सैनापत्येऽभिषेचनपूर्वकं युद्धाय निर्याणम्॥ 1 ॥ जनमेजयेन वैशम्पायनम्प्रति कर्णमरणश्राविणो धृतराष्ट्रस्य प्रवृत्तिप्रश्नः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-1-0 (54912) श्रीकृष्णाय नमः॥ 8-1-0x (4823) [नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥ 8-1-1 (54913) वैशम्पायन उवाच। 8-1-2x (4824) ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः। भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन्॥ 8-1-2 (54914) ते द्रोणमनुशोचन्तः कश्मलाभिहतौजसः। पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम्॥ 8-1-3 (54915) ते मुहूर्तं समाश्वस्य हेतुभिः शास्त्रसम्मितैः। रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे॥ 8-1-4 (54916) ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम्। चिन्तयन्तः क्षयं तीव्रं दुःखशोकसमन्विताः॥ 8-1-5 (54917) विशेषतः सूतपुत्रो राजा चैव सुयोधनः। दुःशासनश्च शकुनिः सौबलश्च महाबलः॥ 8-1-6 (54918) उषितास्ते निशां तां तु दुर्योधननिवेशने। चिन्तयन्तः परिक्लेशान्पाण्डवानां महात्मनाम्॥ 8-1-7 (54919) यत्तद्द्यूते परिक्लिष्टा कृष्णा चानायिता सभाम्। तत्स्मरन्तोऽनुशोचन्तो भृशमुद्विग्नचतेतसः॥ 8-1-8 (54920) तथा तु सञ्चिन्तयतां तान्क्लेशान्द्यूतकारितान्। दुःखेन क्षणदा राजञ्जगामाब्दशतोपमा॥ 8-1-9 (54921) ततः प्रभाते विमले स्थिता दिष्टस्य शासने। चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा॥ 8-1-10 (54922) ते कृत्वाऽवश्यकार्याणि समाश्वस्य च भारत। योगमाज्ञापयामासुर्युद्वाय च विनिर्ययुः॥ 8-1-11 (54923) कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः। पूजयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः॥ 8-1-12 (54924) गोभिरश्वैश्च निष्कैश्च वासोभिश्च महाधनैः। वन्द्यमाना जयाशीर्भिः सूतमागधबन्दिभिः॥ 8-1-13 (54925) तथैव पाण्डवा राजन्कृतपूर्वाह्णिकक्रियाः। शिबिरान्निर्ययुस्तूर्णं युद्वाय कृतनिश्चयाः॥ 8-1-14 (54926) ततः प्रववृते युद्वं तुमुलं रोमहर्षणम्। कुरूणां पाण्डवानां च परस्परजयैषिणाम्॥ 8-1-15 (54927) तयोर्द्वौ दिवसौ युद्वं कुरुपाण्डवसेनयोः। कर्णे सेनापतौ राजन्बभूवाद्भुतदर्शनम्॥ 8-1-16 (54928) ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः। पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः॥ 8-1-17 (54929) ततस्तु सञ्जयः सर्वं गत्वा नागपुरं द्रुतम्। आचष्ट धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले॥ 8-1-18 (54930) जनमयेजय उवाच। 8-1-19x (4825) आपगेयं हतं श्रुत्वा द्रोणं चापि महारथम्। आजगाम परामार्तिं वृद्वो राजाऽम्बिकासुतः॥ 8-1-19 (54931) स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम्। कथं द्विजवर प्राणानधारयत दुःखितः॥ 8-1-20 (54932) यस्मिञ्जयाशां पुत्राणां सममन्यत पार्थिवः। तस्मिन्हते स कौरव्यः कथं प्राणानधारयत्॥ 8-1-21 (54933) दुर्मरं तदहं मन्ये नृणां कृच्छ्रेऽपि वर्तताम्। यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः॥ 8-1-22 (54934) तथा शान्तनवं वृद्वं ब्रह्मन्बाह्लीकमेव च। द्रोणं च सोमदत्तं च भूरिश्रवसमेव च॥ 8-1-23 (54935) तथैव चान्यान्सुहृदः पुत्रान्पौत्रांश्च पातितान्। श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज॥ 8-1-24 (54936) एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ ॥ 8-1-25 (54937) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धारम्भे प्रथमोऽध्यायः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Topics

धृतराष्ट्रेण भीष्मद्रोणौ प्रत्यनुशोचनपूर्वकं सञ्जयम्प्रति दुर्योधनादिप्रवृत्तिप्रश्नः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-1-0 (54938) वैशम्पायन उवाच। 8-1-0x (4826) हते कर्णे महाराज निशि गावल्गणिस्तदा। दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे॥ 8-1-1 (54939) स हास्तिनपुरं गत्वा भृशमुद्विग्नचेतनः। जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम्॥ 8-1-2 (54940) स तमुद्वीक्ष्य राजानं कश्मलाभिहतौजसम्। ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह॥ 8-1-3 (54941) सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम्। हा कष्टमिति चोक्त्वा स ततो वचनमाददे॥ 8-1-4 (54942) सञ्जयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान्। स्वदोषैरापदं प्राप्य कच्चिन्नाद्य विमुह्यति॥ 8-1-5 (54943) हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः। अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम्॥ 8-1-6 (54944) रामनारदकण्वाद्यैर्हितमुक्तं सभातले। न गृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम्॥ 8-1-7 (54945) सुहृदस्त्वद्विते युक्तान्भीष्मद्रोणमुखान्परैः। निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम्॥ 8-1-8 (54946) तमेवंवादिनं राजा सूतपुत्रं कृताजलिम्। सुदीर्घमथ निःश्वस्य दुःखार्त इदमब्रवीत्॥ 8-1-9 (54947) धृतराष्ट्र उवाच। 8-1-10x (4827) आपगेये हते शूरे दिव्यास्त्रवति सञ्जय। द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः॥ 8-1-10 (54948) यो रथानां सहस्राणि दंशितानां दशैव तु। अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः॥ 8-1-11 (54949) तं हतं यज्ञसेनस्य पुत्रेणेह शिखण्डिना। पाण्डवेयाभिगुप्तेन श्रुत्वा मे व्यथितं मनः॥ 8-1-12 (54950) भार्गवः प्रददौ यस्मै परमास्त्रं महाहवे। साक्षाद्रामणे यो बाल्ये धनुर्वेद उपाकृतः॥ 8-1-13 (54951) यस्य प्रसादात्कौन्तेया राजपुत्रा महारथाः। महारथत्वं सम्प्राप्तास्तथाऽन्ये वसुधाधिपाः॥ 8-1-14 (54952) तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे। सत्यसन्धं महेष्वासं भृशं मे व्यथितं मनः॥ 8-1-15 (54953) ययोर्लोके पुमानस्त्रे न समोऽस्ति चतुर्विधे। तौ द्रोणभीष्मौ श्रुत्वा तु हतौ मे व्यथितं मनः॥ 8-1-16 (54954) त्रैलोक्ये यस्य चास्त्रेषु न पुमान्विद्यते समः। तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः॥ 8-1-17 (54955) संशप्तकानां च बले पाण्डवेन महात्मना। धनञ्जयेन विक्रम्य गमिते यमसादनम्॥ 8-1-18 (54956) नारायणास्त्रे च हते द्रोणपुत्रस्य धीमतः। विप्रद्रुतानहं मन्येनिमग्नाञ्शोकसागरे। 8-1-19 (54957) प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे॥ दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः। 8-1-20 (54958) मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च॥ मत्पुत्रस्य च शेषस्य तथाऽन्येषां च सञ्जय। 8-1-21 (54959) विप्रद्रुतेष्वनीकेषु मुखवर्णोऽभवत्कथम्॥ एतत्सर्वं यथावृत्तं तथा गावल्गणे मम। 8-1-22 (54960) आचक्ष्व पाण्डवेयानां मामकानां च विक्रमम्॥ 8-1-23 (54961) सञ्जय उवाच। 8-1-23x (4828) तवापराधाद्यद्वृत्तं कौरवेयेषु मारिष। तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते बुधः॥ 8-1-24 (54962) यस्मादभावी भावी वा भवेदर्थो नरं प्रति। अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्यथते बुधः॥ 8-1-25 (54963) धृतराष्ट्र उवाच। 8-1-26x (4829) न व्यथाऽभ्यधिका काचिद्विद्यते मम सञ्जय। दिष्टमेतत्पुरा मन्ये कथयस्य यथेच्छकम्॥ ॥ 8-1-26 (54964) इति श्रीमन्महाभारते कर्णपर्वणि द्वितीयोऽध्यायः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Topics

दुर्योधनेन द्रोणमरणनिर्विण्णानां सैनिकानां कर्णगुणानुवर्णनेन प्रोत्साहनम्॥ 1 ॥ सञ्जयेन धृतराष्ट्रम्प्रति कर्णपराक मप्रशंसनपूर्वकं तन्निधनकथनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-1-0 (54965) सञ्जय उवाच। 8-1-0x (4830) हते द्रोणे महेष्वासे तव पुत्रा महारथाः। बभूवुरस्वस्थमुखा विषण्णा गतचेतसः॥ 8-1-1 (54966) अवाङ्मुखाः शस्त्रभृतः सर्व एव विशाम्पते। अवेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम्॥ 8-1-2 (54967) तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत। ऊर्ध्वमेव निरैक्षन्त दुःखत्रस्तान्यनेकशः॥ 8-1-3 (54968) शस्त्राण्येषां तु राजेन्द्र शोणिताक्तानि सर्वशः। प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं हतं युधि॥ 8-1-4 (54969) तानि बद्वान्यरिष्टानि लम्बमानानि भारत। अदृश्यन्त महाराज नक्षत्राणि यथा दिवि॥ 8-1-5 (54970) तथा तु स्तिमितं दृष्ट्वा गतसत्वमवस्थितम्। बलं तव महाराज राजा दुर्योधनोऽब्रवीत्॥ 8-1-6 (54971) भवतां बाहुवीर्यं हि समाश्रित्य मया युधि। पाण्डवेयाः समाहूता युद्वं चेदं प्रवर्तितम्॥ 8-1-7 (54972) तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते। युध्यमानाश्च समरे योधा वध्यन्ति सर्वशः॥ 8-1-8 (54973) जयो वाऽपि वधो वाऽपि युध्यमानस्य संयुगे। भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः॥ 8-1-9 (54974) पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि। प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम्॥ 8-1-10 (54975) यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जयः। निवर्तते सदा मन्दः सिंहात्क्षुद्रमृगो यथा॥ 8-1-11 (54976) येन नागायुतप्राणो भीमसेनो महाबलः। मानुषेणैव युद्धेन तामवस्थां प्रवेशितः॥ 8-1-12 (54977) येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः। अमोघया रणे शक्त्या निहतो भैरवं नदन्॥ 8-1-13 (54978) तस्य दुर्वारवीर्यस्य सत्यसन्धस्य धीमतः। बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे॥ 8-1-14 (54979) द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः। पश्यन्तु पाण्डुपुत्रास्ते विष्णुवासवयोरिव॥ 8-1-15 (54980) सर्व एव भवन्तश्च शक्ताः प्रत्येकशोऽपि वा। पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किसु संहताः। वीर्यवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम्॥ 8-1-16 (54981) सञ्जय उवाच। 8-1-17x (4831) एवमुक्त्वा ततः कर्णं चक्रे सेनापतिं तदा। तव पुत्रो महावीर्यो भ्रातृभिः सहितोऽनघ॥ 8-1-17 (54982) सैनापत्यमथावाप्य कर्णो राजन्महारथः। सिंहनादं विनद्योच्चैः प्रायुध्यत रणोत्कटः॥ 8-1-18 (54983) ससृञ्जयानां सर्वेषां पाञ्चालानां च मारिष। केकयानां विदेहानां चकार कदनं महत्॥ 8-1-19 (54984) तस्येषुधाराः शतशः प्रादुरासञ्छरासनात्। अग्रे पुङ्खेषु संसक्ता यथा भ्रमरपङ्क्तयः॥ 8-1-20 (54985) स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः। हत्वा सहस्रशो योधानर्जुनेन निपातितः॥ ॥ 8-1-21 (54986) इति श्रीमन्महाभारते कर्णपर्वणि तृतीयोऽध्यायः॥ 3 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-1-21 विह्वलः चलनासमर्थः काष्ठवत्पतितः॥ 8-1-25 अन्तःपुराणि स्त्रियः॥ 8-1-27 कदल्यइव वेपमाना आसन्निति शेषः॥ 8-1-29 दृष्ट्वा मनसैवात्मप्रत्ययेन दुःखवतीर्ज्ञत्वा॥ 8-1-34 इष्टवियोगमात्रेण दशरथादिर्मृतः। अस्यतु जये नैराश्यमधिकं मरणकारणमस्तीति भावः॥ 8-1-1 प्रथमोऽध्यायः॥
कर्णपर्व - अध्याय 002

॥ श्रीः ॥

8.2. अध्यायः 002

Mahabharata - Karna Parva - Chapter Topics

धृतराष्ट्रेण निजसेनायां निहतानां नामनिवेदनं चोदितेन सञ्जयेन तत्कथनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-2-0 (54987) `जनमेजय उवाच। 8-2-0x (4832) तच्छ्रुत्वा कर्णहननं पुत्रांश्चैव पलायितान्। धृतराष्ट्रो नृपश्चैव द्विजश्रेष्ठ किमब्रवीत्॥ 8-2-1 (54988) प्राप्तवान्व्यसनं घोरं पुत्रव्यसनजं महत्। काले यदुक्तवांस्तस्मिंस्तन्ममाचक्ष्व तत्त्वतः'॥ 8-2-2 (54989) वैशम्पायन उवाच। 8-2-3x (4833) एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः। अब्रवीत्सञ्जयं सूतं शोकसंविग्नमानसः॥ 8-2-3 (54990) दुष्प्रणीतेन मे तात पुत्रस्यादीर्घजीविनः। हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति॥ 8-2-4 (54991) तस्य मे संशयं छिन्धि दुःखपारं तितीर्षतः। कुरूणां सृञ्जयानां च के जीवन्ति के मृताः॥ 8-2-5 (54992) सञ्जय उवाच। 8-2-6x (4834) हतः शान्तनवो राजन्दुराधर्षः प्रतापवान्। हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः॥ 8-2-6 (54993) तथा द्रोणो महेष्वासः पाञ्चालानां रथव्रजान्। निहत्य युधि दुर्धर्षः पञ्चाद्रुक्मरथो हतः॥ 8-2-7 (54994) हतशेषस्य भीष्मेण द्रोणेन च महात्मना। अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः॥ 8-2-8 (54995) विविंशतिर्महाराज राजपुत्रो महाबलः। आनर्तयोधाञ्शतशो निहत्य निहतो रणे॥ 8-2-9 (54996) तथा पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन्। क्षीणबाणो हतः शूरः स्थितो ह्यभिमुखः परैः॥ 8-2-10 (54997) धोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून्। प्रतिज्ञां स्मरता तेन भीमसेनेन पातितः॥ 8-2-11 (54998) विन्दानुविन्दावावन्त्यौ राजपुत्रौ महारथौ। कृत्वा स्वसुकरं कर्म गतौ वैवस्वतक्षयम्॥ 8-2-12 (54999) सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यानिह। यस्य तिष्ठन्ति वचने यः स्थितस्तव शासने॥ 8-2-13 (55000) अक्षौहिणीर्दशैकां च विनिर्जित्य शितैः शरैः। सोऽर्जुनेन हतो राजन्महावीर्यो जयद्रथः॥ 8-2-14 (55001) तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः। वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः॥ 8-2-15 (55002) तथा दौःशासनिः सूरो बाहुशाली रणोत्कटः। द्रौपदेयेन सङ्गम्य गमितो यमसादनम्॥ 8-2-16 (55003) किरातानामधिपतिः सागरानूपवासिनाम्। देवराजस्य धर्मात्मा प्रियो बहुमतः सखा॥ 8-2-17 (55004) भगदत्तो महीपालः क्षत्रधर्मरतः सदा। धनञ्जयेन विक्रम्य गमितो यमसादनम्॥ 8-2-18 (55005) तथा कौरवदायादो न्यस्तशस्त्रो महायशाः। हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि॥ 8-2-19 (55006) श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धुरन्धरः। चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना॥ 8-2-20 (55007) तव पुत्रः सदामर्षी कृतास्त्रो युद्धदुर्मदः। दुःशासनो महाराज भीमसेनेन पातितः॥ 8-2-21 (55008) यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम्। सुदक्षिणः स सङ्ग्रामे निहतः सव्यसाचिना॥ 8-2-22 (55009) कोसलानामधिपतिर्हत्वा बहुमतान्परान्। सौभद्रेणेह विक्रम्य गमितो यमसादनम्॥ 8-2-23 (55010) बहुशो योधयित्वा तु भीमसेनं महारथम्। चित्रसेनस्तव सुतो भीमसेनेन पातितः॥ 8-2-24 (55011) मद्रराजात्मजः शूरः परेषां भयवर्धनः। असिचर्मधरः श्रीमान्सौभद्रेण निपातितः॥ 8-2-25 (55012) समः कर्णस्य समरे यः स कर्णस्य पश्यतः। वृषसेनो महातेजाः शीघ्रास्त्रो दृढविक्रमः॥ 8-2-26 (55013) अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः। धनञ्जयेन विक्रम्य गमितो यमसादनम्॥ 8-2-27 (55014) नित्यं प्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः। विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः॥ 8-2-28 (55015) शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष। हतो रुक्मरथो राजञ्श्यालो मातुलजो युधि॥ 8-2-29 (55016) राजा भागीरथो वृद्धो बृहत्क्षत्रश्च केकयः। पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ॥ 8-2-30 (55017) भगदत्तसुतो राजन्कृतप्रज्ञो मंहाबलः। श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः॥ 8-2-31 (55018) पितामहस्तव तथा बाह्लीकः सह बाह्लिकैः। निहतो भीमसेनेन महाबालपराक्रमः॥ 8-2-32 (55019) जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः। मागधो निहतः सङ्ख्ये सौभद्रेण महात्मना॥ 8-2-33 (55020) पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः। गदया भीमसेनेन निहतौ शूरमानिनौ॥ 8-2-34 (55021) दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः। कृत्वा त्वसुकरं कर्म गता वैवस्वतक्षयम्॥ 8-2-35 (55022) उभौ कलिङ्गवृषकौ भ्रातरौ युद्धदुर्मदौ। कृत्वा चासुकरं कर्म गतौ वैवस्वतक्षयम्॥ 8-2-36 (55023) सचिवो वृषपर्वा ते शूरः परमवीर्यवान्। भीमसेनेन विक्रम्य गमितो यमसादनम्॥ 8-2-37 (55024) तथैव पौरवो राजा नागायुतबलो महान्। समरे पाण्डुपुत्रेण निहतः सव्यसाचिना॥ 8-2-38 (55025) वसातयो महाराज द्विसाहस्राः प्रहारिणः। शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः॥ 8-2-39 (55026) अभीषाहाः कवचिनः प्रहरन्तो रणोत्कटाः। शिबयश्च रथोदाराः कालिङ्गसहिता हताः॥ 8-2-40 (55027) गोकुले नित्यसंवृद्धा युद्धे परमकोपनाः। गोपालाः कृतवीरास्ते निहताः सव्यसाचिना॥ 8-2-41 (55028) श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये। ते सर्वे पार्थमासाद्य गदा वैवस्वतक्षयम्॥ 8-2-42 (55029) श्यालौ तव महाराज राजानौ वृषकाचलौ। त्वदर्थमतिविक्रान्तौ निहतौ सव्यसाचिना॥ 8-2-43 (55030) उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा। साल्वराजो महाबाहुर्भीमसेनेन पातितः॥ 8-2-44 (55031) ओघवांश्च महाराज बृहन्तः सहितौ रणे। पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम्॥ 8-2-45 (55032) तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशाम्पते। निहतो गदया राजन्भीमसेनेन संयुगे॥ 8-2-46 (55033) तथा राजन्महेष्वासो जलसन्धौ महाबलः। सुमहत्कदनं कृत्वा हतः सात्यकिना रणे॥ 8-2-47 (55034) अलम्बुसो राक्षसेन्द्रः खरबन्धुरयानवान्। घटोत्कचेन विक्रम्य गमितो यमसादनम्॥ 8-2-48 (55035) राधेयः सूतपुत्रश्च भ्रातरश्च महारथाः। केकयाः सर्वशश्चापि निहताः स्व्यसाचिना॥ 8-2-49 (55036) मालवा मद्रकाश्चैव द्राविडाश्चोग्रकर्मिणः। यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः॥ 8-2-50 (55037) मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाश्च ये। प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष॥ 8-2-51 (55038) पत्तीनां निहताः सङ्घा हयानां प्रयुतानि च। रथव्रजाश्च निहता हताश्च वरवारणाः॥ 8-2-52 (55039) सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः। कालेन महताऽऽयस्ताः कुशलैर्ये च वर्धिताः॥ 8-2-53 (55040) ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा। अन्ये तथाऽमितबलाः परस्परवधैषिणः॥ 8-2-54 (55041) एते चान्ये च बहवो राजानः सगणा रणे। हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि॥ 8-2-55 (55042) एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे। महेन्द्रेण यथा वृत्रो यथा रामेण रावणः॥ 8-2-56 (55043) यथा कृष्णेन नरको मुरुश्च निहतो रणे। कार्तवीर्यश्च रामेण भार्गवेण यथा हतः॥ 8-2-57 (55044) सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः। रणे कृत्वा महद्युद्धं घोरं त्रैलोक्यमोहनम्॥ 8-2-58 (55045) यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः। तथाऽर्जुनेन स हतो द्वैरथे युद्धदुर्मदः॥ 8-2-59 (55046) सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः। जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृपः॥ 8-2-60 (55047) तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे। उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः॥ 8-2-61 (55048) `न कृतं च त्वया पूर्वं दैवेन विधिना बलात्'। तदिदं समनुप्राप्तं व्यसनं सुमहात्ययम्॥ 8-2-62 (55049) गाणां राज्यकामानां त्वया राजन्हितैषिणा। अहितान्येव चीर्णानि तेषां ते फलमागतम्॥ ॥ 8-2-63 (55050) इति श्रीमन्महाभारते कर्णपर्वणि द्वितीयोऽध्यायः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-2-35 दुर्मनाश्च महारथः इति क.ख.ङ.पाठः। विकर्णश्च महाबलः इति ङ. पाठः॥ 8-2-48 खरबन्धुरयानवान् गर्दभसंयुतरथवान्। अलायुधो राक्षसेन्द्रो बकबन्धुरयानवान् इति क.ख.ङ.पाठः॥ 8-2-59 कर्णस्तथा हत इत्यनुकृष्यते॥ 8-2-2 द्वितीयोऽध्यायः॥
कर्णपर्व - अध्याय 003

॥ श्रीः ॥

8.3. अध्यायः 003

Mahabharata - Karna Parva - Chapter Topics

सञ्जयेन धृतराष्ट्रम्पति युद्धे निहतानां परेषां नामकथनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-3-0 (55051) धृतराष्ट्र उवाच। 8-3-0x (4835) आख्याता मामकास्तात निहता युधि पाण्डवैः। हतांश्च पाण्डवेयानां मामकैर्ब्रूहि सञ्जय॥ 8-3-1 (55052) सञ्जय उवाच। 8-3-2x (4836) कृतिनो युधि विक्रान्ता महासत्वा महाबलाः। सानुबन्धाः सहामात्या गाङ्गेयेन निपातिताः॥ 8-3-2 (55053) नारायणा वल्लवाश्च रामाश्च शतशो परे। अनुरक्ताश्च वीरेण भीष्मेण युधि पातिताः॥ 8-3-3 (55054) समः किरीटिना सङ्ख्ये वीर्येण च बलेन च। सत्यजित्सत्यसन्धेन द्रोणेन निहतो युधि॥ 8-3-4 (55055) पाञ्चालानां महेष्वासाः सर्वे युद्वविशारदाः। द्रोणेन सह सङ्गम्य गता वैवस्वतक्षयम्॥ 8-3-5 (55056) तथा विराटद्रुपदौ वृद्वौ सहसुतौ नृपौ। पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे॥ 8-3-6 (55057) यो बाल एव समरे सम्मितः सव्यसाचिना। केशवेन च दुर्धर्षो बलदेवेन चाभिभूः॥ 8-3-7 (55058) परेषां कदनं कृत्वा महद्रणविशारदः। परिवार्य मदामात्रैः षड्भिः परमकै रथैः। अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः॥ 8-3-8 (55059) कृतं तं विरथं वीरं क्षत्रधर्मे व्यवस्थितम्। दौःशासनिर्महाराज सौभद्रं हतवान्रणे॥ 8-3-9 (55060) पटच्चरनिहन्ता च महत्या सेनया वृतः। अम्बष्ठस्य सुतः श्रीमान्मित्रहेतोः पराक्रमन्॥ 8-3-10 (55061) आसाद्य लक्ष्मणं वीरं दुर्योधनसुतं रणे। सुमहत्कदनं कृत्वा गतो वैवस्वतक्षयम्॥ 8-3-11 (55062) बृहन्तः सुमहेष्वासः कृतास्त्रो युद्वदुर्मदः। दुःशासनेन विक्रम्य गमितो यमसादनम्॥ 8-3-12 (55063) मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ। पराक्रमन्तौ मित्रार्थे द्रोणेन युधि पातितौ॥ 8-3-13 (55064) अंशुमान्भोजराजस्तु सहसैन्यो महारथः। भारद्वाजेन विक्रम्य गमितो यमसादनम्॥ 8-3-14 (55065) सामुद्रश्चित्रसेनश्च सह पुत्रेण भारत। समुद्रसेनेन बलाद्गमितो यमसादनम्॥ 8-3-15 (55066) अनूपवासी नीलश्च व्याध्रदत्तश्च वीर्यवान्। अश्वत्थाम्ना विकर्णेन गमितौ यमसादनम्॥ 8-3-16 (55067) चित्रायुधश्चित्रयोधी कृत्वा च कदनं महत्। चित्रमार्गेण विक्रम्य विकर्णेन हतो मृधे। 8-3-17 (55068) वृकोदरसमो युद्धे वृतः केकयजो युधि। केकयेन च विक्रम्य भ्राता भ्रात्रा निपातितः॥ 8-3-18 (55069) जनमेजयो गदायोधी पार्वतीयः प्रतापवान्। दुर्मुखेन महाराज तव पुत्रेण पातितः॥ 8-3-19 (55070) रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव। द्रौणेन युगपद्राजन्दिवं सम्प्रातितौ शरैः॥ 8-3-20 (55071) नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशाम्पते। कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम्॥ 8-3-21 (55072) पुरुजित्कृन्तिभोजश्च मातुलौ सव्यसाचिनः। संग्रामनिर्जिताँल्लोकान्गमितौ द्रोणसायकैः॥ 8-3-22 (55073) अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः। वसुदानस्य पुत्रेण त्याजितो देहमाहवे॥ 8-3-23 (55074) अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान्। निहत्य शतशः सूरानस्मदीयैर्निपातिताः॥ 8-3-24 (55075) मित्रवर्मा च पाञ्चाल्यः क्षत्रधर्मा च भारत। द्रोणेन परमेष्वासौ गमितौ यमसादनम्॥ 8-3-25 (55076) शिखण्डितनयो युद्धे क्षत्रदेवो युधाम्पतिः। लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत॥ 8-3-26 (55077) सुचित्रश्चित्रवर्मा च पितापुत्रौ महारथौ। प्रचरन्तौ महावीरौ द्रोणेन निहतौ रणे॥ 8-3-27 (55078) वार्धक्षेमिर्महाराज समुद्र इव पर्वणि। आयुधक्षयमासाद्य प्रशान्तिं परमां गतः॥ 8-3-28 (55079) सेनाबिन्दुसुतः श्रेष्ठः शास्त्रवान्प्रहरन्युधि। बाह्लिकेन महाराज कौरवेन्द्रेण पातितः॥ 8-3-29 (55080) धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः। कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्॥ 8-3-30 (55081) तथा सत्यधृतिर्वीरः कृत्वा कदनमाहवे। पाण्डवार्थे पराक्रान्तो गमितो यमसादनम्॥ 8-3-31 (55082) पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपतिः। निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो युधि॥ 8-3-32 (55083) तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान्। सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः॥ 8-3-33 (55084) `मात्स्यादवरजः श्रीमाञ्शतानीको निपातितः। श्रेणिमांश्च महाराज युध्यमानः पराक्रमी। कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्॥ 8-3-34 (55085) तथैव युधि विक्रान्तो मागधः परमास्त्रवित्। भीष्मेण निहतो राजञ्शेतेऽद्य परवीरहा॥ 8-3-35 (55086) विराटपुत्रः शङ्खस्तु उत्तरश्च महारथः। कुर्वन्तौ सुमहत्कर्म गतौ वैवस्वतक्षयम्॥ 8-3-36 (55087) वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे। भारद्वाजेन विक्रम्य गमितो यमसादनम्॥ 8-3-37 (55088) एते चान्ये च बहवः पाण्डवानां महारथाः। हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि॥ ॥ 8-3-38 (55089) इति श्रीमन्महाभारते कर्णपर्वणि तृतीयोऽध्यायः॥ 3 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-3-20 रोचमानौ एकानामानौ भ्रातरौ॥ 8-3-3 तृतीयोऽध्यायः॥
कर्णपर्व - अध्याय 004

॥ श्रीः ॥

8.4. अध्यायः 004

Mahabharata - Karna Parva - Chapter Topics

सञ्जयेन धृतराष्ट्रम्प्रति हतावशिष्टानां नामकथनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-4-0 (55090) धृतराष्ट्र उवाच। 8-4-0x (4837) मामकस्यास्य सैन्यस्य हृतोत्सेकस्य स़ञ्जय। अवशेषं न पश्यामि ककुदे मृदिते सति॥ 8-4-1 (55091) तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ। भीष्मद्रोणौ हतौ श्रुत्वा कोन्वर्थो जीवितेन मे॥ 8-4-2 (55092) न च मृष्यामि राधेयं हतमाहवशोभिनम्। यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम्॥ 8-4-3 (55093) हतप्रवरसैन्यं मे यथा शंससि सञ्जय। अहतानपि मे शंस येऽत्र जीवन्ति केचन॥ 8-4-4 (55094) एतेषु हि मृतेष्वद्य ये त्वया परिकीर्तिताः। येऽपि जीवन्ति ते सर्वे मृता इति मतिर्मम॥ 8-4-5 (55095) सञ्जय उवाच। 8-4-6x (4838) यस्मिन्महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानि। दिव्यानि राजन्विहितानि चैव द्रोणेन वीरे द्विजसत्तमेन॥ 8-4-6 (55096) महारथः कृतिमान्क्षिप्रहस्तो दृढायुधो दृढमुष्टिर्दृढेषुः। स वीर्यवान्द्रोणपुत्रस्तरस्वी व्यवस्थितो योद्वुकामस्त्वदर्थे॥ 8-4-7 (55097) आनर्तवासी हृदिकात्मजोऽसौ महारथः सात्वतानां वरिष्ठः। स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्वुकामस्त्वदर्थे॥ 8-4-8 (55098) आर्तायनिः समरे दुष्प्रकम्प्यः सेनाग्रणीः प्रथमस्तावकानाम्। यः स्वस्रीयान्पाण्डवेयान्विसृज्य सत्यां वाचं स्वां चिकीर्षुस्तरस्वी॥ 8-4-9 (55099) तजोवधं सूतपुत्रस्य सङ्ख्ये प्रतिश्रुत्याजातशत्रोः पुरस्तात्। दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्वुकामस्त्वदर्थे॥ 8-4-10 (55100) शारद्वतो गौतमश्चापि राज-- न्महाबाहुचित्रास्त्रयोधी। धनुश्चित्रं सुमहद्भावरसाहं व्यवस्थितो योद्वुकामः प्रगृह्य॥ 8-4-11 (55101) गान्धारराजः ससुतश्च राज-- न्दुर्द्यूतदेवी कलहप्रियश्च। गान्धारमुख्यैर्यवनैश्च राज-- न्व्यवस्थितो योद्वुकामस्त्वदर्थे॥ 8-4-12 (55102) महारथः केकयराजपुत्रः सदश्वयुक्तं च पताकिनं च। रथं समारुह्य कुरुप्रवीर व्यवस्थितो योद्वुकामस्त्वदर्थे॥ 8-4-13 (55103) तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीरः। व्यवस्थितः पुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा खे॥ 8-4-14 (55104) दुर्योधनो नागकुलस्य मध्ये व्यवस्थितः सिंह इवाबभासे। रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योत्स्यमानः॥ 8-4-15 (55105) स राजमध्ये पुरुषप्रवीरो रराज जाम्बूनदचित्रवर्मा। पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः॥ 8-4-16 (55106) तथा सुषेणोऽप्यसिचर्मपाणि-- स्तवात्मजः सत्यसेनश्च वीरः। व्यवस्थितौ चित्रसेनेन सार्धं हृष्टात्मानौ समरे योद्धकामौ॥ 8-4-17 (55107) हीनिषेवो भारतराजपुत्र उग्रायुधः श्रुतवर्मा जयश्च। शलश्च सत्यव्रतदुःशलौ च व्यवस्थिताः सहसैन्या नराग्र्याः॥ 8-4-18 (55108) कैतव्यानामधिपः शूरमानी रणेरणे शत्रुहा राजपुत्रः। रथी हयी नागपत्तिप्रयायी व्यवस्थितो योद्वुकामस्त्वदर्थे॥ 8-4-19 (55109) वीरः श्रुतायुश्च धृतायुधश्च चित्राङ्गदश्चित्रसेनश्च वीरः। व्यवस्थिता योद्वुकामा नराग्र्याः प्रहारिणो मानिनः सत्यसन्धाः॥ 8-4-20 (55110) कर्णात्मजः सत्यसन्धो महात्मा व्यवस्थितः समरे योद्वुकामः॥ 8-4-21 (55111) अथापरौ कर्णसुतौ वरास्त्रौ व्यवस्थितौ लघुहस्तौ नरेन्द्र। बले महत्युल्बणसत्ववीर्यौ समास्थितौ योद्वुकामौ त्वदर्थे॥ 8-4-22 (55112) एतैश्च मुख्यैरपरैश्च राज-- न्योधप्रवीरैरमितप्रभावैः। व्यवस्थितो नागकुलस्य मध्ये यथा महेन्द्रः कुरुराजो जयाय॥ 8-4-23 (55113) धृतराष्ट्र उवाच। 8-4-24x (4839) आख्याता जीवमाना ये परे सैन्या यथायथम्। इतीदमवगच्छामि व्यक्तमर्थाभिपत्तितः॥ 8-4-24 (55114) वैशम्पायन उवाच। 8-4-25x (4840) एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः। हतप्रवीरं भूयिष्ठं किञ्चिच्छेषं स्वकं बलम्। श्रुत्वा व्यामोहमागच्छच्छोकव्याकुलितेन्द्रियः॥ 8-4-25 (55115) व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम्॥ मनो मुह्यति चाङ्गानि न च शक्नोमि धावितुम्। इत्येवमुक्त्वा वचनं धृतराष्ट्रोऽम्बिकासुतः। भ्रान्तचित्तस्ततः सोऽथ बभूव जगतीपतिः॥ ॥ 8-4-26 (55116) इति श्रीमन्महाभारते कर्णपर्वणि चतुर्थोऽध्यायः॥ 4 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-4-1 ककुदे प्रधानपुरुषसमूहे भीष्मद्रोणकर्णरूपे मृदितेनाशिते सति॥ 8-4-5 मृताः मृतप्रायाः॥ 8-4-6 चतुर्विधानि दृढदूरसूक्ष्मशब्दवेधीनि। विहितानि धनुर्वेदोदितानि॥ 8-4-7 कृतिमान् अवन्ध्ययत्नः॥ 8-4-9 आर्तायनिः शल्यः। स्वस्रीयान् भागिनेयान्॥ 8-4-19 नागपत्तिप्रयायी नागैः पत्तिभिश्च प्रयातुं शीलमस्य। नागरथप्रयायीति पाठान्तरम्॥ 8-4-24 सैन्याः सेनामर्हन्ति ते राजानः। यथायथं पक्षद्वयेऽपि जीवमाना आख्याताः। इदं भाविजयपराजयादिकम्। इति अनेन पक्षद्वयबलतोलनेन व्यक्तं स्पृष्टमभिगच्छामि जानामि। अर्थाभिपत्तितः फलोपपत्तितः। तेन जयो मदीयानां नास्तीति निश्चिनोमीति भावः। आख्याता वै जीवमानाः परेभ्योऽन्ये यथा ध्नुवम्। इतीदमवगच्छामि व्यक्तमर्थो व्यवस्थितः। इति क.ख.ड.पाठः॥ 8-4-4 चतुर्थोऽध्यायः॥
कर्णपर्व - अध्याय 005

॥ श्रीः ॥

8.5. अध्यायः 005

Mahabharata - Karna Parva - Chapter Topics

धृतराष्ट्रेण कर्णगुणानुवर्णनपूर्वकं शोचनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-5-0 (55117) जनमेजय उवाच। 8-5-0x (4841) श्रुत्वा कर्णं हतं युद्वे पुत्रांश्चैव पलायिनः। नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत्॥ 8-5-1 (55118) प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत्। तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः॥ 8-5-2 (55119) वैशम्पायन उवाच। 8-5-3x (4842) श्रुत्वा कर्णस्य निधनमश्रद्वेयमिवाद्भुतम्। भूतसम्मोहनं भीमं मेरोः संसर्पणं यथा॥ 8-5-3 (55120) चित्तमोहमिवायुक्तं भार्गवस्य महामतेः। पराजयमिवेन्द्रस्य द्विषद्ध्यो भीमकर्मणः॥ 8-5-4 (55121) दिवः प्रपतनं भानोरुरव्यामिव महाद्युतेः। संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः॥ 8-5-5 (55122) महीवियद्दिगम्बूनां सर्वनाशमिवाद्भुतम्। कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः॥ 8-5-6 (55123) सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः। नेदमस्तीति सञ्चिन्त्य कर्णस्य समरे वधम्॥ 8-5-7 (55124) प्राणिनामेवमात्मत्वात्स्यादपीति विचार्य च। शोकाग्निना दह्यमानो धम्यमान इवाशये॥ 8-5-8 (55125) विस्रस्ताङ्गः श्वसन्दीनो हाहेत्युक्त्वा सुदुःखितः। विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः॥ 8-5-9 (55126) धृतराष्ट्र उवाच। 8-5-10x (4843) सञ्जयाधिरथिर्वीरः सिंहद्विरदविक्रमः। वृषभप्रतिमस्कन्धो वृषभाक्षगतिस्वरः॥ 8-5-10 (55127) वृषभो वृषभस्येव यो युद्धे न निवर्तते। शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा॥ 8-5-11 (55128) यस्य ज्यातलशब्देन शरवृष्टिरवेण च। रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे॥ 8-5-12 (55129) यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम्। दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महारथैः॥ 8-5-13 (55130) स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे। निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः॥ 8-5-14 (55131) यो नामन्यत वै नित्यमच्युतं च धनञ्जयम्। न वृष्मीन्सहितानन्यान्स्वबाहुबलदर्पितः॥ 8-5-15 (55132) शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ। अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे॥ 8-5-16 (55133) इति यः सततं मन्दमवोचल्लोभमोहितम्। दुर्योधनमवाचीनं राज्यकामुकमातुरम्॥ 8-5-17 (55134) योऽजयत्सर्वकाम्भोजानावन्त्यान्केकयैः सह। गान्धारान्मद्रकान्मात्स्यांस्त्रिगर्तांस्तङ्कणाञ्शकान्। 8-5-18 (55135) पाञ्चालांश्च विदेहांश्च कुलिन्दान्काशिकोसलान् सूह्मानङ्गांश्च वङ्गांश्च निषादान्पुण्ड्रकीकटान्॥ 8-5-19 (55136) वत्सान्कलिङ्गान्दरदानश्मकानृषिकानपि। `शबरान्हारहूणांश्च प्रघूणान्सरलानपि॥ 8-5-20 (55137) म्लेच्छराष्ट्राधिपांश्चैव दुर्गानाटविकांस्तथा'। जित्वैतान्समरे वीरः प्रदीप्तैः कङ्कपत्रिभिः॥ 8-5-21 (55138) करमाहारयामास जित्वा सर्वानरींस्तथा। दुर्योधनस्य वृद्ध्यर्थं राधेयो रथिनां वरः। दिव्यास्त्रविमन्हातेजाः कर्णो वैकर्तनो वृषः॥ 8-5-22 (55139) सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित्। घातितः पाण्डवैः शूरैः समरे वीर्यशालिभिः॥ 8-5-23 (55140) वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि। तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुम॥ 8-5-24 (55141) उच्चैः श्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः। वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः॥ 8-5-25 (55142) योऽजितः पार्थिवैः शूरैः समर्थैर्वीर्यशालिभिः। दुर्योधनस्य वृद्ध्यर्थं कृत्स्नामुर्वीमथाजयत्॥ 8-5-26 (55143) यं लब्ध्वा मागधो राजा सांत्वमानोऽथ सौहृदैः। अरौत्सीत्पार्थिवं क्षत्रमृते यादवकौरवान्॥ 8-5-27 (55144) तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना। शोकार्णवे निमग्नोऽहं भिन्ना नौरिव सागरे॥ 8-5-28 (55145) तं वृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम्। शोकार्णवे निमग्नोऽहमप्लुवः सागरे यथा॥ 8-5-29 (55146) ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय। वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम्॥ 8-5-30 (55147) ज्ञातिसंबन्धिमित्राणामिमं श्रुत्वा पराभवम्। को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम्॥ 8-5-31 (55148) विषमग्निं प्रपातं च पर्वताग्रादहं वृणे। `महाप्रस्थानगमनं जलं प्रायोपवेशनम्'। न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय॥ ॥ 8-5-32 (55149) इति श्रीमन्महाभारते कर्णपर्वणि पञ्चमोऽध्यायः॥ 5 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-5-1 पुत्रांश्चैव निपातितान् इति झ.पाठः॥ 8-5-4 भार्गवस्य रामस्य शुक्रस्य वा॥ 8-5-7 कर्णस्य वधं सञ्चिन्त्य मनस्यालोच्य इदं कृत्स्नं जगत्स्वसैन्यं वा नास्तीति सञ्चिन्त्य निश्चित्य विललापेति तृतीयेन सम्बन्धः॥ 8-5-17 अवाचीनं चिन्तयाऽधोमुखम्॥ 8-5-24 जलवर्षित्वाद्देवेषु महेन्द्रो वृषः। धनवर्षित्वान्मनुष्येषु कर्णोवृषः। तृतीयमेवमभितो वृष्टिकर्तारं वृषम्॥ 8-5-29 नौकाहीनः॥ 8-5-5 पञ्चमोऽध्यायः॥
कर्णपर्व - अध्याय 006

॥ श्रीः ॥

8.6. अध्यायः 006

Mahabharata - Karna Parva - Chapter Topics

कर्णवधश्रवणानन्तरीयकधृतराष्ट्रप्रवृत्तिं पृष्टेन वैशम्पायनेन कर्णदुर्योधनस्तुतिनिन्दापूर्वकं सञ्जयम्प्रति कर्णार्जुनयुद्धकथनचोदनारूपधृतराष्ट्रप्रवृत्तिकथनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-6-0 (55150) सञ्जय उवाच। 8-6-0x (4844) श्रिया कुलेन यशसा तपसा च श्रुतेन च। त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम्॥ 8-6-1 (55151) श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव। पर्यवस्थापयात्मानं मा विषादे मनः कृथाः॥ 8-6-2 (55152) धृतराष्ट्र उवाच। 8-6-3x (4845) दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्। यत्र सालप्रतीकाशः कर्णोऽहन्यत संयुगे॥ 8-6-3 (55153) हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान्। प्रताप्य शरवर्षेण दिशः सर्वा महारथः॥ 8-6-4 (55154) मोहियित्वा रणे पार्थान्वज्नहस्त इवासुरान्। स कथं निहतः शेते वायुरुग्ण इव द्रुमः॥ 8-6-5 (55155) शोकस्यान्तं न पश्यामि पारं जलनिधेरिव। चिन्ता मे वर्धतेऽतीव मुमूर्षा चापि जायते॥ 8-6-6 (55156) कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च। अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय॥ 8-6-7 (55157) वज्रसारमिदं नूनं हृदयं दुर्भिदं मम। यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते॥ 8-6-8 (55158) आर्युर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा। यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः॥ 8-6-9 (55159) धिग्जीवितमिदं चैव सुहृद्वीनस्य सञ्जय। अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम्। कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः॥ 8-6-10 (55160) अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः। परिभूतः कथं सूत परैः शक्ष्यामि जीवितुम्॥ 8-6-11 (55161) दुःखाद्दुःखतरं भन्ये प्राप्तवानस्मि सञ्जय। भीष्मद्रोणवधेनैव कर्णस्य च महात्मनः॥ 8-6-12 (55162) नावशेषं प्रपश्यामि सूतपुत्रे हते युधि। सहि पारं महानासीत्पुत्राणां मम सञ्जय॥ 8-6-13 (55163) युद्धे हि निहतः शूरो विसृजन्सायकान्बहून्। को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम्॥ 8-6-14 (55164) रथादाधिरथिर्नूनं न्यपतत्सायकार्दितः। पर्वतस्येव शिखरं व ज्रपाताद्विदारितम्॥ 8-6-15 (55165) स शेते पृथिवीं नूनं शोभयन्रुधिरोक्षितः। मातङ्ग इव मत्तेन मताङ्गेन निपातितः॥ 8-6-16 (55166) यो बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम्। सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम्॥ 8-6-17 (55167) स हि वीरो महेष्वासो मित्राणामभयङ्करः। शेते विनिहतो वीरः शक्रेणेव पुरा बलः॥ 8-6-18 (55168) पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम्। दुर्योधनस्य लोभश्च समान्येतानि सञ्जय॥ 8-6-19 (55169) अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते। अहो नु बलवद्दैवं कालश्च दुरतिक्रमः॥ 8-6-20 (55170) पलायमानः कृपणो दीनात्मा दीनपौरुषः। कच्चिद्विनिहतः सूत पुत्रो दुःशासनो मम॥ 8-6-21 (55171) कच्चिन्न दीनाचरितं कृतवांस्तात संयुगे। कच्चिन्न निहतः शूरा यथाऽन्ये क्षत्रियर्षभाः॥ 8-6-22 (55172) युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा। दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम्॥ 8-6-23 (55173) शतल्पे शयानेन भीष्मेण सुमहात्मना। पानीयं याचितः पार्थः सोविध्यन्मेदिनीतलम्॥ 8-6-24 (55174) जलस्य धारां जनितां दृष्ट्वा पाण्डुसुतेन च। अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः॥ 8-6-25 (55175) प्रशमाद्वि भवेच्छान्तिर्मदन्तं युद्धमस्तु वः। भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह॥ 8-6-26 (55176) अकुर्वन्वचनं तस्य नूनं शोचति पुत्रकः। तदिदं समनुप्राप्त वचनं दीर्घदर्शिनः॥ 8-6-27 (55177) अहं तु निहतामात्यो हतपुत्रश्च सञ्जय। द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः॥ 8-6-28 (55178) यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय। विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः॥ 8-6-29 (55179) लूनपक्षतया तस्य गमनं नोपपद्यते। तथाहमपि सम्प्राप्तो लूनपक्ष इव द्विजः॥ 8-6-30 (55180) क्षीणः सर्वार्थहीनश्च निर्ज्ञातिर्बन्धुवर्जितः। कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः॥ 8-6-31 (55181) वैशम्पायन उवाच। 8-6-32x (4846) इत्येवं धृतराष्ट्रोऽथ विलप्य बहुदुःखितः। प्रोवाच सञ्जयं भूयः सोकव्याकुलमानसः॥ 8-6-32 (55182) धृतराष्ट्र उवाच। 8-6-33x (4847) योऽजयत्सर्वकाम्भोजानम्बष्ठान्कैकयैः सह। गान्धारांश्च विदेहांश्च जित्वा कार्यार्थमाहवे॥ 8-6-33 (55183) दुर्योधनस्य वृद्ध्यर्थं योऽजयत्पृथिवीं प्रभुः। स जितः पाण्डवैः शूरैः समरे वाहुशालिभिः॥ 8-6-34 (55184) तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना। के वीराः पर्यतिष्ठन्त तन्ममाचक्ष्व सञ्जय॥ 8-6-35 (55185) कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे। उक्तं त्वया पुरा तात यथा वीरो निपातितः॥ 8-6-36 (55186) भीष्ममप्रतियुध्यन्तं शिखम्डी सायकोत्तमैः। पातयामास समरे सर्वशस्त्रभृतां वरम्॥ 8-6-37 (55187) तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि। `धर्मराजवचः श्रुत्वा अश्वत्थामा हतस्त्विति'॥ 8-6-38 (55188) युक्तयोगो महेष्वासः शरैर्बहुभिराचितः। निहतः खङ्गमुद्यम्य धृष्टद्युम्नेन सञ्जय॥ 8-6-39 (55189) अन्तरेण हतावेतौ छलेन च विशेषतः। अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ॥ 8-6-40 (55190) भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम्। न्यायेन युध्यन्समरे तद्वै सत्यं ब्रवीमि ते॥ 8-6-41 (55191) कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च। कथमिन्द्रोपमं वीरं मृत्युर्युद्वे समस्पृशत्॥ 8-6-42 (55192) यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम्। प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरन्दरः॥ 8-6-43 (55193) यस्य सर्पमुखो दिव्यः शरः काञ्चनभूषणः। अशेत निशितः पत्री समरेष्वरिसूदनः॥ 8-6-44 (55194) भीष्मद्रोणमुखान्वीरान्योऽवमत्य महारथान्। जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत॥ 8-6-45 (55195) यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः। सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शितैः॥ 8-6-46 (55196) यश्च नागायुतप्राणां वज्ररंहसमच्युतम्। विरथं सहसा कृत्वा भीमसेनमपाहसत्॥ 8-6-47 (55197) सहदेवं च निर्जित्य शरैः सन्नतपर्वभिः। कृपया विरथं कृत्वा नाहनद्धर्मचिन्तया॥ 8-6-48 (55198) यश्च मायासहस्राणि विकुर्वाणं जयैषिणम्। घटोत्कचं राक्षसेन्द्रं शक्रशक्त्या निजघ्निवान्॥ 8-6-49 (55199) एवांश्च दिवसान्यस्य युद्धे भीतो धनञ्जयः। नागमद्द्वैरथं वीरः स कथं निहतो रणे॥ 8-6-50 (55200) [संशप्तकानां योधा ये आह्वयन्त सदाऽन्यतः। एतान्हत्वा हनिष्यामि पश्चाद्वैकर्तनं रणे॥ 8-6-51 (55201) इति व्यपदिशन्पार्थो वर्जयन्सूतजं रणे। स कथं निहतो वीरः पार्थेन परवीरहा॥] 8-6-52 (55202) रथभह्गो न चेत्तस्य धनुर्वा न व्यशीर्यत। न चेदस्त्राणि नष्टानि स कथं निहतः परैः॥ 8-6-53 (55203) को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः। विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे। जेतुं पुरुषशार्दूलं शार्दूलमिव वेगिनम्॥ 8-6-54 (55204) ध्रवं तस्य धनुश्छिन्नं रथो वाऽपि महीं गतः। अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम्। न ह्यन्यदपि पश्यामि कारणं तस्य नाशने॥ 8-6-55 (55205) न हिन्मि फल्गुनं यावत्तावत्पादौ न धावये। इति यस्य महाघोरं व्रतमासीन्महात्मनः॥ 8-6-56 (55206) यस्य भीतो रमे निद्रां धर्मराजो युधिष्ठिरः। त्रयोदशसमा नित्यं नाभजत्पुरुषर्षभः॥ 8-6-57 (55207) यस्य वीर्यवतो वीर्यमुपाश्रित्य महात्मनः। मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात्॥ 8-6-58 (55208) तत्रापि च सभामध्ये पाण्डवानां च पश्यताम्। दासभार्येति पाञ्चालीमब्रवीत्कुरुसन्निधौ॥ 8-6-59 (55209) [न सन्ति तपयः कृष्णे सर्वे षण्डतिलैः समाः। उपतिष्ठस्व भर्तारमन्यं वा वरवर्णिनि॥ 8-6-60 (55210) इत्येवं यः पुरा वाचो रूक्षाः संश्रावयन्रुषा। सभायां सूतजः कृष्णां स कथं निहतः परैः॥ 8-6-61 (55211) यदि भीष्मो रणश्लाघी द्रोणो वा युधि दुर्मदः। न हनिष्यति कौन्तेयान्पक्षपातात्सुयोधन। सर्वानेव हनिष्यामि व्येतु ते मानसो ज्वरः॥ 8-6-62 (55212) किं करिष्यति गाण्डीवमक्षय्यौ च महेषुधी। स्निग्धचन्दनदिग्धस्य मच्छरस्याभिधावतः। स नूनमृषभस्कन्धो ह्यर्जुनेन कथं हतः॥] 8-6-63 (55213) यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन्। अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत॥ 8-6-64 (55214) यस्य नासीद्भयं पार्थात्सपुत्रात्सजनार्दनात्। स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय॥ 8-6-65 (55215) तस्य नाऽहं वधं मन्ये देवैरपि सवासवैः। प्रतीपमभिघावद्भिः किं पुनस्तात पाण्डवैः॥ 8-6-66 (55216) न हि ज्यां संसम्पृशानस्य तलत्रे वाऽपि गृह्णतः। पुमानाधिरथेः स्थातुं कश्चित्प्रमुखतोऽर्हति॥ 8-6-67 (55217) अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः। न वध- पुरुषेन्द्रस्य संयुगेष्वपलायिनः॥ 8-6-68 (55218) येन मन्दः सहायेन भ्रात्रा दुःशासनेन च। वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचत॥ 8-6-69 (55219) स नूनं वृषभस्कन्धं कर्णं दृष्ट्वा निपातितम्। दुःशासनं च निहतं मन्ये शोचति पुत्रकः॥ 8-6-70 (55220) हतं वैकर्तनं दृष्ट्वा द्वैरथे सव्यसाचिना। जयतः पाण्डवान्दृष्ट्वा किंस्विद्दुर्योधनोऽब्रवीत्॥ 8-6-71 (55221) [दुर्मर्षणं हतं दृष्ट्वा वृषसेनं च संयुगे। प्रभग्रं च बलं दृष्ट्वा वध्यमानं महारथैः॥ 8-6-72 (55222) पराङ्मुखांश्च राज्ञस्तु पलायनपरायणान्। विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः॥ 8-6-73 (55223) अनेयश्चाभिमानी च दुर्बुद्धिरजितेन्द्रियः। हतोत्साहं बलं दृष्ट्वा किंस्विदुर्योधनोऽब्रवीत्॥ 8-6-74 (55224) स्वयं वैरं महत्कृत्वा वार्यमाणः सुहृद्गणैः। प्रधने हतभूयिष्ठैः किंस्विद्दुर्योधनोऽब्रवीत्॥ 8-6-75 (55225) भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे। रुधिरे पीयमाने च किंस्विद्द्रुर्योधनोऽब्रवीत्॥] 8-6-76 (55226) सह गान्धारराजेन सभायां यदभाषत। कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत्॥ 8-6-77 (55227) द्यूतं कृत्वा पुरा हृष्ठो वञ्चयित्वा च पाण़्डवान्। शकुनिः सौबलस्तात हते कर्णे किमब्रवीत्॥ 8-6-78 (55228) कृतवर्मा महेष्वासः सात्वतानां महारथः। हतं वैकर्तनं दृष्ट्वा हार्दिक्यः किमभाषत॥ 8-6-79 (55229) ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते। धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः॥ 8-6-80 (55230) युवा रूपेण सम्पन्नो दर्शनीयो महायशाः। अश्वत्थामा हते कर्णे किमभाषत सञ्जय॥ 8-6-81 (55231) आचार्यो यो धनुर्वेदे गौतमो रथसत्तमः। कृपः शारद्वतस्तात हते कर्णे किमब्रवीत्॥ 8-6-82 (55232) मद्रराजो महेष्वासः शल्यः समितिशोभनः। दृष्ट्वा विनिहतं कर्णं सारथ्ये रथिनां वरः। किमभाषत सौवीरो मद्राणामधिपो बली॥ 8-6-83 (55233) दृष्ट्वा विनिहतं सर्वे योधा वारणदुर्जयाः। ये च केन राजानः पृथिव्यां योद्वुमागताः। वैकर्तनं हतं दृष्टवा कान्यभाषन्त सञ्जय॥ 8-6-84 (55234) द्रोणे तु निहते वीरे रथव्याघ्रे नरर्षभे। के वा मुखमनीकानामासन्सञ्जय भागशः॥ 8-6-85 (55235) मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः। वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय॥ 8-6-86 (55236) केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य युध्यतः। वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः॥ 8-6-87 (55237) के कर्णं न जहुः शूराः के क्षुद्राः प्राद्रवंस्ततः। कथं च वः समेतानां हतः कर्णो महारथः॥ 8-6-88 (55238) पाण्डवाश्च स्वयं शूराः प्रत्युदीयुर्महारथाः। सृजन्तः शरवर्षाणि वारिधारा इवाम्बुदाः॥ 8-6-89 (55239) स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा। व्यर्थः कथं समभवत्तन्ममाचक्ष्व स़ञ्जय॥ 8-6-90 (55240) मामकस्यास्य सैन्यस्य हतोत्सेधस्य सञ्जय। अवशेषं न पश्यामि ककुदे मृदिते सति॥ 8-6-91 (55241) तौ हि वीरौ महेष्वासौ मदर्थे त्यक्तजीवीतौ। भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे॥ 8-6-92 (55242) पुनः पुनर्न मृष्यामि वधं कर्णस्य पाण्डवैः। यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम्॥ 8-6-93 (55243) द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह। सङ्घामे नरवीराणां तन्ममाचक्ष्व सञ्जय॥ 8-6-94 (55244) यथा कर्णश्च कौन्तेयैः सह युद्धमयोजयत्। तथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम्॥ ॥ 8-6-95 (55245) इति श्रीमन्महाभारते कर्णपर्वणि षष्ठोऽध्यायः॥ 6 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-6-37 अप्रतियुध्यन्तं शिखण्डिना प्रतियुद्धगनङ्गीकुर्वाणम्॥ 8-6-38 द्रौपदिना द्रुपदपुत्रेण धृष्टद्युम्नेन॥ 8-6-40 फलेन च विशेषतः इति क.ङ.पाठः। बलेन च विशेषतः इति ख. पाठः॥ 8-6-43 कुण्डलाभ्यां सकवचाभ्यां। तादर्थ्ये चतुर्थी॥ 8-6-44 अशेत निहतः पत्री समरेष्वरिसूदनः इति ख.पाठः। अशेत निहतः पत्री चन्दनेष्वरिसूदनः इति झ.पाठः॥ 8-6-53 रथसङ्गो न चेत्तस्य इति क.ड.पाठः। अहंकांरो न चेत्तस्य इति ख. पाठः॥ 8-6-66 प्रातिभठ्येन अभिधावद्भिः सर्वदिग्भ्यः समागतैः॥ 8-6-67 आधिरथेः अधिरथपुत्रस्य॥ 8-6-68 सोमसूर्यमहाचर्यात्प्रकर्षेण भातीति योगाच्च प्रभो वह्निस्तेषां त्रयाणामंशुभिर्मुयूखैः॥ 8-6-69 मन्दो दुर्योधनः॥ 8-6-74 अनेय अशिक्षणीयः। यतोऽभिमानी विद्वत्त्वाभिमानी। एतएव दुर्बुद्धिः हितमजानन्॥ 8-6-75 प्रधने रणे॥ 8-6-84 कानि वाक्यानीति शेषः॥ 8-6-89 प्रत्युदीयुः कथमिति शेषः॥ 8-6-91 हतोत्सेधस्य विनष्टोत्कर्षस्या॥ 8-6-6 षष्ठोऽध्यायः॥
कर्णपर्व - अध्याय 007

॥ श्रीः ॥

8.7. अध्यायः 007

Mahabharata - Karna Parva - Chapter Topics

अश्वत्थामवचनाद्दुर्योधनेन सैनापत्येऽभिषिक्तेन कर्णेन रणाय सेनानियोजनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-7-0 (55246) सञ्जय उवाच। 8-7-0x (4848) हते द्रोणे महेष्वासे तस्मिन्नहनि भारत। कृते च मोघसंकल्पे द्रोणपुत्रे महारथे॥ 8-7-1 (55247) द्रवमाणे महाराज कौरवाणां बलार्णवे। व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्वातृभिर्वृतः॥ 8-7-2 (55248) तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ। विद्रुतं स्वबलं दृष्ट्वा पौरुषेण न्यवारयत्॥ 8-7-3 (55249) स्वमनीकमवस्थाप्य बाहुवीर्यमुपाश्रितः। युद्धा च सुचिरं कालं पाण्डवैः सह भारत॥ 8-7-4 (55250) लब्धलक्षैः परैर्हष्टैर्व्यायच्छद्भिश्चिरं तदा। सन्ध्याकालं समासाद्य प्रत्याहारमकारयत्॥ 8-7-5 (55251) `निवेश्य बलवद्वोरं क्षुत्पिपासाबलैर्युतम्। श्रमेण महता युक्तं तथा द्रोणवधेन च॥ 8-7-6 (55252) दीनरूपा रणे कर्म कृत्वा घोरं च शर्वरीम्। विशं प्राप्य सा सेना विश्रम्य मुदिताऽभवत्'॥ 8-7-7 (55253) कृत्वाऽवहारं सैन्यानां प्रविश्य शिबिरं स्वकम्। कुरवः सहिता मन्त्रं मन्त्रयाञ्चक्रिरे मिथः॥ 8-7-8 (55254) पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च। वरासनेषूपविष्टाः सुखशय्यास्विवामराः॥ 8-7-9 (55255) ततो दुर्योधनो राजा साम्ना परमवल्गुना। तानाभाष्य महेष्वासान्प्राप्तकालमभाषत॥ 8-7-10 (55256) मतं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत मा चिरम्। एवङ्गतेन यत्कार्यं भवेत्कार्यतरं नृपाः॥ 8-7-11 (55257) सञ्जय उवाच। 8-7-12x (4849) एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः। चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा॥ 8-7-12 (55258) तेषां निशाम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम्। समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसम्। आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे॥ 8-7-13 (55259) रागो योगस्तथा दाक्ष्यां नयश्चेत्यर्थसाधकाः। उपायाः पण्डितैः प्रोक्तास्ते तु दैवमुपाश्रिताः॥ 8-7-14 (55260) लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः। नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः॥ 8-7-15 (55261) न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति। सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते॥ 8-7-16 (55262) ते वयं प्रवरं नॄणां सर्वैर्योधगुणैर्युतम्। कर्णमेवाभिषेभ्यामः सैनापत्येन भारत॥ 8-7-17 (55263) कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून्॥ 8-7-18 (55264) एष ह्यतिबलः शूरः कृतास्त्रो युद्धदुर्मदः। वैवस्वत इवासह्यः शक्तो जेतुं रणे निपून्॥ 8-7-19 (55265) एतदाचार्यतनयाच्छ्रुत्वा राजंस्तवात्मजः। `दुर्योधनो महाराज भृशं प्रीतमनास्तदा'॥ 8-7-20 (55266) आशां बहुमतीं चक्रे वर्णं प्रति स वै तदा। हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान्॥ 8-7-21 (55267) तामाशां हृदये कृत्वा समाश्वस्य च भारत। [ततो दुर्योधनः प्रीतः प्रियं श्रुत्वाऽस्य तद्वचः। प्रीतिसत्कारसंयुक्तं तथ्यमात्महितं शूभम्॥] 8-7-22 (55268) स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः॥ 8-7-23 (55269) `प्रियसत्कारसंयुक्तं तथ्यमात्महिते रतम्'। दुर्योधनो महाराज राधेयमिदमब्रवीत्॥ 8-7-24 (55270) कर्ण जानामि ते वीर्यं सौहृदं परमं मयि। तथाऽपि त्वां महाबाहो प्रवक्ष्यामि हितं वचः॥ 8-7-25 (55271) श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते। भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः॥ 8-7-26 (55272) भीष्मद्रोणावतिरथौ हतौ सेनापती मम। सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः॥ 8-7-27 (55273) वृद्धो च तौ महेष्वासौ सापेक्षो च धनञ्जये। मानितौ च मया वीरौ राधेय वचनात्तव॥ 8-7-28 (55274) पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे। रक्षितास्तात भीष्मेण दिवसानि दशैव तु॥ 8-7-29 (55275) न्यस्तशस्त्रे तु भवति हतो भीष्मः पितामहः। शिखण्डिनं पुरुस्कृत्य फल्गुनेन महाहवे॥ 8-7-30 (55276) हते तस्मिन्महेष्वासे शरतल्पगते तथा। त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः॥ 8-7-31 (55277) तेनापि रक्षिताः पार्थाः शिष्यत्वादिति मे मतिः। स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम्॥ 8-7-32 (55278) निहताभ्यां प्रधानाभ्यां ताभ्यामतुलविक्रम। त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन्॥ 8-7-33 (55279) भवानेव तु नः शक्तो विजयाय न संशयः। पूर्वं मध्ये च पश्चाश्च तथैव विहितं हितम्॥ 8-7-34 (55280) स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोऽढुमर्हति। अभिषेचय सैनान्ये स्वयमात्मानमात्मना॥ 8-7-35 (55281) देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः। तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु वै॥ 8-7-36 (55282) जहि शत्रुगणान्सर्वान्महेन्द्रो दानवानिव। अवस्थितं रमे दृष्ट्वा पाण्डवास्त्वां महारथाः। द्रविष्यन्ति च पाञ्चाला विष्णुं दृष्ट्वेव दानवाः॥ 8-7-37 (55283) तस्मात्त्वं पुरुषव्याघ्र प्रकर्षैतां महाचमूम्॥ 8-7-38 (55284) भवत्यवस्थिते यत्ते पाण्डवा मन्दचेतसः। द्रविष्यन्ति सहामात्याः पाञ्चालाः सृञ्जयाश्च ह। 8-7-39 (55285) यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा। व्यपोहति तमस्तीव्रं तथा शत्रून्प्रतापय॥ 8-7-40 (55286) सञ्जय उवाच। 8-7-41x (4850) एवमुक्तस्तु राधेयो राज्ञा दुर्योधनेन ह। राज्ञां मध्ये महाबाहुः प्रीतात्मा स महाबलः। हर्षयन्नब्रवीत्कर्णो दुर्योधनमिदं वचः॥ 8-7-41 (55287) कर्ण उवाच। 8-7-42x (4851) उक्तमेतन्मया पूर्वं गान्धारे तव सन्निधौ। जेष्यामि पाण्डवान्सर्वान्सपुत्रान्सजनार्दनान्॥ 8-7-42 (55288) सेनापतिर्भविष्यामि तवाहं नात्र संशयः। स्थिरो भव महाराज जितान्विद्वि च पाण्डवान्॥ 8-7-43 (55289) सञ्जय उवाच। 8-7-44x (4852) एवमुक्तो महाराज ततो दुर्याधनो नृपः। उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः॥ 8-7-44 (55290) सैनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः। ततोऽभिषिषिचुः कर्णं विधिदृष्टेन कर्मणा॥ 8-7-45 (55291) दुर्योधनमुक्ता राजन्राजानो विजयैषिणः। शातकुम्भमयैः कुम्भेर्माहेयैश्चाभिमन्त्रितैः॥ 8-7-46 (55292) तोयपूर्णैर्विषाणैश्च द्विपखङ्गमहर्षभैः। मणिमुक्तायुतैश्चान्यैः पुण्यगन्धैस्तथौषधैः॥ 8-7-47 (55293) औदुम्बरे सुखासीनमासने क्षौमसंवृते। शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः॥ 8-7-48 (55294) ब्राह्मणः क्षत्रिया वैश्यास्तथा शूद्राश्च सम्मताः। तुष्टुवुस्तं महात्मानमभिषिक्तं वरासने॥ 8-7-49 (55295) ततोऽभिषिक्ते राजेन्द्र निष्कैर्गोभिर्धनेन च। वाचयामास विप्राग्र्यान्राधेयः परवीरहा॥ 8-7-50 (55296) `स व्यरोचत राधेयः सूतमागधबन्दिभिः। स्तूयमानो यथा भानुरुदये ब्रह्मवादिभिः॥ 8-7-51 (55297) ततः पुण्याहघोषेण वादित्रनिनदेन च। जयशब्देन शूराणां तुमुलः सर्वतोऽभवत्॥ 8-7-52 (55298) जयेत्यूचुर्नृपाः सर्वे राधेयं तत्र सङ्गताः'॥ 8-7-53 (55299) जय पार्थान्सगोविन्दान्सानुगांस्तान्महामृधे। इति तं बन्दिनः प्राहुर्द्विजाश्च पुरुषर्षभम्॥ 8-7-54 (55300) जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः। उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः॥ 8-7-55 (55301) न ह्यलं त्वद्विसृष्टानां शराणां वै सकेशवाः। उलूकाः सूर्यरश्मीनां ज्वलतामिव दर्शने॥ 8-7-56 (55302) न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः। आत्तवज्रस्य समरे महेन्द्रस्येव दानवाः॥ 8-7-57 (55303) `सञ्जय उवाच। 8-7-58x (4853) स सत्कृतः स्तूयमानः सुहृद्गणवृतो रुषा। कर्णो दुर्योधनं वाक्यमब्रवीत्प्रहसन्प्रियम्॥ 8-7-58 (55304) दुर्योधनाद्य सगणं पाण्डूनां प्रवरैः सह। फल्गुनं सूदयिष्यामि त्वत्प्रियार्थं सबान्धवम्॥ 8-7-59 (55305) सपर्वतार्णवद्वीपां शाधि गां गतपाण्डवाम्। पुत्रपौत्रप्रपौत्रेषु प्रतिष्ठां गमयिष्यमि॥ 8-7-60 (55306) नासह्यं विद्यते मह्यं त्वत्प्रियार्थमरिन्दम। सत्यधर्मानुरक्तस्य सिद्धिरात्मवतो यथा॥ 8-7-61 (55307) अभिषिक्तस्तु राघेयः प्रभया सोऽमितप्रभः। अत्यरिच्यत रूपेण दिवाकर इवापरः॥ 8-7-62 (55308) सैनापत्ये तु राधेयमभिषिच्य सुतस्तव। अमन्यत तदात्मानं कृतार्थं कालचोदितः॥ 8-7-63 (55309) कर्णोऽपि राज्ञः संप्राप्य सैनापत्यमरिन्दमः। योगमाज्ञापयामास सूर्यस्योदयनं प्रति॥ 8-7-64 (55310) तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत। देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामये॥ ॥ 8-7-65 (55311) इति श्रीमन्महाभारते कर्णपर्वणि सप्तमोऽध्यायः॥ 7 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-7-3 स्वबलम्प्रति विद्रुतं दृष्ट्वा॥ 8-7-5 लब्धलक्षैः प्राप्ताजयैः। व्यायच्छद्भिः यतमानैः। प्रत्याहारं प्रत्यक्हारम्। प्रत्यहारमिति वा पाठः॥ 8-7-9 पर्यङ्केष्वेव वरासनेषु ॥ 8-7-11 कार्यतरं आवश्यकतरं यत्कार्यं कर्तव्यं परं मतं सम्मतं तत् प्रब्रूत॥ 8-7-12 चेष्टाः शौर्याभिनयरूपाः भुजास्फालनाद्याः॥ 8-7-13 निशाम्य आलोच्य। वर्चसं छान्दसष्टच्॥ 8-7-14 रागः स्वामिभक्तिः। योगो देशकालादिसम्पत्तिः। दाक्ष्यं बलम्। नयो नीतिः॥ 8-7-16 सर्वार्थैः रागादिभिः सुनीतैः दैवमनुलोम्यतेऽनुकूलं क्रियते। न केवलं रागाद्यपेक्षया दैवस्य प्राबल्यमपितु दैवापेक्षयापि सुप्रणीता रागादयः प्रबला इत्यर्थः॥ 8-7-21 बहुमतीं वाहुल्यवतीं अतिशयितामिति यावत्॥ 8-7-22 शुभं वचः श्रुत्वा मनः समवस्थाप्य समाधायाब्रवीदिति द्वयोः सम्बन्धः॥ 8-7-27 ताभ्यां सकाशात् द्रविणवत्तरः बलवत्तरः॥ 8-7-34 विहितं त्वयेति शेषः॥ 8-7-35 सैनान्ये सेनानीत्ये॥ 8-7-46 शातकुम्भमयैः सौवर्णैर्माहेयैर्महीमयैश्च कुम्भैः॥ 8-7-47 विषाणैः द्विपस्य गजस्य दन्तमयैः पात्रैः। खङ्गस्य गण्डकस्य। महर्षभस्य गवयस्य च शृङ्गैः। विषाणं दन्तशृङ्गयोरिति विश्वः। द्विपखङ्गमहर्षभीयैरिति तद्धितलोप आर्षः॥ 8-7-56 शराणां दर्शनेपि नालं किमुत स्पर्शे इत्यर्थः॥ 8-7-7 सप्तमोऽध्यायः॥
कर्णपर्व - अध्याय 008

॥ श्रीः ॥

8.8. अध्यायः 008

Mahabharata - Karna Parva - Chapter Topics

कर्णार्जुनाक्ष्यां व्यूहरचनापूर्वकं रणाय निर्याणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-8-0 (55312) धृतराष्ट्र उवाच। 8-8-0x (4854) सैनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा। तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः॥ 8-8-1 (55313) हितश्च प्रियकामश्च मम पुत्रस्य नित्यशः। अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व स़ञ्जय॥ 8-8-2 (55314) सञ्जय उवाच। 8-8-3x (4855) कर्णस्य मतमाज्ञाय पुत्रास्ते भरतर्षभ। योगमाज्ञापयामासुर्नन्दितूर्यपुरःसरम्॥ 8-8-3 (55315) महत्यपररात्रे च तव सैन्यस्य मारिष। योगो योग इति ह्याशु प्रादुरासीन्महास्वनः॥ 8-8-4 (55316) कल्पतां नागमुख्यानां रथानां च वरुथिनाम्। सन्नह्यतां नराणां च वाजिनां च विशाम्पते॥ 8-8-5 (55317) क्रोशतां चैव योधानां त्वरितानां परस्परम्। बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्ततः॥ 8-8-6 (55318) ततः श्वेतपताकेन बलाकावर्णवाजिना। हेमपृष्ठेन धनुषा नागकक्षेण केतुना॥ 8-8-7 (55319) तूणीरशतपूर्णेन सगदेन वरूथिना। शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा॥ 8-8-8 (55320) कार्मुकैरुपपन्नेन विमलादित्यवर्चसा। रथेनाभिपताकेन सुतपुत्रो ह्यदृश्यत॥ 8-8-9 (55321) ध्मापयन्वारिजं राजन्हेमजालविभूषिन्तम्। विध्रुन्वानो महच्चापं कार्तस्वरविभूषितम्॥ 8-8-10 (55322) दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम्। भानुमन्तमिवोद्यन्तं तमो घ्नन्तं दुरासदम्॥ 8-8-11 (55323) न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष। नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः॥ 8-8-12 (55324) ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष। कर्णो निष्कर्षयामास कौरवाणां महद्बलम्॥ 8-8-13 (55325) व्यूहं व्यूह्य महेष्वासो मकरं शत्रुतापनः। प्रत्युद्ययौ तथा कर्णः पाण्डवान्विजिगीषया॥ 8-8-14 (55326) मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः। नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः॥ 8-8-15 (55327) द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः। मध्येदुर्योधनो राजा बलेन महता वृतः॥ 8-8-16 (55328) वामपादे तु राजेन्द्र कृतवर्मा व्यवस्थितः। नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदैः॥ 8-8-17 (55329) पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः। त्रिगर्तैः सुमहेष्वासैर्दाक्षिणात्यैश्च संवृतः॥ 8-8-18 (55330) अनुपादे तु यो वामस्तत्र शल्यो व्यवस्थितः। महत्या सेनया सार्धं मद्रदेशसमुत्थया॥ 8-8-19 (55331) दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः। वृतो रथमहस्रेण दन्तिनां च त्रिभिः शतैः॥ 8-8-20 (55332) पुच्छे ह्यास्तां महावीर्यौ भ्रातरौ पार्थिवौ तदा। चित्रश्च चित्रसेनश्च महत्या सेनया वृतौ॥ 8-8-21 (55333) तथा प्रयाते राजेन्द्र कर्णे नरवरोत्तमे। धनञ्जयमभिपेक्ष्य धर्मराजोऽब्रवीदिदम्॥ 8-8-22 (55334) पश्य पार्थ यथा सेना धार्तराष्ट्रीह संयुगे। कर्णेन विहिता वीर गुप्ता वीरैर्महारथैः॥ 8-8-23 (55335) हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः। फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम॥ 8-8-24 (55336) एको ह्यत्र महेष्वासः सूतपुत्रो विराजते। सदेवासुरगन्धर्वैः सकिन्नरमहोरगैः। चराचरैस्त्रिभिर्लोकैरजेयो यो महारथः॥ 8-8-25 (55337) तं हत्वाऽद्य महाबाहो विजयस्तव फल्गुन। उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः॥ 8-8-26 (55338) एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि॥ 8-8-27 (55339) सञ्जय उवाच। 8-8-28x (4856) भ्रातुरेतद्वचः श्रुत्वा पाण्डवः श्वेतवाहनः। अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम्॥ 8-8-28 (55340) वामपार्श्वे तु तस्याथ भीमसेनो व्यवस्थितः। दक्षिणे च महेष्वासो धृष्टद्युम्नो व्यवस्थितः॥ 8-1-29 (55341) मध्ये व्यूहस्य राजा तु पाण्डवश्च धनञ्जयः। नकुलः सहदेवश्च धर्मराजस्य पृष्ठतः॥ 8-8-30 (55342) चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ। पार्थं न जहतुर्युद्वे पाल्यमानौ किरीटिना॥ 8-8-31 (55343) शेषां नृपतयो वीराः स्थिता व्यूहस्य दंशिताः। यथाभागं यथोत्साहं यथायत्नं च भारत॥ 8-8-32 (55344) एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः। तावकाश्च महेष्वासा युद्धायैव मनो दधुः॥ 8-8-33 (55345) दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे। निहतान्पाण्डवान्मेने धार्तराष्ट्रः सबान्धवः॥ 8-8-34 (55346) तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः। धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिपः॥ 8-8-35 (55347) ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः। डिण्डिमाश्चाप्यहन्यन्त झर्झराश्च समन्ततः॥ 8-8-36 (55348) सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः। सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम्॥ 8-8-37 (55349) हयहेषितशब्दाश्च वारणानां च बृंहिताः। रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप॥ 8-8-38 (55350) न द्रोणव्यसनं कश्चिज्जानीते तत्र भारत। दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम्॥ 8-8-39 (55351) उभे सैन्ये महाराज प्रहृष्टनरसङ्कुले। योद्वुकामे स्थिते राजन्हन्तुमन्योन्यमोजसा॥ 8-8-40 (55352) विजये जातसंरम्भे दृष्ट्वाऽन्योन्यं व्यवस्थिते। अनीकमध्ये राजेन्द्र चेरतुः कर्णपाण्डवौ॥ 8-8-41 (55353) नृत्यन्त्याविव ते सेने समेयातां परस्परम्। तयोः पक्षप्रपक्षेभ्यो निर्ययुर्युद्वलिप्सवः॥ 8-8-42 (55354) ततः प्रववृते युद्धं नरवारणवाजिनाम्। रथानां च महाराज अन्योन्यमभिनिघ्नताम्॥ ॥ 8-8-43 (55355) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धारम्भे अष्टमोऽध्यायः॥ 8 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-8-3 नन्दितूर्यमानन्दवाद्यम्॥ 8-8-5 कल्पतां सन्नह्यमाननाम्। वरूथिनां रथगुप्तिमताम्। सन्नह्यतां नराणां सन्नह्यमानानां गजादीनां च शब्दो बभूवेति द्वयोः सम्बन्धः॥ 8-8-7 श्वेतेत्यादिविशेषणद्वयं रथेनेत्यस्य॥ 8-8-9 अभिपताकेन वायोः प्रातिकूल्यादभिमुखपताकेन। एतत्पराजयसूचकम्॥ 8-8-19 अनुपादे पादस्थानस्यापि प़श्चाद्भागे॥ 8-8-20 दक्षिणे अनुपादे॥ 8-8-27 व्यूह रचय॥ 8-8-8 अष्टमोऽध्यायः॥
कर्णपर्व - अध्याय 009

॥ श्रीः ॥

8.9. अध्यायः 009

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥ भीमेन क्षेमधूर्तिवधः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-9-0 (55356) सञ्जय उवाच। 8-9-0x (4857) ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे। बृहत्यौ सम्प्रजहाते देवासुरचमूसमे॥ 8-9-1 (55357) ततो नानारथाश्वेभाः पत्तयश्चोग्रविक्रमाः। सम्प्रहारान्भृशं चक्रुर्देहपाप्मविनाशनान्॥ 8-9-2 (55358) पूर्णचन्द्रार्कपद्मानां कान्तित्विङ्गन्धतः समैः। उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम्॥ 8-9-3 (55359) अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टसैः। परश्वथैश्चापहृतान्युत्तमाङ्गानि युध्यताम्॥ 8-9-4 (55360) व्यायतायतबाहूनां व्यायतायतबाहुभिः। वाहवः पातिता रेजुर्धरण्यां सायुधाङ्गदैः॥ 8-9-5 (55361) तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तथा। गरुडप्रहितैरुग्रैः पञ्चास्यैरुरगैरिव॥ 8-9-6 (55362) द्विरदस्यन्दनाश्वेभ्यः पेतुर्वीरा द्विषद्धताः। विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गदस्तथा॥ 8-9-7 (55363) गदाभिरन्ये गुर्वीभिः परिधैर्मुसलैरपि। पोथिताः शतशः पेतुर्वीरा वीरतरै रणे॥ 8-9-8 (55364) रथा रथैर्विमथिता मत्ता मत्तैर्द्विपा द्विपैः। सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले॥ 8-9-9 (55365) रथैर्नरा रथा नागैरश्वारोहाश्च पत्तिभिः। अश्वारोहैः पदाताश्च निहता युधि शेरते॥ 8-9-10 (55366) रथाश्वपत्तयो नागै रथाश्वेभाश्च पत्तिभिः। रथपत्तिद्विपाश्चाश्चै रथैश्चापि नरद्विपाः॥ 8-9-11 (55367) रथाश्वेभनराणां तु नराश्वेभरथैः कृतम्। पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत्॥ 8-9-12 (55368) तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च। अस्मानभ्याययुः पार्था वृकोदरपुरोगमाः॥ 8-9-13 (55369) वृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः। सात्यकिश्चेकितानश्च द्राविडैः सैनिकैः सह॥ 8-9-14 (55370) वृता व्यूहेन महता पाण्ड्याश्चोलाः सकेरलाः। व्यूढोरस्का दीर्घभुजाः प्रांशवः पृथुलोचनाः॥ 8-9-15 (55371) आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः। नानाविरागवसाना गन्धचूर्णावचूर्णिताः॥ 8-9-16 (55372) बद्धासयः पाशहस्ता वारणप्रतिवारणाः। समानमृत्यवो राजन्नात्यजन्त परस्परम्॥ 8-9-17 (55373) कलापिनश्चापहस्ता दीर्घकेशाः प्रियंवदाः। पत्तयः सायकैर्विद्धा घोररूपपराक्रमाः॥ 8-9-18 (55374) अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः। कारूशाः कोसलाः काञ्च्या मागधाश्चापि दुद्रुवुः॥ 8-9-19 (55375) तेषां रथाश्वनागाश्च प्रवराश्चोग्रपत्तयः। नानाबाणरवैर्हृष्टा नृत्यन्ति च हसन्ति च॥ 8-9-20 (55376) तस्य सैन्यस्य महतो महामात्रवरैर्वृतः। मध्ये वृकोदरोऽभ्यायात्त्वदीयान्नागधूर्गतः॥ 8-9-21 (55377) स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ। उदयाग्राद्रिभवनं यथाऽभ्युदितभास्करम्॥ 8-9-22 (55378) तस्यायसं वर्मवरं वररत्नविभूषितम्। ताराव्याप्तस्य नभसः शारदस्य समं त्विषा॥ 8-9-23 (55379) स तोमरव्यग्रकरश्चारुमौलिः स्वलङ्कृतः। शरन्मध्यन्दिनार्काभस्तेजया प्रदाहद्रिपून्॥ 8-9-24 (55380) तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थित। आह्वयन्नभिदुद्राव प्रहसन्पृतनामुखे॥ 8-9-25 (55381) तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः। यदृच्छया द्रुतवतोर्महापर्वतयोरिव॥ 8-9-26 (55382) संसक्तनागौ तौ वीरौ तोमरैरितरेतरम्। बलवत्सूर्यरश्म्याभैर्भित्त्वाऽन्योन्यं विनेदतुः॥ 8-9-27 (55383) व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः। प्रगृह्य चोभौ धनुषी जघ्नतुर्वै परस्परम्॥ 8-9-28 (55384) क्ष्वेडितास्फोटितरवैर्बाणशब्दैस्तु सर्वतः। तौ जनं हर्षयन्तौ च सिंहनादं प्रचक्रतुः॥ 8-9-29 (55385) समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ। वातोद्वूतपताकाभ्यां युयुधाते महाबलौ॥ 8-9-30 (55386) तावन्योन्यस्य धनुषी छित्त्वाऽन्योन्यं विनेदतुः। शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः॥ 8-9-31 (55387) क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे। निर्बिभेदातिवेगेन षड्भिश्चाप्यपरैर्नदन्॥ 8-9-32 (55388) स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः। क्रोधदीप्तवपुर्मेधैः सप्तसप्तिरिवांशमान्॥ 8-9-33 (55389) ततो भास्करवर्णाभमञ्चोगतिमयस्मायम्। ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान्॥ 8-9-34 (55390) ततः करूशाधिपतिश्चापमानम्य सायकैः। दशभिस्तोमरं भित्त्वा षष्ट्या विव्याध पाण्डवम्॥ 8-9-35 (55391) अथ कार्मुकमादाय भीमो जलदनिः स्वनम्। रिपोरभ्यर्दयन्नागमुन्नदन्पाण्डवाः शरैः॥ 8-9-36 (55392) स शरौघार्दितो नागो भीमसेनेन संयुगे। गृह्यमाणोऽपि नातिष्ठद्वातोद्धूत इवाम्बुदः॥ 8-9-37 (55393) तमभ्यधावद्द्विरदं भीमो भीमस्य नागराट्। महावातेरितं मेघं वातोद्धूत इवाम्बुदः॥ 8-9-38 (55394) सन्निवार्यात्मनो नागं क्षेमधूर्तिः प्रतापवान्। विव्याधाभिद्रुतं बाणैर्भीमसेनस्य कुञ्जरम्॥ 8-9-39 (55395) ततः साधुविसृष्टेन क्षुरेणानतपर्वणा। छित्त्वा शरासनं शत्रोर्नागं चापि प्रमार्दयत्॥ 8-9-40 (55396) ततः क्रुद्धो रणे भीमं क्षेमधूर्तिः पराभिनत्। जघान चास्य द्विरदं नाराचैः सर्वमर्मसु॥ 8-9-41 (55397) स पपात महानागो भीमसेनस्य भारत। पुरा नागस्य पतनादवप्लुत्य स्थितो महीम्॥ 8-9-42 (55398) भीमसेनोऽपि तन्नागं गदया समपोथयत्। तस्मात्प्रमथितान्नागात्क्षेमधूर्तिरवप्लुतः॥ 8-9-43 (55399) `उद्धृत्य स्वङ्गं निशितमभ्यधावत्स पाण्डवम्'। उद्यतायुधमायान्तं सदयाऽहन्वृकोदरः॥ 8-9-44 (55400) स पपात हतः सासिर्व्यसुस्तमभितो द्विपम्। वज्रप्रभग्नमचलं सिंहो वज्रहतो यथा॥ 8-9-45 (55401) तं हतं नृपतिं दृष्ट्वा करूशानां यशस्करम्। प्राद्रावद्व्यथिता सेना त्वदीया भरतर्षभ॥ ॥ 8-9-46 (55402) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे नवमोऽध्यायः॥ 9 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-9-3 तस्तरुः आस्तीर्णवन्तः॥ 8-9-5 व्यायताः पुष्टाः आयताः दीर्घाः॥ 8-9-6 प्रहितैः निरस्तैः। ओहाक् त्यागे॥ 8-9-16 आपिडिनः भूषावन्तः। नाना पृथक् विविधरागाणि वसनानि येषां ते विरागवसनाः॥ 8-9-21 नागधूर्गतः गजस्कन्धगतः॥ 8-9-22 उदयाग्राद्रिभवनं उदयाद्रेरप्रभवनम्। अग्राद्रीत्यग्रशब्दस्य पूर्वनिपात आर्षः। उदयनामा अग्राद्रिः पूर्वपर्वतः स एव भवनमिति वा॥ 8-9-23 शारदस्य शरदा उपलक्षितस्य॥ 8-9-24 चारुमौलिः रम्यकिरीटः॥ 8-9-33 स भीमसेनः मेघैः सप्तसप्तिरिवांशुमान्। यथा मेघान्तर्हितस्य सूर्यस्य मरीचयः रश्मिरूपेण सर्वतः प्रचरन्ति एवं रश्मिस्थानीयास्तोमराः॥ 8-9-34 अञ्जोगतिं ऋजुगतिम्॥ 8-9-37 गृह्यमाणः निगृह्य माणः क्षेमधूर्तिना॥ 8-9-44 अहन्हतवान्॥ 8-9-45 हतः गदया शकलीकृताः। अतएव अभितोद्विपं द्विपस्याभितः पपात॥ 8-9-9 नवमोऽध्यायः॥
कर्णपर्व - अध्याय 010

॥ श्रीः ॥

8.10. अध्यायः 010

Mahabharata - Karna Parva - Chapter Topics

द्वन्द्वयुद्धम्॥ 1 ॥ सात्यकिना विन्दानुविन्दवधः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-10-0 (55403) सञ्चय उवाच। 8-10-0x (4858) ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम्। जघान समरे शूरः सन्नतपर्वभिः॥ 8-10-1 (55404) तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम्। कर्णस्य प्रमुखे क्रुद्धा निजघ्नुस्ते महारथाः॥ 8-10-2 (55405) कर्णोऽपि राजन्समरे व्यहनत्पाण्डवीं चमूम्। नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः॥ 8-10-3 (55406) तत्र भारत कर्णेन नाराचैस्ताडिता गजाः। नेदुः सेदुश्च मम्लुश्च बभ्रुमुश्च दिशो दश॥ 8-10-4 (55407) वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष। नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे॥ 8-10-5 (55408) भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम्। विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत्॥ 8-10-6 (55409) श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः। प्रतिविन्ध्यस्तथा चित्रं चित्रकेतनकार्मुकम्॥ 8-10-7 (55410) दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम्। संशप्तकगणा हृष्टा ह्यभ्यधावन्धनञ्जयम्॥ 8-10-8 (55411) धृष्टद्युम्नः कृपं चापि तस्मिन्वीरवरक्षये। शिखण्डी कृतवर्माणं समासादयदच्युतम्॥ 8-10-9 (55412) श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव। दुःशासनं महाराज सहदेवः प्रतापवान्॥ 8-10-10 (55413) कैकेयौ सात्यकिं युद्धे शरवर्षेण भास्वता। सात्यकिः केकयौ चापि च्छादयामास भारत॥ 8-10-11 (55414) तावेनं भ्रातरौ वीरौ जघ्नतुर्हृदये भृशम्। विषाणाभ्यां यथा नागौ प्रतिनागं महावने॥ 8-10-12 (55415) शरसम्बिन्नवर्माणौ तावुभौ भ्रातरौ रणे। सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः॥ 8-10-13 (55416) तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशः। छादयञ्छरवर्षेण वारयामास भारत॥ 8-10-14 (55417) वार्यमाणौ ततस्तौ हि शैनेयशरवृष्टिभिः। शैनेयस्य रथं तूर्णं छादयामासतुः शरैः॥ 8-10-15 (55418) तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महायशाः। अथ तौ सायकैस्तीक्ष्णैर्वारयामास सात्यकिः॥ 8-10-16 (55419) अथान्ये धनुषी चित्रे प्रगृह्य च महाशरान्। सात्यकिं छादयन्तौ तौ चेरतुर्लघु सुष्ठु च॥ 8-10-17 (55420) ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः। द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः॥ 8-10-18 (55421) बाणान्धकारमभवत्तयो राजन्महामृधे। अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः॥ 8-10-19 (55422) ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः। धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे॥ 8-10-20 (55423) क्षुरप्रेण सुतीक्ष्णेन ह्यनुविन्दशिरोऽहरत्। अपतत्तच्छिरो राजन्कुण़्डलोपचितं महत्॥ 8-10-21 (55424) शम्बरस्य शिरो यद्वन्निहतस्य महारणे। शोचयन्केकयान्सर्वाञ्जगामाशु वसुन्धराम्॥ 8-10-22 (55425) तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः। सज्यमन्यद्धनुः कृत्वा शैनेयं पर्यवारयत्॥ 8-10-23 (55426) स षष्ट्या सात्यकिं विद्व्वा स्वर्णपुङ्खैः शिलाशितैः। ननाद बलवन्नादं तिष्ठतिष्ठेति चाब्रवीत्॥ 8-10-24 (55427) सात्यकिं च ततस्तूर्णं केकयानां महारथः। शरैरनेकसाहस्रैर्बाह्वोरुरसि चार्पयत्॥ 8-10-25 (55428) स शरैः क्षतसर्वाङ्गः सात्यकिः सत्यविक्रमः। रराज समरे राजन्सपुष्प इव किंशुकः॥ 8-10-26 (55429) सात्यकिः समरे विद्वः कैकेयेन महात्मना। कैकेयं पञ्चविंशत्या विव्याध प्रहसन्निव॥ 8-10-27 (55430) तावन्योन्यस्य समरे सञ्छिद्य धनुषी शुभे। हत्वा च सारथी तूर्णं हयांश्च रथिनां वरौ॥ 8-10-28 (55431) विरथावसियुद्धाय समाजग्मतुराहवे। शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तथा॥ 8-10-29 (55432) विरोचेतां महारङ्गे निस्त्रिंशबरधारिणौ। यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ॥ 8-10-30 (55433) मण्डलानि ततस्तौ तु विचन्तौ महारणे। अन्योन्यमभितस्तूर्णं समाजग्मतुराहवे॥ 8-10-31 (55434) अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम्। कैकेयस्य द्विधा चर्म ततश्चिच्छेद सात्वतः॥ 8-10-32 (55435) सात्यकेस्तु तथैवासौ चर्म चिच्छेद पार्थिवः। चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम्। चचार मण्डलान्येव गतप्रत्यागतानि च॥ 8-10-33 (55436) तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम्। अपहस्तेन चिच्छेद शैनेयस्त्वरयाऽन्वितः॥ 8-10-34 (55437) सवर्मा केकयो राजन्द्विधा च्छिन्नो महारणे। निपपात महेष्वासो वज्राहत इवात्वलः॥ 8-10-35 (55438) तं निहत्य रणे शूरः शैनेयो रथसत्तमः। युधामन्युरथं तूर्णमारुरोह परन्तपः॥ 8-10-36 (55439) ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः। केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः॥ 8-10-37 (55440) सा वध्यमाना समरे केकयानां महाचमूः। तमुत्सृज्य रणे शत्रुं प्रदुद्राव दिशो दश॥ ॥ 8-10-38 (55441) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे दशमोऽध्यायः॥ 10 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-10-6 द्रौणिमभ्यद्रवत्॥ 8-10-9 कृपेण युयुधे इति शेषः॥ 8-10-10 माद्रीपुत्रः सुतं तवेत्यस्य व्याख्या दुःशासनमिति॥ 8-10-17 लघु शीघ्रम्। सुष्रु शोभनम्॥ 8-10-21 उपचितसमलङ्कृतम्॥ 8-10-34 अपहस्तेन तिर्यग्घस्तेन॥ 8-10-10 दशमोऽध्यायः॥
कर्णपर्व - अध्याय 011

॥ श्रीः ॥

8.11. अध्यायः 011

Mahabharata - Karna Parva - Chapter Topics

प्रतिविन्ध्यश्रुतकर्मक्ष्यां चित्रचित्रसेनयोः संहारः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-11-0 (55442) सञ्जय उवाच। 8-11-0x (4859) श्रुतकर्मा ततो राजंश्चित्रसेनं महीपतिम्। आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः॥ 8-11-1 (55443) चित्रसेनस्तु तं राजन्नवभिर्नतपर्वभिः। श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः॥ 8-11-2 (55444) श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे। नाराचेन सुतीक्ष्णेन मर्मदेशे समार्पयत्॥ 8-11-3 (55445) सोऽतिविद्धो महाराज नाराचेन महात्मना। मूर्च्छामभिययौ वीरः कश्मलं चाविवेश ह॥ 8-11-4 (55446) एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः। नवत्या जगतीपालं छादयामास पत्रिभिः॥ 8-11-5 (55447) प्रतिलभ्य ततः संज्ञां चित्रसेनो महारथः। धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः॥ 8-11-6 (55448) सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषितम्। चित्ररूपधरं चक्रे चित्रसेनं शरोर्मिभिः॥ 8-11-7 (55449) स शरैश्चित्रितो राजा चित्रमाल्यधरो युवा। अशोभत महारङ्गे श्वाविच्छललो यथा॥ 8-11-8 (55450) श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे। बिभेद तरसा शूरस्तिष्ठतिष्ठेति चाब्रवीत्॥ 8-11-9 (55451) श्रुतकर्माणि समरे नाराचेन समर्पितः। सुस्राव रुधिरं तत्र गैरिकाम्बु यथाऽचलः॥ 8-11-10 (55452) ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः। रराज समरे वीरः सपुष्प इव किंशुकः॥ 8-11-11 (55453) श्रुतकर्मा ततो राजञ्शत्रुणा समभिद्रुतः। शत्रुसंवारणं क्रुद्धो द्विधा चिच्छेद कार्मुकम्॥ 8-11-12 (55454) अथैनं छिन्नधन्वानं नाराचानां शतैस्त्रिभिः। छादयन्समरे राजन्विव्याध च सुपत्रिभिः॥ 8-11-13 (55455) ततोऽपरेण भल्लेन तीक्ष्णेन निशितेन च। जहार सशिरस्त्राणं शिरस्तस्य महात्मनः॥ 8-11-14 (55456) तच्छिरो न्यपतद्भूमौ चित्रसेनस्य दीप्तिमत्। यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतलम्॥ 8-11-15 (55457) राजानं निहतं दृष्ट्वा तेऽभिसारं तु मारिष। अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः॥ 8-11-16 (55458) ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः। अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट्॥ 8-11-17 (55459) ते वध्यमानाः समरे तव पौत्रेण धन्विना। व्यद्रवन्त दिशस्तूर्णं दावदग्धा इव द्विपाः॥ 8-11-18 (55460) तांस्तु विद्रवतो दृष्ट्वा निरुत्साहान्द्विषज्जये। द्रावयन्निषुभिस्तीक्ष्णैः श्रुतकर्मा व्यरोचत॥ 8-11-19 (55461) प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः। सारथिं च त्रिभिर्विद्व्वा ध्वजमेकेषुणापि च॥ 8-11-20 (55462) तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्पयत्। स्वर्णपुङ्खैः प्रसन्नाग्नैः कङ्कबर्हिणवाजितैः॥ 8-11-21 (55463) प्रतिविन्ध्यो धनुश्छित्त्वा तस्य बारत सायकेः। पञ्चभिर्निशितैर्बाणैरथैनं स हि जघ्निवान्॥ 8-11-22 (55464) ततः शक्तिं महाराज स्वर्णघण्टां दुरासदाम्। प्राहिणोत्प्रतिविन्ध्याय विचिन्वन्तीमसूनिव॥ 8-11-23 (55465) तामापतन्ती सहसा शक्तिमुल्कामिवाम्बरे। द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव॥ 8-11-24 (55466) सा पपात द्विधा छिन्ना प्रतिविन्ध्यशरैः शितैः। युगान्ते सर्वभूतानि त्रासयन्ती यथाऽशनिः॥ 8-11-25 (55467) शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम्। प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम्॥ 8-11-26 (55468) सा जघान हयांस्तस्य सारथिं च महारणे। रथं प्रमृद्य वेगेन धरमीमन्वपद्यत॥ 8-11-27 (55469) एतस्मिन्नेव काले तु रथादाप्लुत्य भारत। शक्तिं चिक्षेप चित्राय स्वर्णदण्डामलङ्कृताम्॥ 8-11-28 (55470) तामापतन्तीं जग्राह चित्रो राजन्महामनाः। ततस्तामेव चिक्षेप प्रतिविन्ध्याय पार्थिवः॥ 8-11-29 (55471) समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा। निर्भिद्य दक्षिणं बाहुं निपपात महीतले। पतिताऽभासयश्चैव तं देशमशनिर्यथा॥ 8-11-30 (55472) प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम्। प्रेषयामास सङ्क्रुद्धश्चित्रस्य वधकाङ्क्षया॥ 8-11-31 (55473) स तस्य गात्रावरणं भित्त्वा हृदयमेव च। जगाम धरणीं तूर्णं महोरग इवाशयम्॥ 8-11-32 (55474) स पपात तदा राजा तोमरेण समाहतः। प्रसार्य विपुलौ बाहू पीनौ पिघसन्निभौ॥ 8-11-33 (55475) चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः। अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः॥ 8-11-34 (55476) सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः। तमवच्छादयामासुः सूर्यमभ्रगणा इव॥ 8-11-35 (55477) तान्विधम्य महाबाहुः शरजालेन संयुगे। व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम्॥ 8-11-36 (55478) ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप। विप्रकीर्यन्त सहसा वातनुन्ना घना इव॥ 8-11-37 (55479) विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः। द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम्॥ 8-11-38 (55480) तः समागमो घोरो बभूव सहसा तयोः। यथा दैवासुरे युद्धे वृत्रवासवयोरिव॥ ॥ 8-11-39 (55481) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे एकादशोऽध्यायः॥ 11 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-11-2 आहत्य सन्ताज्य॥ 8-11-4 मूर्च्छा अर्धनिद्राम्। कश्मलमचि त्तत्वम्॥ 8-11-5 एवं श्रुतकर्माणम्॥ 8-11-6 तं श्रुतकर्माणम्॥ 8-11-11 कृतच्छविः आहितशोभः॥ 8-11-13 सुपत्रिभिः शोभनपुङ्खव द्भिर्नाराचानां शतैः॥ 8-11-17 प्रेतराट् यमः॥ 8-11-18 दावो दावग्निस्तेन दग्धाः॥ 8-11-32 गात्रावरणं कवचम्॥ 8-11-11 एकादशोऽध्यायः॥
कर्णपर्व - अध्याय 012

॥ श्रीः ॥

8.12. अध्यायः 012

Mahabharata - Karna Parva - Chapter Topics

भीमाश्वत्थाम्नोर्युद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-12-0 (55482) सञ्जय उवाच। 8-12-0x (4860) भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा। परया त्वरया युक्तो दर्शयन्नस्त्रलाघवम्॥ 8-12-1 (55483) अथैनं पुनराजघ्ने नवत्या निशितैः शरैः। सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत्॥ 8-12-2 (55484) भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः। रराज समरे राजन्रश्मिवानिव भास्करः॥ 8-12-3 (55485) ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः। द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत॥ 8-12-4 (55486) शरैः सरांस्ततो द्रौणिः संवार्य युधि पाण्डवम्। ललाटेऽभ्याहनद्राजन्नाराचेन स्मयन्निव॥ 8-12-5 (55487) ललाटस्थं ततो बाणं धारयामास पाण्डवः। यथा शृङ्गं वने दृप्तः खङ्गो धारयते नृप॥ 8-12-6 (55488) ततो द्रौणिं रणे भीमो यतमानं पराक्रमी। त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव॥ 8-12-7 (55489) ललाटस्थैस्ततो बाणैर्ब्राह्मणोऽसौ व्यशोभत। प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः॥ 8-12-8 (55490) ततः शरशतैर्द्रौणिरर्दयामास पाण्डवम्। न चैनं कम्पयामास मातरिश्वेव पर्वतम्॥ 8-12-9 (55491) तथैव पांण्डवो युद्धे द्रौणिं शरशतैः शितैः। नाकम्पयत संहृष्टो वार्योध इव पर्वतम्॥ 8-12-10 (55492) तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ। रथवर्यगतौ वीरौ शुशुभाते बलोत्कटौ॥ 8-12-11 (55493) आदित्याविव सन्दीप्तौ लोकक्षयकरावुभौ। स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः॥ 8-12-12 (55494) ततः प्रविकृते यत्नं कुर्वाणौ तौ महारणे। कृतप्रतिकृते यत्तौ शरसङ्घैरभीतवत्॥ 8-12-13 (55495) व्याघ्राविव च सङ्ग्रामे चेरतुस्तौ नरोत्तमौ। शरदंष्ट्रौ दुराधर्षौ चापवक्रौ भयङ्करौ॥ 8-12-14 (55496) अभूतां तावदृश्यौ च शरजालैः समन्ततः। मेघजालैरिव च्छनौ गगने चन्द्रभास्करौ॥ 8-12-15 (55497) चकाशेते मुहूर्तेन ततस्तावप्यरिन्दमौ। विमुक्तावभ्रजालेन अङ्गारकबुधाविव॥ 8-12-16 (55498) अथ तत्रैव सङ्ग्रमे वर्तमाने सुदारुणे। अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम्॥ 8-12-17 (55499) किरञ्छरशतैरुग्रैर्धाराभिरिव पर्वतम्। न तु तन्ममृषे भीमः शत्रोर्विजलक्षणम्॥ 8-12-18 (55500) प्रतिचक्रे ततो राजन्पाण्डवोऽप्यपसव्यतः। मण्डलानां विभागेन गतप्रत्यागतेन च॥ 8-12-19 (55501) बभूव तुमुलं युद्धं तयोः पुरुषसिंहयोः। चरित्वा विविधान्मार्गान्मण्डलस्थानमेव च॥ 8-12-20 (55502) शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः। अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम्॥ 8-12-21 (55503) ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे। ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः॥ 8-12-22 (55504) तान्यस्त्रैरेव समरे प्रतिजघ्नेऽथ पाण्डवः। ततो घोरं महाराज अस्त्रयुद्धमवर्तत॥ 8-12-23 (55505) ग्रहयुद्वं यथा घोरं प्रजासंहरणे ह्यभूत्। ते वाणाः समसज्जन्त मुक्तास्ताभ्यां तु भारत॥ 8-12-24 (55506) द्योतग्रन्तो दिशः सर्वास्तव सैन्यं समन्ततः। बाणसङ्घैर्वृतं घोरमाकाशं समपद्यत॥ 8-12-25 (55507) उल्कापातावृतं युद्धं प्रजानां संक्षये नृप। बाणाभिघातात्सञ्जज्ञे तत्र भारत पावकः॥ 8-12-26 (55508) सविस्फुलिङ्गो दीप्तार्चिर्योऽदहद्वाहिनीद्वयम्। तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन्वचः॥ 8-12-27 (55509) युद्धानामति सर्वेषां युद्धमेतदिति प्रभो। सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम्॥ 8-12-28 (55510) नेदृशं च पुनर्युद्धं भविष्यति कदाचन। अहो ज्ञानेन सम्पन्नावुभ ब्राह्मणक्षत्रियौ॥ 8-12-29 (55511) अहो शौर्येण सम्पन्नावुभौ चोग्रपराक्रमौ। अहो भीमबलो भीम एतस्य च कृतास्त्रता॥ 8-12-30 (55512) अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः। स्थितावेतौ हि समरे कालान्तकयमोपमौ॥ 8-12-31 (55513) रुद्रौ द्वावि सम्भूतौ यथा द्वाविव भास्करौ। यमौ वा पुरुषव्याघ्रौ घोररूपावुभौ रणे॥ 8-12-32 (55514) इति वाचः स्म श्रूयन्ते सिद्धानां वै मुहुर्मुहुः। सिंहनादश्च सञ्जज्ञे समेतानां दिवौकसाम्॥ 8-12-33 (55515) अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयो रणे। सिद्वचारणसङ्घानां विस्मयः समपद्यत॥ 8-12-34 (55516) प्रशंसन्ति तदा देवाः सिद्वाश्च परमर्षयः। साधु द्रौणे महाबाहो साधु भीमेति चाब्रुवन्॥ 8-12-35 (55517) तौ शूरौ समरे राजन्परस्परकृतागसौ। परस्परमुदीक्षेतां क्रोधादुद्वृत्य चक्षुषी॥ 8-12-36 (55518) क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ। क्रोधात्संदष्टदशनौ तथैव दशनच्छदौ॥ 8-12-37 (55519) अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ। शराम्बुधारो समरे शस्त्रविद्युत्प्रकाशिनौ॥ 8-12-38 (55520) तावन्यन्यं ध्वजं विद्व्वा सारथिं च महारणे। अन्योन्यस्य हयान्विद्वा बिभिदाते परस्परम्॥ 8-12-39 (55521) ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे। उभौ चिक्षिपतुस्तूर्ममन्योन्यस्य वधैषिणौ॥ 8-12-40 (55522) तौ सायकौ महाराज द्योतमानौ चमूमुखे। आजघ्नतुः समासाद्य वज्रवेगौ दुरासदौ॥ 8-12-41 (55523) तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ। निपेततुर्महावीर्यौ रथोपस्थे तयोस्तदा॥ 8-12-42 (55524) ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम्। अपोवाह रणाद्राजन्सर्वसैन्यस्य पश्यतः॥ 8-12-43 (55525) 8-12-44 (55526) तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः। अपोवाह रथेनाजौ विशोकः शत्रुतापनम्॥ ॥ *इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे द्वादशोऽध्यायः॥ 12 ॥ *.झ. पन्तके एतदनन्तरं स्थिताः सप्ताध्याया एतत्पाठे क्रमेण 52-53-54-55-56-59-60 तमाध्यायतया वर्तन्ते।

Mahabharata - Karna Parva - Chapter Footnotes

8-12-6 खङ्गः पण्डकः॥ 8-12-13 कृतप्रतिकृते अन्योन्यास्नप्रतिघाते॥ 8-12-22 ईषतुः इच्छां चक्रतुः॥ 8-12-26 उत्कानामन्योन्या भिमुखं पातास्तैरावृतमिवेति लुप्तोपमा॥ 8-12-37 तथैव दशनच्छदौ क्रोधात्सन्दष्टोष्टौ॥ 8-12-12 द्वादशोऽध्यायः॥
कर्णपर्व - अध्याय 013

॥ श्रीः ॥

8.13. अध्यायः 013

Mahabharata - Karna Parva - Chapter Topics

शल्येन श्रुतकीर्तिपराजयः॥

Mahabharata - Karna Parva - Chapter Text

8-13-0 (55527) `सञ्जय उवाच। 8-13-0x (4861) श्रुतकीर्तिमथायान्तं किरन्तं निशिताञ्शरान्। मद्रराजो महाराज वारयामास हृष्टवत्॥ 8-13-1 (55528) मद्रराजं समासाद्य श्रुतकीर्तिर्महारथः। विव्याध भल्लैर्विशत्या कार्तस्वरविभूषितैः॥ 8-13-2 (55529) प्रतिविव्याध तं शल्यं त्रिभिस्तूर्णमजिह्मगैः। सारथिं चास्य भल्लेन भृशं विव्याध भारत॥ 8-13-3 (55530) स शल्यं शरवर्षेण च्छादयामास संयुगे। मुमोच निशितान्बाणान्मद्रराजरथं प्रति॥ 8-13-4 (55531) ततः शल्यो महाराज श्रुतकीर्तिभुजच्युतान्। चिच्छेद समरे बाणासन्बणैः सन्नतपर्वभिः॥ 8-13-5 (55532) श्रुतकीर्तिस्ततः श्ल्यं भित्त्वा नवभिरायसैः। सारथिं त्रिभिरानर्च्छत्पुनः शल्यं च प़ञ्चभिः॥ 8-13-6 (55533) तस्य शल्यो धनुश्छित्त्वा हस्तावापं निकृत्य च। विव्याध समरे तूर्णं सप्तभिस्तं शरोत्तमैः॥ 8-13-7 (55534) अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः। भद्रेश्वरं चतुःषष्ट्या बाह्वोरुरसि चार्पयत्॥ 8-13-8 (55535) ततस्तु समरे राजंस्तेन विद्वः शिलीमुखैः। xxविव्याध तं चापि नवत्या निशितैः शरैः॥ 8-13-9 (55536) तस्य मद्रेश्वरश्चापं पुनश्चिच्छेद मारिष। स च्छिन्नधन्वा समरे गदां चिक्षेप सत्वरः॥ 8-13-10 (55537) पट्टैर्जाम्बूनदैर्बद्धां रुप्यपट्टैश्च भारत। भ्राजमानां यथा नारीं दिव्यवस्त्रविभूषिताम्॥ 8-13-11 (55538) तामापतन्तीं सहसा दीप्यमानाशनिप्रभाम्। शरैरनेकसाहस्रैर्व्यष्टम्भयत मद्रराट्॥ 8-13-12 (55539) विष्टभ्य च गदां वीरः पातयित्वा च भूतले। श्रुकीर्तिमथायत्तो राजन्विव्याध पञ्चभिः॥ 8-13-13 (55540) तस्य शक्तिं रमे भूयश्चिक्षेप भुजोपमाम्। तां द्विधा चाछिनच्छल्यो मेदिन्यां सा त्वशीर्यत॥ 8-13-14 (55541) तस्य शल्यः क्षुरप्रेण यन्तुः कायाच्छिरोऽहरत्। बालहस्ताद्यथा श्येन आमिषं वै नरोत्तम॥ 8-13-15 (55542) स पपात रथोपस्थात्सारथिस्तस्य भारत। ततस्ते प्राद्रवन्सङ्ख्ये हय्नास्तस्य महात्मनः॥ 8-13-16 (55543) पलायमानैस्तैरश्वैः सोपनीतो रमाजिरात्। श्रुतकीर्तिर्महाराज पश्यतां सर्वयोधिनाम्॥ 8-13-17 (55544) ततो मद्रेश्वरो राजा पाण्डवानामनीकिनीम्। व्यगाहत मुदा युक्तो नलिनीं द्विरदो यथा॥ 8-13-18 (55545) लोलयामास स बलं सिंहः पशुगणानिव। शल्यस्तत्र महारङ्गे पाण्डवानां महात्मनाम्॥ 8-13-19 (55546) निपात्य पाण्डुपाञ्चालान्पृतनासु व्यवस्थितः। अशोभत रणे शल्यो विधूमोऽग्निरिव ज्वलन्॥ 8-13-20 (55547) सेनाकक्षं महद्दग्ध्वा कक्षमग्निरिवोत्थितः। स्थितो रराज समरे पुरं दग्ध्वेव शङ्करः॥ ॥ 8-13-21 (55548) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे त्रयोदशोऽध्यायः॥ 13 ॥
कर्णपर्व - अध्याय 014

॥ श्रीः ॥

8.14. अध्यायः 014

Mahabharata - Karna Parva - Chapter Topics

सहदेवेन दुःशासनपराजयः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-14-0 (55549) सञ्जय उवाच। 8-14-0x (4862) सहदेवं तथा क्रुद्धं निघ्नन्तं तव वाहिनीम्। दुःशासनो महाराज भ्राता भ्रातरमभ्ययात्॥ 8-14-1 (55550) तौ समेतौ महाराज दृष्ट्वा तत्र महारथाः। सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह॥ 8-14-2 (55551) ततो भारत रुष्टेन तव पुत्रेण धन्विना। पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली॥ 8-14-3 (55552) सहदेवस्ततो राजन्नाराचेन तवात्मजम्। विद्व्वा विव्याध सप्तत्या सारथिं च त्रिभिः शरैः॥ 8-14-4 (55553) दुःशासनस्ततश्चापं छित्त्वा राजन्महाहवे। सहदेवं त्रिसप्तत्या बाहोरुरसि चार्पयत्॥ 8-14-5 (55554) सहदेवस्तु सङ्क्रुद्धः खङ्गं गृह्य महाहवे। आविध्य प्रासृजत्तूर्णं तव पुत्रथं प्रति॥ 8-14-6 (55555) समार्गणगुणं चापं छित्त्वा तस्य महानसिः। निपपात ततो भूमौ च्युतः सर्प इवाम्बरात्॥ 8-14-7 (55556) अथान्यद्धनुरादाय सहदेवः प्रतापवान्। दुःशासनाय चिक्षेप बाणमन्तकरं ततः॥ 8-14-8 (55557) तमापतन्तं विशिखं यमदण्डोपमत्विषम्। खङ्गेन शितधारेण द्विधा चिच्छेद कौरवः॥ 8-14-9 (55558) ततस्तं निशितं खङ्गमाविध्य युधि सत्वरः। धनुश्चान्यत्समादाय शरं जग्राह वीर्यवान्॥ 8-14-10 (55559) तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः। पातयामास समरे सहदेवो हसन्निव॥ 8-14-11 (55560) ततो बाणांश्चतुः षष्टिं तव पुत्रो महारणे। सहदेवरथं तूर्णं प्रेषयामास भारत॥ 8-14-12 (55561) ताच्छरान्समरे राजन्वेगेनापपतो बहून्। एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृतन्तत॥ 8-14-13 (55562) सन्निवार्य महाबाणान्सहदेवः प्रतापवान्। अथास्मै सुबहून्बाणान्प्रेषयामास संयुगे॥ 8-14-14 (55563) तान्वाणांस्तव पुत्रोऽपि छित्त्वैकैकं त्रिभिः शरैः। ननाद सुमहानादं नादयानो वसुंधराम्॥ 8-14-15 (55564) ततो दुःशासनो राजन्द्वाभ्यां पाण्डुसुतं रणे। सारथिं नवभिर्बाणैर्माद्रोयस्य समाचिनोत्॥ 8-14-16 (55565) ततः क्रुद्धो महाराज सदहेवः प्रतापवान्। समाधत्त शरं घोरं मृत्युकालान्तकोपमम्॥ 8-14-17 (55566) विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत्। स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत्॥ 8-14-18 (55567) प्राविशद्वरणीं राजन्वल्मीकमिव पन्नगः। ततः सम्मुमुहे राजंस्तव पुत्रो महारथः॥ 8-14-19 (55568) मूढं चैनं समालोक्य सारथिस्त्वरितो रथम्। अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः॥ 8-14-20 (55569) पराजित्य रणे तं तु कौरव्यं पाण्डुनन्दनः। दुर्योधनबलं दृष्ट्वा प्रममाथ समन्ततः॥ 8-14-21 (55570) पिपीलिकपुटं राजन्यथा मृद्गन्नरो रुषा। तथा सा कौरवी सेना मृदिता तेन भारत॥ ॥ 8-14-22 (55571) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे चतुर्दशोऽध्यायः॥ 14 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-14-1 आदुधुषुः भ्रामितवन्तः॥ 8-14-22 पिपीलिकपुटं पिपीलिकावासपटलम्॥ 8-14-14 चतुर्दशोऽध्यायः॥
कर्णपर्व - अध्याय 015

॥ श्रीः ॥

8.15. अध्यायः 015

Mahabharata - Karna Parva - Chapter Topics

कर्णनकुलयोर्युद्धम्॥ 1 ॥ कर्णेन नकुलस्य पराभावनपूर्वकं सोपहासमधिक्षेपः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-15-0 (55572) सञ्जय उवाच। 8-15-0x (4863) नकुलं रभसं युद्धे द्रावयन्तं वरूथिनीम्। कर्णो वैकर्तनो राजन्वारयामास वै रुषा॥ 8-15-1 (55573) नकुलस्तु ततः कर्णं प्रहसन्निदमब्रवीत्॥ चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा। 8-15-2 (55574) यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः॥ त्वं हि मूलमनर्थानां वैरस्य कलहस्य च। 8-15-3 (55575) त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम्। त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः॥ 8-15-4 (55576) एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः। सदृशं राजपुत्रस्य धन्विनश्च विशेषतः॥ 8-15-5 (55577) प्रहरस्व च मे वीर पश्यामस्तव पौरुषम्। कर्म कृत्वा रमे शूर ततः कत्थितुमर्हसि॥ 8-15-6 (55578) अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः। प्रयुध्यस्व मया शक्त्या हनिष्ये दर्पमेव ते॥ 8-15-7 (55579) इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः। विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः॥ 8-15-8 (55580) नकुलस्तु ततो विद्वः सूतपुत्रेण भारत। अशीत्याऽऽशीविषप्रख्यैः सूतपुत्रमविध्यत॥ 8-15-9 (55581) तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः। त्रिंशता परमेष्वासः शरैः पाण्डवमर्दयत्॥ 8-15-10 (55582) ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे। आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः॥ 8-15-11 (55583) अथान्यद्वनुरादाय हेमपृष्ठं दुरासदम्। कर्णं विव्याध सप्तत्या सारथिञ्च त्रिभिः शरैः॥ 8-15-12 (55584) ततः क्रुद्धो महाराज नकुलः परवीहा। क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुराच्छिनत्॥ 8-15-13 (55585) अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः। आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम्॥ 8-15-14 (55586) कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष। विस्मयं परमं जग्मुर्ऋषयः सह दैवतैः॥ 8-15-15 (55587) अथान्यद्वनुरादाय कर्णो वैकर्तनस्तदा। नकुलं पञ्छभिर्बाणैर्जत्रुदेशे समार्पयत्॥ 8-15-16 (55588) उरस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत। स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम्॥ 8-15-17 (55589) नकुलस्तु ततः कर्णं विद्व्वा सप्तभिराशुगैः। अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष॥ 8-15-18 (55590) सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम्। नकुलस्य ततो बैणैः समन्ताच्छादयद्दिशः॥ 8-15-19 (55591) सञ्छाद्यमानः सहसा कर्णचाप्युतैः सरैः। चिच्छेद स शरांस्तूर्णं शरैरेव महारथः॥ 8-15-20 (55592) ततो बाणमयं जालं विततं व्योम्न्यदृश्यत। खद्योतानामिव व्रातैः सम्पतद्भिर्यथा नभः॥ 8-15-21 (55593) तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा। शलभानां यथा व्रातैस्तद्वदासीद्विशाम्पते॥ 8-15-22 (55594) ते शरा हेमविकृताः सम्पन्तौ मुहुर्मुहुः। श्रेणीकृता व्यकाशान्त क्रौञ्चाः श्रेणीकृता इव॥ 8-15-23 (55595) बाणजालवृते व्योम्नि च्छादिते च दिवाकरे। न स्म सम्पतते भूतं किञ्चिदप्यन्तरिक्षगम्॥ 8-15-24 (55596) निरुद्वे तत्र मार्गे च शरसङ्घैः समन्ततः। व्यरोचेतां महात्मानौ कालसूर्याविवोदितौ॥ 8-15-25 (55597) कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः। अवालीयन्त राजेन्द्र वेदनार्ता भूशार्दिताः॥ 8-15-26 (55598) नकुलस्य तथा बाणैर्हन्यमाना चमूस्तव। व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः॥ 8-15-27 (55599) ते सेने हन्यमाने तु ताभ्यां दिव्यैर्महाशरैः। शरपातमपाक्रम्य तस्थतुः प्रेक्षिके तदा॥ 8-15-28 (55600) प्रोत्सारितजने तस्मिन्कर्णपाण्डवयोः शरैः। अविध्येतां महात्मानावन्योन्यं शरवृष्टिभिः॥ 8-15-29 (55601) विदर्शयन्तौ दिव्यानि शस्त्राणि रणमूर्धनि। छादयन्तौ च सहसा परस्परवधैषिणौ॥ 8-15-30 (55602) नकुलेन शरा मुक्ता कङ्कबर्हिणवाससः। सूतपुत्रमवच्छाद्य व्यतिष्ठन्त यथाऽम्बरे॥ 8-15-31 (55603) तथैव सूतपुत्रेण प्रेषिताः परमाहवे। पाण्डुपुत्रमवच्छाद्य व्यतिष्ठन्ताम्बरे शराः॥ 8-15-32 (55604) शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन। सूर्याचन्द्रमसौ राजञ्छाद्यमानौ घनैरिव॥ 8-15-33 (55605) ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः। पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः॥ 8-15-34 (55606) सोऽतिच्छन्नो महाराज सूतपुत्रेण पाण्डवः। न चकार व्यथां राजन्भास्करो जलदैर्यथा॥ 8-15-35 (55607) ततः प्रहस्याधिरथिः शरजालानि मारिष। प्रेषयामास समरे शतशोऽथ सहस्रशः॥ 8-15-36 (55608) एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः॥ अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः॥ 8-15-37 (55609) ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः। सारथिं पातयामास रथनीडाद्वसन्निव॥ 8-15-38 (55610) ततोऽश्वांश्छतुरश्चास्य चतुर्भिर्निशितैः शरैः। यमस्य भवनं तूर्णं प्रेषयामास भारत॥ 8-15-39 (55611) अथास्य तं रथं दिव्यं तिलशो व्यधमच्छरैः। पताकां चक्ररक्षांश्च गदां खङ्गं च मारिष॥ 8-15-40 (55612) शतचन्द्रं च तच्चर्म सर्वापकरणानि च। `सुवर्णविकृतं तच्च धनुः शरमाहवे'॥ 8-15-41 (55613) हताश्वो विरथश्चैव विवर्मा च विशाम्पते। अवतीर्य रथात्तूर्णं परिघं गृह्य धिष्ठितः॥ 8-15-42 (55614) तमुद्यतं महारघोरं परिघं तस्य सूतजः। व्यहनत्सायकै राजन्सुतीक्ष्णैर्भारसाधनैः॥ 8-15-43 (55615) व्यायुधं चैनमालक्ष्य शरैः सन्नतपर्वभिः। आर्पयद्बहुभिः कर्णो न चैनं समपीडयत्॥ 8-15-44 (55616) स हन्यमानः समरे कृतास्त्रेण बलीयसा। प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः॥ 8-15-45 (55617) तमभिद्रुत्य राधेयः प्रहसन्वै पुनःपुनः। सज्यमस्य धनुः कण्ठे व्यवासृजत भारत॥ 8-15-46 (55618) ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः। परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः॥ 8-15-47 (55619) यथैव चासितो मेघः शक्रचापेन शोभितः। `अशोभत महाराज पाण्डुपुत्रस्तथा रणे'॥ 8-15-48 (55620) तमब्रवीत्ततः कर्णो व्यर्थं व्याहृतवानसि। वदेदानीं पुनर्हृष्टो वध्यमानः पुनःपुनः॥ 8-15-49 (55621) मा योत्सीः कुरुभिः सार्धं बलवद्भिश्च पाण्डव। सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव॥ 8-15-50 (55622) गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ। एवमुक्त्वा महाराज विससर्ज स तं तदा॥ 8-15-51 (55623) वधप्राप्तं तु तं शूरो नाहनद्वर्मवित्तदा। स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत्॥ 8-15-52 (55624) विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना। व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति॥ 8-15-53 (55625) आरुरोह रथं चापि सूतपुत्रप्रतापितः। निःश्वसन्दुःखसन्तप्तः कुम्भक्षिप्त इवोरगः॥ 8-15-54 (55626) तं विजित्याथ कर्णोऽपि पाञ्चालांस्त्वरितो ययौ। रथेनातिपताकेन चन्द्रवर्णहयेन च॥ 8-15-55 (55627) तत्राक्रन्दो महानासीत्पाण्डवानां विशाम्पते। दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान्॥ 8-15-56 (55628) तत्राकरोन्महाराज कदनं सूतनन्दनः। मध्यं प्राप्ते दिनकरे चक्रवद्विचरन्प्रभुः॥ 8-15-57 (55629) भग्नचक्रै रथैः कैश्चिच्छिन्नध्यवजपताकिभिः। हताश्वैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष। हियमाणानपश्याम पाञ्चालानां रथव्रजान्॥ 8-15-58 (55630) तत्रतत्र च सम्भ्रान्ता विचेरुरथ कुञ्जराः। दावाग्न्यभिपरीताङ्गा यथैव स्युर्महावने॥ 8-15-59 (55631) भिन्नकुम्भाः सरुधिराश्छिन्नहस्ताश्च वारणाः। छिन्नगात्रावराश्चैव च्छिन्नवालधयोऽपरे। छिन्नाभ्राणीव सम्पेतुर्हन्यमाना महात्मना॥ 8-15-60 (55632) अपरे त्रासिता नागा नाराचशरतोमरैः। तमेवाभिमुखं जग्मुः शलभा इव पावकम्॥ 8-15-61 (55633) अपरे निष्टनन्तश्च व्यदृश्यन्त महाद्विपाः। क्षरन्तः शोणितं गात्रैर्नगा इव जलस्रवाः॥ 8-15-62 (55634) उरश्छदैर्वियुक्तांश्च वालबन्धैश्च वाजिनः। राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः॥ 8-15-63 (55635) हीनांश्चाभरणैश्चैव खलीनैश्च विवर्जितान्। चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि॥ 8-15-64 (55636) निहतैः सादिभिश्चैव शूरैराहवशोभितैः। अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान्॥ 8-15-65 (55637) प्रासैः खङ्गैश्च रहितानृष्टिभिश्चापि भारत। हयसादीनपश्याम कञ्चुकोष्णीषधारिणः॥ 8-15-66 (55638) निहतान्वध्यमानांश्च वेपमानांश्च भारत। नागाङ्गावयवैर्हीनांस्तत्रतत्रैव भारत॥ 8-15-67 (55639) रथान्हेमपरिष्कारान्संयुक्ताञ्जवनैर्हयैः। भ्राम्यमाणानपश्याम हतेषु रथिषु द्रुतम्॥ 8-15-68 (55640) भग्नाक्षकूबरान्कांश्चिद्भग्नचक्रांश्च भारत। विपताकध्वजांश्चान्याञ्छिन्नेषादण्डबन्धुरान्॥ 8-15-69 (55641) विहीनान्रथिनस्तत्र धावमानांस्ततस्ततः। सूतपुत्रशरैस्तीक्ष्णैर्हन्यमानान्विशाम्पते॥ 8-15-70 (55642) विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च हतान्बहून्। तारकाजालसञ्छन्नान्वरघण्टाविशोभितान्॥ 8-15-71 (55643) नानावर्णविचित्राभिः पताकाभिरलङ्कृतान्। वारमआननुपश्याम धावमानान्समन्ततः॥ 8-15-72 (55644) शिरांसि बाहूनूरूंश्च च्छिन्नानन्यांस्तथैव च। कर्णचापच्युतैर्बाणैरपश्याम समन्ततः॥ 8-15-73 (55645) महान्व्यतिकरो रौद्रो योधानामन्वपद्यत। कर्णसायकनुन्नानां युध्यतां च शितैः शरैः॥ 8-15-74 (55646) ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः। तमेवाभिमुखं यान्ति पतङ्गा इव पावकम्॥ 8-15-75 (55647) तं दहन्तमनीकानि तत्रतत्र महारथम्। क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम्॥ 8-15-76 (55648) हतशेषास्तु ये वीराः पाञ्चालानां महारथाः। तान्प्रभग्रान्दुतान्वीरः पृष्ठो विकिऱञ्छरैः। अभ्यधावत तेजस्वी विशीर्णवचनध्वजान्॥ 8-15-77 (55649) तापयामास तान्बाणैः सूतपुत्रो महाबलः। मध्यन्दिनमनुप्राप्तो भूतानीव तमोनुदः॥ ॥ 8-15-78 (55650) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे पञ्चदशोऽध्यायः॥ 15 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-15-1 रभसं रणोत्सुकम्॥ 8-15-11 आशीविषा यथा राजन्भित्त्वा गां सलिलं भृशम्। इति क.ख.ट.पाठः॥ 8-15-25 बालसूर्याविवोदितौ इति ख.पाठः॥ 8-15-37 एकबाणमभूत्सर्वं इति क.ट.पाठः॥ 8-15-58 म्रियमाणान्पश्याम इति क.ख.ट.पाठः॥ 8-15-67 नागाङ्गावयवैरित्यर्धं झ.पुस्तकएव दृश्यते॥ 8-15-15 पञ्चदशोऽध्यायः॥
कर्णपर्व - अध्याय 016

॥ श्रीः ॥

8.16. अध्यायः 016

Mahabharata - Karna Parva - Chapter Topics

युयुत्सूलूकयोर्युद्धम्॥ 1 ॥ शकुनिसुतसोमयोर्युद्धम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-16-0 (55651) सञ्जय उवाच। 8-16-0x (4864) युयुत्सं तव पुत्रस्य द्रावयन्तं बलं महत्। उलूको न्यपतत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत्॥ 8-16-1 (55652) युयुत्सुश्च ततो राजञ्शितधारेण पत्रिणा। उलूकं ताडयामास वज्रेणेव महाबलम्॥ 8-16-2 (55653) उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे। क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना॥ 8-16-3 (55654) तदपास्य धनुश्छिन्नं युयुत्सर्वेगवत्तरम्। अन्यदादत्त सुमहच्चापं संरक्तलोचनः॥ 8-16-4 (55655) शाकुनिं तु ततः षष्ट्या विव्याध भरतर्षभ। सारथिं त्रिभिरानर्च्छत्तं च भूयो व्यविध्यत॥ 8-16-5 (55656) उलूकस्तं तु विंशत्या विद्व्वा स्वर्णविभूषितैः। अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम्॥ 8-16-6 (55657) स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः। पपात प्रमुखे राजन्युयुत्सोः काञ्चनध्वजः॥ 8-16-7 (55658) ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्च्छितः। उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे॥ 8-16-8 (55659) उलूकस्तस्य समरे तैलधौतेन मारिष। शिरश्चिच्छेद भल्लेन यन्तुर्भरतसत्तम॥ 8-16-9 (55660) तच्छिन्नमपतद्भूमौ युयुत्सोः सारथेस्तदा। तारारूपं यथा चित्रं निपपात महीतले॥ 8-16-10 (55661) जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः। सोऽतिविद्वो बलवता प्रत्यपायाद्रथान्तरम्॥ 8-16-11 (55662) तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ। पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः॥ 8-16-12 (55663) शतानीकं महाराज श्रुतकर्मा सुतस्तव। व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमः॥ 8-16-13 (55664) हताश्वे तु रथे तिष्ठञ्शतानीको महारथः। गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष॥ 8-16-14 (55665) सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन्। पपात धरणीं तूर्णं दारयन्तीव भारत॥ 8-16-15 (55666) तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ। व्यपाक्रमेतां युद्वात्तु प्रेक्षमाणौ परस्परम्॥ 8-16-16 (55667) पुत्रस्तु तव सम्भ्रान्तो विविंशो रथमारुहत्। शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः॥ 8-16-17 (55668) सुतमोमं तु शकुनिर्विद्व्वा तु निशितैः शरैः। नाकम्पयत सङ्क्रुद्वो वार्योघ इव पर्वतम्॥ 8-16-18 (55669) सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम्। शरैरनेकसाहस्रैश्छादयामास भारत॥ 8-16-19 (55670) ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः। लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे॥ 8-16-20 (55671) निवार्य समरे चापि शरांस्तान्निशितैः शरैः। आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः॥ 8-16-21 (55672) `नाकम्पयत सङ्क्रुद्धो वार्योघ इव पर्वतम्'। तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः। श्यालस्तव महाराज तत उच्चुक्रुशुर्जनाः॥ 8-16-22 (55673) हताश्वो विरथश्चैव छिन्नकेतुश्च मारिष। धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत॥ 8-16-23 (55674) व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान्। छादयामासुरथ ते तव श्यालस्य तं रथम्। शळभानामिव व्राताः शरव्राता महारथम्॥ 8-16-24 (55675) सञ्छाद्यमानोऽपि दृढं विव्यथे नैव सौबलः। प्रममाथ शरांस्तस्य शरव्रातैर्महायशाः॥ 8-16-25 (55676) तत्रातुष्यन्त योधाश्च सिद्वाश्चापि दिवि स्थिताः। सुतसोमस्य तत्कर्म दृष्ट्वाऽश्रद्वेयमद्भुतम्। रथस्थं शकुनिं यत्तु पदातिः समयोधयत्॥ 8-16-26 (55677) तस्य तीक्ष्णैर्महावेगैर्भल्लैः सन्नतपर्वभिः। व्यहनत्कारामुकं राजंस्तूणीरांश्चैव सर्वशः॥ 8-16-27 (55678) स च्छिन्नधन्वा विरथः खङ्गमुद्यम्य चानदत्। वैदूर्योत्पलवर्णाभं दन्तिदन्तमयत्सरुम्॥ 8-16-28 (55679) भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम्। कालदण्डोपमं मेने सुतसोमस्य धीमतः॥ 8-16-29 (55680) सोऽचरत्सहसा खङ्गी मण्डलानि सहस्रशः। चतुर्दश महाराज शिक्षाबलसमन्वितः॥ 8-16-30 (55681) भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम्। सम्पातसमुदीर्णे च दर्शयामास संयुगे॥ 8-16-31 (55682) सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान्। तानापतत एवाशु चिच्छेद परमासिना॥ 8-16-32 (55683) ततः क्रुद्धो महाराज सौबलः परवीरहा। प्राहिणोत्सुतसोमाय शरानाशीविषोपमान्॥ 8-16-33 (55684) चिच्छेद तांस्तु खङ्गेन शिक्षया च बलेन च। दर्शयँल्लाघवं युद्धे तार्क्ष्यतुल्यपराक्रमः॥ 8-16-34 (55685) तस्य सञ्चरतो राजन्मण्डलावर्तने तदा। क्षुरप्रेण सुतीक्ष्णेन खङ्गं चिच्छेद सुप्रभम्॥ 8-16-35 (55686) स च्छिन्नः सहसा भूमौ निपपात महानसिः। अधर्मस्य स्थितं हस्ते सुत्सरोस्तत्र भारत॥ 8-16-36 (55687) छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्। प्राविध्यत ततः शेषं सुतसोमो महारथः॥ 8-16-37 (55688) तच्छित्त्वा सगुणं चापं रणे तस्य महात्मनः। पपात धरणीं तूर्णं स्वर्णवज्रविभूषितम्॥ 8-16-38 (55689) सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम्। सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुर्जयम्॥ 8-16-39 (55690) अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून्। तत्र नादो महानासीत्पाण्डवानां विशाम्पते॥ 8-16-40 (55691) सौबलं समरे दृष्ट्वा विचरन्तमभीतवत्। तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च। द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना॥ 8-16-41 (55692) यथा दैत्यचमूं राजन्देवराजो ममर्द ह। तथैव पाण़्वीं सेनां सौबलेयो व्यनाशयत्॥ ॥ 8-16-42 (55693) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे षोडशोऽध्यायः॥ 16 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-16-35 मण्डलानामावर्तने अनुलोमविलोमाभ्यासे॥ 8-16-36 असेः सुत्सरोः शोभनमुष्टेः॥ 8-16-16 षोडशोऽध्यायः॥
कर्णपर्व - अध्याय 017

॥ श्रीः ॥

8.17. अध्यायः 017

Mahabharata - Karna Parva - Chapter Topics

कृपकृतवर्मक्ष्यां धृष्टद्युम्नशिखण्डिनोः पराजयः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-17-0 (55694) सञ्जय उवाच। 8-17-0x (4865) धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे। यथा दृष्ट्वा वने सिंहं शरभो वारयेद्युधि॥ 8-17-1 (55695) निरुद्वः पार्षतस्तेन गौतमेन बलीयसा। पदात्पदं विचलितुं नाशकत्तत्र भारत॥ 8-17-2 (55696) गौतमस्य रथं दृष्ट्वा धृष्टद्युम्नरथं प्रति। वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे॥ 8-17-3 (55697) तदा जल्पन्ति पाण्डूनां रथिनः सादिनस्तथा। द्रोणस्य निधनान्नूनं सङ्क्रुद्वो द्विपदां वरः॥ 8-17-4 (55698) शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः। अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात्॥ 8-17-5 (55699) अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात्। अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान्॥ 8-17-6 (55700) यादृशं दृश्यते रूपमन्तकप्रतिमं रणे। गमिष्यत्यद्य पदवीं भारद्वाजस्य गौतमः॥ 8-17-7 (55701) आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि। अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः॥ 8-17-8 (55702) पार्षतश्च महायुद्वे विमुखोऽद्याभिलक्ष्यते। इत्येवं विविधा वाचस्तावकानां परैः सह। व्यश्रूयन्त महाराज तयोस्तत्र समागमे॥ 8-17-9 (55703) विनिःश्वस्य ततः क्रोधात्कृपः शारद्वतो नृप। पार्षतं चार्दयामास निश्चेष्टं सर्वमर्मसु॥ 8-17-10 (55704) स हन्यमानः समरे गौतमेन महात्मना। कर्तव्यं न स्म जानाति मोहेन महता वृतः॥ 8-17-11 (55705) तमब्रवीत्ततो यन्ता कञ्चित्क्षेमं तु पार्षत। ईदृशं व्यसनं युद्धे न ते दृष्टं मया क्वचित्॥ 8-17-12 (55706) दैवयोगात्तु ते बाणा नापतन्मर्मभेदिनः। प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वतः॥ 8-17-13 (55707) व्यावर्तये रथं तूर्णं नदीवेगमिवार्णवात्। अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः॥ 8-17-14 (55708) धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः। मुह्यते मे मनस्तात गात्रस्वेदश्च जायते॥ 8-17-15 (55709) वेपथुश्च शरीरे मे रोमहर्षश्च सारथे। वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽर्जुनः॥ 8-17-16 (55710) अर्जुनं भीमसेनं वा समरे प्राप्य सारथे। क्षेममद्य भवेन्मह्यमिति मे नैष्ठिकी मतिः॥ 8-17-17 (55711) ततः प्रायान्महाराज सारथिस्त्वरयन्हयान्। यतो भीमो महेष्वासो युयुधे तव सैनिकैः॥ 8-17-18 (55712) प्रद्रुतं च रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष। किरञ्शरशतान्येव गौतमोऽनुययौ तदा॥ 8-17-19 (55713) शङ्खं च पूरयामास मुहुर्मुहुररिन्दमः। पार्षतं त्रासयामास महेन्द्रो नमुचिं यथा॥ 8-17-20 (55714) शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम्। हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः॥ 8-17-21 (55715) शिखण्डी तु समासाद्य हृदिकानां महारथम्। पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समाहनत्॥ 8-17-22 (55716) कृतवर्मा तु सङ्क्रद्धो भित्त्वा षष्ट्या पतत्रिभिः। धनुरेकेन चिच्छेद हसन्राजन्महारथः॥ 8-17-23 (55717) अथान्यद्वनुरादाय द्रुपदस्यात्मजो बली। तिष्ठतिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत॥ 8-17-24 (55718) ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान्। प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः॥ 8-17-25 (55719) वितथांस्तान्समालक्ष्य पतितांश्च महीतले। क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे भृशम्॥ 8-17-26 (55720) अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम्। अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्पयत्॥ 8-17-27 (55721) कृतवर्मा तु सङ्क्रुद्धो मार्गणैः क्षतविक्षतः। ववाम रुधिरं गात्रैः कुम्भवक्रादिवोदकम्॥ 8-17-28 (55722) रुधिरेण परिक्लिन्नः कृतवर्मा त्वराजत। वर्षेण क्लेदितो राजन्यथा गैरिकपर्वतः॥ 8-17-29 (55723) अथान्यद्वनुरादाय समार्गणगुणं प्रभुः। शिखण्डिनं बाणगणैः स्कन्धदेशे व्यताडयत्॥ 8-17-30 (55724) स्कन्धदेशस्थितैर्बाणैः शिखण्डी तु व्यराजत। शाखाप्रशाखाविपुलः सुमहान्पादपो यथा॥ 8-17-31 (55725) तावन्योन्यं भृशं विद्व्वा रुधिरेण समुक्षितौ। `पोप्लुयमानौ हि यथा महान्तौ शोणितहदे। तद्वद्विरेजतुर्वीरौ शोणितेन परिप्लुतौ॥ 8-17-32 (55726) यथा च किंशुकौ फुल्लौ पुष्पमासे समागते। रुधिरोक्षितसर्वाङ्गौ रक्तचन्दनरूषितौ। भुजगाविव सङ्क्रुद्धौ रेजतुस्तौ नरोत्तमौ॥ 8-17-33 (55727) तावुभौ शरवनुन्नाङ्गौ परस्परशरक्षतौ'। अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव॥ 8-17-34 (55728) अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ। रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः॥ 8-17-35 (55729) कृतवर्मा महाराज पार्षतं निशितैः शरैः। रणे विव्याध सप्तत्या स्वर्णपुङ्गैः शिलाशितैः॥ 8-17-36 (55730) ततोऽस्य समरे बाणं भोजः प्रहरतां वरः। जीवितान्तकरं घोरं व्यसृजत्त्वरयाऽन्वितः॥ 8-17-37 (55731) स तेनाभिहतो राजन्मूर्च्छामाशु समाविशत्। ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः॥ 8-17-38 (55732) अपोवाह रणात्तूर्णं सारथी रथिनां वरम्। हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनःपुनः॥ 8-17-39 (55733) पराजिते ततः शूरे द्रुपदस्यात्मजे प्रभो। व्यद्रवत्पाण्डवी सेना व्यधमाना समन्ततः॥ ॥ 8-17-40 (55734) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे सप्तदशोऽध्यायः॥ 17 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-17-1 शरभोऽष्टपादः सिंहघाती पशुपक्षिशरीरो नृसिंहवत् द्व्यात्मा॥ 8-17-12 ईदृशं व्यसनं यद्धेन मे दृष्टं कदाचन। दैवयोगादिमे बाणा न जघ्नर्मम चाहवे इति क.ख.ट.पाठः॥ 8-17-13 ईदृशं व्यसनं यद्धेन मे दृष्टं कदाचन। दैवयोगादिमे बाणा न जघ्नर्मम चाहवे इति क.ख.ट.पाठः॥ 8-17-25 अभ्रश्यन्त भ्रष्टाः। वर्म न चिच्छिदुरित्यर्थः॥ 8-17-28 ववाम वान्तवान्॥ 8-17-36 पार्षतं शिखंडिनं॥ 8-17-17 सप्तदशोऽध्यायः॥
कर्णपर्व - अध्याय 018

॥ श्रीः ॥

8.18. अध्यायः 018

Mahabharata - Karna Parva - Chapter Topics

अर्जुनेन संशप्तकपराजयः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-18-0 (55735) सञ्जय उवाच। 8-18-0x (4866) श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम्। यथा वायुः समासाद्य तूलराशिं समन्ततः॥ 8-18-1 (55736) प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह। वसातयोऽथ साल्वाश्च गोपालाश्च यशस्विनः॥ 8-18-2 (55737) सत्यदेवः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः। सौश्रुतिश्चन्द्रदेवश्च मित्रवर्मा च भारत॥ 8-18-3 (55738) त्रिगर्तराजः समरे भ्रातृभिः परिवारितः। पुत्रैश्चैव महेष्वासैर्नानाशस्त्रविशारदैः॥ 8-18-4 (55739) व्यसृजन्त शस्त्रातान्किरन्तोऽर्जुनमाहवे। अभ्यवर्तन्त सहसा वार्योघा इव सागरम्॥ 8-18-5 (55740) ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः। अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः॥ 8-18-6 (55741) ते हन्यमानाः समरे न जहुः पाण्डवं रणे। हन्यमाना महाराज शलभा इव पावकम्॥ 8-18-7 (55742) सत्यदेवस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम्। मित्रदेवस्त्रिषष्ट्या तु चन्द्रदेवस्तु सप्तभिः॥ 8-18-8 (55743) मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि सप्तभिः। श्रुतंजयस्तु विंशत्या सुशर्मा नवभिः शरैः॥ 8-18-9 (55744) स विद्वो बहुभिः सङ्ख्ये प्रतिविव्याध तान्नृपान्। सौश्रुतिं सप्तभिर्विद्व्वा चन्द्रदेवं त्रिभिः शरैः॥ 8-18-10 (55745) श्रुतंजयं च विंशत्या चन्द्रदेवं तथाऽष्टभिः। मित्रदेवं शतेनैव सत्यदेवं त्रिभिः शरैः॥ 8-18-11 (55746) नवभिर्मित्रवर्माणं सुशर्माणं तथाऽष्टभिः। श्रुतञ्जयं च राजानं हत्वा तत्र शिलाशितैः॥ 8-18-12 (55747) सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत्। त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम्॥ 8-18-13 (55748) तथेतरान्महाराज यतमानान्महारथान्। पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत्॥ 8-18-14 (55749) सत्यदेवस्तु सङ्क्रुद्वस्तोमरं व्यसृजन्महत्। समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च॥ 8-18-15 (55750) स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः। अयस्मयः स्वर्णदण्डो जगाम धरणीं तदा॥ 8-18-16 (55751) माधवस्य तु विद्धस्य तोमरेण महारणे। प्रतोदः प्रापतद्वस्ताद्रश्मयश्च विशाम्पते॥ 8-18-17 (55752) वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनञ्जयः। क्रोधमाहारयत्तीव्रं कृष्णं चेदमुवाच ह॥ 8-18-18 (55753) प्रापयाश्वान्महाबाहो सत्यदेवं प्रति प्रभो। यावदेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्॥ 8-18-19 (55754) प्रतोदं गृह्य सोऽन्यत्तु रश्मीन्सङ्गृह्य च द्रुतम्। वाहयामास तानश्वान्सत्यदेवरथं प्रति॥ 8-18-20 (55755) विष्वक्सेनं सुनिर्विद्वं दृष्ट्वा पार्थो धनञ्जयः। सत्यदेवं शरैस्तीक्ष्णैर्वारयित्वा महारथः॥ 8-18-21 (55756) ततः सुनिशितैर्भल्लै राज्ञस्तस्य महच्छिरः। कुम्डलोपचितं कायाच्चकर्त पृतनान्तरे॥ 8-18-22 (55757) तन्निकृत्य शितैर्बाणैर्भित्रवर्माणमाक्षिपत्। वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष॥ 8-18-23 (55758) ततः शरशतैर्भूयः संशप्तकगणान्बली। पातयामास सङ्क्रुद्वः शतशोऽथ सहस्रशः॥ 8-18-24 (55759) ततो रजतपुङ्खेन राजञ्शीर्षं महात्मनः। मित्रदेवस्य चिच्छेद क्षुरप्रेण महारथः। सुशर्माणं सुसङ्क्रुद्धो जत्रुदेशे समाहनत्॥ 8-18-25 (55760) ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम्। शस्त्रौघैर्ममृदुः क्रुद्वा नादयन्तो दिशो दश॥ 8-18-26 (55761) अभ्यर्दितस्तु तज्जिष्णुः शक्रतुल्यपराक्रमः। ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः॥ 8-18-27 (55762) ततः शरसहस्राणि प्रादुरासन्विशाम्पते। `कार्मुकात्पाण्डुपुत्रस्य पार्थस्यामिततेजसः'॥ 8-18-28 (55763) ततस्तु च्छिद्यमानानां ध्वजानां धनुषां तथा। रथानां सपताकानां तूणीराणां युगैः सह॥ 8-18-29 (55764) अक्षाणामथ चक्राणां योक्त्राणां रश्मिभिः सह। कूबराणां वरूथानां पृषत्कानां च संयुगे॥ 8-18-30 (55765) अश्वानां पततां चापि प्रासानामृष्टिभिः सह। गदानां परिघानां च शक्तितोमरपट्टसैः॥ 8-18-31 (55766) शतघ्नीनां सचक्राणां भुजानां चोरुभिः सह। कण्ठसूत्राङ्गदानां च केयूराणां च मारिष॥ 8-18-32 (55767) हाराणामथ निष्काणां तनुत्राणां च भारत। छत्राणां व्यजनानां च शिरसां कुमुटैः सह। राशयश्चात्र दृश्यन्ते पतितानां महीतले॥ 8-18-33 (55768) सकुण्डलानि स्वक्षीमि पूर्णचन्द्रनिभानि च। शिरांस्युर्व्यामदृश्यन्त ताराजालमिवाम्बरे॥ 8-18-34 (55769) सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च। शरीराणि व्यदृश्यन्त निहतानां महीतले॥ 8-18-35 (55770) रुद्रस्याक्रीडसदृशं घोरमायोधनं तदा॥ 8-18-36 (55771) निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः। `अर्जुनेन महाराज तत्रतत्र महारणे'॥ 8-18-37 (55772) हस्तिभिः पतितैश्चैव तुरङ्गैश्चाभवन्मही। अगम्यरूपा समरे विशीर्णैरिव पर्वतैः॥ 8-18-38 (55773) नासीद्रथपथस्तस्य पाण्डवस्य महात्मनः। निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चास्यतो महत्॥ 8-18-39 (55774) स्वानुगा इव सीदन्ति रथचक्राणि मारिष। चरतस्तस्य सङ्ग्रामे तस्मिंल्लोहितकर्दमे॥ 8-18-40 (55775) सीदमानानि चक्राणि समुहूस्तुरगा भृशम्। श्रमेण महता युक्ता मनोमारुतरंहसः॥ 8-18-41 (55776) वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना। प्रायशो विमुखं सर्वं नावतिष्ठत भारत॥ 8-18-42 (55777) ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून्। विरराज तदा पार्थो विधूमोऽग्निरिव ज्वलन्॥ ॥ 8-18-43 (55778) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे अष्टादशोऽध्यायः॥ 18 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-18-39 आसीद्रथपथस्तस्य इति घ.ङ. पाठः। आसादितस्ततो रान्रथचक्रे विशाम्पते इति क.पाठः। आच्छादितं ततो राजन्रथचक्रं च मारिष इति ख.पाठः॥ 8-18-41 सीदमानानि पङ्कमज्जनात्॥ 8-18-18 अष्टादशोऽध्यायः॥
कर्णपर्व - अध्याय 019

॥ श्रीः ॥

8.19. अध्यायः 019

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-19-0 (55779) सञ्जय उवाच। 8-19-0x (4867) युधिष्ठिरं महाराज विसृजन्तं शरान्बहून्। स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत्॥ 8-19-1 (55780) तमापतन्तं सहसा तव पुत्रं महारथम्। धर्मराजो द्रुतं विद्ध्वा तिष्ठतिष्ठेति चाब्रवीत्॥ 8-19-2 (55781) स तु तं प्रतिविव्याध नवभिर्निशितैः शरैः। सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत्॥ 8-19-3 (55782) ततो युधिष्ठिरो राजन्स्वर्णपुङ्खाञ्शिलीमुखान्। दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान्॥ 8-19-4 (55783) चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः। पञ्चमेन शिरः कायात्सारथेश्च समाक्षिपत्॥ 8-19-5 (55784) षष्ठेन तु ध्वजं राज्ञः सप्तमेन तु कार्मुकम्। अष्टमेन तथा खङ्गं पातयामास भूतले। पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम्॥ 8-19-6 (55785) हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव। उत्तमं व्यसनं प्राप्तो भूमावेवावतिष्ठत॥ 8-19-7 (55786) तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः। अभ्यवर्तन्त सहसा परीप्सन्तो नराधिपम्॥ 8-19-8 (55787) अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम्। अन्वयुः समरे राजंस्ततो युद्धमवर्तत॥ 8-19-9 (55788) ततस्तूर्यसहस्राणि प्रावाद्यन्त महामृधे॥ 8-19-10 (55789) क्ष्वेलाः किलकिलाशब्दाः प्रादुरासन्महीपते। यत्राभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह॥ 8-19-11 (55790) नरा नरैः समाजग्मुर्वारणा वरवारणैः। रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः॥ 8-19-12 (55791) द्वन्द्वान्यासन्महाराज प्रेक्षणीयानि संयुगे। विविधान्यप्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च॥ 8-19-13 (55792) ते शूराः समरे सर्वे चित्रं लघु च सुष्ठु च। अयुध्यन्त महावेगाः परस्परवधैषिणः॥ 8-19-14 (55793) अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः। न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन॥ 8-19-15 (55794) मुहूर्तमेव तद्युद्वमासीन्मधुरदर्शनम्। तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत॥ 8-19-16 (55795) रथी नागं समासाद्य दारयन्निशितैः शरैः। प्रेषयामास कालाय शरैः सन्नतपर्वभिः॥ 8-19-17 (55796) नागा हयान्समासाद्य विक्षिपन्तो बहून्रणे। दारयामासुरत्युग्रं तत्रतत्र तदातदा॥ 8-19-18 (55797) हयारोहाश्च बहवः परिवार्य हयोत्तमान्। तलशब्दरवांश्चक्रुः सम्पतन्तस्ततस्ततः॥ 8-19-19 (55798) धावमानांस्ततस्तांस्तु द्रवमाणान्महागजान्। पार्श्वतः पृष्ठतश्चैव निजघ्नुर्हयसादिनः॥ 8-19-20 (55799) विद्राव्य च बहूनश्वान्नागा राजन्मदोत्कटाः। विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम्॥ 8-19-21 (55800) साश्वारोहांश्च तुरगान्विषामैर्विव्यधू रुषा। अपरे चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तदा॥ 8-19-22 (55801) पादातैराहता नागा विवरेषु समन्ततः। चक्रुरार्तस्वरं घोरं दुद्रुवुश्च दिशो दश॥ 8-19-23 (55802) पदातीनां तु सहसा प्रद्रुतानां महाहवे। उत्सृज्याभरणं तूर्णमववव्रू रणाजिरे॥ 8-19-24 (55803) निमित्तं मन्यमानास्तु परिणाम्य महागजाः। जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च॥ 8-19-25 (55804) तांस्तु तत्र प्रसक्तान्वै परिन्वार्य पदातयः। हस्त्यारोहान्निजघ्नुस्ते महावेगा बलोत्कटाः॥ 8-19-26 (55805) अपरे हस्तिभिर्हस्तैः खं विक्षिप्ता महाहवे। निपतन्तो विषाणाग्रैर्भृशं विद्वाः सुशिक्षितैः॥ 8-19-27 (55806) अपरे सहसा गृह्य विषाणैरेव सूदिताः। सेनान्तरं समासाद्य केचित्तत्र महागजैः॥ 8-19-28 (55807) क्षुण्णगात्रा महाराज विक्षिप्य च पुनःपुनः। अपरे व्यजनानीव विभ्राम्य निहता मृधे॥ 8-19-29 (55808) पुरःसराश्च नागानामपरेषां विशाम्पते। शरीराण्यतिविद्वानि तत्रतत्र रणाजिरे॥ 8-19-30 (55809) प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे। निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः॥ 8-19-31 (55810) निगृह्य च गजाः केचित् पार्श्वस्थैर्भृशदारुणैः। रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि॥ 8-19-32 (55811) सहयाः सादिनस्तत्र तोमरेण महामृधे। भूमावमृद्रन्वेगेन सचर्माणं पदातिनम्॥ 8-19-33 (55812) चछा सावरणान्कांश्चित्तत्रतत्र विशाम्पते। रथान्नागाः समासाद्य परिगृह्य च मारिष। व्याक्षिपन्सहसा तत्र घोररूपे भयानके॥ 8-19-34 (55813) नाराचैर्निहताश्चापि गजाः पेतुर्महाबलाः। पर्वतस्येव शिखरं वज्ररुग्णं महीतले॥ 8-19-35 (55814) योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि। केशेष्वन्योन्यमाक्षिप्य चिक्षिपुर्बिभिदुश्च ह॥ 8-19-36 (55815) उद्यम्य च भुजानन्ये निक्षिप्य च महीतले। पदा चोरः समाक्रम्य स्फुरतोऽपाहरच्छिरः॥ 8-19-37 (55816) पततश्चापरो राजन्विजहारासिना शिरः। `मृतमन्यो महाराज पदा ताडितवांस्तदा'॥ 8-19-38 (55817) जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत्। मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत। तथा केशग्रहश्चोग्रो बाहुयुद्धं च भैरवम्॥ 8-19-39 (55818) समासक्तस्य चान्येन अविज्ञातस्तथाऽपरः। जहार समरे प्राणान्नानाशस्तैरनेकधा॥ 8-19-40 (55819) संसक्तेषु च योधेषु वर्तमाने च सङ्कुले। कबन्धान्युत्थितानि स्युः शतशोऽथ सहस्रशः॥ 8-19-41 (55820) शोणितैः सिच्यमानानि शस्त्राणि कवचानि च। महारागानुरक्तानि वस्त्राणीव चकाशिरे॥ 8-19-42 (55821) एवमेतन्महद्युद्वं दारुणं शस्त्रसङ्कुलम्। उन्मत्तगङ्गाप्रतिमं शब्देनापूरयज्जगत्॥ 8-19-43 (55822) नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः। योद्वव्यमिति युध्यन्ते राजानो जयगृद्विनः॥ 8-19-44 (55823) स्वान्स्वे जघ्नुर्महराज परांश्चैव समागतान्। उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत॥ 8-19-45 (55824) रथैर्भग्नैर्महाराज वारणैश्च निपातितैः। हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः॥ 8-19-46 (55825) अगम्यरूपा पृथिवी क्षणेन समपद्यत। क्षणेनासीन्महीपाल क्षतजौघप्रवर्तिनी॥ 8-19-47 (55826) पाञ्चालानहतत्कर्णस्त्रिगर्तांश्च धनञ्जयः। भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः॥ 8-19-48 (55827) एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः। अपराह्णे गते सूर्ये काङ्क्षतां विपुलं यशः॥ ॥ 8-19-49 (55828) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे एकोनविंशोऽध्यायः॥ 19 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-19-24 आभरणमववव्रुः अवगत्य वृतवन्तः॥ 8-19-25 निमित्तं जयहेतुम्। महान्ता गजा येषां ते महागजा गजारोहा जगृहुर्हस्तिभिर्ग्राहयामासुः। परिणाम्य हस्तिनमिति शेषः। बिभि दुश्च शत्रून्गजैरेव॥ 8-19-31 प्रतिमानेषु गजदन्तान्तरालेषु। प्रासैः कुम्भेषु तोमरैर्दन्तवेष्टेषु शक्तिमिश्च निगृहीताः। प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोरिति मेदिनी॥ 8-19-19 एकोनविंशोऽध्यायः॥
कर्णपर्व - अध्याय 020

॥ श्रीः ॥

8.20. अध्यायः 020

Mahabharata - Karna Parva - Chapter Topics

युधिष्ठिरेण दुर्योधनपराजयः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-20-0 (55829) धृतराष्ट्र उवाच। 8-20-0x (4868) अतितीव्राणि दुःखानि दुःसहानि बहूनि च। त्वत्तोऽहं सञ्जयाश्रौषं पुत्राणां चैव सङ्क्षयम्॥ 8-20-1 (55830) यथा त्वं मे कथयसे यथा युद्वमवर्तत। न सन्ति सूत कौरव्या इति मे निश्चिता मतिः॥ 8-20-2 (55831) दुर्योधनश्च विरथः कृतस्तत्र महारथः। धर्मपुत्रः कथं चक्रे तस्य वा नृपतिः कथम्॥ 8-20-3 (55832) अपराह्णे कथं युद्वमभवद्रोमहर्षणम्। तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय॥ 8-20-4 (55833) सञ्जय उवाच। 8-20-5x (4869) संसक्तेषु तु सैन्येषु वध्यमानेषु भागशः। रथमन्यं समास्थाय पुत्रस्तव विशाम्पते॥ 8-20-5 (55834) क्रोधेन महता युक्तः सविषो भुजगो यथा। दुर्योधनः समालक्ष्य धर्मराजं युधिष्ठिरम्। प्रोवाच सूतं त्वरितो याहियाहीति भारत॥ 8-20-6 (55835) तत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः। ध्रियमाणातप्रतेण राजा राजति दंशितः॥ 8-20-7 (55836) स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम्। युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे॥ 8-20-8 (55837) ततो युधिष्ठिरः क्रुद्वः प्रभिन्न इव कुञ्जरः। सारथिं चोदयामास याहि यत्र सुयोधनः॥ 8-20-9 (55838) तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ॥ 8-20-10 (55839) समेत्य च महावीरौ संरब्धौ युद्वदुर्मदौ। ववर्षतुर्महेष्वासौ शरैरन्योन्यमाहवे॥ 8-20-11 (55840) ततो दुर्योधनो राजा धर्मशीलस्य मारिष। शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे॥ 8-20-12 (55841) तं नामृष्यत सङ्क्रुद्धो ह्यवमानं युधिष्ठिरः। अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः॥ 8-20-13 (55842) अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे। दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च॥ 8-20-14 (55843) अथान्यद्वनुरादाय पुत्रस्ते भरतर्षभ। `युधिष्ठिरस्य चिक्षेप शरान्कनकभूषणान्। रुक्मपुङ्खान्प्रसन्नाग्रान्सविषानिव पन्नगान्'॥ 8-20-15 (55844) तावन्योन्यं सुसङ्क्रुद्धौ शस्त्रवर्षाण्यमुञ्चताम्। सिंहाविव सुसंरब्धौ परस्परजिगीषया॥ 8-20-16 (55845) जघ्नतुस्तौ रणेऽन्योन्यं नर्दमानौ वृषाविव। अन्तरं मार्गमाणौ च चेरतुस्तौ महारथौ॥ 8-20-17 (55846) ततः पूर्णायतोत्सृष्टैः शरैस्तौ तु कृतव्रणौ। विरेजतुर्महाराज किंशुकाविव पुष्पितौ॥ 8-20-18 (55847) ततो राजन्विमुञ्चन्तौ सिंहनादान्मुहुर्मुहुः। तलयोश्च तथा शब्दान्धनुषश्च महाहवे॥ 8-20-19 (55848) शङ्खशब्दवरांश्चैव चक्रतुस्तौ नरेश्वरौ। अन्योन्यं तौ महाराज पीडयांचक्रतुर्भृशम्॥ 8-20-20 (55849) ततो युधिष्ठिरो राजा पुत्रं तव शरैस्त्रिभिः। आजघानोरसि क्रुद्धो वज्रवेगैर्दुरासदैः॥ 8-20-21 (55850) प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिः। पञ्चभिर्निशितैर्बाणैः स्वर्णपुङ्खैः शिलाशितैः॥ 8-20-22 (55851) ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत। सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा॥ 8-20-23 (55852) तामापतन्तीं सहसा धर्मराजः शितैः शरैः। त्रिभिश्चिच्छेद सहसा तं च विव्याध पञ्चभिः॥ 8-20-24 (55853) निपपात ततः साऽथ स्वर्णदण्डा महास्वना। निपतन्ती महोल्केव व्यराजच्छिखिसन्निभा॥ 8-20-25 (55854) शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते। नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम्॥ 8-20-26 (55855) सोऽतिविद्वो बलवता शत्रुणआ शत्रुतापनः। दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः॥ 8-20-27 (55856) समाधत्त च तं बाणं धनुर्मध्ये महाबलः। चिक्षेप च महाराज ततः क्रुद्वः पराक्रमी॥ 8-20-28 (55857) स तु बाणः समासाद्य तव पुत्रं महारथम्। व्यामोहयत राजानं धरणीं च ददार ह॥ 8-20-29 (55858) ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः। विधित्सुः कलहस्यान्तं धर्मराजमुपाद्रवत्॥ 8-20-30 (55859) तमुद्यतगदं दृष्ट्वा दण्डहस्तमिवान्तकम्। धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे॥ 8-20-31 (55860) दीप्यमानां महावेगां महोल्कां ज्वलितामिव। यमदण्डनिभां घोरां कालरात्रिमिवापराम्॥ 8-20-32 (55861) रथस्थः स तया विद्वो वर्म भित्त्वा स्तनान्तरे। भृशं संविग्नहृदयः पपात च मुमोह च॥ 8-20-33 (55862) नभस्तमाह च ततः प्रतिज्ञामनुपालय। नायं वध्यस्तव नृप इत्युक्तः स न्यवर्तत॥ 8-20-34 (55863) ततस्त्वरितमागम्य कृतवर्मा तवात्मजम्। प्रत्यपद्यत राजानं निम्नं व्यसनार्णवे॥ 8-20-35 (55864) गदामादाय भीमोऽपि हेमपट्टपरिष्कृताम्। अभिदुद्राव वेगेन कृतवर्माणमाहवे॥ 8-20-36 (55865) एवं तदभवद्युद्धं त्वदीयानां परैः सह। अपराह्णे महाराज काङ्क्षतां विजयं युधि॥ ॥ 8-20-37 (55866) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे विंशोऽध्यायः॥ 20 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-20-1 अतितीव्राणि युद्धानीति क.ट.ड.पाठः॥ 8-20-3 तस्य तं च नृपतिर्दुर्योधनः कथमयुध्यत इति शेषः॥ 8-20-13 अपविध्य त्यक्त्वा॥ 8-20-23 सर्वपारशवीं सर्वपारशवीं सर्वविनाशिनीं गौरादिः। तिरस्कारे विनाशे च पुंसि पारशवः इति मेदिनी॥३ 8-20-25 दीपयन्ती महोल्काभा राजञ्शक्तिर्दिशो दश इति ड.पाठः॥ 8-20-34 भीमस्तमाह च ततः प्रतिज्ञामनुचिन्तयन् इति झ.पाठः॥ 8-20-20 विंशोऽध्यायः॥
कर्णपर्व - अध्याय 021

॥ श्रीः ॥

8.21. अध्यायः 021

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥ षोडशदिवसयुद्धोपसंहारः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-21-0 (55867) सञ्जय उवाच। 8-21-0x (4870) ततः कर्णं पुरस्कृत्य त्वदीया युद्वदुर्मदाः। पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम्॥ 8-21-1 (55868) द्विरदनररथाश्वशङ्खशब्दैः परिहृषिता विविधैश्च शस्त्रपातैः। द्विरदरथपदातिसादिसङ्घाः परिकुपिताभिमुखाः प्रजघ्निरे ते॥ 8-21-2 (55869) शितपरश्वथसासिपट्टसै-- रिषुभिरनेकविधैश्च सूदिताः। द्विरदरथहया महाहवे वरपुरुषैः पुरुषाश्च वाहनैः॥ 8-21-3 (55870) कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः। रुचिरमकुटकुण्डलैर्मही पुरुषशिरोभिरुपस्तृता बभौ॥ 8-21-4 (55871) परिघमुसलशक्तितौमरै-- र्नखरभुशुण्डिगदाशतैर्हताः। द्विरदनरहयाः सहस्रशो रुधिरनदीप्रवहास्तदाऽभवन्॥ 8-21-5 (55872) प्रहतरथनराश्वकुञ्जरं प्रतिभयदर्शनमुल्बणव्रणम्। तदहितहतमाबभौ बलं पितृपतिराष्ट्रमिव प्रजाक्षये॥ 8-21-6 (55873) अथ तव नरदेव सैनिका-- स्तव च सुताः सुरसूनुसन्निभाः। अमितबलपुरः सरा रणे कुरुवृषभाः शिनिपुत्रमभ्ययुः॥ 8-21-7 (55874) तदतिरुधिरभीममाबभौ पुरुषवराश्वरथद्विपाकुलम्। लवणजलसमुद्वतस्वनं बलमसुरामरसैन्यसप्रभम्॥ 8-21-8 (55875) सुरपतिसमविक्रमस्तत-- स्त्रिदशवरावरजोपमं युधि। दिनकरकिरणप्रभैः पृषत्कै रवितनयोऽभ्यहनच्छिनिप्रवीरम्॥ 8-21-9 (55876) तमपि सरथवाजिसारथिं शिनिवृषभो विविधैः शरैस्त्वरन्। भुजगविषसमप्रभै रणे पुरुषवरं समवास्तृणोत्तदा॥ 8-21-10 (55877) शिनिवृषभशरैर्निपीडितं तव सुहृदो वसुषेणमभ्ययुः। त्वरितमतिरथा रथर्षभं द्विरदरथाश्वपदातिभिः सह॥ 8-21-11 (55878) तदुदधिनिभमाद्रवद्बलं त्वरिततरैः समभिद्रुतं परैः। द्रुपदसुतमुखैस्तदाऽभवत् पुरुषरथाश्वगजक्षयो महान्॥ 8-21-12 (55879) अथ पुरुषवरौ कृताह्निकौ भवमभिपूज्य यथाविधि प्रभुम्। अरिवधकृतनिश्चयौ द्रुतं तव बलमर्जुनकेशवौ सृतौ॥ 8-21-13 (55880) जलदनिनदनिःस्वनं रथं पवनविधूतपताककेतनम्। सितहयमुपयान्तमन्तिकं कृतमनसो ददृशुस्तदाऽरयः॥ 8-21-14 (55881) अथ विष्फार्य गाण्डीवं रथे नृत्यन्निवार्जुनः। शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा॥ 8-21-15 (55882) रथान्विमानप्रतिमान्मज्जयन्सायुधध्वजान्। ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत्॥ 8-21-16 (55883) गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान्। सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम्॥ 8-21-17 (55884) तमन्तकमिव क्रुद्धमनिवार्यं महारथम्। दुर्योधनोऽभ्ययादेको निघ्नन्बाणैरजिह्मगैः॥ 8-21-18 (55885) तस्यार्जुनो धनुः सूतमश्वान्केतुं च सायकैः। हत्वा सप्तभिरेकेन च्छत्रं चिच्छेद पत्रिणा॥ 8-21-19 (55886) नवमं च समाधाय व्यसृजत्प्राणघातिनम्। दुर्योधनायेषुवरं तं द्रौणिः सप्तधाऽच्छिनत्॥ 8-21-20 (55887) ततो द्रौणेर्धनुश्छित्वा हत्वा चाश्वरथाञ्शरैः। कृपस्यापि तदत्युग्रं धनुश्चिच्छेद पाण्डवः॥ 8-21-21 (55888) हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वांस्तदाऽवधीत्। दुःशासनस्येष्वसनं छित्त्वा राधेयमभ्ययात्॥ 8-21-22 (55889) अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः। विद्व्वा विव्याध विंशत्या कृष्णं पार्थं पुनःपुनः॥ 8-21-23 (55890) न ग्लानिरासीत्कर्णस्य क्षिपतः सायकान्बहून्। रणे विनिघ्नतः शत्रून्क्रुद्धस्येव शतक्रतोः॥ 8-21-24 (55891) अथ सात्यकिरागत्य कर्णं विद्द्वा शितैः शरैः। नवत्या नवभिश्चोग्रैः शतेन पुनरार्पयत्॥ 8-21-25 (55892) ततः प्रवीराः पार्थानां सर्वे कर्णमपीडयन्। युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः॥ 8-21-26 (55893) उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च। चेदिकारूशमात्स्यानां केकयानां च यद्बलं॥ 8-21-27 (55894) चेकितानश्च बलवान्धर्मराजश्च सुव्रतः। एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः॥ 8-21-28 (55895) परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन्। भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे धृताः॥ 8-21-29 (55896) तां शस्त्रवृष्टिं बहुधा कर्णश्छित्त्वा शितैः शरैः। अपोवाहास्त्रवीर्येण द्रुमं भङ्क्त्वेव मारुतः॥ 8-21-30 (55897) रथिनः समहामात्रान्गजानश्वान्ससादिनः। पत्तिव्रातांश्च सङ्क्रुद्वो निघ्नन्कर्णो व्यदृश्यत॥ 8-21-31 (55898) तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा। विशस्त्रपत्रदेहासु प्राय आसीत्पराङ्मुखम्॥ 8-21-32 (55899) अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्मयन्। दिशं खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः॥ 8-21-33 (55900) मुसलानीव सम्पेतुः परिघा इव चेषवः। शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि चापरे॥ 8-21-34 (55901) तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम्। निमीलिताक्षमत्यर्थं बभ्राम च ननाद च॥ 8-21-35 (55902) निष्कैवल्यं तदा युद्वं प्रापुरश्वनरद्विपाः। हन्यमानाः शरैरार्तास्तदा भीताः प्रदुद्रुवुः॥ 8-21-36 (55903) त्वदीयानां तदा युद्वे संसक्तानां जयैषिणाम्। गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान्॥ 8-21-37 (55904) तमसा च महाराज रजसा च विशेषतः। न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाऽशुभम्॥ 8-21-38 (55905) ते त्रस्यन्तो महेष्वासा रात्रियुद्वस्य भारत। अपयानं ततश्चक्रुः सहिताः सर्वयोधिभिः॥ 8-21-39 (55906) कौरवेष्वपयातेषु तदा राजन्दिनक्षये। जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः॥ 8-21-40 (55907) वादित्रशब्दैर्विविधैः सिंहनादैः सगर्जितैः। परानुवहन्तश्च स्तुवन्तश्चाच्युतार्जुनौ॥ 8-21-41 (55908) कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते। आशीर्वाचः पाण्डवेषु प्रायुञ्जन्त नरेश्वराः॥ 8-21-42 (55909) ततः कृतेऽवहारे च प्रहृष्टास्तत्र पाण्डवाः। निशायां शिबिरं गत्वा न्यवसन्त नरेश्वराः॥ 8-21-43 (55910) ततो रक्षः पिशाचाश्च श्वापदाश्चैव सङ्घशः। जग्मुरायोधनं घोरं रुद्रस्याक्रीडसन्निभम्॥ ॥ 8-21-44 (55911) इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे एकविंशोऽध्यायः॥ 21 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-21-8 लवणजलः क्षारसमुद्रः॥ 8-21-9 त्रिदशवरावरजोपमं विष्णुतुल्यम्॥ 8-21-13 सृतावागतौ॥ 8-21-36 निष्कैवल्यं निश्चितं कैवल्यं मरणं यस्मिंस्तत्तथा॥ 8-21-37 प्रत्यपद्यत प्रविष्टः॥ 8-21-21 एकविंशोऽध्यायः॥
कर्णपर्व - अध्याय 022

॥ श्रीः ॥

8.22. अध्यायः 022

Mahabharata - Karna Parva - Chapter Topics

कृष्णतुल्यसारथेरभावात्स्वस्यार्जुनान्न्यूनतां मन्यमानेन कर्णेन दुर्योधनं प्रति शल्यस्य सारथ्ये नियोजनचोदना॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-22-0 (55912) धृतराष्ट्र उवाच। 8-22-0x (4871) स्वेन च्छन्देन नः सर्वानवधीद्व्यक्तमर्जुनः। न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः॥ 8-22-1 (55913) पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत्। एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान्॥ 8-22-2 (55914) एको निवातकवचनानहनद्दिव्यकार्मुकः। एकः किरातरूपेण स्थितं शर्वमयोधयत्॥ 8-22-3 (55915) एको ह्यरक्षद्भरतानेको भवमतोषयत्। तेनैकेन जिताः सर्वे मदीया ह्युग्रतेजसः॥ 8-22-4 (55916) न ते निन्द्याः प्रशस्यास्ते यत्ते चक्रुर्ब्रवीहि तत्। ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा॥ 8-22-5 (55917) सञ्जय उवाच। 8-22-6x (4872) हतप्रहतविध्वस्ता विवर्मायुधवाहनाः। दीनस्वरा दूयमाना मानिनः शत्रुनिर्जिताः॥ 8-22-6 (55918) शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः। भग्नदंष्ट्रा हतविषाः पादाक्रान्ता इवोरगाः॥ 8-22-7 (55919) तानब्रवीत्ततः कर्णः क्रुद्वः सर्प इव श्वसन्। करं करेण निष्पीड्य प्रेक्षमाणस्तवात्मजम्॥ 8-22-8 (55920) यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा। सम्बोधयति चाप्येनं यथाकालमधोक्षजः॥ 8-22-9 (55921) सहसाऽस्त्रविसर्गेण वयं तेनाद्य वञ्चिताः। श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते॥ 8-22-10 (55922) एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान्। तेऽनुज्ञाता नृपाः सर्वे स्वानि वेश्मानि भेजिरे॥ 8-22-11 (55923) सुखोषितास्तां रजनीं हृष्टा युद्वाय निर्ययुः। तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम्। प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात्॥ 8-22-12 (55924) अथ प्रतीपकर्तारं प्रवीरं परवीरहा। सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा॥ 8-22-13 (55925) पुरन्दरसमं युद्वे मरुद्गणसमं बले। कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः॥ 8-22-14 (55926) सर्वेषां चैव सैन्यानां कर्णमेवागमन्मनः। सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव॥ 8-22-15 (55927) धृतराष्ट्र उवाच। 8-22-16x (4873) ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा। यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं प्रति॥ 8-22-16 (55928) अप्यपश्यत राधेयं शीतार्ता इव भास्करम्। कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः॥ 8-22-17 (55929) `दुर्योधनं च तत्राजौ पाण्डवेन भृशार्दितम्। पराक्रान्तान्पाण्डुसुतान्दृष्ट्वाऽपि भृशार्दितम्'॥ 8-22-18 (55930) कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय। कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम्॥ 8-22-19 (55931) कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससृञ्जयान्। कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं युधि॥ 8-22-20 (55932) तस्य शस्त्राणि घोराणि विक्रमश्च महात्मनः। कर्णमाश्रित्य सङ्ग्रामे मत्तो दुर्योधनो नृपः॥ 8-22-21 (55933) दुर्योधनं ततो दृष्ट्वा पाण्डवेन भृशार्दितम्। पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महारथः॥ 8-22-22 (55934) कर्णमाश्रित्य सङ्ग्रामे मन्दो दुर्योधनः पुनः। जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान्॥ 8-22-23 (55935) `यः सौबलं तथा तात नीतिमानिति मन्यते। कर्णं चाग्रतिमं युद्वे देवैरपि दुरुत्सहम्॥ 8-22-24 (55936) मन्यतेऽभ्यधिकं पार्थादेवं चास्य हृदि स्थितम्। विजेष्यति रणे कर्ण एकः पर्थान्ससोमकान्। मम चैव सदा मन्दः शंसते नित्यमग्रतः'॥ 8-22-25 (55937) अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे। नातरद्रभसः कर्णो दैवं नूनं परायणम्॥ 8-22-26 (55938) अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते॥ 8-22-27 (55939) अहो तीव्राणि दुःखानि दुर्योधनकृतान्यहम्। सोढा घोराणि बहुशः शल्यभूतानि सञ्जय॥ 8-22-28 (55940) सौबलं च तदा तात नीतिमानिति मन्यते। कर्णश्च रभसो नित्यं राजा त चाप्यनुव्रतः॥ 8-22-29 (55941) यदेवं वर्तमानेषु महायुद्वेषु सञ्जय। अश्रौषं निहतान्पुत्रान्नित्यमेव विनिर्जितान्॥ 8-22-30 (55942) न पाण्डवानां समरे कश्चिदस्ति हतः किल। स्त्रीमध्यमिव गाहन्ते दैवं तु बलवत्तरम्॥ 8-22-31 (55943) सञ्जय उवाच। 8-22-32x (4874) [राजन्पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय]। 8-22-32 (55944) अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयते नरः। तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति॥ 8-22-33 (55945) तदिदं तव कार्यं तु दूरप्राप्तं विजानता। न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणम्॥ 8-22-34 (55946) उक्तोऽसि बहुधा राज्ञन्मा युध्यस्वेति पाण्डवैः। न च तत्त्वग्रहीर्द्वेषात्पाण्डवेषु विशाम्पते॥ 8-22-35 (55947) त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु। त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः॥ 8-22-36 (55948) तत्त्विदानीमतिक्रान्तं मा शुचो भरतर्षभ। शृणु सर्वं यथावृत्तं घोरं वैशसमुच्यते॥ 8-22-37 (55949) प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात्। समेत्य च महाबाहुर्दुर्योधनमथाब्रवीत्॥ 8-22-38 (55950) कर्ण उवाच। 8-22-39x (4875) अद्य राजन्समेष्यामि पाण्डवेन यशस्विना। निहनिष्यामि तं वीरं स वा मां निहनिष्यति॥ 8-22-39 (55951) बहुत्वान्मम कार्याणां तथा पार्थस्य भारत। नाभूत्समागमो राजन्मम चैवार्जुनस्य च॥ 8-22-40 (55952) इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशाम्पते। अनिहत्य रणे पार्थं नाहमेष्यामि भारत॥ 8-22-41 (55953) हतप्रवीरे सैन्येऽस्मिन्मयि चावस्थिते युधि। अभियास्यति मां पार्थः शक्रशक्तिविनाकृतम्॥ 8-22-42 (55954) ततः श्रेयस्करं यच्च तन्निबोध जनेश्वर। आयुधानां च मे वीर्यं दिव्यानामर्जुनस्य च॥ 8-22-43 (55955) कार्यस्य महतो भेदे लाघवे दूरपातने। सौष्ठवे चास्त्रपाते च सव्यसाची न मत्समः॥ 8-22-44 (55956) प्राणे शौर्येऽथ विज्ञाने विक्रमे चापि भारत। निमित्तज्ञानयोगे च सव्यसाची न मत्समः॥ 8-22-45 (55957) सर्वायुधमहामात्रं विजयं नाम तद्वनुः। इन्द्रार्थं प्रियकामेन निर्मितं विश्वकर्मणा॥ 8-22-46 (55958) येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः। यस्य घोषेण दैत्यानां व्यामुह्यन्त दिशो दश॥ 8-22-47 (55959) तद्भार्गवाय प्रायच्छच्छक्रः परमसम्मतम्। तद्दिव्यं भार्गवो मह्यमददद्वनुरत्तमम्॥ 8-22-48 (55960) तेन योत्स्ये महाबाहुमर्जुनं जयतां वरम्। यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान्। `निजघान तथा सर्वाञ्जेष्यामि युधि पाण्डवान्'॥ 8-22-49 (55961) धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते। त्रिस्सप्तकृत्वः पृथिवी धनुषा येन निर्जिता॥ 8-22-50 (55962) धनुषो ह्यस्य कर्माणि दिव्यानि प्राह भार्गवः। तद्रामो ह्यददन्मह्यं तेन योत्स्यामि पाण्डवम्॥ 8-22-51 (55963) अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम्। निहत्य समरे वीरमर्जुनं जयतां वरम्॥ 8-22-52 (55964) सपर्वतवनद्वीपा हतवीरा ससागरा। पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव॥ 8-22-53 (55965) नाशक्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः। सम्यग्धर्मानुरक्तस्य सिद्विरात्मवतो यथा॥ 8-22-54 (55966) न हि मे विक्रमं सोढुं स शक्तोऽग्निं तरुर्यथा। अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात्॥ 8-22-55 (55967) ज्या तस्य धनुषो दिव्या तथाऽक्षय्ये महेषुधी। सारथिस्तस्य गोविन्दो मम तादृङ्ग विद्यते॥ 8-22-56 (55968) तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजितं युधि। विजयं च महद्दिव्यं ममापि धनुरुत्तमम्॥ 8-22-57 (55969) तत्राहमधिकः पार्थाद्वनुषा तेन पार्थिव। येन चाप्यधिको वीरः पाण्डवस्तन्निबोध मे॥ 8-22-58 (55970) रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः। अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः॥ 8-22-59 (55971) अच्छेद्याः सर्वतो वीर वाजिनश्च मनोजवाः। ध्वजश्च दिव्यो द्युतिमान्वानरोपि भयङ्करः॥ 8-22-60 (55972) कृष्णश्च जगतः स्रष्टा रथं तमभिरक्षति। एभिस्त्रिभिरहं हीनो युद्वुमिच्छामि पाण्डवम्॥ 8-22-61 (55973) अयं तु सदृशः शौरेः शल्यः समितिशोभनः। सारथ्यं यदि मे कुर्याद्द्रुवस्ते विजयो भवेत्॥ 8-22-62 (55974) तस्य मे सारथिः शल्यो भवत्वसुकरः परैः। नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे॥ 8-22-63 (55975) रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः। आयान्तु पश्चात्सततं मामेव भरतर्षभ॥ 8-22-64 (55976) एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम्। शल्योप्यभ्यधिकः कृष्णादर्जुनादपिचाप्यहम्॥ 8-22-65 (55977) यथाऽश्वहृदयं वेद दाशार्हः परवीरहा। तथा शल्यो विजानीते हयज्ञानं महारथः॥ 8-22-66 (55978) बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन। तथाऽस्त्रे मत्समो नास्ति कश्चिदेव धनुर्धरः॥ 8-22-67 (55979) तथा शल्यसमो नास्ति हयज्ञाने हि कश्चन। सोऽयमभ्यधिकः कृष्णाद्भविष्यति रथो मम॥ 8-22-68 (55980) एवं कृते रथस्थोऽहं गुणैरभ्यधिकोऽर्जुनात्। विजयेयमहं सङ्ख्ये फल्गुनं कुरुसत्तम॥ 8-22-69 (55981) समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः। एतत्कृतं महाराज त्वयेच्छामि परन्तप॥ 8-22-70 (55982) क्रियतामेष कामो मे मा वः कालोऽत्यगादयम्। एवं कृते कृतं मह्यं त्वया सर्वं भविष्यति॥ 8-22-71 (55983) ततो द्रक्ष्यसि सङ्ग्रामे यत्करिष्यामि भारत। सर्वथा पाण्डवान्सङ्ख्ये विजेष्ये वै समागतान्॥ 8-22-72 (55984) न हि मे समरे शक्ताः समुद्यातुं सुरासुराः। किमु पाण्डुसुता राजन्रणे मानुषयोनयः॥ 8-22-73 (55985) सञ्जय उवाच। 8-22-74x (4876) एवमुक्तस्तव सुतः कर्णेनाहवशोभिना। सम्पूज्य सम्प्रहृष्टात्मा ततो राधेयमब्रवीत्॥ 8-22-74 (55986) दुर्योधन उवाच। 8-22-75x (4877) एवमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे। सोपासङ्गा रथाः साश्वाः स्वनुयास्यन्ति संयुगे॥ 8-22-75 (55987) नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु ते। अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः॥ 8-22-76 (55988) सञ्जय उवाच। 8-22-77x (4878) एवमुक्त्वा महाराज तव पुत्रः प्रतापवान्। अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः॥ ॥ 8-22-77 (55989) इति श्रीमन्महाभारते कर्णपर्वणि द्वाविंशोऽध्यायः॥ 22 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-22-1 स्वेन च्छन्देन इच्छया। आततायिनः शस्त्रपाणेः॥ 8-22-2 भद्रां सुभद्राम्। बलिभृतः करदान्॥ 8-22-4 अरक्षत घोषयात्रायाम्। भरतान्दुर्योधनादीन्॥ 8-22-6 हतास्ताडिताः। प्रहताश्छिन्नावयवाः। विध्वस्ताः वाहनेभ्योऽधः पातिताः॥ 8-22-10 सहसा अकस्मात् सहस्राक्षनिसृष्ट्या च शक्त्या तेन स्म वञ्चिताः इति ख. पाठः। सहस्राक्षनिसर्गेय शक्त्या तेन स्म वञ्चिताः इति ट.पाठः॥ 8-22-12 वृहस्पत्युशनोमते इति झ.पाठः तत्र स्थितेनेति शेषः॥ 8-22-13 प्रतीपकर्तारं शत्रूणां छेत्तारम्। प्रवीरं प्रकृष्टं वीरम्॥ 8-22-15 आल्ययिकेषु प्राणसङ्कटेषु॥ 8-22-17 अप्यपश्यत। अपिः प्रश्ने॥ 8-22-27 निष्ठा विपाकः॥ 8-22-29 कर्णश्च नीतिमानिति मन्यत इति पूर्वेणान्वयः॥ 8-22-31 स्त्रीमध्यमिव गाहन्ते निर्भयाः सेनां मृद्रन्तीत्यर्थः॥ 8-22-32 निमितानि द्यूतादीनि धर्मिष्ठानीतिविपरीतलक्षणा। अधर्मिष्ठानीत्यर्थः॥ 8-22-34 प्राप्ताप्राप्तविचरणं युक्तायुक्तपरीक्षणं न कृतमित्यन्वयः॥ 8-22-43 जीवानामर्जुनस्य चेति ख.ड.पाठः॥ 8-22-44 कार्यस्य कर्तव्यस्य परकीयस्य भेदे विनाशे। लाघवे शैघ्र्ये। सौष्ठवे कौशले॥ 8-22-45 प्राणे शारीरबले। शौर्ये मानसबले विज्ञाने अस्त्रशिक्षायाम्। विक्रमे फलोपधानेऽस्त्राणाम्। निमित्तज्ञानयोगे लक्षसम्बन्धावधारणे। प्राणस्थैर्ये च वीर्ये च इति क.ख.ङ.पाठः॥ 8-22-46 महामात्रं श्रेष्ठम्॥ 8-22-54 सिद्विर्मोक्षः। आत्मवतो जितचित्तस्य॥ 8-22-55 न भीमो विक्रमं सोढुं इति क.ङ.पाठः॥ 8-22-22 द्वाविंशोऽध्यायः॥
कर्णपर्व - अध्याय 023

॥ श्रीः ॥

8.23. अध्यायः 023

Mahabharata - Karna Parva - Chapter Topics

दुर्योधनप्रार्थनया शल्येन कृच्छ्रात्कर्णरथसारथ्यकरणाक्ष्युपगमः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-23-0 (55990) सञ्जय उवाच। 8-23-0x (4879) एवमुक्तो महाराज तव पुत्रः प्रतापवान्। मद्रेश्वरं प्रति रणे सुरसैन्यभयङ्करम्। सर्वं तथाऽकरोत्तूर्णं राधेयस्तद्यथाऽब्रवीत्॥ 8-23-1 (55991) मद्राजं च समरे प्रणम्य च महारथम्। विनयेनोपसङ्गम्य प्रणयाद्वाक्यमब्रवीत्॥ 8-23-2 (55992) सत्यव्रत महाभाग द्विषतां तापवर्धन। मद्रेश्वर रणेशूर परसैन्यभयङ्कर॥ 8-23-3 (55993) `मत्प्रियार्थं हितार्थं च तथा पार्थवधाय च'। श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर। यथा नृपतिसिंहानां मध्ये त्वां वरये स्वयम्॥ 8-23-4 (55994) तत्त्वामप्रतिवीर्याद्य शत्रुपक्षक्षयावह। मद्रेश्वर प्रयाचेऽहं शिरसा विनयेन च॥ 8-23-5 (55995) तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि। त्वं पाहि सर्वतः कर्णं भवं ब्रह्मेव सुव्रत॥ 8-23-6 (55996) सारथ्यं रथिनां श्रेष्ठ प्रणयात्कर्तुमर्हसि। त्वयि यन्तरि राधेयो विद्विषो मे विजेष्यते॥ 8-23-7 (55997) अभीषूणां हि कर्णस्य ग्रहीतान्यो न विद्यते। ऋते हि त्वां महाभाग वासुदेवसमं युधि॥ 8-23-8 (55998) स पाहि सर्वथा कर्णं यथा ब्रह्मा महेश्वरम्। यथा च सर्वथाऽऽपत्सु वार्ष्णेयः पाति पाण्डवम्। तथा मद्रेश्वराद्य त्वं राधेयं प्रतिपालय॥ 8-23-9 (55999) भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान्। शकुनिः सौबलो द्रौणिरहमेव च नो बलम्॥ 8-23-10 (56000) एवमेष कृतो भागो नवधा पृथिवीपते। न च भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः॥ 8-23-11 (56001) ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः। वृद्वौ हि तौ महेष्वासौ छलेन निहतौ युधि॥ 8-23-12 (56002) कृत्वा चासुकरं कर्म गतौ स्वर्गमितोऽनघ। तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि॥ 8-23-13 (56003) अस्मदीयाश्च बहवः स्वर्गाय गमिताः परैः। त्यक्त्वा प्राणानय्थाशक्ति चेष्टां कृत्वा च पुष्कलाम्। 8-23-14 (56004) तदिदं हतभूयिष्ठं बलं मम नराधिप। पूर्वमप्यल्पकैः पार्थैर्हतं किमुत साम्प्रतम्॥ 8-23-15 (56005) बलवन्तो महात्मानः कौन्तेयाः सत्यविक्रमाः। बलं शेषं न हन्युर्मे यथा तत्कुरु पार्थिव॥ 8-23-16 (56006) हतवीरमिदं सैन्यं पाण्डवैः समरे विभो। कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः॥ 8-23-17 (56007) भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः। शल्य कर्णोऽर्जुनेनाद्य योद्वुमिच्छति संयुगे॥ 8-23-18 (56008) तस्मिञ्जयाशा विपुला मद्रराज नराधिप। तस्याभीषुग्रहवरो नान्योऽस्ति भुवि कश्चन॥ 8-23-19 (56009) पार्थस्य समरे कृष्णो यथाऽभीषुग्रहो वरः। तथा त्वमपि कर्णस्य रथेऽभीषुग्रहो भव॥ 8-23-20 (56010) तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव। यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव तत्॥ 8-23-21 (56011) पूर्वं नः समरे ह्येवमधीदर्जुनो रिपून्। इदानीं विक्रमो ह्यस्य कृष्णेन सहितस्य च॥ 8-23-22 (56012) कृष्णेन सहितः पार्थो धार्तराष्ट्रीं महाचमूम्। अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि॥ 8-23-23 (56013) भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते। तं भागं सह कर्णेन युगपन्नाशयाद्य हि॥ 8-23-24 (56014) अरुणेन यथा सार्धं तमः सूर्यो व्यपोहति। तथा कर्णेन सहितो जहि पार्थं महाहवे॥ 8-23-25 (56015) उद्यन्तौ च यथा सूर्यौ बालसूर्यसमप्रभौ। कर्णशल्यौ रणे दृष्ट्वा विद्रवन्तु महारथाः॥ 8-23-26 (56016) सूर्यारुषौ यथा दृष्ट्वा तमो नश्यति मारिष। तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः॥ 8-23-27 (56017) रथिनां प्रवरः कर्णो यन्तॄणां प्रवरो भवान्। संयोगो युवयोर्लोके नाभून्न च भविष्यति॥ 8-23-28 (56018) यथा सर्वास्ववस्थासु वार्ष्मेयः पाति पाण्डवम्। तथा भवान्परित्रातु कर्णं वैकर्तनं रणे। `सारथ्यं क्रियतां तस्य युध्यमानस्य संयुगे॥ 8-23-29 (56019) यथा च समरे कृष्णो रक्षते सर्वतोऽर्जुनम्। तथा त्वमपि राधेयं रक्षस्व च महारणे'॥ 8-23-30 (56020) त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति। देवतानामपि रणे सशक्राणां महीपते। किं पुनः पाण्डवेयानां मा विशङ्कीर्वचो मम॥ 8-23-31 (56021) सञ्जय उवाच। 8-23-32x (4880) दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः। `धार्तराष्ट्रमथोवाच सृक्विणी परिलेलिहन्'॥ 8-23-32 (56022) त्रिशिखां भ्रुकुटिं कृत्वा धुन्वन्हस्तौ पुनःपुनः। क्रोधरक्ते महानेत्रे परिवृत्य महाभुजः। कुलैश्वर्यश्रुतबलैर्दृप्तः शल्योऽब्रवीदिदम्॥ 8-23-33 (56023) शल्य उवाच। 8-23-34x (4881) न मामर्हसि राजेद्र नियोक्तुं कर्मणीदृशे। न हि पापीयसः श्रेयान्प्रेष्यत्वं कर्तुमर्हति॥ 8-23-34 (56024) यो ह्यभ्युपगतं मित्रं गरीयांसं विशेषतः। वशे पापीयसो धत्ते तत्कार्यमधरोत्तरम्॥ 8-23-35 (56025) ब्रह्मणा ब्राह्मणाः सृष्टा मुखात्क्षत्रं च बाहुतः। ऊरुभ्यामथ वैश्या वै शूद्राः पद्भ्यामिति श्रुतिः॥ 8-23-36 (56026) तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः। अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत॥ 8-23-37 (56027) गोप्तारः सङ्गृहीतारो दातारः क्षत्रियाः स्मृताः॥ 8-23-38 (56028) याजनाध्यापनैर्विप्रा विशुद्वैश्च प्रतिग्रहैः। लोकस्यानुग्रहार्थाय स्थापिता ब्राह्मणा भुवि॥ 8-23-39 (56029) कृषिश्च पाशुपाल्यं च विशां दानं च धर्मतः। ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः॥ 8-23-40 (56030) ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः। न क्षत्रियो वै सूतानां शृणुयाच्च कथञ्चन॥ 8-23-41 (56031) अहं मूर्धाभिषिक्तो हि राजर्षिकुलजो नृपः। महारथसमाख्यातः सेव्यः स्तुत्यश्च वन्दिनां॥ 8-23-42 (56032) सोऽमहेतादृशो भूत्वा नेहारिबलसूदनः। सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे॥ 8-23-43 (56033) अवमन्यसे मां गान्धारे ध्रुवं चाप्यतिशङ्कसे। यस्माद्ब्रवीषि विस्रब्धः सारथ्यं क्रियतामिति॥ 8-23-44 (56034) अस्मत्तोऽभ्यधिकं कर्णं मन्वानस्तं प्रशंससि। न चाहं युधि राधेयं गणये तुल्यमात्मनः॥ 8-23-45 (56035) आदिश्यतामभ्यधिको ममांशः पृथिवीपते। तमहं समरे हत्वा गमिष्यामि यथागतम्॥ 8-23-46 (56036) अथवाप्येक एवाहं योत्स्यामि तव शत्रुभिः। पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून्॥ 8-23-47 (56037) न चापि कामान्कौरव्य निधाय हृदये पुमान्। अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः॥ 8-23-48 (56038) अपि चाप्यवमानो मे न कर्तव्यः कथञ्चन। पश्य भीमौ मम भुजौ वज्रसंहननौ दृढौ॥ 8-23-49 (56039) धनुः पश्य च मे चित्रं शरांश्चाशीविषपमान्। रथं च पश्य मे चित्रं सदश्वैर्वातवेगिभिः॥ 8-23-50 (56040) गदां च पश्य गान्धारे हेमपट्टविभूषिताम्। दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान्। शोषयेयं समुद्रांश्च पातयेयं च भास्करम्॥ 8-23-51 (56041) तं मामेवंविधं राजन्समर्थमरिनिग्रहे। कस्माद्युनङ्क्षि सारथ्ये सूतस्याधिरथेस्तु माम्॥ 8-23-52 (56042) न चापि मम राधेयः कलामर्हति षोडशीम्॥ 8-23-53 (56043) सकर्णा ये त्रयो लोकाः सार्जुनाः सजनार्दनाः। निबद्वांस्तन्त्रणे राजन्न गणेयं कथञ्चन॥ 8-23-54 (56044) न चाहं प्राकृतः कश्चिन्न चास्म्यधिगतः स्वयम्। अयं चाप्यवमानो मे न कर्तव्यः कथञ्चन॥ 8-23-55 (56045) आपृच्छे त्वाद्य गान्धारे यास्यामि विषयं प्रति। न चाहं सूतपुत्रस्य सारथ्यमुपजग्मिवान्॥ 8-23-56 (56046) अवमानमहं प्राप्य न योत्स्यामि कथञ्चन। आपृच्छे त्वाऽद्य गान्धारे गमिष्यामि गृहाय वै॥ 8-23-57 (56047) सञ्जय उवाच। 8-23-58x (4882) एवमुक्त्वा महाराज शल्यः समितिशोभनः। उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः॥ 8-23-58 (56048) प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव। अब्रवीन्मधुरं वाक्यं साम्ना सर्वार्थसाधकम्॥ 8-23-59 (56049) यथा शल्य त्वमात्थेदमेवमेतदसंशयम्। अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर॥ 8-23-60 (56050) न कर्णोऽभ्यधिकस्त्वत्तो न चान्ये चैव पार्थिवाः। न च मद्रेश्वर त्वां वै कृष्णः सोढुं च शक्ष्यति॥ 8-23-61 (56051) ऋतमेव हि पूर्वास्ते वदन्ति पुरुषोत्तमाः। तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम॥ 8-23-62 (56052) शल्यबूतस्तु शत्रूणां यस्मात्त्वं युधि मानद। तस्माच्छल्येति ते नाम कथ्यते पृथिवीतले॥ 8-23-63 (56053) यदेतद्व्याहृतं पूर्वं भवता भूरिदक्षिण। तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यते॥ 8-23-64 (56054) न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान्। वृणेऽहं त्वां हयाग्र्याणां यन्तारमिह संयुगे॥ 8-23-65 (56055) मन्ये चाभ्यधिकं शल्य गुणैः कर्णं धनञ्जयात्। भवन्तं वासुदेवाच्च लोकोऽयमतिमन्यते॥ 8-23-66 (56056) कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ। भवानभ्यधिकः कृष्णादश्वज्ञाने बले तथा॥ 8-23-67 (56057) यथाऽश्वहृदयं वेद वासुदेवो महामनाः। द्विगुणं त्वं तथा वेत्सि मद्रराजेश्वरात्मज॥ 8-23-68 (56058) शल्य उवाच। 8-23-69x (4883) यन्मां ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव। विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि॥ 8-23-69 (56059) एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः। युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे॥ 8-23-70 (56060) समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति। उत्सृजेयं यथाश्रद्वमहं वाचोऽस्य सन्निधौ॥ 8-23-71 (56061) सञ्जय उवाच। 8-23-72x (4884) तथेति राजन्पुत्रस्ते सह कर्णेन भारत। 8-23-72 (56062) अब्रवीन्मद्रराजस्य मतं भरतसxxxx॥ ॥ 8-23-72 (56063) इति श्रीमन्महाभारते कर्णपर्वणि त्रयोविंशोऽध्यायः॥ 23 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-23-8 अभीषूणां हयरश्मीनाम्॥ 8-23-22 पुनर्नः समरे राजन्मावधीदर्जुनो रिपून्। इति क.पाठः॥ 8-23-29 त्रातु त्रायताम्॥ 8-23-34 पापीयसः नीचयोनेः प्रेष्यत्वं दासत्वम्॥ 8-23-41 न विट्शूद्रस्य संयोगं शृणु चान्यं ममानघ इति क.ख.पाठः॥ 8-23-62 ऋतमेव अयनं आश्रयो येषां ते ऋतायनास्तेषां गोत्रापत्यमार्तायनिस्त्वम्॥ 8-23-71 वाच उत्सृजेयं ताः अनेन क्षन्तव्या इति भावः॥ 8-23-23 त्रयोविंशोऽध्यायः॥
कर्णपर्व - अध्याय 024

॥ श्रीः ॥

8.24. अध्यायः 024

Mahabharata - Karna Parva - Chapter Topics

दुर्योधनेन शल्यम्प्रति त्रिपुरासुरकथाकथनारम्भः॥ 1 ॥ त्रिपुरासुरोपद्रुतैर्देवैः स्तुल्या रुद्रप्रसादनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-24-0 (56064) दुर्योधन उवाच। 8-24-0x (4885) भूय एव तु मद्रेश यत्त्वा वक्ष्यामि तच्छृणु। यथा पुरावृत्तमिदं युद्धे देवासुरे प्रभो॥ 8-24-1 (56065) यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महातपाः। ब्रुवतस्तदशेषेण मम राजर्षिसत्तम। निबोध मनसा चात्र न ते कार्या विचारणा॥ 8-24-2 (56066) `समुत्पन्नो हि राजानः प्रमोह इति निश्चयम्। कृत्वा चैव व्यवस्यन्ति सर्वे धर्मार्थनिश्चयान्॥ 8-24-3 (56067) देवानामसुराणां च महानासीत्समुच्छ्रयः। सैंहिकेयास्तदोद्वृत्ता विबुधानवसूदयन्। ते निरस्तः कृता देवैर्दानवा बलगर्विताः'॥ 8-24-4 (56068) तत्रासीत्प्रथमो राजन्सङ्ग्रामस्तारकामयः। निर्जिताश्च ततो दैत्या दैवतैरिति नः श्रुतिः॥ 8-24-5 (56069) भग्नदर्पा निरुत्साहाः पातालं विविशुस्तदा॥ 8-24-6 (56070) निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः। ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव॥ 8-24-7 (56071) तप उग्रं समास्थाय नियमे परमे स्थिताः। तपसा कर्णयामासुर्देहांस्ताञ्शत्रुकर्शनाः॥ 8-24-8 (56072) दमेन तपसा चैव नियमेन समाधिना। तेषां पितामहः प्रीतो वरदः प्रददौ वरम्॥ 8-24-9 (56073) अवध्यत्वं च ते सर्वे सर्वभूतेषु सर्वदा। सहिता वरयामासः सर्वलोकपितामहम्॥ 8-24-10 (56074) तानब्रवीत्तदा देवः सर्वलोकगुरुः प्रभुः। नास्ति सर्वामरत्वं वै निवर्तध्वमितोऽसुराः। अन्यं वरं वृणीध्वं वै रोचते यादृशो हि वः॥ 8-24-11 (56075) ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहुः। सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाऽब्रुवन्॥ 8-24-12 (56076) वस्तुमिच्छाम नगरं कर्तुं कामगमं शुभम्। सर्वकामसमृद्वार्थमवध्यं देवदानवैः॥ 8-24-13 (56077) यक्षरक्षोरगगणैर्नानाजातिभिरेव च। न कृत्याभिर्न शस्त्रैश्च न शापैर्ब्रह्मवादिनाम्। वध्येत त्रिपुरं देव प्रयच्छेः प्रपितामह॥ 8-24-14 (56078) वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्। विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः॥ 8-24-15 (56079) ततो वर्षसहस्रेषु समेष्यामः परस्परम्। एकीभावं गभिष्यन्ति पुराण्येतानि चानघ॥ 8-24-16 (56080) समागतानि चैतानि यो हन्याद्भगवांस्तदा। एकेषुणा देववरः स नो मृत्युर्भविष्यति॥ 8-24-17 (56081) दुर्योधन उवाच। 8-24-18x (4886) तेषां तद्वचनं श्रुत्वा दानवानां पितामहः। एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम्॥ 8-24-18 (56082) ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम्। पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महारथाः। विश्वकार्माणमजरं दैत्यदानवपूजितम्॥ 8-24-19 (56083) ततो मयः स्वतपसा चक्रे धीमान्पुराणि च। त्रीणि काञ्चनमेकं वै रौप्यं कार्ष्णायसं तथा॥ 8-24-20 (56084) काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम्। आयसं चाभवद्भौमं तदा तेषां परन्तप॥ 8-24-21 (56085) एकैकं योजनशतं विस्तृतं तावदायतम्। दृढं चाट्टालकयुतं बृहत्प्राकारतोरणम्॥ 8-24-22 (56086) गृहप्रवरसम्बाधमसम्बाधमहापथम्। प्रासादैर्विविधैश्चापि द्वारैश्चैवोपशोभितम्॥ 8-24-23 (56087) त्रिपुरं तेषु चाप्यासन्राजानो वै पृथक्पृथक्। दिव्यमाल्याम्बरधरा दैतेया राजसत्तम॥ 8-24-24 (56088) काञ्चनं तारकाक्षस्य दिव्यमासीन्महात्मनः। राजतं कमलाक्षस्य विद्युन्मालिन आयसम्॥ 8-24-25 (56089) त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा। आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः॥ 8-24-26 (56090) तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च। कोट्याश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः॥ 8-24-27 (56091) मांसाशिनः सुदृप्ताश्च सुरैर्विनिकृताः पुरा। महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः॥ 8-24-28 (56092) सर्वेषां च पुनश्चैषां सर्वयोगवहो मयः। तमाश्रित्य हि ते सर्वेऽवर्तयन्नकुतोभयाः॥ 8-24-29 (56093) यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः। तस्मै तस्मै मयस्तं तं विदधे मायया तदा॥ 8-24-30 (56094) तारकाक्षसुतश्चासीद्वरिर्नाम महाबलः। तपस्तेपे परमकं येनातुष्यत्पितामहः॥ 8-24-31 (56095) सन्तुष्टमवृणोद्देवं वापी भवतुः नः पुरे। शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः॥ 8-24-32 (56096) स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः। ससृजे तत्र वापीं तां मृतसञ्जीविनीं प्रभो॥ 8-24-33 (56097) येन रूपेण यो दैत्यो येन वेषेण चाप्यथ। क्षिप्यते निहतो वाप्यां तादृशेनैव जायते। सम्पूर्णबलवीर्यस्तु राजञ्छौर्यसमन्वितः॥ 8-24-34 (56098) एवं वीर्येण संयुक्तां कृतां तेन महात्मना। तां प्राप्य त्रैपुरा वापीं लोकान्सर्वान्बबाधिरे॥ 8-24-35 (56099) महता तपसा सिद्धाः सुराणां भयवर्धनाः। एकस्मिन्निहते दैत्ये सृजन्ति स्म दशासुरान्। न तेषां विद्यते युद्वे क्षयो राजन्कथञ्चन॥ 8-24-36 (56100) ततस्ते लोभमोहाभ्यामभिभूता विचेतसः। निर्भीकाः सहिताः सर्वे स्थापिताः समलोलुपाः॥ 8-24-37 (56101) विद्राव्य सगणान्देवांस्तत्रतत्र तदातदा। विचेरुः स्वेन कामेन वरदानेन दर्पिताः॥ 8-24-38 (56102) देवोद्यानानि सर्वाणि स्थानानि च दिवौकसाम्। ऋषीणामाश्रमान्पुण्यान्रम्याञ्चनपदांस्तथा। उत्सादयन्त मर्यादां दानवा दुष्टचारिणः॥ 8-24-39 (56103) निःस्थानाश्च कृता देवा ऋषयः पितृभिः सह। दैत्यैस्त्रिभिस्त्रयो लोका ह्याक्रान्तास्तैः सुरेतरैः॥ 8-24-40 (56104) पीड्यमानेषु लोकेषु ततः शक्रो मरुद्वृतः। पुराण्यायोधयाञ्चक्रे वज्रहस्तः समन्ततः॥ 8-24-41 (56105) नाशकत्तान्यभेद्यानि यदा भेत्तुं पुरन्दरः। पुराणि वरदत्तानि धात्रा तेन नराधिप॥ 8-24-42 (56106) तदा भीतः सुरपतिर्मुक्त्वा तानि पुराण्यथ। तैरेव विबुधैः सार्धं पितामहमरिन्दम। जगामाथ तदाख्यातुं विप्रकारं सुरेतरैः॥ 8-24-43 (56107) ते तत्त्वं सर्वमाख्याय शिरोभिः सम्प्रणम्य च। तद्वधोपायमाचक्ष्व भगवन्निति चाब्रुवन्॥ 8-24-44 (56108) श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह। श्रूयतां त्रिदशाः सर्वे यथेदं वाक्यगौरवम्॥ 8-24-45 (56109) दुरात्मानोऽसुरा नित्यं ते चापि विबुधा मम। न शक्नुवन्ति ते (ये) सर्वे युष्मान्वै पीडयन्ति ते॥ 8-24-46 (56110) अहं समस्तु सर्वेषां भूतानां नात्र संशयः। अविनीता निहन्तव्या इत्येवं प्रब्रवीमि वः॥ 8-24-47 (56111) एकेषुणा (हि) विभेद्यानि तानि दुर्गाणि नान्यथा। शक्तस्तु तानि बाणेन भेत्तुं कामं त्रिलोचनः॥ 8-24-48 (56112) ते यूयं स्थाणुमीशानं जिष्मुमक्लिष्टकारिणम्। योद्वारं वृणुत क्षिप्रं स तान्हन्ता सुरेतरान्॥ 8-24-49 (56113) ते देवास्तेन वाक्येन चोदिताः प्रणताः स्थिताः। दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः। शुभात्मानो महात्मानो जग्मुर्वै वृषभध्वजम्॥ 8-24-50 (56114) ब्रह्माणमग्रतः कृत्वा शरण्यं शरणागताः। तपः परममाजग्मुर्गृणन्तो ब्रह्म शाश्वतम्॥ 8-24-51 (56115) अनङ्गमथनं सर्वे भवं सर्वात्मना गताः। देवदेवं परं स्थाणुं वरदं त्र्यम्बकं शिवम्॥ 8-24-52 (56116) शर्वमीड्यमजं रुद्रं शशाङ्काङ्कितमूर्धजम्। तुष्टुवुर्वाग्भिरुग्राभिर्भयेष्वभयमच्युतम्। सर्वात्मानं महात्मानं येनाप्तं विश्वमात्मना॥ 8-24-53 (56117) तपोविशेषैर्विविधैर्योगं यो वेद चात्मनः। यः साङ्ख्यमात्मना वेत्ति यस्य चात्मा वेशे सदा॥ 8-24-54 (56118) तं ते ददृशुरीशानं तेजोराशिमुमापतिम्। `परेण यत्नेन भवं त्रिदशाः शर्वमीश्वरम्'। अनन्यसदृशं लोके प्रतपन्तमकल्मषम्॥ 8-24-55 (56119) एकश्च भगवांस्तत्र नानारूपमकल्पयत्। आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि। परस्परस्य चापश्यन्सर्वे परमविस्मिताः॥ 8-24-56 (56120) सर्वभूतमयं दृष्ट्वा तमजं जगतः परिम्। देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः॥ 8-24-57 (56121) तान्स्वस्तिवाच्य चाभ्यर्च्य समुत्थाप्य च शङ्करः। ब्रूतब्रूतेति भगवान्स्मयमानोऽभ्यभाषत॥ 8-24-58 (56122) त्र्यम्बकेणाभ्यनुज्ञातास्ततस्ते स्वस्थचेतसः। नमो नमो नमस्तेऽस्तु प्रभो इत्यब्रुवन्भवम्॥ 8-24-59 (56123) नमो देवाधिदेवाय प्रियाधाघ्नेऽतिमन्यवे। प्रजापतिमखघ्नाय प्रजापतिभिरीड्यते॥ 8-24-60 (56124) नमः स्तुताय स्तुत्याय स्तूयमानाय शम्भवे। विलोहिताय रुद्राय नीलग्रीवाय शूलिने॥ 8-24-61 (56125) अमोघाय मृगाक्षाय प्रवरायुधयोधिने। अर्हाय चैव शुद्वाय क्षयाय क्रथनाय च॥ 8-24-62 (56126) दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे। ईशानायाप्रमेयाय निहन्त्रे चर्मवाससे॥ 8-24-63 (56127) तपोरताय पिङ्गाय व्रतिने कृत्तिवाससे। कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे॥ 8-24-64 (56128) प्रपन्नार्तिविनाशाय ब्रह्मद्विट्सङ्घघातिने। वनस्पतीनां पतये वनानां पतये नमः॥ 8-24-65 (56129) गवां च पतये नित्यं यज्ञानां पतये नमः। नमोस्तु ते ससैन्याय त्र्यम्बकायामितौजसे। मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः॥ 8-24-66 (56130) ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य च। प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः॥ 8-24-67 (56131) `देवाः शर्वस्य वचनं श्रुत्वा हर्षमुपागताः'॥ ॥ 8-24-68 (56132) इति श्रीमन्महाभारते कर्णपर्वणि चतुर्विंशोऽध्यायः॥ 24 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-24-2 पितुः पुरतः। मह्यं मम॥ 8-24-5 तारकामयः तारकासुर एवामयो रोगवत्पराभवहेतुर्यत्र स तथा॥ 8-24-60 ईड्यते ईड्यमानाय। कर्मणीदमपौरुषम्॥ 8-24-66 भजस्व इष्टैः कामैः पूरयस्व॥ 8-24-68 व्येतु व्यपगच्छतु॥ 8-24-24 चतुर्विंशोऽध्याय॥
कर्णपर्व - अध्याय 025

॥ श्रीः ॥

8.25. अध्यायः 025

Mahabharata - Karna Parva - Chapter Topics

देवै रुद्रवचनात्तस्य स्वस्वार्धबलदानपूर्वकं त्रिपुरसंहारायाभिषेचनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-25-0 (56133) दुर्योधन उवाच। 8-25-0x (4887) पितृदेवर्षिसङ्घेभ्योऽभये दत्ते महात्मना। सत्कृत्य शंकरं प्राह ब्रह्मा लोकपितामहः॥ 8-25-1 (56134) इमान्यसुरदुर्गाणि लोकांस्त्रीनाक्रमन्ति हि। कश्च प्रजापतिर्घोरांस्तान्स्रर्वाञ्जहि मा चिरम्॥ 8-25-2 (56135) वरातिसर्गाद्देवेश प्राजापत्यमिदं परम्। मयाऽधितिष्ठता दत्तो दानवेभ्यो महान्वरः॥ 8-25-3 (56136) नास्त्यन्यो युधि तेषां वै निहन्ता इति नः श्रुतम्। तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति। त्वामृते सर्वभूतेश त्वं ह्येषां प्रत्यरिर्वधे॥ 8-25-4 (56137) स त्वं देव प्रपन्नानां याचतां च दिवोकसाम्। कुरु प्रसादं वरद दानवाञ्जहि संयुगे॥ 8-25-5 (56138) त्वत्प्रसादाज्जगत्सर्वं सुखमैधत मानद। शरण्यस्त्वं हि देवानां वयं त्वां शरणं गताः॥ 8-25-6 (56139) ईश्वर उवाच। 8-25-7x (4888) हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः। न त्वेकश्चोत्सहे हन्तुं बलिनः सुरविद्विषः॥ 8-25-7 (56140) ते यूयं सहिताः सर्वे मदीयेनापि तेजसा। जयध्वं युधि तान्सर्वान्सङ्घातेन महाबलान्॥ 8-25-8 (56141) देवा ऊचुः। 8-25-9x (4889) अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव वा। तत्तेषामिति मन्यामो दृष्टतेजोबला हि ते॥ 8-25-9 (56142) ईश्वर उवाच। 8-25-10x (4890) वध्यास्ते सर्वथा पापा ये युष्मास्वपराधिनः। मम तेजोबलार्धेन सर्वे मृद्गथ शात्रवान्॥ 8-25-10 (56143) देवा ऊचुः। 8-25-11x (4891) बिभर्तुं तव तेजोर्धं न शक्ष्याम सुरेश्वर। सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान्॥ 8-25-11 (56144) वयं च सर्वथा देव रक्षणीयास्तथैव च। स नो रक्ष महादेव त्वमेव जहि शात्रवान्॥ 8-25-12 (56145) ईश्वर उवाच। 8-25-13x (4892) मम तेजो न शक्ता हि सर्वे धारयितुं यदि। अहमेनान्वधिष्यामि युष्मत्तेजोर्धसंयुतः॥ 8-25-13 (56146) बलार्धं यदि मे देवा न धारयितुमाहवे। शक्ताः सर्वे हि सङ्गम्य यूयं तत्प्रब्रवीमि वः॥ 8-25-14 (56147) समा भवन्ति मे सर्वे दानवाश्चामराश्च ये। शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः॥ 8-25-15 (56148) किन्त्वधर्मेण वर्तन्ते यस्मात्ते सुरशत्रवः। तस्माद्वध्या मयाप्येते युष्माकं च हितेप्सया॥ 8-25-16 (56149) शरणं वः प्रपन्नानां धर्मेण च जिगीषताम्। साहाय्यं वः करिष्यामि निहनिष्यामि वो रिपून्॥ 8-25-17 (56150) दीयतां च बलार्धं मे सर्वैरपि पृथक्पृथक्। पशुत्वं चैव मे लोकाः सर्वे कल्पन्तु पीडिताः॥ 8-25-18 (56151) पशूनां तु पतित्वं मे भवत्वद्य दिवौकसः। एवं न पापं प्राप्स्यामि पशून्हत्वा सुरद्विपः॥ 8-25-19 (56152) कल्पयध्वं रथं दिव्यं रथाश्वांश्चैव पारगान्। धनुः शरं सारथिं च ततो जेष्यामि वो रिपून्॥ 8-25-20 (56153) इति श्रुत्वा वचो देवा देवदेवस्य भूपतेः। विषादमगमन्सर्वे पशुत्वं प्रति शङ्किताः॥ 8-25-21 (56154) तेषां भावं भवो ज्ञात्वा देवस्तानब्रवीदिदम्। मा वोस्तु पशुभावेऽस्मिन्भयं विबुधसत्तमाः॥ 8-25-22 (56155) श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः॥ 8-25-23 (56156) यो वः पशुपतेश्चर्यां चरिष्यति स मोक्ष्यते। पशुत्वादिति सत्यं वः प्रतिजाने समागमे॥ 8-25-24 (56157) ये चाप्यन्ये चरिष्यन्ति व्रतं मोक्ष्यन्ति तेऽपि च॥ 8-25-25 (56158) नै(त्य)ष्ठिकं द्वादशाब्दं वा अर्धमब्दमृतुत्रयम्। मासं द्वादशरात्रं गुह्यं व्रतं दिव्यं चरिष्यथ॥ 8-25-26 (56159) तं तथेत्यब्रुवन्देवा देवदेवनमस्कृतम्। ऊचुश्चेदं गृहाणेदं तेजसोऽर्धमिति प्रभुम्॥ 8-25-27 (56160) प्रत्युवाच तथेत्येव शूलधृद्राजसत्तम। ततस्ते प्रददुः सर्वे तेजसोऽर्धं महात्मने॥ 8-25-28 (56161) सर्वमादाय सर्वेषां तेजसोऽर्धं दिवौकसाम्। तेजसाप्यधिको भूत्वा भूयोऽप्यतिबलोऽभवत्॥ 8-25-29 (56162) ततः प्रभृति देवानां देवदेवोऽभवद्भवः। पतिश्च सर्वभूतानां पशूनां चाभवत्तदा॥ 8-25-30 (56163) तस्मात्पशुपतिश्चोक्तो भवत्वाच्च भवेति वै॥ अर्धमादाय सर्वेषां तेजसा प्रज्वलन्निव। 8-25-31 (56164) भासयामास तान्सर्वान्देवदेवो महाद्युतिः॥ ततोऽभिषिषिच्युः सर्वे सुरा रुद्रं पुरारिणम्। 8-25-32 (56165) महादेव इति ह्यासीद्देवदेवो महेश्वरः॥ ॥ 8-25-33 (56166) इति श्रीमन्महाभारते कर्णपर्वणि पञ्चविंशोऽध्यायः॥ 25 ॥
कर्णपर्व - अध्याय 026

॥ श्रीः ॥

8.26. अध्यायः 026

Mahabharata - Karna Parva - Chapter Topics

देबानामाज्ञया विश्वकर्मणा भूम्यादिसाधनै रुद्राय रथनिर्माणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-26-0 (56167) दुर्योधन उवाच। 8-26-0x (4893) तेजसोऽर्धं सुरा दत्त्वा शङ्कराय महात्मने। पशुत्वमपि चोपेत्य विश्वकर्माणमव्ययम्॥ 8-26-1 (56168) ऊचुः सर्वे समाभाष्य रथः सङ्कल्प्यतामिति। विश्वकर्माऽपि सञ्चिन्त्य रथं दिव्यमकल्पयत्॥ 8-26-2 (56169) समेतां पृथिवीं देवी विशालां पुरमालिनीम्। सपर्वतवनद्वीपां चक्रे भूतधरां रथम्॥ 8-26-3 (56170) ईषां नक्षत्रवंशं च छत्रं मेरुमहागिरिम्। अनेकद्रुसञ्छन्नं रत्नाकरमनुत्तमम्॥ 8-26-4 (56171) हिमवन्तं च विन्ध्यं च नानाद्रुमलताकुलम्। अवस्करं प्रतिष्ठानं कल्पयामास वै तदा॥ 8-26-5 (56172) अस्तंगिरिमधिष्ठानं नानाद्विजगणायुतम्। चकार भगवांस्त्वष्टा उदयं रथकूबरम्॥ 8-26-6 (56173) मीननक्रझषावासं दानवालयमुत्तमम्। समुद्रमक्षं विदधे पत्तनाकरशोभितम्॥ 8-26-7 (56174) चक्रं चक्रे चन्द्रमसं तारकागणमण्डितम्। दिवाकरं चाप्यपरं चक्रं चक्रेंऽशुमालिनम्॥ 8-26-8 (56175) गङ्गां सरस्वतीं तूणीं चक्रे विश्वकृदव्ययः। अलङ्कारा रथस्यासन्नापगाः सरितस्तथा॥ 8-26-9 (56176) त्रीनग्नीन्मन्त्रवच्चक्रे रथस्याथ त्रिवेणुकम्। अनुकर्षान्रथे दीप्तान्वरूथांश्चापि तारकाः॥ 8-26-10 (56177) ओषधीर्वीरुधश्चैव घण्टाजालं च भानुमत्। अलञ्चकार च रथं मासपक्षर्तुभिर्विभुः॥ 8-26-11 (56178) अहोरात्रैः कलाभिश्च काष्ठाभिरयनैस्तथा। द्यां युगं युगपर्वाणि संवर्तकबलाहरकान्॥ 8-26-12 (56179) शम्यां धृतिं च मेधां च स्थितिं सन्नतिमेव च। ऋघ्वेदं सामवेदं च धुर्यावश्वावकल्पयत्॥ 8-26-13 (56180) पृष्ठाश्वौ तु यजुर्वेदः कल्पितोऽथर्वणस्तथा। अश्वानां चाप्यलङ्कारं विदधे पदसञ्चयम्॥ 8-26-14 (56181) सिनीवालीमनुमतिं कुहूं राकां च सुप्रभाम्। योक्ताणि चक्रे चाश्वानां कूश्माण्डांश्चापि पन्नगान्। 8-26-15 (56182) तालपृष्ठोऽथ नहुषः कार्कोटकधनञ्जयौ। इतरे चाभवन्नागा हयानां वाहबन्धनम्॥ 8-26-16 (56183) अभीशवः षडङ्गानि कल्पितानि महीपते। ओङ्कारः कल्पितस्तस्य प्रतोदो विश्वकर्मणा॥ 8-26-17 (56184) यज्ञाः सर्वे पृथक्लृप्ता रथाङ्गानि च भागशः। अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती॥ 8-26-18 (56185) नानावर्णानि शस्त्राणि पताकाः पवनेरिताः। विद्युदिन्द्रधनुर्युक्तं रथं दीप्त्या व्यदीपयत्॥ 8-26-19 (56186) वर्म योद्धुं च विहितं नमो ग्रहगणाकुलम्। अभेद्यं भानुमच्चित्रं कालचक्रपरिक्षतम्॥ 8-26-20 (56187) एवमस्मिन्महाराज कल्पिते रथसत्तमे। त्वष्ट्रा मनुजशार्दूल द्विषतां भयवर्धने॥ 8-26-21 (56188) स्वान्यायुधानि दिव्यानि न्यदधाच्छङ्करो रथे। ध्वजयष्टिं वियत्कृत्वा स्थापयामास गोवृषम्॥ 8-26-22 (56189) ब्रह्मदण़्डः कालदम्डो रुद्रदण्डश्च ते ज्वराः। परिष्कारा र्थस्यासन्समन्ताद्दिशमुद्धताः॥ 8-26-23 (56190) विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः। छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां ध्रुवाम्॥ 8-26-24 (56191) कालो हि भगवान्रुद्रस्तच्च संवत्सरं धनुः। तस्माद्रौद्री कालरात्री ज्या कृता धनुषो जरा॥ 8-26-25 (56192) ततो रथे रथाश्वांस्तानृषयः समयोजयन्। एकैकशः सुसंहृष्टानादाय सुधृतव्रताः॥ 8-26-26 (56193) दक्षिणस्यां धुरि कृत ऋग्वेदो मन्त्रपारगैः। सव्यतः सामवेदश्च युक्तो राजन्महर्षिभिः॥ 8-26-27 (56194) पार्ष्ठिदक्षिणतो युक्तो यजुर्वेदः सुरद्विजैः। इतरस्यां तथा पार्ष्ठ्यां युक्तो राजन्नथर्वणः॥ 8-26-28 (56195) एवं ते वाजिनो युक्ता यज्ञविद्भिस्तथा रथे। अशोभन्त तथा युक्ता यथैवाध्वरमध्यगाः॥ 8-26-29 (56196) कल्पयित्वा रथं दिव्यं ततो बाणमकल्पयत्। चिन्तयित्वा हरिं विष्णुमव्ययं यज्ञवाहनम्॥ 8-26-30 (56197) शरं सङ्कल्पयाञ्चक्रे विश्वकर्मा महामनाः। तस्य वाजांश्च पुङ्खं च कल्पयामास वै तदा॥ 8-26-31 (56198) पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम। अग्नीषोमौ शरमुखे कल्पयामास वै तदा॥ 8-26-32 (56199) अग्नीषोमात्मकं कृत्स्नमुच्यते वैष्णवं जगत्। विष्णुरात्मा भगवतो भवस्यामिततेजसः॥ 8-26-33 (56200) तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे शरस्य वै। तस्मिञ्शरे तीक्ष्णमन्युममुञ्चद्दुःसहं प्रभुः॥ 8-26-34 (56201) भृग्वङ्गिरोमन्युभवः क्रोधाग्निरतिदुःसहः। स नीललोहितो धूम्रः कृत्तिवासा भयानकः॥ 8-26-35 (56202) आदित्यायुतसङ्काशस्तेजोज्वालावृतो भवः। दुश्चर्यच्यावको जेता हन्ता ब्रह्मद्विषां वरः॥ 8-26-36 (56203) तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत्। जङ्गमाजङ्गमं राजञ्छुशुभेऽद्भुतदर्शनम्॥ 8-26-37 (56204) दृष्टा तु तं रथं दिव्यं कवची स शरासनी। आददे स शरं दिव्यं सोमविष्ण्वग्निवायुजम्॥ 8-26-38 (56205) तमादाय महादेवस्त्रासयन्दैत्यदानवान्। आरुरोह तदा यत्तः कम्पयन्निव रोदसी॥ 8-26-39 (56206) महर्षिभिः स्तूयमानो वन्द्यमानश्च वन्दिभिः। उपनृत्तश्चाप्सरसां गणैर्नृत्तविशारदैः॥ 8-26-40 (56207) स शोभमानो वरदः खङ्गी बाणी शरासनी। हसन्निवाब्रवीद्देवः सारथिः को भवेदिति॥ ॥ 8-26-41 (56208) इति श्रीमन्महाभारते कर्णपर्वणि षड्विंशोऽध्यायः॥ 26 ॥
कर्णपर्व - अध्याय 027

॥ श्रीः ॥

8.27. अध्यायः 027

Mahabharata - Karna Parva - Chapter Topics

देवानां प्रार्थनया ब्रह्मणा रुद्ररथसारथ्यकरणम्॥ 1 ॥ रुद्रेण त्रिपुरदहनम्॥ 2 ॥ दुर्योधनेन दृष्टान्तप्रदर्शनपूर्वकं शल्यम्प्रति कर्णरथसारथ्यकरणप्रार्थना॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-27-0 (56209) दुर्योधन उवाच। 8-27-0x (4894) तमब्रुवन्देवगणा यं भवान्सन्नियोक्ष्यते। स भविष्यति देवेश सारथिस्ते न संशयः॥ 8-27-1 (56210) तानब्रवीन्महादेवो मत्तः श्रेष्ठतरो हि यः। तं सारथिं कुरुध्वं वै स्वयं सञ्चिन्त्य मा चिरम्॥ 8-27-2 (56211) एतच्छ्रुत्वा वचो देवाः सर्वे गत्वा पितामहम्। प्रणिपत्योचुरेकाग्राः प्रसाद्यैनं महर्षिभिः॥ 8-27-3 (56212) त्वया यत्कथितं देव त्रिदशारिनिबर्हणे। तथा तत्कृतमस्माभिः प्रसन्नश्च वृषध्वजः॥ 8-27-4 (56213) रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः। सारथिं च न जानीमः कः स्यात्तस्मिन्रथोत्तमे॥ 8-27-5 (56214) तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम। सफलां तां गिरं देव कर्तुमर्हसि नो विभो। एवमस्मासु हि पुरा भगवन्नुक्तवानसि॥ 8-27-6 (56215) सदैव युक्तो रथसत्तमो वै दुराधर्षो द्रावणः शात्रवाणाम्। पिनाकधन्वा विहितोऽत्र योद्धा विभीषयन्दानवानुद्यतोऽसौ॥ 8-27-7 (56216) तथैव वेदाश्च हया रथाग्र्य धरा सशैला च रथो महात्मनः। नक्षत्रवंशानुगतो वरूथी यस्मिन्योद्धा सारथिनाऽभिरक्ष्यः॥ 8-27-8 (56217) तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान्॥ 8-27-9 (56218) तं प्रविष्टा रथं देवा रथयोद्वारमेव च। कवचानि च शस्त्राणि कार्मुकं च पितामह॥ 8-27-10 (56219) त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम्। त्वं हि सर्वैर्गणैर्युक्तोदेवताभ्योऽधिकः प्रभो॥ 8-27-11 (56220) त्वं देव शक्तो लोकेश नियन्तुं प्रद्रुतानिमान्। वेदांश्च सोपनिषदः सारथिर्भव नः स्वयम्॥ 8-27-12 (56221) योद्वुं बलेन वीर्येण सत्वेन विनयेन च। अधिकःसारथिःकार्यो नास्ति चान्योऽधिको भवात्॥ 8-27-13 (56222) स भवांस्तारयत्वस्मान्कुरु सारथ्यमव्यय। भवानभ्यधिकस्त्वत्तो नान्योस्ति भविता त्विह॥ 8-27-14 (56223) त्वं हि देवेश सर्वैस्तु विशिष्टो वदतां वर। तं रथं त्वं समारुह्य संयच्छ परमान्हयान्॥ 8-27-15 (56224) तव प्रसादाद्वध्येयुर्देव दैवतकण्टकाः। स नो रक्ष महाबाहो दैत्येभ्यो महतो भयात्॥ 8-27-16 (56225) त्वं हि नो गतिरव्यग्र तवं न्त्रे गोप्ता महाव्रत। त्वत्प्रसादात्सुराः सर्वे पूज्यन्ते त्रिदिवे प्रभो॥ 8-27-17 (56226) इति ते शिरसाऽगच्छंस्त्रिलोकेशं पितामहम्। देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम्॥ 8-27-18 (56227) ब्रह्मोवाच। 8-27-19x (4895) एवमेतत्सुरास्तथ्यं नान्यस्त्वभ्यधिको भवात्। सारथित्वं करिष्यामि शङ्करस्य महात्मनः॥ 8-27-19 (56228) सर्वथा रथिनः श्रेयान्कर्तव्यो रथसारथिः। तस्मादेतद्यथातत्त्वं ज्ञात्वा युष्मांश्च सङ्गतान्। संयच्छामि हयानेष विबुधाय कपर्दिने॥ 8-27-20 (56229) दुर्योधन उवाच। 8-27-21x (4896) एवमुक्त्वा जटाभारं संयम्य प्रपितामहः। परिधायाजिनं गाढं सन्न्यस्य च कमण्डलुम्। प्रतोदपाणिर्भगवानारुरोह रथं तदा॥ 8-27-21 (56230) सारथौ कल्पिते देवैरीशानस्य महात्मनः। तस्मिन्नारोहति रथं कल्पितं लोकसम्भृतम्। शिरोभिः पतिता भूमौ तुरगा वेदसम्भृताः॥ 8-27-22 (56231) उभाभ्यां लोकनाथाभ्यामास्थितं रथसत्तमम्। ओढुं न शक्ता वेदाश्वा जानुभ्यामपतन्महीम्॥ 8-27-23 (56232) अभीशुभिस्तु भगवानुद्यम्य च हयान्विभुः। अस्तु वीर्यं च शौर्यं च वेदाश्वानामिति प्रभुः। रथं सञ्चोदयामास देवानां प्रभुरव्ययः॥ 8-27-24 (56233) ततोऽधिरूढे वरदे रथं पशुपतिस्तदा। साधुसाध्विति देवेशं स्मयमानोऽभ्यभाषत॥ 8-27-25 (56234) याहि देव यतो दैत्याश्चोदयाश्वानरिन्दम। पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे॥ 8-27-26 (56235) ततोऽश्वांश्चोदयामास मनोमारुतरंहसः। पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम्॥ 8-27-27 (56236) ततस्ते सहसोत्पत्य वेदाख्या रथवाजिनः। क्षणेन तेन दैत्यानां पुराणि प्रापयन्हरम्॥ 8-27-28 (56237) अथर्वाङ्गिरसौ चास्तां चक्ररक्षौ महात्मनः। अथाधिज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम्। युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत्॥ 8-27-29 (56238) तस्मिन्स्थिते ततो राजन्रुद्रे सज्जितकार्मुके। पुराणि तेन कालेन जग्मुरेकत्वमाशु वै॥ 8-27-30 (56239) एकीभावं गते चैव त्रिपुरत्वमुपागते। बभूव तुमुलो हर्षो देवतानां महात्मनाम्॥ 8-27-31 (56240) ततो देवगुणाः सर्वे सिद्धाश्च परमर्षयः। जयेति वाचो मुमुचुः संस्तुवन्तो महेश्वरम्॥ 8-27-32 (56241) ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान्। अनिर्देश्याग्र्यवपुषो देवस्यासह्यतेजसः॥ 8-27-33 (56242) त्रीणि दृष्ट्वैव संस्थानि पुराण्यथ पिनाकधृत्। स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः। त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति॥ 8-27-34 (56243) एकबाणेन तं देवस्त्रिपुरं परमेश्वरः। निजघ्ने सासुरगणं देवदेवो महेश्वरः॥ 8-27-35 (56244) बाणतेजोग्निदग्धं तद्विप्रकीर्णं सहस्रधा। महदार्तस्वरं कृत्वा नावशेषमुपागतम्। मद्रेश सासुरगणं प्रापतत्पश्चिमार्णवे॥ 8-27-36 (56245) एवं हि त्रिपुरं दग्धं दानवाश्चाप्यशेषतः। महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा॥ 8-27-37 (56246) स चात्मक्रोधजो विह्निर्दहेत्युक्तो निवारितः। त्रैलोक्यमविशेषेण पुनर्दग्धुं प्रचक्रमे॥ 8-27-38 (56247) कालाग्निमिव निर्दग्धुमुत्थितं तं पुनः पुनः। माकार्षीर्भस्मासाल्लोकानिति त्र्यक्षोऽब्रवीद्वचः॥ 8-27-39 (56248) ततः प्रकृतिमापन्ना देलोकास्तथर्षयः। तुष्टुवुर्वाग्भिरग्र्याभिः स्थाणुं त्रिपुरवैरिणम्॥ 8-27-40 (56249) तेऽनुज्ञाता भगवता सर्वे जग्मुर्यथागतम्। कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः॥ 8-27-41 (56250) एवं रुद्रस्य कृतवान्सारथ्यं तु पितामहः। संयच्छ तुरगानस्य राधेयस्य महात्मनः॥ 8-27-42 (56251) त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च गुणाधिकः। बलतो रूपतो योगादस्त्रसम्पद एव च॥ 8-27-43 (56252) समासक्तं महीपाल कुरु मे हितमीप्सितम्। युद्वे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ। तस्माच्छक्तौ युवां जेतुं मच्छत्रून्दिवि वा सुरान्॥ 8-27-44 (56253) स यथा शल्य कर्णोऽयं श्वंताश्वं कृष्णसारथिम्। प्रमथ्य हन्यात्कौन्तेयं तथा नीतिर्विधीयताम्॥ 8-27-45 (56254) त्वयि राज्यं सुखं चैव जीवितं जयमेव च। समासक्तं महीपाल कुरु मे हितमीप्सितम्॥ 8-27-46 (56255) संयच्छास्य हयान्त्राजन्मत्प्रियार्थं परन्तप॥ ॥ 8-27-47 (56256) इति श्रीमन्महाभारते कर्णपर्वणि सप्तविंशोऽध्यायः॥ 27 ॥
कर्णपर्व - अध्याय 028

॥ श्रीः ॥

8.28. अध्यायः 028

Mahabharata - Karna Parva - Chapter Topics

दुर्योधनेन कर्णसारथ्ये शङ्कमानं शल्यम्प्रति परशुरामचरित्रकीर्तनपूर्वकं कर्णस्य तदन्तेवासित्वादिगुणवत्तया तत्सारथ्य करणे दोषाभावप्रतिपादनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-28-0 (56257) दुर्योधन उवाच। 8-28-0x (4897) इमं चाप्यपरं भूय इति हासं निबोध मे। पितुर्मम सकाशे वै ब्राह्मणः प्राह धर्मवित्॥ 8-28-1 (56258) श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थतत्त्ववित्। कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा॥ 8-28-2 (56259) भार्गवाणां कुले जातो जमदग्निर्महातपाः। तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः॥ 8-28-3 (56260) स तीव्रं तप आस्थाय सम्प्रसादितवान्भवम्। अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः॥ 8-28-4 (56261) तस्मै तुष्टो महादेवो भक्त्या च प्रशमेन च। हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः। प्रत्यक्षेण महादेवः स्वां तनुं सर्वशङ्करः॥ 8-28-5 (56262) शङ्कर उवाच। 8-28-6x (4898) राम तुष्टोऽस्मि भद्रं ते विदितं तव चेप्सितम्। कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि॥ 8-28-6 (56263) दास्यामि ते तदाऽस्त्राणि यदा पूतो भविष्यसि। अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव॥ 8-28-7 (56264) इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना। प्रत्युवाच महात्मानं शिरसाऽवनतः प्रभुम्॥ 8-28-8 (56265) यदा जानासि देवेश पात्रं मामस्त्रधारणे। तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति॥ 8-28-9 (56266) ततः स तपसा चैव व्रतेन नियमेन च। पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः॥ 8-28-10 (56267) समाराधितवाञ्शर्वं बहुवर्षगणांस्तदा। प्रसन्नश्च महादेवो भार्गवस्य महात्मनः॥ 8-28-11 (56268) असकृच्चाब्रवीत्तस्य गुणान्देव्याः सकाशतः। भक्तिमानेष सततं मयि रामो दृढव्रतः॥ 8-28-12 (56269) एवमस्य गुणान्प्रीतो बहुशो कथयद्विभुः। देवतानां पितॄणां च समक्षमरिसूदन॥ 8-28-13 (56270) एतस्मिन्नेव काले तु दैत्या ह्यासन्महाबलाः। तैस्तदा दर्पमोहाद्वै अबाध्यन्त दिवौकसः॥ 8-28-14 (56271) ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः। चक्रुः शत्रुवधे यत्नं दैत्याञ्चेतुमशक्नुवन्॥ 8-28-15 (56272) अभिगम्य ततो देवा महेश्वरमुमापतिम्। प्रासादयंस्तदा भक्त्या जहि शत्रुगणानिति॥ 8-28-16 (56273) प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम्। रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः॥ 8-28-17 (56274) रिपून्भार्गव देवानां जहि सर्वान्समागतान्। लोकानां हितकामार्थं मत्प्रियार्थं तथैव च॥ 8-28-18 (56275) परशुराम उवाच। 8-28-19x (4899) का शक्तिर्मम देवेश अकृतास्त्रस्य संयुगे। निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान्॥ 8-28-19 (56276) ईश्वर उवाच। 8-28-20x (4900) गच्छ त्वं मदनुज्ञानान्निहनिष्यसि शात्रवान्। विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान्॥ 8-28-20 (56277) दुर्योधन उवाच। 8-28-21x (4901) एतच्छ्रुत्वा तु वचनं प्रतिगृह्य च सर्वशः। रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति॥ 8-28-21 (56278) ततोऽजयद्देवशत्रून्महादर्पबलान्वितान्। वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः॥ 8-28-22 (56279) स दानवैः क्षततनुर्जामदग्न्यो नृपोत्तम। संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समपद्यत॥ 8-28-23 (56280) प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै। वरान्प्रादाद्बहुविधान्भार्गवाय महात्मने॥ 8-28-24 (56281) उक्तश्च प्रीतियुक्तेन देवदेवेन शूलिना॥ 8-28-25 (56282) निपातात्तव शस्त्राणां शरीरे याऽभवद्रुजा। तया ते मानुषं कर्म व्यपोहं भृगुनन्दन। गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितं॥ 8-28-26 (56283) ततोऽस्त्राणि समग्राणि वरांश्च मनसेप्सितान्। लब्ध्वा बहुविधान्रामः प्रणम्यशिरसा शिवम्। अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः॥ 8-28-27 (56284) एवमेतत्पुरावृत्तं तथा कथितवानृषिः॥ 8-28-28 (56285) भार्गवोऽपि ददौ सर्वं धनुर्वेदं महात्मने। कर्णाय पुरुषव्याघ्रः सुप्रीतेनान्तरात्मना॥ 8-28-29 (56286) वृजिनं न भवेत्किञ्चिदस्य कर्णस्य पार्थिव। सूतेन वर्धितो नित्यं न सूतो नृप एव सः॥ 8-28-30 (56287) विशुद्धयोनिं विज्ञाय दिव्यान्यस्त्राण्यदाद्भृगुः। नापि सूतकुले जातं मन्ये कर्णं कथञ्चन। देवपुत्रमदं मन्ये क्षत्रियाणां कुलोद्भवम्॥ 8-28-31 (56288) विसृष्टमविबोधार्थं कुलस्येंति मतिर्मम। सर्वथा न ह्यसो शल्य कर्णः सूतकुलोद्भवः॥ 8-28-32 (56289) सकुण्डलं सकवचं दीर्घबाहुमरिन्दमम्। कथमादित्यसङ्काशं मृगी सिंहं प्रसूयते॥ 8-28-33 (56290) पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ। वक्षः पश्य विशालं च सर्वशस्त्रसहं रणे॥ 8-28-34 (56291) न त्वेव प्राकृतः कश्चित्कर्णो वैकर्तनो वृषा। महात्माह्येष राजेन्द्र रामशिष्यः प्रतापवान्॥ ॥ 8-28-35 (56292) इति श्रीमन्महाभारते कर्णपर्वणि अष्टविंशोऽध्यायः॥ 28 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-28-1 नाशक्नुवन्निति नञध्याहारेण योजना॥ 8-28-28 अष्टाविंशोऽध्यायः॥
कर्णपर्व - अध्याय 029

॥ श्रीः ॥

8.29. अध्यायः 029

Mahabharata - Karna Parva - Chapter Topics

दुर्योधनप्रार्थितेन शल्येन समयकरणपूर्वकं कर्णरथसारथ्यस्वीकरणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-29-0 (56293) दुर्योधन उवाच। 8-29-0x (4902) एवं स भगवान्देवः सर्वलोकपितामहः। सारथ्यमकरोत्तत्र ब्रह्मा रुद्रोऽभवद्रथी॥ 8-29-1 (56294) रथिनोऽभ्यधिको वीर कर्तव्यो रथसारथिः। तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि॥ 8-29-2 (56295) यथा देवगणैस्तत्र वृतो यत्नात्पितामहः। तथाऽस्माभिर्भवान्यत्नात्कर्णादभ्यधिको वृतः॥ 8-29-3 (56296) यथा देवैर्महाराज ईश्वरादधिको वृतः। तथा देवैर्महाराज क्षिप्रं रुद्रस्यव पितामहः। नियच्छ तुरगान्युद्वे राधेयस्य महाद्युते॥ 8-29-4 (56297) शल्य उवाच। 8-29-5x (4903) मयाप्येतन्नरश्रेष्ठ बहुशो नरसिंहयोः। कथ्यमानं श्रुतं दिव्यमाख्यानमतिमानुषम्॥ 8-29-5 (56298) यथा च चक्रे सारथ्यं भवस्य प्रपितामहः। यथाऽसुराश्च निहता इषुणैकेन भारत॥ 8-29-6 (56299) कृष्णस्य चापि विदितं सर्वमेतत्पुरा ह्यभूत्॥ 8-29-7 (56300) यथा पितामहो जज्ञे भगवान्सारथिस्तदा। अनागतमतिक्रान्तं वेद कृष्णोऽपि तत्त्वतः॥ 8-29-8 (56301) एतदर्थं विदित्वाऽपि सारथ्यमुपजग्मिवान्। स्वयम्भूरिव रुद्रस्य कृष्णः पार्थस्य भारत॥ 8-29-9 (56302) यदि हन्याच्च कौन्तेयं सूतपुत्रः कथञ्चनः। दृष्ट्वा पार्थं हि निहतं स्वयं योत्स्यति केशवः॥ 8-29-10 (56303) शङ्खचक्रगदापाणिर्धक्ष्यते तव वाहिनीम्। न चापि तस्य क्रुद्धस्य वार्ष्णेयस्य महात्मनः। स्थास्यते प्रत्यनीकेषु कश्चिदत्र नृपस्तव॥ 8-29-11 (56304) सञ्जय उवाच। 8-29-12 (56305) तं तथा भाषमाणं तु मद्रराजमरिन्दमः। प्रत्युवाच महाबाहुरदीनात्मा सुतस्तव॥ 8-29-12 (56306) मावमंस्था महाबाहो कर्णं वैकर्तनं रणे। सर्वशस्त्रभृतां श्रेष्ठं सर्वशास्त्रार्थपरागम्॥ 8-29-13 (56307) यस्य ज्यातलनिर्घोषं श्रुत्वा भयकरं महत्। पाण्डवेयानि सैन्यानि विद्रवन्ति दिशो दश॥ 8-29-14 (56308) प्रत्यक्ष ते महाबाहो यथा रात्रौ घटोत्कचः। मायाशतानि कुर्वाणो हतो मायापुरस्कृतः॥ 8-29-15 (56309) न चातिष्ठत बीभत्सुः प्रत्यनीके कथञ्चन। एतांश्च दिवसान्सर्वान्भयेन महता वृतः॥ 8-29-16 (56310) भीमसेनश्च बलवान्धनुष्कोट्याभिचोदितः। उक्तश्च संज्ञया राजन्मूढ औदरिको यथा॥ 8-29-17 (56311) माद्रीपुत्रौ तथा शूरौ येन जित्वा महारणे। कमप्यर्थं पुरस्कृत्य न हतौ युधि मारिष॥ 8-29-18 (56312) येन वृष्णिप्रवीरस्तु सात्यकिः सात्वतां वरः। निर्जित्य समरे शूरो विस्थश्च बलात्कृतः॥ 8-29-19 (56313) सृञ्जयाश्चेतरे सर्वे धृष्टद्युम्नपुरोगमाः। असकृन्निर्जिताः सङ्ख्ये स्मयमानेन संयुगे॥ 8-29-20 (56314) तं कथं पाण्डवा युद्वे विजेष्यन्ति महारथम्। यो हन्यात्समरे क्रुद्वो वज्रहस्तं पुरन्दरम्॥ 8-29-21 (56315) त्वं च सर्वास्त्रविद्वीरः सर्वविद्यास्त्रपारगः। बाहुवीर्येण ते तुल्यः पृथिव्यां नास्ति कश्चन॥ 8-29-22 (56316) त्वं शल्यभूतः शत्रूणामविषह्यः पराक्रमे। ततस्त्वमुच्यसे राजञ्शल्य इत्यरिसूदन॥ 8-29-23 (56317) तव बाहुबलं प्राप्य न शेकुः सर्वसात्वताः। तव बाहुबलाद्राजन्किं नु कृष्णो बलाधिकः॥ 8-29-24 (56318) यथा हि कृष्णेन बलं धार्यं वै फल्गुने हते। तथा कर्णात्ययीभावे त्वया धार्यं महद्बलम्॥ 8-29-25 (56319) किमर्थं समरे सैन्यं वासुदेवो न्यवारयत्। किमर्थं च भवान्सैन्यं न हनिष्यति मारिष॥ 8-29-26 (56320) त्वत्कृते पदवीं गन्तुमिच्छेयं युधि मारिष। सोदराणां च वीराणां सर्वेषां च महीक्षिताम्॥ 8-29-27 (56321) शल्य उवाच। 8-29-28x (4904) यन्मां ब्रवीषि गान्धारे अग्रे सैन्यस्य मानद। विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि॥ 8-29-28 (56322) एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः। युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे॥ 8-29-29 (56323) समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति। उत्सृजेयं यथाश्रद्वमहं वाचोऽस्य सन्निधौ॥ 8-29-30 (56324) सञ्जय उवाच। 8-29-31x (4905) तथेति राजन्पुत्रस्ते सह कर्णेन मारिष। अब्रवीत्मद्रराजानं सर्वक्षत्रस्य सन्निधौ॥ 8-29-31 (56325) सारथ्यस्याभ्युपगमाच्छल्येनाश्वासितस्तदा। दुर्योधनस्तदा हृष्टः कर्णं तमभिषस्वजे॥ 8-29-32 (56326) अब्रवीच्च पुनः कर्णं स्तूयमानः सुतस्तव। जहि पार्थान्रणे सर्वान्महेन्द्रो दानवानिव॥ 8-29-33 (56327) स शल्येनाभ्युपगते हयानां सन्नियच्छने। कर्णो हृष्टमना भूयो दुर्योधनभाषत॥ 8-29-34 (56328) नातिहृष्टमना ह्येष मद्रराजोऽभिभाषते। राजन्मधुरया वाचा पुनरेनं ब्रवीहि वै॥ 8-29-35 (56329) ततो राजा महाप्राज्ञः सर्वास्त्रकुशलो बली। दुर्योधनोऽब्रवीच्छल्यं मद्रराजं महीपतिम्॥ 8-29-36 (56330) पूरयन्निव घोषेण मेघगम्भीरया गिरा। शल्य कर्णोऽर्जुनेनाद्य योद्वव्यमिति मन्यते॥ 8-29-37 (56331) तस्य त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि। कर्णो हत्वेतरान्सर्वान्फल्गुनं हन्तुमिच्छति। तस्याभीषुग्रहे राजन्प्रयाचे त्वां पुनः पुनः॥ 8-29-38 (56332) पार्थस्य सचिवः कृष्णो यथाऽभीषुग्रहो वरः। तथा त्वमपि राधेयं सर्वतः परिपालय॥ 8-29-39 (56333) सञ्जय उवाच। 8-29-40x (4906) ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत्। दुर्योधनममित्रघ्नं प्रीतो मद्राधिपस्तदा॥ 8-29-40 (56334) शल्य उवाच। 8-29-41x (4907) एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन। तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम्॥ 8-29-41 (56335) यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित्। तत्र सर्वात्मना युक्तो वक्ष्ये कार्यं परन्तप॥ 8-29-42 (56336) यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रिये। मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः॥ 8-29-43 (56337) कर्ण उवाच। 8-29-44x (4908) ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः। तथा नित्यं हिते युक्तो मद्रराज भवस्व नः॥ 8-29-44 (56338) शल्य उवाच। 8-29-45x (4909) आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः। अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम्॥ 8-29-45 (56339) यत्तु विद्वन्प्रवक्ष्यामि प्रxxxxयार्थमहं तव। आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम्॥ 8-29-46 (56340) अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो। अप्रमादात्प्रयोगाच्च ज्ञानविद्याचिकित्सनैः॥ 8-29-47 (56341) ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ। वाहयिष्यामि तुरगान्विज्वरो भव सूतज॥ ॥ 8-29-48 (56342) इति श्रीमन्महाभारते कर्णपर्वणि एकोनत्रिंशोऽध्यायः॥ 29 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-29-5 नरसिंहयोः कृष्णार्जुनयोः। अतस्तयोः साम्यं मम कीर्तिकरमेवेति भावः। सुरसिंहयोरिति पाठे रुद्रपितामहयोः॥ 8-29-26 किमर्थमिति। सारथ्यामात्रं प्रतिज्ञाय प्रातिभट्यं चेत्कृष्णः कुर्यात्तर्हि त्वं युध्यन् तद्वन्मिथ्याप्रतिज्ञो न भविष्यसीति भावः॥ 8-29-27 पदवीमानृण्यम्॥ 8-29-42 वक्ष्ये वोढास्मि॥ 8-29-45 आत्म निन्दापरस्तवावपि श्रेयस। निन्द्यौ किमुतात्मपूजापरनिन्दे। तदुभयमहं करोमीति भावः॥ 8-29-47 अप्रमादोऽवधानम्। प्रयोगोऽश्वप्रेरणम्। ज्ञानमागामिदोषावेक्षणम्। विद्या तत्परिहारज्ञानम्। चिकित्सनं दोषपरिहारसामर्थ्यम्॥ 8-29-29 एकोनत्रिंशोऽध्यायः॥
कर्णपर्व - अध्याय 030

॥ श्रीः ॥

8.30. अध्यायः 030

Mahabharata - Karna Parva - Chapter Topics

शल्येन सारथीभूयाधिष्ठितं रथमधिष्ठाय कर्णस्य रणाय निर्याणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-30-0 (56343) दुर्योधन उवाच। 8-30-0x (4910) अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति। कृष्णादभ्यधिको यन्ता देवेशस्येव मातलिः॥ 8-30-1 (56344) यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः। शल्यस्तथा तवाद्यायं संयन्ता रथवाजिनाम्॥ 8-30-2 (56345) योधे त्वयि रथस्थे च मद्रराजे च सारथौ। रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थानभिभविष्यति॥ 8-30-3 (56346) सञ्जय उवाच। 8-30-4x (4911) ततो दुर्योधनो भूयो मद्रराजं तरस्विनम्। उवाच राजन्सङ्ग्रामेऽध्युषिते पर्युपस्थिते॥ 8-30-4 (56347) कर्णस्य यच्छ सङ्ग्रामे मद्रराज हयोत्तमान्। त्वयाऽभिगुप्तो राधेयो विजेष्यति धनञ्जयम्॥ 8-30-5 (56348) इत्युक्तो रथमास्थाय तथेति प्राह भारत। शल्येऽभ्युपगते कर्णः सारथिं सुमनाऽब्रवीत्॥ 8-30-6 (56349) त्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन्॥ 8-30-7 (56350) ततो जैत्रं रथवरं गन्धर्वनगरोपमम्। विधिवत्कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत्॥ 8-30-8 (56351) तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि। सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा॥ 8-30-9 (56352) कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम्। समीपस्थं मद्रराजमारोह त्वमथाब्रवीत्॥ 8-30-10 (56353) ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत्। आरुरोह महातेजाः शल्यः सिंह इवाचलम्॥ 8-30-11 (56354) ततः शल्याश्रितं दृष्ट्वा कर्णः स्वं रथमुत्तमम्। अध्यतिष्ठद्यथाऽम्भोदं विद्युत्वन्तं दिवाकरः॥ 8-30-12 (56355) तावेकरथमारूढावादित्याग्निसमत्विषौ। अभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि॥ 8-30-13 (56356) संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तमौ। ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानाविवाध्यरे॥ 8-30-14 (56357) स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितो बभौ। धनुर्विष्फारयन्घोरं परिवेषीव भास्करः॥ 8-30-15 (56358) आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान्। प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान्॥ 8-30-16 (56359) तं रथस्थं महाबाहुं युद्वायामिततेजसम्। दुर्योधनस्तु राधेयमिदं वचनमब्रवीत्॥ 8-30-17 (56360) अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे। कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम्॥ 8-30-18 (56361) मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ। अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम्॥ 8-30-19 (56362) ताभ्यां यदकृतं वीर वीरकर्म महामृधे। तत्कर्म कुरु राधेय वज्रपाणिरिवापरः॥ 8-30-20 (56363) गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम्। भीमसेनं च राधेय माद्रीपुत्रौ यमावपि॥ 8-30-21 (56364) जयश्च तेऽस्तु भद्रं ते प्रयाहि पुरुषर्षभ। पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात्॥ 8-30-22 (56365) ततस्तूर्यसहस्राणि भेरीणामयुतानि च। वाद्यमानान्यरोचन्त मेघशब्दो यथा दिवि॥ 8-30-23 (56366) प्रतिगृह्य तु तद्वाक्यं रथस्थो रथरुत्तमः। अभ्यभाषत राधेयः शल्यं युद्धविशारदम्॥ 8-30-24 (56367) चोदयाश्वान्महाबाहो यावद्वन्मि धनञ्जयम्। भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम्॥ 8-30-25 (56368) अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः। अस्यतः कङ्कपत्राणां सहस्राणि शतानि च॥ 8-30-26 (56369) अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान्। पाण्डवानां विनाशाय दुर्योधनजयाय च॥ 8-30-27 (56370) सञ्जय उवाच। 8-30-28x (4912) एतच्छ्रुत्वा वचस्तस्य शल्यः कर्णं वचोऽब्रवीत्। कथं नु तान्महावीर्यान्पाण्डवानवमन्यसे॥ 8-30-28 (56371) सर्वास्त्रज्ञान्महेष्वासान्सर्वानेन महाबलान्। अनिवर्तिनो महाभागानजय्यान्सत्यविक्रमान्। अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः॥ 8-30-29 (56372) यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः। राधेय पार्थधनुषस्तदा नैवं वदिष्यसि॥ 8-30-30 (56373) यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे। विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि॥ 8-30-31 (56374) यदा द्रक्ष्यसि सङ्ग्रामे धर्मपुत्रं यमौ तथा। शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे॥ 8-30-32 (56375) अस्यतः क्षिण्वतश्चारीँल्लघुहस्तान्दुरासदान्। पार्थिवागपि चान्यांस्त्वं तदा नैवं वदिष्यसि॥ 8-30-33 (56376) सञ्जय उवाच। 8-30-34x (4913) अनादृत्य तु तद्वाक्यं मद्रराजे भाषितम्। द्रक्ष्यस्यद्येत्यवोचत्तं शल्यं कर्णो जनेश्वर॥ ॥ 8-30-34 (56377) इति श्रीमन्महाभारते कर्णपर्वणि त्रिंशोऽध्यायः॥ 30 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-30-2 हरिहयैरिन्द्रतुरगैर्युक्तं रथम्॥ 8-30-4 अध्युषिते प्रातःकाले॥ 8-30-30 त्रिंशोऽध्यायः॥
कर्णपर्व - अध्याय 031

॥ श्रीः ॥

8.31. अध्यायः 031

Mahabharata - Karna Parva - Chapter Topics

कर्णस्य रणप्रयाणकाले दुर्निमित्तप्रादुर्भावः॥ 1 ॥ कर्णेनात्मश्लाघनपूर्वकं पार्थवधे प्रतिज्ञाते तदसहमानेन शल्येनार्जुनप्रशंसनपूर्वकं कर्णोपालम्भः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-31-0 (56378) सञ्जय उवाच। 8-31-0x (4914) दृष्ट्वा कर्णं महावीर्यं युयुत्सं समवस्थितम्। चुक्रुशुः कुरवः सर्वे हृष्टरूपाः समन्ततः॥ 8-31-1 (56379) ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च। कोणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम्। निर्ययुस्तावकाः सर्वे मृत्युं कृत्वा निवर्तनम्॥ 8-31-2 (56380) प्रयाते तु ततः कर्णे रथेषु मदितेषु च। चचाल च मही सर्वा ररास च सुविस्वरम्॥ 8-31-3 (56381) निःसरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः॥ 8-31-4 (56382) उल्कापाताश्च सञ्जज्ञुर्दिग्दाहाश्चैव दारुणाः। तथाऽशन्यश्च सम्पेतुर्ववुर्वाताश्च भैरवाः॥ 8-31-5 (56383) मृगपक्षिगणाश्चैव पृतनां बहुशस्तव। अपसव्यं तदा चक्रुर्वेदयन्तो महाभयम्॥ 8-31-6 (56384) प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि। अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम्॥ 8-31-7 (56385) जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे। अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते॥ 8-31-8 (56386) एते चान्ये च बहव उत्पातास्तत्र मारिष। समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः॥ 8-31-9 (56387) न च तान्गणयामासुः सर्वे दैवेन मोहिताः। प्रस्थितं सूतपुत्रं च जयेत्सूचुर्नराधिपाः॥ 8-31-10 (56388) `शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम्'। निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः॥ 8-31-11 (56389) ततो रथस्थः परवीरहन्ता भीष्मद्रोणवतिवीर्यौ समीक्ष्य। समुज्ज्वलन्भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषा॥ 8-31-12 (56390) अलं मनुष्यस्य सुखाय वर्तितुं तथाहि युद्वे निहतः परैर्गुरुः॥ 8-31-20 (56398) हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरन्दरोपमम्॥ नये ब-हस्पत्युशनःसमं सदा न चैनमस्त्रं तदुपास्त दुःसहम्॥ 8-31-21 (56399) सम्प्राक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे। कृत्यं मया नाद्य जानामि शल्य प्रयाहि तस्माद्द्विषतामनीकम्॥ 8-31-22 (56400) स यत्र राजा पाण्डवः सत्यसन्धो व्यवस्थितो भीमसेनार्जुनौ च। स वासुदेवः सात्यकिः सृञ्जयाश्च यमौ च कस्तान्विषहेन्मदन्यः॥ 8-31-23 (56401) तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च। तान्वा हनिष्यामि समेत्य सङ्ख्ये यास्यामि वा द्रोणमुखो यमाय॥ 8-31-24 (56402) न त्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति शल्याद्य विद्वि। मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम्॥ 8-31-25 (56403) प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसन्निभस्य। अतो विद्वन्नभियोत्स्यामि पार्थं दिष्टं न शक्यं व्यतिवर्तितुं वै॥ 8-31-26 (56404) कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत्। तस्यार्थसिद्व्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च॥ 8-31-27 (56405) वैयाघ्रचर्माणमकूजनाक्षं हैमं त्रिकोशं रजतत्रिवेणुम्। रथप्रबर्हं तुरगप्रबार्है-- र्युक्तं प्रादान्मह्यमिमं हि रामः॥ 8-31-28 (56406) धनूंषि चित्राणि निरीक्ष्य शल्य ध्वजान्गदाः सायकांश्चोग्ररूपान्। असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम्॥ 8-31-29 (56407) पताकिनं वज्रनिपातनिः स्वनं सिताश्वयुक्तं शुभतूणशोभितम्। इमं समास्थाय रथर्षभं रणे दृढं हनिष्याम्यहमर्जुनं बलात्॥ 8-31-30 (56408) तं चेन्मृत्युः सर्वहरोऽभिरक्षे-- त्सदाऽप्रमत्तः समरे पाण्डुपुत्रम्। तं वा हनिष्यामि रणे समेत्य यास्यामि वा द्रोणमुखो यमाय॥ 8-31-31 (56409) यमवरुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे। जुगुपुरिह समेत्य फल्गुनं किमु बहुना सह तैर्जयामि तम्॥ 8-31-32 (56410) सञ्जय उवाच। 8-31-33x (4915) इति रणरभसस्य कत्थत-- स्तदुपनिशम्य वचः स मद्रराट्। अवहसदवमन्य वीर्यवान् प्रतिषिषिधे च जगाद चोत्तरम्॥ 8-31-33 (56411) शल्य उवाच। 8-31-34x (4916) विरम विरम कर्ण कत्थना-- दतिरभसोऽप्यतिवाचमुक्तवान्। क्व च हि नरवरो धनञ्जयः क्व पुनरिह त्वमहो नराधमः॥ 8-31-34 (56412) यदुसदनमुपेन्द्रपालितं त्रिदिवमिवामरराजरक्षितम्। प्रसभमतिविलोड्य को हरे-- त्पुरुषवरावरजामृतेऽर्जुनात्॥ 8-31-35 (56413) त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि। मृगवधकलहे ऋतेऽर्जुनात् सुरपतिवीर्यसमप्रभावतः॥ 8-31-36 (56414) असुरसुरमहोरगान्नरान् गरुडपिशाचसयक्षराक्षसान्। इषुभिरजयदग्निगौरवात् स्वभिलषितं च हविर्ददौ जयः॥ 8-31-37 (56415) स्मरसि ननु यदा परैर्हृतः सहधृतराष्ट्रसुतो विमोक्षितः। अधिरथज नरोत्तमैर्युतान् कुरुषु बहून्विनिहत्य तानरीन्॥ 8-31-38 (56416) प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः। स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः॥ 8-31-39 (56417) समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे। सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः॥ 8-31-40 (56418) इदमपरमुपस्थितं पुन-- स्तव निधनाय सुयुद्वमद्य वै। यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज॥ 8-31-41 (56419) सञ्जय उवाच। 8-31-42x (4917) इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम्। भृशमभिरुषितः सरन्तपः कुरुपृतनापतिराह मद्रपम्॥ 8-31-42 (56420) कर्ण उवाच। 8-31-43x (4918) भवतु भवतु किं विकत्थसे ननु मर्म तस्य हि युद्धमुद्यतम्। यदि स जयति मामिहाहवे तत इदमस्तु सुकत्थितं तव॥ 8-31-43 (56421) सञ्जय उवाच। 8-31-44x (4919) एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान्। याहि शल्येति चाप्येनं कंर्णः प्राह युयुत्सया॥ 8-31-44 (56422) स रथः प्रययौ शत्रून्निघ्नतः शल्यसारथिः। निघ्नन्नमित्रान्समरे तमोघ्नः सविता यथा॥ 8-31-45 (56423) ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाऽथ कर्णः। स चालोक्य ध्वजिनीं पाण्डवानां धनञ्जयं त्वरया पर्यपृच्छत्॥ ॥ 8-31-46 (56424) इति श्रीमन्महाभारते कर्णपर्वणि एकत्रिंशोऽध्यायः॥ 31 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-31-2 तरस्विनामश्वादीनाम्॥ 8-31-3 ररास शब्दं चकार॥ 8-31-4 निःसरन्तो युद्धार्थमिति शेषः। सूर्यात्सूर्यमारभ्य। सूर्यादयोऽन्योन्यं युध्यन्तीत्यर्थः॥ 8-31-12 भीष्मद्रोणौ अतिक्रान्तं वीर्यं ययोस्तावतिवीर्यौ समीक्ष्य स्वकृत्यमालोच्य जगादेत्युत्तरेणान्वयः॥ 8-31-16 8-31-18 आतुरान् आसन्नमृत्यून्॥ 8-31-19 भावxxxxxमाति निश्चयम्॥ 8-31-20 अस्त्रादीनि मनुष्यस्य सुखायxxxxxxगिति सम्बन्धः॥ 8-31-21 उपास्त उपातिष्ठत। त्रातुमिxxxxxx अस्त्रादि॥ 8-31-25 तेषां भीष्मादीनां मध्ये न गमिष्यामीति न अपितु गमिष्याम्येवेत्यर्थः। सङ्ग्रामात्पलायने हि मित्रस्य दुर्योधनस्य द्रोहः कृतः स्यात्तच्चासह्यम्॥ 8-31-26 जीवितान्ते आयुषः समाप्तौ प्रमोक्षो मृत्युनिवर्तनम्॥ 8-31-28 वैयाघ्रचर्माणं व्याघ्रचर्मपरिवृतम्॥ 8-31-33 रणरभसस्य रणोत्कटस्य॥ 8-31-34 अतिरभसोऽपि त्वं अतिवाचं स्वसामर्थ्यादधिकाम्॥ 8-31-35 पुरुषवरस्य कृष्णस्यावरजां कनीयसीं सुभद्राम्॥ 8-31-39 खचरगणान् गन्धर्वान्॥ 8-31-46 श्वेतयुजा श्वेताश्वयुजा॥ 8-31-31 एकत्रिंशोऽध्यायः॥
कर्णपर्व - अध्याय 032

॥ श्रीः ॥

8.32. अध्यायः 032

Mahabharata - Karna Parva - Chapter Topics

कर्णेन स्वस्यार्जुनप्रदर्शकाय तदभिमतपारितोषिकप्रदानप्रतिज्ञानम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-32-0 (56425) सञ्जय उवाच। 8-32-0x (4920) प्रयत्नेन तदा कर्णो हर्षयन्वाहिनीं तव। एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत॥ 8-32-1 (56426) यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम्। तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति॥ 8-32-2 (56427) न चेत्तदभिमन्येत तस्मै दद्यामहं पुनः। शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्वनञ्जयम्॥ 8-32-3 (56428) न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम्॥ 8-32-4 (56429) शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने। तथा तस्मै पुनर्दद्यां श्वेतमश्वतरीरथम्। युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद्वनञ्जयम्॥ 8-32-5 (56430) न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। अन्यं वाऽस्मै पुनर्दद्यां सौवर्णं हस्तिषङ्गवम्॥ 8-32-6 (56431) तथाप्यस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम्। श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम्॥ 8-32-7 (56432) न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। तस्मै दद्यां शतं नागाञ्शतं ग्रामाञ्शतं रथान्॥ 8-32-8 (56433) सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान्। ऋद्व्या गुणैः सुदान्तांश्च धुर्यवाहान्सुशिक्षितान्॥ 8-32-9 (56434) तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम्। दद्यां तस्मै सवत्सानां यो मे ब्रूयाद्वनञ्जयम्॥ 8-32-10 (56435) न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। अन्यदस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान्॥ 8-32-11 (56436) हेमभाण्डपरिच्छन्नान्सुमृष्टमणिभूषणान्। सुदान्तानपि चैवाहं दद्यामष्टादशापरान्॥ 8-32-12 (56437) रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम्। युक्तं परमकाम्भोजैर्यो मे ब्रूयाद्वनञ्जयम्॥ 8-32-13 (56438) न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। अन्यदस्मै वरं दद्यां कुञ्जराणां शतानि षट्॥ 8-32-14 (56439) काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः। उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः॥ 8-32-15 (56440) न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। अन्यदस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश॥ 8-32-16 (56441) सुस्फीतान्धनसंयुक्तान्प्रत्यासन्नवनोदकान्। अकुतोभयान्सुसम्पन्नान्राजभोज्यांश्चतुर्दश॥ 8-32-17 (56442) दासीनां निष्ककण्ठीनां मागधीनां शतं तथा। प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम्॥ 8-32-18 (56443) न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम्॥ 8-32-19 (56444) पुत्रदारान्विहायैव यदन्यद्वित्तमस्ति मे। तच्च तस्मै पुनर्दद्यां यद्यच्च मनसेच्छति॥ 8-32-20 (56445) हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः। तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ॥ 8-32-21 (56446) सञ्जय उवाच। 8-32-22x (4921) एता वाचः सुबहुशः कर्ण उच्चारयन्युधि। दध्मौ सागरसम्भूतं सुस्वरं शङ्खमुत्तमम्॥ 8-32-22 (56447) ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु। दुर्योधनो महाराज संहृष्टः सानुजोऽभवत्॥ 8-32-23 (56448) ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशा। सिंहनादः सवादित्रः कुञ्चराणां च निःस्वनः॥ 8-32-24 (56449) प्रादुरासीत्तदा राजंस्त्वत्सैन्ये पुरुषर्षभ। योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः॥ 8-32-25 (56450) तथा प्रहृष्टे सैन्ये तं प्लुवमानं महारथम्। विकत्थमानं च तदा राधेयमरिकर्शनम्। मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत॥ ॥ 8-32-26 (56451) इति श्रीमन्महाभारते कर्णपर्वणि द्वात्रिंशोऽध्यायः॥ 32 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-32-3 अभिमन्येत अल्पमित्यवजानीत॥ 8-32-5 अञ्जनकेशीभिः कृष्णकेशीभिरश्वतरीभिर्युवतीभिर्वा युक्तम्॥ 8-32-6 हस्तिषङ्गवं हस्तिषट्कम् षट्रत्वे षङ्गवजित्यनेन षङ्गवच्प्रत्ययः। हस्तिषङ्गवमिच्छन्ति वीराः षट्के च दन्तिनामिति प्राञ्चः। अन्यं वा सौवर्णरथमिति शेषः। हस्तितुल्याः षट् गाव उक्षाणो यस्मिन् तम्। षट्हस्तिन एव गोवत् वोढारो यस्य तादृशम्॥ 8-32-7 श्यामानामप्रजातानाम्। निष्कमुरोभूषणम्॥ 8-32-9 शतंशतान्दशसहस्राणि। ऋद्व्या पुष्ट्या। सुदान्तान् विनीतान्। धुर्यवाहान् रथोद्वहनक्षमान्॥ 8-32-12 भाण्डमाभरणम्॥ 8-32-15 अपरान्तेषु पश्चिमकच्छेषु॥ 8-32-18 प्रत्यग्रवयसामभिनवयौवनानाम्॥ 8-32-26 प्लवमानं प्रयान्तम्॥ 8-32-32 द्वात्रिंशोऽध्यायः॥
कर्णपर्व - अध्याय 033

॥ श्रीः ॥

8.33. अध्यायः 033

Mahabharata - Karna Parva - Chapter Topics

कर्णगर्वोक्तिमसहमानेन शल्येन तद्ग्रर्हणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-33-0 (56452) शल्य उवाच। 8-33-0x (4922) मा सूतपुत्र मन्येत(थाः) सौवर्णं हस्तिषङ्गवम्। प्रयच्छसि मुधैव त्वं द्रक्ष्यस्यद्य धनञ्जयम्॥ 8-33-1 (56453) मा सूतपुत्र दानेन सौवर्णं हस्तिषङ्गवम्। प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम्॥ 8-33-2 (56454) बलेन मत्तस्त्यजसि वसु वैश्रवणो यथा। अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम्॥ 8-33-3 (56455) पुरा सृजसि यच्चापि वित्तं बहु च मूढवत्। अपात्रदानाद्ये दोषास्तान्मोहान्नावबुध्यसे॥ 8-33-4 (56456) यत्प्रवेदयसे वित्तं बहु तेन खलु त्वया। शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः॥ 8-33-5 (56457) यच्च प्रार्थयसे हन्तुं कृष्णौ मोहाद्वृथैव तत्। न हि शुश्रुम सम्मर्दे क्रोष्ट्रा सिंहौ निपातितौ॥ 8-33-6 (56458) अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते। ये त्वां निवारयन्त्याशु प्रपतन्तं हुताशने॥ 8-33-7 (56459) कार्याकार्यं न जानीषे कालपक्कोऽस्यसंशयम्। बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः॥ 8-33-8 (56460) समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम्। गिर्यग्राद्वा निपतनं तादृक्त्व चिकीर्षितम्॥ 8-33-9 (56461) सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः। धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि॥ 8-33-10 (56462) हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वां न हिंसया। श्रद्धस्वेदं मया प्रोक्तं यदि तेऽस्ति जिजीविषा॥ 8-33-11 (56463) कर्ण उवाच। 8-33-12x (4923) स्वबाहुवीर्यमाश्रित्य प्रार्थयाम्यर्जुनं रणे। त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि॥ 8-33-12 (56464) न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत्। अपीन्द्रो वज्रमुद्यम्य किमु मर्त्यः कथञ्चन॥ 8-33-13 (56465) सञ्जय उवाच। 8-33-14x (4924) इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः। चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः॥ 8-33-14 (56466) यदा वै त्वां फल्गुनबाहुवेगा-- ज्ज्याचोदिता वेगवन्तोऽग्निकल्पाः। अन्वेतारः कङ्कपत्राः शिताग्रा-- स्त्यक्ष्यत्येषा स्वां तदा कर्ण बुद्धिः॥ 8-33-15 (56467) यदा दिर्व्य धनुरादाय पार्थः प्रतापयन्पृतनां सव्यसाची। त्वां मर्दयिष्यत्यसुखैः पृषत्कै-- स्तदापृच्छां त्यक्ष्यसे पाण्डवस्य॥ 8-33-16 (56468) बालश्चन्द्रं मातुरङ्के शयानो यथा कश्चित्प्रार्थयतेऽपहर्तुम्। तद्वन्मोहाद्दयोतामानं रथस्थं जेतुं पार्थं काङ्क्षसे सूतपुत्र॥ 8-33-17 (56469) हरादस्त्रं तीक्ष्णधारं यथाऽद्य सर्वाणि गात्राणि निकर्षसि त्वम्। सुतीक्ष्णशस्त्रोपमकर्मणेह युयुत्ससे फल्गुनेनाद्य कर्ण॥ 8-33-18 (56470) हन्यादसिं तीक्ष्णधारं यथाऽतः सुतेजनं निहितं वै पृथिव्याम्। तथा खनस्यद्य शितान्पृषत्का-- न्यथार्थयस्यर्जुनेनेह युद्धम्॥ 8-33-19 (56471) त्रिशूलमाश्लिष्य सुतीक्ष्णधारं सर्वाणि गात्राणि विघर्षसि त्वम्। सुतीक्ष्णधारोपमकर्मणा त्वं युयुत्ससे योऽर्जुनेनाद्य कर्ण॥ 8-33-20 (56472) क्रुद्धं सिंहं केसरिणं बृहन्तं बालो मूढः क्षुद्रमृगस्तरस्वी। समाह्वयेद्वृष्टमुपेत्य योद्धुं तथा त्वमद्याह्वयसे हि पार्थम्॥ 8-33-21 (56473) मा सूतपुत्राह्वय राजपुत्रं महावीर्यं केसरिणं यथैव। वने शृगालः पिशितेन तृप्तः पार्थं समासाद्य विनङ्क्ष्यसि त्वम्॥ 8-33-22 (56474) ईषादन्तं महानागं प्रभिन्नकरटामुखम्। शशको हयसे युद्वे कर्ण पार्थं धनञ्जयम्॥ 8-33-23 (56475) विलस्थं कृष्णसर्पं त्वं जाल्यात्काष्ठेन विध्यसि। महाविषं पूर्णकोपं यत्पार्थं योद्वुमिच्छसि॥ 8-33-24 (56476) सिंहं केसरिणं क्रुद्धमभिक्रम्याभिनर्दसे। शृगाल इव मूढस्त्वं नृसिंहं कर्ण पाण्डवम्॥ 8-33-25 (56477) सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम्। स्वगेवाह्वयसे पार्थं तथा कर्णं धनञ्जयम्॥ 8-33-26 (56478) सर्वाम्भसां निधिं भीमं मूर्तिमन्तं झषाकुलम्। चन्द्रोदये विवर्धन्तमप्लुवस्त्वं तितीर्षसि॥ 8-33-27 (56479) ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम्। वत्स आह्वयसे युद्वे कर्ण पार्थं धनञ्जयम्॥ 8-33-28 (56480) महामेघं महाघोषं दर्दुरः प्रतिनर्दसि। बाणतोयप्रदं काले नरपर्जन्यमर्जुनम्॥ 8-33-29 (56481) यथा च श्वा गृहस्थस्तु व्याघ्रं वनगतं भषेत्। तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम्॥ 8-33-30 (56482) शृगालो हि वने कर्ण शशैः परिवृतो वसन्। मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति॥ 8-33-31 (56483) तथा त्वमपि राधेय सिंहमात्मानमिच्छसि। अपश्यञ्शत्रुदमनं नरसिंहं रणेऽर्जुनम्॥ 8-33-32 (56484) व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि। समास्थितावेकरथे सूर्याचन्द्रमसाविव॥ 8-33-33 (56485) यावद्ग्राण्डीवघोषं त्वं न शृणोषि महाहवे। तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि॥ 8-33-34 (56486) रथशङ्खधनुःशब्दैर्नादयन्तं दिशो दश। नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि॥ 8-33-35 (56487) नित्यमेव शृगालस्त्वं नित्यं सिंहो धनञ्जयः। वीरप्रद्वेषणान्मूढ तस्मात्क्रोष्टेव लक्ष्यसे॥ 8-33-36 (56488) यथाऽऽखुः स्याद्विडालश्च श्वा व्याघ्रश्च बलाबले। यथा शृगालः सिंहश्च यथा च शशकुञ्जरौ॥ 8-33-37 (56489) यथाऽनृतं च सत्यं च यथा चापि विषामृते। तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः॥ ॥ 8-33-38 (56490) इति श्रीमन्महाभारते कर्णपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-33-3 वसु वित्तम्। द्रष्टासि द्रक्ष्यसि॥ 8-33-8 अबद्धं अनर्थकम्। अकर्णीयं अनाकर्णनीयम्॥ 8-33-10 सहितो युध्यस्व नत्वेकाकी॥ 8-33-27 झषैर्मीनैराकुलं पूर्णम्। अप्लवः बाहुभ्यामित्यर्थः॥ 8-33-28 दुर्न्दुभिग्नीवं दुन्दुभिखनकण्ठम्॥ 8-33-33 त्रयस्त्रिंशोऽध्यायः॥
कर्णपर्व - अध्याय 034

॥ श्रीः ॥

8.34. अध्यायः 034

Mahabharata - Karna Parva - Chapter Topics

कर्णेन मर्मोद्धाटनपूर्वकं शल्यगर्हणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-34-0 (56491) सञ्जय उवाच। 8-34-0x (4925) अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा। शल्यमाह सुसङ्क्रुद्धो वाक्शल्यमवधारयन्॥ 8-34-1 (56492) कर्ण उवाच। 8-34-2x (4926) गुणान्गुणवतां शल्य गुणवान्वेत्ति नागुणः। त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यसि गुणागुणान्॥ 8-34-2 (56493) अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान्। अहं शल्याभिजानामि न त्वं जानासि तत्तथा॥ 8-34-3 (56494) तथा कृष्णस्य माहात्म्यमृषभस्य महीक्षिताम्। यथाहं शल्य जानामि न त्वं जानासि तत्तथा॥ 8-34-4 (56495) एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे। जानंस्तावाह्वये युद्धे शल्य नाग्निं पतङ्गवत्॥ 8-34-5 (56496) अस्ति चाऽयमिषुः शल्य सुपुङ्खो रक्तभोजनः। एकस्तूणीशयः पत्री सुधौतः समलङ्कृतः॥ 8-34-6 (56497) शेते चन्दनचूर्णेन पूजितो बहुलाः समाः। आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा॥ 8-34-7 (56498) घोररूपो महारौद्रस्तनुत्रास्थिविदारणः। निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम्॥ 8-34-8 (56499) तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते। कृष्णाद्वा देवकीपुत्रात्सत्यं चापि शृणुष्व मे॥ 8-34-9 (56500) तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ। योत्स्ये परमसंरब्धौ तत्कर्म सदृशं मम॥ 8-34-10 (56501) सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता। सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः। उभयं तु समासाद्य को निवर्तितुमर्हति॥ 8-34-11 (56502) तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ। मामेकमभिसंयुद्धौ सुजातं पश्य शल्य मे॥ 8-34-12 (56503) पितृष्वसामातुलजौ भ्रातरावपराजितौ। मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया॥ 8-34-13 (56504) अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ। भीरूणां त्रासजननं शल्य हर्षकरं मम॥ 8-34-14 (56505) त्वं तु दुष्प्रकृतिर्मूढो महायुद्वेष्वकोविदः। भयावदीर्णः सन्त्रासादबद्धं बहुः भाषसे॥ 8-34-15 (56506) संस्तौषि तौ तु केनापि हेतुना त्वं कुदेशज। तौ हत्वा समरे हन्ता त्वामद्य सह बान्धवम्॥ 8-34-16 (56507) पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन। सुहृद्रूपो रिपुः किं मां कृष्णाभ्यां भीषयिष्यसि॥ 8-34-17 (56508) तौ वा मामद्य हन्तारौ हनिष्ये वाऽपि तावहम्। नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम्॥ 8-34-18 (56509) वासुदेवसहस्रं वा फल्गुनानां शतानि वा। अहमेको हनिष्यामि जोषमास्स्व कुदेशज॥ 8-34-19 (56510) स्त्रियो बालाश्च वृद्वाश्च प्रायः क्रीडागता जनाः॥ 8-34-20 (56511) या गाथाः सम्प्रगायन्ति कुर्वतोऽध्ययनं यथा। ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु॥ 8-34-21 (56512) ब्राह्मणैः कथिताः पूर्वं यथावद्राजसन्निधौ। श्रुत्वा चैकमना मूढ मम वा ब्रूहि चोत्तरम्॥ 8-34-22 (56513) मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः। मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे॥ 8-34-23 (56514) दुरात्मा मद्रको नित्यं नित्यमानृतिकोऽनृजुः। यच्चान्यदपि दौरात्म्यं मद्रकेष्विति नः श्रुतम्॥ 8-34-24 (56515) पिता पुत्रश्च माता च श्वश्रूश्वशुरमातुलाः। भगिनी दुहिता भ्राता नप्ताऽन्ये ते च बान्धवाः॥ 8-34-25 (56516) वयस्याभ्यागताश्चान्ये दासीदासाश्च सङ्गताः। पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया॥ 8-34-26 (56517) येषां गृहेष्वशिष्टानां सक्तुमद्याशिनां सदा। पीत्वा शीधु सगोमांसं क्रन्दन्ति च हसन्ति च॥ 8-34-27 (56518) गायन्ति चाप्यबद्धानि प्रवर्तन्ते च कामतः। कामप्रलापिनोऽन्योन्यं तेषु धर्मःकथं भवेत्॥ 8-34-28 (56519) मद्रकेष्ववलिप्तेषु प्रख्याताशुभकर्मसु। नापि वैरं न सौहार्दं मद्रकेण समाचरेत्॥ 8-34-29 (56520) मद्रके सङ्गतं नास्ति मद्रको हि सदा मलः। मद्रकेषु च संसृष्टं शौचं गान्धारकेषु च॥ 8-34-30 (56521) राजयाजकयाज्ये हि यथा दत्तं हविर्नशेत्। शूद्रसंस्कारको विप्रो यथा याति पराभवम्॥ 8-34-31 (56522) यथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम्। यथैव संगतं कृत्वा नरः पतति मद्रकैः॥ 8-34-32 (56523) बालेष्वपि सदा न स्म धनं वृश्चिक ते विषम्। आथर्वणेन मन्त्रेण सर्वशान्तिः कृता मया॥ 8-34-33 (56524) इति वृश्चिकदष्टस्य विषवेगहतस्य च। कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते॥ 8-34-34 (56525) एवं विद्वञ्जोषमास्स्व ब्रूहि चात्रोत्तरं वचः। वासांस्युत्सृज्य नृत्यन्ति स्त्रियो मद्यविमोहिताः॥ 8-34-35 (56526) मैथुनेऽसङ्गताश्चापि यथाकामवराश्च ताः। तासां पुत्र कथं धर्मं मद्रको वक्तुमर्हति॥ 8-34-36 (56527) यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रदशेरकाः। तासां विभ्रष्टधर्माणां निर्लज्जानां ततस्ततः। त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि॥ 8-34-37 (56528) सौवीरकं याच्यमाना मद्रिका कर्षति स्फिचौ। अदातुकामा वचनमिदं वदति दारुणम्॥ 8-34-38 (56529) मा मां सौवीरकं कश्चिद्याचतां दयितं मम। पुत्रं दद्यां पतिं दद्यां न तु दद्यां सुवीरकम्॥ 8-34-39 (56530) गौर्यो बृहत्यो निर्हीका मद्रिकाः कम्पलावृताः। घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम॥ 8-34-40 (56531) पमेहित्वा स्फिचौ भूमौ घर्षन्त्यो हीनशोधनाः। शुद्धा नाद्भिर्न मृद्भिश्च नित्योच्छिष्टा भवन्ति हि॥ 8-34-41 (56532) एवमादि मयाऽन्यैर्वा शक्यं वक्तुं भवेद्बहु। आकेशान्तान्नखाग्राच्च वक्तव्येषु कुकर्मसु॥ 8-34-42 (56533) मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह। पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः॥ 8-34-43 (56534) एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम्। यदाजौ निहतः शेते सद्भिः समभिपूजितः॥ 8-34-44 (56535) आयुधानां साम्पराये यन्मुञ्चेयमहं ततः। ममैष प्रथमः कल्पो निधने स्वर्गमिच्छतः॥ 8-34-45 (56536) सोयं प्रियसखा चास्मि धार्तराष्ट्रस्य धीमतः। तदर्थे हि मम प्राणा यच्च मे विद्यते वसु॥ 8-34-46 (56537) व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज। यथा चामित्रवत्सर्वं त्वमस्मासु प्रवर्तसे॥ 8-34-47 (56538) कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि। सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः॥ 8-34-48 (56539) सारङ्ग इव घर्मार्तः कामं विलप शुष्य च। नाहं भीषयितुं शक्यः क्षत्रधर्मे व्यवस्थितः॥ 8-34-49 (56540) तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम्। या गतिर्गुरुणा प्रोक्ता प्रेम्णा रामेण तां स्मरे॥ 8-34-50 (56541) स्वेषां त्राणार्थमुद्यन्तं वधार्थं द्विषतामपि। विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम्॥ 8-34-51 (56542) न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रप। यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः॥ 8-34-52 (56543) एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे। न त्वां हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम्॥ 8-34-53 (56544) मित्रप्रतीक्षया शल्य धृतराष्ट्रस्य चोभयोः। अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि॥ 8-34-54 (56545) पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि। शिरस्ते पातयिष्यासि गदया वज्रकल्पया॥ 8-34-55 (56546) श्रोतारस्त्विदमद्येह द्रष्टारो व्रा कुदेशज। कर्णं वा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ॥ 8-34-56 (56547) एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते। अब्रवीन्मद्रराजानं याहियाहीत्यसम्भ्रमम्॥ ॥ 8-34-57 (56548) इति श्रीमन्महाभारते कर्णपर्वणि चतुस्त्रिंशोऽध्यायः॥ 34 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-34-7 आहेयः सर्पमयः॥ 8-34-9 नास्येयं न क्षिपेयम्॥ 8-34-12 सुजातं शोभनं जन्म॥ 8-34-13 प्रोतौ एकसूत्रे मणीइव प्रेमसम्बद्धौ॥ 8-34-19 जोषं तूष्णीम्। आस्स्व तिष्ठ॥ 8-34-20 क्रीडागताः लीलया आगताः॥ 8-34-21 मद्रकेषु कुत्सितेषुमद्रदेशेषु॥ 8-34-22 क्षम वा ब्रूहि चोत्तरम् इति झ.पाठः॥ 8-34-24 अनृतेन चरतीत्यानृतिकः॥ 8-34-26 पुम्भिः पुरुषैः विमिश्राः सङ्गताः। इच्छया मैथुनिनोऽज्ञातवत् ज्ञाता अप्यविगीता इत्यर्थः॥ 8-34-27 येषां मद्रकाणां सक्तुमिश्रितमत्स्याशिनाम्। शीधु मद्यम्॥ 8-34-30 मद्रकेषु संसृष्टं नष्टं एवं गान्धारकेषु शौचं नष्टं भवेत्॥ 8-34-31 राजा याजको यस्य तस्मिन्याज्ये हविर्नष्टं भवेत्॥ 8-34-32 यथैवेति। यथा मद्रकैः सङ्गतं कृत्वा पतति हेवृश्चिक तथा ते विषं हतमित्यध्याहारः। यद्येतत्सत्यं तर्हि तव विषं नश्यत्विति मन्त्रेण सर्वथा विषं नश्यतीत्यर्थः। मयेत्यात्मानुभवसिद्धमिदमिति द्योतयति॥ 8-34-33 यथैवेति। यथा मद्रकैः सङ्गतं कृत्वा पतति हेवृश्चिक तथा ते विषं हतमित्यध्याहारः। यद्येतत्सत्यं तर्हि तव विषं नश्यत्विति मन्त्रेण सर्वथा विषं नश्यतीत्यर्थः। मयेत्यात्मानुभवसिद्धमिदमिति द्योतयति॥ 8-34-36 यथाकामं वरयन्तिताः। मैथुने सङ्गता याश्च तथा कामकराश्च ह। तासां पुत्रो मम कथं मद्रको योगमर्हति। इति क.पाठः यथेळकाः इति ट. पाठः॥ 8-34-37 प्रमेहन्ति मूत्रयन्ते। दशेरकाः गर्दभाः। यथैवोष्ट्रा यथेळकाः इति ट.पाठः॥ 8-34-38 सुवीरकं काञ्जिकम्। स्फिचौ कटिप्रोथौ॥ 8-34-40 निर्हीकाः निर्लज्जाः। घस्मराः बहुभक्षकाः॥ 8-34-42 वक्तव्येषु गर्हणीयेषु॥ 8-34-45 साम्पराये समूहे सङ्ग्राये इत्यर्थः। मुञ्जेयं जीवितमिति शेषः॥ 8-34-47 उपहितः उपजप्त॥ 8-34-49 सारङ्ग इव घर्मान्ते इति क.ड.पाठः॥ 8-34-54 अपवादो निन्दा तितिक्षा च तैस्त्रिभित्रहितुभिः॥ 8-34-34 चतुस्त्रिंशोऽध्यायः॥
कर्णपर्व - अध्याय 035

॥ श्रीः ॥

8.35. अध्यायः 035

Mahabharata - Karna Parva - Chapter Topics

शल्येन कर्णंप्रति हंसकाकीयाख्यानकथनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-35-0 (56549) सञ्जय उवाच। 8-35-0x (4927) मारिषाधिरथेः श्रुत्वा वाचो युद्धाभिनन्दिनः। शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन्॥ 8-35-1 (56550) जातोऽहं यज्वनां वंशे सङ्ग्रामेष्वनिवर्तिनाम्। राज्ञां मूर्धाभिषिक्तानां स्वयं धर्मपरायणः॥ 8-35-2 (56551) यथैव मत्तो मद्येन त्वं तथा लक्ष्यसे वृष। तथाऽद्य त्वां प्रमाद्यन्तं चिकित्सेयं सुहृत्तया॥ 8-35-3 (56552) इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे। श्रुत्वा यथेष्टं कुर्यास्त्वं निहीन कुलपांसन॥ 8-35-4 (56553) नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे। येन मां त्वं महाबाहो हन्तुमिच्चस्यनागसम्॥ 8-35-5 (56554) अवश्यं तु मया वाच्यं बुद्ध्वा तव हिताहितम्। विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा॥ 8-35-6 (56555) समं च विषमं चैव रथिनश्च बलाबलम्। श्रमः खेदश्च सततं हयानां रथिना सह॥ 8-35-7 (56556) आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम्। सारं चैवाप्यासरं च शल्यानां च प्रतिक्रिया॥ 8-35-8 (56557) अस्त्रयोगं च युद्वं च निमित्तानि तथैव च। सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना। अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः॥ 8-35-9 (56558) वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान्। यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः॥ 8-35-10 (56559) बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः। राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः॥ 8-35-11 (56560) पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम्। काको बहूनामभवदुच्छिष्टकृतभोजनः॥ 8-35-12 (56561) तस्मैसदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः। मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी॥ 8-35-13 (56562) स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः। सदृशान्पक्षिणो दृप्तः श्रेयससश्चावमन्यते॥ 8-35-14 (56563) अथ हंसाः समुद्रान्ते प्रजग्मुरतिपातिनः। गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः॥ 8-35-15 (56564) कुमरारकास्तदा हंसान्दृष्ट्वा काकमथाब्रुवन्। भवानेव विशिष्टोऽसि पतत्रिभ्यो विहङ्गम॥ 8-35-16 (56565) एतेऽतिपातिनः पश्य विहङ्गान्वियदाश्रितान्। एहि त्वमपि शक्तो हि कस्मान्न पतितं त्वया॥ 8-35-17 (56566) प्रतार्यमाणस्तैः सर्वैरल्पबुद्धिभइरण्डजः। तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च जज्ञिवान्॥ 8-35-18 (56567) तान्सोनुपत्य जिज्ञासुः क एषां श्रेष्ठभागिति। उच्छिष्टदर्पितः काको बहूनामेकपातिनाम्॥ 8-35-19 (56568) तेषां यं प्रवरं मेने हंसानां दूरपातिनाम्। स तमाह्वत दुर्बुद्धिः पताव इति पक्षिणम्। तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः॥ 8-35-20 (56569) भाषतो बहु काकस्य बालिश्यात्पततां वराः। इदमूचुः स्म चक्राङ्गावचः काकं विङ्गमाः॥ 8-35-21 (56570) हंसा ऊचुः। 8-35-22x (4928) वयं हंसाश्चरामेमां पृथिवीं मानसौकसः। पक्षिणां च वयं नित्यं दूरपातेन पूजिताः॥ 8-35-22 (56571) कथं हंसं नु बलिनं चक्राङ्गं दूरपातिनम्। काको भूत्वा निपतने समाह्वयसि दुर्मते। कथं त्वं पतिता काक सहास्माभिर्ब्रवीहि तत्॥ 8-35-23 (56572) अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः। प्रजगादोत्तरं काकः कत्थनो जातिलाघवात्॥ 8-35-24 (56573) काक उवाच। 8-35-25x (4929) शतमेकं च पातानां पतिताऽस्मि न संशयः। शतयोजनमेकैकं विचित्रं विविधं तथा॥ 8-35-25 (56574) उड्डीनमवडीनं च प्रडीनं डीनमेव च। निडीनमथ संडीनं तिर्यक्डीनगतानि च॥ 8-35-26 (56575) विडीनं परिडीनं च पराडीनं सुडीनकम्। अभिडीनं महाडीनं निर्डीनमतिडीनकम्॥ 8-35-27 (56576) अवडीनं प्रडीनं च संडीनं डीनडीनकम्। संडीनोड्डीनडीनं च पुनर्डीनविडीनकम्॥ 8-35-28 (56577) संपातं समुदीषं च ततोऽन्यद्व्यतिरिक्तकम्। गतागतं प्रतिगतं बह्वीश्च निकुलीनकाः। कर्ताऽस्मि मिषतां वोऽद्य ततो द्रक्षयथ मे बलम्॥ 8-35-29 (56578) तेषामन्यतमेनाहं पतिष्यामि विहायसम्। प्रदिशध्वं यथान्यायं केन हंसाः पताम्यहम्॥ 8-35-30 (56579) ते वै ध्रुवं विनिश्चित्य सम्पतध्वं मया सह। पातैरेभिः खलु खगाः पतितुं खे निराश्रये॥ 8-35-31 (56580) एवमुक्ते तु काकेन प्रहस्यैको विहंगमः। उवाच काकं राधेय वचनं तन्निबोध मे॥ 8-35-32 (56581) हंस उवाच। 8-35-33x (4930) शतमेकं च पातानां त्वं काक पतिता ध्रुवम्। एकमेव तु यं पातं विदुः सर्वे विहङ्गमाः। तमहं पतिता काक नान्यं जानामि कञ्चन॥ 8-35-33 (56582) काक उवाच। 8-35-34x (4931) पत त्वमपि तत्राशु येन पातेन मन्यसे॥ 8-35-34 (56583) अथ काकं प्रजहसुर्ये तत्रासन्समागताः। कथमेकेन पातेन हंसः पातशतं जयेत्। एकेन वायस त्वैनं पातेनाभिभविष्यति॥ 8-35-35 (56584) हंसश्चोत्पतितः काको बलवानाशुविक्रमः। प्रपेततुः स्पर्धया च ततस्तौ हंसवायसौ। उपर्युपरि वेगेन समुद्रं मकरालयम्॥ 8-35-36 (56585) हंसस्त्वेकेन पातेन काकः पातशतेन च। स्पर्धिनौ सहितौ तूर्णं खमास्थाय तरस्विनौ॥ 8-35-37 (56586) हंसस्तु मृदुनैकेन विक्रान्तुमुपचक्रमे। पूर्वमेव तु वै काकः स तं तूर्णं प्रचक्रमे॥ 8-35-38 (56587) नात्यहीयत काकश्च मुहूर्तमिव सूतज॥ 8-35-39 (56588) काकोपि हंसं चापल्याच्छीघ्रतां प्रतिदर्शयन्। वेगेनातीत्य तरसा पुनरेति मुहुर्मुहुः॥ 8-35-40 (56589) तुण्डेनाभ्यहनच्चैनं कुर्वन्नामापसव्यतः। रोरूयन्निव चाप्येनं समाह्वयति वै मुहुः। विसिस्मापयिषुः पातैर्दर्शयन्नात्मनः क्रियाम्॥ 8-35-41 (56590) अथ तानि विचित्राणि पतितानीतराणि च। दृष्ट्वा प्रमुदिताः काका विनेदुरधिकैः स्वरैः॥ 8-35-42 (56591) हंसाश्चापहसन्ति स्म प्रवदन्ति प्रियाणि च। कुर्वाणा विविधान्रावानिच्छन्तो जयमात्मनः॥ 8-35-43 (56592) उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च। वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च॥ 8-35-44 (56593) अवमत्य च हंसं तमिदं काकोऽब्रवीद्वचः। योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते॥ 8-35-45 (56594) अथ हंसस्तु तच्छ्रुत्वा भाषितं पततांवरः। विगाह्य हंसो विक्षोभ्य प्रापतत्पश्चिमां दिशम्॥ 8-35-46 (56595) उपर्युपरि वेगेन सागरं मकरालयम्। बहुसत्वसमाकीर्णं वीचीभिर्भीमदर्शनम्॥ 8-35-47 (56596) अथाचिरेण राधेय काको वेगादहीयत। ततोऽतीव परिश्रान्तः कथञ्चिद्वंसमन्वगात्॥ 8-35-48 (56597) भीश्चैनमाविशत्तीव्रं काकं कर्ण विचेतसम्। द्वीपान्द्रुमान्वितान्पश्यन्विश्रमार्थं श्रमातुरः। निपतेयं क्कनु श्रान्त इति तस्मिञ्जलार्णवे॥ 8-35-49 (56598) अवगाह्य समुद्रोऽपि बहुसत्वगणालयः। महान्भूतशतोद्भूसी नभसस्तु विशिष्यते॥ 8-35-50 (56599) गाम्भीर्यार्द्वि समुद्रस्य न विशेषं कुलाधम। दिशश्च नाम्भसां कर्ण समुद्रस्था विदुर्जनाः। विपश्चितोप्यपारत्वात्किं पुनः कर्ण वायसः॥ 8-35-51 (56600) अथ हंसोप्यतिक्रामन्मुहूर्तमिव दूरतः। अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत॥ 8-35-52 (56601) शनकैः परिहीनं तं परिश्रान्तमचेतसम्। अवेक्षमाणस्तं काकं प्रत्यागम्य हसन्निव॥ 8-35-53 (56602) तं प्रहस्य च चक्राङ्गः काकं मन्दगतिं तदा। हीयमानमथो दृष्ट्वा हंसः प्राह यथार्थवत्। उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम्॥ 8-35-54 (56603) बहूनि पतितानि त्वमाचक्षाणो मुहुर्मुहुः। पतस्यव्याहरन्खेदं ततो गर्ह्यं प्रभाषसे॥ 8-35-55 (56604) जलं नाम पतितं काक यत्त्वं पतसि साम्प्रतम्। जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः॥ 8-35-56 (56605) प्रब्रूहि कतमोऽयं ते पातो वर्तति वायस। एह्येहि काक शीघ्रं त्वमेष त्वां परिपालये॥ 8-35-57 (56606) स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च जलं तदा। काको दृढं परिश्रान्तः सहसा निपपात ह॥ 8-35-58 (56607) सागराम्भसि तं दृष्ट्वा पततन्तं दीनचेतसम्। म्रियमाणमिदं वाक्यं हंसः काकमुवाच ह॥ 8-35-59 (56608) शतमेकं च पातानां पताम्यहमिति स्म ह। श्लाघन्नात्मानमद्य त्वं काक भाषितवानसि॥ 8-35-60 (56609) स त्वमेकशतं पातं पतन्नभ्यधिको मया। कथमेवं परिश्रान्तः पतितोऽसि महार्णवे॥ 8-35-61 (56610) प्रत्युवाच ततः काकः सीदमान इदं वचः। उपरीतं तदा हंसं प्रसमीक्ष्य प्रसादयन्॥ 8-35-62 (56611) उच्छिष्टान्नेन पुष्टोऽहं दर्पोत्सिक्तः कुसत्वतः। सुपर्ण इव चात्मानं ज्ञातवान्पुत्रलाघवात्॥ 8-35-63 (56612) शरणं त्वां प्रपन्नोऽहमुदकान्तमवाप्नुयाम्। हंसेदानीं परिश्रान्तमापदो मां समुद्वर॥ 8-35-64 (56613) यदि नाम पुनर्जीवन्गच्छेयं स्वं निवेशनम्। नैनं पुनर्हीनमपि क्षेप्ताऽहं खे विचारिणम्॥ 8-35-65 (56614) तमेवं करुणं दीनं विलपन्तमचेतसम्। काककाकेति वाशन्तं निमज्जन्तं महार्णवे। कृपयाऽभिपरीतो वै कृपां चक्रे दुरात्मनि॥ 8-35-66 (56615) अथ तं पततं दीनं जलक्लिन्नमचेतनम्। पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारो पयत्तदा॥ 8-35-67 (56616) स हंसः पृष्ठमारोप्य काकं कर्ण विचेतसम्। अविस्मयंस्तदा कर्ण पुनरेव समानयत्। तमेव देशं तरसा स्पर्धया पेततुर्यतः॥ 8-35-68 (56617) उत्सृज्य त्वब्रवीन्मैवं पुनः कार्यं त्वयेति ह। स्थाप्य चैनं पुनर्द्वीपे समाश्वस्य च विक्लवम्। गतो यथेप्सितं देशं हंसो मन इवाशुगः॥ 8-35-69 (56618) एवमुच्छिष्टपुष्टः स काकोऽहंसपराजितः। बलं वीर्यं महत्कर्ण त्यक्त्वा क्षान्तिमुपागतः॥ 8-35-70 (56619) उच्छिष्टभोजनः काको यथा वैश्यकुले पुरा। एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः॥ 8-35-71 (56620) सदृशाञ्श्रेयसश्चापि सर्वान्कर्णावमन्यसे। द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः॥ 8-35-72 (56621) विराटनगरे पार्थमेकं किं नावधीस्तदा। यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना सृगाला इव सिंहेन क्व ते वीर्यं तदा गतम्॥ 8-35-73 (56622) भ्रातरं निहतं दृष्ट्वा समरे सव्यसाचिना। पश्यतां कुरवीराणां प्रथमं त्वं पलायितः॥ 8-35-74 (56623) तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतान्। कुरून्सदारानुत्सृज्य त्वमेवाग्रे पलायितः॥ 8-35-75 (56624) हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे। कर्ण दुर्योधनं पार्थः सभ्रातृकममोक्षयत्॥ 8-35-76 (56625) पुनः प्रभावः पार्थस्य पुराणः केशवस्य च। कथितः कर्ण रामेण सभायां कुरुसंसदि॥ 8-35-77 (56626) सततं च त्वमश्रौषीर्वचनं द्रोणभीष्मयोः। अवध्यौ वदतोः कृष्णौ सन्निधौ च महीक्षिताम्॥ 8-35-78 (56627) कियन्तं तत्र वक्ष्यामि येनयेन धनञ्जयः। त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा॥ 8-35-79 (56628) इदानीमेव द्रष्टासि प्रधाने स्यन्दने स्थितौ। पुत्रं च वसुदेवस्य कुन्तीपुत्रं च पाण्डवम्॥ 8-35-80 (56629) यथाऽश्रयत चक्राङ्गं वायसो बुद्धिमास्थितः। तथाश्रयस्व वार्ष्णेयं पाण्डवं च धनञ्जयम्॥ 8-35-81 (56630) यदा त्वं युधि विक्रान्तौ वासुदेवधनञ्जयौ। द्रष्टास्येकरथे कर्ण तदा नैवं वदिष्यसि॥ 8-35-82 (56631) यदा शरशतैः पार्थो दर्पं तव वधिष्यति। तदा त्वमन्तरं द्रष्टा आत्मनश्चार्जुनस्य च॥ 8-35-83 (56632) देवासुरमनुष्येषु प्रख्यातौ यौ नरोत्तमौ। तौ मावमंस्था मौर्ख्यात्त्वं स्वद्योत इव रोचनौ॥ 8-35-84 (56633) सूर्याचन्द्रमसौ यद्वत्तद्वदजुनकेशवौ। प्रकाश्येनाभिविख्यातौ त्वं तु खद्योतवन्नृषु॥ 8-35-85 (56634) एवं विद्वन्मावमंस्थाः सूतपुत्राच्युतार्जुनौ। नरसिंहौ नरश्वा त्वं जोषमास्स्व विकत्थसे॥ ॥ 8-35-86 (56635) इति श्रीमन्महाभारते कर्णपर्वणि पञ्चत्रिंशोऽध्यायः॥ 35 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-35-8 रुतं जयपराजयसूचकम्॥ 8-35-9 निमित्तानि दिव्यान्तरिक्षभौमानि ग्रहाद्यानुकूल्यप्रातिकूल्यादीति। निदर्शनं दृष्टान्तम्॥ 8-35-15 अतिपातिनः गत्यतिशयगामिनः। चक्राङ्गाः मानसचारिणः॥ 8-35-16 पतत्रिभ्योऽन्येभ्यः प्रतार्यमाणोऽन्यथाप्रत्याय्यमानः॥ 8-35-19 श्रेष्ठभाक् श्रेष्ठं अङ्गं भजते॥ 8-35-20 पताव गच्छावः॥ 8-35-29 मिषतां पश्यताम्॥ 8-35-30 केन पातेन॥ 8-35-33 एकं मुख्यम्॥ 8-35-35 कथमेकेन पातेन जयेम शतपातिनम्। एकेनैव स यात्वेनं पातेनाभिविष्यसि इति ट.पाठः॥ 8-35-35 पञ्चत्रिंशोऽध्यायः॥
कर्णपर्व - अध्याय 036

॥ श्रीः ॥

8.36. अध्यायः 036

Mahabharata - Karna Parva - Chapter Topics

कर्णेन शल्यम्प्रति स्वस्य परशुरामात् तथा कुतश्चिद्ब्राह्मणाच्च शापप्राप्तिकथनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-36-0 (56636) सञ्जय उवाच। 8-36-0x (4932) मद्राधिपस्याधिरथिर्महात्मा वचो निशम्याप्रियमप्रतीतः। उवाच शल्यं विदितं ममैत-- द्यथाविधावर्जुनवासुदेवौ॥ 8-36-1 (56637) शौरे रथं वाहयतोऽर्जुनस्य बलं महास्त्राणि च पाण्डवस्य। अहं विजानामि यथावदद्य परोक्षभूतं तव तत्तु शल्य॥ 8-36-2 (56638) तौ चाप्यहं शस्त्रभृतां वरिष्ठौ व्यपेतभीर्योधयिष्यामि कृष्णौ। सन्तापयत्यभ्यधिकं हि रामा-- च्छापोऽद्य मां ब्राह्मणसत्तमाच्च॥ 8-36-3 (56639) `पुरा महेन्द्राद्रिवरे समुद्रे तपस्विनं राममुपेत्य शल्य। अस्त्रार्थिनं माऽद्य शिष्यं गृहाणे-- त्यथाऽब्रुवं ब्राह्मणच्छद्मना च॥ 8-36-4 (56640) तत्रावसं ब्राह्मण इत्यविप्रो ब्रह्मास्त्रलोभादनृतेन चाहम्। तज्जामदग्न्येन परं महास्त्रं समन्त्रयुक्तं विहितं ममासीत्॥ 8-36-5 (56641) अस्त्रं यदा तद्विदितं ममासी-- त्तदाऽब्रवीद्ब्राह्मणो मां महर्षिः। आपद्गतेनास्त्रमिदं प्रयोज्यं त्वया रणे गच्छता साधयेति'॥ 8-36-6 (56642) तत्रापि मे देवराजेन विघ्नो हितार्थिना फल्गुनस्यैव शल्य। कृतो विभेदेन ममोरुमेत्य प्रविश्य कीटस्य तनुं विरूपाम्॥ 8-36-7 (56643) ममोरुमेत्य प्रबिभेद कीटः सुप्ते गुरौ तत्र शिरो निधाय। ऊरुप्रभेदाच्च महान्बभूव शरीरतो मे घनशोणितौघः॥ 8-36-8 (56644) गुरोर्भयाच्चापि न चेलिवानहं ततो विबुद्धो ददृशे स विप्रः। स धैर्ययुक्तं प्रसमीक्ष्य मां वै न त्वं विप्रः कोऽसि सत्यं वदेति॥ 8-36-9 (56645) तस्मै तदाऽऽत्मानमहं यथाव-- दाख्यातवान्सूत इत्येव शल्य। स मां निशाम्याथ महातपस्वी संशप्तवान्रोषपरीतचेताः॥ 8-36-10 (56646) सूत त्वया ह्याप्तमिदं तवास्त्रं न कर्मकाले प्रतिभास्यतीति। अन्यत्र तु स्यात्तव मृत्युकाला-- दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात्॥ 8-36-11 (56647) तदद्य पर्याप्तमतीव मेऽस्त्र-- मुपस्थितेऽस्मिंस्तुमुले विमर्दे॥ 8-36-12 (56648) शल्योग्रधन्वानमहं वरिष्ठं तरस्विनं भीममसह्यवीर्यम्। सत्यप्रतिज्ञं युधि पाण्डवेयं धनञ्जयं मृत्युमुखं नयिष्ये॥ 8-36-13 (56649) अस्त्रं ततोऽन्यत्प्रतिपन्नमद्य येन क्षेप्स्ये समरे शत्रुपूगान्। प्रतापिनं बलवन्तं कृतास्त्रं तमुग्रधन्वानममितौजसं च। क्रूरं शूरं रौद्रममित्रसाहं धनञ्जयं संयुगेऽहं हनिष्ये॥ 8-36-14 (56650) अपांपतिर्वेगवानप्रमेयो निमज्जयिष्यन्बहुलाः प्रजा इव। महारवं यः कुरुते समुद्रो वेलेव तं वारयाम्यप्रमेयम्॥ 8-36-15 (56651) प्रमुञ्चन्तं बाणसङ्घानमेया-- न्मर्मच्छिदो वीरहणः सुपत्रान्। कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे ज्यां कर्षतामुत्तमं मर्त्यलोके॥ 8-36-16 (56652) एवं बलेनातिबलं महास्त्रं समुद्रकल्पं सुदुरापमुग्रम्। शरौघिणं पार्थिवान्मज्जयन्तं वेलेव पार्थमिषुभिर्वारयिष्ये॥ 8-36-17 (56653) कृती कृतास्त्रो दृढहस्तयोधी दिव्यास्त्रविच्छ्वेतहयः प्रमाथी। सुरासुरान्युधि वै यो जयेत तेनाद्य मे पश्य युद्वं सुघोरम्॥ 8-36-18 (56654) अभीर्मानी पाण्डवो युद्वकामो ह्यमानुषैरस्यति मां महास्त्रैः। तस्यास्त्रमस्त्रैरभिभूय सङ्ख्ये बाणोत्तमैः पातयिष्यामि पार्थम्॥ 8-36-19 (56655) सहस्ररश्मिप्रतिमं ज्वलन्तं दिशश्च सर्वाः प्रतपन्तमुग्रम्। तमोनुदं मेघ इवातिमात्रं धनञ्जयं छादयिष्यामि बाणैः॥ 8-36-20 (56656) वैश्वानरं धूमकेतुं ज्वलन्तं तेजस्विनं नरवीरान्दहन्तम्। पर्जन्यभूतः शरवर्षैर्यथाऽग्निं तथा पार्थं शमयिष्यामि युद्धे॥ 8-36-21 (56657) आशीविषं दृष्टिहणं सुघोरं सुतीक्ष्णदंष्ट्रं ज्वलनप्रभवाम्। क्रोधात्प्रदीप्तानलवद्दहन्तं कुन्तीपुत्रं शमयिष्यामि भल्लैः॥ 8-36-22 (56658) प्रवाहिणं बलवन्तं महौजसं प्रभञ्जनं मातरिश्वानमुग्रम्। युद्धे सहिष्ये हिमवानिवाचलो धनञ्जयं क्रुद्धममृष्यमाणम्। 8-36-23 (56659) विशारदं रथमार्गेषु शक्तं धुर्यं नित्यं समरेषु प्रवीरम्। लोके वरं सर्वधनुर्धराणां धनञ्जयं संयुगेऽहं हनिष्ये॥ 8-36-24 (56660) अद्याहवे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम्। सर्वामिमां यः पृथिवीं सहेत तथापि तेनाद्य रणे समेष्ये॥ 8-36-25 (56661) यः सर्वभूतानि सदैवतानि प्रस्थेऽजयत्खाण्डवे सव्यसाची को जीवितं रक्षमाणो हि तेन युयुत्सतेऽस्त्रैर्मानुषो मामृतेऽन्यः॥ 8-36-26 (56662) मानी कृतास्त्रः कृतहस्तयोधी दिव्यास्त्रविच्छ्वेतहयः प्रमाथी। तस्याहमद्यातिरथस्य काया-- च्छिरो हरिष्यामि शितैः पृषत्कैः। 8-36-27 (56663) योत्स्याम्येनं शल्य धनञ्जयं वै मृत्युं पुरस्कृत्य रणे जयं वा। अन्यो हि न ह्येकरथेन मर्त्यो युध्येत यः पाण्डवमिन्द्रकल्पम् 8-36-28 (56664) तस्याहवे पौरुषं पाण्डवस्य ब्रूयां पृष्टः समितौ क्षत्रियाणाम् किं त्वं मूर्खः प्रहसन्मूढचेता आख्यासि मे पौरुषं फल्गुनस्य॥ 8-36-29 (56665) अत्यप्रियो यः पुरुषो निष्ठुरो हि क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान्। हन्यामहं त्वादृशानां शतानि क्षमाम्यहं क्षमिणां काल एषः॥ 8-36-30 (56666) अवोचस्त्वं पाण्डवार्ये प्रियाणि प्रधर्षयन्मां मूढवत्पापकर्मन्। मय्यार्जवे जिह्ममतिर्यतस्त्वं मित्रद्रोही साप्तपदं हि मित्रम्॥ 8-36-31 (56667) कालस्त्वयं प्रत्युपयाति दारुणो दुर्योधनो युद्धमुपागमद्यत्। तस्यार्थसिद्धिं त्वभिकाङ्क्षमाण-- स्तमन्वेष्ये यत्र चैकान्तमस्ति॥ 8-36-32 (56668) `तथाप्यहं पाण्डववासुदेवौ योत्स्ये रणे मद्विधस्यैव कर्म। न प्राकृतः सज्जते वै कदाचि-- द्यः प्रत्युदीयात्कृष्णधनञ्जयौ तौ'॥ 8-36-33 (56669) मित्रं मिन्देर्नन्दतेः प्रीयतेर्वा सन्त्रायतेर्मिनुतेर्मोदतेर्वा। दुर्योधने सर्वमिदं ममास्ति तच्चापि सर्वं मम वेत्ति राजा॥ 8-36-34 (56670) शत्रुः शदेः शासतेर्वा श्यतेर्वा शृणातेर्वा श्वसतेः सीदतेर्वा। श्रमेः शुचो बहुशः सूदतेश्च प्रायेण सर्वं त्वयि तच्च मह्यम्॥ 8-36-35 (56671) दुर्योधनार्थं तव च प्रियार्थं यशोर्थमात्मार्थमपीश्वरार्थम्। तस्मादहं पाण्डववासुदेवौ योत्स्ये यत्नात्कर्म च पश्य मेऽद्य॥ 8-36-36 (56672) `शल्याद्याहं सङ्गतः पाण्डवेन मुच्येयं चेज्जीवमानः कथञ्चित्। शश्वन्मृत्योः स्यामनाधृष्यरूपो व्यक्तं तस्मात्संयुगाद्विप्रमुक्ताः'॥ 8-36-37 (56673) अस्त्रं ब्राह्मं मनसा सञ्जपन्वै यदाऽस्यते क्रोधितः सव्यसाची। तदापि मे नैव मुच्येत पार्थो न चेत्पतेद्विषमे मेऽद्य चक्रम्॥ 8-36-38 (56674) अस्त्राणि विद्ध्वा समरे गतानि ब्राह्माणि दिव्यान्यथ मानुषाणि। आसादयिष्याम्यहमुग्रवीर्यं नागोत्तमं नाग इव प्रभिन्नः॥ 8-36-39 (56675) वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः। सगदाद्वा धनपतेः सवज्राद्वा सुराधिपात्॥ 8-36-40 (56676) अथान्यस्मादपि सुरादमित्रादाततायिनः। इति शल्य विजानीहि यथा नाहं बिभेम्युत॥ 8-36-41 (56677) तस्मान्न मे भयं पार्थान्नापि चैव जनार्दनात्। सह युद्धं हि मे ताभ्यां साम्पराये भविष्यति॥ 8-36-42 (56678) श्वभ्रे ते पततां चक्रमिति मां ब्राह्मणोऽब्रवीत्। युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकायनं भयम्॥ 8-36-43 (56679) तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम्। एते हि सोमराजान ईश्वराः सुखदुःखयोः॥ 8-36-44 (56680) कदाचिब्राह्मणस्याथ योग्यहेतेरहं नृप। अजानन्नक्षिपं बाणं घोररूपं भयावहम्॥ 8-36-45 (56681) होमधेन्वास्ततो वत्सः प्रमत्त इषुणा हतः। चरन्वै विजने शल्य ततोऽनु व्याजहार सः॥ 8-36-46 (56682) यस्माद्वत्सस्त्वया चात्र होमधेन्वा हतो नृप। तस्मात्त्वमपि राधेय वाक्शल्यं महदाप्नुहि॥ 8-36-47 (56683) श्वभ्रे ते पतिता चक्रं युध्यमानस्य शत्रुणा। प्राप्त एकायने काले मृत्युसाधारणे त्वयि॥ 8-36-48 (56684) स्पर्धसे येन सङ्ग्रामे यदर्थं घटसेऽनिशम्। तत एव ध्रुवं मृत्युं सूत प्राप्स्यसि संयुगे॥ 8-36-49 (56685) अहं प्रसादयाञ्चक्रे ब्राह्मणं संशितव्रतम्॥ 8-36-50 (56686) गवां दशशतं वित्तं बलीवर्दांश्च षट्शतम्। प्रच्छन्नं काञ्चनैः कामं ब्राह्मणार्थमहं तदा॥ 8-36-51 (56687) दासीशतं निष्ककण्ठं शतमश्वतरीरथान्। कन्यानां निष्ककण्ठीनां सहस्रं समलंकृतम्॥ 8-36-52 (56688) ईषादन्तान्नागशतान्दासीदासशतानि च। दद्मि तैर्द्विजमुख्यो मे प्रसादं न चकार सः॥ 8-36-53 (56689) कृष्णानां श्वेतवत्सानां गोशतानि चतुर्दश। ददन्हि न लभे तस्मात्प्रसादं द्विजसत्तमात्॥ 8-36-54 (56690) यत्किञ्चिन्मामकं वित्तं त्वदधीनं करोमि तत्। इति मां याचमानं वै ब्राह्मणः प्रत्यवारयत्। क्रोधदीप्तेक्षणः शळ्य निर्दहन्निव चक्षुषा॥ 8-36-55 (56691) व्याहृतं यन्मया सूत तत्तथा न तदन्यथा। अनृतोक्तं प्रजां हन्यात्ततः पापमवाप्नुयाम्॥ 8-36-56 (56692) तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे। मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया॥ 8-36-57 (56693) मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि। `यन्मयोक्तं सरोषेण गच्छ सूतज माचिरम्॥ 8-36-58 (56694) इति मामसकृत्क्रुद्धः स उवाच द्बिजोत्तमः। एते हि सोमराजान ईश्वराः सुखदुःखयोः॥ 8-36-59 (56695) नाहं बिभेमि बीभत्सोर्न शल्य मधुसूदनाम्। तस्माद्बिभेम्यहं शापात्तेन सत्येन ते शपे॥ 8-36-60 (56696) सह युद्धं समेताभ्यामद्येदं समुपस्थितम्। युद्वेऽस्मिञ्जीवितं मेऽद्य शल्य संशयमागतम्॥ 8-36-61 (56697) शक्रोऽप्यमरराट् ताभ्यामुपगम्याहवं सह। संशयं परमं गच्छेत्कथं वा मन्यते भवान्॥ 8-36-62 (56698) इत्येवं ते मयाऽऽख्यातं क्षिप्तेन न सुहृत्तया। जानामि त्वाऽधिक्षिपन्तं दोषमात्मगतं शृणु'॥ ॥ 8-36-63 (56699) इति श्रीमन्महाभारते कर्णपर्वणि षट्तत्रिंशोऽध्यायः॥ 36 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-36-9 चेलिवान् चलितवान्॥ 8-36-11 कर्मकाले स्वप्रतिज्ञारक्षणकाले॥ 8-36-14 अस्त्रं ततौ रामदत्तादस्त्रादन्यत्प्रतिपन्नं प्राप्त अहिबाणाख्य मित्यर्थः॥ 8-36-24 रथमार्गेष्यसक्तं इति ट.पाठः। रथमार्गेष्वनित्यं इति ख.पाठः॥ 8-36-26 खाण्डवे खाण्डxxxxx 8-36-31 आर्जवे कर्तव्ये सति॥ 8-36-34 अहं सिद्धिं काङ्क्षमाणोऽस्मि। त्वं तु तन्मन्यसे यत्र ऐकान्त्यं सख्यां नास्ति। अस्मत्पक्षीयोप्यन्यतत्र स्नोहवानसीत्यर्थः। तदेवाह मित्रमिति। मिन्दयति मेदयति वा स्नेहार्थान्मिन्देर्मिदेर्वा मित्रमिति रूपम्। नन्दतेरित्यतत्र मदतेरिति पाठः। मदी हर्षे इत्यस्य वा रूपम्। मादयनि तर्पयतीति वा मादयतेर्मित्रम्। मिदतेस्त्राणार्थस्य वा मिदेरिदं रूपम्। नन्दयतेः प्रीयतेः संन्त्रायततेर्वाऽर्थे वर्तमानस्य मिदेर्मित्रमिति वार्थः। मिनुते मानं करोति सर्वे हितमस्य सङ्गृह्णातीति वा मोदतेऽस्य सुखेनेति वा मित्रमित्येतेऽर्थाः मयि सन्तीत्यर्थः॥ 8-36-35 शत्रुरिति शदेः शातनार्थात् शास्तेः शासनार्थात् श्यतेस्तनूकरणार्थात् शृणातेर्हिसार्थात् श्वसतेरुच्छ्वासार्थादन्तर्भावितण्यर्थात् सीदतेः सूदतेर्वा दन्त्यस्थाने तालव्यस्योपसर्जनात् शत्रुरिति शब्द उतत्पन्नस्तदर्थश्च सर्वस्त्वय्यस्तीत्यर्थः॥ 8-36-44 सोमराजान ब्राह्मणाः॥ 8-36-57 मा त्वं ब्राह्मणगर्हः स्याः इति क.पाठः॥ 8-36-58 तदनुव्याहृतं कुर्यात्सर्वलोकेपि सूतज इति ख.पाठः। नैतत्ते व्याहृतं कुर्यां सममेकोऽपि सूततज इति क.ड.पाठः। नैतदव्याहतं कुर्यात्सर्वलोकोऽपि सूतज इति ट.पाठः॥ 8-36-36 षट्त्रिंशोऽध्यायः॥
कर्णपर्व - अध्याय 037

॥ श्रीः ॥

8.37. अध्यायः 037

Mahabharata - Karna Parva - Chapter Topics

कर्णेन सोपहासं शल्यगर्हणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-37-0 (56700) सञ्जय उवाच। 8-37-0x (4933) ततः पुनर्महाराज मद्रराजमरिन्दमः। अभ्यभाषत राधेयः सन्निवार्योत्तरं वचः॥ 8-37-1 (56701) निर्भर्त्सनार्थं शल्य त्वं यत्तु जल्पितवानसि। नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे॥ 8-37-2 (56702) यदि मां देवताः सर्वा योधयेयुः सवासवाः। तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात्॥ 8-37-3 (56703) नाहं भीषयितुं शक्यः शुद्धकर्णा महाहवे। अभिजानीहि शक्तस्त्वमन्यं भीषयितुं रणे॥ 8-37-4 (56704) नीचस्य बलमेतावत्पारुष्यं यतत्त्वमात्थ माम्। अशक्तो हि गुणान्वक्तुं वल्गसे बहु दुर्मते॥ 8-37-5 (56705) न हि कर्णः समुद्भूतो भयार्थमिह मद्रक। विक्रमार्थमहं जातो यशोर्थं च तथाऽऽत्मनः॥ 8-37-6 (56706) सखिभावेन सौहार्दान्मितत्रभावेन चैव हि। कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि साम्प्रतम्॥ 8-37-7 (56707) राज्ञश्च धार्तराष्ट्रस्य कार्यं सुमहदुद्यतम्। मयि तच्चाहितं शल्य तेन जीवसि मे क्षणम्॥ 8-37-8 (56708) कृतश्च समयः पूर्वं क्षन्तव्यं विप्रियं तव। `समयः परिपाल्यो मे तेन जीवसि साम्प्रतम्'॥ 8-37-9 (56709) ऋते शल्यसहस्रेण विजयेयमहं परान्। मित्रद्रोहस्तु पापीयानिति जीवसि साम्प्रतम्॥ 8-37-10 (56710) शल्य उवाच। 8-37-11x (4934) आर्तप्रलापांस्त्वं कर्ण यान्ब्रवीषि परान्प्रति। न ते कर्णसहस्रेण शक्या जेतुं परे युधि॥ 8-37-11 (56711) सञ्जय उवाच। 8-37-12x (4935) तथा ब्रुवन्तं परुषं कर्णो मद्राधिपं तदा। परुषं द्विगुणं भूयः प्रोवाचाप्रियदर्शनम्॥ 8-37-12 (56712) इदं त्वमेकाग्रमनाः शृणु मद्रजनाधिप। सन्निधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम्॥ 8-37-13 (56713) देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान्। ब्राह्मणाः कथयन्ति स्म धृतराष्ट्रनिवेशने॥ 8-37-14 (56714) तत्र वृद्धः पुरावृत्ताः कथाः कश्चिद्द्विजोत्तमः। बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत्॥ 8-37-15 (56715) बहिष्कृता हिमवतता गङ्गया च तिरस्कृताः। सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये॥ 8-37-16 (56716) पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः। तान्धर्मबाह्यानशुचीन्बाह्लीकानपि वर्जयेत्॥ 8-37-17 (56717) गोवर्धनो नाम वटः सुभाण्डं नाम पत्तनम्। एतद्राजन्कलिद्वारमाकुमारात्स्मराम्यहम्॥ 8-37-18 (56718) कार्येणात्यर्थगूढेन बाह्लीकेषूषितं मया। तत एषां समाचारः संवासाद्विदितो मया॥ 8-37-19 (56719) शाकलं नाम नगरमापगानामनिम्नगा। चण्डाला नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम्॥ 8-37-20 (56720) पानं गुडासवं पीत्वा गोमांसं लशुनैः सह। अपूपसक्तुमद्यानामाशिताः शीलवर्जिताः॥ 8-37-21 (56721) गायन्त्यथ च नृत्यन्ति स्त्रियो मत्ता विवाससः। नगरापणवेशेषु बहिर्माल्यानुलेपनाः॥ 8-37-22 (56722) मत्ताः प्रगीतविरुतैः खरोष्ट्रनिनदोपमैः। अनावृता मैथुने ताः कामचाराश्च सर्वशः॥ 8-37-23 (56723) आहुरन्योन्यसूक्तानि प्रब्रुवाणा मदोत्कxxxः। हेहतेहेहतेत्येवं स्वामिभर्तृहतेति च॥ 8-37-24 (56724) आक्रोशन्त्यः प्रनृत्यन्ति व्रात्याः पर्वस्वसंयताः। तासां किलावलिप्तानां निवसन्कुरुजाङ्गले॥ 8-37-25 (56725) कश्चिद्बाह्लीकदुष्टानां नातिहृष्टमना जगौ। सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी॥ 8-37-26 (56726) मामनुस्मरती शेते बाह्लीकं कुरुवासिनम्। शतद्रुं नु कदा तीर्त्वा तां च रम्यामिरावतीम्। गत्वा स्वदेशं द्रक्ष्यामि स्थूलजङ्घाः शुभाः स्त्रियः॥ 8-37-27 (56727) मनःशिलोज्ज्वलापाङ्ग्यो गौर्यस्ताः काकुकूजिताः। कम्बलाजिनसंवीता रुदन्त्यः प्रियदर्शनाः॥ 8-37-28 (56728) मृदङ्गानकशङ्खानां मर्दलानां च निःस्वनैः। खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम्॥ 8-37-29 (56729) शमीपीलुकरीराणां वनेषु सुखवर्त्मसु। अपूपान्सक्तुपिण्डांश्च प्राश्नन्तो मथितान्वितान्॥ 8-37-30 (56730) पथिषु प्रबलो भूत्वा तथा सम्पततोऽध्वगान्। चेलापहारं कुर्वाणास्ताडयिष्याम भूयसः॥ 8-37-31 (56731) एवंशीलेषु व्रात्येषु बाह्लीकेषु दुरात्मसु। कश्चेतयानो निवसेन्मुहूर्तमपि मानवः॥ 8-37-32 (56732) कर्ण उवाच। 8-37-33x (4936) ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः। येषां षड्भागहर्ता त्वमुभयोः पुण्यपापयोः॥ 8-37-33 (56733) इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान्। बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोध तत्॥ 8-37-34 (56734) ततत्र स्म राक्षसी गाति कृष्णचतुर्दशीम्। नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम्॥ 8-37-35 (56735) कथं वस्तादृशो गाथाः पुनर्गास्यामि शाकले। गव्यस्य तृप्ता मांसस्य पीत्वा गौडं सुरासवम्॥ 8-37-36 (56736) गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृता। पलाण्डुगण्डूषयुताः खादन्तश्चेशिकान्बहून्॥ 8-37-37 (56737) वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम्। धानाश्च ये न खादन्ति तेषां जन्म निरर्थकम्॥ 8-37-38 (56738) एवं गायन्ति ये मत्ताः शीधुना पीलुकावने। सबालवृद्धाः क्रन्दन्ति तेषां धर्मः कथं भवेत्॥ 8-37-39 (56739) यत्र लोकेश्वरः कृष्णो देवदेवो जनार्दनः। विस्मृतः पुरुषैरुग्रैस्तेषां धर्मः कथं भवेत्॥ 8-37-40 (56740) इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते। यदन्योप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि॥ 8-37-41 (56741) पञ्चनद्यो वहन्त्येता यत्र पीलुवनान्युत। शतद्रुश्च विपाशा च तृतीयैरावती तथा॥ 8-37-42 (56742) चन्द्रभागा वितस्ता च सिन्धुषष्ठा महानदी। आरट्टा नाम बह्लीका एतेष्वार्यो हि नो वसेत्॥ 8-37-43 (56743) व्रात्यानां दासमीयानां विदेहानामयज्वनाम्। न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा॥ 8-37-44 (56744) तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः। ब्राह्मणेन यथा प्रोक्तं विदुषा साधुसंसदि॥ 8-37-45 (56745) काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते। सक्तुमद्यावलिप्तेषु श्वावलीढेषु निर्घृणाः॥ 8-37-46 (56746) आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च। तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च॥ 8-37-47 (56747) पात्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः। आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता॥ 8-37-48 (56748) इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते। यदन्योऽप्युक्तवान्मह्यं ब्राह्मणः कुरुसंसदि॥ 8-37-49 (56749) युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले। तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति॥ 8-37-50 (56750) पञ्चनद्यो वहन्त्येता यत्र निःसृत्य पर्वतात्। आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत्॥ 8-37-51 (56751) बाह्लीका नाम हीकश्च विपाशायां पिशाचकौ। तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः॥ 8-37-52 (56752) ते कथं विविधान्धर्माञ्ज्ञास्यन्ते हीनयोनयः॥ 8-37-53 (56753) कारस्करान्माहिषकान्करम्भान्कटकालिकान्। कर्करान्वीरकान्वीरा उन्मत्तांश्च विवर्जयेत्॥ 8-37-54 (56754) इति तीर्थानुसञ्चारी राक्षसी काचिदब्रवीत्। एकरात्रमुषित्वेह महोलूखलमेखला॥ 8-37-55 (56755) आरट्टा नाम ते देशा बाह्लीकं नाम तद्वनम्। वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः॥ ॥ 8-37-56 (56756) इति श्रीमन्महाभारते कर्णपर्वणि सप्तत्रिंशोऽध्यायः॥ 37 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-37-8 एतदेव त्रयं व्याचष्टे राज्ञश्चेत्यादिना॥ 8-37-17 पञ्चानां वक्ष्यमाणानाम्। सिन्धुः षष्ठी यासाम्। अन्तरमवकाशमाश्रिताः॥ 8-37-18 गोवर्धनः गवां छेदनस्थानम्॥ 8-37-20 वृत्तं चरित्रम्॥ 8-37-23 अनावृताः स्वपरपुरुषविवेकहीनाः॥ 8-37-24 सूक्तानि विनोदवचनानि। हेहते भोलिङ्गताडिते xxxक्रोशे द्वित्वम्। संधिश्छान्दसः। स्वामिहते भर्तृहते इति च तद्वत्॥ 8-37-25 पर्वसु उत्सवदिनेषु आक्रोशन्त्यः गालयन्त्यः। तासां पतिरिति शेषः॥ 8-37-29 खरादियानैः॥ 8-37-30 मथितं तक्रम्॥ 8-37-31 भूयसः बहून्॥ 8-37-38 वाराहं विड्वाहजम॥ 8-37-37 सप्तत्रिंशोऽध्यायः॥
कर्णपर्व - अध्याय 038

॥ श्रीः ॥

8.38. अध्यायः 038

Mahabharata - Karna Parva - Chapter Topics

शल्यकर्णयोर्वाक्कलहः॥ 1 ॥ दुर्योधनेन तयोः सान्त्वनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-38-0 (56757) कर्ण उवाच। 8-38-0x (4937) इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते। उन्यमानं मया सम्यक्त्वमेकाग्रमनाः शृणु॥ 8-38-1 (56758) ब्राह्मणः किल नो गेहमध्यगच्छत्पुराऽतिथिः। आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत्॥ 8-38-2 (56759) मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम्। दृष्टाश्च बहवो देशा नानाधर्मसमावृताः॥ 8-38-3 (56760) न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः। सर्वाश्चाप्याचरन्धर्मं यदुक्तं वेदपारगैः॥ 8-38-4 (56761) अटता तु मया देशान्नानाधर्मसमाकुलान्। आगच्छता महाराज बाह्लीकेषु निशामितम्॥ 8-38-5 (56762) तत्र वै ब्राह्मणो भूत्वा पुनर्भवति क्षत्रियः। वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः॥ 8-38-6 (56763) नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः। द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते॥ 8-38-7 (56764) भवन्त्येककुले विप्राः शिष्टा ये कामचारिणः। गान्धारा मद्रकाश्चैव बाह्लीकाश्चाप्यतेजसः॥ 8-38-8 (56765) एतन्मया श्रुतं तत्र धर्मसङ्करकारकम्। कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः॥ 8-38-9 (56766) इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते। यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितं॥ 8-38-10 (56767) आनीयेहाक्षता काचिदारट्टात्किल दस्युभिः। अधर्मतश्चोपयाता सा तानभ्यशपत्ततः॥ 8-38-11 (56768) बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ। तस्मात्कुमार्यः स्वैरिण्यो भविष्यन्ति कुलेषु वः॥ 8-38-12 (56769) न चैवास्मात्प्रमोक्षध्वं घोराच्छापान्नराधमाः। तस्मात्तेषां भागहरः कथं धर्मान्वदिष्यसि॥ 8-38-13 (56770) कुरवः सहपाञ्चालाः साल्वा मात्स्याः सनैमिशाः। कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा॥ 8-38-14 (56771) चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम्। नानादेशेष्वसन्तश्च प्रायो बाह्यालयानृते॥ 8-38-15 (56772) आमत्स्येभ्यः कुरुपाञ्चालसाल्वा आनैमिशाच्चेदयो ये विशिष्टाः। धर्मं पुराणमुपजीवन्ति सन्तो मद्रानृते पाञ्चनदांश्च जिह्मान्॥ 8-38-16 (56773) एवं विद्वान्धर्मकथासु राजं-- स्तूष्णींभूतः शल्य भवेः सदा त्वम्। त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदुष्कृतस्य॥ 8-38-17 (56774) अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता। रक्षिता पुण्यभाग्राजा प्रजानां त्वं ह्यपुण्यभाक्॥ 8-38-18 (56775) पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते। धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः॥ 8-38-19 (56776) व्रात्यानां दाशकीयानां कृतेऽप्यशुभकर्मणाम्। ब्रह्मणा निन्दितान्धर्मान्कश्चित्सिद्धात्मकोऽब्रवीत्॥ 8-38-20 (56777) इति पाञ्चनदं धर्मवमेने पितामहः। स्वधर्मस्थेषु वर्णेषु सोऽप्येतान्नाभ्यपूजयत्॥ 8-38-21 (56778) इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते। कल्माषपादः सरसि निम़ज्जन्राक्षसोऽब्रवीत्॥ 8-38-22 (56779) क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम्। मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम्॥ 8-38-23 (56780) निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम्। अपृच्छत्तेन चाख्यातं तच्छृणुष्व नराधिप॥ 8-38-24 (56781) मानुषाणां मलं म्लेच्छा म्लेच्छानां मुष्टिका मलम्। मुष्टिकानां मलं षण्ढाः षण्ढानां राजयाजकाः॥ 8-38-25 (56782) राजयाजकयाज्यानां मद्रकाणां च यन्मलम्। तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि॥ 8-38-26 (56783) इति रक्षोपसृष्टेषु विषवीर्यहतेषु च। विद्वद्भिर्भेषजं दृष्टं संसिद्धवचनोत्तरम्॥ 8-38-27 (56784) ब्राहयाः पञ्चालाः कौरवेयास्तु धर्म्याः सत्या मत्स्याः शूरसेनाश्च याज्याः। प्राच्या दासा वृषला दाक्षिणात्याः स्तेना बाह्लीकाः सङ्कार वै सुराष्ट्राः॥ 8-38-28 (56785) कृतघ्नता परवित्तापहारो मद्यपानं गुरुदारावमर्दः। वाक्पारुष्यं गोवधो रात्रिचर्या बहिर्गेहं परवस्त्रोपभोगः॥ 8-38-29 (56786) येषां धर्मस्तान्प्रति नास्त्यधर्मो ह्यारट्टजान्पाञ्चनदान्धिगस्तु। आपाञ्चालाः कुरवो नैमिशाश्च मत्स्याश्चैवाप्यनुजानन्ति धर्मम्। अथोदीच्याश्चोदयो भागधाश्च शिष्टान्धर्मानुपजीवन्ति वृद्धाः॥ 8-38-30 (56787) प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः। दक्षिणा पितृभिर्गुप्ता यमेन शुभकर्मणा॥ 8-38-31 (56788) प्रतीचीं वरुणः पाति पालयन्नसुरान्बहून्। उदीचीं भगवान्सोम ब्रह्मा च ब्राह्मणैः सह॥ 8-38-32 (56789) रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः। ध्रुवं सर्वाणि भूतानि विष्णुः पाति सुरोत्तमः॥ 8-38-33 (56790) इङ्गित5आश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः। अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दाक्षिणापथाः॥ 8-38-34 (56791) पार्वतीयाश्च विषया यथैव गिरयस्तथा। सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः। म्लेच्छाः स्वसंज्ञानियता नानुक्तमितरे जनाः॥ 8-38-35 (56792) प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः। स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि॥ 8-38-36 (56793) एवं ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म क्रुद्धः पापभृतां वरिष्ठ। पूर्वं हत्वा त्वां सपुत्रं बलैश्च पश्चाद्धंस्ये वासुदेवार्जुनौ च॥ 8-38-37 (56794) शल्य उवाच। 8-38-38x (4938) आतुराणां परित्यागः स्वदारसुतविक्रयः। अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान्॥ 8-38-38 (56795) रथातिरथसङ्ख्यायां यत्त्वां भीष्मस्तदाब्रवीत्। तान्विदित्वाऽत्मनो दोषान्निर्मन्युर्भव मा क्रुधः॥ 8-38-39 (56796) सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः। वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः॥ 8-38-40 (56797) रमन्ते चोपहासेन पुरुषाः पुरुषैः सह। अन्योन्येन रताः क्षीबा देशेदेशे च मैथुनम्॥ 8-38-41 (56798) परवाच्येषु निपुणः सर्वो भवति सर्वदा। आत्मवाच्यं न जानीते जानन्नपि च मुह्यति॥ 8-38-42 (56799) सर्वत्र सन्ति राजनः स्वंस्वं धर्ममनुव्रताः। दुर्मनुष्यान्निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः॥ 8-38-43 (56800) न कर्ण देशसामान्यात्सर्वः पापं निषेवते। यादृशाः स्वस्वभावेन देशांस्तांस्तादृशान्विदुः॥ 8-38-44 (56801) सञ्जय उवाच। 8-38-45x (4939) तततो दुर्योधनो राजा कर्णशल्याववारयत्। सखिभावेन राधेयं शल्यं सौजन्यकेन च॥ 8-38-45 (56802) ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष। प्हहस्य तत्र राजेन्द्रं यादि शल्येत्यचोदयत्॥ ॥ 8-38-46 (56803) इति श्रीमन्महाभारते कर्णपर्वणि अष्टत्रिंशोऽध्यायः॥ 38 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-38-5 निशामिर्त श्रुतम्॥ 8-38-6 ब्राह्मणो भूत्केत्यादि तज्जातीयकर्माचरणनिवन्धनम्॥ 8-38-8 विप्राः प्रसृष्टा इति पाठे कुले एकएव विप्रो भवत्यन्ये भ्रातरः प्रसृष्टाः सङ्कीर्णिक्रिया इत्यर्थः॥ 8-38-9 तत्र बाह्लीकेषु। धर्मसङ्करकारको विपर्ययः श्रुत इति लिङ्गं विपरिणेयम्। विपर्ययो विहितवैपरीत्यम्॥ 8-38-20 कृते कृतयुगे॥ 8-38-21 नाभ्यपूजयत् न प्रशंसितवान्॥ 8-38-25 म्लेच्छाः पापरता धर्माधर्मविचारहीनाः। म्लेच्छः पापरते जातिभेदे स्यादपभाषणे इति विश्वः। षंढा वर्षवराः॥ 8-38-27 रक्षोपसृष्टेषु रक्षसा उपद्रुतेषु॥ 8-38-28 प्राच्या दासाः शूद्रधर्माणः। दाशा इति पाठे मत्स्यजीविनः। वृषं धर्मं लान्ति आददते ते वृषलाः धर्मसङ्ग्रहपराः धर्मद्रोहिण इति वा॥ 8-38-29 बहिर्गेहं रात्रिचर्या प्रच्छन्नं चौर्यपारदार्यादि॥ 8-38-31 प्राचीमित्यत्र जातवेद इत्यनेनाम्नेयीसहिता प्राची देवानामाश्रया दक्षिणा पितॄणां तत्रैव श्राद्धादिधर्मो दृश्यते॥ 8-38-32 एवं प्रतीचीं वरुणः उदीचीं सोम इति कुबेरेशानयोर्ग्रहणम्। परिशेषान्नैर्ऋत्यां वायव्यां च बाह्लीकाश्रयायां नैर्ऋतास्त्वादृशा वातूलाश्च सन्तीत्यर्थः॥ 8-38-33 तथा रक्षःपिशाचाश्च हिमवन्तं नगोत्तमम्। गुह्यकाश्च महाराज पर्वतं गन्धमादनम् इति झ पाठः। एवमपि सबाह्लीकान्सनैर्ऋतान् देशान् विष्णुः पाति पर्जन्यवत् न देशान्तरेष्विव बाह्लीकेषु विशेषतो देवतानुग्रहो दृश्यत इत्यभिप्रायः॥ 8-38-34 अतएव तेषां मौढ्यं वर्णयति इङ्गितज्ञाश्चति। अर्धोक्ताः कुरुपाञ्चालाः साल्वाः कृत्स्नानुशासनाः इति झ. पाठः॥ 8-38-35 विषमाः दुःखसाध्याः। सर्वं जानन्तोऽपि यवना म्लेच्छाश्च स्वसंज्ञायां स्वीयैः कृतो यो धर्मसंकेतस्तत्रैव नियताः। वैदिकं धर्मं न मानयन्तीत्यर्थः। इतरे त्वनुक्तं हितं नावबुध्यन्ते॥ 8-38-36 प्रतिरथा इतिपाठे हितवादिति प्रतिकूलाः। गुरुद्रोहिण इत्यर्थः। तादृशश्च त्वं हितोपदेष्टारं मां निन्दसीत्यर्थः॥ 8-38-38 अष्टत्रिंशोऽध्यायः॥
कर्णपर्व - अध्याय 039

॥ श्रीः ॥

8.39. अध्यायः 039

Mahabharata - Karna Parva - Chapter Topics

शल्यकर्णयोः संवादः॥ 1 ॥ सेनाद्वयस्य परस्परमेलनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-39-0 (56804) सञ्जय उवाच। 8-39-0x (4940) ततः परानीकभिदं व्यूहमप्रतिमं कृतम्। समीक्ष्य कर्णः पार्थानां धृष्टधुम्नाभिरक्षितम्॥ 8-39-1 (56805) प्रययौ रथघोषेण सिंहनादरवेण च। वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्॥ 8-39-2 (56806) सञ्जय उवाच। 8-39-3x (4941) ततः प्रयान्तं राधेयं मद्रराजः स्मयन्निव। अवधूय इदं वाक्यमब्रवीत्कुरुसन्निधौ॥ 8-39-3 (56807) चमूं तवेमां विपुलां समृद्वा-- मसङ्खेयामश्वनराकुलां च। तथा प्रवेष्टा समरे धनञ्जयः कक्षं दहन्दीप्त इवाश्रयाशी॥ 8-39-4 (56808) रथे स्तितौ वीरवरौ वरेण्यौ सिंहस्कन्धौ लोहितपद्मनेत्रौ। द्रष्टा भवानद्य विना प्रयत्ना-- त्तथाहि मे शकुना वेदयन्ति॥ 8-39-5 (56809) अद्य द्रष्टाऽसि तं वीरं श्वेताश्वं कृष्णसारथिम्। निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि॥ 8-39-6 (56810) अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ। वासुदेवार्जुनौ कर्ण द्रष्टाऽस्यमितविक्रमौ॥ 8-39-7 (56811) सारथिर्यस्य गोविन्दो गाण्डीवं यस्य कार्मुकम्। तं चेद्वन्ताऽसि राधेय त्वं नो राजा भविष्यसि॥ 8-39-8 (56812) प्रवात्येष महावायुरभितस्तव वाहिनीम्। क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम्॥ 8-39-9 (56813) पश्य कर्ण महाघोरं भयं वै रोमहर्षणम्। अर्कं जीमूतसङ्काशः कबन्धो वार्य तिष्ठति॥ 8-39-10 (56814) पश्य यूथं मृगशतं मृगाणां सर्वतोदिशम्। ररास दीप्तलाङ्गूलमादित्यामभि संस्थितम्॥ 8-39-11 (56815) पश्य काकांश्च गृध्रांश्च समवेतान्सहस्रशः। आदित्यमभिवीक्षन्ते ह्यशिवाः कर्ण सस्वराः॥ 8-39-12 (56816) श्वेतवाजिसमायुक्ते तव कर्ण महारथे। पताकाः प्रज्वलन्त्येता ध्वजश्चातीव कम्पते॥ 8-39-13 (56817) उदीर्यतो हयान्पश्य महाकायान्महाजवान्। प्लवमानान्महावीर्यानाकाशे गरुडानिव॥ 8-39-14 (56818) ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः। स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः॥ 8-39-15 (56819) शङ्खानां तुमुलः शब्दः श्रूयते रोमहर्षणः। आनकानां च राधेय मृदङ्गानां च हन्यताम्॥ 8-39-16 (56820) शृणु शब्दान्बहुविधान्नराश्वरथवाजिनाम्। ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम्॥ 8-39-17 (56821) हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः। सहेमचन्द्रताराभाः पताकाः किङ्गिणीयुताः॥ 8-39-18 (56822) नानावर्णा रणे भान्ति श्वसनेन प्रकम्पिताः। पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे॥ 8-39-19 (56823) ध्वजाः कणकणायन्ते वातेनातिसमीरिताः। सपताकरथाश्चापि पाञ्चालानां महात्मनाम्॥ 8-39-20 (56824) एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति। गजवाजिप्रणुन्ना च कम्पते कर्ण मेदिनी॥ 8-39-21 (56825) श्रूयते मेघसङ्काशो रथनेमिस्वनस्तथा। पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम्। प्रहरिष्यन्तमायान्तं कपिप्रवरकेतनम्॥ 8-39-22 (56826) गजाश्वरथपत्त्योघांस्तावकान्युधि निघ्नतः। ध्वजाग्रं दृश्यते तस्य ज्याशब्दश्चैव श्रूयते॥ 8-39-23 (56827) एष संशप्तकान्भूयस्तानेवाभिमुखो गतः। करोति कदनं चैष सङ्गामे द्विषतां बली॥ 8-39-24 (56828) सञ्जय उवाच। 8-39-25x (4942) इति ब्रुवाणं मद्रेशं कर्णः प्रोवाच मन्युमान्॥ 8-39-25 (56829) पश्य संशप्तकैः क्रुद्धैः समन्तात्समभिद्रुतः। एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते। एष दान्तोऽर्जुनः शल्य निमग्नः शोकसागरे॥ 8-39-26 (56830) शल्य उवाच। 8-39-27x (4943) वरुणं कोऽम्भसा हन्यादिन्धनेन च कोऽनलम्। कोवाऽनिलं निगृह्णीयात्पिबेद्वा को महार्णवम्॥ 8-39-27 (56831) ईदृग्रूपमहं मन्ये पार्थस्य युधि निर्जयम्। न हि शक्योऽर्जुनो जेतुं युधि देवासुरैरपि॥ 8-39-28 (56832) अथैघं परितोषस्ते वाग्भिस्त्वं सुमाना भव। न हि शक्यो युधा जेतुमन्यं कुरु मनोरथम्॥ 8-39-29 (56833) बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः। पातयेत्त्रिदिवाद्देवान्नार्जुनं समरे जयेत्॥ 8-39-30 (56834) पश्य कुन्तीसुतं भीमं वीरमक्लिष्टकारिणम्। प्रहरन्तं महाबाहुं स्थितं मेरुमिवाचलम्॥ 8-39-31 (56835) अमर्षी पुरुषव्याघ्रः सदा वैरमनुस्मरन्। एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान्॥ 8-39-32 (56836) एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः। तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जयः॥ 8-39-33 (56837) एतौ च पुरुषव्याघ्रावाश्विनेयौ महारथौ। नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ॥ 8-39-34 (56838) एते तिष्ठन्ति कार्ष्णेयाः पञ्च पञ्चाचला इव। योत्स्यमाना महावीर्या भीमार्जुनसमा युधि॥ 8-39-35 (56839) एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः। हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः॥ 8-39-36 (56840) यत्र कृष्णार्जुनौ वीरौ यत्र राजा युधिष्ठिरः। तत्र धर्मश्च सत्यं च यतो धर्मस्ततो जयः॥ 8-39-37 (56841) इति संवदतोरेव तयोः पुरुषसिंहयोः। ते सेने समसज्जेतां ङ्गायमुनवद्भृशम्॥ ॥ 8-39-38 (56842) इति श्रीमन्महाभारते कर्णपर्वणि एकोनचत्वारिंशोऽध्यायः॥ 39 ॥
कर्णपर्व - अध्याय 040

॥ श्रीः ॥

8.40. अध्यायः 040

Mahabharata - Karna Parva - Chapter Topics

दुर्योधनेन सेनाप्रोत्साहनम्॥ 1 ॥ भीमेन दुर्योधनपराजयपूर्वकं गजानीकवधः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-40-0 (56843) सञ्जय उवाच। 8-40-0x (4944) दुर्योधनस्ततः कर्णमुपेत्य भरतर्षभ। अब्रवीन्मद्रराजं च तथैवान्यान्महारथान्॥ 8-40-1 (56844) यदृच्छयाऽयमव्यग्रो धर्मः परमकः सखा। सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धमीदृशम्॥ 8-40-2 (56845) यादृशं क्षत्रियैः शूरैः शूराणां दीव्यतां युधि। इष्टं भवति राधेय तदिदं समुपस्थितम्॥ 8-40-3 (56846) हत्वा तु पाण्डवान्युद्धे स्थिरामुर्वीं प्रशासथ। निहता वा परैर्युद्धे वीरलोकानवाप्स्यथ॥ 8-40-4 (56847) दुर्योधनस्य वचनं श्रुत्वा तत्क्षत्रियर्षभाः। सिंहनादानुदक्रोशन्वादित्राणि च जघ्निरे॥ 8-40-5 (56848) तस्मिन्प्रमुदिते सैन्ये त्वदीये भरतर्षभ। हर्षयंस्तावकान्योधान्द्रौणिर्विचनमब्रवीत्॥ 8-40-6 (56849) प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम्। न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः॥ 8-40-7 (56850) स तेनाहममर्षेण पित्रर्थे चापि भारत। धृष्टद्युम्नमहत्वाऽहं न विमोक्ष्यामि दंशनम्॥ 8-40-8 (56851) कृत्वाऽनृतां प्रतिज्ञां वो नास्मि प्राप्ता महत्फलम्। अर्जुनं भीमसेनं च यश्च मां प्रतियोत्स्यति। सर्वांस्तान्प्रमथिष्यामि इति मे निश्चिता मतिः॥ 8-40-9 (56852) सञ्जय उवाच। 8-40-10x (4945) एवमुक्ते ततः सर्वा हर्षिता भारती चमूः। अभ्यवर्तत कौन्तेयांस्तथा तां चापि पाण्डवाः॥ 8-40-10 (56853) स सन्निपातो रथयूथपानां महाहवे भारत लोभनीये। जनक्षयः कालयुगान्तकल्पः प्रावर्तताग्रे कुरुसृञ्जयानाम्॥ 8-40-11 (56854) ततः प्रवृत्ते युधि सम्प्रहारे भूतानि सर्वाणि सदैवतानि। आसन्समेतानि सहाप्सरोभि-- निरीक्षतीभिर्युधि वीरसङ्घान्॥ 8-40-12 (56855) दिव्यैश्च गन्धैः परमैश्च पुष्पै-- रन्यैश्च रत्नैर्विविधैर्नराग्र्याः। रणेषु कर्मोद्वहताः प्रहृष्टा- ननन्दयन्नप्सरसः प्रहृष्टाः॥ 8-40-13 (56856) समीरणस्तांस्तु निषेव्य गन्धा-- न्निषेवते तानपि योधमुख्यान्। निषेव्यमाणास्त्वनिलेन योधाः परस्परं चुक्रुशुराजिमध्ये॥ 8-40-14 (56857) तथा तु तस्मिंस्तुमुले प्रवृत्ते दुर्योधनः क्रोधममृष्यमाणः। `अवेभ्य भीमं बलमध्यसंस्थः समार्पयत्क्षुद्रकाणां शतेन॥ 8-40-15 (56858) दुःशासनश्चित्रसेनश्च वीर-- स्तथोलूकः कितवः सौबलश्च। गजानीकैः सर्वतो भीमसेनं तथाविषक्तं सहसैवाभ्यगच्छन्॥ 8-40-16 (56859) तमापतन्तं सम्प्रेक्ष्य गजानीकं वृकोदरः। दुर्योधनं महाबाहुः शरवर्षैरवाकिरत्॥ 8-40-17 (56860) दुर्योधनं ततो भीमः सायकैर्वज्रसन्निभैः। पाण्डवो विमुखीकृत्य गजानभ्यद्रवद्बली॥ 8-40-18 (56861) ततः पावकसङ्काशैर्भीमबाणैरवक्रगैः। शलभैरिव नागांस्तानर्दयामास पाण्डवः॥ 8-40-19 (56862) ततः कुञ्जरयूथानि भीमसेनो महाबलः। व्यधमन्निशितैर्बाणैर्महावातो घनानिव॥ 8-40-20 (56863) नित्यमत्ताश्च मातङ्गाः शूरैर्मत्तैरधिष्ठिताः। आरोहकैर्महामात्रैस्तोमराङ्कुरापाणिभिः॥ 8-40-21 (56864) सुवर्णजालैः प्रच्छन्ना मणिजालैश्च कुञ्जराः। रूप्यजाम्बूनदाभासः क्षुरमालाभ्यलङ्कृताः॥ 8-40-22 (56865) वध्यमानाः शरै राजन्भीमसेनेन ते गजाः। विभिन्नहृदयाः केचित्तत्रैवाभ्यपतन्भुवि॥ 8-40-23 (56866) निपतद्भिर्महावेगैर्हेमभाण्डविभूषितैः। अशोभत महाराज धातुचित्रैरिवाचलैः॥ 8-40-24 (56867) दीप्ताभरणवद्भिश्च गजपृष्ठनिपातितैः। सङ्गरः शुशुभे राजन्क्षीणपुण्यैरिवामरैः॥ 8-40-25 (56868) महापरिघसङ्काशौ चन्दनागरुरूषितौ। अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ॥ 8-40-26 (56869) तस्य ज्यातलनिर्घोषमस्यतः सव्यदक्षिणम्। तं श्रुत्वाऽभ्यद्रवन्नागा भीमसेनभयार्दिताः॥ 8-40-27 (56870) तस्य भीमस्य तत्कर्म राजन्नेकस्य धीमतः। अपश्याम महाराज तद्भूतमिवाभवत्'॥ ॥ 8-40-28 (56871) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चत्वारिंशोऽध्यायः॥ 40 ॥
कर्णपर्व - अध्याय 041

॥ श्रीः ॥

8.41. अध्यायः 041

Mahabharata - Karna Parva - Chapter Topics

सेनाद्वये व्यूहरचनावर्णनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-41-0 (56872) सञ्जय उवाच। 8-41-0x (4946) ततः परानीकभिदं व्यूहमप्रतिमं महत्। समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम्॥ 8-41-1 (56873) प्रययौ रथघोषेण सिंहनादरवेण च। वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्॥ 8-41-2 (56874) वेपमान इव क्रोधाद्युद्वशौण्डः परन्तपः। प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ॥ 8-41-3 (56875) व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव। युधिष्ठिरं चाभ्यहनदपसव्यं चकारह॥ 8-41-4 (56876) कर्णस्य रथघोषेण मौर्वीनिष्पेषणेन च। सुसङ्ग्राहेण रश्मीनां समकम्पन्त सृञ्जयाः॥ 8-41-5 (56877) तानि सर्वाणि सैन्यानि कर्ण दृष्ट्वा विशाम्पते। बभूवुः सम्प्रहृष्टानि तावकानि युयुत्सया॥ 8-41-6 (56878) अश्रूयन्त ततो वाचस्तावकानां विशाम्पते। कर्णार्जुनमहायुद्धमेतदद्य भविष्यति॥ 8-41-7 (56879) अद्य दुर्योधनो राजा हतामित्रो भविष्यति। अद्य कर्णं रणे दृष्ट्वा फल्गुनो विद्रविष्यति॥ 8-41-8 (56880) अद्य तावद्वयं युद्धे कर्णस्यैवानुगामिनः। कर्णबाणमयं भीमं युद्धं द्रक्ष्याम संयुगे॥ 8-41-9 (56881) चिरकालेप्सितमिदमद्येदानीं भविष्यति। अद्य द्रक्ष्याम सङ्ग्रामं घोरं देवासुरोपमम्॥ 8-41-10 (56882) अद्येदानीं महद्युद्धं भविष्यति भयानकम्। अद्येदानीं जयो नित्यमेकस्यैकस्य वा रणे॥ 8-41-11 (56883) अर्जुनं किल राधेयो वधिष्यति महारणे। अथवा कं नरं लोके न स्पृशन्ति मनोरथाः॥ 8-41-12 (56884) इत्युक्त्वा विविधा वाचः कुरवः कुरुनन्दन। आजघ्नुः पटहांश्चैव तूर्यांश्चैव सहस्रशः॥ 8-41-13 (56885) भेरीनादांश्च विविधान्सिंहनादांश्च पुष्कलान्। मुरजानां महाशब्दानानकानां महारवान्॥ 8-41-14 (56886) नृत्यमानाश्च बहुशस्तर्जमानाश्च मारिष। अन्योन्यमभ्ययुर्युद्धे युद्धरङ्गगता नराः॥ 8-41-15 (56887) तेषां पदाता नागानां पादरक्षाः समन्ततः। पट्टसासिधराः शूराश्चापबाणमुसुण्ठिनः॥ 8-41-16 (56888) भिण्डिपालधराश्चैव शूरलहस्ताः सुचक्रिणः। तेषां समागमो घोरो देवासुररणोपमः॥ 8-41-17 (56889) धृतराष्ट्रं उवाच। 8-41-18x (4947) कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान्। धृष्टद्युम्नमुखान्सङ्ख्ये भीमसेनाभिरक्षितान्। सर्वानेव महेष्वासानजय्यानमरैरपि॥ 8-41-18 (56890) के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय। प्रविभज्य यथान्यायमवतस्थुः सुदंशिताः॥ 8-41-19 (56891) कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्। कथं चैतन्महद्युद्धं प्रावर्तत सुदारुणम्॥ 8-41-20 (56892) क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम्। को ह्यर्जुनस्य सान्निध्ये शक्तो जेतुं युधिष्ठिरम्॥ 8-41-21 (56893) सर्वभूतानि यो ह्येकः खाण्डवे जितबान्पुरा। कस्तमन्यस्तु राधेयात्प्रतियुध्येज्जिजीविषुः॥ 8-41-22 (56894) सञ्जय उवाच। 8-41-23x (4948) शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः। परिवार्य नृपान्सर्वान्सङ्ग्रामश्चाभवद्यथा॥ 8-41-23 (56895) कृपः शारद्वतो राजन्मागधाश्च तरस्विनः। सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः॥ 8-41-24 (56896) तेषां प्रपक्षे शकुनिरुलूकश्च महारथः। सादिभिर्विमलप्रासैस्तदानीमभ्यरक्षताम्॥ 8-41-25 (56897) गान्धारैश्चाप्यसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः। शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः॥ 8-41-26 (56898) चतुर्विंशत्सहस्राणि रथानामनिवर्तिनाम्। संशप्तका युद्वशौण्डा वामपाश्वमपालयन्॥ 8-41-27 (56899) समन्वितास्तव सुतैः कृष्णार्जुनजिघांसवः। तेषां प्रपक्षाः काम्भोजाः शकाश्च यवनैः सह॥ 8-41-28 (56900) निदेशात्सूतपुत्रस्य सरथाश्वेभपत्तयः। आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम्॥ 8-41-29 (56901) ततः सेनामुखे कर्णोऽप्यवातिष्ठत दंशितः। चित्रवर्माङ्गदः स्रग्वी पालयन्वाहिनीमुखम्॥ 8-41-30 (56902) रक्षमाणैः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः। वाहिनीं प्रमुखे वीरः सम्प्रकर्षन्नशोभत॥ 8-41-31 (56903) अशोकस्तु महाबाहुः सूर्यवैश्वानरप्रभः। महाद्विपस्कन्धगतः पिङ्गाक्षः प्रियदर्शनः। दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः॥ 8-41-32 (56904) तन्मध्ये स महाबाहुः स्वयं दुर्योधनो नृपः। चित्राश्वैश्चित्रसन्नाहैः सोदर्यैरभिरक्षितः॥ 8-41-33 (56905) रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः। अशोभत महाराज देवैरिव शतक्रतुः॥ 8-41-34 (56906) अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः। नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैः समन्विताः। अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः॥ 8-41-35 (56907) ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः। सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः॥ 8-41-36 (56908) तेषां पदातिनागानां पादरक्षाः सहस्रशः। पट्टसासिधराः शूरा बभूवुरनिवर्तिनः॥ 8-41-37 (56909) सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः। स व्यूहराजो विबभौ देवासुरचमूपमः॥ 8-41-38 (56910) बार्हस्पत्यः सुविहितो नायकेन विपश्चिता। नृत्यतीव महाव्यूहः परेषां भयमादधत्॥ 8-41-39 (56911) तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः। हस्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः॥ 8-41-40 (56912) ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः। धनञ्जयममित्रघ्नमेकवीरमुवाच ह॥ 8-41-41 (56913) पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे। युक्तं पक्षैः प्रपक्षैश्च परानीकं प्रकाशते॥ 8-41-42 (56914) तत्समीपगतं ह्येतत्प्रत्यमित्रं महद्बूलम्। यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम्॥ 8-41-43 (56915) सञ्जय उवाच। 8-41-44x (4949) एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत्॥ 8-41-44 (56916) यथा यथा भवानाह तत्तथा न तदन्यथा। यत्तस्य विहितं कार्यं तत्करिष्यामि सुव्रत। प्रधानमथ चैवास्य विनाशं च करोम्यहम्॥ 8-41-45 (56917) तस्मात्त्वं जहि राधेयं भीमसेनः सुयोधनम्। वृषसेनं च नकुलः सहदेवोऽपि सौबलम्॥ 8-41-46 (56918) दुःशानं शतानीको हार्दिक्यं शिनिपुङ्गवः। धृष्टद्युम्नो द्रोणसुतं स्वयं योत्स्याम्यहं कृपम्॥ 8-41-47 (56919) द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना। ते ते च तांस्तानहितानस्माकं घ्न्तु मामकाः॥ 8-41-48 (56920) सञ्जय उवाच। 8-41-49x (4950) इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः। व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम्॥ 8-41-49 (56921) धनञ्जयो महाराज दक्षिणं पक्षमास्थितः। भीमसेनो महाबाहुर्वामं पक्षमुपाश्रितः॥ 8-41-50 (56922) सात्यकिर्द्रौपदेयाश्च स्वयं राजा च पाण्डवः। व्यूहस्य प्रमुखे तस्थुः स्वेनानीकेन संवृताः॥ 8-41-51 (56923) स्वबलेनारिसैन्यं तत्प्रत्यवस्थाप्य पाण्डवः। प्रत्यव्यूहत्पुरस्कृत्य धृष्टद्युम्नशिखण्डिनौ॥ 8-41-52 (56924) तत्सादिनागकलिलं पदातिरथसङ्कुलम्। धृष्टद्युम्नमुखं घोरमशोभत महद्बलम्॥ ॥ 8-41-53 (56925) इति श्रीमन्महाभारते कर्णपर्वणि एकचत्वारिंशोऽध्यायः॥ 41 ॥
कर्णपर्व - अध्याय 042

॥ श्रीः ॥

8.42. अध्यायः 042

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-42-0 (56926) धृतराष्ट्र उवाच। 8-42-0x (4951) तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय। संशप्तकाः कथं पार्थं कथं कर्णं च पाण्डवाः॥ 8-42-1 (56927) एतद्विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यसि। न हि तृप्यामि वीराणां शृण्वानो युधि विक्रमम्॥ 8-42-2 (56928) सञ्जय उवाच। 8-42-3x (4952) तत्संस्थिमथो दृष्ट्वा प्रत्यमित्रं महद्बलम्। प्रत्यव्यूहत्ततः कर्णो हितार्थं तनयस्य ते॥ 8-42-3 (56929) तत्सादिनागकलिलं पदातिरथसङ्कुलम्। धृष्टद्युम्नमुखं घोरमशोभत महद्बलम्॥ 8-42-4 (56930) पारावतसवर्णाश्वश्चन्द्रसूर्यसमद्युतिः। स पार्षतो बभौ धन्वी कालो विग्रहवानिव॥ 8-42-5 (56931) पार्षतं त्वभितस्तस्थुर्द्रौपदेया युयुत्सवः। सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव॥ 8-42-6 (56932) अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे। क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः॥ 8-42-7 (56933) अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः। विजये धृतसङ्कल्पा मृत्युं कृत्वानिवर्तनम्॥ 8-42-8 (56934) तदश्वसङ्घबहुलं पत्तिनागरथाकुलम्। उदीर्यमाणं संरब्धं धनञ्जयमभिद्रवत्॥ 8-42-9 (56935) तदुद्यतं महत्सैन्यं सागरौघसमं जवे। पार्थवेलां समासाद्य विष्ठितं समदृश्यत॥ 8-42-10 (56936) मृद्गन्तं शवर्षौघैर्द्रुतमर्जुनमार्दयत्॥ 8-42-11 (56937) स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना। तस्यैव तु यथा राजन्निवातकवचैः सह॥ 8-42-12 (56938) रथानश्वान्ध्वजान्नागान्पत्तीन्गजगतानपि। इषून्धनूंषि खङ्गांश्च चक्राणि च परश्वथान्॥ 8-42-13 (56939) सायुधानुद्यतान्बाहून्विविधान्यायुधानि च। चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः॥ 8-42-14 (56940) तस्मिन्सैन्यमहावर्ते पातालतलसन्निभे। निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा॥ 8-42-15 (56941) स पुरस्तादरीन्हत्वा पुनरुत्तरतोऽवधीत्। दक्षिणेन च पश्चाच्च क्रुद्धो रुद्रः पशूनिव॥ 8-42-16 (56942) अथ पाञ्चालचेदीनां सृढ्जयानां च मारिष। त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः॥ 8-42-17 (56943) कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः। हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः॥ 8-42-18 (56944) कोसलैः काश्यमत्स्यैश्च कारूशैः केकयैरपि। शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः॥ 8-42-19 (56945) तेषामन्तकरं युद्धं देहपाप्मविनाशनम्। क्षत्रविट्शूद्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम्॥ 8-42-20 (56946) दुर्योधनोऽथ सहितो भ्रातृभिर्भरतर्षभ। गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः॥ 8-42-21 (56947) पाण्डवैः सह पाञ्चालैश्चेदिभिः सात्यकेन च। युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत्॥ 8-42-22 (56948) कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम्। प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत्॥ 8-42-23 (56949) विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः। युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत्॥ 8-42-24 (56950) तद्विगाह्य महानीकं सूतपुत्रो महारथः। नदीं प्रवर्तयामास शोणितौघतरङ्गिणीम्॥ 8-42-25 (56951) शोणितोदां क्षुण्णमत्स्थां नागनक्रदुरत्ययाम्। मांलमज्जाकर्दमिनीं चक्रकूर्ममहोडुपाम्॥ 8-42-26 (56952) पातितैर्मेघसङ्काशैस्तत्रतत्र महाद्विपैः। अशनीभिरिव ध्वस्ता नदी राजन्विराजते॥ 8-42-27 (56953) तां शरोर्मिमहावर्तां छत्रहंससमाकुलाम्। तनुत्रोष्णीषसङ्घाटामस्थिपाषाणसङ्कुलाम्॥ 8-42-28 (56954) अपारामनपारां च शङ्खदुन्दुभिघोषिणीम्। रौद्रां नदीं महाराज रजसा सर्वतोवृताम्॥ 8-42-29 (56955) अतितीक्ष्णां नराकीर्णां नदीमन्तकगामिनीम्। समं च विषमं चैव समायान्तीं महाभयाम्॥ 8-42-30 (56956) आकुलाश्चात्र सीदन्ति नराः शोणितकर्दमे। नरैरभिपरिक्षिप्ता यथा राजन्महाद्रुमाः॥ 8-42-31 (56957) ततस्ते तत्रतत्रैव प्रचरन्तो महानदीम्। विचेरुः सर्वतो योधा नौवारणमहारथैः॥ 8-42-32 (56958) शोणितेन समं राजन्कृतमासीत्समन्ततः। नदीवेगैर्यथा भूमिस्तद्वदासीद्विशापते॥ 8-42-33 (56959) एवं भारत सङ्ग्रामो नरवाजिगजक्षयः। कुरूणां सृञ्जयानां च देवासुरसमोऽभवत्॥ ॥ 8-42-34 (56960) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विचत्वारिंशोऽध्यायः॥ 42 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-42-20 क्षत्रविठ्शूद्रवीराणामित्यनेन ब्राह्मणादृते युद्धं सर्वेषां श्रेयस्करमित्यर्थः॥ 8-42-24 युक्त्वा योजयित्वा॥ 8-42-42 द्विचत्वारिंशोऽध्यायः॥
कर्णपर्व - अध्याय 043

॥ श्रीः ॥

8.43. अध्यायः 043

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-43-0 (56961) धृतराष्ट्र उवाच। 8-43-0x (4953) युक्तं प्रविश्य पार्थानां सैन्यं कुर्वञ्जनक्षयम्। कर्णो राजानमभ्येत्य तन्ममाचक्ष्व स़ञ्जय॥ 8-43-1 (56962) के च प्रवीराः पार्थानां युधि कर्णमवारयन्। कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत्॥ 8-43-2 (56963) सञ्जय उवाच। 8-43-3x (4954) धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान्। समभ्यधावत्त्वरितः पाञ्चालाञ्छत्रुकर्शनः॥ 8-43-3 (56964) तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः। प्रत्युद्ययुर्महात्मानं हंसाः सर इवोष्णगे॥ 8-43-4 (56965) ततः शङ्खसहस्राणां निःस्वनो हृदयङ्गमः। प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः॥ 8-43-5 (56966) नानाबाणनिनादश्च द्विपाश्वरथनिःस्वनः। सिंहनादश्च वीराणामभवद्दारुणस्तदा॥ 8-43-6 (56967) साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम्। सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं विघूर्णिता॥ 8-43-7 (56968) इति भूतानि तं शब्दं मेनिरे ते च विव्यथुः। यानि चाप्यल्पसत्वानि प्रायस्तानि मृतानि वै॥ 8-43-8 (56969) अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन्। जघान पाण्डवीं सेनामासुरीं मघवानिव॥ 8-43-9 (56970) स पाण्डवबलं कर्णः प्रविश्य विसृजञ्छरान्। प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम्॥ 8-43-10 (56971) ततः सुपुङ्खैर्निशितैरथ श्रष्ठो रथेषुभिः। अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम्॥ 8-43-11 (56972) सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः। चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः॥ 8-43-12 (56973) तं तथा समरे कर्म कुर्वाणमतिमानुषम्। परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः॥ 8-43-13 (56974) ततः सन्धाय विशिखान्पञ्च भारत दुःसहान्। पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः॥ 8-43-14 (56975) भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत। तपनं शूरसेनं च पाञ्चालानहनद्रणे॥ 8-43-15 (56976) पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः। हाहाकारो महानासीत्पाञ्चालानां महाहवे॥ 8-43-16 (56977) तेषां सह्क्रीडमानानां हाहाकारं प्रकुर्वताम्। पुनरेव च तान्कर्णो जघानाशु पतत्त्रिभिः॥ 8-43-17 (56978) चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ। सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम्॥ 8-43-18 (56979) पृष्ठगोप्ता तु कर्णस्य ज्येष्ठः पुत्रो महारथः। वृषसेनोऽन्वयात्कर्णं पृष्ठतः परिपालयन्॥ 8-43-19 (56980) धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः। जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः॥ 8-43-20 (56981) चेदिकेकयपाञ्चाला यमौ मात्स्याश्च दंशिताः। समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणम्॥ 8-43-21 (56982) त एनं विविधैः शस्त्रैः शरधाराभिरेव च। अभ्यवर्षन्विमर्दन्तं प्रावृषीवाम्बुदा गिरिम्॥ 8-43-22 (56983) पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः। त्वदीयाश्चापरे राजन्वीरा वीरानवारयन्॥ 8-43-23 (56984) सुषेणो भीमसेनस्य च्छित्त्वा भल्लेन कार्मुकम्। नाराचैः सप्तबिर्विद्ध्वा हृदि भीमं ननाद ह॥ 8-43-24 (56985) अथान्यद्वनुरादाय सुदृढं भीमविक्रमः। सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्वनुः॥ 8-43-25 (56986) विव्याध चैनं दशभिः क्रुद्धो नृत्यन्निवेषुभिः। कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः॥ 8-43-26 (56987) सत्यसेनं च दशभिः साश्वसूतायुधध्वजम्। पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत्॥ 8-43-27 (56988) क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम्। शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम्॥ 8-43-28 (56989) हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत्। कृपहार्दिक्ययोश्छित्त्वा चापौ तावप्यथार्दयत्॥ 8-43-29 (56990) दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः। उलूकं च पतत्रिं च चकार विरथावुभौ॥ 8-43-30 (56991) हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम्। तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत्॥ 8-43-31 (56992) अथान्यं परिजग्राह सुपर्वाणं सुतेजनम्। सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः॥ 8-43-32 (56993) पुनः कर्णस्त्रिसप्तत्या भीमसेनमथेषुभिः। पुत्रं परीप्सन्विव्याध क्रुद्धः शत्रुजिघांसया॥ 8-43-33 (56994) सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम्। नकुलंपञ्चभिर्बाणैर्बाह्वोरुरसि चार्पयत्॥ 8-43-34 (56995) नकुलस्तं तु विंशत्या विद्व्वा भारसहैर्दृढैः। ननाद बलवन्नादं कर्णस्य भयमादधत्॥ 8-43-35 (56996) तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः। चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः॥ 8-43-36 (56997) अथान्यद्वनुरादाय नकुलः क्रोधमूर्च्छितः। सुषेणं नवभिर्बाणैर्वारयामास संयुगे॥ 8-43-37 (56998) स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा॥ आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः। चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा॥ 8-43-38 (56999) अथान्यद्वनुरादाय सुषेणः क्रोधमूर्च्छितः। आविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः॥ 8-43-39 (57000) तद्युद्धं सुमहद्धोरमासीद्देवासुरोपमम्। निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति॥ 8-43-40 (57001) सात्यकिर्वृषसेनं तु विद्ध्वा सप्तभिरायसैः। `पुनर्विव्याध सप्तत्या सारथिं च त्रिभिः शितैः॥ 8-43-41 (57002) वृषसेनस्तु शैनेयं शरेणानतपर्वणा। आजघान महाराज शङ्खदेशे महारथम्॥ 8-43-42 (57003) शैनेयो वृषसेनेन पत्रिणा परिपीडितः। कोपं चक्रे महाराज क्रुद्धो वेगं च दारुणम्॥ 8-43-43 (57004) जग्राहेषुवरान्वीरः शीघ्रं वै दश पञ्च च। सात्यकिर्वृषसेनस्य सूतं हत्वा त्रिभिः शरैः'॥ 8-43-44 (57005) धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः। ध्वजमेकेषुणोन्मथ्य त्रिभिश्तं हृद्यताडयत्॥ 8-43-45 (57006) अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः। स रणे युयुधानेन विसूताश्वरथध्वजः। कृतो जिघांसुः शैनेयं खङ्गचर्मधृगभ्ययात्॥ 8-43-46 (57007) तस्य चापततः शीघ्रं वृषसेनस्य सात्यकिः। वाराहकर्णैर्दशभिरविध्यदसिचर्मणी॥ 8-43-47 (57008) दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम्। आरोप्य स्वरथं तूर्णमपोवाह रथान्तरम्॥ 8-43-48 (57009) अथान्यं रथमास्थाय वृषसेनो महारथः। द्रौपदेयांस्त्रिसप्तत्या युयुधानं च पञ्चभिः॥ 8-43-49 (57010) भीमसेनं चतुःषष्ट्या सहदेवं च पञ्चभिः। नकुलं त्रिंशता बाणैः शतानीकं च सप्तभिः॥ 8-43-50 (57011) शिखण्डिनं च दशभिर्धर्मराजं शतेन च। एतांश्चान्यांश्च राजेन्द्र प्रवीराञ्चयगृद्धिनः॥ 8-43-51 (57012) अभ्यर्दयन्महेष्वासः कर्णपुत्रो विशाम्पते। कर्णस्य युधि दुर्धर्षस्ततः पृष्ठमपालयत्॥ 8-43-52 (57013) युयुधानं च राधेयो नवैर्नवभिरायसैः। विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत्॥ 8-43-53 (57014) स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः। युयुधे पाण्डुभिः सार्धं कर्णस्य व्यधमद्बलम्॥ 8-43-54 (57015) धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः। द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः॥ 8-43-55 (57016) भीमसेनश्चतुःषष्ट्या सहदेवश्च सप्तिभिः। नकुलस्त्रिंशता बाणैः शतानीकस्तु सप्तभिः॥ 8-43-56 (57017) शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु। एते चान्ये च राजेन्द्र प्रवीरा जयगृद्विनः। अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे॥ 8-43-57 (57018) तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शरैः। रथेनानुचरन्वीरः प्रत्यविध्यदरिन्दमः। 8-43-58 (57019) `सात्यकिं भीमसेनं च धृष्टद्युम्नं शिखण्डिनम्। द्रौपदेयांश्च संरब्धान्यतमानान्महारथान्॥ 8-43-59 (57020) पश्यतां सर्वसैन्यानामथैनान्सूतनन्दनः। विरथान्रथिनः श्रेष्ठान्निमेषार्धाच्चकार ह॥ 8-43-60 (57021) अमोघत्वाच्च बाणानां भूतसङ्घा विसिप्मयुः'॥ 8-43-61 (57022) तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः। अपश्याम महाभाग तदद्भुतमिवाभवत्॥ 8-43-62 (57023) न ह्याददानं ददृशुः सन्दधानं च सायकान्। विमुञ्चन्तं च संरम्भाद पश्यन्नैव तं जनाः॥ 8-43-63 (57024) प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात्। न च पश्याम राजेन्द्र क्व नु कर्णो व्यतिष्ठत॥ 8-43-64 (57025) इषूनेवास्य पश्यामो विनिकीर्णाऽन्समन्ततः। छादयानान्दिशो राजञ्शलभानामिव व्रजान्॥ 8-43-65 (57026) तस्य तैरिषुभिस्त्रीक्ष्णैः सम्पतद्भिः सहस्रशः। मरीचिभिरिवोष्णांशोः शरैः सन्नतपर्वभिः॥ 8-43-66 (57027) व्याप्ताः सर्वा दिशो राजन्योधाश्च ददृशुस्तदा। शरैः संवृतमाकाशं तत्राभ्रैरिव चाभवत्॥ 8-43-67 (57028) द्यौर्वियद्भूर्दिशश्चैव प्रच्छन्ना निशितैः शरैः। अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत्॥ 8-43-68 (57029) ततः पुनरमेयात्मा कर्णो राजा महारथः। न्यहनत्समरे योधान्योधवृत्तमनुष्ठितः॥ 8-43-69 (57030) नृत्यन्निव हि राधेयश्चापहस्तो रणाजिरे। यैर्विद्वः प्रत्यविद्व्यत्तानेकैकं त्रिगुणैः शरैः॥ 8-43-70 (57031) शतैश्च दशभिश्चैतान्पुनर्विद्ध्वा ननाद च। साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः॥ 8-43-71 (57032) `ते हन्यमानाः कर्णेन पलायन्त दिशो दश। नादयन्तो दिशः सर्वाः कर्मत्रस्ता विचेतसः'॥ 8-43-72 (57033) तान्प्रमथ्य महेष्वासान्राधेयः शरवृष्टिभिः। राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः॥ 8-43-73 (57034) स रथांस्त्रिशतं हत्वा चेदीनामनिवर्तिनाम्। राधेयो निशितैर्बाणैस्ततोऽभ्यागाद्युधिष्ठिरम्॥ 8-43-74 (57035) `ततस्ते विरथाः शूरा रथानन्यान्समास्थिताः। परिवव्रुर्महाराज धर्मपुत्रं युधिष्ठिरम्'॥ 8-43-75 (57036) ततस्ते तु परे राजञ्छिखण्डी च ससात्यकिः। राधेयात्परिरक्षन्तो राजानं पर्यवारयन्। मुञ्चन्तो विविधान्बाणान्स्वर्णपुङ्खाञ्शिलाशितान्॥ 8-43-76 (57037) तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे। यत्ताः शूरा महेष्वासाः पर्यरक्षन्त सर्वशः॥ 8-43-77 (57038) नानावादित्रघोषाश्च प्रादुरासन्विशाम्पते। सिंहनादश्च सञ्जज्ञे शूराणामभिगर्जताम्॥ 8-43-78 (57039) ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः। युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम्॥ ॥ 8-43-79 (57040) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिचत्वारिंशोऽध्यायः॥ 43 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-43-1 अभ्येत्य यदकरोत्तन्ममाचक्ष्वेत्यन्वयः॥ 8-43-22 विमर्दन्तं विमृद्रन्तम्॥ 8-43-71 विवरं अन्तरं ददुः प्रसृता इत्यर्थः॥ 8-43-43 त्रिचत्वारिंशोऽध्यायः॥
कर्णपर्व - अध्याय 044

॥ श्रीः ॥

8.44. अध्यायः 044

Mahabharata - Karna Parva - Chapter Topics

कर्णेन युधिष्ठिरस्य पराजयपूर्वकमपहासः॥ 1 ॥ सङ्कुलयुद्धम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-44-0 (57041) सञ्जय उवाच। 8-44-0x (4955) विदार्य कर्णस्तां सेनां युधिष्ठिरमथाद्रवत्। रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः॥ 8-44-1 (57042) नानायुधसहस्राणि प्रेरितान्यरिभिर्वृषः। छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमात्॥ 8-44-2 (57043) निचकर्त शिरांस्येषां बाहूनूरूंश्च सूतजः॥ ते हता भूतले पेतुर्भग्नाश्चान्ये विदुद्रुवुः॥ 8-44-3 (57044) द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः। प्रभ्यद्रवञ्जिघांसन्तः पत्तयः कर्णमाहवे॥ 8-44-4 (57045) ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः। पेतुः पृथिव्यां युगपच्छिन्नं सालवनं यथा॥ 8-44-5 (57046) एवं योधशतान्याजौ सहस्राण्ययुतानि च। हतानीयुर्महीं देहैर्यशसाऽपूरयन्दिशः॥ 8-44-6 (57047) अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम्। रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधा इव॥ 8-44-7 (57048) स तान्प्रमृद्याब्यपतत्पुनरेव युधिष्ठिरम्। मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा॥ 8-44-8 (57049) स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः। नाशकत्तानतिक्रान्तुं मृत्युर्ब्राह्मविदो यथा॥ 8-44-9 (57050) ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम्। `तैर्योधप्रमुखैर्वीरं दृष्ट्वा विव्याध सायकैः॥ 8-44-10 (57051) कर्णः पार्थशराविद्धस्तोत्रार्दित इव द्विपः। प्रमथ्य सहितान्वीरान्युधिष्ठिरमपीडयत्॥ 8-44-11 (57052) ततो युधिष्ठिरः कर्णमासाद्य जयतां वरम्'। अब्रवीत्परवीरघ्नं क्रोधसंरक्तलोचनः॥ 8-44-12 (57053) कर्णकर्ण वृथादृष्टे सूतपुत्र वचः शृणु। सदा स्पर्धसि सङ्ग्रामे फल्गुनेन तरस्विना॥ 8-44-13 (57054) यथाऽस्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः। यद्बलं यच्च ते वीर्यं प्रद्वेषो यस्तु पाण्डुषु॥ 8-44-14 (57055) तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः। युद्धश्रद्वां च तेऽद्याहं विनेष्यामि महाहवे॥ 8-44-15 (57056) एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा। सुवर्णपुङ्खैर्दशभिर्विव्यादायस्मयैः शरैः॥ 8-44-16 (57057) तं सूतपुत्रो दशभिः प्रत्यविद्ध्यदरिन्दमः। वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत॥ 8-44-17 (57058) सोऽवज्ञाय तु निर्विद्धः सूतपुत्रेण पाण्डवः। प्रजज्वाल ततः क्रोधाद्धविषेव हुताशनः॥ 8-44-18 (57059) ज्वालामालापरिक्षिप्तो राज्ञो देहो व्यदृश्यत। युगान्ते दग्धुकामस्य संवर्ताग्नेरिवापरः॥ 8-44-19 (57060) ततो विस्फार्य सुमहच्चापं हेमपरिष्कृतम्। समाधत्त शितं बाणं गिरीणामपि दारणम्॥ 8-44-20 (57061) ततः पूर्णायतोत्कृष्टं यमदण्डनिभं शरम्। मुमोच त्वरितो राजा सूतपुत्रजिघांसया॥ 8-44-21 (57062) स तु वेगवता मुक्तो बाणो वज्राशनिस्वनः। विवेश सहसा कर्णं सव्ये पार्श्वे महारथम्॥ 8-44-22 (57063) स तु तेन प्रहारेण पीडितः प्रमुमोह वै। स्रस्तगात्रो महाबाहुर्धनुरुत्सृज्य कम्पितः॥ 8-44-23 (57064) गतासुरिव निश्चेताः शल्यस्याभिमुखोऽपतत्। राजाऽपि भूयो नाजघ्ने कर्णं पार्थहितेप्सया॥ 8-44-24 (57065) ततो हाहाकृतं सर्वं धार्तराष्ट्रबलं महत्। विवर्णमुखमार्तं च कर्णं दृष्ट्वा तथागतम्॥ 8-44-25 (57066) सिंहनादाश्च सञ्जज्ञुः क्ष्वेलाः किलकिलास्तथा। पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम्॥ 8-44-26 (57067) प्रतिलभ्य तु राधेयः संज्ञां नातिचिरादिव। दध्रे राजविनाशाय मनः क्रूरपराक्रमः॥ 8-44-27 (57068) स हेमविकृतं चापं विस्फार्य विजयं महत्। अवाकिरदमेयात्मा पाण्डवं निशितैः शरैः॥ 8-44-28 (57069) ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः। जघान चन्द्रदेवं च दण्डधारं च संयुगे॥ 8-44-29 (57070) तावुभौ धर्मराजस्य प्रवीरौ युधि भारत। रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू॥ 8-44-30 (57071) युधिष्ठिरः पुनः कर्णमविद्व्यत्त्रिंशता शरैः। सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत्॥ 8-44-31 (57072) शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम्। तांस्तस्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः॥ 8-44-32 (57073) ततः प्रहस्याधिरथिः षष्ठ्या राजञ्शितैः शरैः। विद्ध्वा युधिष्ठिरं सङ्ख्ये ननादातिरथस्तदा॥ 8-44-33 (57074) ततः प्रवीराः पाण्डूनामभ्यधावन्नमर्षिताः। युधिष्ठिरं परीप्सन्तः कर्णमभ्यर्दयञ्छरैः॥ 8-44-34 (57075) सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च। धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः॥ 8-44-35 (57076) यमौ च भीमसेनश्च शिशुपालस्य चात्मजः। कारूशा मात्स्यशेषाश्च केकयाः काशिकोसलाः॥ 8-44-36 (57077) एते च त्वरिता वीरा वसुषेणमताडयन्। जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः॥ 8-44-37 (57078) वाराहकर्णनाराचैर्नालीकैर्निशितैः शरैः। वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः॥ 8-44-38 (57079) नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिभिः। सर्वतोऽभ्यद्रवत्कर्णं परिवार्य जिघांसया॥ 8-44-39 (57080) स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः। छाद्यमानः शिततैर्घोरैः स्वस्वनामाङ्कितैः शरैः॥ 8-44-40 (57081) न चचाल रणे कर्णो महेन्द्रो दानवैरिव। `निजघान महेष्वासान्पाञ्चालानेकविंशतिम्॥ 8-44-41 (57082) ततः पुनरमेयात्मा चेदीनां प्रवरान्दश। न्यहनद्भरतश्रेष्ठ कर्णो वैकर्तनस्तदा॥ 8-44-42 (57083) तस्य बाणसहस्राणि सम्प्रपन्नानि मारिष। दृश्यन्ते दिक्षु सर्वासु शलभानामिव व्रजाः॥ 8-44-43 (57084) कर्णनामाङ्किता बाणाः स्वर्णपुङ्खाः सुतेजनाः। नराश्वकायान्निर्भिद्य पेतुरुर्व्यां समन्ततः॥ 8-44-44 (57085) कर्णेनैकेन समरे चेदीनां प्रवरास्तदा। सृज्जयानां च सर्वेषां शतशो निहता रणे॥ 8-44-45 (57086) कर्णस्य शरसञ्छन्नं बभूव तुमुलं तमः। नाज्ञायत ततः किञ्चित्परेषामात्मनोऽपि वा॥ 8-44-46 (57087) तस्मिंस्तमसि भूते च क्षत्रियाणां भयङ्करे। विचचार महबिहुर्निर्दहन्क्षत्रियान्बहून्'॥ 8-44-47 (57088) ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः। निर्दहन्पाण्डववनं चारु पर्यचरद्रणे॥ 8-44-48 (57089) `ततस्तेषां महाराज पाण्डवानां महारथाः। सृञ्जयानां च सर्वेषां शतशोऽथ सहस्रशः। अस्त्रैः कर्णं महेष्वासं समन्तात्पर्यवारयन्॥ 8-44-49 (57090) स संवार्य महास्त्राणि महेष्वासो महात्मनाम्। प्रहस्य पुरुषेन्द्रस्य कर्णश्चिच्छेद कार्मुकम्'॥ 8-44-50 (57091) ततः सन्धाय नवतिं निमेषान्नतपर्वणाम्। बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः॥ 8-44-51 (57092) तद्वर्म हेमविकृतं रत्नचित्रं बभौ पतत्। सविद्युदभ्रं सवितुः श्लिष्टं वातहतं यथा॥ 8-44-52 (57093) तदङ्गात्पुरुषेन्द्रस्य भ्रष्टं वर्म व्यरोचत। रत्नैरलंवृतं चित्रेर्व्यभ्नं निशि यथा नभः॥ 8-44-53 (57094) भिन्नवर्मा शरैः पार्थो रुधिरेण समुक्षितः। बभासे पुरुषश्रेष्ठ उद्यन्निव दिवाकरः॥ 8-44-54 (57095) स शराचितसर्वाङ्गश्छिन्नवर्माऽथ संयुगे। क्षात्रं धर्मं समास्थाय सिंहनादमकुर्वत॥ 8-44-55 (57096) नर्दित्वा च चिरं कालं पाण्डवो रभसो रणे। शक्तिं चिक्षेप वेगेन प्रदीप्तामशनीमिव॥ 8-44-56 (57097) तां ज्वलन्तीमिवाकाशे शक्तिं शप्तभिराशुगैः। भल्लैश्चिच्छेद राधेयः सा त्वशीर्यत वै रणे॥ 8-44-57 (57098) हृदि बाह्वोर्ललाटे च क्षिप्रकारी युधिष्ठिरः। चतुर्भिस्तोमरैः कर्णं ताडयित्वाऽनदन्मुदा॥ 8-44-58 (57099) उद्भिन्नरुधिरः कर्णः क्रुद्वः सर्प इव श्वसन्। जघान सूतं पार्थस्य पार्ष्ठिं च नवभिः शरैः॥ 8-44-59 (57100) ध्वजं चिच्छेद नृपतेस्त्रिभिर्विव्याध चैव तम्। इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत्॥ 8-44-60 (57101) एतस्मिन्नन्तरे शूराः पाण्डवानां महारथाः। ववृषुः शरवर्षाणि राधेयं प्रति भारत॥ 8-44-61 (57102) सात्यकिः पञ्चविंशत्या शिखण्डी नवभिः शरैः। अवर्षतां महाराज राधेयं शत्रुकर्शनम्॥ 8-44-62 (57103) शैनेयं तु ततुः क्रुद्धः कर्णः पञ्चभिरायसैः। विव्याध समरे राजंस्त्रिभिश्चान्यैः शिलीमुखैः॥ 8-44-63 (57104) दक्षिणं तु भुजं तस्य त्रिभिः कर्णोऽभ्यविध्यत। सव्यं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः॥ 8-44-64 (57105) अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः। सूतपुत्रोऽनयत्क्षिप्रं यमस्य सदनं प्रति॥ 8-44-65 (57106) अथापरेण भल्लेन धनुश्छित्त्वा महारथः। सारथेः सशिरस्त्राणं शिरः कायादपाहरत्॥ 8-44-66 (57107) हताश्वसूते तु रथे स्थितः स शिनिपुङ्गवः। शक्तिं चिक्षेप कर्णाय वैदूर्यमणिभूषिताम्॥ 8-44-67 (57108) तामापतन्तीं सहसा द्विधा चिच्छेद भारत। कर्णो वै धन्विनां श्रेष्ठस्तांश्च सर्वानवारयत्॥ 8-44-68 (57109) ततस्तान्निशितैर्बाणैः पाण्डवानां महारथान्। न्यवारयदमेयात्मा शिक्षया च बलेन च॥ 8-44-69 (57110) अर्दयित्वा शरैस्तांस्तु सिंहः क्षुद्रमृगानिव। पीडयन्धर्मराजानं शरैः सन्नतपर्वमिः। अभ्यद्रवत राधेयो धर्मपुत्रं शितैः शरैः॥ 8-44-70 (57111) ततः पार्षो ह्यपासासीद्वताश्वो हतसारथिः। अशक्नुवन्मुखे स्थातुं ततः कर्णस्य दुर्मनाः॥ 8-44-71 (57112) तमभिद्रुत्य राधेयः पाण्डुपुत्रं युधिष्ठिरम्। अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम्॥ 8-44-72 (57113) कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः। प्रजह्यात्समरे शत्रून्प्राणान्रक्ष महाहवे॥ 8-44-73 (57114) न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः। ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि॥ 8-44-74 (57115) मा स्म युध्यस्व कौन्तेय मा स्म वीरान्समासदः। मा चैवं विप्रियं ब्रूहि मा च त्वं भज संयुगम्॥ 8-44-75 (57116) वक्तव्या मारिषाऽन्ये तु न वक्तव्यास्तु मादृशाः। मादृशान्हि ब्रुवन्युद्धे एतदन्यच्च लप्स्यसे॥ 8-44-76 (57117) स्वगृहं गच्छ कौन्तेय यत्र वा केशवार्जुनौ। न हि त्वां समरे राजन्हन्यात्कर्णः कथञ्चन॥ 8-44-77 (57118) सञ्जय उवाच। 8-44-78x (4956) वरप्रदानं कुन्त्यास्तु कर्णः स्मृत्वा महारथः। वधप्राप्तं तु कौन्तेयं नावधीत्पुरुषोत्तमः॥ 8-44-78 (57119) एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः। न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम्॥ 8-44-79 (57120) ततोऽपायाद्द्रुतं राजन्व्रीडन्निव नरेश्वरः॥ 8-44-80 (57121) अथापयातं राजानं मत्वाऽन्वीयुस्तमच्युतम्। चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः। द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ॥ 8-44-81 (57122) ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम्। कुरुभिः सहितो वीरः प्रहृष्टः पृष्ठतोऽन्वगात्॥ 8-44-82 (57123) भेरीशङ्खमृदङ्गानां कार्मुकाणां च निःस्वनः। बभूव धार्तराष्ट्राणां सिंहनादरवस्तथा॥ 8-44-83 (57124) युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरम्। श्रुतकीर्तेर्महाराज दृष्ट्वा तत्कर्णविक्रमम्॥ 8-44-84 (57125) काल्यमानं बलं दृष्ट्वा सूतपुत्रेण मारिष। स्वान्योधानब्रवीत्क्रुद्वो निघ्नतैतान्किमासत॥ 8-44-85 (57126) ततो राज्ञाऽभ्यनुज्ञाताः पाण्डवानां महारथाः। भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन्॥ 8-44-86 (57127) अभवत्तुमुलः शब्दो योधानां तत्र भारत। रथहस्त्यश्वपत्तीनां द्रवतां निनदो महान्। उद्यतप्रतिविष्टानां शस्त्राणां च ततस्ततः॥ 8-44-87 (57128) आगच्छत प्रहरत क्षिप्रं विपरिधावत। इति ब्रुवाणा ह्यन्योन्यं जघ्नुर्योधा महारणे॥ 8-44-88 (57129) अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे। समावृतैर्नरवरैर्निघ्नद्भिरितरेतरम्॥ 8-44-89 (57130) विपताकध्वजच्छत्रा व्यश्वसूतरथायुधाः। व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणाः क्षितीश्वराः। शिखराणीव शेलानां वज्रभिन्नानि मानिष॥ 8-44-90 (57131) सारोहा निहताः पेतुर्द्विपा भिन्ना महीतले। छिन्नभिन्नविपर्यस्तवर्मालङ्कारविग्रहाः॥ 8-44-91 (57132) सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः। विप्रविद्वायुधाङ्गाश्च द्विरदा रथिभिर्हताः। प्रतिवीरैश्च सम्मर्दे पत्तिसङ्घाः सहस्रशः॥ 8-44-92 (57133) विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः। शिरोभिर्युद्धशौण्डानां सर्वतः संवृता मही॥ 8-44-93 (57134) यथा भुवि तथा व्योम्नि निःस्वनं शुश्रुवुर्जनाः। विमानेऽप्सरसां सङ्घैर्गीतवादित्रनिःस्वनैः॥ 8-44-94 (57135) हतानभिमुखान्वीरान्वीरैः शतसहस्रशः। आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः॥ 8-44-95 (57136) तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया। प्रहृष्टमनसः शूराः क्षिप्रं जघ्नुः परस्परम्॥ 8-44-96 (57137) रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे। पत्तयः पत्तिभिर्नागाः सह नागैर्हयैर्हयोः॥ 8-44-97 (57138) एवं प्रवृत्ते सङ्ग्रामे गजवाजिनरक्षये। सैन्येन रजसा वृत्तते स्वे स्वाञ्जघ्नुः परे परान्॥ 8-44-98 (57139) कचाकचं युद्धमासीद्दन्तादन्ति नखानखि। मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम्॥ 8-44-99 (57140) तथा वर्ततति सङ्ग्रमे गजवाजिनरक्षये। नराश्वनागदेहेभ्यः प्रसृता लोहितापगा॥ 8-44-100 (57141) गजाश्वनरदेहान्सा व्युवाह पतितान्बहून्। नराश्वगजसम्बाधे नराश्वगजसादिनाम्॥ 8-44-10 (57142) लोहितोदा महाघोरा मांसशोणितकर्दमा। नराश्वगजदेहान्वै वहन्ती भीरुभीषणा॥ 8-44-10 (57143) तस्या नद्याः परं पारं व्रजन्ति विजयैषिणः। नागेन च प्लवन्तो वै निमज्ज्योन्मज्ज्य चापरे॥ 8-44-10 (57144) ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः। सस्नुस्ततस्यां पपुश्चास्रं मम्लुश्च भरतर्षभ॥ 8-44-10 (57145) रथानश्वान्नारान्नागानायुधाभरणानि च। वर्माणि चाप्यपश्याम पतितानि सहस्रशः। खं द्यां भूमिं दिशश्चैव प्रायः पश्याम लोहिताः॥ 8-44-10 (57146) लोहितस्य तु गन्धेन स्पर्देन च रसेन च। रूपेण चातिरक्ततेन शब्देन च विसर्पता। विषादः सुमहानासीत्प्रायः सैन्यस्य भारत॥ 8-44-10 (57147) तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव। भूयः समाद्रवन्वीराः सातत्यकिप्रमुखास्तदा॥ 8-44-10 (57148) तेषामापतततां वेगमविषह्यं निरीक्ष्य च। पुत्राणां ते महासैन्यमासीद्राजन्पराङ्मुखम्॥ 8-44-10 (57149) तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम्। विध्वस्तवर्मकवचं प्रविद्वायुधकार्मुकम्॥ 8-44-10 (57150) व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः। सिंहार्दितमिवारण्ये यथा गजकुलं तथा॥ ॥ 8-44-10 (57151) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुश्चत्वारिंशोऽध्यायः॥ 44 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-44-8 मन्त्रौषधक्रिया व्याधिर्विधिहीनक्रिया इव इति ख.ट.पाठः॥ 8-44-19 कचाकचि युद्धं इति झ.पाठः॥ 8-44-44 चतुश्चत्वारिंशोऽध्यायः॥
कर्णपर्व - अध्याय 045

॥ श्रीः ॥

8.45. अध्यायः 045

Mahabharata - Karna Parva - Chapter Topics

कर्णं पराजित्य जिघांसोर्भीमस्य शल्येन हेतुकयहपूर्वकं निषेधनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-45-0 (57152) सञ्जय उवाच। 8-45-0x (4957) तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्। 8-45-1 (57153) अन्तमद्य गमिष्यामि तस्य दुःखस्य पार्षत॥ 8-45-10 (57162) हन्तास्म्यद्य रणे कर्णं स वा मां निहनिष्यति। सङ्ग्रामेऽद्य सुघोरेऽस्मिन्सत्यमेतद्ब्रवीमि वः॥ 8-45-11 (57163) राजानमद्य भवतां न्यासभूतं ददानि वै। तस्य संरक्षणे सर्वे यतध्वं विगतज्वराः॥ 8-45-12 (57164) एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति। सिंहनादेन महता सर्वाः सन्नादयन्दिशः॥ 8-45-13 (57165) दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम्। सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः॥ 8-45-14 (57166) शल्य उवाच। 8-45-15x (4958) पश्य कर्ण महाबाहुं सङ्क्रुद्धं पाण्डुनन्दनम्। दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम्॥ 8-45-15 (57167) ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन। अभिमन्यौ हते कर्ण राक्षसे च घटोत्कचे॥ 8-45-16 (57168) त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे। बिभर्ति सदृशं रूपं युगान्ताग्निसमप्रभम्॥ 8-45-17 (57169) सञ्जय उवाच। 8-45-18x (4959) इति ब्रुवति राधेयं मद्राणामीश्वरे नृप। अभ्यवर्तत वै कर्णं क्रोधदीप्ततो वृकोदरः॥ 8-45-18 (57170) अथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम्। अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव॥ 8-45-19 (57171) यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर। भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः॥ 8-45-20 (57172) एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः। निरपेक्षः शरीरे च प्राणतश्च बलाधिकः॥ 8-45-21 (57173) अज्ञातवासं वसता विराटनगरे तदा। द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात्। गूढभावं समाश्रित्य कीचकः सगणो हतः॥ 8-45-22 (57174) सोऽद्य सङ्ग्रामशिरसि सन्नद्वः क्रोधमूर्च्छितः। किं करोद्यतदण्डेन मृत्युनापि व्रजेद्रणम्॥ 8-45-23 (57175) चिरकालाभिलषितो ममायं तु मनोरथः। अर्जुनं समरे हन्यां मां वा हन्याद्वनञ्जयः॥ 8-45-24 (57176) स मे कदाचिदद्यैव भवेद्भीमसमागमात्॥ 8-45-25 (57177) निहते भीमसेने वा यदि वा विरथीकृते। अभियास्यति मां पार्थस्तन्मे साधु भविष्यति। अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय॥ 8-45-26 (57178) सञ्जय उवाच। 8-45-27x (4960) एतच्छ्रुत्वा तु वचनं राधेयस्यामितौजसः। उवाच वचनं शल्यः सूतपुत्रं तथागतम्॥ 8-45-27 (57179) अभियाहि महाबाहो भीमसेनं महाबलम्। निरपेक्षश्च युध्यस्व शक्तिं स्वां सम्प्रदर्शयन्॥ 8-45-28 (57180) यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गततः। स वै सम्पत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते॥ 8-45-29 (57181) एवमुक्ते ततः कर्णः शल्यं पुनरभाषत। हन्ताऽहमेनं संरब्धं मां वा हन्ता वृकोदरः॥ 8-45-30 (57182) एवमुक्त्वा महाराज राधेयो रथिनां वरः। युद्धे मनः समाधाय याहि याहीत्यचोदयत्॥ 8-45-31 (57183) ततः प्रायाद्रथेनाशु शल्यस्तत्र विशाम्पते। यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम्॥ 8-45-32 (57184) ततस्तूर्यनिनादश्च भेरीणां च महास्वनः। उदतिष्ठच्च राजेन्द्र कर्णभीमसमागमे॥ 8-45-33 (57185) भीमसेनोऽथथ सङ्क्रुद्धस्तस्य सैन्यं दुरासदम्। नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली॥ 8-45-34 (57186) स सन्निपातस्ततुमुलो घोररूपो विशाम्पते। आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे॥ 8-45-35 (57187) ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव। भीमसेनो महाबाहुः कर्णं प्रेप्सुरभिद्रवत्॥ 8-45-36 (57188) समापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषा। आजघान सुसङ्क्रुद्धो नाराचेन स्तनान्तरे। पुनश्चैनममेयात्मा शरवर्षैरवाकिरत्॥ 8-45-37 (57189) स विद्वः सूतपुत्रेण च्छादयामास पत्रिभिः। विव्याध निशितैः कर्णं नवभिर्नतपर्वभिः॥ 8-45-38 (57190) तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिभिः॥ 8-45-39 (57191) अथैनं छिन्नधन्वानं प्रतत्यविध्यत्स्तनान्तरे। नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना॥ 8-45-40 (57192) सोऽन्यत्कार्मुकमादाय सूततपुत्रं वृकोदरः। राजन्मर्मसु मर्मज्ञो विव्याध निशितैः शरैः। ननाद बलवन्नादं कम्पयन्निव रोदसी॥ 8-45-41 (57193) ततं कर्णः पञ्चविंशत्या नाराचानां समार्पयत्। मदोत्कटं वने दृप्ततमुल्काभिरिव कुञ्जरम्॥ 8-45-42 (57194) ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः। संरम्भामर्षताम्राक्षः सूतपुत्रवधेप्सया॥ 8-45-43 (57195) स कार्मुके महावेगं भारसाधनमुत्तमम्। गिरीणामपि भेत्तारं सायकं समयोजयत्॥ 8-45-44 (57196) विकृष्य बलवच्चापमाकर्णादतिमारुतिः। तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया॥ 8-45-45 (57197) स विसृष्टो बलवता बाणो वज्राशनिस्वनः। अदारयद्रणे कर्णं वज्रवेगो यथाऽचलम्॥ 8-45-46 (57198) स भीमसेनाभिहतः सूतपुत्रः कुरूद्वह। निषसाद रथोपस्थे विसंज्ञः पृतनापतिः। `रुधिरेणावसिक्ताङ्गो गतासुवदरिन्दमः॥ 8-45-47 (57199) एतस्मिन्नन्तरे दृष्ट्वा मद्रराजो वृकोदरम्। जिघांसुं छेत्तुमायान्तं साधयन्निदमब्रवीत्॥ 8-45-48 (57200) भीमसेन महाबाहो यतत्तत्वां वक्ष्यामि तच्छृणु। वचनं हेतुसम्पन्नं श्रुत्वा चैतत्तथा कुरु॥ 8-45-49 (57201) अर्जुनेन प्रतिज्ञातो वधः कर्णस्य शुष्मिणः। तां तथा कुरु भद्रं ते प्रतिज्ञां सव्यसाचिनः॥ 8-45-50 (57202) भीमसेन उवाच। 8-45-51x (4961) दृढव्रतत्वं पार्थस्य जानामि नृपसत्तम। राज्ञस्तु धर्षणं पापः कृतवान्मम सन्निधौ॥ 8-45-51 (57203) ततः कोपाभिभूतेन शेषं न गणितं मया। पतिते चापि राधेये न मे मन्युः शमं गतः)। जिह्वोद्वरणमेवास्य प्राप्तकालं मतं मम॥ 8-45-52 (57204) अनेन सुनृशंसेन समवेतेषु राजसु। अस्माकं शृण्वतां शल्य यानि वाक्यानि मातुल। असहेयानि नीचानि बहूनि श्रावितानि भो॥ 8-45-53 (57205) नूनं चैतत्प्रतिज्ञातं दूरस्थस्यापि पार्थिव। छेदनं चास्य जिह्वायास्तदैवाकाङ्क्षितं मया। राज्ञस्तु प्रियकामेन कालोऽयं परिपालितः॥ 8-45-54 (57206) भवता तु यदुक्तोऽस्मि वाक्यं हेत्वर्थसंहितम्। तद्गृहीतं महारात कटुकस्थमिवौषधम्॥ 8-45-55 (57207) हीनप्रतिज्ञो बीभत्सुर्न हि जीवेत कर्हिचित्। अस्मिन्विनष्टे नष्टाः स्मः सर्व एव सकेशवाः॥ 8-45-56 (57208) अद्य चैव नृशंसात्मा पापः पापकृतां वरः। गमिष्यतति परीभावं दृष्टमात्रः किरीटिना॥ 8-45-57 (57209) युधिष्ठिरस्य कोपेन पूर्वं दग्धो नृशंसकृत्। त्वया संरक्षिततस्तत्वद्य मत्समीपादुपागतः॥ 8-45-58 (57210) सञ्जय उवाच।' 8-45-59x (4962) एवं मद्राधिपः श्रुत्वा विसंज्ञं सूतनन्दनम्। अपोवाह रथेनाजौ कर्णमाहवशोभिनम्॥ 8-45-59 (57211) पराजिते ततः कर्णे धार्तराष्ट्री महाचमूः। व्यपायात्सर्वतो भग्ना हाहाभूता समन्ततः॥ ॥ 8-45-60 (57212) इति श्रीमन्महाभारते कर्णपर्वणि सप्ततदशदिवसयुद्धे पञ्चचत्वारिंशोऽध्यायः॥ 45 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-45-59 ततो मद्राधिपो दृष्ट्वा इति झ.पाठः॥ 8-45-45 पञ्चत्वारिंशोऽध्यायः॥
कर्णपर्व - अध्याय 046

॥ श्रीः ॥

8.46. अध्यायः 046

Mahabharata - Karna Parva - Chapter Topics

भीमकर्णयोर्युद्धम्॥ 1 ॥ भीमेन दुर्योधनानुजानां कतिपयानां हननम्॥ 2 ॥ सङ्कुलयुद्धं च॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-46-0 (57213) धृतराष्ट्र उवाच। 8-46-0x (4963) सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय। येन कर्णो महाबाहू रथोपस्थे निपातितः॥ 8-46-1 (57214) कर्णो ह्येको रणे हन्ता पाण्डवान्सृञ्जयैः सह। इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः॥ 8-46-2 (57215) पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे। ततः परं किमकरोत्पुत्रो दुर्योधनो मम॥ 8-46-3 (57216) सञ्जय उवाच। 8-46-4x (4964) विमुखं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे। पुत्रस्तव महाराज सोदर्यानिदमब्रवीत्॥ 8-46-4 (57217) शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत। भीमसेनभयेऽगाधे म़ज्जन्तं व्यसनार्णवे॥ 8-46-5 (57218) ते तु राज्ञा समादिष्टा भीमसेनं जिघांसवः। अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गाः पावकं यथा॥ 8-46-6 (57219) श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः। निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ॥ 8-46-7 (57220) दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ। धनुर्ग्राहो दुर्मदश्च जलसन्धः शलः सहः॥ 8-46-8 (57221) एते रथैः परिवृता वीर्यवन्तो महाबलाः। भीमसेनं समासाद्य समन्तात्पर्यवारयन्॥ 8-46-9 (57222) ते व्यमुञ्चञ्छरव्रातान्नानालिङ्गान्समन्ततः। स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः॥ 8-46-10 (57223) तेषामापततां क्षिप्रं सुतानां ते जनाधिप। रथैः पञ्चशतैः सार्धं पञ्चाशदहनद्रथान्॥ 8-46-11 (57224) विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः। भीमसेनो महाराज तत्पपात हतं भुवि॥ 8-46-12 (57225) सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तथा। `अशोभत महाराज पूर्णचन्द्र इवाम्बरे'॥ 8-46-13 (57226) तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतस्तदा। अभ्यद्रवन्त समरे भीमं भीमपराक्रमम्॥ 8-46-14 (57227) ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे। जहार समरे प्राणान्भीमो भीमपराक्रमः॥ 8-46-15 (57228) तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ। विकटश्च सहश्चोमौ देवपुत्रोपमौ नृप॥ 8-46-16 (57229) ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम्। नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि॥ 8-46-17 (57230) हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर। वध्यमानेषु वीरेषु तव पुत्रेषु धन्विषु॥ 8-46-18 (57231) तेषां सुलुलिते सैन्ये पुनर्भीमो महाबलः। नन्दोपनन्दौ समरे प्रैषयद्यमसादनम्॥ 8-46-19 (57232) ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः। भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम्॥ 8-46-20 (57233) पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रः सुदुर्मनाः। हंसवर्णान्हयान्भूयः प्रैषयद्यत्र पाण्डवः॥ 8-46-21 (57234) ते प्रेषिता महाराज मद्रराजेन वाजिनः। भीमसेनरथं प्राप्य समसज्जन्त वेगिताः॥ 8-46-22 (57235) स सन्निपातस्तुमुलो घोररूपो विशाम्पते। आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे॥ 8-46-23 (57236) दृष्ट्वा मम महाराज तौ समेतौ महारथौ। आसीद्बुद्विः कथं युद्वमेतदद्य भविष्यति॥ 8-46-24 (57237) ततो भीमो रणश्लाघी छादयामास पत्रिभिः। कर्णं रणे महाराज पुत्राणां तव पश्यताम्॥ 8-46-25 (57238) ततः कर्णो भृशं क्रुद्धो भीमं नवभिरायसैः। विव्याध परमास्त्रज्ञो भल्लैः सन्नतपर्वभिः॥ 8-46-26 (57239) तान्निहत्य महाबाहुर्भीमो भीमपराक्रमः। आकर्णपूर्णैर्विशिखैः कर्णं विव्याध सप्तभिः॥ 8-46-27 (57240) ततः कर्णो महाराज आशीविष इव श्वसन्। शरवर्षेण महता छादयामास पाण्डवम्॥ 8-46-28 (57241) भीमोऽपि ततं शरव्रातैश्छादयित्वा महारथम्। पश्यतां कौरवेयाणां विननर्द महाबलः॥ 8-46-29 (57242) ततः कर्णो भृशं क्रुद्धो दृढमादाय कार्मुकम्। भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः। कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च॥ 8-46-30 (57243) ततो भीमो महाबाहुर्हेमपट्टविभूषितम्। परिघं घोरमादाय मृतत्युदण्डमिवापरम्। कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन्॥ 8-46-31 (57244) तमापतन्तं परिघं वज्राशनिसमस्वनम्। चिच्छेद बहुधा कर्णः शरैराशीविषोपमैः॥ 8-46-32 (57245) ततः कार्मुकमादाय भीमो दृढतरं तदा। छादयामास विशिखैः कर्णं परबलार्दनम्॥ 8-46-33 (57246) ततो युद्धमभूद्धोरं कर्णपाण्डवयोर्मृधे। बलीन्द्रयोरिव मुहुः परस्परवधैषिणोः॥ 8-46-34 (57247) ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः। आकर्णपूर्णैर्विव्याध दृढमानम्य कार्मुकम्॥ 8-46-35 (57248) सोऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः। घोरमादत्त विशिखं कर्णकायावदारणम्॥ 8-46-36 (57249) तस्य भित्त्वा तनुत्राणं भित्त्वा कायं च सायकः। प्राविशद्वरणीं राजन्वल्मीकमिव पन्नगः॥ 8-46-37 (57250) स तेनातिप्रहारेण व्यथितो विह्वलन्निव॥ सञ्चचाल रथे कर्णः क्षितिकम्पे यथाऽचलः॥ 8-46-38 (57251) ततः कर्णो महाराज रोषामर्षसमन्वितः। भीमं तं पञ्चविंशत्या नाराचानां समार्पयत्॥ 8-46-39 (57252) चिच्छेद कार्मुकं तूर्णं पाण्डवस्याशु पत्रिणा॥ 8-46-40 (57253) तततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्वसन्निव। विरथं भीमकर्माणं भीमं कर्णश्चकार ह॥ 8-46-41 (57254) विरथो भरतश्रेष्ठ प्रहसन्ननिलोपमः। गदां गृह्य महाबाहुरपतत्स्यन्दनोत्तमात्॥ 8-46-42 (57255) गदया च महाराज कर्णस्य रथकूबरम्। पोथयामास सङ्क्रुद्धः समरे शत्रुतापनः॥ 8-46-43 (57256) स क्रोधवशमापन्नः पाण्डुपुत्रः प्रतापवान्। विद्राव्य गदया वीरस्तव पुत्रान्महाहवे॥ 8-46-44 (57257) नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः। व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः॥ 8-46-45 (57258) दन्तवेष्टेषु नेत्रेषु कुम्भेषु च कटेषु च। मर्मस्वपि च मर्मज्ञस्तान्नागानवधीद्बली॥ 8-46-46 (57259) `अर्दिता भीमसेनेन विनदन्तो भृशातुराः'। ततस्ते प्राद्रवन्भीताः प्रहताश्च पुनःपुनः। महामात्रास्तमावव्रुर्मेघा इव दिवाकरम्॥ 8-46-47 (57260) तान्स सप्तशतान्नागान्सारोहायुधकेतनान्। भूमिष्ठो गदया जघ्ने वज्रेणेन्द्र इवाचलान्॥ 8-46-48 (57261) ततः सुबलपुत्रस्य नागानतिबलान्पुनः। पोथयामास कौन्तेयो द्विपञ्चाशदरिन्दमः॥ 8-46-49 (57262) तथा रथशततं साग्रं पत्तींश्च शतशोऽपरान्। न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम्॥ 8-46-50 (57263) प्रताप्यमानं सूर्येण भीमेन च महात्मना। तव सैन्यं सञ्चुकोच चर्माग्नावाहितं यथा॥ 8-46-51 (57264) ते भीमभयसन्त्रस्तास्तावका भरतर्षभ। विहाय समरे कर्णं दुद्रुवुर्वै दिशो दश॥ 8-46-52 (57265) रथाः पञ्चशताश्चान्ये हादिनः शरवर्षिणः। भीममभ्यद्रवन्घ्नन्तः शरपूगैः समन्ततः॥ 8-46-53 (57266) तान्स पञ्चशतान्वीरान्सपताकध्वजायुधान्। पोथयामास गदया भीमो विष्णुरिवासुरान्॥ 8-46-54 (57267) ततः शकुनिनिर्दिष्टाः सादिनः शूरसम्मताः। त्रिसाहस्राण्यभिययुः शरशक्त्यृष्टिपाणयः॥ 8-46-55 (57268) तान्प्रत्युद्गम्य यवनान्साश्वारोहांस्तदाऽरिहा। विविधान्विचरन्मार्गान्गदया समपोथयत्॥ 8-46-56 (57269) तेषामासीन्महाञ्छब्दस्ताडितानां च सर्वशः। अग्निभिर्दह्यमानानां नलानामिव भारत॥ 8-46-57 (57270) एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान्। हत्वाऽन्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात्॥ 8-46-58 (57271) कर्णोऽपि समरे राजन्धर्मपुत्रमरिन्दमम्। स शरैश्छादयामास सारथिं चाप्यपातयत्॥ 8-46-59 (57272) ततः स प्रद्रुतं सैन्यं दृष्ट्वा कर्णो महारथः। अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः॥ 8-46-60 (57273) राजानमभिधावन्तं शरैरावृत्य रोदसी। क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः॥ 8-46-61 (57274) सन्निवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः। भीमं प्रच्छादयामास समन्तान्निशितैः शरैः॥ 8-46-62 (57275) भीमसेनरथप्रेप्सुं कर्णं भारत सात्यकिः। अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात्॥ 8-46-63 (57276) भीमसेनरथप्रेप्सुं कर्णो भारत सात्यकिम्। अभ्यवर्तत शैनेयमर्दयञ्छरवृष्टिभिः॥ 8-46-64 (57277) तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम्। विसृजन्तौ शरान्दीप्तान्विभ्राजेतां मनस्विनौ॥ 8-46-65 (57278) ताभ्यां वियति राजेन्द्र विततततं भीमदर्शनम्। कौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत॥ 8-46-66 (57279) नैव सूर्यप्रभा राजन्न दिशः प्रदिशस्तथा। प्राज्ञासिष्म वयं ते वा शरैर्मुक्तैः सहस्रशः॥ 8-46-67 (57280) मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः। हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा॥ 8-46-68 (57281) सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम्। संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः॥ 8-46-69 (57282) तेषामापततां शब्दस्तीत्र आसीद्विशाम्पते। उद्वृत्तानां यथा वृष्ट्या सागराणां भयावहः॥ 8-46-70 (57283) ते सेने भृशसंसक्ते दृष्ट्वाऽन्योन्यं महाहवे। हर्षेण महता युक्ते परिगृह्य परस्परम्॥ 8-46-71 (57284) ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे। यादृशं नैवमस्माभिर्दृष्टपूर्वं न च श्रुतम्॥ 8-46-72 (57285) बलौघस्तु समासाद्य बलौघं सहसा रणे। उपसर्पत वेगेन वार्योघ इव सागरम्॥ 8-46-73 (57286) आसीन्निनादः सुमहान्बाणौघानां परस्परम्। गर्जतां सागरौघाणां यथा स्यान्निःस्वनो महान्॥ 8-46-74 (57287) ते तु सेने समासाद्य वेगवत्यौ परस्परम्। एकीभावमनुप्राप्ते नद्याविव समागमे॥ 8-46-75 (57288) ततः प्रववृते युद्धं घोररूपं विशाम्पते। कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः॥ 8-46-76 (57289) शूराणां गर्जतां तत्र ह्यविच्छेदकृता गिरः। श्रुयन्ते विविधा राजन्नामान्युद्दिश्य भारत॥ 8-46-77 (57290) यस्य यद्धि रणे व्यङ्गं पितृतो मातृतोऽपि वा। कर्मतः शीलतो वाऽपि स तच्छ्रावयते युधि॥ 8-46-78 (57291) तान्दृष्ट्वा समरे शूशांस्तर्जमानान्परस्परम्। अभवन्मे मती राजन्नैषामस्तीति जीवितम्॥ 8-46-79 (57292) तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम्। अभवन्मे भयं तीव्रं कथमेतद्भविष्यति॥ 8-46-80 (57293) ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः। ततक्षुः सायकैस्तूर्णमन्योन्यं विजयैषिणः॥ ॥ 8-46-81 (57294) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्चत्वारिंशोऽध्यायः॥ 46 ॥
कर्णपर्व - अध्याय 047

॥ श्रीः ॥

8.47. अध्यायः 047

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-47-0 (57295) सञ्जय उवाच। 8-47-0x (4965) क्षत्रियास्ते महाराज परस्परवधैषिणः। अन्योन्यं समरे जघ्नुः कृतवैरा महौजसः॥ 8-47-1 (57296) रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः। गजौघाश्च महाराज संसक्ताश्च परस्परम्॥ 8-47-2 (57297) गदानां परिघाणां च शक्तीनां च परस्परम्। प्रासानां भिण्डिपालानां मुसुण्ठीनां च सर्वशः॥ 8-47-3 (57298) सम्पातं चानुपश्याम सङ्ग्रामे भृशदारुणे। शलभा इव सम्पेतुः शरवृष्ट्यः समन्ततः॥ 8-47-4 (57299) नागान्नागाः समासाद्य व्यधमन्त परस्परम्। हया हयांश्च समरे रथिनो रथिनस्तथा॥ 8-47-5 (57300) पत्तयः पत्तिसङ्घांश्च हयसङ्घांश्च पत्तयः। पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च। नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप॥ 8-47-6 (57301) वध्यतां तत्र शूराणां क्रोशतां च परस्परम्। घोरमायोधनं जज्ञे पशूनां घातने यथा॥ 8-47-7 (57302) रुधिरेण समास्तीर्णा बभौ भारत मेदिनी। शक्रगोपगणाकीर्णा प्रावृषीव वसुन्धरा॥ 8-47-8 (57303) यथा वा वाससी शुक्ले महारजनरञ्जिते। बिभ्रती युवती श्यामा तद्वदासीद्वसुन्धरा॥ 8-47-9 (57304) `बद्वचूडामणिधरैः शिरोभिश्चारुकुण्डलैः। उज्झितैर्वृषभाक्षाणां भ्राजते स्म वसुन्धरा'॥ 8-47-10 (57305) शशशोणितदिग्धेव शातकुम्भमयीव च। `भूर्बभौ भरतश्रेष्ठ शान्तार्चिर्भिरिवानलैः॥' 8-47-11 (57306) छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह। कुण्डलानां पिनद्धानां भूषणानां च भारत॥ 8-47-12 (57307) निष्काणां हेमसूत्राणां शरीराणां च धन्विनाम्। चर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि। 8-47-13 (57308) `अगम्यकल्पा पृथिवी सर्वतो भृशकर्दमा'॥ गजा गजान्समासाद्य विषाणैरार्दयन्नृप। विषाणाग्रहतास्तत्र भ्राजन्ते द्विरदोत्तमाः। रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव। `प्रावृट्काले महाराज मेघा इव सविद्युतः'॥ 8-47-14 (57309) स्यन्दमाना यथा भान्ति पर्वता धातुमण्डिताः। `तथा रेजू रणे नागा रुधिरेण समाप्लुताः'॥ 8-47-15 (57310) तोमरान्सादिभिर्मुक्तान्प्रतिमानस्थितान्बहून्। हस्तैरुद्धृत्य तान्नागा बभञ्जुश्चापरे रणे॥ 8-47-16 (57311) नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः। हिमागमे यथा राजन्व्यभ्रा इव महीधराः॥ 8-47-17 (57312) शरैः कनकपुङ्खैश्च चिता रेर्जुर्गजोत्तमाः। उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव भारत॥ 8-47-18 (57313) केचिदभ्याहता नागैर्नागा नगवरोपमाः। न चेलुः समरात्तस्माच्छिन्नपक्षा इवाद्रयः॥ 8-47-19 (57314) अपरे प्राद्रवन्नागाः शरार्ता व्रणपीडिताः। प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे॥ 8-47-20 (57315) निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान्। वेमुश्च बहवो राजंश्चुक्रुशुश्चापरे गजाः॥ 8-47-21 (57316) हयाश्च निहता बाणैर्हेमभाण्डविभूषिताः। निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश॥ 8-47-22 (57317) अपरे क्लिश्यमानाश्च व्यवेष्टन्त महीतले। भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः॥ 8-47-23 (57318) नरास्तु निहता भूमौ कूजन्तस्तत्र मारिप। दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान्॥ 8-47-24 (57319) धावमानान्परांश्चान्ये दृष्ट्वान्ये तत्र भारत। ख्यातानि गोत्रनामानि शशंसुरितरेतरम्॥ 8-47-25 (57320) तेषां छिन्ना महाराज भुजाः कनकभूषणाः। उद्वेष्टन्ते विवेष्टन्ते भ्रमन्ति ह्युत्पतन्ति च॥ 8-47-26 (57321) निपतन्ति तथैवान्ये स्फुरन्ति च सहस्रशः। वेगांश्चान्ये रमे चक्रुः पञ्चास्या इव पन्नगाः॥ 8-47-27 (57322) ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशाम्पते। लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव॥ 8-47-28 (57323) वर्तमाने तथा घोरे सङ्कुले सर्वतो दिशम्। अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम्॥ 8-47-29 (57324) भौमेन रजसाकीर्णे शस्त्रसम्पातसङ्कुले। नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृताः॥ 8-47-30 (57325) तथा तदभवद्युद्धं घोररूपं भयानकम्। लोहितोदा महानद्यः प्रसस्रुस्तत्र चासकृत्॥ 8-47-31 (57326) शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः। अस्थिमीनसमाकीर्णा धनुःशरगदोडुपाः॥ 8-47-32 (57327) मांसशोणितपङ्किन्यो घोररूपाः सुदारुणाः। नदीः प्रवर्तयामासुः सोणितौघविवर्धिनीः॥ 8-47-33 (57328) भीरुवित्रासकारिण्यः शूराणां हर्षवर्धनाः। ता नद्यो घोररूपास्तु नयन्त्यो यमसादनम्॥ 8-47-34 (57329) अवगाढान्मज्जयन्त्यः क्षत्रस्याजनयन्भयम्। क्रव्यादानां नरव्याघ्र नर्दतां तत्रतत्र ह॥ 8-47-35 (57330) घोरमायोधनं जज्ञे प्रेतराजपुरोपमम्। उत्थितान्यगणेयानि कबन्धानि समन्ततः॥ 8-47-36 (57331) नृत्यन्ति वै भूतगणाः सुतृप्ता मांसशोणितैः। पीत्वा च शोणितं तत्र वसां भुक्त्वा च भारत॥ 8-47-37 (57332) मेदोमज्जावसामत्तास्तृप्ता मांसस्य चैव ह। धावमानाः स्म दृश्यन्ते काकगृघ्रबकास्तथा॥ 8-47-38 (57333) शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम्। योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत्॥ 8-47-39 (57334) शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले। व्यचरन्त रणे शूराः ख्यापयन्तः स्वपौरुषम्॥ 8-47-40 (57335) अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत। पितृनामानि च रणे गोत्रनामानि वा विभो॥ 8-47-41 (57336) श्रावयाणाश्च बहवस्तत्र योधा विशाम्पते। अन्योन्यमवमृद्रन्तः शक्तितोमरपट्टसैः॥ 8-47-42 (57337) वर्तमाने तथा युद्धे घोररूपे सुदारुणे। व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे॥ ॥ 8-47-43 (57338) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः॥ 47 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-47-4 वृष्ट्यः वृष्टयः॥ 8-47-47 सप्तचत्वारिंशोऽध्यायः॥
कर्णपर्व - अध्याय 048

॥ श्रीः ॥

8.48. अध्यायः 048

Mahabharata - Karna Parva - Chapter Topics

अर्जुनस्य संशप्तकैर्युद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-48-0 (57339) सञ्जय उवाच। 8-48-0x (4966) वर्तमाने तथा युद्धे क्षत्रियाणां निमज्जने। गाण्डीवस्य महाघोषः श्रूयते युधि मारिष॥ 8-48-1 (57340) संशप्तकानामकरोत्कदनं यत्र पाण्डवः। कोसलानां तथा राजन्नारायणबलस्य च॥ 8-48-2 (57341) संशप्तकास्तु समरे शरवृष्टिः समन्ततः। अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः॥ 8-48-3 (57342) तां शस्त्रवृष्टिमायान्तीमुरसा धारयन्प्रभुः। व्यगाहत परान्पार्थो विनिघ्नन्रथिनां वरान्॥ 8-48-4 (57343) विक्षोभ्य तु रथानीकं कङ्कपत्रैः शिलाशितैः। आससाद ततः पार्थः सुशर्माणं महारथम्॥ 8-48-5 (57344) स तस्य शरवर्षाणि ववर्ष रथिनां वरः। तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः॥ 8-48-6 (57345) सुशर्मा तु ततः पार्थं विद्ध्वा दशभिराशुगैः। जनार्दनं त्रिभिर्बाणैरहनद्दक्षिणे भुजे॥ 8-48-7 (57346) ततोऽपरेण भल्लेन केतुं पार्थस्य मारिष। विव्याध समरे राजन्सुशर्मा क्रोधमूर्च्छितः॥ 8-48-8 (57347) स वानरवरो राजन्विश्वकर्मकृतो महान्। ननाद सुमहानादं नृत्यन्निव विभीषयन्॥ 8-48-9 (57348) कपेस्तु निनदं श्रुत्वा सन्त्रस्ता तव वाहिनी। भयं विपुलमासाद्य निश्चेष्टा समपद्यत॥ 8-48-10 (57349) ततः सा शुशुभे सेना निश्चेष्टाऽवस्थिता नृप। नानापुष्पसमाकीर्णं यथा चित्रीकृतं वनम्॥ 8-48-11 (57350) प्रतिलभ्य ततः संज्ञां योधास्ते कुरुसत्तम। अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव॥ 8-48-12 (57351) सञ्छाद्य समरे पार्थं परिवव्रुः समन्ततः। ते हयान्रथचक्रे तु रथेषां चापि मारिष। ग्रहीतुं प्रचक्रमुश्चैव क्रोधाविष्टाः समन्ततः॥ 8-48-13 (57352) निगृह्य तु रथं तस्य योधास्ते तु सहस्रशः। रथबन्धं प्रचक्रुर्हि पाण्डवस्यामितौजसः॥ 8-48-14 (57353) रथमारुरुहुः केचित्कृष्णपार्थौ जिघृक्षवः। संशप्तकानां योधास्ते सिंहनादांश्च नेदिरे॥ 8-48-15 (57354) अपरे जगृहुश्चैव केशवस्य महाभुजौ। पार्थं चैके महाराज रथस्थं जगृहुर्मुदा॥ 8-48-16 (57355) अच्युतः स महाबाहुर्विधुन्वन्रणमूर्धनि। पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिपान्॥ 8-48-17 (57356) स रथस्तैर्गृहीतस्तु पाण्डवस्य महात्मनः। स्पन्दितुं नाशकद्राजंस्तदद्भुतमिवाभवत्॥ 8-48-18 (57357) ततः पार्थो महाबाहुः संवृतः स्तैर्महारथैः। निगृहीतं रथं दृष्ट्वा तांश्चाप्याद्रवतो बहून्॥ 8-48-19 (57358) रथारूढांश्च सुबहून्पदाऽऽक्षिप्य न्यपातयत्। अपातयदसम्भ्रान्तः शरैरासन्नयोधिभिः॥ 8-48-20 (57359) तांस्तापयित्वा समरे पार्थः परपुरञ्जयः। स्मयन्निव महाबाहुः केशवं वाक्यमब्रवीत्॥ 8-48-21 (57360) पश्य कृष्ण महाबाहो संशप्तकगणान्बहून्। कुर्वतोऽसुकरं कर्म मुमूर्षून्कालचोदितान्॥ 8-48-22 (57361) रथबन्धमिमं प्राप्य पृथिव्यां नास्ति कश्चन। यः सहेत पुमाँल्लोके मदन्यः क्षत्रियर्षभः॥ 8-48-23 (57362) पश्यैततानद्य समरे मत्प्रयुक्तैः सुतेजनैः। पात्यमानान्रणे कृष्ण शरैराशीविषोपमैः॥ 8-48-24 (57363) इत्येवमुक्त्वा बीभत्सुः शङ्खप्रवरमुत्तमम्। व्यनादयदमेयात्मा देवदत्तं महामृधे॥ 8-48-25 (57364) देवदत्तस्वनं श्रुत्वा केशवोऽपि महायशाः। पाञ्चजन्यस्वनं चक्रे पूरयन्निव रोदसी॥ 8-48-26 (57365) तयोः शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी। सञ्चचाल महाराज वित्रस्ता चाद्रवद्भृशम्॥ 8-48-27 (57366) नागमस्त्रं ततः पार्थः प्रादुश्चक्रे हसन्निव। पादबन्धं स तेषां वै चक्रे तेन महास्त्रवित्॥ 8-48-28 (57367) यानुद्दिश्य रणे पार्थः पादबन्धं चकार ह। ते बद्धाः पादबन्धेन योधाः संशप्तकास्तदा॥ 8-48-29 (57368) निर्विचेष्टास्तदाऽभूवन्पाण्डवस्यास्त्रतेजसा। निर्विचेष्टांस्ततो योधानवधीत्पाण्डुनन्दनः। यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा॥ 8-48-30 (57369) ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम्। आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः॥ 8-48-31 (57370) ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम्। सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः॥ 8-48-32 (57371) ततः सुपर्णाः सम्पेतुर्भक्षयन्तो भुजङ्गमान्। ततो विदुद्रुवुर्नागास्तान्दृष्ट्वा खेचरान्नृप॥ 8-48-33 (57372) तद्विमुक्तं बलं रेजे पादबन्धाद्विशाम्पते। मेघबन्धाद्यथा मुक्तो भास्करस्तापयन्प्रजाः॥ 8-48-34 (57373) विप्रमुक्ताः स्वका योधाः फल्गुनस्य रथं प्रति। ससृजुः शरसङ्घांश्च शस्त्रसङ्घांश्च मारिष॥ 8-48-35 (57374) तां महास्त्रमयीं वृष्टिं शरैः सञ्छिद्य भारत। अवधीत्सततो योधान्वासविः परवीरहा॥ 8-48-36 (57375) सुशर्मा तु ततो राजन्बाणेन नतपर्वणा। अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिसप्तभिः॥ 8-48-37 (57376) स गाढविद्धो व्यथितो रथोपस्थ उपाविशतत्। तत उच्चुक्रुशुः सर्वे हतः पार्थ इति ब्रुवन्॥ 8-48-38 (57377) ततः शङ्खनिनादाश्च भेरीशब्दाश्च पुष्कलाः। नानावादित्रनिनदाः सिंहनादाश्च जज्ञिरे॥ 8-48-39 (57378) प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः। सोऽतिविद्धो महेष्वासः शरैराशीविपोपमैः। सुशर्माणं महाराज क्रोधाविष्टो महारथः॥ 8-48-40 (57379) ततः शरशतैः पार्थः सञ्छाद्यैनं क्षणाद्रणे। दिशस्तु वारयामास बाणैस्तत्र महास्त्रवित्॥ 8-48-41 (57380) विमुखीकृत्य समरे सुशर्माणं धनञ्जयः। ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे हसन्निव॥ 8-48-42 (57381) ततो बाणसहस्राणि तदुत्सृष्टानि मारिष। सर्वदिक्षु व्यदृश्यन्त सूदयन्ति रथद्विपान्॥ 8-48-43 (57382) हयान्पत्तींश्च समरे शस्त्रैः शतसहस्रशः। रराज समरे राजञ्शक्रो निघ्नन्निवासुरान्॥ 8-48-44 (57383) वध्यमाने ततः सैन्ये भयं सुमहदाविशत्। संशप्तकगणानां च गोपालानां च भारत॥ 8-48-45 (57384) न हि तत्र पुमान्कश्चिद्योऽर्जुनं प्रतिबुध्यते। पश्यतां तत्र वीराणामहन्यत बलं तव॥ 8-48-46 (57385) हन्यमानं च तदभून्निश्चेष्टं च पराक्रमे॥ 8-48-47 (57386) अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे। व्यभ्राजत महाराज विधूमोऽग्निरिव ज्वलन्॥ 8-48-48 (57387) चतुर्दशसहस्राणि यानि दृष्टनि भारत। रथानामयुतं चैव त्रिसहस्राश्च दन्तिनः॥ 8-48-49 (57388) ततः संशप्तका भूयः परिवव्रुर्धनञ्जयम्। मर्तव्यमिति निश्चित्य जयं वाप्यनिवर्तनम्॥ 8-48-50 (57389) तत्र युद्धं महच्चासीत्तावकानां विशाम्पते। शूरेण बलिना सार्धं पाण्डवेन किरीटिना। जित्वा तान्न्यहनत्पार्थः शत्रूञ्शक्र इवासुरान्॥ ॥ 8-48-51 (57390) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः॥ 48 ॥
कर्णपर्व - अध्याय 049

॥ श्रीः ॥

8.49. अध्यायः 049

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-49-0 (57391) सञ्जय उवाच। 8-49-0x (4967) कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष। उलूकः सौबलश्चैव राजा च सह सोदरैः॥ 8-49-1 (57392) सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्। समुज्जह्रुः स्म वेगेन भिन्नां नावमिवार्णवे॥ 8-49-2 (57393) ततो युद्धमतीवासीन्मुहूर्तमिव भारत। भीरूणां त्रासजननं शूराणां हर्षवर्धनम्॥ 8-49-3 (57394) कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे। सृञ्जयांश्छादयामासुः शलभानां व्रजा इव॥ 8-49-4 (57395) शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ। ववर्ष शरवर्षाणि समन्ताद्द्विजपुङ्गवम्॥ 8-49-5 (57396) कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित्। शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः॥ 8-49-6 (57397) ततः शिखण्डी कुपितः शरैः सप्तभिराहवे। कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः॥ 8-49-7 (57398) ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः। `ततः सुनिशितैस्तीक्ष्णैः क्षुरप्रैर्हेमभूषितैः'। व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः॥ 8-49-8 (57399) हताश्वात्तु ततो यानादवप्लुत्य महारथः। खङ्गं चर्म तथा गृह्य सत्वरं ब्राह्मणं ययौ॥ 8-49-9 (57400) तमापतन्तं सहसा शरैः सन्नतपर्वभिः। वारयामास समरे तदद्भुतमिवाभवत्॥ 8-49-10 (57401) तत्राद्भुतमपश्याम शिलानां प्लवनं यथा। निश्चेष्टो यद्रणे राजञ्छिखण्डी समतिष्ठत॥ 8-49-11 (57402) कृपेण वारितं दृष्ट्वा शिखण्डिनमथो नृप। प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः॥ 8-49-12 (57403) धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति। प्रतिजग्राह वेगेन कृतवर्मा महारथः॥ 8-49-13 (57404) युधिष्ठिरमथायान्तं शारद्वतरथं प्रति। सपुत्रं सहसैन्यं च द्रोणपुत्रो न्यवारयत्॥ 8-49-14 (57405) नकुलं सहदेवं च त्वरमाणौ महारथौ। प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन्॥ 8-49-15 (57406) भीमसेनं करूशांश्च केकयान्सह सृञ्जयैः। कर्णो वैकर्तनो युद्धे वारयामास भारत॥ 8-49-16 (57407) शिखण्डिने ततो बाणान्कृपः शारद्वतो युधि। प्राहिणोत्तवरया युक्तो बीभत्सोरथ सन्निधौ॥ 8-49-17 (57408) ताञ्छरान्प्रेषितांस्तेन समन्तात्स्वर्णभूषितान्। चिच्छेद खङ्गमाविध्य भ्रामयंश्च पुनः पुनः॥ 8-49-18 (57409) शतचन्द्रं च तच्चर्म गौतमस्तस्य भारत। व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः॥ 8-49-19 (57410) स विचर्मा महाराज खङ्गपाणिरुपाद्रवत्। कृपस्तं शरसङ्घातैराद्रवन्तमपीडयत्॥ 8-49-20 (57411) शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलः। चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ॥ 8-49-21 (57412) विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः। अभ्यापतदमेयात्मा गौतमस्य रथं प्रति॥ 8-49-22 (57413) दृष्ट्वा विषक्तं तं चैव ब्राह्मणं च निवारितम्। अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम॥ 8-49-23 (57414) सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः। विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः॥ 8-49-24 (57415) अथास्य सशरं चापं पुनश्चिच्छेद मारिष। सारथिं च शरेणास्य मृशं मर्मस्वताडयत्॥ 8-49-25 (57416) गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम्। सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत्॥ 8-49-26 (57417) स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे। भूमिकम्पे यथा वृक्षश्चचालाकम्पितो भृशम्॥ 8-49-27 (57418) चलतस्तस्य कायात्तुं शिरो ज्वलितकुण्डलम्। सोष्णीषं सशिरस्त्राणं क्षुरप्रेण त्वपातयत्॥ 8-49-28 (57419) तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम्। ततोऽस्य कायो वसुधां पश्चात्प्रापतदच्युत॥ 8-49-29 (57420) तस्मिन्हते महाराज पुत्रास्तस्य पदानुगाः। गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश॥ 8-49-30 (57421) धृष्टद्युम्नं तु समरे सन्निवार्य महारथः। कृतवर्माऽब्रवीद्वृष्टस्तिष्ठतिष्ठेति भारत॥ 8-49-31 (57422) तदभूत्तुमुलं युद्वं वृष्णिपार्षतयो रणे। आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोर्नृप॥ 8-49-32 (57423) धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः। आजघानोरसि क्रुद्वः पीडयन्हृदिकात्मजम्॥ 8-49-33 (57424) कृतवर्मा तु समरे पार्षतेन दृढाहतः। पार्षतं सरथं साश्वं छादयामास सायकैः॥ 8-49-34 (57425) सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते। मेघैरिव परिच्छन्नो भास्करो जलधारिभिः॥ 8-49-35 (57426) विधूय तं बाणगणं शरैः कनकभूषणैः। व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः॥ 8-49-36 (57427) ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम्। कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः॥ 8-49-37 (57428) तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम्। शरैरनेकसाहस्रैर्हार्दिक्योऽवारयद्युधि॥ 8-49-38 (57429) दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम्। कृतवर्माणमासाद्य वारयामास पार्षतः॥ 8-49-39 (57430) `यथा युग्मरथेनाजौ वाहान्वाहेरमिश्रयत्। गृहीत्वा चर्म खङ्गं च रथं तस्यावपुप्लुवे॥ 8-49-40 (57431) मिलितेष्वथ वाहेषु प्रत्यासन्ने च पार्षते। दृष्ट्वाऽपदानं तस्याशु गदां जग्राह सात्वतः॥ 8-49-41 (57432) गदापाणिस्ततो राजन्रथात्तूर्णमवप्लुतः। तमदृष्ट्वा रथोपस्थे सारथिं समताडयत्॥ 8-49-42 (57433) खङ्गेन शितधारेण स हतः प्रापतद्रथात्। कृतवर्मा ततो हृष्टस्तलशब्दं चकार ह॥ 8-49-43 (57434) पार्षतं चाब्रवीद्राजन्नेह्येहीति पुनःपुनः। स तं न ममृषे युद्वे तलशब्दं समीरितम्॥ 8-49-44 (57435) अवप्लुत्य रथात्तस्मात्स्वरथं पुनरास्थितः। अभ्ययात्स तु तत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत्॥ 8-49-45 (57436) ततो राजन्महेष्वासं कृतवर्माणमाशु वै। गदां गृह्य पुनर्वेगात्कृतवर्माणमाहनत्॥ 8-49-46 (57437) सोऽतिविद्वो बलवता न्यपतन्मूर्च्छया हतः। श्रुतर्वा रथमारोप्य अपोवाह रणाजिरात्'॥ 8-49-47 (57438) धृष्टद्युम्नस्तु समरे दृष्ट्वा शत्रुं महारथः। कौरवान्समरे तूर्णं वारयामास सायकैः॥ 8-49-48 (57439) ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन्। सिंहनादरवांश्चक्रुस्ततो युद्धमवर्तत॥ ॥ 8-49-49 (57440) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनपञ्चाशोऽध्यायः॥ 49 ॥
कर्णपर्व - अध्याय 050

॥ श्रीः ॥

8.50. अध्यायः 050

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥ अश्वत्थाम्ना युधिष्ठिरपराजयः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-50-0 (57441) सञ्जय उवाच। 8-50-0x (4968) द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम्। द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत्॥ 8-50-1 (57442) किरन्निषुगणान्घोरान्हेमपुङ्खाञ्शिलाशितान्। दर्शयन्विविधान्मार्गाञ्शिक्षया लघुहस्तवान्॥ 8-50-2 (57443) खं पुरयञ्शरैस्तीक्ष्णैर्वेगवद्भिः समन्ततः। युधिष्ठिरस्य समरे दिशः सर्वाः समावृणोत्॥ 8-50-3 (57444) भारद्वाजशरैश्छन्नं न प्राज्ञायत किञ्चन। बाणभूतमभूत्सर्वमायोधनशिरो महत्॥ 8-50-4 (57445) बाणजालं दिविष्ठं तत्स्वर्णपुङ्खविभूषितम्। शुशुभे भरतश्रेष्ठ विमानमिव विष्ठितम्॥ 8-50-5 (57446) तेन च्छन्ने रणे राजन्बाणजालेन भास्वता। अभ्रच्छायेव सजज्ञे हृतरश्मिस्तमोनुदः॥ 8-50-6 (57447) तदद्भुतमपश्याम बाणभूते नभस्थले। न स्म सम्पतते भूतं द्रौणेर्दृष्ट्वा पराक्रमम्॥ 8-50-7 (57448) सात्यकिर्यतमानस्तु धर्मराजस्तु पाण़्डवः। तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम्॥ 8-50-8 (57449) लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः। व्यस्मयन्त महाराज न चैनं प्रत्युदीक्षितुम्॥ 8-50-9 (57450) शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम्। वध्यमाने ततः सैन्ये द्रौपदेया महारथाः॥ 8-50-10 (57451) सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः। त्यक्त्वा मृत्युभयं घोरं द्रौणायनिभुपाद्रवन्॥ 8-50-11 (57452) सात्यकिः सप्तविंशत्या द्रौणिं विद्ध्वा शिलीमुखैः। पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः॥ 8-50-12 (57453) युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः। श्रुतकर्मा त्रिभिर्वाणैः श्रुतकीर्तिश्च सप्तभिः। 8-50-13 (57454) सुतसोमस्तु नवभिः शतानीकश्च सप्तभिः। अन्ये च वहवः शूरा विव्यधुस्तं समन्ततः॥ 8-50-14 (57455) स तु क्रुद्धस्ततो राजन्नाशीविप इव श्वसन्। सात्यकिं पञ्चविंशत्या प्राविध्यत शिलीमुखैः॥ 8-50-15 (57456) श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः। अष्टभिः श्रुतकर्माणं प्रतिबिन्ध्यं त्रिभिः शरैः॥ 8-50-16 (57457) शतानीकं च नवभिर्धर्मपुत्रं च पञ्चभिः। तथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत्। श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः॥ 8-50-17 (57458) अथान्यद्वनुरादाय श्रुतकीर्तिर्महारथः। द्रौणायनिं त्रिभिर्विद्व्वा विव्याधान्यैः शितैः शरैः॥ 8-50-18 (57459) ततो द्रौणिर्महाराज शरवर्षेण भारिष। छादयामास तत्सैन्यं समन्ताद्भरतर्षभ॥ 8-50-19 (57460) ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम्। द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः॥ 8-50-20 (57461) ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः। द्रोणपुत्रं त्रिपष्टxx ततु बाह्वोरुरसि चार्पययत्॥ 8-50-21 (57462) सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे। अर्धचन्द्रेणतीक्ष्णेन धनुश्छित्त्वाऽनदद्भृशम्॥ 8-50-22 (57463) छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः। सारथिं पातयामास शैनेयस्य रथाद्रुतम्॥ 8-50-23 (57464) अथान्यद्वनुरादाय द्रोणपुत्रः प्रतापवान्। शैनेयं शरवर्षेण च्छादयामास भारत॥ 8-50-24 (57465) तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ। तत्रतत्रैव धावन्तः समदृश्यन्त भारत॥ 8-50-25 (57466) युधिष्ठिरपुरोगास्तु द्रौणिं शस्त्रभृतां वरम्। अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्छरान्॥ 8-50-26 (57467) सहसा पततस्तान्वै क्रुद्वरूपान्परन्तपः। प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे॥ 8-50-27 (57468) ततः शरशतज्वालः सेनाकक्षं महारणे। द्रौणिर्ददाह समरे कक्षमग्निरिवोत्थितः॥ 8-50-28 (57469) तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम्। चुक्षुभे भरतश्रेष्ठ तस्मिन्नेव चमूमुखे॥ 8-50-29 (57470) तद्बलं पाण्डवेयस्य द्रोणपुत्रः शरार्चिषा। तापयन्भरतश्रेष्ठ गभस्तिभिरिवांशुमान्॥ 8-50-30 (57471) तत्पच्यमानं मर्षेण ब्राह्मणस्य च सायकैः। क्षुभ्यते पाण्डवं सैन्यं तिमिनेव नदीमुखम्॥ 8-50-31 (57472) दृष्ट्वा चैव महाराज द्रोणपुत्रपराक्रमम्। सर्वान्दुर्योधनः पार्थान्हतान्युद्वेऽभ्यमन्यत॥ 8-50-32 (57473) युधिष्ठिरस्तु त्वरितो द्रौणिं पीड्य महारथम्। अब्रवीद्द्रोणपुत्रं स रोषामर्षसमन्वितः॥ 8-50-33 (57474) `जानामि त्वां युधि श्रेष्ठ वीर्यवन्तं बलान्वितम्। कृतास्त्रं कृतिनं चैव तथा लघुपराक्रमम्॥ 8-50-34 (57475) बलमेतद्भवान्सर्वं पार्षते यदि दर्सयेत्। ततस्त्वां बलवन्तं च कृतविद्यं च विद्महे॥ 8-50-35 (57476) न हि वै पार्पतं दृष्ट्वा समरे शत्रुसूदनम्। भवेत्तव बलं किञ्चिद्ब्रवीमि त्वां न तु द्विजम्'॥ 8-50-36 (57477) नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता। यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि॥ 8-50-37 (57478) ब्राह्मणेन तपः कार्यं शमश्च दमएव च। क्षत्रियेण धनुर्नाभ्यं स भवान्ब्राह्मणब्रुवः॥ 8-50-38 (57479) मिषतस्ते महावाहो युधि जेष्यामि कौरवान्। कुरुष्व समरे कर्म ब्रह्मबन्धे यथेष्टतः॥ 8-50-39 (57480) एवमुक्तो महाराज द्रोणपुत्रः सयन्निव। युक्त तत्त्वं च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत्॥ 8-50-40 (57481) अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम्। छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः॥ 8-50-41 (57482) स च्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष। पार्थोऽपयातः शीघ्रं वै प्रगृह्य महतीं चमूम्॥ 8-50-42 (57483) अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे। द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः॥ 8-50-43 (57484) ततो युधिष्ठिरो राजंस्त्यक्त्वा द्रौणिं महाहवे। प्रययौ तावकं सैन्यं युक्तः क्रुराय कर्मणे॥ ॥ 8-50-44 (57485) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चाशोऽध्यायः॥ 50 ॥
कर्णपर्व - अध्याय 051

॥ श्रीः ॥

8.51. अध्यायः 051

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-51-0 (57486) सञ्जय उवाच। 8-51-0x (4969) भीमसेनं सपाञ्चालं चेदिकेकयसंवृतम्। सेनापतिः स्वयं क्रुद्धो वारयामास सायकैः॥ 8-51-1 (57487) ततस्तु चेदिकारूशान्सृढ्जयांश्च महारथान्। कर्णो जघान समरे भीमसेनस्य पश्यतः॥ 8-51-2 (57488) भीमसेनस्ततः कर्णे विहाय रथसत्तमम्। प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन्॥ 8-51-3 (57489) सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा। सृञ्जयांश्च महेष्वासान्निजघानं सहस्रशः॥ 8-51-4 (57490) संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः। पाञ्चालेषु तथा कर्णः क्षयं चक्रुर्महारथाः॥ 8-51-5 (57491) ते क्षत्रिया दह्यामानास्त्रिभिस्तैः पावकोपमैः। जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव॥ 8-51-6 (57492) ततो दुर्योधनः क्रुद्दो नकुलं नवभिः शरैः। विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः॥ 8-51-7 (57493) ततः परममेयात्मा तव पुत्रो जनाधिप। क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम्॥ 8-51-8 (57494) नकुलस्तु ततः क्रुद्धस्तव पुत्रं च सप्तभिः। जघान समरे राजन्सहदेवश्च पञ्चभिः॥ 8-51-9 (57495) तावुभौ भरतश्रेष्ठौ ज्येष्ठौ सर्वधनुष्मताम्। विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः॥ 8-51-10 (57496) ततोऽपराभ्यां भल्लाब्यां धनुषी समकृन्तत। यमयोः प्रसभं वीरो विव्याधाशु त्रिभिस्त्रिभिः॥ 8-51-11 (57497) तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे। प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि॥ 8-51-12 (57498) ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं युधि। शरैर्ववर्षतुर्घोरैर्महामेघौ यथाऽचलम्॥ 8-51-13 (57499) ततः क्रुद्धो महाराज तव पुत्रो महारथः। पाण़्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः॥ 8-51-14 (57500) धनुर्मण्डलमेवास्य ददृशे युधि भारत। सायकाश्चाप्यदृश्यन्त निश्चरन्तः समन्ततः॥ 8-51-15 (57501) `तस्य सायकसञ्छन्नौ माद्रेयौ न विरेजतुः। मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ गतप्रभौ॥ 8-51-16 (57502) ते तु बाणा महाराज स्वर्णपुङ्खाः शिलाशिताः'। आच्छादयन्दिशः सर्वाः सूर्यस्येव मरीचयः॥ 8-51-17 (57503) वाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले। राज्ञस्तु ददृशे रूपं कालान्तकयमोपमम्॥ 8-51-18 (57504) पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः। मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे॥ 8-51-19 (57505) ततः सेनापती राजन्पाण्डवानां महारथः। पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः॥ 8-51-20 (57506) माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ। धृष्टद्युम्नस्तव सुतं पीडयामास सायकैः॥ 8-51-21 (57507) तमविध्यदमेयात्मा तव पुत्रो ह्यमर्पणः। पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभः॥ 8-51-22 (57508) ततः पुनरमेयात्मा तव पुत्रो ह्यमर्षणः। विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च॥ 8-51-23 (57509) तथास्य सशरं चापं मुष्टिदेशे विशाम्पते। क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे॥ 8-51-24 (57510) तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः। अन्यदादत्त वेगेन धनुर्भारसहं नवम्॥ 8-51-25 (57511) क्रोधाद्रुधिररक्ताक्षः संरम्भात्प्रज्वलन्निव। अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः॥ 8-51-26 (57512) स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव। जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यपासृजत्॥ 8-51-27 (57513) ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलीमुखाः। विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः॥ 8-51-28 (57514) सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत। वसन्तकाले सुमहान्प्रफुल्ल इव किंशुकः॥ 8-51-29 (57515) स च्छिन्नवर्मा नाराचप्रहारैर्झर्झरीकृतः। धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम्॥ 8-51-30 (57516) अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः। सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्पयत्॥ 8-51-31 (57517) तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः। प्रफुल्लं पङ्कजं यद्वद्धमरा मधुलिप्सवः॥ 8-51-32 (57518) तदपास्य धनुश्छिन्नं दृष्टद्युम्नो महामनाः। अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश॥ 8-51-33 (57519) ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः। धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम्॥ 8-51-34 (57520) रथं सोपस्करं छत्रं शक्तिं खङ्गं गदां ध्वजम्। भल्लैश्चिच्छेद दशभिः पुत्रस्य तव पार्षतः॥ 8-51-35 (57521) तपनीयाङ्गदं छत्रं नागं मणिमयं शुभम्। ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः॥ 8-51-36 (57522) दुर्योधनं तु विरथं छिन्नवर्मायुधध्वजम्। भ्रातरं समुदैक्षन्त सोदरा भरतर्षभ॥ 8-51-37 (57523) तमारोप्य रथे राजन्कुण्डधारो महारथम्। अपाहरदसम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः॥ 8-51-38 (57524) कर्णस्तु सात्यकिं हित्वा राजगृघ्नुरमर्षणः। द्रोमहन्तारमुग्रेषुं ससाराभिमुखो रणे॥ 8-51-39 (57525) तं पृष्ठतोऽन्वयात्तूर्णं शैनेयोऽभिहतः शरैः। वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः॥ 8-51-40 (57526) स भारतपुरोगानां राज्ञां च सुमहात्मनाम्। कर्णपार्षतयोर्युद्वे सङ्क्रद्धानां महारणे॥ 8-51-41 (57527) न पाण्डवानां नास्माकं कश्चिदासीत्पराङ्मुखः। प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ॥ 8-51-42 (57528) तस्मिन्क्षणे नरश्रेष्ठ गजवाजिरथक्षयः। प्रादुरासीदुभयतो राजन्मध्यगतेऽहनि॥ 8-51-43 (57529) पाञ्चालास्तु महाराज त्वरिता विजिगीषवः। सर्वतोऽभ्यद्रवन्कर्णं पतत्त्रिण इव द्रुमम्॥ 8-51-44 (57530) तेषामाधिरथिः क्रुद्धः प्रधानान्वै तरस्विनः। विचिन्वन्निव बाणौघैः समासादयदग्रतः॥ 8-51-45 (57531) व्याघ्रकेतुः सुशर्मा च शुक्रश्चित्रायुधः क्रतुः। दुर्जयो रोचमानश्च सिंहसेनस्तथाऽष्टमः। महता रथवंशेन परिवव्रुर्नरोत्तमम्॥ 8-51-46 (57532) सृजन्तः सायकांस्तूर्णं कर्णमाहवशोभिनम्। यतमानांस्तु ताञ्शूरान्मनुजेन्द्रः शितैः शरैः। अष्टाभिरष्टौ राधेयः पाञ्चालान्न्यहनद्रणे॥ 8-51-47 (57533) अथापरान्महाराज सूतपुत्रः प्रतापवान्। जघान बहुसाहस्रान्योधान्युद्वविशारदान्॥ 8-51-48 (57534) विष्णुं च विष्णुवर्माणं देवापिं भद्रमेव च। दण्डधारं च समरे चित्रं चिंत्रायुधं हरिम्॥ 8-51-49 (57535) सिंहकेतुं रोचमानं शलभं च महारथम्। निजघान सुसङ्क्रुद्वश्चेदीनां च महारथान्॥ 8-51-50 (57536) तेषामाददतः प्राणानासीदाधिरथेर्वपुः। शोणिताभ्युक्षिताङ्गस्य रुद्रस्यैवातिभैरवम्॥ 8-51-51 (57537) तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः। सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम्॥ 8-51-52 (57538) निपेतुरुर्व्यां समरे कर्णसायकताडिताः। कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः॥ 8-51-53 (57539) गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः। रथैर्भग्नैर्ध्वजैश्चैव समास्तीर्यत मेदिनी॥ 8-51-54 (57540) नैवं भाष्मो न च द्रोणो नान्ये युधि च तावकाः। चक्रुः स्म तादृशं कर्म यादृशं कृतवान्रणे॥ 8-51-55 (57541) मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन्। पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत्॥ 8-51-56 (57542) सूतपुत्रोऽथ नागेषु हयेषु च रथेषु च। नरेषु च नरव्याघ्रश्चकार कदनं महत्॥ 8-51-57 (57543) यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः। पाञ्चालानां रथव्रातान्कर्णो व्यद्रावयत्तथा॥ 8-51-58 (57544) सिंहं स्म हि यथा प्राप्य न जीवन्ति मृगाः क्वचित्। तथा कर्णमनुप्राप्ता न जीवन्ति स्म सृञ्जयाः॥ 8-51-59 (57545) वैश्वानरमुखं प्राप्य दह्यन्ते शलभा यथा। कर्णाग्रिं समरे प्राप्य दग्धा भारत सृञ्जयः॥ 8-51-60 (57546) चेदिष्वेकेन कर्णेन पाञ्चालेषु च भारत। वेश्राव्य नाम निहता बहवः शूरसम्पताः॥ 8-51-61 (57547) मम चासीन्मती राजन्दृष्ट्वा कर्णस्य विक्रमम्। नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि॥ 8-51-62 (57548) सङ्ख्ये विमर्द्य पाञ्चालान्सूतपुत्रः पुनः पुनः। अभ्यधावत्सुसङ्क्रुद्धः कुन्तीपुत्रं युधिष्ठिरम्॥ 8-51-63 (57549) धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष। परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः॥ 8-51-64 (57550) शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा। जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः॥ 8-51-65 (57551) एते पुरोगमा भूत्वा धृष्टद्युम्नश्च संयुगे। कर्णमस्यन्तमिष्वस्त्रैस्ततक्षुरमितौजसम्॥ 8-51-66 (57552) तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान्। एको बहूनभ्यपतद्गरुत्मानिव पन्नगान्॥ 8-51-67 (57553) तैः कर्णस्याभवद्युद्धं घोररूपं विशाम्पते। तादृग्यादृक्पुरावृत्तं देवानां दानवैः सह॥ 8-51-68 (57554) तान्समेतान्महेष्वासाञ्शरवर्षौधवर्षिणः। एको व्यधमदव्यग्रस्तमांसीव दिवाकरः॥ 8-51-69 (57555) भीमसेनस्तु संसक्ते राधेये पाण्डवैः सह। सर्वतोऽभ्यहनत्क्रुद्धो यमदण्डनिभैः शरैः॥ 8-51-70 (57556) बाह्लीकान्केकयान्मात्स्यान्वासात्यान्मद्रसैन्धवान्। एकः सङ्ख्ये महेष्वासो योधयन्बह्वशोभत॥ 8-51-71 (57557) तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः। प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम्॥ 8-51-72 (57558) वाजिनश्च हतारोहाः पत्तयश्च गतासवः। अशेरत महाराज वमन्तो रुधिरं बहु॥ 8-51-73 (57559) ताडिताः सहसा नागा भीमसेनेन मारिष। निपतन्ति महावेगा वज्ररुग्णा इवाचलाः॥ 8-51-74 (57560) पतितैस्तैर्महाराज वेगवद्भिर्महारथैः। शुशुभे वसुधा राजन्विकीर्णैरिव पर्वतैः॥ 8-51-75 (57561) सहस्रशश्च रथिनः पत्तयः पतितायुधाः। अक्षताः समदृश्यन्त भीमाद्भीता गतासवः॥ 8-51-76 (57562) रथिभिः सादिभिः सूतैः पादातैर्वाजिभिर्गजैः। भीमसेनशरैश्छिन्नैराच्छन्ना सुधाभवत्॥ तत्स्तम्भितमिवातिष्ठद्भीमसेनभयार्दितम्। 8-51-77 (57563) दुर्योधनबलं सर्वं निरुत्साहं कृतं रणे। निश्चेष्टं तुमुलं दीनं बभौ तस्मिन्महारणे॥ 8-51-78 (57564) प्रसन्नसलिले काले यथा स्यात्सागरो नृप। तद्वत्तव बलं तद्वै निश्चलं समवस्थितम्॥ 8-51-79 (57565) मन्युवीर्यबलोपेतं दर्पात्प्रत्यवरोपितम्। अभवत्तव पुत्रस्य तत्सैन्यं निष्प्रभं तदा॥ 8-51-80 (57566) ते बले भरतश्रेष्ठ वध्यमाने परस्परम्। रुधिरौघपरिक्लिन्ने रुधिरार्द्रे बभूवतुः॥ 8-51-81 (57567) सूतपुत्रोऽवधीत्क्रुद्वः पाण्डवानामनीकिनीम्। भीमसेनः कुरूणां च त्रिगर्तानां धनञ्जयः॥ 8-51-82 (57568) वर्तमाने तथा रोद्रे सङ्ग्रामेऽद्भुतदर्शने। निहत्य पृतनामध्यं संशप्तकगणान्बहून्। अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत्॥ 8-51-83 (57569) प्रभग्नं बलमेतद्धि योत्स्यमानं मया सह। एते धावन्ति सगणाः संशप्तकमहारथाः॥ 8-51-84 (57570) `दुर्जया ह्येव समरे देवैरपि सवासवैः'। अपारयन्तो मद्बाणान्सिंहशब्दं मृगा इव॥ 8-51-85 (57571) दीर्यते च महत्सैन्यं सृञ्जयानां महारणे। `कुरवश्चाभिधावन्ति भीमसेनभयार्दिताः'॥ 8-51-86 (57572) हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः। दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः॥ 8-51-87 (57573) न च कर्णं रणे शक्ता जेतुमेते महारथाः। जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे॥ 8-51-88 (57574) तत्र याहि यतः कर्णो द्रावयत्येष नो बलम्। त्रिगर्तान्वर्जयन्याहि सूतपुत्रं महारथम्। एतन्मे रोचते कृष्ण यथा वा तव रोचते॥ 8-51-89 (57575) एतच्छ्रुत्वा वचस्तस्य गोविन्दः प्रहसन्निव। अब्रवीदर्जुनं तूर्णं कौरवान्याहि पाण्डव॥ 8-51-90 (57576) ततस्तव महासैन्यं गोविन्दप्रेरिता हयाः। हंसवर्णा विशंस्तूर्णं वहन्तोऽर्जुनमाहवे॥ 8-51-91 (57577) केशवप्रेरितैरश्वैः श्वेतैः काञ्चनभूषणैः। प्रविशद्भिस्तव बलं चतुर्दिशमदीर्यत॥ 8-51-92 (57578) मेघस्तनितनिर्हादः स रथो वानरध्वजः। चलत्पताकस्तां सेनां विमानं द्यामिवाविशत्॥ 8-51-93 (57579) तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनो। क्रुद्धौ संरम्भरक्ताक्षौ विभ्राजेतां महाद्युती॥ 8-51-94 (57580) युद्धशौण्डौ समाहूतावागतौ तौ रणाध्वरम्। यज्वभिर्विधिना हूतौ मखं देवाविवाश्विनौ॥ 8-51-95 (57581) `क्रोधताम्रेक्षणौ शूरौ शुशुभाते महाबलौ। मदोत्कटौ यथा नागौ दृष्टिसञ्चारचारिणौ'॥ 8-51-96 (57582) क्रुद्धौ तौ तु नरव्याघ्रो योगवन्तौ बभूवतुः। तलशब्देन रुषितौ महानागाविवोत्कटौ॥ 8-51-97 (57583) विगाह्य तु रथानीकमश्वसङ्घांश्च फल्गुनः। व्यचरत्पृतनामध्ये पाशहस्त इवानत्कः॥ 8-51-98 (57584) तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत। संशप्तकगणान्भूयः पुत्रस्ते समचूचुदत्॥ 8-51-99 (57585) ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः। चतुर्दशसहस्रैस्तु तुरगाणां महाहवे। द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम्॥ 8-51-100 (57586) शूराणां लब्धलक्षाणां विदितानां समन्ततः। अभ्यवर्तन्त कौन्तेयं छादयन्तो महारथाः॥ 8-51-100 (57587) शरवर्षैर्महाराज सर्वतः पाण्डुनन्दनम्। स च्छाद्यमानः समरे शरैः परबलार्दनः॥ 8-51-101 (57588) दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः। निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत्॥ 8-51-102 (57589) ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः। निरन्तरमिवाकाशमासीच्छन्नं किरीटिना॥ 8-51-103 (57590) किरीटिचापनिर्मुक्तैः सम्पतद्भिर्महाशरैः। समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो॥ 8-51-104 (57591) रुक्मपुङ्खाञ्शरान्घोरान्प्रसन्नान्नतपर्वणः। अवासृजदमेयात्मा दिक्षु सर्वासु पाण्डवः॥ 8-51-105 (57592) मही वियद्दिशः सर्वाः समुद्रा गिरयोऽपि वा। स्फुटन्तीति जना जज्ञुः पार्थस्य तलनिःस्वनात्॥ 8-51-106 (57593) हत्वा दशसहस्राणि पार्थिवानां महारथः। संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोभ्ययात्॥ 8-51-107 (57594) प्रपक्षं च समासाद्य पार्थः काम्भोजरक्षितम्। प्रममाथ बलं भल्लैर्दानवानिव वासवः॥ 8-51-108 (57595) प्रचिच्छेदाशु भल्लेन द्विषतामाततायिनाम्। शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत॥ 8-51-109 (57596) अङ्गांङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्भुवि। विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः॥ 8-51-110 (57597) हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम्। सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत्॥ 8-51-112 (57598) तस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ। पूर्णचन्द्राभवक्त्रं च क्षुरेणापाहरच्छिरः॥ 8-51-113 (57599) तत्पपात ततो वेगात्स्वलोहितपरिष्कृतम्। मनः शिलागिरेः शृङ्गं व्ज्रेणेवावदारितम्॥ 8-51-114 (57600) सुदक्षिणादवरजं काम्भोजा ददृशुर्हतम्। प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम्। काञ्चनस्तम्भसदृशं भिन्नं हेमगिरिं यथा॥ 8-51-115 (57601) ततोऽभवत्पुनर्युद्धं घोरमत्यर्थमद्भुतम्। नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम्॥ 8-51-116 (57602) पार्थेषुनिहतैरश्वैः काम्भोजैर्यवनैः शकैः। शोणिताक्तैस्तदा रक्तं सर्वामासीद्विशां पते॥ 8-51-117 (57603) रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः। द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः॥ 8-51-118 (57604) अन्योन्येन महाराज विनाशः पृथिवीक्षिताम्। आसीत्क्रुद्वेऽर्जुने कर्णे भीमसेने च दारुणम्॥ 8-51-119 (57605) तस्पिन्प्रपक्षे पक्षे च वध्यमाने मदोत्कटः। अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिरभ्ययात्॥ 8-51-120 (57606) विधुन्वानो महच्चापं कार्तस्वरविभूषितम्। आददानः शरान्घोरान्स्वरश्मीनिव भास्करः॥ 8-51-121 (57607) तयोरासीन्महद्युद्धं धर्मभ्रात्रोरनैष्ठिकम्। विस्मापयिषतोर्लोकं यशश्चोत्तममिच्छतोः॥ 8-51-122 (57608) संशप्तकांस्तु कौन्तेयः कुरूंश्चापि वृकोदरः। सूतपुत्रस्तु पाञ्चालांस्त्रयोऽघ्नंस्त्वरिताः शरैः॥ 8-51-123 (57609) एवमेष महाराज विनाशः पृथिवीक्षिताम्। युद्वं घोरं तथा त्वासीत्त्रिधाभूते चमूमुखे॥ ॥ 8-51-124 (57610) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकपञ्चाशोऽध्यायः॥ 51 ॥ *.एतदनन्तरं झ.पुस्तके विद्यमाना कथा अस्मिन्पाठे---57--58 तमाध्याययोर्वर्तते।
कर्णपर्व - अध्याय 052

॥ श्रीः ॥

8.52. अध्यायः 052

Mahabharata - Karna Parva - Chapter Topics

संशप्तकैर्युध्यमानस्य पार्थस्याश्वत्थाम्नाऽऽह्नानम्॥ 1 ॥ तयोर्युद्धम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-52-0 (57611) धृतराष्ट्र उवाच। 8-52-0x (4970) कथं संशप्तकैः सार्धमर्जुनस्याभवद्रणः। सूतपुत्रस्य पाञ्चालैः कथं युद्धं प्रवर्तितम्॥ 8-52-1 (57612) अश्वत्थाम्नस्तु यद्युद्धमर्जुनस्य च सञ्जय। अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे॥ 8-52-2 (57613) सञ्जय उवाच। 8-52-3x (4971) शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम। वीराणां शत्रुभिः सार्धं देहपाप्मविनाशनम्॥ 8-52-3 (57614) पार्थः संशप्तकबलं प्रविश्यार्णवसन्निभम्। व्यक्षोभयदमित्रघ्नो महावात इवार्णवम्॥ 8-52-4 (57615) पूर्णचन्द्राभवक्राणि स्वक्षिभ्रूदशनानि च। शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः। सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव॥ 8-52-5 (57616) सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान्। सायुधान्सतलत्रांश्च पञ्चास्योरगसन्निभान्। बाहून्क्षुरैरमित्राणां चिच्छेद समरेऽर्जुनः॥ 8-52-6 (57617) धुर्यान्धुर्योतरान्सूतान्ध्वजांश्चापानि सायकान्। पाणीन्नितान्तनिशितैर्भल्लैश्चिच्छेद पाण्डवः॥ 8-52-7 (57618) रथान्द्विपान्हयांश्चैव सारोहानर्जुनो युधि। शरैरनेकसाहस्रैर्निन्ये राजन्यमक्षयम्॥ 8-52-8 (57619) तं प्रवीराः सुसंरब्धा नर्दमाना इवर्षभाः। वासितार्थमिव क्रुद्धमभिद्रुत्य महोत्कटाः। निघ्न्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः॥ 8-52-9 (57620) तस्य तेषां च तद्युद्वमभवद्रोमहर्षणम्। त्रैलोक्यविजये यद्वद्दैत्यानां सह वज्रिणा॥ 8-52-10 (57621) अस्त्रैस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः। इषुभिर्बहुभिस्तूर्णं विद्व्वा प्राणाञ्जहार सः॥ 8-52-11 (57622) छिन्नत्रिवेणुचक्राक्षान्हतयोधान्ससारथीन्। विध्वस्तायुधतूणीरान्समुन्मथितकेतनान्॥ 8-52-12 (57623) सञ्छिन्नयोक्ररश्मीषान्वित्रिवेणून्विकूबरान्। विस्रस्तबन्धुरयुगान्विस्रस्ताक्षप्रमण्डलान्॥ 8-52-13 (57624) रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः॥ 8-52-14 (57625) विस्मापकं प्रेक्षकाणां द्विषतां भयवर्धनम्। महारथसहस्रस्य समं कर्माकरोज्जयः॥ 8-52-15 (57626) सिद्धदेवर्षिसङ्घाश्च चारणाश्चापि तुष्टुवुः॥ 8-52-16 (57627) देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन्। केशवार्जुनयोर्मूर्ध्नि प्राह वाक्वाशरीरिणी॥ 8-52-17 (57628) चन्द्राग्न्यनिलसूर्याणां कान्तिदीप्तिबलद्युतीः। यौ सदा बिभ्रतुर्वीराविमौ तौ केशवार्जुनौ॥ 8-52-18 (57629) ब्रह्मेशानाविव पुरा वीरावेकरथे स्थितौ। सर्वभूतवरौ वीरौ नरनारायणाविमौ॥ 8-52-19 (57630) इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत। अश्वत्थामा सुसङ्क्रुद्धः कृष्णावभ्यद्रवद्रणे॥ 8-52-20 (57631) अथ पाण्डवमस्यन्तममित्रान्तकराञ्छरान्। सेषुणा पाणिनाऽऽहूय प्रहसन्द्रौणिरब्रवीत्॥ 8-52-21 (57632) यदि मां मन्यसे वीर प्राप्तमर्हमिहातिथिम्। ततः सर्वात्मना त्वद्य युद्वातिथ्यं प्रयच्छ मे॥ 8-52-22 (57633) एवमाचार्यपुत्रेण समाहूतो युयुत्सया। बहुमेनेऽर्जुनोऽऽत्मानमिति चाह जनार्दनम्॥ 8-52-23 (57634) संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम्। यदत्रानन्तरं प्राप्तं शंस मे तद्वि माधव॥ 8-52-24 (57635) आतिथ्यकर्माभ्युत्थाय दीयतां यदि मन्यसे। एवमुक्तोऽवहत्पार्थं कृष्णोद्रोणात्मजान्तिके॥ 8-52-25 (57636) शैक्ष्येण विधिनाऽऽहूतं वायुरिन्द्रमिवाध्वरे। तमामन्त्र्यैकमनसं केशवो द्रौणिमब्रवीत्॥ 8-52-26 (57637) अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च। निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम्॥ 8-52-27 (57638) सूक्ष्मो विवादो विप्राणां सूक्ष्मौ क्षास्त्रौ जयाजयौ॥ 8-52-28 (57639) नहि संक्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम्। समाप्तिमिच्छन्युध्यस्व स्यिरो भूत्वाऽद्य पाण्डवं॥ 8-52-29 (57640) इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः। विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः॥ 8-52-30 (57641) तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्बाणैः शरासनम्। चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः॥ 8-52-31 (57642) सज्यं कृत्वा निमेषाच्च विव्याधार्जुनकेशवौ। त्रिभिः शतैर्वासुदेवं सहस्रेण च पाण्डवम्॥ 8-52-32 (57643) ततः शरसहस्राणि प्रयुतान्यर्बुदानि च। ससृजे द्रौणिरायस्तः स्तम्भयामास चार्जुनम्॥ 8-52-33 (57644) इषुधेर्धनुषो ज्यायास्त्वङ्गुलिभ्यश्च मारिष। बाह्वोः कराभ्यामुरसो वदनाद्व्राणनेत्रतः॥ 8-52-34 (57645) कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्मभ्य एव च। रथध्वजाभ्यां च शरा निष्पेतुर्ब्रह्मवादिनः॥ 8-52-35 (57646) शरजालेन महता बद्ध्वा माधवपाण्डवौ। ननाद सुदितो द्रौणिर्महामेघौघनिःस्वनम्॥ 8-52-36 (57647) `तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः। सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जयौ॥ 8-52-37 (57648) दतः शरxxxxxxक्ष्णैर्भारद्वाजः प्रतापवान्। निxxxxxचक्रे रथे माधवपाण्डवौ॥ 8-52-38 (57649) xxxxजङ्गमं स्थावरं तथा। चराचरसा मोप्तारौ दृष्ट्वा सञ्छादितौ शरैः॥ 8-52-39 (57650) सिद्धचारxxxxxश्च संपेतुर्शै समन्ततः। अपि xxxxxxxx लोकानामिति चाब्रुवन्॥ 8-52-40 (57651) न मया xxxxxxxxxx राजन्दृष्टपृर्वः पराकमः। xxxxxxxxxxxx कृष्णो छादयतो रणे॥ 8-52-41 (57652) xxxxxxxxxxxशब्दं रथानां त्रासनं रणे। xxxxxxxxxx राजन्सिंहस्य नदतो यथा॥ 8-52-42 (57653) चरतो युद्धे सव्यं दक्षिणमस्यतः। विद्युदम्भोधरस्येव भ्राजमाना व्यदृश्यत॥ 8-52-43 (57654) स तदा क्षिप्रकारी च दृढहस्तश्च पाण्डवः। प्रमोहं परमं गत्वा प्रेक्षन्नास्ते धनञ्जयः॥ 8-52-44 (57655) विक्रमं चरतो युद्धे सव्यं दक्षिणमस्यतः। विक्रमं च हृतं मेने आत्मनस्तेन संयुगे॥ 8-52-45 (57656) अथास्य समरे राजन्वपुरासीत्सुदुर्दृशम्। द्रौणेस्तत्कुर्वतः कर्म यादृग्रूपं पिनाकिनः॥ 8-52-46 (57657) वर्धमाने ततस्तत्र द्रोणपुत्रे विशाम्पते। हीयमाने च कौन्तेये कृष्णं रोषः समाविशत्॥ 8-52-47 (57658) स रोषान्निश्वसन्राजन्निर्दहन्निव चक्षुषा। द्रौणिं ददर्श सङ्ग्रामे फल्गुनं च मुहुर्मुहुः॥ 8-52-48 (57659) ततः कृष्णोऽब्रवीत्क्रुद्धः पार्थं सप्रणयं वचः॥ 8-52-49 (57660) अत्यद्भुततमिदं पार्थ त्वयि पश्यामि संयुगे। यत्त्वां विशेषयत्याजौ द्रोणपुत्रोऽद्य भारत॥ 8-52-50 (57661) कच्चित्ते गाण्डिवं हस्ते मुष्टिर्वा न व्यशीर्यत। कच्चिद्वीर्यं यथापूर्वं भुजयोर्वा बलं तव॥ 8-52-51 (57662) उदीर्यमाणं हि रणे पश्यामि द्रौणिमाहवे। गुरुपुत्र इति ह्येनं मानयन्पाण्डवर्षभ। उपेक्षां मा कृथाः पार्थ नायं काल उपेक्षितुम्'॥ 8-52-52 (57663) अर्जुन उवाच। 8-52-53x (4972) पश्य माधव दौरात्म्यं गुरुपुत्रस्य मां प्रति। वधं प्राप्तौ मन्यते नौ प्रावेश्य शवरेश्मनि। एषोस्मि हन्मि सङ्कल्पं शिक्षया च बलेन च॥ 8-52-53 (57664) `एवमुक्त्वाऽस्य चिच्छेद भल्लैः कर्मारमार्जितैः। धनुश्छत्रं पताकां च रथशक्तिं गदां वराम्'॥ 8-52-54 (57665) अश्वत्थाम्नः शरानस्ताञ्छित्त्वैकैकं त्रिधा त्रिधा। व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः॥ 8-52-55 (57666) ततः संशप्तकान्भूयः साश्वसूतरथद्विपान्। ध्वजपत्तिगणानुर्ग्रैर्बाणैर्विव्याध पाण्डवः॥ 8-52-56 (57667) ये ये ददृशिरे तत्र यद्यद्रूपास्तदा जनाः। ते ते तत्र शरैर्व्याप्तं मेनिरेऽऽत्मानमात्मना॥ 8-52-57 (57668) ते गाण्डीवप्रमुक्तास्तु नानारूपाः पतत्रिणः। क्रोशे साग्रे स्थिताञ्जघ्नुर्द्विपांश्च पुरुषान्रणे॥ 8-52-58 (57669) भल्लैश्छिन्नाः कराः पेतुः करिणां मदवर्षिणाम्। यथा वने परशुभिर्निकृत्ताः शाल्मलिद्रुमाः॥ 8-52-59 (57670) पश्चात्तु शैलवत्पतुस्ते गजाः सह सादिभिः। वज्रिवज्रावमथिता यथैवाद्रिचयास्तथा॥ 8-52-60 (57671) गन्धर्वनगराकारान्रथांश्चैव सुकल्पितान्। विनीतैर्जवनैर्युक्तानास्थितान्युद्वदुर्मदैः॥ 8-52-61 (57672) शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत्। स्वलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जयः॥ 8-52-62 (57673) धनञ्जययुगान्तार्कः संशप्तकमहार्णवम्। व्यशोषयत दुःशोषं तीक्ष्णैः शरगभस्तिभिः॥ 8-52-63 (57674) पुनर्द्रौणिमहाशैलं नाराचैर्वज्रसन्निभैः। निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम्॥ 8-52-64 (57675) तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः। युयुत्सुरागमद्योद्धुं पार्थस्तानच्छिनच्छरान्॥ 8-52-65 (57676) ततः परमसङ्क्रुद्धः काण्डकोशमवासृजत्। अश्वत्थामाभिरूपाय गृहानतिथये यथा॥ 8-52-66 (57677) अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात्। अपाङ्क्तेयानिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम्॥ 8-52-67 (57678) `स्थिताः संशप्तका राजन्दृष्ट्वा युद्वं महात्मनोः'॥ ॥ 8-52-68 (57679) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विपञ्चाशोऽध्यायः॥ 52 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-52-1 वासिता पुष्पवती गौस्तदर्थम्॥ 8-52-12 त्रिवेणुः उभयतः-- काष्ठद्वयसहितो धूर्दण्डः। अक्षश्चक्राधारदण्डः॥ 8-52-13 योक्राणि बन्धनरज्जवः। रश्मयः प्रग्रहाः। कूबरस्त्रिवेणोरग्रभागः। बन्धुरं रथतल्पः युगं धूरग्रकाष्ठम्। अक्षप्रमण्डलं रथनीडाक्षयोः सन्धानकाष्ठजातम्॥ 8-52-14 विशकलीकुर्वन् विशेषेण शकलीकुर्वन्॥ 8-52-15 चन्द्रादीनां कान्त्यादीन् यथासंख्यं विभ्रतुः॥ 8-52-22 अर्हं पूजयितुं योग्यम्॥ 8-52-24 अनन्तरं प्रथमम्॥ 8-52-26 जैत्रेण विधिना इति झ.पाठः॥ 8-52-33 अयन्तः यत्नवान्॥ 8-52-34 इषुषिप्रभृतिभ्यः शराः पेतुः लोमभ्योऽपि च चेतुस्तत्र हेतुः ब्रह्मवादिनः योगबलवत इत्यर्थः॥ 8-52-64 महत् शैलं शिलासमूहो यस्मिन् तं महाशैलं पर्वतमिव॥ 8-52-66 काण्डकोशं बाणनिषङ्गम्॥ 8-52-52 द्विपञ्चाशोऽध्यायः॥ 52 ॥
कर्णपर्व - अध्याय 053

॥ श्रीः ॥

8.53. अध्यायः 053

Mahabharata - Karna Parva - Chapter Topics

अर्जुनेनाश्वत्थामपराजयः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-53-0 (57680) सञ्जय उवाच। 8-53-0x (4973) ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः। नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव॥ 8-53-1 (57681) सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः। लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव॥ 8-53-2 (57682) ततोऽविध्यद्धुवोर्मध्ये नाराचैरर्जुनो भृशम्। स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः॥ 8-53-3 (57683) अथ कृष्णौ शरशतैरश्वत्थाम्नाऽर्दितौ भृशम्। स्वरश्मिजालविकचौ युगान्तार्काविवासुतः॥ 8-53-4 (57684) ततोऽर्जुनः सर्वतोधारमस्त्र-- मवासृजद्वासुदेवेऽभिभूते। द्रौणायनिश्चाभ्यहनत्पृषत्कै-- र्वज्राग्निवैवस्वतदण्डकल्पैः॥ 8-53-5 (57685) स केशवं चार्जुनं चातितेजा विव्याध मर्मस्वतिरौद्रकर्मा। बाणैः सुमुक्तैरतितीव्रवेगै-- र्यैराहतो मृत्युरपि व्यथेत॥ 8-53-6 (57686) द्रौणेरिषूनिषुभिः सन्निवार्य व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः। तं साश्वसूतध्वजमेकवीर-- मावृत्य संशप्तकसैन्यमार्च्छत्॥ 8-53-7 (57687) धनूंषि बाणानिषुधीर्धनुर्ज्याः पाणीन्भुजान्पाणिगतं च शस्त्रम्। छत्राणि केतूंस्तुरगान्रथेषां वस्त्राणि माल्यान्यथा भूषणानि॥ 8-53-8 (57688) चर्माणि वर्माणि मनोरमाणि प्रसह्य चैषां स शिरांसि चैव। स्रिच्छेद पार्थो द्विषतां सुमुक्तै-- र्बाणैः स्थितानामपराङ्मुखानाम्॥ 8-53-9 (57689) सुकल्पिताः स्मन्दनवाजिनागाः समास्थिताः कृतयत्नैर्नृवीरैः। पार्थेरितैर्बाणशतैर्निरस्ता-- स्तैरेव सार्धं नृवरैर्विनेशुः॥ 8-53-10 (57690) पद्मार्कपूर्णेन्दुनिभाननानि किरीटमाल्याभरणोज्ज्वलानि। भल्लार्धचन्द्रक्षुरसन्निकृत्ता-- न्यपातयच्छत्रुशिरांस्यजस्रम्॥ 8-53-11 (57691) अथ द्विपैर्दैत्यरिपुद्विपाभै-- र्देवारिकल्पा बलमन्युकल्पैः। कलिङ्गवङ्गाङ्गनिषादवीरा जिघांसवः पाण्डवमभ्यधावन्॥ 8-53-12 (57692) तेषां द्विपानां निचकर्त पार्थो वर्माणि चर्माणि करान्नियन्तॄन्। ध्वजाः पताकाश्च ततः प्रपेतु-- र्वज्राहतानीव गिरेः शिरांसि॥ 8-53-13 (57693) तेषु प्रभग्नेषु गुरोस्तनूजं बाणैः किरीटि नवसूर्यवर्णैः। प्रच्छादयामास महाभ्रजालै-- र्वायुः समुद्यन्तमिवांशुमन्तम्॥ 8-53-14 (57694) ततोऽर्जुनेषूनिषुभिर्निरस्य द्रौणिः शितैरर्जुनवासुदेवौ। प्रच्छादयित्वा दिवि चन्द्रसूर्यौ ननाद सोऽम्भोद इवातपान्ते॥ 8-53-15 (57695) तमर्जुनस्तांश्च पुनस्त्वदीया-- नभ्यर्दितस्तैरभिसृत्य शस्त्रैः। वाणान्धकारं सहसैव कृत्त्वा विव्याध पार्थो वरहेमपुङ्खैः॥ 8-53-16 (57696) नाप्याददत्सन्दधन्नैव मुञ्च-- न्बाणान्रथेऽदृश्यत सव्यसाची। रथांश्च नागांस्तुरगान्पदातीन् संस्यूतदेहान्ददृशुर्हतांश्च॥ 8-53-17 (57697) सन्धाय नाराचवरान्दशाशु द्रौणिस्त्वरन्नेकमिवोत्ससर्ज। तेषां च पञ्चार्जुनमभ्यविध्य-- न्पञ्चाच्युतं निर्बिभुदुः सुपुङ्खाः॥ 8-53-18 (57698) तैराहतौ सर्वमनुष्यमुख्या-- वसृक्स्रवन्तौ धनदेन्द्रकल्पौ। समाप्तविद्येन तथाऽभिभूतौ हतौ रणे ताविति मेनिरेऽन्ये॥ 8-53-19 (57699) अथार्जुनं प्राह दशार्हनाथः प्रमाद्यसे किं जहि योधमेतम्। कुर्याद्धि दोषं समुपेक्षितोऽयं कष्टो भवेद्व्याधिरिवाक्रियावान्॥ 8-53-20 (57700) तथेति चोक्त्वाऽच्युतमप्रमादी द्रौणेः प्रहस्याशु किरीटमाली। भुजौ वरौ चन्दनसारदिग्धौ वक्षः शिरोऽथाप्रतिमौ तथोरू॥ 8-53-21 (57701) गाण्डीवमुक्तैः कुपिताहिकल्पै-- द्रौणिं शरैः संयति निर्बिभेद। छित्त्वा तु रश्मींस्तुरगानविध्य-- त्ते तं रणादूहुरतीव दूरम्॥ 8-53-22 (57702) स तैर्हृतो वातजवैस्तुरङ्गै- र्द्रौणिर्दृढं पार्थशराभिभूतः। आवृत्य नैव व्यषहत्स योद्धुं पार्थेन सार्धं मतिमान्विमृश्य। 8-53-23 (57703) जानञ्जयं नियतं वृष्णिवीरे धनञ्जये चाङ्गिरसां वरिष्ठः॥ विवेश कर्णस्य बलं तरस्वी भग्नोत्साहः क्षीणवाणास्त्रयोगः॥ 8-53-24 (57704) प्रतीपकामे तु रणादश्वत्थाम्नि हृते हयैः। मन्त्रौषधिक्रियायोगैर्व्याधौ देहादिवाहृते॥ 8-53-25 (57705) संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ। वातोद्वूतपताकेन स्यन्दनेनौघनादिना॥ ॥ 8-53-26 (57706) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिपञ्चाशोऽध्यायः॥ 53 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-53-1 नक्षत्रमभितः नक्षत्रं लक्षीकृत्य॥ 8-53-2 विमार्गस्थौ वक्रातिचारगौ॥ 8-53-4 कृष्णौ कृष्णार्जुनौ आसतुः दीपयाञ्चक्रतुः॥ 8-53-5 सर्वतोधारं सर्वतोऽस्त्रधारावर्षकं। सर्वतोवारमिति घ.ङ.पाठः। वज्रकल्पैः अमोधैः। अग्निकल्पैः दाहकैः। वैवस्वतदण्डकल्पैः प्राणहरैः॥ 8-53-7 ध्यायच्छतो यतमानस्य। आर्च्छतगतवान्॥ 8-53-10 सुकल्पिताः सुसन्नद्धाः॥ 8-53-13 करान् शुण्डाः॥ 8-53-16 तं अश्वत्थामानम्। तान् तदन्यान्। तैः कृतं न्नाणान्धकारं कृत्त्वा छित्त्वा। कृती छेदन॥ 8-53-17 संस्यूताः अन्योन्यं सन्धट्टवन्तः॥ 8-53-19 समाप्तविद्येन समग्रधनुर्वेदविदा॥ 8-53-20 अक्रियावान् प्रतिकाररहितः॥ 8-53-22 अविकर्णैः अविकर्णतुत्याग्रैः॥ 8-53-23 अङ्गिरसां अङ्गिरोगोत्राणां मध्ये॥ 8-53-26 ओघनादिना जलौघवन्नादवता॥ 8-53-53 त्रिपञ्चाशोऽध्यायः॥
कर्णपर्व - अध्याय 054

॥ श्रीः ॥

8.54. अध्यायः 054

Mahabharata - Karna Parva - Chapter Topics

अर्जुनेन दण्डदण्डधारयोर्वधः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-54-0 (57707) सञ्जय उवाच। 8-54-0x (4974) अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः। रथनागाश्वपत्तीनां दण्डधारेण वध्यताम्॥ 8-54-1 (57708) निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत्। वाहयन्नेव तुरगान्गरुडानिलरंहसः॥ 8-54-2 (57709) मागधोऽसावतिक्रान्तो द्विरदेन प्रमाथिना। भगदत्तादनवमः शिक्षया च बलेन च॥ 8-54-3 (57710) एनं हत्वा निहन्ताऽसि पुनः संशप्तकानिति। वाक्यान्ते प्रापयत्पार्थं दण्डधारगजं प्रति॥ 8-54-4 (57711) स मागधानां प्रवरो महाबलोऽ-- शुभग्रहो योधगणैः समन्वितः। सपत्नसेनां प्रममाथ दारुणो भीमं समग्रां बलवानिव ग्रहम्॥ 8-54-5 (57712) सुकल्पितं दानवनागसन्निभं महाभ्रनिर्हादसमस्वनं रणे। समास्थितो नागवरं नरेश्वरो रथाश्वमातङ्गनरप्रमाथिनम्॥ 8-54-6 (57713) स नागयन्तॄन्समरे महारथा-- न्सपत्तिसङ्घांस्तुरगान्ससादिनः। द्विपांश्च बाणैर्निजघान वीर्यवा-- न्समन्ततो घ्नन्निव कालचक्रवत्॥ 8-54-7 (57714) नरांस्तु कांस्यायसवर्मभूषणा-- न्निपात्य साश्वानपि पत्तिभिः सह। व्यपोथयद्दन्तिवरेण शुष्मिणा सशब्दवत्स्थूलनलं यथा तथा॥ 8-54-8 (57715) अथार्जुनो ज्यातलनेमिनिःस्वने मृदङ्गभेरीबहुशङ्खनादिते। रथाश्वमातङ्गसहस्रनादिते रथोत्तमेनाभ्यपतद्द्विपोत्तमम्॥ 8-54-9 (57716) ततोऽर्जुनं द्वादशभिः शरोत्तमै-- र्जनार्दनं षोडशभिः समार्पयत्। स दण़्डधारस्तुरगांस्त्रिभिस्त्रिभि--- स्ततो ननाद प्रजहास चासकृत्॥ 8-54-10 (57717) ततोऽस्य पार्थः सगुणेषुकार्मुकं चकर्त भल्लैर्ध्वजमप्यलङ्कृतम्। पुनर्नियन्तॄन्सहपादगोप्तृभि-- स्ततः स चुक्रोध गिरिव्रजेश्वरः॥ 8-54-11 (57718) ततोऽर्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यरंहसा। अतीव चुक्रोधयिषुर्जनार्दनं घनञ्जयं चाभिजघान तोमरैः॥ 8-54-12 (57719) अथास्य बाहू द्विपहस्तसन्निभौ शिरश्च पूर्णेन्दुनिभाननं त्रिभिः। क्षुरैः प्रचिच्छेद सहैव पाण्डव-- स्ततो द्विपं बाणशतैः समर्पयत्॥ 8-54-13 (57720) स पार्थबाणैस्तपनीयभूषणैः समावृतः काञ्चनवर्मभृद्द्विपः। भृशं चकाशे निशि पर्वतो यथा दावाग्निना प्रज्वलितौषधिद्रुमः॥ 8-54-14 (57721) स वेदनार्तोऽम्बुदनिस्वनो नदं-- श्चरन्भ्रमन्प्रस्स्वलितान्तरोऽद्रवत्। पपात रुग्णः सनियन्तृकस्तथा॥ यथा गिरिर्वज्रविदारितस्तथा॥ 8-54-15 (57722) हिमावदानेन सुवर्णमालिना हिमाद्रिकूटप्रतिमेन दन्तिना। हते रणे भ्रातरि दण्ड आव्रज-- ज्जिघांसुरिन्द्रावरजं धनञ्जयम्॥ 8-54-16 (57723) सतोमरैरर्करप्रभैस्त्रिभि-- र्जनार्दनं पञ्चभिरर्जुनं शितैः। समर्पयित्वा विननाद चार्दयं-- स्ततोऽस्य बाहू निचकर्त पाण्डवः॥ 8-54-17 (57724) क्षुरप्रकृत्तौ विपुलौ सतोमरौ शुभाङ्गदौ चन्दनरूषितौ भुजौ। गजात्पतन्तौ युगपद्विरेजतु-- र्यथोरगौ पर्वतशृङ्गवन्महीम्॥ 8-54-18 (57725) अथाऽर्धचन्द्रेण हतं किरीटिना पपात दण्डस्य शिरः क्षितिं द्विपात्। स शोणितार्द्रो निपतन्विरेजे दिवाकरोऽस्तादिव पश्चिमां दिशम्॥ 8-54-19 (57726) अथ द्विपं श्वेतनगाग्रसन्निभं दिवाकरांशुप्रतिमैः शरोत्तमैः। बिभेद पार्थः स पपात नादयन् हिमाद्रिकूटं कुलिशाहतं यथा॥ 8-54-20 (57727) ततोऽपरं तत्प्रतिमा गजोत्तमा जिगीषवः संयति सव्यसाचिना। तथा कृतास्तेऽपि यथैव तौ द्विपौ ततः प्रभग्नं सुमहद्रिपोर्बलम्॥ 8-54-21 (57728) गजा रथाश्वाः पुरुषाश्च सङ्घशः परस्परघ्नाः परिपेतुराहवे। परस्परं प्रस्खलिताः समाहता भृशं च तत्तद्बहुभाषिणो हताः॥ 8-54-22 (57729) अथार्जुनं स्वे परिवार्य सैनिकाः पुरन्दरं देवगणा इवाब्रुवन्। अभैष्म यस्मान्मरणादिव प्रजाः स वीर दिष्ट्या निहतस्त्वया रिपुः॥ 8-54-23 (57730) न चेत्परित्रास्यदिमाञ्जनान्भया-- द्द्विषद्भिरेवं बलिभिः प्रपीडितान्। तथाऽभविष्यद्द्विषतां प्रमोदनं यथा हतेष्वेष्विह नोऽरिसूदन॥ 8-54-24 (57731) इतीव भूयश्च सुहृद्भिरीडिता निशम्य वाचः सुमनास्तदाऽर्जुनः। यथाऽनुरूपं प्रतिपूज्य तं जनं जगाम संशप्तकसङ्घहा पुनः॥ ॥ 8-54-25 (57732) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुःपञ्चाशोऽध्यायः॥ 54 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-54-1 उत्तरेण उत्तरतः। वध्यतां वध्यमानानाम्॥ 8-54-3 अनवमः अहीनः॥ 8-54-5 स मागधानां प्रवरोऽङ्कुशग्रहे ग्रहेऽप्रसह्यो विकचो यथा ग्रहः। सपत्नसेनां प्रममाथ दारुणो महीं समग्रां विकचो यथा ग्रहः। इति झ.पाठः। तत्र इत्यर्थः। अङ्कुशग्रहे अङ्कुशधारमे हङ्कियुद्धे इत्यर्थः। ग्रहे आदित्यादिग्रहसमूहे युद्धपरिग्रहे च अप्रसह्यः। विकचः कचोपलक्षितशिरोरहितः केतुरूपी ग्रह इव। विकचो विस्तीर्णो ग्रहो धूमकेतुरूपी उत्पातग्रहः॥ 8-54-8 शुष्मिणा बलवता। स्थूलसुषिरं नलं तृणविशेषम्॥ 8-54-11 सगुणेषुकार्मुकं मौर्वीबाणसहितं धनुः। नियन्तॄन् नियन्तारम्॥ 8-54-12 धनाधनो घतुकमत्तदन्तिनोरिति विश्वः॥ 8-54-13 सहैव युगपत्॥ 8-54-15 स्खलितान्तरः मध्येस्खलतित्यर्थः॥ 8-54-16 इन्द्रावरजं कृष्णम्॥ 8-54-19 अस्तात् अत्वाचलात्॥ 8-54-21 तौ दण्डधारतद्भ्रात्रोर्द्विपौ यथा साध्यक्षौ कृत्तौ छिन्नौ तथा तेपि कृताः॥ 8-54-54 चतुःपञ्चाशोऽध्यायः॥
कर्णपर्व - अध्याय 055

॥ श्रीः ॥

8.55. अध्यायः 055

Mahabharata - Karna Parva - Chapter Topics

अर्जुनेन संशप्तकानां वधः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-55-0 (57733) सञ्जय उवाच। 8-55-0x (4975) प्रत्येत्याथ पुनर्जिष्णुर्जित्वा संशप्तकान्बभौ। वक्रानुवक्रगमनादङ्गारक इव ग्रहः॥ 8-55-1 (57734) पार्थबाणहता राजन्नराश्वरथकुञ्जराः। विचेलुर्बभ्रमुर्नेशुः पेतुर्मम्लुश्च भारत॥ 8-55-2 (57735) धुर्यान्धुर्येतरान्सूतान्ध्वजांश्चपासिसायकान्। पाणीन्पाणिगताञ्शस्त्रान्बाहूनपि शिरांसि च॥ 8-55-3 (57736) भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः। चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम्॥ 8-55-4 (57737) तं प्रवीरास्त्वदीयानां नर्दमानाऽभिदुद्रुवुः। वासितार्थे युयुत्सन्तो वृषभा वृषभं यथा। निपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः॥ 8-55-5 (57738) तेषां तस्य च तद्युद्धमभवद्रोमहर्षणम्। त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा॥ 8-55-6 (57739) तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः। उग्रायुधस्य तस्याशु शिरः कायादपाहरत्॥ 8-55-7 (57740) तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन्। मरुद्भिः प्रेरिता मेघा हिमवन्तमिवोष्णगे॥ 8-55-8 (57741) अस्त्रैरस्त्राणिं संवार्य द्विषतां सर्वतोऽर्जुनः। सम्यगस्तैः शरैः सर्वानहितानहनद्बहून्॥ 8-55-9 (57742) छिन्नत्रिवेणुजङ्घेषान्हताश्वान्हतसारथीन्। विस्रस्तहस्ततूणीरान्विचक्रथकेतनान्॥ 8-55-10 (57743) सञ्छिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान्। विध्वस्तसर्वसन्नाहान्बाणैश्चक्रेऽर्जुनस्त्वरन्॥ 8-55-11 (57744) ते रथास्तत्र विध्वस्ताः परार्द्व्या भान्त्यनेकशः। धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः॥ 8-55-12 (57745) द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः। पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा॥ 8-55-13 (57746) अनेकैश्च शिलाधौतैर्वज्रानलविषोपमैः। शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान्॥ 8-55-14 (57747) सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः। निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः॥ 8-55-15 (57748) नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना। बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष॥ 8-55-16 (57749) महार्हवर्माभरणा नानारूपाम्बरायुधाः। सरथाश्वद्विपा वीरा हताः पार्थेन शेरते॥ 8-55-17 (57750) निर्भयाः पुण्यकर्माणो विशिष्टाभिजनश्रुताः। गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम्॥ 8-55-18 (57751) अथार्जुनरथं वीरास्त्वदीयाः समभिद्रवन्। नानाजनपदाध्यक्षाः सगणा जातमन्यवः॥ 8-55-19 (57752) उह्यमना रथाश्वेभैः पत्तयश्च जिघांसवः। समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम्॥ 8-55-20 (57753) तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः। व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः॥ 8-55-21 (57754) साश्वपत्तिद्विपरथं महाशस्त्रौघसम्प्लवम्॥ सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना॥ 8-55-22 (57755) अथाब्रवीद्वासुदेवः पार्थ किं क्रीडसेऽनघ। संशप्तकान्प्रमथ्यैनांस्ततः कर्णवधे त्वर॥ 8-55-23 (57756) तथेत्युक्त्वाऽर्जुनः कृष्णं शिष्टान्संशप्तकांस्तदा। क्षपयिष्यंस्तदा बाणैर्दैत्यानिन्द्र इवावधीत्॥ 8-55-24 (57757) आददत्सन्दधन्नेषृन्दृष्टः कैश्चिद्रणेऽर्जुनः। विमुञ्चन्वा शराञ्शीघ्रं दृश्यन्ते वै नरा हताः॥ 8-55-25 (57758) आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत्। हंसांशुगौरास्ते सेनां हंसाः सर इवाविशन्॥ 8-55-26 (57759) ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षये। अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत्॥ 8-55-27 (57760) एष पार्थ महारौद्रो वर्तते भरतक्षयः। पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान्॥ 8-55-28 (57761) पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम्। हतानामपविद्धानि कलापानिषुधींस्तथा॥ 8-55-29 (57762) जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः। तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान्॥ 8-55-30 (57763) आकीर्णांस्तोमरान्वाहांश्छत्रान्हेमविभूषितान्। चर्माणि चापविद्धानि रुक्मपृष्ठानि भारत॥ 8-55-31 (57764) सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः। जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः॥ 8-55-32 (57765) जातरूपमयीश्चर्ष्टीः पट्टसान्हेमभूषितान्। दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वथान्॥ 8-55-33 (57766) परिघान्भिण्डिपालांश्च भुशुण्डीः कणपानपि। अयस्कुन्तांश्च पतितान्मुसलानि गुरूणि च॥ 8-55-34 (57767) नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः। जीवन्त इव दृश्यन्ते गतसत्वास्तरस्विनः॥ 8-55-35 (57768) गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान्। गजवाजिरथैः क्षुण्णान्पश्य योधान्सहस्रशः॥ 8-55-36 (57769) मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः। निस्त्रिंशैः पट्टसैः प्रासैर्नखरैर्लगुडैरपि॥ 8-55-37 (57770) शरीरैर्बहुघा छिन्नैः शोणितौघपरिप्लुतैः। गतासुभिरमित्रघ्न संवृता रणभूमयः॥ 8-55-38 (57771) बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः। सतलत्रैः सकेयूरैर्भाति भारत मेदिनी॥ 8-55-39 (57772) साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्वैरलङ्कृतैः। हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम्॥ 8-55-40 (57773) बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः। `निकृत्तैर्वृषभाक्षाणां शरीरैश्चापि सङ्घशः॥ 8-55-41 (57774) गजवाजिमनुष्याणां शरशक्त्यृष्टितोमरैः। कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः। भूर्भाति भरतश्रेष्ठ शान्ताग्निभिरिवाध्वरे'॥ 8-55-42 (57775) रथांश्च बहुधा भग्नान्हेमकिङ्किणिनः शुभान्। अश्वांश्च बुहधा पश्य शोणितेन परिप्लुतान्॥ 8-55-43 (57776) अनुकर्षानुपासङ्गान्पताका विविधान्ध्वजान्। योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान्। निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान्॥ 8-55-44 (57777) वैजयन्तीर्विचित्राश्च हतांश्च गजयोधिनः। वारणानां परिस्तोमान्संयुक्तानेककम्बलान्॥ 8-55-45 (57778) विपाटितविचित्राश्च रूपचित्राः कुथास्तथा। भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः॥ 8-55-46 (57779) वैदूर्यमणिदण्डांश्च पतितांश्चाङ्कुशान्भुवि। अश्वानां च युगापीडान्रत्नचित्रानुरश्छदान्॥ 8-55-47 (57780) विद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कुथाः। विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान्॥ 8-55-48 (57781) अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि। चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः। छत्राणि चापविद्धानि चामरव्यजनानि च॥ 8-55-49 (57782) चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः। क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः। वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम्॥ 8-55-50 (57783) सजीवांश्च नरान्पश्य कूजमानान्समन्ततः। उपास्यमानांश्च बहून्न्यस्तशस्त्रैश्च भूपते। ज्ञातिभिश्च जलक्लिन्नान्रोदमानैर्मुहुर्मुहुः॥ 8-55-51 (57784) उत्क्रान्तानपरान्योधाञ्छादयित्वा तरस्विनः। पुनर्युद्धाय गच्छन्ति जये लुब्धाः प्रमन्यवः॥ 8-55-52 (57785) अपरे तत्रतत्रैव परिधावन्ति मानवाः। सन्निवृत्ताश्च ते शूरा दृष्टा चैतान्विचेतसः॥ 8-55-53 (57786) जलं त्यक्त्वा प्रधावन्ति क्रोशमानाः परस्परम्। जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत॥ 8-55-54 (57787) परिष्वज्य प्रियानन्ये बान्धवान्बन्धुवत्सलाः। विसंज्ञान्समरे योधांस्तत्रतत्र महारणे॥ 8-55-55 (57788) पश्यापरान्नरश्रेष्ठ सन्दष्टोष्ठपुटान्पुनः। भृकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्महारणम्॥ 8-55-56 (57789) एतत्तवैवानुरूपं कर्मार्जुन महाहवे। दिवि वा देवराजस्य त्वया यत्कृतमाहवे॥ 8-55-57 (57790) सञ्जय उवाच। 8-55-58x (4976) एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने। गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत्॥ 8-55-58 (57791) शङ्खदुन्दुभिनिर्घोषं भेरीपणवनिःस्वनम्। रथाश्वनरनागानां पादशब्दांश्च दारुणान्॥ 8-55-59 (57792) प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगितैः। पाण्ड्येनाभ्यर्दितं सैन्यं त्वदीयं वीक्ष्य विस्मितः॥ 8-55-60 (57793) स हि नानाविधैर्बाणैरिष्वस्त्रप्रवरो युधि। न्यहनद्द्विषतां पूगान्गतासूनन्तको यथा॥ 8-55-61 (57794) गजवाजिमनुष्याणां शरीराणि शितैः शरैः। भित्त्वा प्रहरतां श्रेष्ठो विदेहासूनपातयत्॥ 8-55-62 (57795) शत्रुप्रवीरैरस्त्राणि नानाशस्त्राणि सायकैः। छित्त्वा तानवधीच्छत्रून्पाण्ड्यः शक्र इवासुरान्॥ ॥ 8-55-63 (57796) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चपञ्चाशोऽध्यायः॥ 55 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-55-3 धुर्यान् श्रेष्ठान्। धुर्यगतानिति पाठे वाहान्॥ 8-55-5 वासितार्थे स्त्रीनिमित्तम्॥ 8-55-7 दन्दशूकैः दंशनशीलैः। अपाहरदर्जुन इति शेषः॥ 8-55-8 उष्णगे ग्रीष्मे गते सति प्रावृषीत्यर्थः। उष्णे ग्रीध्मो गतोऽतीतो यत्र स उष्णगः कालविशेष इति विग्रहः॥ 8-55-9 अस्तैः क्षिप्तैः॥ 8-55-11 अनुकर्षः रथाधस्थं दारु॥ 8-55-15 निर्जिह्वान्त्राः निर्गताः जिह्वाः अन्त्राणि च येषां ते॥ 8-55-29 कलापान् अलङ्कारान्॥ 8-55-31 आकीर्णान् सर्वतोविक्षिप्तान्॥ 8-55-37 वाजीनां शरीरैरिति सम्बन्धः। दैर्ध्यमार्षम्॥ 8-55-55 पञ्चपञ्चाशोऽध्यायः॥ 55 ॥
कर्णपर्व - अध्याय 056

॥ श्रीः ॥

8.56. अध्यायः 056

Mahabharata - Karna Parva - Chapter Topics

अश्वत्थाम्ना पाण्ड्यवधः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-56-0 (57797) धृतराष्ट्र उवाच। 8-56-0x (4977) प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः। न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम्॥ 8-56-1 (57798) तस्य विस्तरशो ब्रूहि प्रवीरस्याद्य विक्रमम्। शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च॥ 8-56-2 (57799) सञ्जय उवाच। 8-56-3x (4978) भीष्मद्रोणकृपद्रौणिकर्णार्जुनजनार्दनान्। समाप्तविद्यान्धनुषि श्रेष्ठान्यान्सप्त मन्यसे॥ 8-56-3 (57800) यो ह्याक्षिपति वीर्येण सर्वानेतान्महारथान्। न मेने चात्मना तुल्यं कञ्चिदेव नरेश्वरम्॥ 8-56-4 (57801) तुल्यतांद्रोणभीष्माभ्यामात्मनो यो न मृष्यते। वासुदेवार्जुनाभ्यां च न्यूनतां नैच्छतात्मनि॥ 8-56-5 (57802) स पाण्ड्योऽर्थपतिश्रेष्ठः सर्वशस्त्रभृतां वरः। कर्णस्यानीकमहनत्पाशहस्त इवान्तकः॥ 8-56-6 (57803) तदुदीर्णरथाश्वेभं पत्तिप्रवरसङ्कुलम्। कुलालचक्रवद्धान्तं पाण्ड्येनाभ्याहतं बलात्॥ 8-56-7 (57804) व्यश्वसूतध्वजरथान्विप्रयुक्तयुगान्रथान्। सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत्॥ 8-56-8 (57805) द्विरदान्प्रवरारोहान्विपताकायुधध्वजान्। स पादरक्षानहनद्वज्रेणाद्रीनिवाद्रिहा॥ 8-56-9 (57806) स शक्तिप्रासतूणीरानश्वारोहान्हयानपि। पुलिन्दखसबाह्लीकनिषादान्ध्रककुन्तलान्॥ 8-56-10 (57807) दाक्षिणात्यांश्च भोजांश्च शूरान्सङ्ग्रामकर्कशान्। विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून्॥ 8-56-11 (57808) चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्डयमाहवे। दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्तस्ततोऽभ्ययात्॥ 8-56-12 (57809) आभाष्य चैनं मधुरमभीतं तमभीतवत्। प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयत्॥ 8-56-13 (57810) राजन्कमलपत्राक्ष प्रधानायुधवाहन। वज्रसंहननप्रख्य प्रख्यातबलपौरुष॥ 8-56-14 (57811) मुष्टिक्लिष्टाङ्गुलिभ्यां च व्यायताभ्यां महद्धनुः। दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम्॥ 8-56-15 (57812) शरवर्षैर्महावेगैरमित्रानभिवर्षतः। मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे॥ 8-56-16 (57813) रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून्। मृगसङ्घानिवारण्ये विभीर्भीमबलो हरिः॥ 8-56-17 (57814) महता रथघोषेण दिवं भूमिं च नादयन्। वर्षान्ते सस्यां सूर्यो भाभिरादीपयन्निव॥ 8-56-18 (57815) संस्पृशानः शरैः पूर्णौ तूणी चाशीविषोपमैः। मयैवैकेन युध्यस्व त्र्यम्बकेनान्धको यथा॥ 8-56-19 (57816) एवमुक्तस्तथेत्युक्त्वा प्रमथ्यैनं स पार्थिवः। कर्णिना द्रोणतनयं विव्याध मलयध्वजः॥ 8-56-20 (57817) मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः। मर्मस्वभ्यहनद्द्रौणिः पाण्ड्यमाचार्यनन्दनः॥ 8-56-21 (57818) ततोऽपरान्नवांस्तूर्णं नाराचान्कङ्कवाससः। गत्या दशम्या संयुक्तानश्वत्थामाऽप्यवासृजत्॥ 8-56-22 (57819) तानच्छिनत्तदा पाण्ड्यश्चतुर्भिरपरैः शरैः। चतुरोऽभ्याहनच्चाश्वानाशु ते व्यसवोऽभवन्॥ 8-56-23 (57820) अथ द्रोणसुतस्येषूंस्ताञ्छित्त्वा निशितैः शरैः। धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यतेजसः॥ 8-56-24 (57821) दिव्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा। प्रेक्ष्य चाशु रथे युक्तान्नरैरन्यान्हयोत्तमान्॥ 8-56-25 (57822) ततः शरसहस्राणि प्रेषयामास वै द्विजः। इषुसम्बाधमाकाशमकरोद्दिश एव च॥ 8-56-26 (57823) ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः। जानानोप्यक्षयान्पाण्ड्यो शातयत्पुरुषर्षभः॥ 8-56-27 (57824) प्रयुक्तांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः। चक्ररक्षौ रणे तस्य प्राणुदन्निशितैः शरैः॥ 8-56-28 (57825) अथ तल्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः। प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा॥ 8-56-29 (57826) अष्टावष्टगवान्यूहुः शकटानि यदायुधम्। अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष॥ 8-56-30 (57827) तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम्। ये ये ददृशिरे रूपं विसंज्ञाः प्रायशोऽभवन्॥ 8-56-31 (57828) आचार्यपुत्रस्तां सेनां बाणवृष्ट्या व्यवीवृषत्। पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महिम्॥ 8-56-32 (57829) द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम्। वायव्यास्त्रेण स क्षिप्रं विद्ध्वा पाण्ड्यातिलोऽनदत्॥ 8-56-33 (57830) तस्य नानदतः केतुं चन्दनागुरुरूषितम्। मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत्॥ 8-56-34 (57831) सूतमेकेषुणा हत्वा महाजलदनिःस्वनम्। धनुश्छित्त्वाऽर्धचन्द्रेण तिलशो व्यधमद्रथम्॥ 8-56-35 (57832) अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च। प्राप्तमप्यहितं द्रौणिर्नाहनद्युद्धतृष्णया॥ 8-56-36 (57833) हतेश्वरो दन्तिवरः सुकल्पित-- सत्वराभिसृष्टः प्रतिशब्दगो बली। तमाद्रवद्द्रौणिशराहतस्त्वरन् जवेन कृत्वा प्रतिहस्तिगर्जितम्॥ 8-56-37 (57834) तं वारणं वारणयुद्धकोविदो द्विपोत्तमं पर्वतसानुसन्निभम्। सम्भ्यतिष्ठन्मलयध्वजस्त्वर-- न्यथाऽद्रिशृङ्गं हरिरुन्नदंस्तथा॥ 8-56-38 (57835) स तोमरं भास्कररश्मिवर्चसं बलास्त्रसर्गोत्तमयत्नमन्युभिः। ससर्ज शीघ्रं परिपीडयन्गजं गुरोः सुताय द्रविडेश्वरो नदन्॥ 8-56-39 (57836) मणिप्रवेकोत्तमवज्रहाटकै-- रलङ्कृतं चांशुकमाल्यमौक्तिकैः। हतो मयासीत्यसकृन्मुदा नद-- न्पराभिनद्द्रौणिवराङ्गभूषणम्॥ 8-56-40 (57837) तदर्कचन्द्रग्रहपावकत्विषं भृशाभिघातात्पतितं विघूर्णितम्। महेन्द्रवज्राभिहतं महास्वनं यथाऽद्रिशृङ्गं भरणीतले तथा॥ 8-56-41 (57838) ततः प्रजज्वाल परेण मन्युना' पादाहतो नागपतिर्यथा तथा। समाददे चान्तकदण्डसन्निभा-- निषूनमित्रान्तकरांश्चतुर्दश॥ 8-56-42 (57839) द्विपस्य पादाग्रकरान्स पञ्चभि-- र्नृपस्य बाहू च शिरोऽथ च त्रिभिः। जघान पड्भिः पडृतूपमत्विषः स पाण्ड्यराजानुचरान्महारथान्॥ 8-56-43 (57840) सुदीर्घवृत्तौ वरचन्दनोक्षितौ सुवर्णमुक्तामणिवज्रभूषणौ। भुजौ धरायां पतितौ नृपस्य तौ विचेष्टतुस्तार्क्ष्यहताविवोरगौ॥ 8-56-44 (57841) शिरश्च तत्पूर्णशशिप्रभाननं सरोषताम्रायतनेत्रमुन्नसम्। क्षितावपि भ्राजति तत्सकुण्डलं विशाखयोर्मध्यगतः शशी यथा॥ 8-56-45 (57842) [स तु द्विपः पञ्चभिरुत्तमेषुभिः कृतः षडंशश्चतुरो नृपस्त्रिभिः। कृतो दशांशः कुशलेन युध्यता यथा हविस्तद्दश दैवतं तथा॥ 8-56-46 (57843) स पादशो राक्षसभोजनान्बहून् प्रदाय पाण्ड्योऽश्वमनुष्यकुञ्जरान्। स्वधामिवाप्य ज्वलनः पितृप्रिय-- स्ततः प्रशान्तः सलिलप्रवाहतः]॥ 8-56-47 (57844) समाप्तविद्यं तु गुरोः सुतं नृपः समाप्तकर्माणमुपेत्य ते सुतः। सुहृद्वृतोऽत्यर्थमपूजयन्मुदा जिते बलौ विष्णुमिवामरेश्वरः॥ ॥ 8-56-48 (57845) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्पञ्चाशोऽध्यायः॥ 56 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-56-10 पाण्ड्यः व्यसूनकरोदिति द्वयोः सम्बन्धः॥ 8-56-13 अनुस्मृत्य ह्याभीतवत् इति ख.पाठः। अनुसृत्य हि भीतवत् इति क.ङ.पाठः॥ 8-56-16 वर्षतः मत् मत्तः॥ 8-56-17 प्रमथसे प्रमथ्नासि॥ 8-56-20 मलयवत् कृत्रिमो ध्वजो यस्य। मलयध्वज इति प्रवीरस्यैव नामान्तरं वा॥ 8-56-22 गत्या दशम्या। उन्मुख्यभिमुखी तिर्यङ् मन्दा गोमूत्रिका ध्रुवा। स्खलित यमकाक्रान्ता क्रुष्टेतीषुगतीर्विदुः। दशमीगतिस्तु शिरसा सह दूरपातिनी अतिकुष्टानाम। तया गत्या॥ 8-56-29 पूषानुजः पर्जन्यः॥ 8-56-30 अष्टवृषभवाह्यानि अष्टौ शकटानि यादयुधसम्भारं ऊहुः वहन्ति तत्सर्वं अह्नोऽष्टमभागेन यामार्धेन क्षीणगित्यर्थः॥ 8-56-37 हतेश्वरो यः कश्चित् तं पाण्ड्यम्॥ 8-56-38 मलयध्वजः पाप्डस्तं यदृच्छयागतं वारणं समभ्यतिष्ठत्॥ 8-56-39 बलेन अस्त्रसर्गे य उत्तमो यत्नस्तेन मन्युना च तैः। परिपीडयन् अङ्कुशेन कोपयन्॥ 8-56-40 द्रौणेः वराङ्गभूष किरिटम्॥ 8-56-42 इषून् समाददे द्रौणिरिति शेषः॥ 8-56-46 चतुरः चतुरंशः। एवं स गजो दशधाभक्तो यथा दशहविष्कायामिष्टौ पिष्टपिण्डो दशधा क्रियते तथेत्यर्थः॥ 8-56-47 पाण्ड्योऽश्वादीन् पादशः प्रदाय खण्डयित्वा प्रशान्तः द्रौणिबाणैरिति शेषः। यथा स्वधां प्रेतशरीररूपं हविः प्राप्य पितृप्रियो ज्वलनः श्मशानाग्निः जलेन शाम्यति तद्वदित्यर्थः॥ 8-56-48 समाप्तविद्यं सम्यगाप्तविद्यम्। समाप्तकर्माणं कृतकृत्यम्॥ 8-56-56 षट्पञ्चाशोऽध्यायः॥
कर्णपर्व - अध्याय 057

॥ श्रीः ॥

8.57. अध्यायः 057

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-57-0 (57846) दृतराष्ट्र उवाच। 8-57-0x (4979) पाण्ड्ये हते किमकरोदर्जुनो जयतांवरः। एकवीरेण कर्णेन द्राविते च युधिष्ठिरे॥ 8-57-1 (57847) समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः। सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना॥ 8-57-2 (57848) तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात्। स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय॥ 8-57-3 (57849) सञ्जय उवाच। 8-57-4x (4980) हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम्। हतं पश्य स्वराजानमपयातांश्च पाण्डवान्॥ 8-57-4 (57850) कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम्। असौ भीमो महेष्वासः प्रतिवृत्तो रणं प्रति॥ 8-57-5 (57851) त इमे नानुवर्तन्ते धृष्टद्युम्नपुरोगमाः। पाञ्चालाः सृञ्जयाश्चैव पाण्डवानां चमूमुखम्॥ 8-57-6 (57852) `निवृत्तैश्च पुनः पार्थैर्भग्नं शत्रुबलं महत्'। कौरवान्द्रवतो ह्येष कर्णो वारयते भृशम्॥ 8-57-7 (57853) अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः। असौ गच्छति कौन्तेय द्रौणिः शस्त्रभृतां वरः॥ 8-57-8 (57854) तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः। अश्वत्थाम्ना हताः सङ्ख्ये सर्वे कौन्तेय सृञ्जयाः॥ 8-57-9 (57855) रथाश्वनरनागानां कृतं च कदनं महत्। इत्येतत्सर्वमाचष्ट वासुदेवः किरीटिने॥ 8-57-10 (57856) एतच्छ्रुत्वा च दृष्ट्वा च भ्रातृणां व्यसनं महत्। वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः॥ 8-57-11 (57857) ततः प्रायाद्धृषीकेशो रथेनाप्रतिमो युधि। `ततो रेणुः समभवत्पुनस्तत्र महारणे॥ 8-57-12 (57858) ततो राजन्महानासीत्सङ्गामो रोमहर्षणः। सिंहनादरवाश्चात्र प्रादुरासन्समागमे। उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम्॥ 8-57-13 (57859) ततः हुनः समाजग्मुरभीताः कुरुसृञ्जयाः। युधिषरमुखाः पार्था वैकर्तनमुखा वयम्॥ 8-57-14 (57860) ततः प्रववृते यूद्धं घोररूपं विशाम्पते। कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनम्॥ 8-57-15 (57861) तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले रोमहर्षणे। संशप्तकेषु वीरेषु किञ्चिच्छेषेषु भारत॥ 8-57-16 (57862) धृष्टद्युम्नो महाराज सहितः सर्वराजभिः। कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः॥ 8-57-17 (57863) आगच्छमानांस्तान्दृष्ट्वा सङ्ग्रमे विजयैषिणः। दधारैको रणे कार्णो जलौघानिव पर्वतः॥ 8-57-18 (57864) समासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः। यथाऽचलं समासाद्य वार्योधाः सर्वतोदिशम्॥ 8-57-19 (57865) तयोरासीन्महाराज सङ्ग्रामो घोरदर्शनः। प्रवृद्धयोर्महारङ्गे बलिनोर्विजिगीषतोः॥ 8-57-20 (57866) धृष्टद्युम्नस्तु राधेयं शरेणानतपर्वणा। छादयामास सङ्क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत्॥ 8-57-21 (57867) विजयं तु धनुः श्रेष्ठं विधृन्वानो महारथः। पार्षतस्य धनुश्छित्त्वा शरांश्चाशीविषोपमान्॥ 8-57-22 (57868) ववर्ष शरवर्षाणि तोयवर्षानिवाम्बुदः। छादयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः॥ 8-57-23 (57869) ते हेमविकृतं वर्म भित्त्वा तस्य महात्मनः। शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ॥ 8-57-24 (57870) तदपास्य धनुश्छिन्नं धृष्टद्युम्नः प्रतापवान्। ततोऽन्यद्धनुरादाय सारवद्भारसाधनम्। कर्णं विव्याध सप्तत्या शरैः सन्नतपर्वभिः॥ 8-57-25 (57871) तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम्। द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः॥ 8-57-26 (57872) पुनरन्यं महाराज शरं कनकभूषणम्। प्रेषयामास समरे मृत्युदण्डमिवापरम्॥ 8-57-27 (57873) तमापतन्तं सहसा घोररूपं विशाम्पते। चिच्छेद शतधा राजन्पार्षतः कृतहस्तवत्॥ 8-57-28 (57874) दृष्टवान्पतितं भूमौ शरं कर्णो विशाम्पते॥ 8-57-29 (57875) पार्षतः शरवर्षेण समन्तात्पर्यवारयत्। विव्याध चैनं त्वरितो नाराचैः सप्तभिस्तदा॥ 8-57-30 (57876) तं प्रत्यविध्यद्दशभिः शरैर्हेमविभूषितैः। तयोर्युद्धं समभवद्दृष्टिश्रोत्रमनोहरम्॥ 8-57-31 (57877) आसीद्धोरं च चित्रं च प्रेक्षणीयं च सर्वशः॥ 8-57-32 (57878) सर्वेषां तत्र भूतानां रोमहर्षो व्यजायत। दृष्ट्वा तत्समरे कर्म कर्णपार्षतयोर्नृप॥ 8-57-33 (57879) एतस्मिन्नन्तरे द्रौणिरभ्ययात्तं महारथम्। पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम्॥ 8-57-34 (57880) स दृष्ट्वा समरे यान्तमभीतं च महारथम्। अभ्यभाषत सङ्क्रुद्धः पार्षतं शत्रुतापनम्॥ 8-57-35 (57881) रथं रथेन सम्पीड्य पार्षतस्य तु ब्राह्मणः॥ 8-57-36 (57882) तिष्ठतिष्ठेति ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे। इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः। छादयामास समरे यतमानो महारथः॥ 8-57-37 (57883) यत्नतः परया शक्त्या धृष्टद्युम्नं महारथम्। योधयामास समरे क्रुद्धरूपो विशाम्पते॥ 8-57-38 (57884) तयोस्तु सन्निपाते हि घोररूपो विशाम्पते॥ 8-57-39 (57885) यथा हि समरे द्रौणिः पार्षतं दृश्यत मारिष। नातिहृष्टमना ह्यासीन्मन्वानो मृत्युमात्मनः॥ 8-57-40 (57886) स ज्ञात्वा पितुरत्यन्तरैरिणं तु महाहवे। आत्मानं समरे ज्ञात्वाऽशस्त्रवध्यं महाबलः। जवेनाभिययौ द्रौणिं कालः कालक्षये यथा॥ 8-57-41 (57887) द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नमवस्थितम्। क्रोधेन निःश्वसन्वीरः पार्षदं समभिद्रवत्॥ 8-57-42 (57888) तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम्। प्रगृह्य महती चापे शरासनसमन्विते॥ 8-57-43 (57889) अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान्। धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते॥ 8-57-44 (57890) पाञ्चालापशदाद्य त्वां प्रेषयामि यमक्षयम्। पापं हि यत्त्वया कर्म कृतं तातं घ्नता रणे॥ 8-57-45 (57891) अद्य त्वं प्राप्स्यसे तद्वै यथा ह्यकुशलस्तथा। अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे। नापक्रामसि वा मोहात्सत्यमेतद्ब्रवीमि ते॥ ॥ 8-57-46 (57892) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तपञ्चाशोऽध्यायः॥ 57 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-57-2 अनुज्ञातः त्वं अजय्यो भविष्यसीत्यनुगृहीतः॥ 8-57-57 सप्तपञ्चाशोऽध्यायः॥
कर्णपर्व - अध्याय 058

॥ श्रीः ॥

8.58. अध्यायः 058

Mahabharata - Karna Parva - Chapter Topics

अर्जुनस्य द्रौणिग्रस्तधृष्टद्युम्नरक्षणपूर्वकं द्रौणिं निर्जित्य संशप्तकान्प्रति गमनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-58-0 (57893) सञ्जय उवाच। 8-58-0x (4981) एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान्। आशिषं तां प्रवक्तव्यां मामको दास्यते तव॥ 8-58-1 (57894) येनैव ते पितुर्दत्ता यतमानस्य संयुगे। एष ते प्रतिवाक्यं वै असिर्दास्यति मामकः। येन कृत्तं तव पितुर्यतमानस्य तच्छिरः॥ 8-58-2 (57895) यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः। त्वामिदानीं कथं युद्धे न हनिष्यामि किल्बिषम्॥ 8-58-3 (57896) एवमुक्त्वा महातेजाः सेनापतिररिन्दमः। सुतीक्ष्णेनाथ भल्लेन द्रौणिं विव्याध पार्षतः॥ 8-58-4 (57897) ततो द्रौणिः सुसङ्क्रुद्धः शरैः सन्नतपर्वभिः। आच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे॥ 8-58-5 (57898) नैवान्तरिक्षं न दिशो नापि योधाः सहस्रशः। दृश्यन्ते वै महाराज शरैश्छन्नाः समन्ततः। एकः सन्वारयामास प्रेक्षणीयः समन्ततः॥ 8-58-6 (57899) तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम्। शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः॥ 8-58-7 (57900) राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः। द्रौपदेया युधामन्युमुत्तमौजसमेव च॥ 8-58-8 (57901) सात्यकिश्च महाराज योधांश्चान्यान्सहस्रशः। एकस्तान्वारयामास प्रेक्षणीयः समन्ततः॥ 8-58-9 (57902) धृष्टद्युम्नस्तु समरे द्रौणेश्चिच्छेद कार्मुकम्। क्षुरप्रेण सुतीक्ष्णेन पश्यतां सर्वयोधिनाम्॥ 8-58-10 (57903) तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम्। वेगवत्समरे घोरं शरांश्चाशीविषोपमान्॥ 8-58-11 (57904) स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम्। हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः॥ 8-58-12 (57905) स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः। खङ्गमादत्त विपुलं शतचन्द्रं च भानुमत्॥ 8-58-13 (57906) द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः। चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः॥ 8-58-14 (57907) रथादनवरूढस्य धन्विनो बाहुशालिनः। पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्॥ 8-58-15 (57908) धृष्टद्युम्नं तु विरथं हताश्वरथसारथिम्। शस्त्रैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम्। नातरद्भरतश्रेष्ठ यदमानो महारथः॥ 8-58-16 (57909) तस्यान्तमिषुभी राजन्यदा द्रौणिर्न गच्छति। अथ त्यक्त्वा रथं वीरः पार्षतं त्वरितोऽन्वगात्। प्रगृह्य विपुलं खह्गं जातरूपपरिष्कृतम्॥ 8-58-17 (57910) तस्य सम्पततो राजन्वपुरासीन्महात्मनः। गरुडस्येव ततो जिघृक्षोः पन्नगोत्तमम्॥ 8-58-18 (57911) एतस्मिन्नेव काले तु केशवः परवीरहा। अब्रवीद्भरतश्रेष्ठमर्जुनं जयतां वरम्॥ 8-58-19 (57912) पश्य द्रौणिं पार्षतस्य यतमानं वधं प्रति। यत्नं करोति विपुलं हन्याच्चैनं न संशयः॥ 8-58-20 (57913) त्रायस्वैनं महाबाहो पार्षतं युद्धदुर्मदम्। द्रौणेरास्यगतं वीर मृत्योरास्यगतं यथा॥ 8-58-21 (57914) एवमुक्त्वा महाराज वासुदेवः प्रतापवान्। प्रैषयत्तुरगान्यत्र द्रौणिर्वीरो व्यवस्थितः॥ 8-58-22 (57915) ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः। पिबन्त इव चाकाशं जग्मुद्रौणेर्महारथम्॥ 8-58-23 (57916) दृष्ट्वा द्रौणिर्महाराज वासुदेवधनंजयौ। धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः॥ 8-58-24 (57917) विकृष्यमाणं दृष्ट्वै धृष्टद्युम्नं जनेश्वर। शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महारथः॥ 8-58-25 (57918) ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम्। द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः॥ 8-58-26 (57919) विद्धस्तु तैः शरैर्घोरैद्रोणपुत्रः प्रतापवान्। उत्सृज्य समरे राजन्पाञ्चालममितौजसम्॥ 8-58-27 (57920) आरुरोह रथं वीरो धनञ्जयशरार्दितः। प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः॥ 8-58-28 (57921) एतस्मिन्नन्तरे शूरः सहदेवो जनाधिप। अपोवाह रथेनाजौ पार्षतं शत्रुतापनम्॥ 8-58-29 (57922) अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः। तं द्रोणपुत्रः संरब्धो बाह्वोरुरसि चार्पयत्॥ 8-58-30 (57923) क्रोधितस्तु रणे पार्थो नाराचं कालसन्निभम्। द्रोणपुत्राय चिक्षेप यमदण्डमिवापरम्॥ 8-58-31 (57924) स ब्राह्मणस्यांसदेशे निपपात महाद्युतेः। स विह्वलो महाराज शरवेगेन संयुगे। निषसाद रथोपस्थे वैक्लव्यं परमं ययौ॥ 8-58-32 (57925) तं तु मत्वा हतं वीरं सारथिः शत्रुकर्शनम्। अपोवाह रणेनाजौ त्वरमाणो रणाजिरात्॥ 8-58-33 (57926) अथोद्धृष्टं महाराज पाञ्चालैर्जितकाशिभिः। मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम्॥ 8-58-34 (57927) वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः। सिंहनादश्च सञ्जज्ञे दृष्ट्वा युद्धं तदद्भुतम्॥ 8-58-35 (57928) ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः। दृष्ट्वार्जुनं रणे क्रुद्धः प्रेक्षते च मुहुर्मुहुः। द्वैरथं चापि पार्थेन गन्तुकामो महाद्युतिः॥ 8-58-36 (57929) एवं कृत्वाऽब्रवीत्पार्थो वासुदेवं धनञ्जयः। याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम॥ 8-58-37 (57930) ततः प्रयातो गोविन्दः श्रुत्वा पाण्डवभाषितम्। रथेनातिपताकेन मनोमारुतरंहसा॥ 8-58-38 (57931) एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते। तावकानां परेषां च राजन्दुर्मन्त्रिते तव॥ ॥ 8-58-39 (57932) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टपञ्चाशोऽध्यायः॥ 58 ॥
कर्णपर्व - अध्याय 059

॥ श्रीः ॥

8.59. अध्यायः 059

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-59-0 (57933) सञ्जय उवाच। 8-59-0x (4982) ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम। कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः॥ 8-59-1 (57934) धनूंषि बाणान्परिघानसिपट्टसतोमरान्। मुसलानि भुशुण्डीश्च शक्तिरिष्टिपरश्वथान्॥ 8-59-2 (57935) गदाः प्रासाञ्शितान्कुन्तान्भिंडिपालान्महाङ्कुशान्। प्रगृह्य क्षिप्रमापेतुः परस्परजिघांसया॥ 8-59-3 (57936) बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत्। पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान्॥ 8-59-4 (57937) तेन शब्देन महता संहृष्टाश्चक्रुराहवम्। वीरा वीरैर्महाप्तोरकलहान्तं तितीर्षवः॥ 8-59-5 (57938) ज्यातलत्रधनुःशब्दाञ्शस्त्राणां च निपात्यताम्। ताडितानां च पतता निनादांश्च पदातिनाम्॥ 8-59-6 (57939) बाणशब्दांश्च विविधाञ्शूराणां चाभिगर्जताम्। श्रुत्वा गजा भृशं त्रेसुः पेतुर्मम्लुश्च सैनिकाः॥ 8-59-7 (57940) तेषां निनदतां चैव शस्त्रवर्षं च मुञ्चताम्। बहूनाधिरथिर्वीरः प्रममाथेषुभिः परान्॥ 8-59-8 (57941) पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च। साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम्॥ 8-59-9 (57942) योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे। शिक्षितास्तमभिद्रुत्य परिवव्रुः समन्ततः॥ 8-59-10 (57943) ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन्। विजगाहाण्डजाकीर्णां पद्मिनीमिव यूथपः॥ 8-59-11 (57944) द्विषत्सैन्यमवस्कन्द्य राधेयो धनुरुत्तमम्। विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत्॥ 8-59-12 (57945) `हस्तिनः समहामात्रान्साश्वारोहान्हयानपि। रथिनोऽप्येकबाणेन भ्रमतश्चावपातयत्'॥ 8-59-13 (57946) वर्म वा चर्म वाऽश्रित्य निपातमपि देहिनः। विषेहुर्नास्य संस्पर्शं द्वितीयस्य पतत्त्रिणः॥ 8-59-14 (57947) वर्मयुक्तेषु देहेषु धनुषोऽस्यञ्शिताञ्शरान्। मौर्व्या तलत्रे न्यहनत्कशया वाजिनो यथा॥ 8-59-15 (57948) पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमागतान्। ममर्द तरसा कर्णः सिंहो मृगगणानिव॥ 8-59-16 (57949) ततः पाञ्चालपुत्रश्च द्रौपदेयाश्च मारिष। यमौ च युयुधानश्च त्वरिताः कर्णमभ्ययुः॥ 8-59-17 (57950) तेषु व्यायच्छमानेषु कुरुपाञ्चालपाण्डुषु। प्रियानसून्रणे त्यक्त्वा योधा जघ्नुः परस्परम्॥ 8-59-18 (57951) सुसन्नद्धाः कवचिनः सशिरस्त्राणभूषणाः। गदाभिर्मुसलैश्चान्ये परिघैश्च महाबालाः॥ 8-59-19 (57952) समभ्यधावन्त भृशं कालदण्डैरिवोद्यतैः। नर्दन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष॥ 8-59-20 (57953) ततो निजघ्नुरन्योन्यं पेतुश्चान्योन्यताडिताः। वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षमायुधाः॥ 8-59-21 (57954) दन्तपूर्णैः सरुधिरैर्वक्रैर्दाडिमसन्निभैः। जीवन्त इव चाप्येके तस्थुः शस्त्रौघबृंहिताः॥ 8-59-22 (57955) परश्वथैश्चाप्यपरे पट्टसैरसिभिस्तथा। शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः॥ 8-59-23 (57956) ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा। सञ्चकर्तुश्च जघ्नुश्च राजन्योधा महारणे॥ 8-59-24 (57957) पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः। क्षरन्तः स्वरसं रक्तं प्रकृत्ताश्चन्दना इव॥ 8-59-25 (57958) रथै रथा विनिहता हस्तिभिश्चापि हस्तिनः। नरैर्नरा हताः पेतुरश्वाश्चाश्वैः सहस्रशः॥ 8-59-26 (57959) ध्वजाः शिरांसि च्छिन्नाः पेतुर्महीतले॥ `वध्यतां दारुणाः शब्दाः पततां स्तनतामपि। 8-59-27 (57960) क्षुरैर्भल्लार्धचन्द्रैश्च च्छिन्नाः पेतुर्महीतले॥ नराश्वेभरथानां हिनराश्वेभरथैस्तथा'॥ 8-59-28 (57961) नरांश्च नागांश्च रथान्हयान्ममृदुराहवे॥ 8-59-29 (57962) अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः। सपताकाध्वजाः पेतुर्विशीर्णा इव पर्वताः॥ 8-59-30 (57963) पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा। हताश्च हन्यमानाश्च पतिताश्चैव सर्वशः॥ 8-59-31 (57964) अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः। सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते॥ 8-59-32 (57965) मृदितानीव पद्मानि प्रम्लाना इव च स्रजः। हतानां वदनान्यासन्गात्राणि च महाहवे॥ 8-59-33 (57966) रूपाण्यत्यर्थकान्तानि द्विरदाश्वनृणां नृप। समुन्नानीव वस्त्राणि ययुर्दुर्दुर्शतां पराम्॥ ॥ 8-59-34 (57967) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनषष्टितमोऽध्यायः॥ 59 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-59-4 द्यांस्वर्गम्। वियदन्तरिक्षम्॥ 8-59-11 अण्डजैर्जलपक्षिभिः सारसादिभिराकीर्णां व्याप्ताम्॥ 8-59-15 मौर्व्या मौर्वीच्युतैः शरैर्बाणैस्तलत्रे ज्याघातवारणस्थाने न्यहनत्॥ 8-59-18 व्यायच्छमानेषु यतमानेषु॥ 8-59-19 परिघैर्हता इति शेषः। समभ्यधावन्तेत्युत्तरेणान्वयः॥ 8-59-21 मस्तिष्कं शिरोभागस्थमांसपिण्डः॥ 8-59-23 परश्वथैस्ततक्षुः। पट्टशैरसिभिश्च चिच्छिदुः। शक्तिभिंर्बिभिदुः। भिन्दिपालैश्चिक्षिपुः। नखरैः सञ्चकर्तुः। प्रासतोमरैर्जघ्नुः॥ 8-59-25 चन्दना रक्तचन्दनाः॥ 8-59-33 पद्मानीव बदनानि। स्रजइव गात्राणि॥ 8-59-34 समुन्नानि क्षारक्लिन्नानि मलिनानि॥ 8-59-59 एकोनषष्टितमोऽध्यायः॥
कर्णपर्व - अध्याय 060

॥ श्रीः ॥

8.60. अध्यायः 060

Mahabharata - Karna Parva - Chapter Topics

गजयुद्धम्॥ 1 ॥ सङ्कुलयुद्धम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-60-0 (57968) सञ्जय उवाच। 8-60-0x (4983) हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः। धृष्टद्युम्नं घ्नतेत्याशु क्रुद्धाः पार्षतमभ्ययुः॥ 8-60-1 (57969) प्राच्याश्च दाक्षिणात्याश्च प्रवरा गजयोधिनः। अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः॥ 8-60-2 (57970) मेकलाः कोशला मद्रा दशार्णा निषधास्तथा। गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत॥ 8-60-3 (57971) शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः। सिषिचुस्ते ततः सर्वे पाञ्चालबलमाहवे॥ 8-60-4 (57972) तानभिद्रवतो नागान्मदवेगसमुद्धतान्। विपाठक्षुरनाराचैर्धृष्टद्युम्नो ह्यवीवृषत्॥ 8-60-5 (57973) एकैकं दशभिः ष़ड्भिरष्टाभिरपि पार्षतः। द्विरदानभिविव्याध क्षिप्रं गिरिनिभाञ्शरैः॥ 8-60-6 (57974) प्रच्छाद्यमानं द्विरदैर्मेघैरिव दिवाकरम्। पर्ययुः पाण्डुपाञ्चाला नदन्तो ह्यात्तकार्मुकाः॥ 8-60-7 (57975) तान्नागानभिवर्षन्तो ज्यातलत्रविनादिनः। वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः। नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः॥ 8-60-8 (57976) सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान्। समन्तात्सिषिचुर्वीरा मेघास्तोयैरिवाचलान्॥ 8-60-9 (57977) ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि। हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः॥ 8-60-10 (57978) बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः। विषाणलग्नाश्चाप्यन्ये परिपेतुर्विभीषणाः॥ 8-60-11 (57979) प्रमुखे वर्तमानं तु द्विपमङ्गस्य सात्यकिः। नाराचेनोग्रवेगेन भित्त्वा मर्माण्यताडयत्॥ 8-60-12 (57980) तस्यावर्जितकायस्य द्विरदादुत्पतिष्यतः। नाराचेनाहनद्वक्षः सात्यकिः सोऽपतद्भुवि॥ 8-60-13 (57981) पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम्। सहदेवः प्रसन्नाग्रैर्नाराचैरहनत्त्रिभिः॥ 8-60-14 (57982) विपताकं वियन्तारं विवर्मध्वजजीवितम्। तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्ययात्॥ 8-60-15 (57983) सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत्। नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन तम्॥ 8-60-16 (57984) दिवाकरकप्रख्यानङ्गश्चिक्षेप तोमरान्। नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत्॥ 8-60-17 (57985) तथाऽर्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः। स पपात हतो म्लेच्छस्तेनैव सह दन्तिना॥ 8-60-18 (57986) अथाङ्गपुत्रे निहते हस्तिशिक्षाविशारदे। अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः॥ 8-60-19 (57987) चलत्पताकैः सुमुखैर्हेमकक्ष्यातनुच्छदैः। मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः॥ 8-60-20 (57988) मेकलोत्कलकालिङ्गा निषधास्ताम्रलिप्तकाः। शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः॥ 8-60-21 (57989) तैश्छाद्यमानं नकुलं निशाकरमिवाम्बुदैः। परिपेतुः सुसंरब्धाः पाण्डुपाञ्चालसात्यकाः॥ 8-60-22 (57990) ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह। सृजतां शरवर्षाणि तोमरांश्च सहस्रशः॥ 8-60-23 (57991) नागानां प्रास्फुटन्कुम्भा मर्माणि च नखानि च। दन्ताश्चैवातिविद्धानां नाराचैर्हेमभूषणैः॥ 8-60-24 (57992) तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः। नाराचैः सहदेवस्तान्पातयामास सादिभिः॥ 8-60-25 (57993) अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम्। नाराचैरहनन्नागान्नकुलः कुलनन्दनः॥ 8-60-26 (57994) ततः पाञ्चालशैनेयौ द्रौपदेयाः प्रभद्रकाः। शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः॥ 8-60-27 (57995) ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः। बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः॥ 8-60-28 (57996) एवं हत्वा तव गजांस्ते पाण्डुरथकुञ्जराः। द्रुतं सेनां च वर्षन्तो भिन्नकूलामिवापगाम्॥ 8-60-29 (57997) तां ते सेनां समालोड्य पाण्डुपुत्रस्य सैनिकाः। विक्षोभयित्वा च पुनः कर्णं समभिदुद्रुवुः॥ ॥ 8-60-30 (57998) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षष्टितमोऽध्यायः॥ 60 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-60-7 प्रच्छाद्यमानं धृष्टद्युम्नम्॥ 8-60-13 आवर्जितः प्रहारवश्चनेन रक्षितः कायो येन तस्य॥ 8-60-60 षष्टितमोऽध्यायः॥
कर्णपर्व - अध्याय 061

॥ श्रीः ॥

8.61. अध्यायः 061

Mahabharata - Karna Parva - Chapter Topics

कृष्णेनार्जुनम्प्रति कुरूणां युधिष्ठिरग्रहणोद्यमकथनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-61-0 (57999) सञ्जय उवाच। 8-61-0x (4984) तेषां प्रवृत्ते सङ्ग्रामे विपुले शोणितोदके। रराज लोहितेनोर्वी संसिक्ता बहुधा भृशम्॥ 8-61-1 (58000) ततो रजसि संशान्ते प्रकाशः सर्वतोऽभवत्। एतस्मिन्नन्तरे पार्थं कृष्णो वचनमब्रवीत्। दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम्॥ 8-61-2 (58001) एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः। जिघांसुभिर्महेष्वासैः शीघ्रं पार्थोऽनुसार्यते॥ 8-61-3 (58002) तमन्वगेव पाञ्चालाश्चेदिमात्स्याश्च भारत। अनुयान्ति महात्मानं परीप्सन्तो महाजवाः॥ 8-61-4 (58003) एष दुर्योधनः पार्थ गजानीकेन दंशितः। राजा सर्वस्य लोकस्य राजानमनुधावति॥ 8-61-5 (58004) जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली। आशीविषसमस्पर्शैः सर्वायुधविशारदैः॥ 8-61-6 (58005) नदद्भिः सिंहनादांश्च धमद्भिश्चापि वारिजान्। बलवद्भिर्महेष्वासैर्विधून्वानैर्धनूंषि च॥ 8-61-7 (58006) एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः। युधिष्ठिरं धार्तराष्ट्रो रत्नोत्तममिवार्थिनः॥ 8-61-8 (58007) पश्य सात्वतभीमाभ्यां निरुद्धा विष्ठिताः पुनः। जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवाहवे॥ 8-61-9 (58008) एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम्। समुद्रमिव वार्योघाः प्रावृट्काले महारथाः॥ 8-61-10 (58009) मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम्। हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम्॥ 8-61-11 (58010) यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव। नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम्॥ 8-61-12 (58011) दुर्योधनस्य वीरस्य शरौघाञ्शीघ्रमस्यतः। सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे॥ 8-61-13 (58012) रसतस्तस्य वीरस्य द्रौणेः शारद्वतस्य च। कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत्॥ 8-61-14 (58013) कर्णेन च कृतो राजा विमुखोऽद्य तु दृश्यते॥ 8-61-15 (58014) बलवाँल्लुघुहस्तश्च कृती युद्धविशारदः। राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे। सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलैः॥ 8-61-16 (58015) तस्यैभिर्युध्यमानस्य सङ्ग्रामे शंसितात्मनः। अन्यैरपि च पार्थस्य कृतं कर्म महारथैः॥ 8-61-17 (58016) उपवासकृशो राजा भृशं भरतसत्तमः। ब्राह्मो बले स्थितो ह्येष न क्षात्रे हि बले विभुः॥ 8-61-18 (58017) कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः। संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः॥ 8-61-19 (58018) न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः। यद्भीमसेनः सहते सिंहनादममर्षणः॥ 8-61-20 (58019) नर्दतां धार्तराष्ट्राणां पुनःपुनररिन्दमः। धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम्॥ 8-61-21 (58020) युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ। सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान्॥ 8-61-22 (58021) स्थूणाकर्णास्त्रजालेन पार्थ पाशुपतेन च। प्रच्छादयन्ति राजानमनुयान्ति महारथाः॥ ॥ 8-61-23 (58022) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकषष्टितमोऽध्यायः॥ 61 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-61-9 जिहीर्षवो युधिष्ठिरं हर्तुमिच्छन्तः॥ 8-61-17 तस्य युधिष्ठिरस्य कर्म कर्तव्यं पराजयाख्यम्। एभिर्दुर्योधनादिभिः कृतं निष्पादितम्॥ 8-61-18 तत्र हेतुः। ब्राह्मे बलं क्षमायाम् क्षात्रे बले निष्ठुरत्वे॥ 8-61-22 हत नाशयतेति कर्णश्चोदयतीति सम्बन्धः॥ 8-61-23 स्थूणाकर्णो गन्धर्वः॥ 8-61-61 एकषष्टितमोऽध्यायः॥
कर्णपर्व - अध्याय 062

॥ श्रीः ॥

8.62. अध्यायः 062

Mahabharata - Karna Parva - Chapter Topics

कृष्णेनार्जुनम्प्रति युधिष्ठिरस्य कर्णेन पराभवकथनपूर्वकं कर्णयुद्धप्रदर्शनम्॥ 1 ॥ तथा भीमसेनयुद्धप्रदर्शनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-62-0 (58023) श्रीभगवानुवाच। 8-62-0x (4985) आतुरो मे मतो राजा अविपह्यश्च भारत। यथैनमनुवर्तन्ते पञ्चालाः सह पाण्डवैः॥ 8-62-1 (58024) त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः। मज्जन्तमिव पाताले बलिनो ह्युज्जिहीर्षवः॥ 8-62-2 (58025) न केतुर्दृश्यते राज्ञः कर्णस्य पिहितः शरैः। पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः॥ 8-62-3 (58026) धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो। पाञ्चालानां च सर्वेषां चेदीनां चैव भारत॥ 8-62-4 (58027) एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम्। शरैर्विध्वंसयामास नलिनीमिव कुञ्जरः॥ 8-62-5 (58028) एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन। पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः॥ 8-62-6 (58029) एते भारत मातङ्गाः कर्णेनाभिहताः शरैः। आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश॥ 8-62-7 (58030) रथानां द्रवते वृन्दमेतच्चैव समन्ततः। द्राव्यमाणं रणे पार्थ कर्णेनामिततेजसा॥ 8-62-8 (58031) हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्रतत्र ह। रथस्थं सूतपुत्रस्य केतुं केतुमतां वर॥ 8-62-9 (58032) असौ धावति राधेयो भीमसेनरथं प्रति। किरञ्शरशतान्येव विनिघ्नंस्तव वाहिनीम्॥ 8-62-10 (58033) एते नश्यन्ति पाञ्चाला द्राव्यमाणा महात्मना। शक्रेणेव यथा दैत्या द्राव्यमाणा महात्मना॥ 8-62-11 (58034) एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान्। दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः॥ 8-62-12 (58035) एष कर्णो धनुःश्रेष्ठं विधून्वन्बहुशोभते। शत्रुं जित्वा यथा शक्रो देवसङ्खैः समावृतः॥ 8-62-13 (58036) एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम्। त्रासयन्तो रणे पाण्डून्सृंजयांश्च समन्ततः॥ 8-62-14 (58037) एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे। अभिभाषति राधेयः सर्वसैन्यानि मानद॥ 8-62-15 (58038) अभिद्रवत भद्रं वो द्रुतं द्रवत कौरवाः। यथा न जीववान्कश्चिन्मुच्येत युधि सृञ्जयः॥ 8-62-16 (58039) तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः। एवमुक्त्वा गतो ह्येष पृष्ठतो विकिरञ्छरान्॥ 8-62-17 (58040) पश्य कर्णं रणे पार्थ श्वेतच्छत्रविराजितम्। उदयं पर्वतं यद्वच्छशाङ्केनाभिशोभितम्॥ 8-62-18 (58041) पूर्णचन्द्रनिकाशेन मूर्ध्नि च्छत्रेण भारत। ध्रियमाणेन समरे श्रीमच्छतशलाकिना॥ 8-62-19 (58042) एष त्वां प्रेक्षते कर्णः सकटाक्षं धनञ्जय। उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे॥ 8-62-20 (58043) पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः। शरांश्चाशीविषाकारान्विसृजन्तं महारणे॥ 8-62-21 (58044) असौ निवृत्तो राधेयो दृष्ट्वा ते वानरध्वजम्। प्रार्थयन्समरं पार्थ त्वया सह परन्तप। वधाय ह्यात्मनोऽभ्येति पावकं शलभो यथा॥ 8-62-22 (58045) कर्णमेकाकिनं दृष्ट्वा धार्तराष्ट्रो रणाजिरे। त्वां च पार्थाभिसंरब्धं कर्णं प्रति महारथम्॥ 8-62-23 (58046) कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे। अत्मानं च कृतार्थं च समीक्ष्य भरतर्षभ॥ 8-62-24 (58047) असौ दुर्योधनः क्रुद्धो रथानीकेन भारत। रिरक्षिषुः सुसंवृत्तो धार्तराष्ट्रो निवर्तते॥ 8-62-25 (58048) सर्वैः सहैभिर्दुष्टात्मा बध्यतां च प्रयत्नतः। त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता॥ 8-62-26 (58049) अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः। देवासुरे पार्थ मृधे देवदानवयोरिव। पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम्॥ 8-62-27 (58050) त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षम्। असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते॥ 8-62-28 (58051) आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ। कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे॥ 8-62-29 (58052) प्रतिपद्यस्व कौन्तेय प्राप्तकालमनन्तरम्। आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम्॥ 8-62-30 (58053) पञ्च ह्येतानि मुख्यानि रथानां रथसत्तम। शतान्यxxxxxxजलिनां तिन्मतेजसाम्॥ 8-62-31 (58054) पञ्च नाघxxxxx द्विगुणा वाजिनस्तथा। अभिसंहत्य कौन्तेय पदाताः प्रयुतानि च॥ 8-62-32 (58055) xxxxxxxx वीर बलं तामभिवर्तते। द्रोमपुत्रं पुरस्कृत्य तच्छीघ्रं सन्निषूदय॥ 8-62-33 (58056) निकृत्त्यैतद्रथानीकं बलिनं लोकविश्रुतम्। सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना॥ 8-62-34 (58057) xxxxxxxxxxxxxxxभरतर्षभ। xxxxxxxxxxxxx पाञ्चालानभिघावति। 8-62-35 (58058) xxxxxx हि पश्यामि धृष्टद्युम्नरर्थ प्रति। xxxxxx पाञ्चालानिति मन्ये परन्तप॥ 8-62-36 (58059) आचचक्षे प्रियं पार्थ तवेदं भरतर्षभ। राजासौ कुशली श्रीमान्धर्मपुत्रो युधिष्ठिरः॥ 8-62-37 (58060) असौ भीमो महाबाहुः सन्निवृत्तश्चमूयुखे। वृतः सृञ्जय सैन्येन शैनेयेन च भप्तत॥ 8-62-38 (58061) वध्यन्त एते समरे कौरवा निशितैः शरैः। भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः॥ 8-62-39 (58062) सेना हि धार्तराष्ट्रस्य विमुखा व्यद्रवद्रणात्। वेगेन भीमसेनस्य विहता विविधैः शरैः॥ 8-62-40 (58063) विपन्नसस्येव मही रुधिरेण समुक्षिता। भारती भरतश्रेष्ठ सेना कृपणदर्शना॥ 8-62-41 (58064) निवृत्तं पश्य कौन्तेय भीमसेनं युधाम्पतिम्। आशीविषमिव क्रुद्धं तस्माद्द्रवति भारति॥ 8-62-42 (58065) पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः। पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन॥ 8-62-43 (58066) सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः। केतवोऽभिनिपात्यन्ते हस्त्यश्वं च प्रकीर्यते॥ 8-62-44 (58067) रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः। नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः॥ 8-62-45 (58068) निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय। समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः॥ 8-62-46 (58069) विमृद्रन्ति नरव्याघ्रा भीमसेनबलाश्रयात्। बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिन्दम्॥ 8-62-47 (58070) एते नर्दिन्ति पाञ्चाला ध्मापयन्ति च वारिजान्। अभिद्रवन्ति च रणे मृद्रन्तः सायकैः परान्॥ 8-62-48 (58071) पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि पराक्रमात्। धार्तराष्ट्रान्विनिघ्नन्तो विशन्त्येते रथोत्तमान्॥ 8-62-49 (58072) [शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः। तेनैवैतानमोघास्त्रा निघ्नन्ति च नदन्ति च॥ 8-62-50 (58073) शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च। रथनागहया वीरा यशस्याः सर्व एव च]॥ 8-62-51 (58074) सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः। त्यक्त्वा प्राणान्महेष्वासैः पाञ्चालैः परिपात्यते॥ 8-62-52 (58075) सुहृदश्च पराक्रान्ताः कृपकर्णादयो विभो। निवारणे महेष्वासाः पाञ्चालानां परन्तप॥ 8-62-53 (58076) अनिवृत्तांश्च भीतांस्तान्धार्तराष्ट्रान्परन्तप। धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः॥ 8-62-54 (58077) रथाश्च विविधाः सर्वे निवृत्ते भरतर्षभे। विवर्णमुखभूयिष्ठा धार्तराष्ट्री महाचमूः॥ 8-62-55 (58078) पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी। वज्रिवज्रहतानीव शिखराणि धराभृताम्॥ 8-62-56 (58079) भीमसेनस्य निर्विद्धा बाणैः सन्नतपर्वभिः। स्वान्यनीकानि मृद्गन्तो द्रवन्त्येते महागजाः॥ 8-62-57 (58080) `एते द्रवन्ति कुरवो भीमसेनभयार्दिताः। त्यक्त्वा रथान्गजांश्चैव हयांश्चैव सहस्रशः॥ 8-62-58 (58081) हस्त्यश्वरथपत्तीनां द्रवतां निःस्वनं शृणु। भीमसेनस्य निनदं द्रावयानस्य कौरवान्॥ 8-62-59 (58082) अभिजानामि भीमस्य सिंहनादं पुनःपुनः'। नदतः पाण्डवेयस्य सङ्ग्रामे जितकाशिनः॥ 8-62-60 (58083) एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम्। विसृजंस्तोमरान्क्रुद्धो दण्डपाणिरिवान्तकः॥ 8-62-61 (58084) तस्य चैव भुजौ छिन्नौ भीमसेनेन गर्जतः। नागश्च क्रकरप्रख्यैर्नाराचैर्दशभिर्हतः॥ 8-62-62 (58085) हन्तैते पुनरायान्ति नागा ह्यन्ये प्रहारिणः। नीलाञ्जनचयप्रख्या महामात्रैरधिष्ठिताः॥ 8-62-63 (58086) शक्तितोमरसङ्घतैर्विनिघ्नन्तो वृकोदरम्। सप्तसप्त च नागस्था वैजयन्त्यश्च सध्वजाः। नवत्या निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते॥ 8-62-64 (58087) दशभिर्दशभिश्चैको नाराचैर्निहतो गजः॥ 8-62-65 (58088) न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा। पुरन्दरसमे क्रुद्धे निवृत्ते भरतर्षभे॥ 8-62-66 (58089) अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य सङ्गताः। क्रुद्धेन भीमसेनेन नरसिंहेन वारिताः॥ 8-62-67 (58090) न शक्नुवन्ति वै पार्थं पार्थिवाः समुदीक्षितुम्। मध्यन्दिनगतं सूर्यं यथा दुर्बलचक्षुषः॥ 8-62-68 (58091) एते भीमस्य सन्त्रस्ताः सिंहस्येवेतरे मृगाः। शरैः सन्त्रासिताः सह्ख्ये न लभन्ते सुखं क्वचित्॥ 8-62-69 (58092) राधेयो बहुभिः सार्धमसौ गच्छति वेगितः। वर्धयित्वा तु भीरुं तं पार्श्वतो ह्यानयद्धनुः। तं पालयन्महाराजं धार्तराष्ट्रं बलान्वितः॥ 8-62-70 (58093) सञ्जय उवाच। 8-62-71x (4986) एतच्छ्रुत्वा महाबाहुर्वासुदेवाद्धनञ्जयः। भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्। अर्जुनो व्यधमच्छिष्टान्संशप्तकगणान्बहून्॥ 8-62-71 (58094) ते वध्यमानाः पार्थेन संशप्तकगणाः प्रभो। शक्रस्यातिथितां गत्वा विशोका ह्यभवंस्तदा॥ 8-62-72 (58095) नारायणांस्तु गोपालान्व्यधमत्पाण्डुनन्दनः। उत्तमं वेxxxxxप्तास्थाय चण्डवायुर्धनानिव॥ 8-62-73 (58096) अन्वकीर्यन्त भीतास्ते तत्रतत्रैव भारत। लुलितांश्च ततः शूरानहनत्पुरुषोत्तमः॥ 8-62-74 (58097) पुनश्च पुरुषव्याघ्रः शरैः सन्नतपर्वभिः। जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम्॥ ॥ 8-62-75 (58098) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विषष्टितमोऽध्यायः॥ 62 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-62-9 हस्तिकक्ष्यां केतुमिति सम्बन्धः॥ 8-62-19 छत्रेणोपलक्षितः॥ 8-62-34 द्रोणपुत्रे महेष्वासे इति क.ट.पाठः॥ 8-62-62 द्विषष्टितमोऽध्यायः॥
कर्णपर्व - अध्याय 063

॥ श्रीः ॥

8.63. अध्यायः 063

Mahabharata - Karna Parva - Chapter Topics

रणाय राज्ञां द्वन्द्वीभावः॥ 1 ॥ कर्णेन शिखण्डिपराजयः॥ 2 ॥ धृष्टद्युम्नदुःशासनयोर्युद्धम्॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-63-0 (58099) धृतराष्ट्र उवाच। 8-63-0x (4987) निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे। वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः॥ 8-63-1 (58100) द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः। `अवशेषं न पश्यामि मम सैन्येषु सञ्जय॥ 8-63-2 (58101) अहो बत दशां प्राप्तो न हि शक्ष्यामि जीवितुम्। जयकाङ्क्षी कथं सूत पुत्राणामनिवर्तिनाम्॥ 8-63-3 (58102) कथं जीवामि निहताञ्श्रुत्वा च मम सैनिकान्। बहुनाऽद्य किमुक्तेन दैवं तेषां परायणम्'॥ 8-63-4 (58103) मामकाः किमकुर्वन्त तन्ममाचक्ष्व सञ्जय॥ 8-63-5 (58104) सञ्जय उवाच। 8-63-6x (4988) दृष्ट्वा भीमं महाबाहुं तव पुत्रः प्रतापवान्। क्रोधरक्तेक्षणो राजन्भीमसेनमभिद्रवत्॥ 8-63-6 (58105) `तिष्ठतिष्ठ पृथापुत्र पश्य मेऽद्य पराक्रमम्। अद्य त्वां प्रेषायष्यामि यमस्य सदनं प्राते। इत्युक्त्वा प्रययौ कर्णो यत्र भीमो व्यवस्थितः'॥ 8-63-7 (58106) तावकं तु बलं दृष्ट्वा भीमसेनात्पराङ्मुखम्। यत्नेन महता कर्णः पर्यवस्थापयद्बली॥ 8-63-8 (58107) व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम्। प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान्॥ 8-63-9 (58108) प्रत्युद्ययुश्च राधेयं पाण्डवानां महारथाः। धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान्॥ 8-63-10 (58109) भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः। धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः॥ 8-63-11 (58110) पाञ्चालानां नरव्याघ्राः समन्तात्त्व वाहिनीम्। अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः॥ 8-63-12 (58111) तथैव तावका राजन्पाण्डवानामनीकिनीम्। अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथान्॥ 8-63-13 (58112) रथनागाश्वकलिलं पत्तिध्वजसमाकुलम्। बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम्॥ 8-63-14 (58113) शिखण्डी तु ययौ कर्णं धृष्टद्युम्नः सुतं तव। दुःशासनं महाराज महासेनः समभ्ययात्॥ 8-63-15 (58114) नकुलो वृषसेनं तु चित्रसेनं युधिष्ठिरः। उलूकं समरे राजन्सहदेवः समभ्ययात्॥ 8-63-16 (58115) सात्यकिः शकुनिं चापि द्रौपदेयाश्च कौरवान्। अर्जुनं च रणे यत्तो द्रोणपुत्रो महारथः॥ 8-63-17 (58116) युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे। कृतवर्मा च बलवानुत्तमौजसमाद्रवत्॥ 8-63-18 (58117) भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष। सहानीकान्महाबाहुरेक एव न्यवारयत्॥ 8-63-19 (58118) शिखण्डी तु ततः कर्णं विचरन्तमभीतवत्। भीष्महन्ता महाराज वारयामास पत्रिभिः॥ 8-63-20 (58119) प्रतिरुद्धस्ततः कर्णो रोपात्प्रस्फुरिताधरः। शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्येऽभ्यताडयत्॥ 8-63-21 (58120) धारयंस्तु स तान्वाणाञ्शिखण्डी बह्वशोभत। राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः॥ 8-63-22 (58121) सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे। कर्णं विव्याध समरे नवत्या निशितैः शरैः॥ 8-63-23 (58122) तस्य कर्णो हयान्हत्वा सारथिं च शरैः। उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः॥ 8-63-24 (58123) हताश्वात्तु ततो यानादवप्लुत्य महारथः। शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः॥ 8-63-25 (58124) तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः। शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः॥ 8-63-26 (58125) कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः। अपयातस्ततस्तूर्णं शिखण्डी भृशविक्षतः॥ 8-63-27 (58126) ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत्। तूलराशिं समासाद्य यथा वायुर्महाबलः॥ 8-63-28 (58127) धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः। दुःशासनं त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे॥ 8-63-29 (58128) तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष। स तेन रुक्मपुङ्खेन भल्लेन नतपर्वणा॥ 8-63-30 (58129) धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः। दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत॥ 8-63-31 (58130) आपतन्तं महावेगं धृष्टद्युम्नसमीरितम्। शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशाम्पते॥ 8-63-32 (58131) अथापरैः षोडशभिर्भल्लैः कनकभूषणैः। धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्पयत्॥ 8-63-33 (58132) ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष। क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः॥ 8-63-34 (58133) अथान्यद्धनुरादाय पुत्रस्ते प्रहसन्निव। धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत्॥ 8-63-35 (58134) तव पुत्रस्य ते दृष्ट्वा विक्रमं सुमहात्मनः। व्यस्मयन्त रणे योधाः सिद्धाश्चाप्सरसस्तथा॥ 8-63-36 (58135) धृष्टद्युम्नं तु पश्याम घटमानं महाबलम्। दुःशासनेन संरुद्धं सिंहेनेव महागजम्॥ ॥ 8-63-37 (58136) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिषष्टितमोऽध्यायः॥ 63 ॥
कर्णपर्व - अध्याय 064

॥ श्रीः ॥

8.64. अध्यायः 064

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-64-0 (58137) सञ्जय उवाच। 8-64-0x (4989) ततः सरथनागाश्वाः पाञ्चालाः पाण्डुसृञ्जयाः। सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव॥ 8-64-1 (58138) ततः प्रववृते युद्वं तावकानां परैः सह। घोरं प्राणभृतां काले भीमरूपं परन्तप॥ 8-64-2 (58139) नकुलो वृषसेनं तु विद्ध्वा पञ्चभिरायसैः। पितुः समीपे तिष्ठन्तं त्रिभिरन्त्यैरविध्यत॥ 8-64-3 (58140) नकुलं तु ततः शूरो वृषसेनो हसन्निव। नाराचेन सुतीक्ष्णेन विव्याध हृदये भृशम्'॥ 8-64-4 (58141) सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शन। शत्रुं विव्याध विंशत्या सूतं चैवास्य सप्तभिः॥ 8-64-5 (58142) ततः शरसहस्रेण तावुभौ पुरुषर्षभौ। अन्योन्यमाच्छादयतां तवाभज्यत वाहिनी॥ 8-64-6 (58143) स दृष्ट्वा प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः। निवारयामास बलादनुपत्य विशाम्पते॥ 8-64-7 (58144) `एतस्मिन्नन्तरे युद्धं कष्टमासीद्विशाम्पते'। निवृत्ते तु ततः सैन्ये नकुलः कौरवान्ययौ॥ 8-64-8 (58145) कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु। जुगोप चक्रं त्वरितो राधेयस्यैव मारिष॥ 8-64-9 (58146) उलूकस्तु रणे क्रुद्धः सहदेवेन मारिष। `निवारितः शरशतैः क्रुद्धेन रणमूर्धनि॥ 8-64-10 (58147) तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान्। सारथिं प्रेषयामास यमस्य सदनं प्रति॥ 8-64-11 (58148) उलूकस्तु ततो यानादवप्लुत्य विशाम्पते। त्रिगर्तानां बलं तूर्णं जगाम पितृनन्दनः॥ 8-64-12 (58149) सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः। ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव॥ 8-64-13 (58150) सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान्। विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम्॥ 8-64-14 (58151) तथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत। सारथिं च महाराज त्रिभिरेव समार्पयत्॥ 8-64-15 (58152) अथास्य वाहांस्त्वरितः शरैर्नित्ये यमक्षयम्। ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ॥ 8-64-16 (58153) आरुरोह रथं तूर्णमुलूकस्य महात्मनः। अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः॥ 8-64-17 (58154) सात्यकिस्तु रण राजंस्तावकानामनीकिनीम्। अभिदुद्राव वेगेन ततोऽनीकमभज्वत॥ 8-64-18 (58155) शैनेयशरसञ्छन्नं तव सैन्यं विशाम्पते। भेजे दशा दिशस्तूर्णं न्यपतच्च गतासुवत्॥ 8-64-19 (58156) भीमसेनं तव सुतो वारयामास संयुगे॥ 8-64-20 (58157) तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम्। चक्रे लोकेश्वरं तत्र तेनातुष्यन्त वै जनाः॥ 8-64-21 (58158) ततोऽपायान्नृपस्तस्माद्भीमसेनभयार्दितः। कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत्। तत्र नादो महानासीद्धीमसेनं जिघांसताम्॥ 8-64-22 (58159) युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छदे। अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः। युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ॥ 8-64-23 (58160) ततोऽपायाद्रथेनैव युधामन्युर्महारथः॥ 8-64-24 (58161) उत्तमौजाश्च हार्दिक्यं भीमं भीमपराक्रमम्। छादयामास सहसा मेघो वृष्ट्येव पर्वतम्॥ 8-64-25 (58162) तद्युद्धमासीत्सुमहद्धोररूपं परन्तप। तादृशं न मया युद्धं दृष्टपूर्वं विशाम्पते॥ 8-64-26 (58163) कृतवर्मा ततो राजन्नुत्तमौजसमाहवे। हृदि विव्याध सहसा रथोपस्थ उपाविशत्॥ 8-64-27 (58164) सारथिस्तमपोवाह रथेन रथिनां वरम्। ततस्तु सात्वतो राजन्पाण्डुसैन्यमभिद्रवत्॥ 8-64-28 (58165) [दुःशासनः सौबलश्च गजानीकेन पाण्डवम्। महता परिवार्यैव क्षुद्रकैरभ्यताडयत्॥ 8-64-29 (58166) ततो भीमः शरशतैर्दुर्योधनममर्षणम्। विमुखीकृत्य तरसा गजानीकमुपाद्रवत्॥ 8-64-30 (58167) तमापतन्तं सहसा गजानीकं वृकोदरः। दृष्ट्वैव सुभृशं क्रुद्धो दिव्यमस्त्रमुदैरयत्॥ 8-64-31 (58168) गजैर्गजानभ्यहनद्वज्रेणेन्द्र इवासुरान्॥ 8-64-32 (58169) ततोऽन्तरिक्षं बाणौघैः शलभैरिव पादपम्। छादयामास समरे गजान्निघ्नन्वृकोदरः॥ 8-64-33 (58170) ततः कुञ्जरयूथानि समेतानि सहस्रशः। व्यधमत्तरसा भीमो मेघसङ्घानिवानिलः॥ 8-64-34 (58171) सुवर्णजालापिहिता मणिजालैश्च कुञ्जराः। रेजुरभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः॥ 8-64-35 (58172) ते वध्यमाना भीमेन गजा राजन्विदुद्रुवुः। केचिद्विभिन्नहृदयाः कुञ्जरा न्यपतन्भुवि॥ 8-64-36 (58173) पतितैर्निपतद्भिश्च गजैर्हेमविभूषितैः। अशोभत मही तत्र विशीर्णैरिव पर्वतैः॥ 8-64-37 (58174) दीप्ताभै रत्नवद्भिश्च पतितैर्गजयोधिभिः। रराज भूमिः पतितैः क्षीणपुण्यैरिव ग्रहैः॥ 8-64-38 (58175) ततो भिन्नकटा नागा भिन्नकुम्भकरास्तथा। दुद्रुवुः शतशः संख्ये भीमसेनशराहताः॥ 8-64-39 (58176) केचिद्वमन्तो रुधिरं भयार्ताः पर्वतोपमाः। व्यद्रवञ्छरविद्धाङ्गा धातुचित्रा इवाचलाः॥ 8-64-40 (58177) महाभुजगसङ्काशौ चन्दनागुरुरूषितौ। अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ॥ 8-64-41 (58178) तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम्। विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवुर्भृशम्॥ 8-64-42 (58179) भीमसेनस्य तत्कर्म राजन्नेकस्य धीमतः। निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ॥] ॥ 8-64-43 (58180) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुःषष्टितमोऽध्यायः॥ 64 ॥
कर्णपर्व - अध्याय 065

॥ श्रीः ॥

8.65. अध्यायः 065

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-65-0 (58181) सञ्जय उवाच। 8-65-0x (4990) ततः श्वेताश्वसंयुक्ते नारायणसमाहिते। तिष्ठन्रथवरे श्रीमानर्जुनः समपद्यत॥ 8-65-1 (58182) तद्बलं नृपतिश्रेष्ठ तावकं विजयो रणे। व्यक्षोभयदुदीर्णाश्वं महोदधिमिवानिलः॥ 8-65-2 (58183) दुर्योधनस्तव सुतः प्रमत्ते श्वेतवाहने। अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः॥ 8-65-3 (58184) पर्यवारयदायान्तं युधिष्ठिरममर्षणम्। क्षुरप्राणां त्रिसप्तत्या ततोऽविध्यत पाण्डवम्॥ 8-65-4 (58185) अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः। स भल्लांस्त्रिंशतस्तूर्णं तव पुत्रे न्यवेशयत्॥ 8-65-5 (58186) ततो धावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम्॥ 8-65-6 (58187) दुष्टभावान्पराञ्ज्ञात्वा समवेता महारथाः। आजग्मुस्तं परीप्सन्तः कुन्तीपुत्रं युधिष्ठिरम्॥ 8-65-7 (58188) `सञ्जय उवाच। 8-65-8x (4991) युधिष्ठिरश्चित्रसेनं शरवर्षैरवाकिरत्। चित्रसेनस्तु कौन्तेयं सङ्क्रुद्धः समवारयत्॥ 8-65-8 (58189) मुहूर्ताद्विमुखीकृत्य चित्रसेनं स धर्मराट्। तावकं सैन्यमभ्यघ्नत्समन्तान्निशितैः शरैः॥ 8-65-9 (58190) तावका हि माबाहो दुर्योधनपुरोगमाः। युधिष्ठिरं जिघृक्षन्तः सर्वसैन्यं समाक्षिपन्॥ 8-65-10 (58191) दृष्टप्रभावांस्तान्मत्वा समवेतान्महारथान्। आजग्मुः सम्परीप्सन्तः पाण्डवेयं युधिष्ठिरम्'॥ 8-65-11 (58192) नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः। अक्षौहिण्या परिवृतास्तेऽभ्यधावन्युधिष्ठिरम्॥ 8-65-12 (58193) भीमसेनश्च नाराचैर्मृद्रंस्तव महारथान्। अभ्यधावदभिप्रेप्सू राजानं शत्रुभिर्वृतम्॥ 8-65-13 (58194) तांस्तु सर्वान्महेष्वासान्कर्णो वैकर्तनो वृषा। शरवर्षेण महता प्रत्यवारयदागतान्॥ 8-65-14 (58195) शरौघान्विसृजन्तस्ते प्रेयन्तश्च कुञ्जरान्। न शेकुर्यत्नवन्तोऽपि राधेयं प्रतिवीक्षितुम्॥ 8-65-15 (58196) तांश्च सर्वान्महेष्वासान्सर्वशस्त्रविशारदान्। महता शरवर्षेण राधेयः प्रत्यवारयत्॥ 8-65-16 (58197) दुर्योधनं च विंशत्या नाराचानां कृती बली। अविध्यत्तूर्णमभ्येत्य सहदेवो महीपतिम्॥ 8-65-17 (58198) स विद्धः सहदेवेन रराज बलसन्निधौ। प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः॥ 8-65-18 (58199) दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः। अभ्यधावद्दृढं क्रुद्धो राधेयो रथिनां वरः॥ 8-65-19 (58200) दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदीर्य सः। अवधीत्पाण्डवानीकं पाञ्चालांश्चैव मारिष॥ 8-65-20 (58201) ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना। सहसा प्राद्रावद्राजन्मूतपुत्रशरार्दितम्॥ 8-65-21 (58202) विविधा विशिखास्तत्र सम्पतन्ति परस्परम्। भल्लाः पुङ्खसमाश्लिष्टाः सूतपुत्रधनुश्च्युताः॥ 8-65-22 (58203) अन्तरिक्षे शरौघाणां पततां च परस्परम्। सङ्घर्पेण महाराज पावकः समजायत॥ 8-65-23 (58204) तकतो दशदिशः कर्णः शलभैरिव यायिभिः। अभ्यघ्नंस्तरसा राजञ्शरैः परशरीरगैः॥ 8-65-24 (58205) रक्तचन्दनसन्दिग्धौ मणिहेमविभूषितौ। बाहू व्यत्यक्षिपत्कर्णः परमास्त्रं विदर्शयन्॥ 8-65-25 (58206) ततः सर्वा दिशो राजन्सायकैर्विप्रमोहयन्। अपीडयद्भृशं कर्णो धर्मराजं युधिष्ठिरम्॥ 8-65-26 (58207) ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः। निशितैरिषुभिः कर्णं पञ्चाशद्भिः समार्पयत्॥ 8-65-27 (58208) [बाणान्धकारमभवत्तद्युद्धं घोरदर्शनम्। हाहाकारो महानासीत्तावकानां विशाम्पते॥ 8-65-28 (58209) वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष। सायकैर्विविधैस्तीक्ष्णैः कङ्कपत्रैः शिलाशितैः। भल्लैरनेकैर्विविधैः शक्त्यृष्टिमुसलैरपि॥ 8-65-29 (58210) यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत्। तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ॥ 8-65-30 (58211) कर्णोऽपि भृशसङ्कुद्रो धर्मराजं युधिष्ठिरम्। नाराचैरर्धचन्द्रैश्च वत्सदन्तैश्च संयुगे॥ 8-65-31 (58212) अमर्षी क्रोधनश्चैव रोषप्रस्फुरिताननः। सायकैरप्रमेयात्मा युधिष्ठिरमभिद्रवत्॥ 8-65-32 (58213) युधिष्ठिरश्चापि स तं स्वर्णपुङ्खैः शितैः शरैः॥] 8-65-33 (58214) प्रहसन्निव तं कर्णः कङ्कपत्रैः शिलाशितैः। उरस्यविध्यद्राजानं कुन्तीपुत्रं युधिष्ठिरम्॥ 8-65-34 (58215) स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः। उपविश्य रथोपस्थे सूतं याहीत्यनोदयत्॥ 8-65-35 (58216) अक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः। गृह्णीध्वमिति राजानमभ्यधावन्त सर्वशः॥ 8-65-36 (58217) ततः शताः सप्तदश केकयानां प्रहारिणाम्। पञ्चालैः सहिता राजन्धार्तराष्ट्रान्न्यवारयन्॥ 8-65-37 (58218) तस्मिन्सुतुमुले युद्धे वर्तमाने जनक्षये। दुर्योधनश्च भीमश्च समेयातां महाबलौ॥ ॥ 8-65-38 (58219) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चषष्टितमोऽध्यायः॥ 65 ॥
कर्णपर्व - अध्याय 066

॥ श्रीः ॥

8.66. अध्यायः 066

Mahabharata - Karna Parva - Chapter Topics

कर्णबाणपीडितस्य युधिष्ठिरस्य विश्रमाय स्वशिबिरप्रवेशः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-66-0 (58220) सञ्जय उवाच। 8-66-0x (4992) कर्णोऽपि शरजालेन केकयानां महारथान्। व्यधमत्परमेष्वासानग्रानीके व्यवस्थितान्॥ 8-66-1 (58221) तेषां प्रयतमानानां राधेयस्य निवारणे। रथान्पञ्चशतान्कर्णः प्राहिणोद्यमसादनम्॥ 8-66-2 (58222) अविषह्यतमं दृष्ट्वा राधेयं युधि योधिनः। भीमसेनमुपागच्छन्कर्णबाणप्रपीडिताः॥ 8-66-3 (58223) रथानीकं विदार्यैव शरै राजन्ननेकधा। कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत्॥ 8-66-4 (58224) सेनानिवेशं गच्छन्तं मार्गणैर्भृशपीडितम्। यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम्॥ 8-66-5 (58225) स समासाद्य राजानं दुर्योधनहितेप्सया। सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः॥ 8-66-6 (58226) तथैव राजा राधेयं प्रत्यविध्यत्स्तनान्तरे। शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान्॥ 8-66-7 (58227) चक्ररक्षौ नृपसुतौ माद्रीपुत्रौ परन्तपौ। तावप्यधावतां कर्णं राजानं मा वधीदिति॥ 8-66-8 (58228) तौ पृथक्शरवर्षाभ्यां राधेयं समवर्षताम्। नकुलः सहदेवश्च परमं यत्नमास्थितौ॥ 8-66-9 (58229) तथैव तौ प्रत्यविध्यत्सूतपुत्रः प्रतापवान्। भल्लाभ्यां शितधाराभ्यां महात्मानावरिन्दमौ॥ 8-66-10 (58230) दन्तवर्णांस्तु राधेयो निजघान मनोजवान्। युधिष्ठिरस्य सङ्ग्रामे कालवालान्हयोत्तमान्॥ 8-66-11 (58231) ततोऽपरेण भल्लेन शिरस्त्राणमपातयत्। कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः॥ 8-66-12 (58232) तथैव नकुलस्यापि हयान्हत्वा महारथः। ततोऽपरेण भल्लेन भृशं तीक्ष्णेन भारत। धनुश्चिच्छेद वीरस्य माद्रीपुत्रस्य धीमतः॥ 8-66-13 (58233) तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ। भ्रातरावारुरुहतुः सहदेवरथं तदा॥ 8-66-14 (58234) तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा। अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया॥ 8-66-15 (58235) मार्गितव्यस्त्वया कर्ण कुन्तीपुत्रो धनञ्जयः। अतस्त्वं धर्मराजेन किमर्थमिह युध्यसे॥ 8-66-16 (58236) [क्षीणशस्त्रास्त्राकवचः क्षीणबाणो विबाणधिः। श्रान्तसारथिवाहश्च च्छन्नोऽस्त्रैररिभिस्तथा। पार्थमासाद्य राधेय उपहास्यो भविष्यसि॥] 8-66-17 (58237) तथापि कर्णः संरब्धो युधिष्ठिरमपीडयत्। शरैस्तीक्ष्णैर्महावीर्यैर्माद्रीपुत्रौ च पाण्डवौ॥ 8-66-18 (58238) ततः शल्यः प्रहस्येदं कर्णं पुनरुवाच ह। रथस्थमतिसंरब्धं युधिष्ठिरवधे स्थितम्॥ 8-66-19 (58239) यदर्थं धार्तराष्ट्रेण सततं मानितो भवान्। तं पार्थ जहि राधेय किं ते हत्वा युधिष्ठिरम्। `हते यस्मिन्ध्रुवं पार्थः सर्वाञ्जेष्यति नो रथान्॥ 8-66-20 (58240) तस्मिन्हि धार्तराष्ट्रस्य निहते तु ध्रुवो जयः। ध्वजोऽसौ दृश्यते तस्य रोचमानोंऽशुमानिव। सारो ह्येष महाबाहो किं ते हत्वा युधिष्ठिरम्॥' 8-66-21 (58241) शङ्खयोर्ध्मातयोः शब्दः सुमहानेष कृष्णयोः। श्रूयते चापघोषश्च प्रावृषीवाम्बुदस्य ह॥ 8-66-22 (58242) असौ निघ्नन्रथोदारानर्जुनः शरवृष्टिभिः। सर्वां ग्रसति नः सेनां कर्ण पश्यैनमाहवे॥ 8-66-23 (58243) पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ॥ 8-66-24 (58244) उत्तरं चास्य वै शूरश्चक्रं रक्षति सांत्यकिः। धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम्॥ 8-66-25 (58245) भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते। यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम्। कुरु राधेय वै राजा यथा मुच्येत तत्तथा॥ 8-66-26 (58246) xxxx भीमसेनेन ग्रस्तमाहवशोभिना। यदि नामाद्य मुच्येत विस्मयः सुमहान्भवेत्॥ 8-66-27 (58247) परित्राह्येनमभ्येत्य संशयं परमं गतम्। किं नु माद्रीसुतौ हत्वा राजानं वा युधिष्ठिरम्॥ 8-66-28 (58248) इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते। दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे॥ 8-66-29 (58249) राजगृध्नुर्भृशं चैव शल्यवाक्यप्रचोदितः। अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ॥ 8-66-30 (58250) तव पुत्रं परित्रातुमभ्यधावत वीर्यवान्। मद्रराजप्रणुदितैरश्वैराकाशगैरिव॥ 8-66-31 (58251) गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः। अपायाज्जवनैरश्वैः सहदेवस्य मारिष॥ 8-66-32 (58252) [ताभ्यां स सहितस्तूर्णं व्रीडन्निव नरेश्वरः]। प्राप्य सेनानिवेशं स्वं मार्गणैर्भृशविक्षतः॥ 8-66-33 (58253) अवतीर्य रथात्तूर्णमाविशच्छयनं शुभम्। अपेतशल्यो राजा तु हृच्छल्येनाभिपीडितः॥ 8-66-34 (58254) सोऽब्रवीद्धातरौ राजा माद्रीपुत्रौ महारथौ। गच्छन्त त्वरितौ वीरौ यत्र भीमो व्यवस्थितः॥ 8-66-35 (58255) `ततस्ते पाण्डवाः सर्वे समाभाष्य परस्परम्। अनीकं भीमसेनस्य पाण्डवावभ्यगच्छताम्'। जीमूत इव नर्दंस्तु युध्यते स वृकोदरः॥ 8-66-36 (58256) ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः। सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्शनौ॥ 8-66-37 (58257) तुरगैरग्र्यरंहोभिर्यत्र भीमस्तरस्विनौ। अनीकैः सहितौ तत्र भ्रातरौ समवस्थितौ॥ ॥ 8-66-38 (58258) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्षष्टितमोऽध्यायः॥ 66 ॥
कर्णपर्व - अध्याय 067

॥ श्रीः ॥

8.67. अध्यायः 067

Mahabharata - Karna Parva - Chapter Topics

पार्थेनाश्वत्थाम्नि पराजिते कर्णेन भार्गवास्त्रप्रयोगात्पाण्डवसेनापीडनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-67-0 (58259) सञ्जय उवाच। 8-67-0x (4993) द्रौणिस्तु रथवंशेन महता परिवारितः। अपतत्सहसा राजन्यत्र पार्थो व्यवस्थितः॥ 8-67-1 (58260) तमापतन्तं सहसा शूरः शौरिसहायवान्। दधार समरे पार्थो वेलेव मकरालयम्॥ 8-67-2 (58261) ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान्। अर्जुनं वासुदेवं च च्छादयामास सायकैः॥ 8-67-3 (58262) अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः। विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा॥ 8-67-4 (58263) अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव। तदस्त्रं वारयामास ब्राह्मणो युधि भारत॥ 8-67-5 (58264) यद्यद्धि व्याक्षिपद्युद्धे फल्गुनोऽस्त्रं जिघांसया। तत्तदस्त्रैर्महेष्वासो द्रोणपुत्रो जघान ह॥ 8-67-6 (58265) अस्त्रयुद्धे महाराज वर्तमाने महाभये। अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम्॥ 8-67-7 (58266) स दिशः प्रदिशश्चैव च्छादयित्वा ह्यजिह्मगैः। वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे॥ 8-67-8 (58267) ततोऽर्जुनो रथान्सर्वान्हत्वा तस्य पदानुगान्। चकार समरे भूमिं शोणितौघपरिप्लुताम्। [सर्बलोकवहां रौद्रां परलोकवहां नदीम्]॥ 8-67-9 (58268) सरथा रथिनः पेतुः पार्थचापच्युतैः शरैः॥ 8-67-10 (58269) [द्रौणेरपहतान्सङ्खे ददृशु स च तां तथा। प्रावर्तयन्महाघोरां नदीं परवहां तदा॥ 8-67-11 (58270) तयोस्तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे। अमर्यादं योधयन्तः पर्यधावन्त पृष्ठतः॥ 8-67-12 (58271) रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः। द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः॥ 8-67-13 (58272) पार्थेन समरे राजन्कृतो घोरो जनक्षयः। निहता रथिनः पेतुः पार्थचापच्युतैः शरैः॥] 8-67-14 (58273) हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः। तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः॥ 8-67-15 (58274) अर्जुनं जयतां श्रेष्ठं त्वरितोऽभ्येत्य वीर्यवान्। विधुन्वानो महच्चापं कार्तस्वरविभूषितम्॥ 8-67-16 (58275) अवाकिरत्ततो द्रौमिः समन्तान्निशितैः शरैः। भूयोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा॥ 8-67-17 (58276) वक्षोदेशे भृशं पार्थं ताडयामास निर्दयम्। सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत॥ 8-67-18 (58277) गाण्डीवधन्वा प्रसभं शरवर्षैरुदारधीः। सञ्छाद्य समरे द्रौणिं चिच्छेदास्य च कार्मुकम्॥ 8-67-19 (58278) स च्छिन्नधन्वा परिधं वज्रस्पर्शसमं युधि। आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने॥ 8-67-20 (58279) तमापन्ततं परिघं जाम्बूनदपरिष्कृतम्। चिच्छेद सहसा राजन्प्रहसन्निव पाण्डवः॥ 8-67-21 (58280) स पपात तदा भूमौ निकृत्तः पार्थसायकैः। विकीर्णः पर्वतो राजन्यथा वज्रेण ताडितः॥ 8-67-22 (58281) ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः। ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत्॥ 8-67-23 (58282) तस्येन्द्रजालावततं समीक्ष्य पार्थो राजन्गाण्डिवमाददे सः। ऐन्द्रं जालं प्रत्यहरत्तरस्वी वरास्त्रमादाय महेन्द्रसृष्टम्॥ 8-67-24 (58283) विदार्य तज्जालमथेन्द्रमुक्तं पार्थस्ततो द्रौणिरथं क्षणेन। प्रच्छादयामास ततोऽभ्युपेत्य द्रौणिस्तदा पार्थशराभिभूतः॥ 8-67-25 (58284) विगाह्य तां पाण्डवबाणवृष्टिं शरैः परं नाम ततः प्रकाश्य। शतेन कृष्णं सहसाभ्यविद्ध्या-- त्त्रिभिः शतैरर्जुनं क्षुद्रकाणाम्॥ 8-67-26 (58285) ततोऽर्जुनः सायकानां शतेन गुरोः सुतं मर्मसु निर्बिभेद। अश्वांश्च सूतं च तथा धनुर्ज्या-- मवाकिरत्पश्यतां तावकानाम्॥ 8-67-27 (58286) स विद्ध्वा मर्मसु द्रौणिं पाण्डवः परवीरहा। सारथिं चास्य भल्लेन रथनीडादपातयत्॥ 8-67-28 (58287) स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छदयच्छरैः। तत्राद्भुतमपरश्याम द्रौणेराशु पराक्रमम्॥ 8-67-29 (58288) संयच्छंस्तुरगान्यच्च फल्गुनं चाप्ययोधयत्। तदस्य समरे राजन्सर्वभूतान्यपूजयन्॥ 8-67-30 (58289) `तेनास्य समरे योधास्तुष्टुवुः सर्व एव ते। यदा निजगृहे पार्थो द्रोणपुत्रेण धन्विना॥ 8-67-31 (58290) तदा प्रहस्य बीभस्तुर्द्रोणपुत्रस्य संयुगे। क्षिप्रं रश्मीनथाश्वानां क्षुरप्रैश्चिच्छिदे जयः॥ 8-67-32 (58291) प्राद्रवंस्तुरगास्तस्य शरवेगप्रपीडिताः। ततोऽभून्निनदो घोरस्तव सैन्यस्य भारत॥ 8-67-33 (58292) पाण्डवास्तु जयं लब्ध्वा तव सैन्यं समाद्रवन्। समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः॥ 8-67-34 (58293) तावकी चतुरङ्गैषा पाण्डवैस्तु महाचमूः। पुनःपुनरथो वीरैः प्रभग्ना जितकाशिभिः॥ 8-67-35 (58294) पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम्। शकुनेः सौबलेयस्य कर्णस्य च विशाम्पते॥ 8-67-36 (58295) वार्यमाणा महासेना पुत्रैस्तव जनेश्वर। न चातिष्ठत सङ्ग्रामे पीड्यमाना समन्ततः॥ 8-67-37 (58296) ततो योधैर्महाराज पलायद्भिः समन्ततः। अभवद्य्वाकुलं भीतं पुत्राणां ते महद्बलम्॥ 8-67-38 (58297) तिष्ठतिष्ठेति सततं सूतपुत्रस्य जल्पतः। नावतिष्ठति सा सेना वध्यमाना महात्मभिः॥ 8-67-39 (58298) अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः। धार्तराष्ट्रबलं दृष्ट्वा विद्रुतं वै समन्ततः॥ 8-67-40 (58299) ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव। पश्य कर्ण महासेनां पाण्डवैरर्दितां भृशम्॥ 8-67-41 (58300) त्वयि तिष्ठति सन्त्रासात्समन्तात्प्रपलायते। एतज्ज्ञत्वा महाबाहो कुरु प्राप्तमरिन्दम॥ 8-67-42 (58301) सहस्राणि च योधानां त्वामेव पुरुषोत्तम। क्रोशन्ते समरे वीर द्राव्यमाणानि पाण्डवैः॥ 8-67-43 (58302) सञ्जय उवाच। 8-67-44x (4994) एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत्। मद्रराजमिदं वाक्यमब्रवीत्प्रहसन्निव॥ 8-67-44 (58303) पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर। अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह॥ 8-67-45 (58304) वाहयाश्वान्नरव्याघ्र मद्राधिप न संशयः। एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान्॥ 8-67-46 (58305) प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम्। सज्यं कृत्वा महाराज सम्मृज्य च पुनः पुनः॥ 8-67-47 (58306) सन्निवार्य च तान्योधान्सत्येन शपथेन च। प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः॥ 8-67-48 (58307) तस्माद्राजन्सहस्राणि प्रयुतान्यर्बुदानि च। कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे॥ 8-67-49 (58308) ज्वलितैस्तैः शरैर्घोरैः कङ्कबर्हिणवाजितैः। सञ्चन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन॥ 8-67-50 (58309) हाहाकारो महानासीत्पाण्डवानां विशाम्पते। पीडितानां बलवता भार्गवास्त्रेण संयुगे॥ 8-67-51 (58310) निपतद्भिर्गजै राजन्नश्वैश्चापि सहस्रशः। रथैश्चापि नरव्याघ्र नरैश्चैव समन्ततः॥ 8-67-52 (58311) प्राकम्पत मही राजन्निहतैस्तैः समन्ततः। व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम्॥ 8-67-53 (58312) कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः। दहञ्शत्रून्नरव्याघ्रः शुशुभे स परन्तपः॥ 8-67-54 (58313) ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह। तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः॥ 8-67-55 (58314) चुक्रुशुश्च नरव्याघ्र यथाप्राणं नरोत्तमाः। तेषां तु क्रोशतां दीनं भीतानां रणमूर्धनि॥ 8-67-56 (58315) धावतां च ततो राजंस्त्रस्तानां च समन्ततः। आर्तनादो बभूवात्र भूतानामिव सम्प्लुवे॥ 8-67-57 (58316) वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष॥ वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि॥ 8-67-58 (58317) ते वध्यमाताः समरे सूतपुत्रेण सृञ्जयाः। अर्जुनं वासुदेवं च क्रोशन्ति च मुहुर्मुहुः। प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः॥ 8-67-59 (58318) श्रुत्वा तु निनदं तेषां वध्यतां कर्णसायकैः। अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धऩञ्जयः। भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र समीरितम्॥ 8-67-60 (58319) पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम्। नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन॥ 8-67-61 (58320) सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे। अन्तकप्रतिमं वीर्ये कुर्वाणं कर्म दारुणम्॥ 8-67-62 (58321) अभीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः। नच शक्ष्यामि कर्णस्य संयुगेऽहं पलायितुम्॥ 8-67-63 (58322) जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ। मृतस्य तु हृपीकेश भङ्ग एव कुतो जयः॥ 8-67-64 (58323) एष कर्णो रणे भाति मध्याह्न इव भास्करः। निवर्तय रथं कृष्ण जीवन्भद्राणि पश्यति॥ ॥ 8-67-65 (58324) इति श्रीमन्महाभारते कर्णपर्वणि सप्तद्वशदिवसयुद्धे सप्तषष्टितमोऽध्यायः॥ 67 ॥
कर्णपर्व - अध्याय 068

॥ श्रीः ॥

8.68. अध्यायः 068

Mahabharata - Karna Parva - Chapter Topics

कर्णबाणव्यथापनोदनाय युधिष्ठिरं शिबिरगतं विज्ञाय शत्रुनिग्रहे भीमनियोजनपूर्वकमर्जुनेन सह श्रीकृष्णस्य तत्समीपं प्रति गमनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-68-0 (58325) सञ्जय उवाच। 8-68-0x (4995) ततो जनार्दनः श्रुत्वा तस्य वाक्यं विशाम्पते। रथेनापययौ क्षिप्रं सङ्ग्रामादिति भारत॥ 8-68-1 (58326) प्रत्यनीकमवस्थाप्य भीमं भीमपराक्रमम्। अलं विषहितुं ह्येष कुरूणां सम्प्रपश्यताम्॥ 8-68-2 (58327) कर्णं च समरे राजन्ग्राहयिष्यञ्श्रमं प्रति। विश्वमार्थं च कौरव्य पार्थस्य च महात्मनः। अपयातो रणाद्वीरो राजानं द्रष्टुमेव च॥ 8-68-3 (58328) अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः। तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि॥ 8-68-4 (58329) ततो धनञ्जयः श्रुत्वा राजानं शल्यपीडितम्। याहियाहिति बहुशो वासुदेवमचोदयत्। राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः॥ 8-68-5 (58330) स चोद्यमानः पार्थेन केशिघ्नो वृष्णिनन्दनः। रथेनापययौ क्षिप्रं सङ्ग्रामाद्धोरदर्शनात्॥ 8-68-6 (58331) गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया। सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम्॥ 8-68-7 (58332) युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत। दुःसहं वज्रिणा सङ्ख्ये पराजित्य गुरोः सुतम्॥ 8-68-8 (58333) द्रौणिं पराजित्य ततोग्रधन्वा कृत्वा महद्दुष्करं शूरकर्म। आलोकयामास ततः स्वसैन्यं धनञ्जयः शत्रुभिरप्रधृष्यः॥ 8-68-9 (58334) संयुध्यमानान्पृतनामुखस्था-- ञ्शूरः शूरान्हर्षयन्सव्यसाची। पूर्वापदानैः प्रथितैः प्रशंस-- न्स्थितांश्चकारात्मरथाननीके॥ 8-68-10 (58335) अपश्यमानस्तु किरीटमाली युधिष्ठिरं भ्रातरमाजमीढम्। उवाच भीमं तरसाभ्युपेत्य राज्ञः प्रवृत्तिस्त्विह कुत्र चेति॥ 8-68-11 (58336) भीमसेन उवाच। 8-68-12x (4996) अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः। कर्णबाणाभितप्ताङ्गो यदि जीवेत्कथञ्चन॥ 8-68-12 (58337) अर्जुन उवाच। 8-68-13x (4997) तस्माद्भवाञ्शीघ्रमितः प्रयातु ज्ञातुं प्रवृत्तिं पुरुषर्षभस्य। नूनं स विद्धोऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ॥ 8-68-13 (58338) यः सम्प्रहारैर्युधि सम्प्रवृत्ते द्रोणेन विद्धोऽतिभृशं तरस्वी। तस्थौ स तत्रापि जयप्रतीक्षो द्रोणेन यावन्न हतः किलासीत्॥ 8-68-14 (58339) स संशयं गमितः पाण्डवाग्र्यः सङ्ख्येऽद्य कर्णेन महानुभावः। ज्ञातुं प्रयाह्याशु तमद्य भीम स्थास्याम्यहं शत्रुगणान्निरुध्य॥ 8-68-15 (58340) भीमसेन उवाच। 8-68-16x (4998) त्वमेव जानीहि महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य। अहं हि यद्यर्जुन याम्यमित्रा वदन्ति मां भीत इति प्रवीराः॥ 8-68-16 (58341) ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीकस्थिता मे। एतानहत्वाद्य मया न शक्य-- मितोपयातुं रिपुसङ्खमध्यात्॥ 8-68-17 (58342) अथाब्रवीदर्जुनं भीमसेनः स्ववीर्यमासाद्य कुरुप्रवीर। संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये सर्वानहं याहि धनञ्जय त्वम्॥ 8-68-18 (58343) तद्भीमसेनस्य वचो निशम्य धनञ्जयो भ्रातुरमित्रमध्ये। द्रष्टुं कुरुश्रेष्ठमभिप्रयास्य-- न्प्रोवाच वृष्णिप्रवरं तदानीम्॥ 8-68-19 (58344) अर्जुन उवाच। 8-68-20x (4999) `राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः'। चोदयाश्वान्हृषीकेश विहायैतद्बलार्णवम्। अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव॥ 8-68-20 (58345) सञ्जय उवाच। 8-68-21x (5000) `तं रथ चोदयामास बीभत्सोर्वचनाद्धरिः'॥ 8-68-21 (58346) ततो हयान्सर्वदाशार्हमुख्यः प्रचोदयन्भीममुवाच चेदम्। नैतच्चित्रं तव कर्माद्य भीम यास्यावहे जहि पार्थारिसङ्घान्॥ 8-68-22 (58347) ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः। शीघ्राच्छीघ्रतरो राजन्वाजिभिर्गरुडोपमैः॥ 8-68-23 (58348) प्रत्यनीके त्ववस्थाप्य भीमसेनमरिन्दमम्। सन्दिश्य चैनं राजेन्द्र युद्धं प्रति वृकोदरम्॥ 8-68-24 (58349) ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम्। रथादुभौ प्रत्यवरुह्य तस्मा-- द्ववन्दतुर्धर्मराजस्य पादौ॥ 8-68-25 (58350) `इत्येवमुपसङ्गृह्य उभौ तु पाञ्जली स्थितौ। शस्त्रक्षतौ महाराज रुधिरेण समुक्षितौ। निहत्य वाहिनीं तुभ्यमपयातौ रणाजिरात्'॥ 8-68-26 (58351) तं दृष्ट्वा पुरुषव्याघ्रं क्षेमिणं पुरुषर्षभम्। मुदाभ्यनन्दतां कृष्णावश्विनाविव वासवम्॥ 8-68-27 (58352) तावभ्यनन्दद्राजापि विवस्वानश्विनाविव। हते महासुरे जम्भे शक्रविष्णू यथा गुरुः॥ 8-68-28 (58353) मन्यमानो हतं कर्णं प्रीतः परपुरञ्जयः। `स भूत्वा पुरुषव्याघ्रो राजा तत्र युधिष्ठिरः'। हर्षगद्गदया वाचा प्रीतः प्राह परन्तपः॥ ॥ 8-68-29 (58354) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टषष्टितमोऽध्यायः॥ 68 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-68-9 ततोग्रधन्वा विस्तारितोग्रचापः॥ 8-68-11 उवाच तं पप्रच्छ॥ 8-68-24 प्रत्यनीके शत्रुसैन्यरामीपे॥ 8-68-68 अष्टषष्टितमोऽध्यायः॥
कर्णपर्व - अध्याय 069

॥ श्रीः ॥

8.69. अध्यायः 069

Mahabharata - Karna Parva - Chapter Topics

युधिष्ठिरेण कर्णशरविक्षतस्यात्मनो दिदृक्षया स्वशिबिरमुपागतौ कृष्णार्जुनौ दृष्ट्वा पार्थेन राधेयस्य वधभ्रमेण पार्थस्य प्रशंसनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-69-0 (58355) सञ्जय उवाच। 8-69-0x (5001) [अथोपयातौ पृथुलोहिताक्षौ शराचिताङ्गौ रुधिरप्रदिग्धौ। समीक्ष्य सेनाग्रनरप्रवीरौ युधिष्ठिरो वाक्यमिदं बभाषे॥] 8-69-1 (58356) ततो युधिष्ठिरो दृष्ट्वा सहितौ केशवार्जुनौ। हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना॥ 8-69-2 (58357) तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना। स्मितपूर्वममित्रघ्न पूजयन्भरतर्पभ॥ 8-69-3 (58358) युधिष्ठिर उवाच। 8-69-4x (5002) स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय। प्रियं मे दर्शनं वाढं युवयोर्नरसिंहयोः॥ 8-69-4 (58359) अरिष्टयोरक्षतयोः कर्णं हत्वा महारथम्। आशीविपसमं युद्धे सर्वशस्त्रविशारदम्॥ 8-69-5 (58360) अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च। रक्षितं वृषसेनेन सुपेणेन च धन्विना॥ 8-69-6 (58361) अनुज्ञातं महावीर्यं रामेणास्त्रे सुदुर्जयम्। अग्र्यं सर्वस्य लोकस्य रथिनं लोकविश्रुतम्॥ 8-69-7 (58362) त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे। हन्तारं परसैन्यानाममित्रगणमर्दनम्॥ 8-69-8 (58363) दुर्योधनहिते युक्तमस्मद्दुःखाय चोद्यतम्। अप्रधृष्यं महायुद्धे देवैरपि सवासवैः॥ 8-69-9 (58364) अनलानिलयोस्तुल्यं तेजसा च बलेन च। पातालमिव गम्भीरं सुहृदां नन्दिवर्धनम्॥ 8-69-10 (58365) अन्तकं मम मित्राणां हत्वा कर्णं महामृधे। दिष्ट्या युवामनुप्राप्तौ हत्वाऽसुरमिवामरौ॥ 8-69-11 (58366) तेन युद्धमभीतेन मयाऽद्याप्यच्युतार्जुनौ। कृतं घोरं महाबाहू धृष्टद्युम्नस्य पश्यतः। अन्तकेनेव क्रुद्धेन प्रजाः सर्वा जिघांसता॥ 8-69-12 (58367) तेन केतुश्च मे च्छिन्नो हतौ च पार्ष्णिसारथी। हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः॥ 8-69-13 (58368) धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः। पश्यतां द्रौपदेयानां शतद्रोश्च महात्मनः॥ 8-69-14 (58369) एताञ्जित्वा महावीर्यः कर्णः शत्रुगणान्बहून्। जितवान्मां महाबाहो यतमानो महारणे॥ 8-69-15 (58370) अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु। तत्र तत्र युधां श्रेष्ठ परिभूय न संशयः॥ 8-69-16 (58371) भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय। बहुनात्र किमुक्तेन हते सोढुं समुत्सहे॥ 8-69-17 (58372) त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय। न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित्॥ 8-69-18 (58373) तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय। आत्मनो मरणं जानन्वाध्रीणस इव द्विजः॥ 8-69-19 (58374) तस्यायमगमत्कालश्चिन्तयानस्य मे चिरम्। कथं कर्णो मया शक्यो युद्धे क्षपयितुं भवेत्॥ 8-69-20 (58375) जाग्रत्स्वपंश्च कौन्तेय कर्णमेव स्मराह्यहम्। पश्यामि तत्रतत्रैव कर्णभूतमिदं जगत्॥ 8-69-21 (58376) यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय। तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम्॥ 8-69-22 (58377) सोऽहं तेनैव वीरेण समरेष्वपलायिना। सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः॥ 8-69-23 (58378) को नु मे जीवितेनार्थो राज्येनार्थो भवेत्पुनः। ममैवं विक्षतस्याद्य कर्णेनाहवशोभिना॥ 8-69-24 (58379) न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे। तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात्॥ 8-69-25 (58380) स त्वां पृच्छामि कौन्तेय यथा न कुशलस्तथा। तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णो हतस्त्वया॥ 8-69-26 (58381) शक्रतुल्यबलो युद्धे यमतुल्यः पराक्रमे। रामतुल्यस्तथास्त्रेषु स कथं ते निषूदितः॥ 8-69-27 (58382) महारथसमाख्यातः सर्वयुद्धविशारदः। धनुर्धराणां प्रवरः सर्वेषां वै सदार्जुन॥ 8-69-28 (58383) पूजितो धृतराष्ट्रेण सपुत्रेण विशाम्पते। त्वदर्थमेव राधेयः स कथं निहतस्त्वया॥ 8-69-29 (58384) धार्तराष्ट्रस्य योद्धारः सर्व एव सदार्जुन। तव मृत्युं रणे कर्णं मन्यन्ते पुरुषर्षभ॥ 8-69-30 (58385) स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः। तन्ममाचक्ष्व कौन्तेय यथा कर्णो हतस्त्वया॥ 8-69-31 (58386) सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम्। त्वया पुरुषशार्दूल सिंहेनेव यथा रुरोः॥ 8-69-32 (58387) सर्वा दिशः पर्यपतत्त्वदर्थं त्वां सूतपुत्रः समरे परीप्सन्। दित्सन्नृणां शकटं रत्नपूर्णं कथं त्वयासौ निहतोऽद्य कर्णः॥ 8-69-33 (58388) त्वया रणे निहतः सूतपुत्रः कच्चित्कृतं मे परमं त्वयाद्य प्रियं रणे सूतपुत्रं निहत्य॥ 8-69-34 (58389) सर्वा दिशः पर्यपतत्त्वदर्थं मुदान्वितो गर्वितः सूतपुत्रः। स शूरमानी समरे समेत्य कच्चित्त्वया निहतः सूतपुत्रः॥ 8-69-35 (58390) राज्यं परं हस्तिगवाश्वयुक्तं रथं दित्सुर्यः परेभ्यस्त्वर्दर्थे। त्वया रणे स्पर्धते यः स पापः कच्चित्त्वया निहतः पापबुद्धिः॥ 8-69-36 (58391) योऽसौ नित्यं शौर्यमदेन मत्तो विकत्थते संसदि कौरवाणाम्। प्रीत्यर्थं वै तात सुयोधनस्य कच्चित्स पापो निहतस्त्वयाद्य॥ 8-69-37 (58392) कच्चित्समागम्य धनुःप्रमुक्तै-- स्त्वत्प्रेषितैर्लोहमयैर्विहंगैः। शेते भिन्नः पांसुषु सूतपुत्रः कच्चिद्भग्रौ धार्तराष्ट्रस्य बाहू॥ 8-69-38 (58393) योऽसौ सदा श्लाघते राजमध्ये दुर्योधनं हर्षयन्दर्पयुक्तः। हन्ताऽस्मि सर्वानिति पाण्डुपुत्रा-- नहं हन्ता फल्गुनस्येति मोहात्॥ 8-69-39 (58394) कच्चिद्वचोऽस्य वितथं त्वया कृतं यत्तत्प्रियामवदत्तात कर्णः। सभामथ्ये रूक्षमनेकरूपं धिक्पाण्डवानपतिस्त्वं हि कृष्णे॥ 8-69-40 (58395) कच्चिद्भुवं शत्रुरयं महात्मा ह्यधारयद्द्वादश यः समास्तु। कर्णो व्रतं घोरममित्रसाहो दुर्योधनस्यार्थनिविष्टबुद्धिः॥ 8-69-41 (58396) पादौ न धावे यावदहं न हन्मि धनञ्जयं समरेषूग्रवेगम्। कच्चिद्रणे फल्गुन तं निहत्य कच्चिद्व्रतं तस्य भग्नं त्वयाऽद्य॥ 8-69-42 (58397) योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः कर्णः सभायां कुरुवीरमध्ये। किं पाण्डवांस्त्वं न जहासि कृष्णे सुदुर्बलान्पतितान्हीनसत्वान्॥ 8-69-43 (58398) योऽसौ कर्णः प्रत्यजानात्त्वदर्थे नाहं हत्वा सह कृष्णेन पार्थम्। इहोपयातेति स पापबुद्धिः कच्चिच्छेते शरसम्भिन्नगात्रः॥ 8-69-44 (58399) कच्चित्सङ्ग्रामो विदितो वै तवायं समागमे सृञ्जय कौरवाणाम्। येनावस्थामीदृशीं प्रापितोऽहं कच्चित्त्वया सोऽद्य हतो दुरात्मा॥ 8-69-45 (58400) कच्चित्त्वया तस्य सुमन्दबुद्धे-- र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः। सकुण्डलं भानुमदुत्तमाङ्गं कायात्प्रकृत्तं युधि सव्यसाचिन्॥ 8-69-46 (58401) यत्तन्मया बाणसमर्पितेन ध्यातोऽसि कर्णस्य वधाय वीर। तन्मे त्वया कच्चिदमोघमद्य ध्यानं कृतं कर्णनिपातनेन॥ 8-69-47 (58402) यद्दर्पपूर्णः स सुयोधनोऽस्मा-- न्दिधक्षते कर्णसमाश्रयेण। कच्चित्त्वया सोऽद्य समाश्रयोऽस्य भग्नः पराक्रम्य सुयोधनस्य॥ 8-69-48 (58403) यो नः पुरा षण्ढतिलानवोच-- त्सभामध्ये कौरवाणां समक्षम्। स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये त्वया हतः सूतपुत्रोऽत्यमर्षी॥ 8-69-49 (58404) यः प्राहिणोत्सूतपुत्रो दुरात्मा कृष्णां जितां सौबलेहानयेति। स मन्दबुद्धिर्निहतः प्रसह्य वैकर्तनस्त्वद्य कच्चिन्महात्मन्॥ 8-69-50 (58405) यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां पितामहं व्याक्षिपदल्पचेताः। सङ्ख्यायमानोऽर्धरथः स कच्चि-- त्त्वयां हतोऽद्याधिरथिर्महात्मन्॥ 8-69-51 (58406) अमर्षजं निकृतिसमीरणेरितं हृदि स्थितं ज्वलनमिमं सदा मम। हतो मया सोऽद्य समेत्य कर्ण इति ब्रुवन्प्रशमयसेऽद्य फल्गुन॥ ॥ 8-69-52 (58407) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनसप्ततितमोऽध्यायः॥ 69 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-69-5 अरिष्टयोः शुभयोः॥ 8-69-7 अनुज्ञातं अनुगृहीतम्॥ 8-69-10 अनलानिलयोरिति क्रमात्तेजोबलाभ्याम्॥ 8-69-13 अपसव्यः कृतश्चास्मि इति ख.घ.पाठः॥ 8-69-17 नाहं तं सोढुमुत्सहे इति क.ङ.पाठः॥ 8-69-19 कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहगमः। स वै वाध्रीणसः प्रोक्तो याज्ञिकैः पितृकर्मणीति प्राञ्चः। वाघ्रीणस इव द्विप इति झ.पाठः॥ 8-69-26 यथा नः कुशलं तथा इति क.ङ.पाठः॥ 8-69-38 विहङ्गैर्वाणैः॥ 8-69-39 श्वाघते आत्मानमिति शेषः॥ 8-69-47 बाणेभ्यः समर्पितेन कर्णबाणैरत्यन्तं प्रविद्धेनेत्यर्थः॥ 8-69-69 एकोनसप्ततितमोऽध्यायः॥
कर्णपर्व - अध्याय 070

॥ श्रीः ॥

8.70. अध्यायः 070

Mahabharata - Karna Parva - Chapter Topics

अर्जुनेन स्ययुद्धानुवादपूर्वकं युधिष्ठिरम्प्रति कर्णवधप्रतिज्ञानम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-70-0 (58408) सञ्जय उवाच। 8-70-0x (5003) तद्धर्मशीलस्य वचो निशम्य राज्ञः क्रुद्धस्यातिरथो महात्मा। उवाच दुर्मर्षमदीनसत्वो युधिष्ठिरं जिष्णुरनन्तवीर्यः॥ 8-70-1 (58409) द्रोणं हतं पार्थ कर्णो विदित्वा भिन्नां नावविमावत्यगाधे कुरूणाम्। सम्मुह्यमानान्धार्तराष्ट्रान्विदित्वा निरुत्साहांश्च विजये परेषाम्॥ 8-70-2 (58410) सोदर्यवत्त्वरितोऽमितौजा उत्तारयिष्यन्धृतराष्ट्रस्य पुत्रान्। रणे रथेनाधिरथिर्महात्मा ततो हि मां त्वरितः सोऽभ्यधावत्॥ 8-70-3 (58411) संशप्तकैर्युध्यमानस्य मेऽद्य सेनाग्रयायी कुरुसैन्यस्य राजन्। आशीविषाभान्विकिरञ्शरौघा-- न्द्रौणिः पुरस्तात्सहसाध्यतिष्ठत्॥ 8-70-4 (58412) स मे दृष्ट्वा शूरतमो ध्वजाग्रं समादिशद्रथसङ्घाननेकान्। तेषामहं पञ्चशतं निहत्य आसादयं द्रोणपुत्रं नदन्तम्॥ 8-70-5 (58413) स द्रोणपुत्रः सदृशं महात्मा मामप्यरौत्सीत्तदनीकमध्ये। किरञ्शरौघान्बहुरूपान्विचित्रा-- न्स्वातीगतः शुक्र इवातिवर्षन्॥ 8-70-6 (58414) स मे रान्सर्वतः कङ्कपत्रा-- नवासृजद्वै पृथिवीप्रकाशान्। निवार्य तूर्णं परमाजिमध्ये ततोऽपि मां बाणगणैः समार्पयत्॥ 8-70-7 (58415) आकर्षणं वापि विकृष्य मुक्तं न दृश्यते तस्य महारथस्य। न सन्दधानः कुत आददानो न व्याक्षिपन्न विकर्षन्विमुञ्चन्॥ 8-70-8 (58416) सव्येन वा यदि वा दक्षिणेन न ज्ञायते कतरेणास्यतीति। आचार्यवत्समरे पर्यवर्त-- न्महच्चित्रं दर्शयन्सर्वतः स्म॥ 8-70-9 (58417) दृष्ट्वीविषं चासुहरं परेषां सर्वा दिशः पूरयानं शरौधैः। अलातचक्रप्रतिमं महात्मनः सदा नतं कार्मुकं ब्रह्मबन्धोः॥ 8-70-10 (58418) ततोऽपरान्बाणगणाननेका-- नाकर्णपूर्णायतविप्रमुक्तान्। ससर्ज शीघ्रास्त्रबलेन वीर-- स्तोयं यथा प्रावृषि कालमेघः॥ 8-70-11 (58419) आविध्यन्मां पञ्चभिद्रोणपुत्रः शितैः शरैः पञ्चभिर्वासुदेवम्। अभ्यघ्नं बाणैस्तमहं सुधारै-- र्निमेषमात्रेण सुवर्णपुङ्खैः॥ 8-70-12 (58420) स निर्विद्धो विरथो द्रोणपुत्रो रथानीकं चाधिरथेर्विवेश। मयाभिभूतान्स्वरथप्रबर्हा-- नस्त्रं च पश्यन्रुधिरप्रदिग्धम्॥ 8-70-13 (58421) ततोऽभिभूतं युधि वीक्ष्य सैन्यं विध्वस्तयोधं द्रुतनागयूथम्। पञ्चाशता रथमुख्यैः समेतः कर्णस्त्वरन्नभ्यपतत्प्रमाथी॥ 8-70-14 (58422) तान्सूदयित्वाऽहमपास्य कर्णं द्रष्टुं भवन्तं त्वरयोपयातः। सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णं दृष्ट्वा गावः केसरिणं यथैव॥ 8-70-15 (58423) मृत्योरास्यं व्यात्तमिवाभिपद्य प्रभद्रकाः कर्णमासाद्य सर्वे। यास्यामि तांस्तारयिष्यन्बलौघा-- द्दिष्ट्या भवान्स्वस्तिमान्पार्थ दृष्टः॥ 8-70-16 (58424) हनिष्येऽहं भारत सूतपुत्र-- मस्मिन्सङ्ग्रामे यदि दृश्यतेऽद्य। आयाहि पश्याद्य युयुत्समानौ मां सूतपुत्रं च धृतौ रणाय॥ 8-70-17 (58425) महाझषस्येव मुखं प्रपन्नाः प्रभद्रकाः कर्णमुखं प्रपन्नाः। षट्साहस्रा भारत राजपुत्राः स्वर्गाय लोकाय रणे निमग्नाः॥ 8-70-18 (58426) तानद्य यास्यामि रणाद्विमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम्॥ 8-70-19 (58427) अथ प्रवीरेण महानुभाव द्विषत्सैन्यं निर्दहन्विस्तरेण। समेत्याहं सूतपुत्रेण सङ्ख्ये वज्रीव वृत्रेण नरेन्द्रमुख्य॥ 8-70-20 (58428) एवं गते किञ्च मयाऽद्य शक्यं कार्यं कर्तुं निग्रहे सूतजस्य। तथैव राज्ञश्च सुयोधनस्य ये चापि मां योद्धुकामाः समेताः॥ 8-70-21 (58429) कर्णं न चेदद्य निहन्मि राज-- न्सबान्धवं युध्यमानं प्रसह्य। प्रतिश्रुत्याऽकुर्वतां या गतिर्वै कष्टां यायां तामहं राजसिंह॥ 8-70-22 (58430) आमन्त्रये त्वां ब्रूहि रणे जयं मे पुरा भीमं धार्तराष्ट्रा ग्रसन्ति। सौतिं हनिष्यामि नरेन्द्रसिंह सैन्यं तथा शत्रुगणांश्च सर्वान्॥ ॥ 8-70-23 (58431) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्ततितमोऽध्यायः॥ 70 ॥
कर्णपर्व - अध्याय 071

॥ श्रीः ॥

8.71. अध्यायः 071

Mahabharata - Karna Parva - Chapter Topics

कर्णस्यामारणज्ञानाद्रुष्टेन युधिष्ठिरेण अर्जुनम्प्रति गर्हणपूर्वकं कृष्णकरे गाण्डीवदानचोदना॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-73-0 (58432) सञ्जय उवाच। 8-73-0x (5004) वैकर्तनं कुशलिनं निशम्य क्रुद्धः पार्थः फल्गूनस्यामितौजाः। धनञ्जयं वाक्यमुवाच राजा युधिष्ठिरः कर्णशराभितप्तः॥ 8-73-1 (58433) इमां च वसतिं हित्वा भयात्कर्णेन फल्गुन। अहं च भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ॥ 8-73-2 (58434) वासुदेवेन सहिता वयं कर्णेन निर्जिताः। पुनरेव वनं गत्वा तपश्चर्यां च कुर्महे। अथवा धार्तराष्ट्राणां परिचर्यां चरामहे॥ 8-73-3 (58435) इत्येवमुक्त्वा बीभत्सुं रोषात्संरक्तलोचनः। अब्रवीत्पुनरेवात्र धर्मराजो युधिष्ठिरः॥ 8-73-4 (58436) इदं यदि द्वैतवने तु सूक्तं कर्णं नियोद्धुं न सहे नृपेति। वयं ततः प्राप्तकालं यथाव-- त्कृत्वाऽभ्युपेक्षाम तथैव राज्यम्॥ 8-73-5 (58437) मयि प्रतिश्रुत्य वधं हि तस्य बलस्य चार्धस्य तथैव युद्धे। आनीय मां शत्रुमध्ये स कस्मा-- त्समुन्नाम्य स्थण्डिले प्रत्यपिंष्ठाः॥ 8-73-6 (58438) अन्वास्य सत्येन यदात्थ पार्थ सत्यं शपन्वासुदेवेन सार्धम्। तन्नः सत्यमफलं ह्यकार्षीः फलस्य काले चाच्छिन्नः पुष्पवृक्षम्॥ 8-73-7 (58439) प्रच्छादितस्त्वं बालिश दुर्यशोभि-- रनर्थवाक्योऽस्यर्जुन नैव साधुः। त्यक्त्वा भीमं सर्वभीमेषु भीमं संयोजितस्त्वं सूतपुत्रं निहन्तुम्॥ 8-73-8 (58440) यत्तद्वृथा वागुवाचान्तरिक्षे सप्ताह्नि जाते त्वयि मन्दबुद्धौ। अपापीयान्वासवात्कुन्तिजातो बहून्सङ्ग्रामानयमेव जेता॥ 8-73-9 (58441) अयं जेता पाण्डवो देवसङ्घान् सर्वाणि भूतान्यपि चोत्तमौजाः। अयं जेता मद्रकलिङ्गजाता-- न्दैत्यांश्च रक्षांसि समागतानि॥ 8-73-10 (58442) भूमिं च सर्वां निखिलेन जेता कुरूंश्च जेता स्वगणांश्च जेता। अस्मात्परो नो भविता धनुर्धरो नैष्यन्न भूतः कश्चिदेनं विजेता॥ 8-73-11 (58443) इच्छन्नयं सर्वभूतानि कुर्या-- द्वशी वशे सर्वसमाप्तविद्यः। कान्त्या शशाङ्कस्य जवेन वायोः स्यैर्येण मेरोः क्षमया पृथिव्याः॥ 8-73-12 (58444) अग्नेश्च तापे धनदस्य लक्ष्म्या शौर्येण शक्रस्य जयेन विष्णोः। तुल्यो महात्मा तव कुन्ति पुत्रो जातोऽदितेर्विष्णुरिवामितौजाः॥ 8-73-13 (58445) स्वेषां जयाय द्विषतां वधाय जातो महात्मा तव नन्दिकर्ता। इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि तपस्विनां शृण्वतां वागुवाच॥ 8-73-14 (58446) एवंविधस्त्वं न च भूतस्तथाद्य देवाश्च नूनमनृतं वदन्ति॥ 8-73-15 (58447) तथा परेषामृषिसत्तमानां श्रुत्वा गिरः पूजयतां सदा त्वाम्। न सन्नतिं यामि सुयोधनस्य न त्वां जानाम्याधिरथेर्भयार्तम्॥ 8-73-16 (58448) त्वष्ट्रा कृतं वाहमकूजनाक्षं शुभं समास्थाय कपिध्वजं तम्। खङ्गं गृहीत्वा हेमचित्रावनद्वं धनुर्वरं गाण्डिवं तालमात्रम्। त्वं वासुदेवेनोह्यमानः कथं नु कर्णाद्भीतो व्यपयातोऽसि पार्थ॥ 8-73-17 (58449) पूर्वं यदुक्तं हि सुयोधनेन न फल्गुनः प्रमुखे स्थास्यतीति। कर्णस्य युद्धे हि महाबलस्य मौर्ख्यात्तु तन्नावबुद्धं मयाऽसीत्॥ 8-73-18 (58450) तेनाद्य तप्स्ये भृशमप्रमेयं यन्मित्रवर्गो नरकं प्रविष्टः। तदैव वाच्योऽस्मि ननु त्वयाऽहं न योत्स्येऽहं सूतपुत्रं कथञ्चित्॥ 8-73-19 (58451) ततो नाहं सृञ्जयान्केकयांश्च समानयेयं सुहृदो रणाय॥ 8-73-20 (58452) एवं गते किं च मयाऽद्य शक्यं कार्यं कर्तुं निग्रहे सूतजस्य। तथैव राज्ञश्च सुयोधनस्य ये वापि मां योद्धुकामाः समेताः॥ 8-73-21 (58453) धिगस्तु मज्जीवितमद्य कृष्ण योऽहं वशं सूतपुत्रस्य यातः। मध्ये कुरूणां समुयोधनानां ये चाप्यन्ये योद्धुकामाः समेताः॥ 8-73-22 (58454) एकः स मे भीमसेनोऽद्यं नाथो येनाभिपन्नोऽस्मि रणे महाभये। विमोच्य मां चापि रुपान्वितस्ततः शरेण तीक्ष्णेन बिभेद कर्णम्॥ 8-73-23 (58455) त्यक्त्वा प्राणान्समरे भीमसेन-- श्चक्रे युद्धं कुरुमुख्यैः समेतैः। गदाग्रहस्तो रुधिरोक्षिताङ्ग-- श्चरन्रणे काल इवान्तकाले॥ 8-73-24 (58456) असौ हि भीमस्य महानिनादो मुहुर्महुः श्रूयते धार्तराष्ट्रैः। यदि स्म जीवेत्समरे निहन्ता महारथानां प्रवरो नरोत्तमः॥ 8-73-25 (58457) तवाभिमन्युस्तनयोऽद्य पार्थ न चास्मि गन्ता समरे पराभवम्। अथापि जीवेत्समरे घटोत्कच-- स्तथाऽपि नाहं समरे पराङ्युखः॥ 8-73-26 (58458) भीमस्य पुत्रः समराग्रयायी महास्त्रविन्नापि तवानुरूपः। यं तं xxxसाद्य रिपोर्वलं नो निमीलिताक्षं भयविप्लुतं भवेत्॥ 8-73-27 (58459) xxxxxनिशि युद्धमेक-- स्त्यक्सा रणं यत्व भयाद्रवन्ते॥ 8-73-28 (58460) स चेत्समासाद्य महानुभावः कर्णं रणे बाणगणैः प्रमोह्यः। धैर्ये स्थितेनापि च सूतजेन शक्या हतो वासवदत्तया तया॥ 8-73-29 (58461) ममैव भाग्यानि पुरा कृतानि पापानि नूनं फलवन्ति युद्धे। तृणं च कृत्वा समरे भवन्तं ततोऽहमेवं निकृतो दुरात्मना। वैकर्तनेनैव तथा कृतोऽहं यथा ह्यशक्तः क्रियते त्वबान्धवः॥ 8-73-30 (58462) आपद्ग्रतं यश्च नरो विमोक्षये-- त्स बान्धवः स्नेहयुतः सुहृच्च। एवं पुराणा ऋषयो वदन्ति धर्मः सदा सद्भिरनुष्ठितश्च॥ 8-73-31 (58463) खङ्गं विभ्रज्जातरूपत्सरुं च धनुर्वेदं गाण्डिवं तालमात्रम्। स केशवेनोह्यमानः कथं नु कर्णात्पार्थस्त्वमपैतुं समैषीः॥ 8-73-32 (58464) स गाण्डीवं केशवाय प्रदाय यन्ता भवेस्त्वं यदि केशवस्य। ततस्तरेत्केशवः कर्णमुग्रं मरुत्सस्वो वृत्रमिवात्तवज्रः॥ 8-73-33 (58465) मासेऽपतिष्यो यदि पञ्चमे त्वं न वा गर्भो यद्यभवः पृथायाः। मत्तः श्रेयान्राजपुत्रोऽभविष्य-- न्न ते यशः फल्गुन इत्यपेयात्॥ ॥ 8-73-34 (58466) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकसप्ततितमोऽध्यायः॥ 71 ॥
कर्णपर्व - अध्याय 072

॥ श्रीः ॥

8.72. अध्यायः 072

Mahabharata - Karna Parva - Chapter Topics

xxxxxxxxxxxxx तेन तन्निवेदनम्॥ 1 ॥ कृष्णेन वधप्रतिनिधित्वेन युधिष्ठिराधिक्षेपxxxxxxx॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-72-0 (58467) सञ्जय उवाच। 8-72-0x (5005) युधिष्ठिरेणैxxxxक्तः कौन्तेयः श्वेतवाहनः। असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम्॥ 8-72-1 (58468) तस्य कोपं समाज्ञाय चित्तज्ञः केशवस्तदा। उवाच किमिदं खङ्गं गृह्णास्यर्जुन शंम मे॥ 8-72-2 (58469) नेह पश्यामि योद्धव्यं त्वया किञ्चिद्वनञ्जय। नेहागता धार्तराष्ट्राः सर्वे भीमेन वारिताः॥ 8-72-3 (58470) उपागतोऽसि कौन्तेय राजा द्रष्टव्य इत्यसौ। स राजा भवता दृष्टः कुशली च युधिष्ठिरः॥ 8-72-4 (58471) तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम्। हर्षकाले च सम्प्राप्ते कस्मात्त्वां मन्युराविशत्॥ 8-72-5 (58472) न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह। प्रहर्तुमिच्छसे कस्मात्किं वा ते चित्तविभ्रमः॥ 8-72-6 (58473) कस्माद्भवान्महाखङ्गं परिगृह्णात्यकारणात्। 8-72-7 (58474) तत्त्वां पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम्। परामृशसि यत्क्रुद्धः खङ्गमद्भुतविक्रम॥ 8-72-8 (58475) एवमुक्तः कटाक्षेण प्रेक्षमाणो युधिष्ठिरम्। अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन्॥ 8-72-9 (58476) अन्यस्मै देहि गाण्डीवमिति मां यः प्रचोदयेत्। भिन्द्यामहं तस्य शिर इत्युपांशु व्रतं मम। युधिष्ठिरेण तेनाहमुक्तश्चास्मि जनार्दन॥ 8-72-10 (58477) यदुक्तोऽहमदीनार्थं राज्ञाऽनेन यशस्विना। समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे॥ 8-72-11 (58478) तस्मादेनं विधिष्यामि राजानं धर्मचारिणाम्। प्रतिज्ञां पालयिष्यामि हत्वैनं नरसत्तमम्॥ 8-72-12 (58479) एतदर्थं मया खह्गो गृहीतो यदुनन्दन। सोऽहं युधिष्ठिरं हत्वा सत्यस्यानृण्यतां गतः। विशोको विज्वरश्चापि भविष्यामि जनार्दन॥ 8-72-13 (58480) किं वा त्वं मन्यसे प्राप्तमस्मिन्कार्य उपस्थिते। त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम्॥ 8-72-14 (58481) `जातस्त्वत्तो हि धर्मश्चाधर्मश्चेति परा श्रुतिः'। तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान्॥ 8-72-15 (58482) सञ्जय उवाच। 8-72-16x (5006) धिग्धिगित्येव गोविन्दः पार्थमुक्त्वाब्रवीत्पुनः॥ 8-72-16 (58483) कृष्ण उवाच। 8-72-17x (5007) इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया। अकाले पुरुषव्याघ्र संरम्भं यद्भवानगात्॥ 8-72-17 (58484) न हि धर्मविगज्ञैरेवं कार्यं धनञ्जय। यथा त्वं पाण्डवाद्येह धर्मभीरुरण्डितः॥ 8-72-18 (58485) योऽकार्याणां क्रियायाश्च संयोगं नावबुध्यते। कार्याणामक्रियायाश्च स पार्थ पुरुषाधमः॥ 8-72-19 (58486) अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः। समासविस्तरविदां न तेषां वेत्सि निश्चयम्॥ 8-72-20 (58487) अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये। एवं स मुह्यत्यवशो यथा त्वं पार्थ मुह्यसि॥ 8-72-21 (58488) न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन। श्रुतेन ज्ञायते सर्वं तच्च त्वं नावहुध्यसे॥ 8-72-22 (58489) अविज्ञानादिह भवान्सत्यं रक्षति धर्मवित्। प्राणिनां त्वं वधं पार्थ धार्मिको नावबुध्यसे॥ 8-72-23 (58490) प्राणिनां हि वधात्तात वृथा धर्मो मतो मम। अनृतं तु भवेद्वाच्यं न तु हिंसा कदाचन॥ 8-72-24 (58491) स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम्। हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव॥ 8-72-25 (58492) अयुध्यमानस्य गुरोस्तथाऽशत्रोश्च मानद। पराङ्मुखस्य द्रवतः शरणं चापि गच्छतः॥ 8-72-26 (58493) कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च। न वधः पूज्यते सद्भिस्तच्च सर्वं गुरौ तव॥ 8-72-27 (58494) त्वया चैतद्व्रतं पार्थ बालेनेव कृतं पुरा। तस्मादधर्मसंयुक्तं मौर्ख्यादेव व्यवस्यसि॥ 8-72-28 (58495) स्वगुरुं पार्थ कस्मात्त्वं हन्तुकामोऽभिधावसि। असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरत्ययाम्॥ 8-72-29 (58496) इदं धर्मरहस्यं च तव वक्ष्यामि पाण्डव। यद्ब्रूयात्तव भीष्मो वा राजा वापि युधिष्ठिरः॥ 8-72-30 (58497) विदुरो वा पुनः क्षत्ता गान्धारी वा यशस्विनी। कुन्ती वा भरतश्रेष्ठ द्रौपदी वा यशस्विनी। तत्ते वक्ष्यामि तत्त्वेन निबोधैतद्धनञ्जय॥ 8-72-31 (58498) सत्यस्यं वचनं साधु न सत्याद्विद्यते परम्। सुदुर्विदं हि तत्त्वेन तत्सत्यमिति मे सतिः॥ 8-72-32 (58499) भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत्। यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत्॥ 8-72-33 (58500) विवाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वत्रनापहारे। विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि॥ 8-72-34 (58501) सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत्॥ तत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत्॥ 8-72-35 (58502) तादृशो हन्यते बालो यस्य सत्यमनिश्चितम्। सत्यानृते विनिश्चित्य ततो भवति धर्मवित्॥ 8-72-36 (58503) किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः। सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव॥ 8-72-37 (58504) किमाश्चर्यं पुनर्मूढो धर्मकामो ह्यपण्डितः। सुमहत्प्राप्नुयात्पापमापगास्विव कौशिकः॥ 8-72-38 (58505) अर्जुन उवाच। 8-72-39x (5008) आचक्ष्व भगवन्नेतद्यथा विन्दाम्यहं तथा। वलाकस्यानुसम्बद्धं नदीनां कौशिकस्य च॥ 8-72-39 (58506) वासुदेव उवाच। 8-72-40x (5009) मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत। यात्रार्थं पुत्रदाराणां मृगान्हन्ति न कामतः॥ 8-72-40 (58507) वृद्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान्। स्वधर्मनिरतो नित्यं संविभज्यानसूयकः॥ 8-72-41 (58508) स कदाचिन्मृगप्रेप्सुर्नान्वविन्दन्मृगं क्वचित्। अथापश्यत्स पीवानं श्वापदं घ्राणचक्षुषम्॥ 8-72-42 (58509) अदृष्टपूर्वमपि तत्सत्वं तेन हतं तदा। अन्धे हते ततो व्योम्नः पुष्पवर्षं पपात च॥ 8-72-43 (58510) अप्सरोगीतवादित्रैर्नादितं च मनोरमम्। विमानमगमत्स्वर्गान्मृगव्याधनिनीषया॥ 8-72-44 (58511) तद्भूतं सर्वभूतानामभावाय किलार्जुन। तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयम्भुवा॥ 8-72-45 (58512) तद्धत्वा सर्वभूतानामभावकृतनिश्चयम्। बलाकोऽगात्स्वर्गलोकमेवं धर्मः सुदुर्विदः॥ 8-72-46 (58513) कौशिकोऽप्यभवद्विप्रस्तपस्वीनो बहुश्रुतः। नदीनां सङ्गमे ग्रामाददूरे स किलावसत्॥ 8-72-47 (58514) सत्यं मया सदा वाच्यमिति तस्याभवद्द्वतम्। सत्यवादीति विख्यातः स तदासीद्धनञ्जय॥ 8-72-48 (58515) अथ दस्युभयात्केचित्तदा तद्वनमाविशन्। तत्रापि दस्यवः क्रुद्धास्तानमार्गन्त यत्नतः॥ 8-72-49 (58516) अथ कौशिकमभ्येत्य प्रोचुस्ते सत्यवादिनम्। कतरेण पथा याता भगवन्निति वै जनाः। सत्येन पृष्टः प्रब्रूहि यदि तद्वेत्थ शंस नः॥ 8-72-50 (58517) श्रीकृष्ण उवाच। 8-72-51x (5010) सत्यस्य त्वविभागज्ञः सत्यं तेभ्यः शशंस ह। बहुवृक्षलतागुल्ममेतद्गहनमाश्रिताः। इति तान्ख्यापयामास तेभ्यस्तत्त्वं स कौशिकः॥ 8-72-51 (58518) ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः। ततोऽधर्मेण महता वाग्दुरुक्तेन कौशिकः॥ 8-72-52 (58519) गतः सुकष्टं निरयं धर्मसूक्ष्मेष्वतत्त्ववित्। दृष्टपूर्वश्रुतो मूढो धर्माणामविशारदः॥ 8-72-53 (58520) वृद्धानपृच्छन्सन्देहानन्धः श्वभ्रमिवर्च्छति॥ 8-72-54 (58521) तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति। दुष्करं प्रतिसंख्यानं कार्त्स्न्येनात्र व्यवस्थितिः॥ 8-72-55 (58522) सत्यं धर्म इति ह्येके वदन्ति बहवो जनाः। न च पार्थाभ्यसूयामि नैतत्सर्वत्र शिष्यते॥ 8-72-56 (58523) श्रुतिस्तु धार्या इत्येके वदन्ति बहवो जनाः। न त्वेतत्प्रत्यसूयामि तत्र सर्वं विधीयते॥ 8-72-57 (58524) यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः। अहिंसार्थाय हिंस्राणां धर्मप्रवचनं कृतम्। धारणाद्धर्ममित्याहुर्धर्मो धारयते प्रजाः॥ 8-72-58 (58525) प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम्। यस्मात्प्रभवसंयुक्तः स धर्म इति निश्चयः॥ 8-72-59 (58526) येऽन्यायेन जिगीषन्तो धर्मं पृच्छन्ति मानवाः। अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन॥ 8-72-60 (58527) अवश्यं कूजितव्ये ह शङ्केरन्वाप्यकूजनात्। येऽन्यायेन जिहीर्षन्तो धर्मं पृच्छन्ति कस्यचित्। श्रेयस्तत्रानृतं वक्तुं सत्यादिति विनिश्चित्म्॥ 8-72-61 (58528) प्राणात्यये विवाहे वा सर्वजात्या महाभये। सर्वस्वस्य च लोपे वा वक्तव्यमनृतं भवेत्॥ 8-72-62 (58529) अधर्मं हि न पश्यन्ति मृषोद्यं तत्र पण्डिताः। सर्वथाऽभिवदेत्तत्तु नानृतं स्याद्विचक्षणः॥ 8-72-63 (58530) यः स्तेनैः सह सम्बन्धो मुच्यते शपथादपि। भवेत्तत्रानृतं श्रेयः सत्यादिति विचारितम्॥ 8-72-64 (58531) न च तेभ्यो धनं देयं सत्यादिति कथञ्चन। पापेभ्योऽपि धनं दत्तं दातारमपि पीडयेत्। तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत्॥ 8-72-65 (58532) एष ते लक्षणोद्देशो मयोद्दिष्टो यथाविधि। एतज्ज्ञात्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः॥ 8-72-66 (58533) अर्जुन उवाच। 8-72-67x (5011) यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महायशाः॥ 8-72-67 (58534) सुहृद्ब्रूयाद्यथाऽस्माकं तथोक्तं वचनं त्वया। भवान्मातृसमोऽस्माकं भवान्पितृसमोऽपि च। गतिश्च परमा कृष्ण त्वमेव च परायणम्॥ 8-72-68 (58535) न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित्। तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम्॥ 8-72-69 (58536) अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम्। अधर्मयुक्ते संयोगे ब्रूहि किञ्चिदनुग्रहम्॥ 8-72-70 (58537) इदं चापरमत्रैव ब्रूहि तत्त्वं विवक्षितम्॥ 8-72-71 (58538) जानासि दाशार्ह मम व्रतं तु यो मां ब्रूयात्कश्चन मानुषेषु। अन्यस्मै त्वं गाण्डिवं देहि पार्थ यो मत्तोऽस्त्रे वीर्यतो वा विशिष्टः॥ 8-72-72 (58539) हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूवरकेति चोक्तः। वन्मां राजा ह्युक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिवीरे॥ 8-72-73 (58540) तं हन्यां चेत्केशव जीवलोके स्थाता नाहं कालमप्यल्पमात्रम्। ध्यात्वा नूनं ह्येनसा चापि मुक्तो वधं राज्ञो भ्रष्टवीर्यो विचेताः॥ 8-72-74 (58541) यथा प्रतिज्ञा मम लोकबुद्धौ भवेत्सत्या धर्मभृतां वरिष्ठ। यथा जीवत्पाण्डवोऽहं च कृष्ण तथा बुद्धिं दातुमप्यर्हसि त्वम्॥ 8-72-75 (58542) वासुदेव उवाच। 8-72-76x (5012) राजा श्रान्तो विक्षतो दुःखितश्च कर्णेन सह्ख्ये निशितैर्बाणसङ्घैः। यश्चानिशं सूतपुत्रेण वीर शरैर्भृशं ताडितो युध्यमानः॥ 8-72-76 (58543) अतस्त्वमेतेन सरोषमुक्तो दुःखान्वितेनेदमयुक्तरूपम्। अकोपितो ह्येष यदि स्म सङ्ख्ये कर्णं न हन्यादिति चाब्रवीत्सः॥ 8-72-77 (58544) जानाति तं पाण्डव एष चापि पापं लोके कर्णमसह्यमन्यैः। ततस्त्वमुक्तो भृशरोषितेन राज्ञा समक्षं परुषाणि पार्थ॥ 8-72-78 (58545) नित्योद्युक्ते सततं चाप्रसह्ये कर्णे द्यूतं ह्यद्य रणे निबद्धम्। तस्मिन्हते कुरवो निर्जिताः स्यु-- रेवं बुद्धिः पार्थिवे धर्मपुत्रे॥ 8-72-79 (58546) ततो बधं नार्हति धर्मपुत्र-- स्त्वया प्रतिज्ञाऽर्जुन पालनीया। जीवन्नयं येन मृतो भवेद्धि तन्मे निबोधेह तवानुरूपम्॥ 8-72-80 (58547) यदा मानं लभते माननार्ह-- स्तदा स वै जीवति जीवलोके। यदाऽवमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः॥ 8-72-81 (58548) सम्मानितः पार्थिवोऽयं सदैव त्वया च भीमेन तथा यमाभ्याम्। वृद्धैश्च लोके पुरुषैश्च शूरै-- स्तस्यापमानं कलया प्रयुङ्क्ष्व॥ 8-72-82 (58549) त्वमित्यत्रभवन्तं हि ब्रूहि पार्थ युधिष्ठिरम्। त्वमित्युक्तो हि निहतो गुरुर्भवति भारत॥ 8-72-83 (58550) एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे। अधर्मयुक्तं संयोगं कुरुष्वैनं कुरूद्वह॥ 8-72-84 (58551) अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः। अविचार्यैव कार्यैषा श्रेयस्कामैर्नरैः सदा॥ 8-72-85 (58552) अवधेन वधः प्रोक्तो यद्गुरुस्त्वमिति प्रभुः। तद्ब्रूहि त्वं यन्मयोक्तं धर्मराजस्य धर्मवित्॥ 8-72-86 (58553) यदा ह्यं पाण्डव धर्मराज-- सत्वत्तोऽयुक्तं लप्स्यते चैव साधु। ततोऽस्य पादावभिवाद्य पश्चा-- च्छ्रेयो ब्रूयात्सान्त्वयुक्तं हितं च॥ 8-72-87 (58554) भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा धर्ममार्गानुसारी। मुक्तोऽनृताद्वातृवधाच्च पापा-- द्धृष्टः कर्णं त्वं जहि पार्थ पश्चात्॥ ॥ 8-72-88 (58555) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विसप्ततितमोऽध्यायः॥ 72 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-72-22 सुखं अनधीत्येत्यर्थः। श्रुतेन शास्त्रेण॥ 8-72-26 अशत्रोः अशातनीयस्य अवध्यस्य॥ 8-72-47 तपस्वीनः तपस्विनामिनः श्रेष्ठः॥ 8-72-52 यथा चाल्पश्रुतो मूढो धर्माणामविभागवित्। वृद्धानपृष्ट्वा सन्देहं महच्छ्वभ्रमिहार्हति। इति ङ. पाठः॥ 8-72-57 तत्र ते लक्षणोद्वेशात्कश्चिदत्र भविष्यति इति क.ड.पाठः। दुष्करं परमं ज्ञानं तर्केणानुव्यवस्याति इति ड.पाठः। दुष्करं प्रतिसङ्ख्यानं कार्त्स्न्येनास्य व्यवस्यति इति व.घ.ड.पाठः। श्रुतेर्धर्म इति ह्येके इति ड.पाठः॥ 8-72-62 प्राणात्यये विधाहे वा सर्वज्ञातिवधात्यये। नर्मण्यभिप्रवृत्ते वा न च प्रोक्तं मृषा भवेत् इति झ.ङ.पाठः॥ 8-72-63 अधर्मं नात्र पश्यन्ति धर्मतत्वार्थदर्शिनः इति ङ.पाठः॥ 8-72-64 यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि। श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम्। इति ङ. पाठः॥ 8-72-65 शक्ये सति कथञ्चन इति ङ. पाठः॥ 8-72-70 अनुग्रहं अवधेन प्रतिज्ञारक्षणम्॥ 8-72-74 तं हन्यामिति स्थाता न न स्थास्ये। एनसा मुक्तोपि कृतप्रायश्चित्तोऽपि न स्थास्ये इत्यर्थः। किं कृत्वा राज्ञो वधं ध्यात्वा॥ 8-72-78 समक्षं आवयोरिति शेषः॥ 8-72-79 कर्णे पणीकृते। द्युतं युद्धरूपम्॥ 8-72-83 अत्र भवन्तं मान्यं त्वमिति ब्रूहि॥ 8-72-84 एवं पूज्यावमानरूपं संयोगं आत्मनानुष्ठितं कुरुष्व॥ 8-72-86 यत् गुरुस्त्वमिति प्रोक्तस्तत् अवधेन शंस्त्रपातनमन्तरेणैव वधः वधकरं भवतीत्यर्थः॥ 8-72-72 द्विसप्ततितमोऽध्यायः॥
कर्णपर्व - अध्याय 073

॥ श्रीः ॥

8.73. अध्यायः 073

Mahabharata - Karna Parva - Chapter Topics

युधिष्ठिराधिक्षेपादात्मवधोद्यतं पार्थं प्रति कृष्णेन तत्प्रतिनिधितया आत्मप्रशंसनचोदना॥ 1 ॥ अर्जुनेनात्मप्रशंसनानन्तरं युधिष्ठिरक्षमापनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-73-0 (58556) सञ्जय उवाच। 8-73-0x (5013) इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वचस्तत्। ततोऽब्रवीदर्जुनो धर्मराज-- मनुक्तपूर्वं परुषं प्रसह्य॥ 8-73-1 (58557) मा त्वं राजन्व्याहरस्वाद्य पापं त्वं तिष्ठसि क्रोशमात्रे व्यपेत्य। भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वलोकप्रवीरैः॥ 8-73-2 (58558) काले हि शत्रून्परिपीड्य वीरो हत्वा प्रवीरान्वसुधाधिपानाम्। रथप्रधानोत्तमनागमुख्या युधिप्रवीरा निहताश्च शूराः॥ 8-73-3 (58559) सुदुष्करं कर्म करोति भीमः कर्तुं यथा नार्हति कश्चिदन्यः। रथादवस्कन्द्य गदां परामृशं-- स्तथा रणे हन्ति तथैव वारणान्॥ 8-73-4 (58560) स कुञ्जराणामधिकं सहस्रं हत्वा नदंस्तुमुलं सिंहनादम्। काम्भोजवानायुजपार्वतीया-- नीहामृगाभान्विनिहत्य वाजिनः॥ 8-73-5 (58561) महारथान्दविरदाञ्शैलकल्पा-- न्सहेत यः कुञ्जरान्वध्यमानान्। असौ भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिन्दमोऽर्हति॥ 8-73-6 (58562) वरासिना चाथ नराश्वकुञ्जरां-- स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन्। प्रमृद्य पद्ध्यामहितांस्तु हन्ति पुनश्च दोर्भ्यां शतमन्युविक्रमः॥ 8-73-7 (58563) महाबलो वैश्रवणान्तकोपमः प्रसह्य हर्ता द्विषतां यशांसि। स भीमसेनोऽर्हति गर्हणाय न त्वं नित्यं रक्ष्यमाणः सुहृद्भिः॥ 8-73-8 (58564) कलिङ्गवङ्गाङ्गनिपादमागधा-- न्सदा महाशैलवलाहकोपमान्। निहन्ति यः शत्रुगणाननेकशः स मां हि वक्तुं प्रभवत्यमानगसम्॥ 8-73-9 (58565) संयुक्तमास्थाय रथं हि काले धनुर्विधून्वञ्छरपूर्णमुष्टिः। सृजेच्च यो बाणसङ्घान्परेषु महाबलो मेघ इवाम्बुधाराः॥ 8-73-10 (58566) शतान्यष्टौ वारणानामदर्शय-- द्विशातितैः कुम्भघटाग्रहस्तैः। यो भीमसेनो निहतारिसङ्घः स मामुपालब्धुमरिन्दमोऽर्हति॥ 8-73-11 (58567) रथाश्च नागाश्च हयाश्च राज-- न्भीमेनाजौ निहताः सङ्घशोऽद्य। राजानश्च बहवो महाबलाः स मामुपालब्धुमरिन्दमोऽर्हति॥ 8-73-12 (58568) धृतराष्ट्रपुत्रा बलिनश्च येन महाबला निहताः प्रायशो वै। शूरो युद्धे ह्यप्रतिवार्यवीर्यः स मामुपालब्धुमरिन्दमोऽर्हति॥ 8-73-13 (58569) प्रतापयंस्तद्बलमुग्ररूपं योऽसौ रमे धार्तराष्ट्रस्य वीरः। एकः सहेताप्रतिसह्यपौरुष-- स्तेनास्मि वाच्यो न त्वया वै कदाचित्॥ 8-73-14 (58570) महारथा यत्र यत्रैव युद्धे भिन्दन्ति सैन्यं तव कामतोऽद्य। तत्रैव तत्रैव रणे महात्मा दृढं भीमः परसङ्घानमृद्रात्॥ 8-73-15 (58571) तेनास्मि वाच्यो न त्वया हं कदाचि-- न्मा मा वोचः क्रूरमिहाद्य पार्थ। नास्मद्विधो वै भवता तु वाच्यो यथा भवान्सर्वलोकस्य वाच्यः॥ 8-73-16 (58572) एवं हि मा ते ब्रुवतो नरेन्द्र कथं न दीर्येच्छतधाऽद्य जिह्वा। अहो बतेदं सुनृशंसरूपं कामादवोचस्त्वमिहाद्य यद्वै॥ 8-73-17 (58573) बलं न वाधिष्ठितं सत्तमानां यत्क्षत्रियाणां बहुलं वदन्ति। त्वं चाबलो भारत निष्ठुरोऽसि त्वमेव मां वेत्सि यथाविधोऽहम्॥ 8-73-18 (58574) नकुलेन राजन्गजवाजियोधा हताश्च वीराः सहसा समेत्य। त्यक्त्वा प्राणान्समरे युद्धकाङ्क्षी स मामुपालब्धुमरिन्दमोऽर्हति॥ 8-73-19 (58575) कृतं कर्म सहदेवेन दुष्करं यो युध्यते परसैन्यावमर्दी। न चाब्रवीत्किञ्चिदिहागतो बली पश्यान्तरं तस्य चेवात्मनश्च॥ 8-73-20 (58576) धृष्टद्युम्नः सात्यकिर्द्रौपदेया युधामन्युश्चोत्तमौजाः शिखण्डी। एतेऽद्य युधि सम्प्रपीडिता-- स्ते मामुलपालब्धुमर्हन्ति न त्वम्॥ 8-73-21 (58577) त्वन्मूलमस्माभिरिदं हि वैरं प्राप्तं तथा व्यसनं चातिघोरम्। द्यूप्रमत्तेन कृतं त्वयाऽसकृ-- त्कस्मादुपालब्धुमिहार्हसि त्वम्॥ 8-73-22 (58578) त्वमेव राजन्सततं प्रमत्त-- स्त्वमेव मूढो भारतानामसाधुः। त्वां प्राप्य राज्यं च विनष्टमेत-- त्प्राप्ता महत्पाण्डवाश्चापि दास्यम्॥ 8-73-23 (58579) त्वत्तः कृतोऽस्मकद्वनवासदुःखं राज्यस्य नाशो ह्यभिमन्योश्च घोरः। आत्मानमेवं सुनृशंसरूपं ज्ञात्वा किमर्थं गर्हसे माद्य वीर॥ 8-73-24 (58580) लज्जस्व राजन्यदि तेऽस्ति लज्जा तूष्णीम्भूतः पश्य सर्वं कृतघ्नः। भीमो नित्यं समरस्य कर्ता दर्पस्य भेत्ता पुनरेव नित्यम्॥ 8-73-25 (58581) स्वयं ह्यशक्तेन नरेन्द्र युद्धे नरेण कार्या सततं क्षमैव। बलं हि वाचि द्विजसत्तमानां क्षात्रं द्विजा बाहुबलं वदन्ति॥ 8-73-26 (58582) त्वं वाग्बलो भारत निष्ठुरोऽसि त्वमेव मां वेत्सि यथाविधोऽहम्। घटामि नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च॥ 8-73-27 (58583) एवञ्च मां वाक्छलाकैर्हिनत्सि त्वत्तः सुखं न वयं विद्म किञ्चित्। मा मामवंस्था द्रौपदीतल्पकसंस्थो महारथान्प्रतिहन्मि त्वदर्थे॥ 8-73-28 (58584) सर्वातिशङ्की भवसि प्रमत्त-- स्त्वत्तः सुखं नाभिजानामि किञ्चित्। प्रोक्तः स्वयं सत्यसन्धेन मृत्यु-- स्तव प्रियार्थं नरदेव युद्धे॥ 8-73-29 (58585) शिखण्डिनाम्ना प्रधने तवार्थे मयाभिगुप्तेन हतश्च भीष्मः। द्रोणो हतो यः सततोपकारी धृष्टद्युम्नेन स्यन्दनाद्विप्रकृष्टः॥ 8-73-30 (58586) द्रौणिश्च रुद्धः सगणो महात्मा तथापि ते वै वचनं नृशंसवत्। दुःखं प्रियं ते नरदेव कर्तुं यस्य प्रियं ते न करोम्यहं वै॥ 8-73-31 (58587) न युच्यते वै दिवि चेह यः पुमा-- न्यस्ते मदन्योऽप्रियमारभेत। न चाभिनन्दामि तथाहि राज्यं यतस्त्वमक्षेषु दृढं प्रसक्तः॥ 8-73-32 (58588) स्वयं कृतं पापमनार्यजुष्ट-- मस्माभिराजौ व्यसनं तितीर्षसि॥ अक्षेषु दोषा बहवो विधर्म्याः श्रुतास्त्वया सहदेवोऽब्रवीद्यान्॥ 8-73-33 (58589) तान्नेच्छसि त्यक्तुमनार्यजुष्टा-- न्घोरे स्म सर्वे निरये त्वयाऽस्ताः। त्वं देविता त्वत्कृते राज्यनाशं-- स्त्वत्सम्भवं व्यसनं नो नरेन्द्र॥ 8-73-34 (58590) मास्मान्क्रूरैर्षाक्प्रतोदैस्तुदस्त्वं भूयो राजन्कोपयस्यल्पबुद्ध्या॥ 8-73-35 (58591) सञ्जय उवाच। 8-73-36x (5014) एता वाचः परुषाः सव्यसाची स्थिरप्रतिज्ञः श्रावयित्वा नरेन्द्रम्। विनिः श्वसञ्ज्येष्ठमनिष्टमुक्त्वा ततस्तु कोशादसिमुद्वबर्ह॥ 8-73-36 (58592) तमाह कृष्णः किमिदं पुनर्भवा-- न्विकोशमाकाशनिभं करोत्यसिम्। प्रब्रूहि सत्यं पुनरुत्तरं सखे वचः प्रवक्ष्याभि तवार्थसिद्धये॥ 8-73-37 (58593) इतीव पृष्टः पुरुषोत्तमेन सुदुःखितः केशवमाह पार्थः। अहं हनिष्ये स्वशरीरमेत-- त्प्रसह्य येनाहितमुक्तवान्गुरुम्॥ 8-73-38 (58594) निशम्य तत्पार्थवचोऽब्रवीदिदं जनार्दनो धर्मभृतां वरिष्ठः। प्रब्रूहि पार्थ स्वगुणानिहात्मन-- स्ततो हतात्मा भवसीति निश्चयः॥ 8-73-39 (58595) तथा तु कृष्णस्य वचो निशम्य ततोऽर्जुनः प्राह धनुः प्रगृह्य। युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति दुर्वचः स्वयम्॥ 8-73-40 (58596) अर्जुन उवाच। 8-73-41x (5015) न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम्। अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत्॥ 8-73-41 (58597) मया हि राजन्सदिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे। स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा॥ 8-73-42 (58598) पाणी पृषत्कालिखिताविमौ पुन-- र्धनुश्च सव्ये विततं सबाणम्। पादौ च मे लक्षणतः प्रशस्तौ न मादृशं युद्धगतं जयन्ति॥ 8-73-43 (58599) हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः। संशप्तकानां किञ्चिदेवावशिष्टं सर्वस्य लोकस्य हतं मयाऽर्धम्॥ 8-73-44 (58600) शेते मया निहता शत्रुसेना छिन्नैर्गात्रैर्भूमितले स्खलन्ती। अनस्त्रज्ञान्नैव निहन्मि चास्त्रै-- स्तस्मान्न भस्मैव करोमि लोकान्॥ 8-73-45 (58601) जैत्रं रथं भीममास्थाय कृष्ण यावच्छीघ्रं सूतपुत्रं निहन्तुम्। राजा भवत्वद्य सुनिर्वृतोऽयं कर्णं रणे नाशयितास्मि बाणैः॥ 8-73-46 (58602) इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम्। अद्यापुत्रा सूतमाता भवित्री कुन्ती वाथो वा मया तेन वापि। सत्यं वदाम्यद्य न कर्णमाजौ शरैरहत्वा कवचं विमोक्ष्ये॥ 8-73-47 (58603) सञ्जय उवाच। 8-73-48x (5016) इत्येवमुक्त्वा पुनरेव पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम्। विमुच्य शस्त्राणि धनुर्विसृज्य कोशे च खङ्गं विनिधाय तूर्णम्॥ 8-73-48 (58604) स व्रीडया नम्रशिराः किरीटी युधिष्ठिरं प्राञ्जलिरभ्युवाच। प्रसीद राजन्क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते॥ 8-73-49 (58605) ततस्तु पादावुपगृह्य पार्थः समुत्थितो दीप्ततेजाः किरीटि। प्रसाद्य राजानममित्रसाहं स्थितोऽब्रवीच्चैनमभिप्रतप्तम्॥ 8-73-50 (58606) याम्येष भीमं समराद्विमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम्। भवत्प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन्॥ 8-73-51 (58607) नेदं चिरात्क्षिप्रमिदं भविष्य-- दावर्ततेऽसावभियामि चैनम्। अद्याप्यपुत्रा तेन हतेन राधा कुन्ती मया वा तदिदं विद्धि राजन्॥ ॥ 8-73-52 (58608) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिसप्ततितमोऽध्यायः॥ 73 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-73-29 सत्यसन्धेन भीष्मेण॥ 8-73-73 त्रिसप्ततितमोऽध्यायः॥
कर्णपर्व - अध्याय 074

॥ श्रीः ॥

8.74. अध्यायः 074

Mahabharata - Karna Parva - Chapter Topics

अर्जुनकृतावमानाद्वनं यियासोर्युधिष्ठिरस्य कृष्णेन परिसान्त्वनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-74-0 (58609) सञ्जय उवाच। 8-74-0x (5017) एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं फल्गुनस्य। उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः॥ 8-74-1 (58610) कृतं मया पार्थं न साधुकर्म येन प्राप्तं व्यसनं वः सुघोरम्। तस्माच्छिरश्छिन्धि ममैतदद्य कुलान्तकस्याधमपूरुषस्य॥ 8-74-2 (58611) पापस्य पाप्मोहतस्य वीर विमूढबुद्धेरलसस्य भीरोः। वृद्धावमन्सुः परुषत्य चैव किं ते चिरं मामनुसृज्य रूक्षम्॥ 8-74-3 (58612) गच्छाम्यहं वनमद्यैव पापः सुखं भवान्वर्ततां मद्विहीनः। योग्यो राजा भीमसेनो महात्मा क्लीबस्य किं वा मम राज्यकृत्यम्॥ 8-74-4 (58613) न चापि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य। भीमोऽस्तु राजा मम जीवितेन न कार्यमद्यावमतस्य वीर॥ 8-74-5 (58614) इत्येवमुक्त्वा सहसोत्पपात रुषान्वितस्तच्छयनं विहाय। इयेष निर्गन्तुमथो वनाय तं वासुदेवः प्रणतोऽभ्युवाच॥ 8-74-6 (58615) न राजन्विदितं तत्ते यथा गाण्डीवधन्वनः। प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता॥ 8-74-7 (58616) ब्रूयाद्य एनं गाण्डीवं देह्यन्यस्मै त्वमित्युत। वध्योऽस्य स पुमाँल्लोके त्वया चोक्तोयमीदृशम्॥ 8-74-8 (58617) ततः सत्यां प्रतिज्ञां तां पार्थेन प्रतिरक्षता। मच्छन्दादवमानोऽयं कृतस्तव महीपते॥ 8-74-9 (58618) गुरूणामवमानो हि वध इत्यभिधीयते। तस्मात्क्षम महाबाहो मम पार्थस्य चोभयोः॥ 8-74-10 (58619) व्यतिक्रममिमं राजन्सत्यसंरक्षणं प्रति। शरणं त्वां महाराज प्रतिपन्नावुभावपि॥ 8-74-11 (58620) क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः। राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम्॥ 8-74-12 (58621) सत्यं ते प्रतिजानामि हतं विद्व्यद्य सूतजम्। यस्येच्छसि वधं तस्य गतमेवाद्य जिवीतम्॥ 8-74-13 (58622) इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः। ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा। कृताञ्जलिमुवाचेदं वाक्यं यत्समनन्तरम्॥ 8-74-14 (58623) एवमेव यथात्थ त्वमस्त्येषोऽतिक्रमो मम। अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव॥ 8-74-15 (58624) मोचिता व्यसनाद्धोराद्वयमद्य त्वयाच्युत। भवन्तं नावमासाद्य ह्यावां व्यसनसागरात्। घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ॥ 8-74-16 (58625) त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम्। समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत॥ ॥ 8-74-17 (58626) इति श्रीमन्महाभारते कर्णपर्वणि चतुःसप्ततितमोऽध्यायः॥ 74 ॥
कर्णपर्व - अध्याय 075

॥ श्रीः ॥

8.75. अध्यायः 075

Mahabharata - Karna Parva - Chapter Topics

अर्जुनेन स्वावमानितस्य युधिष्ठिरस्य प्रसादनम्॥ 1 ॥ अर्जुनेन युधिष्ठिराग्रे कर्णवधप्रतिज्ञानम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-75-0 (58627) सञ्जय उवाच। 8-75-0x (5018) इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम्। बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम्॥ 8-75-1 (58628) ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम्। कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम्॥ 8-75-2 (58629) असिना तीक्ष्णधारणे हन्या धर्मे व्यस्थितम्। त्वमित्युक्त्वाथ राजानमेवं कश्मलमाविशः॥ 8-75-3 (58630) हत्वा तु नृपतिं पार्थ करिष्यसि किमुत्तरम्। एवं हि दुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः॥ 8-75-4 (58631) स भवान्धर्मभीरुत्वाद्धवं यायान्महत्तमः। नरकं घोररूपं च भ्रातुर्ज्येतुस्य वै वथात्॥ 8-75-5 (58632) स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम्। प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम॥ 8-75-6 (58633) प्रसाद्य भक्त्या राजानं प्रीते चैव युधिष्ठिरे। प्रयावस्त्वरितौ योद्धुं सूतपुत्ररथं प्रति॥ 8-75-7 (58634) हत्वा तु समरे कर्णं त्वमद्य निशितैः शरैः। विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद॥ 8-75-8 (58635) एतदत्र महाबाहो प्राप्तकालं मतं मम। एवं कृते कृतं चैव तव कार्यं भविष्यति॥ 8-75-9 (58636) सञ्जय उवाच। 8-75-10x (5019) ततोऽर्जुनो महाराज लज्जपा वै समन्वितः। धर्तराजस्य चरणौ प्रपद्य शिरसा नतः॥ 8-75-10 (58637) उवाच भरतश्रेष्ठं प्रसीदेति पुनः पुनः। क्षमस्व राजन्यत्प्रोक्तस्त्वं मया धर्मभीरुणा॥ 8-75-11 (58638) पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः। धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभम्॥ 8-75-12 (58639) उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम्। समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः॥ 8-75-13 (58640) रुदित्वा सुचिरं कालं भ्रातरौ सुमहाद्युती। कृतशौचौ महाराज प्रीतिमन्तौ बभूवतुः॥ 8-75-14 (58641) तत आश्लिष्य तं प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवः। प्रीत्या परमया युक्तो विस्मयंश्च पुनःपुनः। अब्रवीत्तं महेष्वासं धर्मराजो धनञ्जयम्॥ 8-75-15 (58642) कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः। कवचं च ध्वजं चैव धनुः शक्तिर्हयाः शराः। शरैः कृत्ता महेष्वास यतमानस्य संयुगे॥ 8-75-16 (58643) सोऽहं दृष्ट्वा रणे तस्य कर्ण कर्णस्य फल्गुन। व्यवसीदामि दुःखेन न तु मे जीवितं प्रियम्॥ 8-75-17 (58644) न चेदद्य हि तं वीरं निहनिष्यसि संयुगे। प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम॥ 8-75-18 (58645) एवमुक्तः प्रत्युवाच विजयो भरतर्षभ॥ 8-75-19 (58646) सत्येन ते शपे राजंस्त्वत्पादेन तथैव च। भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते॥ 8-75-20 (58647) `अहमेनं नरश्रेष्ठ सामात्यं च महीपते'। यथाद्य समरे कर्णं हनिष्यामि हतोपि वा। महीतले पतिष्यामि सत्येनायुधमालभे॥ 8-75-21 (58648) एवमाभाष्य राजानमब्रवीन्माधवं वचः। अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः। त्वमनुध्याहि भद्रं ते वधं तस्य दुरात्मनः॥ 8-75-22 (58649) एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम। शक्तोऽसि भरतश्रेष्ठ यत्नं कर्तुं यदात्थ माम्॥ 8-75-23 (58650) एष चापि हि मे कामो नित्यमेव महारथ। कथं भवान्रणे कर्णं निहन्यादिति सत्तम॥ 8-75-24 (58651) एवमुक्तस्ततो राजन्पार्थो वचनमब्रवीत्। हन्यते द्वैरथे भूयो युज्यन्तां वै रथोत्तमे॥ 8-75-25 (58652) उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिभिः। रथोपकरणैः सर्वैः सत्वरं यातु मे रथः॥ 8-75-26 (58653) एवमुक्तो महाराज फल्गुनेन महात्मना। उवाच दारुकं कृष्णः कुरु सर्वं यदब्रवीत्। अर्जुनो भारतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्॥ 8-75-27 (58654) आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम। योजयामास च रथं वैयाघ्नं शत्रुतापनम्। सज्जं निवेदयामास पाण्डवस्य महात्मनः॥ 8-75-28 (58655) युक्तं तु रथमास्थाय दारुकेण महात्मना। उपस्थितं रथं दृष्ट्वा पद्मनाभो रणान्तकृत्। भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम्॥ 8-75-29 (58656) युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि। अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः॥ 8-75-30 (58657) श्रुत्वा ह्यावां महासंख्ये त्वां कर्णशरपीडितम्। प्रवृत्तिं ज्ञातुमायाताविहावां पाण्डुनन्दन॥ 8-75-31 (58658) दिष्ट्यासि राजन्विरुजो दिष्ट्या न ग्रहणं गतः। परिसान्त्वय बीभत्सुं जयमाशाधि चानघ॥ 8-75-32 (58659) युधिष्ठिर उवाच। 8-75-33x (5020) एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव। वक्तव्यमुक्तोस्म्यहितं त्वया क्षान्तं च तन्मया॥ 8-75-33 (58660) अहं त्वामनुजानामि जहि कर्णं धनञ्जय। मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणं॥ 8-75-34 (58661) सञ्जय उवाच। 8-75-35x (5021) ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा। पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष॥ 8-75-35 (58662) तमुत्थाप्य ततो राजा परिष्वज्य च पीडितम्। मूर्ध्नुपाघ्राय चैवैनमिदं पुनरुवाच ह॥ 8-75-36 (58663) धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया। माहात्म्यं विजयं चैवं भूयः प्राप्नुहि शाश्वतम्॥ 8-75-37 (58664) अर्जुन उवाच। 8-75-38x (5022) अद्य तं पापकर्माणं सानुबन्धं रणे शरैः। नयाम्यन्तं समासाद्य राधेयं बलगर्वितम्॥ 8-75-38 (58665) येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम्। तस्याद्य कर्मणः कर्णः फलमाप्स्यति दारुणम्॥ 8-75-39 (58666) अद्य त्वामुपयास्यामि कर्णं हत्वा महीपते। सभाजये त्वामाक्रन्दादिति सत्यं ब्रवीमि ते॥ 8-75-40 (58667) नाहत्वा विनिषर्तिष्ये कर्णमद्य रणाजिरात्। इति सत्येन ते पादौ स्पृशामि जगतीपते॥ 8-75-41 (58668) सञ्जय उवाच। 8-75-42x (5023) इति ब्रुवाणं सुमनाः किरीटिनं युधिष्ठिरः प्राह वचो बृहत्तरम्। यशोऽक्षयं जीवितमीप्सितं ते जयं सदा वीर्यमरिक्षयं तदा॥ 8-75-42 (58669) प्रयाहि वृद्धिं च दिशन्तु देवता यथाहमिच्छामि तवास्तु तत्तथा। प्रयाहि शीघ्रं जहि कर्णमाहवे पुरन्दरो वृत्रमिवात्मवृद्वये॥ ॥ 8-75-43 (58670) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चसप्ततितमोऽध्यायः॥ 75 ॥
कर्णपर्व - अध्याय 076

॥ श्रीः ॥

8.76. अध्यायः 076

Mahabharata - Karna Parva - Chapter Topics

कर्णेन योद्धुंनिर्गच्छतोऽर्जुनस्य शुभनिमित्तप्रादुर्भावः॥ 1 ॥ श्रीकृष्णेनार्जुनस्य प्रोत्साहनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-76-0 (58671) सञ्जय उवाच। 8-76-0x (5024) प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना। सम्पूज्य देवताः सर्व ब्राह्मणान्स्वस्ति वाच्य च। सुमङ्गलं स्वस्त्ययनमारुरोह रथोत्तमम्॥ 8-76-1 (58672) तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः। आशिषोऽयुङ्क्त परमाः युक्तं कर्णरथं प्रति॥ 8-76-2 (58673) तमायान्तं महेष्वासं दृष्ट्वा भूतानि भारत। निहतं मेनिरे कर्णं पाण्डवेन महात्मना॥ 8-76-3 (58674) बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः। चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर। प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम्॥ 8-76-4 (58675) बहवः पक्षिणो राजन्पुन्नामानः शुभाः शिवाः। त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे॥ 8-76-5 (58676) कङ्का गृध्रा बकाः श्येना वायसाश्च विशाम्पते। अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः॥ 8-76-6 (58677) निमित्तानि च धन्यानि पाण्डवस्य शशंसिरे। विनाशमरिसैन्यानां कर्णस्य च वधं तथा॥ 8-76-7 (58678) प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत। चिन्ता च विपुला जज्ञे कथं चेदं भविष्यति॥ 8-76-8 (58679) विषण्णं तु ततो ज्ञात्वा सव्यसाचिनमच्युतः। सञ्चोदयति तेजस्वी मधुहा वानरध्वजम्॥ 8-76-9 (58680) ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः। दृष्ट्वा पार्थं तथायान्तं चिन्तापरिगतं तदा॥ 8-76-10 (58681) गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः। न तेषां मानुषो जेता त्वदन्य इह विद्यते॥ 8-76-11 (58682) एते हि बहवः शूराः शक्रतुल्यपराक्रमाः। त्वां प्राप्य समरे शूरं प्रयाताः परमां गतिम्॥ 8-76-12 (58683) को हि द्रोणं च भीष्मं च भगदत्तं च मारिष। विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम्॥ 8-76-13 (58684) श्रुतायुं चाश्रुतायुं च शतायुं च महारथम्। प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वद्विधः प्रभुः॥ 8-76-14 (58685) तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च। असम्मोहश्च युद्धेषु विज्ञानस्य च सन्नतिः। वेधः पातश्च लक्षेषु योगश्चैव तथार्जुन॥ 8-76-15 (58686) भवान्देवान्सगन्धर्वान्हन्यात्सर्वांश्च राक्षसान्। पृथिव्यां तु रणे पार्थ न योद्धा त्वत्समः पुमान्॥ 8-76-16 (58687) धनुर्गृह्मन्ति ये केचित्क्षत्रिया युद्धदुर्मदाः। आत्मनस्तु समं तेषां न पश्यामि शृणोमि च॥ 8-76-17 (58688) ब्रह्मणा हि प्रजाः सृष्टा गाण्डीवं च महद्धनुः। येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः॥ 8-76-18 (58689) अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव। मावमंस्था महाबाहो कर्णमाहवशोभिनम्॥ 8-76-19 (58690) कर्णो हि बलवान्दृप्तः कृतास्त्रश्च महारथः। कृती च चित्रयोधी च देशकालस्य कोविदः॥ 8-76-20 (58691) बहुनात्र किमुक्तेन संक्षेपाच्छृणु पाण्डव। त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम्। परमं यत्नमास्थाय त्वया वध्यो महाहवे॥ 8-76-21 (58692) तेजसा वह्निसदृशो वायुवेगसमो जवे। अन्तकप्रतिमः क्रोधे सिंहसंहननो बली॥ 8-76-22 (58693) अष्टरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः। अभिमानी च शूरश्च प्रवीरः प्रियदर्शनः॥ 8-76-23 (58694) सर्वयोधगुणैर्युक्तो मित्राणामभयङ्करः। सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः॥ 8-76-24 (58695) सर्वैरवध्यो राधेयो देवैरपि सवासवैः। ऋते त्वामिति मे बुद्धिस्तदद्य जहि सूतजम्॥ देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम्। अशक्यः स रथो जेतुं सर्वैरपि युयुत्सुभिः॥ 8-76-25 (58696) दुरात्मानं पापवृत्तं नृशंसं दुष्टप्रज्ञं पाण्डवेयेषु नित्यम्। हीनस्वार्थं पाण्डवेयैर्विरोधे हत्वा कर्णं निश्चितार्थो भवाद्य॥ 8-76-27 (58697) तं सूतपुत्रं रथिनां वरिष्ठं निष्कालिकं कालवशं नयाद्य। तं सूतपुत्रं रथिनां वरिष्ठं हत्वा प्रीतिं धर्मराजे कुरुष्व॥ 8-76-28 (58698) जानामि ते पार्थं वीर्यं यथाव-- द्दुर्वारणीयं च सुरासुरैश्च। सदावजानाति हि पाण्डुपुत्रा-- नसौ दर्पात्सूतपुत्रो दुरात्मा॥ 8-76-29 (58699) आत्मानं मन्यते वीरं येन पापः सुयोधनः। तमद्य मूलं पापानां जहि सौतिं धनञ्जय॥ 8-76-30 (58700) खङ्गजिह्वं धनुरास्यं शरदंष्ट्रं तरस्विनम्। दृप्तं पुरुषशार्दूलं जहि कर्णं धनञ्जय॥ 8-76-31 (58701) अहं त्वामनुजानामि वीर्येण च बलेन च। जहि कर्णं रणे शूरं मातङ्गमिव केसरी॥ 8-76-32 (58702) यस्य वीर्येण वीर्यं ते धार्तराष्ट्रोऽवमन्यते। तमद्य पार्थ सङ्ग्रामे कर्णं वैकर्तनं जहि॥ ॥ 8-76-33 (58703) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्सप्ततितमोऽध्यायः॥ 76 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-76-23 रत्निस्त्वेकविंशत्यङ्गुलः। अष्टानां रत्नीनां अष्टषष्ट्यधिकं शतं अङ्गुलानि च भवन्ति॥ 8-76-28 निष्कालिकं निर्गतः कालयिता जेतास्येति तम्॥ 8-76-76 षट्सप्ततितमोऽध्यायः॥
कर्णपर्व - अध्याय 077

॥ श्रीः ॥

8.77. अध्यायः 077

Mahabharata - Karna Parva - Chapter Topics

कृष्णेनार्जुनम्प्रति भीष्मादियुद्धनिधनप्रकारानुवादपूर्वकं तेषां वधे तस्यैव मुख्यकारणत्वकथनम्॥ 1 ॥ वाल्यात्प्रभूति दुर्योधनापनयानुस्मराणपूर्वकं सर्वत्र कर्णस्यैव मूलतया महापराधित्वद्योतनेन तस्यावश्यं हननविधानम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-77-0 (58704) सञ्जय उवाच। 8-77-0x (5025) ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत्। कृतसङ्कल्पमायान्तं वधे कर्णस्य भारत॥ 8-77-1 (58705) अद्य सप्तदशाहानि वर्तमानस्य नित्यशः। विनाशस्यातिघोरस्य नरवारणवाजिनाम्॥ 8-77-2 (58706) भूत्वा हि विपुला सेना तावकानां परैः सह। अन्योन्यं समरं प्राप्य किञ्चिच्छेषा विशाम्पते॥ 8-77-3 (58707) भूत्वा वै कौरवाः पार्थ प्रभूतगजवाजिनः। त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि॥ 8-77-4 (58708) एते ते पृथिवीपालाः सृञ्जयाश्च समागताः। त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः॥ 8-77-5 (58709) पाञ्चालैः पाण्डवैर्मात्स्यैः कारूशैश्चेदिभिः सह। `मगधैः पारिजातैश्च दाक्षिणात्यैः सकेरलैः'। त्वया गुप्तैरमित्रघ्नैः कृतः शत्रुगणक्षयः॥ 8-77-6 (58710) को हि शक्तो रणे जेतुं कौरवांस्तात संयुगे। अन्यत्र पाण्डवाद्युद्धे श्वेताश्वाद्वानरध्वजात्॥ 8-77-7 (58711) शक्तस्त्वं हि रणे जेतुं ससुरासुरमानुषान्। त्रींल्लोकान्समरे युक्तान्किं पुनः कौरवं बलम्॥ 8-77-8 (58712) भगदत्तं च राजानं कोऽन्यः शक्तस्त्वया विना। जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः॥ 8-77-9 (58713) तथेमां विपुलां सेनां गुप्तां पार्थ त्वयाऽनघ। न शेकुः पार्थिवाः सर्वे चक्षुर्भिरपि वीक्षितुम्॥ 8-77-10 (58714) तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे। धृष्टद्युम्नशिखण़्डिभ्यां द्रोणभीष्मौ निपातितौ॥ 8-77-11 (58715) को हि शक्तो रणे पार्थ भारतानां महारथौ। भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ॥ 8-77-12 (58716) को हि शान्तनवं भीष्मं द्रोणं वैकर्तनं कृपम्। द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च॥ 8-77-13 (58717) सैन्धवं मद्रराजं च राजानं च सुयोधनम्। वीरान्कृतास्त्रान्समरे सर्वानेवानिवर्तिनः॥ 8-77-14 (58718) अक्षौहिणीपतीनुग्रान्संहतान्युद्धदुर्मदान्। त्वामृते पुरुषव्याघ्र जेतुं शक्तः पुमानिह॥ 8-77-15 (58719) श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः। नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम्॥ 8-77-16 (58720) गणाश्च दासमीयानां वसातीनां च भारत। प्राच्यानां वाटधानानां भोजानां चाभिमानिनाम्। 8-77-17 (58721) उदीर्णाश्वगजा सेना सर्वक्षत्रस्य भारत। त्वां समासाद्य निधनं गता भीमं च भारत॥ 8-77-18 (58722) उग्राश्च भीमकर्माणस्तुषारा यवनाः खशाः। दार्वाभिसारा दरदाः शका माठरतङ्कणाः॥ 8-77-19 (58723) आन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः। म्लेच्छाश्च पर्वतीयाश्च सागरानूपवासिनः॥ 8-77-20 (58724) संरम्भिणो युद्धशौण्डा बलिनो दण्डपाणयः॥ 8-77-21 (58725) एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह। न शक्या युधि निर्जेतुं त्वदन्येन परन्तप॥ 8-77-21 (58726) एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह। न शक्या युधि निर्जेतुं त्वदन्येन परन्तप॥ 8-77-22 (58727) धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महद्बलम्। यदि त्वं न भवेस्त्राता प्रतीयात्को नु मानवः॥ 8-77-23 (58728) तत्सागरमिवोद्वूतं रजसा संवृतं बलम्। विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो॥ 8-77-24 (58729) मागधानामधिपतिर्जयत्सेनो महाबलः। अद्य सप्तैव चाहानि हतः सङ्ख्येऽभिमन्युना॥ 8-77-25 (58730) ततो दशसहस्राणि गजानां भीमकर्मणाम्। जघान गदया भीमस्तस्य राज्ञः परिच्छदम्॥ 8-77-26 (58731) तथान्येऽभिहता नागा रथाश्च शतशो बलात्। तदेवं समरे पार्थ वर्तमाने महाभये॥ 8-77-27 (58732) भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः। सवाजिरथमातङ्गा मृत्युलोकमितो गताः॥ 8-77-28 (58733) तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः। भीष्मः प्रासृजदुग्राणि शरतालानि मारिष॥ 8-77-29 (58734) सचेदिकाशिपाञ्चालान्करूशान्मात्स्यकेकयान्। शरैः प्रच्छाद्य निधनमनयत्परमास्त्रवित्॥ 8-77-30 (58735) तस्य चापच्युतैर्बाणैः परदेहविदारणैः। पूर्णमाकाशमभवद्रुक्मपुह्खैरजिह्मगैः॥ 8-77-31 (58736) हन्याद्रथसहस्राणि एकैकेनैव मुष्टिना। लक्षं नरद्विपान्हत्वा समेतान्समहाबलान्॥ 8-77-32 (58737) गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान्। हित्वा नवगतीर्दुष्टाः स बाणानाहवेऽत्यजत्॥ 8-77-33 (58738) दिनानि दश भीष्मेण निघ्नता तावकं बलम्। शून्याः कृता रथोपस्था हताश्च गजवाजिनः॥ 8-77-34 (58739) `दशमेऽहनि सम्प्राप्ते कृत्वा घोरं पराक्रमम्'। दर्शयित्वाऽऽत्मनो रूपं रुद्रोपेन्द्रसमं युधि॥ 8-77-35 (58740) पाण्डवानामनीकानि प्रविगाह्य विशाम्पते। विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान्॥ 8-77-36 (58741) अहनत्पाण्डवीं सेनां रथाश्वगजसङ्कुलाम्। मज्जन्तमप्लुवे मन्दमुज्जिहीर्षुः सुयोधनम्॥ 8-77-37 (58742) तथा चरन्तं समरे तपन्तमिव भास्करम्। पदातिकोटिसाहस्राः प्रवरायुधपाणयः॥ 8-77-38 (58743) न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः। विचरन्तं तथा तं तु सङ्ग्रमे जितकाशिनम्॥ 8-77-39 (58744) सर्वोद्यमेन महता पाण्डवान्समभिद्रवत्। स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि। एक एव रणे भीष्म एकवीरत्वमागतः॥ 8-77-40 (58745) तं शिखण्डी समासाद्य त्वया गुप्तो महाव्रतम्। जघान पुरुषव्याघ्रं शरैः सन्नतपर्वभिः॥ 8-77-41 (58746) स एष पतितः शेते शरतल्पे पितामहः। त्वां प्राप्य पुरुषव्याघ्रं वृत्रः प्राप्येव वासवम्॥ 8-77-42 (58747) द्रोणः पञ्चदिनान्युग्रो विधम्य रिपुवाहिनीम्। कृत्वा व्यूहमभेद्यं च पातयित्वा महारथान्॥ 8-77-43 (58748) जयद्रथस्य समरे कृत्वा रक्षां महारथः। अन्तकप्रतिमश्चोग्रो रात्रियुद्धेऽदहत्प्रजाः॥ 8-77-44 (58749) दग्ध्वा योधाञ्छरैर्वीरो भारद्वाजः प्रतापवान्। धृष्टद्युम्नं समासाद्य स गतः परमां गतिम्॥ 8-77-45 (58750) यदि वाऽद्य भवान्युद्धे सूतपुत्रमुखान्रथान्। नावारयिष्यः सङ्ग्रामे न स्म द्रोणो व्यनङ्क्ष्यत॥ 8-77-46 (58751) भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम्। ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जय॥ 8-77-47 (58752) कश्च शक्तो रणे कर्तुं त्वदन्यः पुरुषब्रुवः। यादृशं ते कृतं पार्थ जयद्रथवधं प्रति॥ 8-77-48 (58753) निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान्। निहतः सैन्धवो राजा त्वयाऽस्त्रबलतेजसा॥ 8-77-49 (58754) आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः। अनाश्चार्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः॥ 8-77-50 (58755) त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत। नश्यमानमहं युक्तं मन्येयमिति मे मतिः॥ 8-77-51 (58756) सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे। हतसर्वस्वभूयिष्ठा भीष्मद्रोणौ हतौ यथा॥ 8-77-52 (58757) शीर्णप्रवरयोधाढ्या हतवाजिरथद्विपा। हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती॥ 8-77-53 (58758) विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रम। आसुरीव महासेना देवराजपराक्रमैः॥ 8-77-54 (58759) तेषां हतावशिष्टास्तु सन्ति पञ्च महारथाः। द्रौणिश्च कृतवर्मा च कर्णो मद्राधिपः कृपः॥ 8-77-55 (58760) तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान्। हतामित्रः प्रयच्छोर्वी राज्ञे सद्वीपपत्तनाम्॥ 8-77-56 (58761) साकाशजलपातालां सपर्वतमहावनाम्। प्रयच्छामितवीर्याय पार्थायाद्य वसुन्धराम्॥ 8-77-57 (58762) एतां पुरा विष्णुरिव हत्वा दैतेयदानवान्। प्रयच्छ मेदिनीं राज्ञे शक्रायैव हरिर्यथा॥ 8-77-58 (58763) अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया। विष्णुना निहतेष्वेव दानवेयेषु देवताः॥ 8-77-59 (58764) यदि वा द्विपदां श्रेष्ठं द्रोणं मानयतो गुरुम्। अश्वत्थाम्नि कृपा तेऽस्ति कृपे वाचार्यगौरवात्॥ 8-77-60 (58765) अत्यन्तापचितान्बन्धून्मानयन्मातृबान्धवान्। कृतवर्माणमासाद्य न नेष्यासि यमक्षयम्॥ 8-77-61 (58766) भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम्। यदि त्वमरविन्दाक्ष दयावान्न जिघाससि॥ 8-77-62 (58767) एतत्ते सुकृतं कर्म नात्र किञ्चन विद्यते। वयमप्यनुजानीमो नात्र दोषोऽस्ति कश्चन॥ 8-77-63 (58768) इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति। कर्णमद्य नरश्रेष्ठ जहि पार्थ शितैः शरैः॥ 8-77-64 (58769) दहने यत्सपुत्राया निशि मातुस्तवानघ। द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः। तस्य सर्वस्य दुष्टात्मा कर्णो वै मूलमित्युत॥ 8-77-65 (58770) प्रोत्साहयति दुष्टात्मा धार्तराष्ट्रं सुदुर्मतिम्। समितौ गदते कर्णस्तमद्य जहि भारत॥ 8-77-66 (58771) यश्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान्। तस्य सर्वस्य दुर्बुद्धिः कर्णो मूलमिहार्जुन॥ 8-77-67 (58772) कर्णं हि मन्यते त्राणं नित्यमेव सुयोधनः। ततो मामपि संरब्धो निग्रहीतुं पराक्रमात्॥ 8-77-68 (58773) स्थिता बुद्धिर्नरेन्द्राणां धार्तराष्ट्रस्य चोभयोः। कर्णः पार्थान्रणे सर्वान्नाशयिष्यति सायकैः॥ 8-77-69 (58774) कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रस्य विग्रहः। रुचितो भवता सार्धं जानतोऽपि बलं तव॥ 8-77-70 (58775) कर्णो जल्पति वै नित्यमहं पार्थान्समागतान्। वासुदेवं च दाशार्हं विजेष्यामि महारणे। समितौ वल्गते कर्णस्तमद्य जहि फल्गुन॥ 8-77-71 (58776) यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रतापवान्। सभायां कृतवान्नित्यं कर्णमाश्रित्य वै पुरा॥ 8-77-72 (58777) यच्च तं धार्तराष्ट्राणां षड्भिः शूरैर्महारथैः। पश्यतां संवृतं शूरं सौभद्रमपराजितम्॥ 8-77-73 (58778) द्रोणद्रौणिकृपान्वीरान्कम्पयानं महेषुभिः। विधमन्तमनीकानि प्रमथन्तं महारथान्॥ 8-77-74 (58779) मनुष्यवाजिमातङ्गान्प्रेषयन्तं यमक्षयम्। शरैः सौभद्रमायान्तं दहन्तमरिवाहिनीम्॥ 8-77-75 (58780) निर्मनुष्याश्च मातङ्गा विरथाश्च महारथाः। प्रद्रवन्ति स्म समरे दिशो भीताऽभिमन्यवे॥ 8-77-76 (58781) विगतासूंश्च तुरगान्पत्तीन्व्यायुधजीवितान्। कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम्। तन्मे दहति गात्राणि सखे सत्येन ते शपे॥ 8-77-77 (58782) यत्तदासीत्सुदुष्टात्मा कर्णो विनिहतः प्रभुः। न शक्तो ह्यभिमन्योस्तु कर्णः स्थातुं रणाग्रतः॥ 8-77-78 (58783) सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः। निश्वसन्क्रोधसन्दीप्तो विमुखः सायकार्दितः॥ 8-77-79 (58784) तस्थौ स विह्वलः सङ्ख्ये प्रहारजनितच्छविः। अपयानकृतोत्साहो निरुत्साहश्च भारत॥ 8-77-80 (58785) दुर्योधनं रणे दृष्ट्वा लज्जमानो मुहुर्मुहुः। नापयासीत्तततः पार्थ सोऽभिमन्योर्महारणे॥ 8-77-81 (58786) दृष्ट्वा द्रोणं वधोपायमभिमन्योश्च पृष्टवान्। श्रुत्वा द्रोणवचः क्रूरं ततश्चिच्छेद कार्मुकम्॥ 8-77-82 (58787) ततश्छिन्नायुधं तेन दृष्ट्वा पञ्च महारथाः। स चैव निकृतिप्राज्ञः प्राहिणोच्छरवृष्टिभिः॥ 8-77-83 (58788) प्रहसन्स तु दुष्टात्मा कर्णो राजा च कौरवः। यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः। प्रमुखे पाण्डवेयानां कुरूणां चैव पश्यताम्॥ 8-77-84 (58789) विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः। पतिमन्यं पृथुश्रोणि वृणीष्व मृदुभाषिणि॥ 8-77-85 (58790) एषा त्वं धृतराष्ट्रस्य दासीभूता निवेशनम्। प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव॥ 8-77-86 (58791) न पाण्डवाः प्रभवन्ति तव कृष्णे कथञ्चन। दासभार्या च पाञ्चालि स्वयं दासी च शोभने॥ 8-77-87 (58792) अद्य दुर्योधनो राजा पृथिव्यां नृपतिः स्मृतः। सर्वे चास्य महिपाला योगक्षेममुपासते॥ 8-77-88 (58793) पश्येदानीं यदा भद्रे निविष्टाः पाण्डवाः समम्। अन्योन्यं समुदीक्षन्ते धार्तराष्ट्रस्य तेजसा॥ 8-77-89 (58794) व्यक्तं षण्डतिला ह्येते नरके च निमज्जिताः। प्रेष्यवच्चापि राजानमुपस्थास्यन्ति कौरवम्॥ 8-77-90 (58795) उक्तवान्स च पातात्मा तथा परमदुर्मतिः। पापः पापवचः कर्णः पश्यतस्ते धनञ्जय॥ 8-77-91 (58796) अस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः। शमयन्ति शिलाधौता नाशयन्तोऽस्य जीवितम्॥ 8-77-92 (58797) अद्य कर्णं रणे ग्रस्तं पश्यन्तु कुरवस्त्वया। स्वर्गावतरणे यत्नं स्वर्गद्वारगतं यथा॥ 8-77-93 (58798) अद्य ते समरे वीर्यं पश्यन्तु कुरुयोधिनः। सूतपुत्रे हते पार्थ जानन्तु त्वां महारथम्॥ 8-77-94 (58799) अद्य काकवला गृध्रा वायसा जम्बुकास्तथा। विप्रकर्षन्तु गात्राणि सूतपुत्रस्य मारिष॥ 8-77-95 (58800) अद्याधिरथिराक्षिप्तो निहतश्च त्वया रणे। कुरूणां शोकमाधत्तां पाण्वानां मुदं तदा॥ 8-77-96 (58801) अद्य त्वां प्रतिमर्दन्तु पाञ्चालाः पाण्डवैः सह। यथा वृत्रवधे वृत्ते देवाः सर्वे शतक्रतुम्॥ 8-77-97 (58802) अद्य कर्णं रणे हत्वा प्राप्य चैवोत्तमं यशः। विशोको विज्वरः पार्थ भव बन्धुपुरस्कृतः॥ 8-77-98 (58803) नरसिंहवपुः कृत्वा यथा शस्तो महासुरः। हिरण्यकशिपुर्दैत्यो विष्णुना प्रभविष्णुना॥ 8-77-99 (58804) तथा त्वमपि राधेयं घोरां कृत्वा महातनुम्। जहि युद्धे महाबाहो त्रायस्व च भयात्स्वकान्॥ 8-77-10 (58805) कर्णं हाहाकृतं दीनं विषण्णं त्वच्छरार्दितम्। प्रपतन्तं महीं कर्णं पश्यन्तु वसुधाधिपाः॥ 8-77-10 (58806) तं च स्वशोणिते मग्नं शयानं पतितं भुवि। अपविद्धायुकधं कर्णमद्य पश्यन्तु बान्धवाः॥ 8-77-10 (58807) तच्चैवाद्य महत्कर्म गाण्डीवप्रेषितैः शरैः। रथोपस्थे विशीर्येत ताराराज इवाम्बरात्॥ 8-77-10 (58808) आशु चाद्य शरास्तस्य सम्पतन्तो महाजवैः। त्वच्छरैः सन्निकृत्ताग्रा विशीर्यन्ते महीतले॥ 8-77-10 (58809) त्वया चाद्य हते तस्य विक्रमे भरतर्षभ। विमुखाः सर्वराजानो भवन्तु गतजीविताः॥ 8-77-10 (58810) तथा चाधिरथौ याते प्रयान्तु कुरवो दिशः। मन्वानास्तं रथश्रेष्ठं सर्वलोकेषु धन्विनाम्॥ 8-77-10 (58811) स वै चाद्य भयात्त्यक्त्वा धार्तराष्ट्रो महाचमूम्। दुर्योधनो भयोद्विग्नो द्रवतु स्वं निवेशनम्॥ 8-77-10 (58812) तथा चाद्य हतं श्रुत्वा धृतराष्ट्रो जनेश्वरः। क्षणेन निपतेद्भूमौ विसंज्ञो वै महीपतिः॥ 8-77-10 (58813) अद्य जानन्तु ते पार्थ विक्रमं सर्वयोधिनः। यदुवाच सभामध्ये परुषं भारत त्वयि॥ 8-77-10 (58814) यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि। तान्यद्य भरतश्रेष्ठ नाशयन्तु शरास्तव॥ 8-77-10 (58815) शान्तिं कुरु परिक्लेशा कृष्णायाः शत्रुपातन। हत्वा शत्रुं रणे श्लाघ्यं गर्जन्तमतिपौरुषम्॥ 8-77-10 (58816) अद्य चाधिरथिर्वेद्धस्तव बाणैः समन्ततः। मन्यतां त्वां नरव्याघ्र प्रवरं सर्वधन्विनाम्॥ 8-77-10 (58817) गाण्डीवप्रसृतान्वाणानद्य गात्रस्पृशः शरान्। यातु कर्णो रणे पार्थ श्वाविच्छललतो यथा॥ 8-77-10 (58818) तं कथं कर्णमासाद्य विद्रवेयुर्महारथाः। यस्त्वेकः सर्वपाञ्चालानहन्यहनि नाशयन्। कालवच्चरते वीर पाञ्चालानां रथव्रजे॥ 8-77-10 (58819) तमप्यासाद्य समरे मित्रार्थे मित्रवत्सल। तथा ज्वलन्तमस्त्रैश्च शूरं सर्वधनुष्मताम्। निर्दहन्तं समारूढं दुर्धर्षं द्रोणमञ्जसा॥ 8-77-10 (58820) ते नित्यमुदिता जेतुं युधि शत्रुमरिन्दमाः। न चेदाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः॥ 8-77-10 (58821) तेषामापततां शूरः पाञ्चालानां तरस्विनाम्। आदत्तासूञ्शरैः कर्णः पतङ्गानामिवानलः॥ 8-77-10 (58822) एते द्रवन्ति पाञ्चाला द्राव्यन्ते योधिभिर्ध्रुवम्। कर्णेन भरतश्रेष्ठ पश्यपश्य तथाकृतान्॥ 8-77-10 (58823) तान्समारोहतः शूरान्मित्रार्थे त्यक्तजीवितान्। निस्तारय महाबाहो कर्णास्त्रात्पावकोपमात्॥ 8-77-10 (58824) अस्त्रं हिरामात्कर्णेन भार्गवादृषिसत्तमात्। यदवाप्तं तदा घोरं तस्य रूपमुदीर्यते॥ 8-77-10 (58825) तापनं सर्वसैन्यस्य घोररूपं भयानकम्। यमाश्रित्य महासेना ज्वलते स्वेन तेजसा॥ 8-77-10 (58826) एते चरन्ति सङ्ग्रामे कर्णचापच्युताः शराः। प्रभया इह शत्रूणां घातयन्तो जनान्प्रभो॥ 8-77-10 (58827) एते भ्रमन्ति पाञ्चाला उत्क्रयन्ति च मारिष। कर्णास्त्रं समरे प्राप्य दुर्निवार्यं महात्मभिः॥ 8-77-10 (58828) एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः। सृञ्जयैर्योऽजयत्कर्णं पीड्यते निशितैः शरैः॥ 8-77-10 (58829) पाञ्चालान्सृञ्जयांश्चैव पाण्डवांश्चैव भारत। उपेक्षितो दहेत्कर्णो रोगो देहमिवान्तकः॥ 8-77-10 (58830) नान्यं त्वत्तो हि पश्यामि योधं यौधिष्ठिरे बले। यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहान्॥ 8-77-10 (58831) तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ। यथा प्रतिज्ञां त्व पार्थ तीर्त्वा कीर्तिमवाप्स्यसि॥ 8-77-10 (58832) त्वं हि शक्तो रणे कर्णं विजेतुं सह पार्थिवैः। नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते॥ 8-77-10 (58833) एतत्कृत्वा महत्कार्म हत्वा कर्णं महारथम्। कृतार्थः सफलः पार्थ सुखी भव नरोत्तम॥ ॥ 8-77-10 (58834) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तसप्ततितमोऽध्यायः॥ 77 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-77-23 यदि त्वं त्राता न भवेस्तर्हि तद्धार्तराष्ट्रं बलं कोनु प्रतीयाद्गच्छेदिति सम्बन्धः॥ 8-77-51 त्वांहीति। क्षणेन सर्वं भस्मीकर्तुं समर्थं त्वां प्राप्य एकाहान्नश्यमानं क्षत्रं युक्तं बलवत्तरं मन्येयं जानीयाम्। क्षणेन नाश्यमपि पूर्णैकाहपर्यन्तं स्थायित्वादिति भावः॥ 8-77-111 परिक्लेशा परिक्लेशानाम्॥ 8-77-77 सप्तसप्ततितमोऽध्यायः॥
कर्णपर्व - अध्याय 078

॥ श्रीः ॥

8.78. अध्यायः 078

Mahabharata - Karna Parva - Chapter Topics

अर्जुनेन कृष्णाग्रे कर्णवधानन्तरभाव्यर्थानुवर्णनपूर्वकं तद्वधप्रतिज्ञा॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-78-0 (58835) सञ्जय उवाच। 8-78-0x (5026) स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम्। विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत॥ 8-78-1 (58836) ततो ज्यामभिमृज्याशु व्याक्षिपद्गाण्डिवं धनुः। दध्रे कर्णविनाशाय केशवं चाभ्यभाषत॥ 8-78-2 (58837) त्वया नाथेन गोविन्द ध्रुव एव जयो मम। प्रसन्नो यस्य भगवान्भूतभव्यभविष्यकृत्॥ 8-78-3 (58838) त्वत्सहायो ह्यहं कृष्ण त्रींल्लोकान्वै समागतान्। प्रापयेयं परं लोकं किमु कर्णं महाहवे॥ 8-78-4 (58839) पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन। पश्यामि कर्णं समरे विचरन्तमभीतवत्॥ 8-78-5 (58840) भार्गवास्त्रं च पश्यामि ज्वलन्तं कृष्ण सर्वशः। सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम्॥ 8-78-6 (58841) अनेन खलु सङ्ग्रामे यत्तु कृष्ण मया कृतम्। कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति॥ 8-78-7 (58842) अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे। गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः॥ 8-78-8 (58843) अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते। दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत्॥ 8-78-9 (58844) अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात्। पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो विमोक्ष्यति॥ 8-78-10 (58845) गुणवन्तं हि यो हित्वा निर्गुणं कुरुते प्रभुम्। स शोचति चिरं कृष्ण क्षिप्रमेवागते क्षये॥ 8-78-11 (58846) यथा च पुरुषः कश्चिच्छित्त्वा चाम्रवणं महत्। पलाशसेचने बुद्धिं कृत्वा शोचति मन्दधीः॥ 8-78-12 (58847) दृष्ट्वा पुष्पं पले गृध्नुः फलं दृष्ट्वाऽनुशोचति। तथेदं धृतराष्ट्रस्य पुष्पलुप्धस्य मानद। फलं दृष्ट्वा भृशं दुःखं भविष्यति जनार्दन॥ 8-78-13 (58848) सूतपुत्रे हते त्वद्य निराशो भविता प्रभुः॥ 8-78-14 (58849) अद्य दुर्योधनो राज्याज्जीविताच्च निराशकः। भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते॥ 8-78-15 (58850) अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम्। स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः॥ 8-78-16 (58851) अद्यासौ सौबलः कृष्ण ग्लहाञ्जानातु वै शरान्। दुरोदरं च गाण्डीवं गण़्डवं च रथं मम॥ 8-78-17 (58852) अद्य कुन्तीसुतस्याहं दृढं राज्ञः प्रजागरम्। व्यपनेष्यामि गोविन्द हत्वा कर्णं शितैः शरैः॥ 8-78-18 (58853) अद्य कुन्तीसुतो राजा हते सूतसुते मया। सुप्रहृष्टमनाः प्रीतश्चिरं सुखमवाप्स्यति॥ 8-78-19 (58854) अद्य वाहमनाधृष्यं केशवाप्रतिमं शरम्। उत्स्रक्ष्यामीहयः कर्णं जीविताद्धंशयिष्यति॥ 8-78-20 (58855) यस्य चैतद्व्रतं मह्यं वधे किल दुरात्मनः। पादौन मxxxxxxन्यां न फल्गुनम्॥ 8-78-21 (58856) xxxxxxxz पापस्य मधुसूदन। xxxxxxxxxxxxxx सन्नतपर्वभिः॥ 8-78-22 (58857) xxxxxxxxxxxxxx नान्यं पृथिव्यामनुमन्यते। xxxxxxxxx सूतपुत्रस्य भूमिः पास्यति शोणितम्॥ 8-78-23 (58858) xxxxxxx सूतपुत्रो यदव्रवीत्। xxxxxxxxxxx श्लाघमानः स्वकान्गुणान्॥ 8-78-24 (58859) अनृतं तत्करिष्यन्ति मामका निशिताः शराः। आशीविषा इव क्रुद्धास्तस्यपास्यन्ति शोणितम्॥ 8-78-25 (58860) मया हस्तवता मुक्ता नाराचा वैद्युतत्विषः। गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम्॥ 8-78-26 (58861) अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदब्रवीत्। सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति॥ 8-78-27 (58862) एते षण्डतिलाः कृष्णे निर्वीर्या हतविक्रमाः। अहं वः पाण्डवेयेभ्यो भयात्त्रास्येति चाब्रवीत्। हन्ताऽहं पाण्डवान्सर्वान्सपुत्रानिह भारत॥ 8-78-28 (58863) अनृतं तत्करिष्यन्ति मामका निशिताः शराः। हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि॥ 8-78-29 (58864) यस्य वीर्यं समाश्रित्य धार्तराष्ट्रो बृहन्मनाः। तमद्य कर्णं हन्तास्मि समरे मधुसूदन॥ 8-78-30 (58865) अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः। विद्रवन्ति दिशो भीताः सिंहं दृष्ट्वा मृगा इव॥ 8-78-31 (58866) अद्य दुर्योधनो राजा पृथिवीं नान्ववेक्षते। हते कर्णे मया सङ्ख्ये सपुत्रे ससुहृज्जने॥ 8-78-32 (58867) अद्य कर्णे हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः। जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम्॥ 8-78-33 (58868) सपुत्रपौत्रः सामात्यः ससुहृच्च निराशिषः। पित्र्ये राज्ये निराशश्च धार्तराष्ट्रो निराश्रयः॥ 8-78-34 (58869) अद्य राजा धर्मपुत्रो हतामित्रो भविष्यति। अद्य दुर्योधनो दीप्तां श्रियं राज्यं च हास्यति॥ 8-78-35 (58870) हते वैकर्तने कर्णे भीष्मे द्रोणे च संयुगे। कातरं तद्बलं कृष्ण प्रविष्टं भोक्ष्यते तु यत्॥ 8-78-36 (58871) अद्यप्रभृति राजानं धर्मपुत्रं युधिष्ठिरम्। अनुमोदन्तु सुहृदो ज्ञातपूर्वाश्च ब्राह्मणाः॥ 8-78-37 (58872) अद्य तं निहतं श्रुत्वा कर्णं वैकर्तनं मया। करोतु पटहोन्मिश्रं देवतास्थानपूजनम्॥ 8-78-38 (58873) अद्य कृष्ण हते कर्णे कुरुतां चिरसम्भृतम्। याजनं वै महाबाहो देवतानां यथाविधि॥ 8-78-39 (58874) अद्य त्वम्बा च कृष्णा च त्वरमाणे परस्परम्। सस्वजेतां हृषीकेश सम्पूर्णेऽस्मिन्मनोरथे॥ 8-78-40 (58875) अद्य त्वं पाण्डवो ज्येष्ठस्तथाऽऽर्यश्च वृकोदरः। उदीक्षेतां हते कर्णे कृष्ण सौम्येन चक्षुषा॥ 8-78-41 (58876) अभिवाद्य गुरूनद्य कनिष्ठैश्चाभिवादितः। सस्वजानो ह्यहं दोर्भ्यां प्राप्स्यामि विपूलं यशः॥ 8-78-42 (58877) अद्य कर्णे हते कृष्ण प्रशंसन्तोऽर्जुनं सुराः। त्रिदिवं यान्तु संहृष्टाः सङ्गताश्च तपोधनाः॥ 8-78-43 (58878) अद्य लोकास्त्रयः कृष्ण जानन्तु मम पौरुषम्। दृष्ट्वा कर्णं हतं युद्धे द्वैरथे सव्यसाचिना॥ 8-78-44 (58879) अद्याहमनृणः कृष्ण भविष्यामि धनुष्मताम्। रथस्य च शराणां च धनुषो गाण्डिवस्य च॥ 8-78-45 (58880) मोक्ष्याम्यद्य महद्दुःखं त्रयोदशसमार्जितम्। हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव॥ 8-78-46 (58881) अद्य कर्णे हते युद्धे सोमकानां महारथाः। कृतकार्याः प्रमोदन्तां मित्रकार्येप्सवो युधि॥ 8-78-47 (58882) न जाने च कथं प्रीतिः शैनेयस्याद्य माधव। अहं हत्वा रणे कर्णं पुत्रांश्चास्य जयाधिकान्। प्रीतिं दास्यामि भीमस्य सात्यकेर्यमयोस्तथा॥ 8-78-48 (58883) धृष्टद्युम्नस्य वीरस्य तथैव च शिखण्डिनः। अद्यानृण्यं गमिष्यामि हत्वा कर्णं महाहवे। धर्मराजस्य संश्रुत्य वार्ष्णेयशपथं मिथः॥ 8-78-49 (58884) अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम्। युध्यन्तं कौरवैः सार्धं घातयन्तं च सूतजम्॥ 8-78-50 (58885) भवत्समक्षमं वक्ष्यामि पुनरेवात्मसंस्तवम्। इत्यप्यमित्रप्रवरमद्याहं हन्मि सूतजम्॥ 8-78-51 (58886) धनुर्वेदे मत्समः को नु लोके पराक्रमे वा मम कोऽस्ति तुल्यः। को वाऽप्यन्यो मत्समोऽस्ति क्षमायां ममानृशंस्ये सदृशोऽस्ति कोऽन्यः॥ 8-78-52 (58887) अहं धनुष्मान्ससुरासुरांश्च सर्वाणि भूतानि च सङ्गतानि। स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्वि परं परेभ्यः॥ 8-78-53 (58888) शरार्चिषा गाण्डिवेनाहमेकः सर्वान्कुरून्बाह्लिकांश्चाभिपन्नः। हिमात्यये कक्षगतो यथाऽग्निः स निर्दहेयं सहसा प्रगृह्य॥ 8-78-54 (58889) पाणी पृषत्कालिखितौ ममैतौ धनुश्च सङ्ख्ये विततं सबाणम्। पादौ चेमौ सुरथौ सध्वजौ च न मादृशं युद्धगतं भजन्ति॥ ॥ 8-78-55 (58890) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टसप्ततितमोऽध्यायः॥ 78 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-78-6 ज्वलन्तम्। पुंस्त्वमार्षम्॥ 8-78-16 स्मारतां स्मरतु॥ 8-78-17 मण्डलं द्युते शारीस्थापनपट्टम्। दुरोदरं पाशम्॥ 8-78-78 अष्टसप्ततितमोऽध्यायः॥
कर्णपर्व - अध्याय 079

॥ श्रीः ॥

8.79. अध्यायः 079

Mahabharata - Karna Parva - Chapter Topics

द्वन्द्वयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-79-0 (58891) [धृतराष्ट्र उवाच। 8-79-0x (5027) समागमे पाण्डवसृञ्जयानां महाभये मामकानामगाधे। धनञ्जये तात रणाय याते कर्णेन तद्युद्वमथोऽत्र कीदृक्॥] 8-79-1 (58892) सञ्जय उवाच। 8-79-2x (5028) तेषामनीकानि महाध्वजानि रणे समृद्धानि सुसङ्गतानि। भेरीनिरादोन्मुखराण्यंगर्ज-- न्मेघा इव प्रावृषि मारुतास्ताः॥ 8-79-2 (58893) महागजाभ्राकुलमस्त्रतोयं वादित्रनेमीतलशब्दवच्च। हिरण्यचित्रायुधविद्युतं च शरासिनाराचमहास्त्रधारम्॥ 8-79-3 (58894) तद्भीमवेगं रुधिरौघवाहि खङ्गाकुलं क्षत्रियजीवघाति। अनार्तवं क्रूरमनिष्टवर्षं बभूव संरम्भकरं प्रजानाम्॥ 8-79-4 (58895) एकं रथं सम्परिवार्य मृत्युं नयन्त्यनेके च रथाः समेताः। एकस्तथैकं रथिनं रथाग्र्यां-- स्तथा रथश्चापि रथाननेकान्॥ 8-79-5 (58896) रथं ससूतं सहयं च कञ्चि-- त्कश्चिद्रती मृत्युवशं निनाय। निनाय चाप्येकगजेन कश्चि-- द्रथान्बहून्मृत्युवशे तथाश्वान्॥ 8-79-6 (58897) रथान्ससूतान्सहयान्गजांश्च सर्वानरीन्मृत्युवशं शरौघैः। निन्ये हयांश्चैव तथा ससादी-- न्पदातिसङ्घांश्च तथैव पार्थः॥ 8-79-7 (58898) कृपः शिखण्डी च रणे समेतौ दुर्योधनं सात्यकिरध्यगच्छत्। श्रुतश्रवा द्रोणपुत्रेण सार्धं युधामन्युश्चित्रसेनेन सार्धम्॥ 8-79-8 (58899) कर्णस्य पुत्रं तु रथी सुषेणं समागतं सृञ्जयश्चोत्तमौजाः। गान्धारराजं सहदेवोऽक्षधूर्तं महर्षभं सिंह इवाभ्यधावत्॥ 8-79-9 (58900) शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेनं शरौघैः। समार्पयत्कर्णपुत्रश्च शूरः पाञ्चालेयं शरवर्षैरनेकैः॥ 8-79-10 (58901) रथर्षभः कृतवर्माणभार्च्छ-- न्माद्रीपुत्रो नकुलश्चित्रयोधी। पाञ्चालानामधिपो याज्ञसेनिः सेनापतिः कर्णमार्च्छत्ससैन्यम्॥ 8-79-11 (58902) दुःशासनो भारत भारतं तु व्यात्ताननं क्रूरमिवान्तकाभम्। भीमं रणे शस्त्रभृतां वरिष्ठं भीमं समार्च्छत्तमसह्यवेगम्॥ 8-79-12 (58903) कर्णात्मजं तत्र जघान वीर-- स्तथाच्छिनच्चोत्तमौजाः प्रसह्य। तस्योत्तमाङ्गं निपपात भूमौ निनादयद्गां निनदेन खं च॥ 8-79-13 (58904) सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदार्तरूपः। क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैः सुधारैर्निशितैरकृन्तत्॥ 8-79-14 (58905) स तूत्तमौजा निशितैः पृषत्कै-- र्विव्याध खङ्गेन च भास्वरेण। पार्ष्णिग्रहांश्चैव कृपस्य हत्वा शिखण्डिवाहं स ततोऽध्यरोहत्॥ 8-79-15 (58906) कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी। तं द्रौणिरावार्य रथं कृपस्य समुज्जहे पङ्कगतां यथा गाम्॥ 8-79-16 (58907) हिरण्यवर्मा निशितैः पृषत्कै-- स्तवात्मजानामनिलात्मजो वै। अतापयत्सैन्यमतीव भीमः काले शुचौ मध्यगतो यथाऽर्कः॥ ॥ 8-79-17 (58908) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनाशीतितमोऽध्यायः॥ 79 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-79-10 पाञ्चालेयं पाञ्चालीतनयं नाकुलिम्॥ 8-79-79 एकोनाशीतितमोऽध्यायः॥
कर्णपर्व - अध्याय 080

॥ श्रीः ॥

8.80. अध्यायः 080

Mahabharata - Karna Parva - Chapter Topics

भीमसेनविशोकयोः संवादः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-80-0 (58909) सञ्जय उवाच। 8-80-0x (5029) अथ त्विदानीं तुमुले विमर्दे द्विषद्भिरेको बहुभिः समावृतः। महारणे सारथिमित्युवाच भीमश्चमूं वाहय धार्तराष्ट्रीम्। त्वं सारथे याहि जवेन वाहै-- र्नयाम्येतान्धार्तराष्ट्रान्यमाय॥ 8-80-1 (58910) सञ्चोदितो भीमसेनेन चैवं स सारथिः पुत्रबलं त्वदीयम्। प्रायात्ततः सत्वरमुग्रवेगो यतो भीमस्तद्बलं गन्तुमैच्छत्॥ 8-80-2 (58911) ततोऽपरे नागरथाश्वपत्तिभिः प्रत्युद्ययुस्तं कुरवः समन्तात्। भीमस्य वाहाग्र्यमुदारवेगं समन्ततो बाणगणैर्निजघ्नुः॥ 8-80-3 (58912) ततः शरानापततो महात्मा चिच्छेद बाणैस्तपीनयपुङ्खैः। ते वै निपेतुस्तपनीयपुङ्खा द्विधा त्रिधा भीमशरैर्निकृत्ताः॥ 8-80-4 (58913) ततो राजन्नागरथाश्वयूनां भीमाहतानां वरराजमध्ये। घोरो निनादः सुमहानभूत्तदा वज्राहतानामिव पर्वतानाम्॥ 8-80-5 (58914) ते वध्यमानाश्च नरेन्द्रमुख्या निर्भिद्यन्तो भीमशरप्रवेकैः। भीमं समन्तात्समरेऽभ्यरोहन् वृक्षं शकुन्ता इव पुष्पहेतोः॥ 8-80-6 (58915) ततोऽभियाते तव सैन्ये स भीमः प्रादुश्चक्रे वेगमनन्तवेगः। यथाऽन्तकाले क्षपयन्दिधक्षु-- र्भूतान्तकृत्काल इवात्तदण्डः॥ 8-80-7 (58916) तस्यातिवेगस्य रणेऽतिवेगं नाशक्नुवन्धारयितुं त्वदीयाः। व्यात्ताननस्यापततो यथैव कालस्य काले हरतः प्रजा वै॥ 8-80-8 (58917) ततो बलं भारत भारतानां प्रदह्यमानं समरे महात्मना। भीतं दिशोऽकीर्यत भीमनुन्नं महानिलेनाभ्रगणा यथैव॥ 8-80-9 (58918) ततो धीमान्सारथिमब्रवीद्बली स भीमसेनः पुनरेव हृष्टः॥ 8-80-10 (58919) सूताभिजानीहि परान्स्वकान्वा रथान्ध्वजांश्चापततः समेतान्। युध्यन्ह्यहं नाभिजानामि किञ्चि-- न्मा सैन्यं स्वं छादयिष्ये प्रमत्तः॥ 8-80-11 (58920) अरीन्विशोकान्हि निरीक्ष्य सर्वतो महांश्च मन्युः पुनरेति मां भृशम्। राजातुरो नागमद्यत्किरीटी बहूनि दुःखान्यभिचिन्तयामि॥ 8-80-12 (58921) एतद्दुःखं धारये धर्मराजो यन्मां हित्वा यातवाञ्शत्रुमध्ये। नैनं जीवं नाभिजानाम्यजीवं बीभत्सुं वा तन्ममाद्यातिदुःखम्॥ 8-80-13 (58922) सोऽहं द्विषत्सैन्यमुदग्रकल्पं विनाशयिष्ये परमप्रतीतः। एतन्निहत्याजिमध्ये समेतं प्रीतो भविष्यामि सह त्वयाद्य॥ 8-80-14 (58923) सर्वांस्तूणान्सायकानामवेक्ष्य किं शिष्टं स्यात्सायकानां रथे मे। का वा जातिः किं प्रमाणं च तेषां ज्ञात्वा व्यक्तं तत्समाचक्ष्व सूत। `कति वा सहस्राणि कति वा शतानि ह्याचक्ष्व मे सारथे क्षिप्रमेव॥ 8-80-15 (58924) विशोक उवाच। 8-80-16x (5030) सर्वं विदित्वैवमहं वदामि तवार्थसिद्धिप्रदमद्य वीर। कैकेयकाम्भोजसुराष्ट्रबाह्लिका म्लेच्छाश्च सुह्माः परतङ्कणाश्च। 8-80-16 (58925) मद्राश्च वङ्गा मगधाः कुणिन्दा आनर्तकावर्तकाः पार्वतीयाः। सर्वे गृहीतप्रवरायुधास्त्वां संवेष्ट्य संवेष्ट्य ततो विवेदुः॥ 8-80-17 (58926) रथे तवास्मिन्निशिताः सुपीता-- स्ततो भल्ला द्वादश वै सहस्राः'। षण्मार्गणानामयुतानि वीर क्षुराश्च भल्लाश्च तथायुताख्याः॥ 8-80-18 (58927) नाराचानां द्वे सहस्रे च वीर त्रीण्येप च प्रदराणां स्म पार्थ। अस्त्यायुधं पाण्डवेयावशिष्टं न यद्वहेच्छकटं षङ्गवीयम्॥ 8-80-19 (58928) एतद्विद्वन्मुञ्च सहस्रशोऽपि गदासिबाहुद्रविणं च तेऽस्ति। प्रासाश्च मुद्रराः शक्तयस्तोमराश्च माभैषीस्त्वं संक्षयादायुधानाम्॥ 8-80-20 (58929) भीमसेन उवाच। 8-80-21x (5031) `अद्यैव नूनं कथयन्तु सिद्धां मम प्रतिज्ञां सर्वलोके विशोक। न मोक्ष्यते समरे भीमसेन एकः शत्रून्समरे वाप्यजैषीत्। आशंसितानामिदमेकमस्तु तन्मे देवाः सकलं साधयन्तु॥' 8-80-21 (58930) सूताद्य मद्बाहुयुतैः समस्ता-- न्समाहनद्भिः पार्थिवानाशुवेगैः। च्छन्नं बाणैराहवं घोररूपं नष्टादित्यं मृत्युलोकेन तुल्यम्॥ 8-80-22 (58931) अद्यैतद्यै विदितं पार्थिवानां भविष्यति ह्याकुमारं च सूत। निमग्नो वा समरे भीमसेन एकः कुरून्वा समरे व्यजैषीत्॥ 8-80-23 (58932) सर्वे सङ्ख्ये कुरवो निष्पतन्तु मां वा लोकाः कीर्तयन्त्वाकुमारम्। सर्वानेकस्तानहं पातयिष्ये ते वा सर्वे भीमसेनं तुदन्तु॥ 8-80-24 (58933) आशास्तारः कर्म चाप्युत्तमं ये तन्मे देवाः सफलं साधयन्तु। आयातीह केशवसारथी रथी शक्रस्तूर्णं यज्ञ इवोपहूतः॥ 8-80-25 (58934) ईक्षस्वैतां भारतीं दीर्यमाणा-- मेते कस्माद्विद्रवन्ते नरेन्द्राः। व्यक्तं धीमान्सव्यसाची नराग्र्यः सैन्यं ह्येतच्छादयत्याशु बाणैः॥ 8-80-26 (58935) पश्य ध्वजांश्च द्रवतो विशोक नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये। रथान्विकीर्णाञ्शरशक्तिताडिता-- न्पश्यस्वैतान्रथिनश्चैव सूत॥ 8-80-27 (58936) आपूर्यते कौरवी चाप्यभीक्ष्णं सेना ह्यसौ सुभृशं हन्यमाना। धनञ्जयस्याशनितुल्यवेगै-- र्ग्रस्ता शरैः काञ्चनबर्हजालैः॥ 8-80-28 (58937) एते द्रवन्ति स्म रथाश्वनागाः पदातिसङ्घानतिमर्दयन्तः। सम्मुह्यमानाः कौरवाः सर्व एव द्रवन्ति नागा इव दाहभीताः॥ 8-80-29 (58938) हाहाकृताश्चैव रणे विशोक मुञ्चन्ति नादान्विपुलान्गजेन्द्राः॥ 8-80-30 (58939) विशोक उवाच। 8-80-31x (5032) किं भीम नैनं त्वमिहाशृणोषि विस्फारितं गाण्डिवस्यातिघोरम्। क्रुद्धेन पार्थेन विकृष्यतोऽद्य कच्चिन्नेमौ तव कर्णौ विनष्टौ॥ 8-80-31 (58940) सर्वे कामाः पाण्डव ते समृद्धाः कपिर्ह्यसौ दृश्यते हस्तिसैन्ये। नीलाद्धनाद्विद्युतमुच्चरन्तीं तथा पश्य विस्फुरन्तीं धनुर्ज्याम्॥ 8-80-32 (58941) कपिर्ह्यसौ वीक्षते सर्वतो वै ध्वजाग्रमारुह्य धनञ्जयस्य। वित्रासयन्रि पुसङ्घान्विमर्दे बिभेम्यस्मादात्मनैवाभिवीक्ष्य॥ 8-80-33 (58942) विभ्राजते चातिमात्रं किरीटं विचित्रमेतच्च धनञ्जयस्य। दिवाकराभो मणिरेष दिव्यो विभ्राजते चैव किरीटसंस्थः॥ 8-80-34 (58943) पार्श्वे भीमं पाण्डुराभ्रप्रकाशं पश्यस्व सङ्खं देवदत्तं सुघोषम्। अभीषुहस्तस्य जनार्दनस्य विगाहमानस्य चमूं परेषाम्॥ 8-80-35 (58944) रविप्रभं वज्रनाभं क्षुरान्तं पार्श्वे स्थितं पश्य जनार्दनस्य। चक्रं यशोवर्धनं केशवस्य सदार्चितं यदिभिः पश्य वीर॥ 8-80-36 (58945) महाद्विपानां सरलद्रुमोपमाः करा निकृत्ताः प्रपतन्त्यमी क्षुरैः। किरीटिना तेन पुनः ससादिनः शरैर्निकृत्ताः कुलिशैरिवाद्रयः॥ 8-80-37 (58946) तथैव कृष्णस्य च पाञ्चजन्यं महार्हमेतं द्विजराजवर्णम्। कौन्तेय पश्योरसि कौस्तुभं च जाज्वल्यमानं विजयां स्रजं च॥ 8-80-38 (58947) ध्रवं रथाग्र्यः समुपैति पार्थो विद्रावयन्सैन्यमिदं परेषाम्। सिताभ्रवर्णैरसितप्रयुक्तै-- र्हयैर्महार्है रथिनां वरिष्ठः॥ 8-80-39 (58948) रथान्हयान्पत्तिगणांश्च सायकै-- र्विदारितान्पश्य पतन्त्यमी यथा। तवानुजेनामरराजतेजसा महावनानीव सुपर्णवायुना॥ 8-80-40 (58949) चतुः शतान्पश्य रथानिमान्हतान् सवाजिसूतान्समरे किरीटिना। महेषुभिः सप्तशतानि दन्तिनां पदातिसादींश्च रथाननेकशः॥ 8-80-41 (58950) अयं समभ्येति तवान्तिकं बली निघ्नन्कुरूंश्चित्र इव ग्रहोऽर्जुनः। समृद्धकामोऽसि हतास्तवाहिता बलं तवायुश्च चिराय वर्धताम्॥ 8-80-42 (58951) भीमसेन उवाच। 8-80-43x (5033) ददानि ते ग्रामवरांश्चतुर्दश प्रियाख्याने सारथे सुप्रसन्नः। दासीशतं चापि रथांश्च विंशतिं यदर्जुनं वेदयसे विशोक॥ ॥ 8-80-43 (58952) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अशीतितमोऽध्यायः॥ 80 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-80-19 प्रदरा बाणविशेषः॥ 8-80-39 असितप्रयुक्तैः कृष्णप्रयुक्तैः॥ 8-80-80 अशीतितमोऽध्यायः॥
कर्णपर्व - अध्याय 081

॥ श्रीः ॥

8.81. अध्यायः 081

Mahabharata - Karna Parva - Chapter Topics

पार्थपराक्रमः॥ 1 ॥ भीमेन दुर्योधनचोदितस्य शकुनेः पराजयः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-81-0 (58953) सञ्जय उवाच। 8-81-0x (5034) श्रुत्वा तु रथनिर्घोषं सिंहनादं च संयुगे। अर्जुनः प्राह गोविन्दं शीघ्रं वाहय वाजिनः॥ 8-81-1 (58954) अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत्। एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः॥ 8-81-2 (58955) तं यान्तमश्वा हिमशङ्खवर्णाः सुवर्णमुक्तामणिजालनद्धाः। जम्भं जिघांसुं प्रगृहीतवज्रं हया यथा तत्र यथा वहंस्तदा॥ 8-81-3 (58956) रथाश्वमातङ्गपदातिसङ्घा बाणस्वनैर्नेमिखुरस्वनैश्च। सन्नादयन्तो वसुधां दिशश्च क्रुद्धा नृसिंहा जयमभ्युदीयः॥ 8-81-4 (58957) तेषां च पार्थस्य च मारिषासी-- द्देहासुपापक्षपणं सुयुद्धम्। त्रैलोक्यहेतोरसुरैर्यथासी-- द्देवस्य विष्णोर्जयतां वरस्य॥ 8-81-5 (58958) तैरस्तमुच्चावचमायुधं त-- देकः प्रचिच्छेद किरीटमाली। क्षुरार्धचन्द्रैर्निशितैश्च भल्लैः शिरांसि तेषां बहुधा च बाहून्॥ 8-81-6 (58959) छत्राणि वालव्यजनानि केतू-- नश्वान्रथान्पत्तिगणान्द्विपांश्च। ते पेतुरुर्व्यां बहुधा विकृत्ता वातप्रणुन्नानि यथा वनानि॥ 8-81-7 (58960) सुवर्णजालावनता महागजाः सवैजयन्तीध्वजयोधकल्पिताः। सुवर्णपुङ्घैरिषुभिः समाचिता-- शकाशिरे प्रज्वलिता यथाचलाः॥ 8-81-8 (58961) विदार्य नागाश्वरथान्धञ्जयः शरोत्तमैर्वासववज्रसन्निभैः। द्रुतं ययौ कर्णजिघांसया तथा यथा मरुत्वान्बलभेदने पुरा॥ 8-81-9 (58962) ततः स पुरुषव्याघ्रस्तव सैन्यमरिन्दमः। प्रविवेश महाबाहुर्मकरः सागरं यथा॥ 8-81-10 (58963) तं हृष्टास्तावका राजन्रथपत्तिसमन्विताः। गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन्॥ 8-81-11 (58964) तेषामापततां पार्थमारावः सुमहानभूत्। सागरस्येव क्षुब्धस्य यथा स्यात्सलिलस्वनः॥ 8-81-12 (58965) ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः। अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भयम्॥ 8-81-13 (58966) तेषामापततां तत्र शरवर्षाणि मुञ्चताम्। अर्जुनो व्यधमत्सैन्यं महावातो घनानिव॥ 8-81-14 (58967) तेऽर्जुनं सहिता भूत्वा रथवंशैः ग्रहारिणः। अभियाय महेष्वासा विव्यधुर्निशितैः शरैः॥ 8-81-15 (58968) ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम्। प्रेषयामास विशिखैर्यमस्य सदनं प्रति॥ 8-81-16 (58969) ते वध्यमानाः समरे पार्थचापच्युतैः शरैः। तत्रतत्र स्म लीयन्ते भये जाते महारथाः॥ 8-81-17 (58970) तेषां चतुःशतान्वीरान्यतमानान्महारथान्। अर्जुनो निशितैर्बाणैरनयद्यमसादनम्॥ 8-81-18 (58971) ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः। अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो दश॥ 8-81-19 (58972) तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे। मेघौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः॥ 8-81-20 (58973) तां तु सेनां भृशं विद्ध्वा द्रावयित्वाऽर्जुनः शरैः। प्रायादभिमुखः पार्थः सूतानीकं हि मारिष॥ 8-81-21 (58974) तस्य शब्दो महानासीत्परानभिमुखस्य वै। गरुडस्येव पततः पन्नगार्थे यथा पुरा॥ 8-81-22 (58975) तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः। बभूव परमप्रीतः पार्थदर्शनलालसः॥ 8-81-23 (58976) श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान्। त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह॥ 8-81-24 (58977) स वायुवीर्यप्रतिमो वायुवेगसमो जवे। वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान्॥ 8-81-25 (58978) तेनाद्यमाना राजेन्द्र सेना तव विशाम्पते। व्यभ्रश्यत महाराज भिन्ना नौरिव सागरे॥ 8-81-26 (58979) तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम्। शरैरवचकर्तोग्रैः प्रेपयिष्यन्यमक्षयम्॥ 8-81-27 (58980) तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम्। व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये॥ 8-81-28 (58981) तथाऽर्दितान्भीमबलान्भीमसेनेन भारत। दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत्॥ 8-81-29 (58982) सैनिकांश्च महेष्वासान्योधांश्च भरतर्षभ। समादिशन्रणे सर्वान्हत भीममिति स्म ह॥ 8-81-30 (58983) तस्मिन्हते हतं मन्ये पाण्डुसैन्यमशेषतः॥ 8-81-31 (58984) प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः। भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः॥ 8-81-32 (58985) गजाश्च बहुला राजन्नराश्च जयगृद्धिनः। रथे स्थिताश्च राजेन्द्र परिवव्रुर्वृकोदरम्॥ 8-81-33 (58986) स तैः परिवृतः शूरैः शूरो राजन्समन्ततः। शुशुभे भरतश्रेष्ठो नक्षत्रैरिव चन्द्रमाः॥ 8-81-34 (58987) परिवेषी यथा सोमः परिपूर्णो विराजते। स रराज तथा सङ्ख्ये दर्शनीयो नरोत्तमः। निर्विशेषो महाराज विजयेनैव संयुगे॥ 8-81-35 (58988) तस्य ते पार्थिवाः सर्वे शरवृष्टिं समासृजन्। क्रोधरक्तेक्षणाः शूरा हन्तुकामा वृकोदरम्॥ 8-81-36 (58989) तां विदार्य महासेनां शरैः सन्नतपर्वभिः। निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि॥ 8-81-37 (58990) हत्वा दशसहस्राणि गजानामनिवर्तिनाम्। नृणां शतसहस्रे द्वे द्वे शते चैव भारत॥ 8-81-38 (58991) पञ्च चाश्वसहस्राणि रथानां शतमेव च। हत्वा प्रास्यन्दयद्भीमो नदीं शोणितवाहिनीम्॥ 8-81-39 (58992) शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्। नरमीनाश्वनक्रान्तां केशशैवलशाद्वलाम्॥ 8-81-40 (58993) सञ्छिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम्। ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमावृताम्॥ 8-81-41 (58994) धनुःकाशां शरावापां गदापरिघकेतनाम्। हंसछत्रध्वजोपेतामुष्णीषवरफेनिलाम्॥ 8-81-42 (58995) हारपद्माकरां चैव भूमिरेणूर्मिमालिनीम्। आर्यवृत्तवतीं सङ्ख्ये सुतरां भीरुदुस्तराम्॥ 8-81-43 (58996) योधग्राहवतीं सङ्ख्ये वहन्तीं पितृसादनम्। क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम्॥ 8-81-44 (58997) यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः। तथा दुस्तरणीं घोरां भीरूणां भयवर्धनीम्॥ 8-81-45 (58998) यतोयतः पाण्डवेयः प्रविष्टो रथसत्तमः। ततस्ततः प्रापतन्वै योधाः शतसहस्रशः॥ 8-81-46 (58999) एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे। दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत्॥ 8-81-47 (59000) जहि मातुल सङ्ग्रामे भीमसेनं महाबलम्। अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम्॥ 8-81-48 (59001) ततः प्रायान्महाराज सौबलेयः प्रतापवान्। रणाय महते युक्तो भ्रातृभिः परिवारितः॥ 8-81-49 (59002) स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम्। वारयामास तं वीरो वेलेव मकरालयम्॥ 8-81-50 (59003) सन्न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः। शकुनिस्तस्य राजेन्द्र वामपार्श्वे स्तनान्तरे। प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान्॥ 8-81-51 (59004) वर्म भित्त्वा तु ते घोराः पाण्डवस्य महात्मनः। न्यम़ञ्जन्त महाराज कङ्कबर्हिणवाससः॥ 8-81-52 (59005) सोऽतिविद्धो रणे भीमः शरं रुक्मविभूषितम्। प्रेषयामास स रुषा सौबलं प्रति भारत॥ 8-81-53 (59006) तमायान्तं शरं घोरं शकुनिः शत्रुतापनः। चिच्छेद सप्तधा राजन्कृतहस्तो महाबलः॥ 8-81-54 (59007) तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशाम्पते। धनुश्छिच्छेद भल्लेन सौबलस्य हसन्निव॥ 8-81-55 (59008) तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान्। अन्यदादाय वेगेन धनुर्भल्लांश्च षोडश। तैस्तस्य तु महाराज भल्लैः सन्नतपर्वभिः॥ 8-81-56 (59009) द्वाभ्यां स सारथिं ह्यार्च्छद्भीमं सप्तभिरेव च। ध्वजमेकेन चिच्छेद द्वाभ्यां छत्रं विशाम्पते। चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः॥ 8-81-57 (59010) ततः क्रुद्धो महाराज भीमसेनः प्रतापवान्। शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम्॥ 8-81-58 (59011) सा भीमभुजनिर्मुक्ता नागजिह्वेन चञ्चला। निपपात रणे तूर्णं सौबलस्य महात्मनः॥ 8-81-59 (59012) ततस्तामेव संगृह्य शक्तिं कनकभूषणाम्। भीमसेनाय चिक्षेप क्रुद्धरूपो विशाम्पते॥ 8-81-60 (59013) सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः। निपपात तदा भूमौ यथा विद्युन्नभश्च्युता॥ 8-81-61 (59014) अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः। न तु तं ममृषे भीमः सिंहनादं तरस्विनाम्॥ 8-81-62 (59015) अन्यद्गृह्य धनुः सज्यं त्वरमाणो महाबलः। मुहूर्तादिव राजेन्द्र च्छादयामास सायकैः। सौबलस्य बलं सङ्ख्ये त्यक्त्वा नादं महाबलः॥ 8-81-63 (59016) तस्याश्वांश्चतुरो हत्वा सूतं चैव विशाम्पते। ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी॥ 8-81-64 (59017) हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः। तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन्॥ 8-81-65 (59018) शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः॥ 8-81-66 (59019) प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान्। धनुश्चिच्छेद सङ्क्रुद्धो विव्याध च शितैः शरैः॥ 8-81-67 (59020) सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः। निपपात तदा भूमौ किञ्चित्प्राणो नराधिपः॥ 8-81-68 (59021) ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशाम्पते। अपोवाह रथेनाजौ भीमसेनस्य पश्यतः॥ 8-81-69 (59022) शकुनिं विह्वलं दृष्ट्वा धार्तराष्ट्राः पराङ्मुखाः। प्रदुद्रुवुर्दिशो भीता भीमसेनभयात्प्रभो॥ 8-81-70 (59023) सौबले निर्जिते राजन्भीमसेनेन धन्विना। भयेन महताऽऽविष्टः पुत्रो दुर्योधनस्तव। अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति॥ 8-81-71 (59024) पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत। विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः॥ 8-81-72 (59025) तान्दृष्ट्वा विद्रुतान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान्। जवेनाभ्यापतद्भीमः किरञ्शरशतान्बहून्॥ 8-81-73 (59026) ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः। कर्णमासाद्य समरे स्थिता राजन्समन्ततः॥ 8-81-74 (59027) स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः। भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः॥ 8-81-75 (59028) भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये। तथा कर्णं समासाद्य तावकाः पुरुषर्षभ॥ 8-81-76 (59029) समाश्वस्ताः स्थिता राजन्सम्प्रहृष्टाः परस्परम्। समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम्॥ ॥ 8-81-77 (59030) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकाशीतितमोऽध्यायः॥ 81 ॥
कर्णपर्व - अध्याय 082

॥ श्रीः ॥

8.82. अध्यायः 082

Mahabharata - Karna Parva - Chapter Topics

कर्णपराक्रमवर्णनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-82-0 (59031) धृतराष्ट्र उवाच। 8-82-0x (5035) ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे। दुर्योधनोऽब्रवीत्किं नु सौबलो वाऽपि सञ्जय॥ 8-82-1 (59032) कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि। कृपो वा कृतवर्मा वा द्रौणिर्दुःशासनोऽपि वा॥ 8-82-2 (59033) अत्यद्भुतमहं मन्ये पाण्डवेयस्य विक्रमम्। यदेकः समरे सर्वान्योधयामास मामकान्॥ 8-82-3 (59034) यथाप्रतिज्ञं योधानां राधेयः कृतवानपि। कुरूणामथ सर्वेषां कर्णः शत्रुनिषूदनः। शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय॥ 8-82-4 (59035) तद्भग्रं स्वबलं दृष्ट्वा कौन्तेयेनामितौजसा। धनुर्दराणां प्रवरः कर्णः किमकरोद्युधि॥ 8-82-5 (59036) पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः। एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय॥ 8-82-6 (59037) सञ्जय उवाच। 8-82-7x (5036) अपराह्णे महाराज सूतपुत्रः प्रतापवान्। जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः॥ 8-82-7 (59038) भीमोऽप्यतिबलं सैन्यं धार्तराष्ट्रं व्यपोथयत्॥ 8-82-8 (59039) द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता। यन्तारमब्रवीत्कर्णः पाञ्चालानेव मां वह॥ 8-82-9 (59040) मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान्। प्राहिणोच्चेदिपाञ्चालान्करूशांश्च महाबलः॥ 8-82-10 (59041) प्रविश्य च महत्सैन्यं शल्यः परबलार्दनः। न्ययच्छत्तुरगान्हृष्टो यत्रयत्र च ते रथाः॥ 8-82-11 (59042) तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम्। संदृश्य पाण्डुपञ्चालास्त्रस्ता ह्यासन्विशाम्पते॥ 8-82-12 (59043) ततो रथस्य निनदः प्रादुरासीन्महारणे। पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः॥ 8-82-13 (59044) ततः शरशतैस्तीक्षणैः कर्ण आकर्णनिःसृतैः। जघान पाण्डवबलं शतशोऽथ सहस्रशः॥ 8-82-14 (59045) तं तथा समरे कर्म कुर्वाणमपराजितम्। परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः॥ 8-82-15 (59046) तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः। नकुलः सहदेवश्च द्रौपदेयाश्च सात्यकिः॥ 8-82-16 (59047) परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः। सात्यकिस्तु तदा कर्णं विंशत्या निशितैः शरैः॥ 8-82-17 (59048) अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः। शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च सप्तभिः॥ 8-82-18 (59049) द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः। नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः॥ 8-82-19 (59050) भीमसेनस्तु राधेयं नवत्या नतपर्वणाम्। विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः॥ 8-82-20 (59051) अथ प्रहस्याधिरथिर्व्याक्षिपद्धनुरुत्तमम्। मुमोच निशितान्बाणान्पीडयन्सुमहाबलः॥ 8-82-21 (59052) तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः। सात्यकेस्तु धनुश्छित्त्वा ध्वजं च भरतर्षभ॥ 8-82-22 (59053) तं तथा नवभिर्बाणैराजघान स्तनान्तरे। भीमसेनं ततः क्रुद्धो विव्याध त्रिंशता शरैः॥ 8-82-23 (59054) सहदेवस्य भल्लेन ध्वजं चिच्छेद मारिष। सारथिं च त्रिभिर्बाणैराजघान परन्तपः॥ 8-82-24 (59055) विरथान्द्रौपदेयांश्च चकार भरतर्षभ। अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत्॥ 8-82-25 (59056) विमुखीकृत्य तान्सर्वाञ्शरैः सन्नतपर्वभिः। पाञ्चालानहनञ्छूरांश्चेदीनां च महारथान्॥ 8-82-26 (59057) ते वध्यमानाः समरे चेदिमत्स्या विशाम्पते। कर्णमेकमभिद्रुत्य शरसङ्खैः समार्पयन्॥ 8-82-27 (59058) ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः। ते वध्यमानाः समरे चेदिमात्स्या विशाम्पते। प्राद्रवन्त रणे भीताः सिंहत्रस्ता मृगा इव॥ 8-82-28 (59059) एतदत्युद्भतं कर्म दृष्ट्वानस्मि भारत। यदेकः समरे शूरान्सूतपुत्रः प्रतापवान्॥ 8-82-29 (59060) यतमानान्परं शक्त्या योधयानांश्च धन्विनः। पाण्डवेयान्महाराज शरैर्वारितवान्रणे॥ 8-82-30 (59061) तत्र भारत कर्णस्य लाघवेन महात्मनः। तुतुषुर्देवताः सर्वाः सिद्धाश्च सह चारणैः॥ 8-82-31 (59062) अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम्। कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम्॥ 8-82-32 (59063) ततः कर्णो महाराज ददाह रिपुवाहिनीम्। कक्षमिद्धो यथा वह्निर्निदाधे ज्वलितो महान्॥ 8-82-33 (59064) ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः। प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महारथम्॥ 8-82-34 (59065) तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे। वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः॥ 8-82-35 (59066) तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः। कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः॥ 8-82-36 (59067) तत्राद्भुतं पुनश्चक्रे राधेयः शत्रुकर्शनः। यदेनं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम्॥ 8-82-37 (59068) जलौघः पर्वतश्रेष्ठं यथासाद्य प्रभिद्यते। तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते॥ 8-82-38 (59069) कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलत्। दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम्॥ 8-82-39 (59070) शिरांसि च महाराज कर्णां श्चैव सकुण्डलान्। बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः॥ 8-82-40 (59071) हस्तिदन्तत्सरून्खङ्गान्ध्वजाञ्शक्तीर्हयान्गजान्। रथांश्च विविधान्राजन्पताका व्यजनानि च॥ 8-82-41 (59072) अक्षं च युगयोक्त्राणि चक्राणि विविधानि च। चिच्छेद बहुधा कर्णो योधव्रतमनुष्ठितः॥ 8-82-42 (59073) तत्र भारत कर्णेन निहतैर्गजवाजिभिः। अगम्यरूपा पृथिवी मांसशोणितकर्दमा॥ 8-82-43 (59074) विषमं च समं चैव हतैरश्वपदातिभिः। रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन॥ 8-82-44 (59075) नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम्। घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते॥ 8-82-45 (59076) राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषणैः। सञ्छादिता महाराज पाण्डवानां महारथाः॥ 8-82-46 (59077) ते पाण्डवेयाः समरे राधेयेन पुनः पुनः। अभज्यन्त महाराज यतमाना महारथाः॥ 8-82-47 (59078) मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावयते वने। पञ्चालानां रथश्रेष्ठान्द्रावयञ्शात्रवांस्तथा॥ 8-82-48 (59079) कर्णस्तु समरे योधांस्त्रासयुन्सुमहायशाः। कालयामास तत्सैन्यं यथा पशुगणान्वृकः॥ 8-82-49 (59080) दृष्ट्वा तु पाण्डवीं मेनां धार्तराष्ट्राः पराङ्युखीम्। तत्राजग्मुर्महेष्वासा रुदन्तो भैरवात्रवान् ॥ 8-82-50 (59081) दुर्योधनो हि राजेन्द्र मुदा परमया युतः। वादयामास संहृष्टो नानावाद्यानि सर्वशः॥ 8-82-51 (59082) पाञ्चालाश्च महेष्वासा भग्नास्तत्र नरोत्तमाः। न्यवर्तन्त तदा शूरा मृत्युं कृत्वा निवर्तनम्॥ 8-82-52 (59083) तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः। अनेकशो महाराज बभञ्ज पुरुषर्षभः॥ 8-82-53 (59084) तत्र भारत कर्णेन पाञ्चाला विंशती रथाः। निहताः सायकैः क्रोधाच्चेदयश्च परंशताः॥ 8-82-54 (59085) कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत। निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान्॥ 8-82-55 (59086) आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः। कालान्तकवपुः शूरः सूतपुत्रोऽभ्यराजत॥ 8-82-56 (59087) एवमेतन्महाराज नरवाजिरथद्विपान्। हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः॥ 8-82-57 (59088) यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः। तथा स सोमकान्हत्वा तस्थावेको महारथः॥ 8-82-58 (59089) तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम्। वध्यमानाऽपि यत्कर्णं नाजहू रणमूर्धनि॥ 8-82-59 (59090) राजा दुःशासनश्चैव कृपः शारद्वतस्तथा। अश्वत्थामा कृतवर्मा शकुनिश्च महाबलः। व्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः॥ 8-82-60 (59091) कर्मपुत्रौ तु राजेन्द्र भ्रातरौ सत्यविक्रमौ। निजघ्नाते बलं क्रुद्धौ पाण्डवानामितस्ततः॥ 8-82-61 (59092) तत्र युद्धं महच्चासीत्क्रूरं विशसनं महत्॥ 8-82-62 (59093) तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ। द्रौपदेयाश्च सङ्क्रुद्धा अभ्यघ्नंस्तावकं बलम्॥ 8-82-63 (59094) एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः। तावकानामपि रणे भीमं प्राप्य महाबलम्॥ ॥ 8-82-64 (59095) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्व्यशीतितमोऽध्यायः॥ 82 ॥
कर्णपर्व - अध्याय 083

॥ श्रीः ॥

8.83. अध्यायः 083

Mahabharata - Karna Parva - Chapter Topics

पार्थचोदनया कृष्णेन कर्णसमीपम्प्रति रथप्रापणम्॥ 1 ॥ शल्येन कर्णप्रोत्साहनम्॥ 2 ॥ कर्णेन पार्थप्रशंसनपूर्वकं तद्वधप्रतिज्ञा॥ 3 ॥ सङ्कुलयुद्धम्॥ 4 ॥

Mahabharata - Karna Parva - Chapter Text

8-83-0 (59096) सञ्जय उवाच। 8-83-0x (5037) हत्वा तु फल्गुनः सेनां कौरवाणां पृथक्पृथक्। सूतपुत्रस्य संरम्भं दृष्ट्वा चैव महारणे॥ 8-83-1 (59097) शोणितोदां नदीं कृत्वा मांसमज्जास्थिपङ्किलाम्। मनुष्यशीर्षपाषाणां हस्त्यश्वकृतरोधसम्॥ 8-83-2 (59098) शूरास्थित्तयसङ्कीर्णां काकगृध्रानुनादिताम्। छत्रहंसप्लुवोपेतां वीरवृक्षापहारिणीम्॥ 8-83-3 (59099) हारपद्माकरवतीमुष्णीषवरफेनिलाम्। धनुःशरध्वजोपेतां नरक्षुद्रकपालिनीम्॥ 8-83-4 (59100) चर्मवर्मभ्रमोपेतां रथोडुपसमाकुलाम्। जयैषिणां च सुतरां भीरूणां च सुदुस्तराम्॥ 8-83-5 (59101) नदीं प्रावर्तयित्वा च बीभत्सुः परवीरहा। वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभः॥ 8-83-6 (59102) अर्जुन उवाच। 8-83-7x (5038) एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते। भीमसेनादयश्चैते योधयन्ति महारथम्॥ 8-83-7 (59103) एते द्रवन्ति पाञ्चालाः कर्मत्रस्ता जनार्दन। एष दुर्योधनो राजा श्वेतच्छत्रेण धार्यते॥ 8-83-8 (59104) कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते। कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः॥ 8-83-9 (59105) एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः। अवध्यमानास्तेऽस्माभिर्योधयिष्यन्ति सोमकान्॥ 8-83-10 (59106) एष शल्यो रथोपस्थे रश्मिसङ्ग्राहकोविदः। सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते॥ 8-83-11 (59107) तत्र मे बुद्धिरुत्पन्ना वाहयात्र रथं मम। नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन॥ 8-83-12 (59108) मा स्म कर्णो रणे पार्थान्सृञ्जयांश्च महारथान्। निःशेषान्समरे कुर्यात्पश्यतां नो जनार्दन॥ 8-83-13 (59109) सञ्जय उवाच। 8-83-14x (5039) ततः प्रायाज्जवेनाशु केशवस्तव वाहिनीम्। कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिनः॥ 8-83-14 (59110) स प्रयातो रथेनाशु कृष्णो राजन्महाहवे। आश्वासयन्रणे चाशु पाण्डुसैन्यानि सर्वशः॥ 8-83-15 (59111) रथघोषस्ततस्तस्य पाण्डवस्य बभूव ह। वासवास्त्रनिपातेन पर्वतेष्विव मारिष॥ 8-83-16 (59112) महता रथघोषेण पाण्डवः सत्यविक्रमः। अभ्ययादप्रमेयात्मा निर्जयंस्तव वाहिनीम्॥ 8-83-17 (59113) तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम्। मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः॥ 8-83-18 (59114) अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः। निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि॥ 8-83-19 (59115) एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः। तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति॥ 8-83-20 (59116) धनुर्ज्या चन्द्रताराङ्का पताकाकिङ्किणीयुता। पश्य कर्णार्जुनस्यैषा सौदामन्यम्बरे यथा॥ 8-83-21 (59117) एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः। दृश्यते वानरो भीमो वीक्षतां भयवर्धनः॥ 8-83-22 (59118) एतच्चक्रं गदा शङ्खः शार्ङ्गं कृष्णस्य च प्रभो। दृश्यते पाण्डवरथे वाहयानस्य वाजिनः॥ 8-83-23 (59119) एतत्कूजति गाण्डीवं विसृष्टं सव्यसाचिना। एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताः शराः॥ 8-83-24 (59120) विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः। एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम्॥ 8-83-25 (59121) एते परिघसङ्काशाः पुण्यगन्धानुलेपनाः। उद्धता रणशूराणां पात्यन्ते सायुधा भुजाः॥ 8-83-26 (59122) निरस्तजिह्वा नेत्रान्ता वाजिनः सह सादिभिः। पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते॥ 8-83-27 (59123) एते पर्वतशृङ्गाणां तुल्या हैमवता गजाः। सञ्छिन्नकुम्भाः पार्थेन प्रपतन्त्यद्रयो यथा॥ 8-83-28 (59124) गन्धर्वनगराकारा रथा हतनरेश्वराः। विमानादिव पुण्यान्ते स्वर्गिणो निपतन्त्यमी॥ 8-83-29 (59125) व्याकुलीकृतमत्यर्थं पश्य सैन्यं किरीटिना। नानामृगसहस्राणां यूथं केसरिणा यथा॥ 8-83-30 (59126) त्वामभिप्रेप्सुरायाति कर्ण निघ्नन्वरान्रथान्। असज्जमानो राधेय तं याहि प्रति भारत॥ 8-83-31 (59127) एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः। अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून्॥ 8-83-32 (59128) वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः। त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः॥ 8-83-33 (59129) न ह्यवस्थास्यते पार्थो युयुत्सुः केनचित्सह। त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे॥ 8-83-34 (59130) विरथं धर्मराजं तु दृष्ट्वा सुदृढविक्षतम्। शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम्॥ 8-83-35 (59131) द्रौपदेयान्युधामन्युमुत्तमौजसमेव च। नकुलं सहदेवं च वशगांस्ते समीक्ष्य तु॥ 8-83-36 (59132) सहसैकरथः पार्थस्त्वामभ्येति परन्तपः। क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वपार्थिवान्॥ 8-83-37 (59133) त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम्। त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः॥ 8-83-38 (59134) न तं पश्यामि लोकेऽस्मिंस्त्वत्तो ह्यन्यं धनुर्धरम्। अर्जुनं समरे क्रुद्धं यो वेलामिव वारयेत्॥ 8-83-39 (59135) न चास्य रक्षां पश्यामि पार्श्वतो न च पृष्ठतः। एक एवाभियाति त्वां पश्य साफल्यमात्मनः॥ 8-83-40 (59136) त्वं हि कृष्णौ रणे शक्तो योद्धुमेतौ परन्तपौ। तवैव भारो राधेय प्रत्युद्याहि धनञ्जयम्॥ 8-83-41 (59137) समानो ह्यसि भीष्मेण द्रोमद्रौणिकृपेण च। सव्यसाचिनमायान्तं निवारय महारणे॥ 8-83-42 (59138) लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा। वनस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम्॥ 8-83-43 (59139) एते द्रवन्ति समरान्निरपेक्षा नराधिपाः। अर्जुनस्य भयत्रस्ता धार्तराष्ट्रा महाबलाः॥ 8-83-44 (59140) द्रवतामथ तेषां तु नान्योऽस्ति युधि मानवः। भयहा यो भवेद्वीरस्त्वामृते सूतनन्दन॥ 8-83-45 (59141) एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे। धिष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः॥ 8-83-46 (59142) वैदेहाम्बष्ठकाम्भोजास्तथा नग्नजितस्त्वया। गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः। तां धृतिं कुरुराधेय ततः प्रत्येहि पाण्डवम्॥ 8-83-47 (59143) वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना। प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः॥ 8-83-48 (59144) कर्ण उवाच। 8-83-49x (5040) प्रकृतिस्थोऽसि मे शल्य इदानीं सम्मतस्तथा। प्रतिभासि महाबाहो अभीतश्च धनञ्जयात्॥ 8-83-49 (59145) पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे। एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम्॥ 8-83-50 (59146) कृष्णौ च पुरुषव्याघ्र ततः सत्यं ब्रवीमि ते। नाहत्वा युधि तौ वीरौ व्यपयास्ये कथञ्चन॥ 8-83-51 (59147) शिश्ये वा निहतस्ताभ्यामनित्यो हि रणे जयः। कृतार्थोऽद्य भविष्यामि हत्वा वाप्यथ वा हतः॥ 8-83-52 (59148) शल्य उवाच। 8-83-53x (5041) अजय्यमेनं प्रवदन्ति युद्धे महारथाः कर्ण रथप्रवीरम्। एकाकिन किमु कृष्णाभिगुप्तं विजेतुमेनं क इहोत्सहेत॥ 8-83-53 (59149) कर्ण उवाच। 8-83-54x (5042) नैतादृशो जातु बभूव लोके रथोत्तमो यावदुपश्रुतं नः। तमीदृशं प्रतियोत्स्यामि पार्थं महाहवे पश्य च पौरुषं मे ॥ 8-83-54 (59150) रणे चरत्येष रथप्रवीरः सितैर्हयैः कौरवराजपुत्रः। स वाऽद्य मां नेष्यति कृच्छ्रमेत-- त्कर्णोऽस्यान्तेऽप्यत्र भवेत्समर्थः॥ 8-83-55 (59151) अस्वेदिनौ राजपुत्रस्य हस्ता-- ववेपमानौ जातकिणौ बृहन्तौ। दृढायुधः कृतिमान्क्षिप्रहस्तो न पाण्डवेयेन समोऽस्ति योधः॥ 8-83-56 (59152) गृह्णात्यनेकानपि कङ्कपत्रा-- नेकं यथा तान्प्रतियोज्य चाशु। ते क्रोशमात्रे निपतन्त्यमोधाः कस्तेन योधोऽस्ति समः पृथिव्याम्॥ 8-83-57 (59153) अतोषयत्स्वाण्डवे यो हुताशं कृष्णद्वितीयोऽतिरथस्तरस्वी। लेभे चक्रं यत्र कृष्णो महात्मा धनुर्गाण्डीवं पाण्डवः सव्यसाची॥ 8-83-58 (59154) श्वेताश्वयुक्तं च सुघोषमुग्रं रथं महाबाहुरदीनसत्वः। महेषुधी चाक्षये दिव्यरूपे शस्त्राणि दिव्यानि च हव्यवाहात्॥ 8-83-59 (59155) यस्त्विन्द्रलोके निजघान दैत्या-- नसङ्ख्येयान्कालकेयांश्च सर्वान्। लेभे शङ्खं देवदत्तं स्म तत्र को नाम तेनाभ्यधिकः पृथिव्याम्॥ 8-83-60 (59156) महादेवं तोषयामास योऽस्त्रैः साक्षात्सुयुद्धेन महानुभावः। लेभे ततः पाशुपतं सुघोरं त्रैलोक्यसंहारकरं महास्त्रम्॥ 8-83-61 (59157) पृथक्पृथग्लोकपालाः समेता ददुर्महास्त्राण्यप्रमेयाणि सङ्ख्ये। यैस्ताञ्जघानाशु रणे नृसिंहः सकालकेयानसुरान्समेतान्॥ 8-83-62 (59158) तथा विराटस्य पुरे समेता-- न्सर्वानस्मानेकरथेन जित्वा। जहार तद्रोधनमाजिमध्ये वस्त्राणि चादत्त महारथेभ्यः॥ 8-83-63 (59159) तमीदृशं वीर्यगुणोपपन्नं कृष्णद्वितीयं परमं नृपाणाम्। तमाह्वयन्साहसमुत्तमं वै जाने स्वयं सर्वलोकस्य शल्य॥ 8-83-64 (59160) अनन्तवीर्येण च केशवेन नारायणेनाप्रतिमेन गुप्तः। वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः॥ 8-83-65 (59161) महात्मनः शङ्खचक्रासिपाणे-- र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य। भयं न मे जायते साध्वसं च दृष्ट्वा कृष्णावेकरथे समेतौ॥ 8-83-66 (59162) अतीवायं धनुषि राजपुत्रे-- ष्वतीवान्यान्केशवश्चक्रयुद्धे। एवंविधौ पाण्डववासुदेवौ चलेत्स्वदेशाद्विमवान्न कृष्णौ॥ 8-83-67 (59163) उभौ हि शूरौ बलिनौ दृढायुधौ महारथौ संहननोपपन्नौ। एतौ वीरौ नरवीरौ समेतौ स्थानाच्च्युतौ देवकुमाररूपौ॥ 8-83-68 (59164) अग्र्यादित्याविन्द्रवृहस्पती वा यमान्तकौ वा शत्रिपूषणौ वा। भगांशमित्रावरुणावश्विनौ वा मरुद्गणौ वा वसवः समेताः। व्यस्ताः समस्ताश्च युधा न शक्ता जेतुं प्रसह्यार्जुनं चाच्युतं च॥ 8-83-69 (59165) एतौ हि तावर्जुनवासुदेवौ कोऽन्यः प्रतीयान्मदृते तु शल्य॥ 8-83-70 (59166) सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता। सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः॥ 8-83-71 (59167) तावुभौ पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ। मामेकमभियोद्धारौ सुजातं बत शल्य मे॥ 8-83-72 (59168) नैतच्चिरं क्षिप्रमिमं रथं मे प्रवर्तयैतावभियामि चैवम्। अस्मिन्मुहूर्ते निहतौ पश्य कृष्णौ ताभ्यां हतं वा युधि मां रिपुभ्याम्॥ 8-83-73 (59169) एवं ब्रुवाणः सहसा महारथ-- स्त्वभ्यद्रवत्पाण्डवं सूतपुत्रः॥ 8-83-74 (59170) अभ्येत्य पुत्रेण तवाभिनन्दिताः समेत्य चोक्ताः कुरुवीरसत्तमाः। कृपश्च भोजश्च महारथावुभौ तथैव गान्धारपतिः सहानुजः। गुरोः सुतस्तस्य तवात्मजास्तथा पदातिसङ्घा द्विरदास्तथा तदा॥ 8-83-75 (59171) निरुध्यताभिद्रवताच्युतार्जुनौ श्रमेण संयोजयताशु सर्वशः। यथा भवद्भिर्भृशविक्षतावुभौ सुखेन हन्यान्मम वाहिनीपतिः॥ 8-83-76 (59172) तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं जिघांसवो वीरतराः समाययुः। शरैश्च जघ्नुर्युधि तं महारथा धनञ्जयं कर्णनिदेशकारिणः। नदीनदं भूरिजलो महार्णवो यथा तथा तान्समरेऽर्जुनोऽग्रसत्॥ 8-83-77 (59173) न सन्दधानो न तथा शरोत्तमान् प्रमुञ्चमानो रिपुभिः प्रदृश्यते। धनञ्जयास्तैः स्म शरैर्विदारिता हता निपेतुर्नरवाजिकुञ्जराः॥ 8-83-78 (59174) शरार्चिषं गाण्डिवचारुमण्डलं युगान्तसूर्यप्रतिमानतेजसम्। न कौरवाः शेकुरुदीक्षितुं जयं यथा रविं व्याधितचक्षुषो जनाः॥ 8-83-79 (59175) शरोत्तमान्सम्प्रहितान्महारथै श्चिच्छेद पार्थः प्रहसञ्छरौधैः। भूयश्च तानहनद्बाणसङ्घान् गाण्डीवधन्वायतपूर्णमण्डलम्॥ 8-83-80 (59176) यथोग्ररश्मिः शुचिशुक्रमध्यगः सुखं विवस्वान्हरते जलौघान्। तथार्जुनो बाणगणान्निरस्य ददाह सेनां तव पार्थिवेन्द्र॥ 8-83-81 (59177) तमभ्यधावद्विसृजन्कृपः शरां-- स्तथैव भोजस्तव चात्मजः स्वयम्। महारथो द्रोणसुतश्च सायकै-- रवाकिरंस्तोयधरा यथाऽचलम्॥ 8-83-82 (59178) जिघांसुभिस्तान्कुशलैः शरोत्तमान् महात्मभिः सम्प्रहितान्प्रयत्नतः। शरैः प्रतिच्छेद स पाण्डवस्त्वरन् परान्विनिर्भिद्य च तांस्त्रिभिस्त्रिभिः॥ 8-83-83 (59179) स गाण्डिवव्यायतपूर्णमण्डल-- स्तपन्रिपूनर्जुनभास्करो वभौ। शरोग्रश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेयवांस्तथा॥ 8-83-84 (59180) अथाग्र्यबाणैर्दशभिर्धनञ्जयं पराभिनद्दोणसुतोऽच्युतं त्रिभिः। चतुर्भिरश्वांश्चतुरः कपिं ततः शरैश्च नाराचवरैरवाकिरत्॥ 8-83-85 (59181) तथा ततः प्रस्फुरदस्य कार्मुकं त्रिभिः शरैर्यन्तृशिरश्चकर्त ह। हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं धनञ्जयो द्रौणिरथादपातयत्॥ 8-83-86 (59182) स रोषपूर्णो ह्मतिवज्रहाटकै--- रलङ्कृतं तक्षकभोगवर्चसम्। स तद्वधे कार्मुकमन्यदाददे यथा महाहिप्रवरं तथैव च॥ 8-83-87 (59183) स्वमायुधं चापि विकीर्य भूतले धनुश्च कृत्वा सगुणं गुणाधिकः। समानयंसल्तावजितौ नरोत्तमौ शरोत्तमैर्द्रौणिरविध्यदन्तिकात्॥ 8-83-88 (59184) कृपश्च भोजश्च तवात्मजश्च ते शरैरनेकैर्युधि पाण्डवर्षभम्। महारथाः संयुगमूर्धनि स्थिता-- स्तमोनुदं वारिधरा इवापतन्॥ 8-83-89 (59185) कृपस्य पार्थः शरं शरासनं हयान्ध्वजान्सारधिमेव पत्रिभिः। [समार्पयद्वाहुसहस्रविक्रम-- स्तथा यथा वज्रधरः पुरा बलेः॥ 8-83-90 (59186) स पार्थबाणैर्विनिपातितायुधो ध्वजावमर्दे च कृते महाहवे। कृतः कृपो बाणसहस्रयनितो यथापगेयः प्रथमं किरीटिना॥] 8-83-91 (59187) शरैः प्रचिच्छेद तवात्मजस्य ध्वजं धनुश्च प्रचकर्त नर्दतः। जघान चाश्वान्कृतवर्मणः शुभान् ध्वजं च चिच्छेद तवात्मजस्य ह॥ 8-83-92 (59188) सवाजिसूतेष्वसनान्सकेतना-- ञ्जयान नागाश्वरथांश्च स त्वरन्। ततः प्रकीर्णं सुमहद्वलं तव प्रपीडितं सवितुरिवौजसा भृशम्॥ 8-83-93 (59189) ततोऽर्जुनस्वाशु रथेन केशव-- श्चकार शत्रूनपसव्यमातुरान्। ततः प्रयातं त्वरितं धनञ्जयं शतक्रतुं वृत्रनिजघ्रुषं यथा। समन्वधावन्पुनरुत्थितैर्ध्वजै रथैः सुयुक्तैरपरे युयुत्सवः॥ 8-83-94 (59190) अथाभिसृत्य प्रतिवार्य चाहितान् धनञ्जयस्यानुचरान्महारथाः। शिखण्डिशैनेययमाः शितैः शरै--- र्विदारयन्तो व्यनदन्सुभैरवम्॥ 8-83-95 (59191) ततोऽभिजघ्नुः कुपिताः परस्परं शरैस्तदाञ्चोगतिभिः सुतेजनैः। कुरुप्रवीराः सह पृञ्जयैर्यथा सुरारयो देवपतिं यथा तथा॥ 8-83-96 (59192) जयेप्सवः स्वर्गमनाय चोत्सुकाः पतन्ति नागाश्वरथाः परन्तप। तथैव सर्वे बहवश्च विव्यधुः शरैः सुमुक्तैरितरेतरं पृथक्॥ 8-83-97 (59193) शरान्धकारे तु महात्मभिः कृते महामृधे योधवरैः परस्परम्। चतुर्दिशो वै विदिशश्च पार्थिव प्रभा च सूर्यस्य तमोवृताऽभवत्॥ ॥ 8-83-98 (59194) इति श्रीमन्महाभारते कर्णपर्वणि त्र्यशीतितमोऽध्यायः॥ 83 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-83-81 शुचिशुकयोः आषाढज्येष्ठयोर्मध्ये गतः॥ 8-83-94 तथार्जुनस्याविरथेन केशव इति ख.ट.पाठः। अथार्जुनस्याधिरथेश्च केशव इति क.ङ.पाठः॥ 8-83-83 त्र्यशीतितमोऽध्यायः॥
कर्णपर्व - अध्याय 084

॥ श्रीः ॥

8.84. अध्यायः 084

Mahabharata - Karna Parva - Chapter Topics

सङ्कुतxxxxx ॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-84-0 (59195) सञ्जय उवाच। 8-84-0x (5043) xxxxxxxxxxxप्रबरैर्वलैर्भीममभिद्रुतम्। xxxxxxxxxx कौन्तेयमुस्थिहीर्षुर्धनञ्जयः॥ 8-84-1 (59196) xxxxxxxxx सेनां मारत सायकैः। xxxxxxxxxx परवीरान्धनञ्जयः॥ 8-84-2 (59197) xxxxxxxxxxx शरजालानि भागशः। अदृश्यन्त तथान्ये च निजघ्नुस्तव वाहिनीम्॥ 8-84-3 (59198) स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः। धनञ्जयो महाबाहुः कुरूणामन्तकोऽमयत् 8-84-4 (59199) ततो भल्लैः क्षुरप्रैश्च नाराचैर्विमलैरपि। गात्राणि प्राच्छिनत्पार्थः शिरांसि च चकर्त ह॥ 8-84-5 (59200) छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः। पातितैश्च पतद्भिश्च योधैरासीत्समावृता॥ 8-84-6 (59201) धनञ्जयशराभ्यस्तैः स्यन्दनाश्वरथद्विपैः। सञ्छिन्नभिन्नविध्वस्तैर्व्यङ्गाङ्गावयवैः स्तृता। गतसत्वैः ससत्वैश्च संवृताऽऽसीद्वसुन्धरा॥ 8-84-7 (59202) सुदुर्गमा सुविषमा घोराऽत्यर्थं सुदुर्दृशा। रणभूमिरभूद्राजन्महावैतरणी यथा॥ 8-84-8 (59203) ईषाचक्राक्षभल्लैश्च व्यश्वैः साश्वैश्च युध्यताम्। ससूतैर्हतसूतैश्च रथैः स्तीर्णाऽभवन्मही॥ 8-84-9 (59204) सुवर्णवर्मसन्नाहैर्योधैः कनकमालिभिः। आस्थिताः क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः॥ 8-84-10 (59205) क्रुद्धाः क्रुरैर्महामात्रैः प्रेषितार्जुनमभ्ययुः। चतुः शता रथवरा हताः पेतुः किरीटिना॥ 8-84-11 (59206) पर्यस्तानीव शृङ्गाणि ससत्वानि महागिरेः। धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः॥ 8-84-12 (59207) समन्ताज्जलदप्रख्यान्वारणान्मदवर्षिणः। अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान्॥ 8-84-13 (59208) हतैर्गजमनुष्याश्वैर्भिन्नैश्च बहुधा रथैः। विशस्त्रयन्त्रकवचैर्युद्धशौण्डैर्गतासुभिः। उपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै॥ 8-84-14 (59209) विस्फारितं च गाण्डीवमत्यासीद्भैरवस्वनम् सुघोषं वज्रनिष्पेषं स्तनयन्निव तोयदः॥ 8-84-15 (59210) ततः प्रादीर्यत चमूर्धनञ्जयशराहता। महावातसमाविद्धा महानौरिव सागरे॥ 8-84-16 (59211) नानारूपाः प्राणहराः शरा गाण्डीवचोदिताः। अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन्॥ 8-84-17 (59212) महागिरौ वेणुवनं निशि प्रज्वलितं यथा। तथा तव महासैन्यं प्रास्फुरच्छरपीडितम्॥ 8-84-18 (59213) तद्विनष्टं सुविध्वस्तं तव सैन्यं किरीटिना। हतप्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः॥ 8-84-19 (59214) सश्वापदा मृगगणा दावाग्नित्रासिता यथा। कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना॥ 8-84-20 (59215) उत्सृज्य च महाबाहुं भीमसेनं तथा रणे। बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम्॥ 8-84-21 (59216) ततः कुरुषु भग्नेषु बीभत्सुरपराजितः। भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत॥ 8-84-22 (59217) समागम्य च भीमेन मन्त्रयित्वा च फल्गुनः। विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम्॥ 8-84-23 (59218) भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः। नादन्रथघोषेण पृथिवीं द्यां च भारत॥ 8-84-24 (59219) ततः परिवृतो वीरैर्दशभिः शत्रुतापनः। दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः॥ 8-84-25 (59220) ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम्। आततेष्वसना वीरा नृत्यन्त इव भारत॥ 8-84-26 (59221) अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः। नियुक्तान्हि स तान्मेने यमायाशु किरीटिना॥ 8-84-27 (59222) तथान्ये प्राणदन्मूढाः पराङ्मुखमिवार्जुनम्॥ 8-84-28 (59223) तेषां नानदतां केतूनश्वांश्चापानि सारथीन्। नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यकृन्तत॥ 8-84-29 (59224) *अथान्यैर्दशभिर्भल्लैः शिरांस्येषामपातयत्। रोषसंरक्तनेत्राणि सन्दष्टौष्ठानि भूतले॥ 8-84-30 (59225) तेषां वक्राणि विबभुर्व्योम्नि तारागणा इव॥ 8-84-31 (59226) तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान्। रुक्माङ्गदाव्रुक्मपुङ्खैर्हत्वा प्रायादमित्रहा॥ ॥ 8-84-32 (59227) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुरशीतितमोऽध्यायः॥ 84 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-84-* अत्रार्जुनकृतं दशधृतराष्ट्रपुत्रहननं विचारणीयम्। 8-84-17 विनिर्दहन्नित्यत्राडभाव आषेः॥ 8-84-84 चतुरशीतितमोऽध्यायः॥
कर्णपर्व - अध्याय 085

॥ श्रीः ॥

8.85. अध्यायः 085

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-85-0 (59228) सञ्जय उवाच। 8-85-0x (5044) तमायान्तं महावेगैरश्वैः कपिवरध्वजम्। युद्धायाभ्यद्रवन्दीराः कुरूणां नवतीं रथाः॥ 8-85-1 (59229) कृत्वा संशप्तका घोरं शपथं पारलौकिकम्। परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम्॥ 8-85-2 (59230) कृष्णः श्वेतान्महावेगानश्वान्काञ्चनभूषणान्। मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति॥ 8-85-3 (59231) प्रेक्ष्य कर्णरथं यान्तमरिघ्नं तं धनञ्जयम्। बाणवर्षैरभिघ्नन्तः संशप्तकगणा ययुः॥ 8-85-4 (59232) त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान्। जघान नवतिं वीरानर्जुनो निशितैः शरैः॥ 8-85-5 (59233) तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना। विमानेभ्यः सुकृतिनः स्वर्गात्पुण्यक्षये यथा॥ 8-85-6 (59234) ततः सरथनागाश्वाः कुरवः कुरुसत्तमम्। निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम्॥ 8-85-7 (59235) तदायस्तमनुष्याश्वमुदीर्णवरवारणम्। पुत्राणां ते महासैन्यं समरौत्सीद्धनञ्जयम्॥ 8-85-8 (59236) शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः। प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम्॥ 8-85-9 (59237) तामन्तरिक्षे विततां शस्त्रवृष्टिं समन्ततः। व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः॥ 8-85-10 (59238) ततो म्लेच्छाः स्थिता मत्तैस्त्रयोदशशतैर्गजैः। पार्श्वतो व्यहनन्पार्थं तव पुत्रस्य शासनात्॥ 8-85-11 (59239) कर्णिनालीकनाराचैस्तोमरप्रासशक्तिभिः। कर्पणैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन्॥ 8-85-12 (59240) तां शस्त्रवृष्टिमतुलां द्विपस्थैः प्रेषितां प्रभुः। चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः॥ 8-85-13 (59241) अथ तान्द्विरदान्सर्वान्नानालिङ्गैः शरोत्तमैः। सपताकध्वजारोहान्गिरीन्वज्रैरिवाभिनत्॥ 8-85-14 (59242) ते हेमपुङ्खैरिषुभिरर्दिता हेममालिनः। हताः पेतुर्महानागाः साग्रिज्वाला इवाद्रयः॥ 8-85-15 (59243) ततो गाण्डीवनिर्घोषो महानासीद्विशाम्पते। स्तनतां कूजतां चैव मनुष्यगजवाजिनाम्॥ 8-85-16 (59244) कुञ्चराश्च हता राजन्दद्रुवुस्ते समन्ततः। अश्वाश्च पर्यधावन्त हतारोहा दिशो दश॥ 8-85-17 (59245) रथा हीना नहाराज रथिभिर्वाजिभिस्तथा। गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः॥ 8-85-18 (59246) अश्वारोहा महाराज धावमाना इतस्ततः। तत्रतत्रैव दृश्यन्ते निहताः पार्थसायकैः॥ 8-85-19 (59247) तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत। यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि॥ 8-85-20 (59248) असंयुक्ताश्च ते राजन्परिवृत्ता रणं प्रति। नरा नागा रथाश्चैव नदन्तोऽर्जुनमभ्ययुः॥ 8-85-21 (59249) ततस्त्र्येङ्गेण महता बलेन भरतर्षभ। दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम्॥ 8-85-22 (59250) हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान्। जवेनाभ्यद्रवद्भीमो धनञ्जयरथं प्रति॥ 8-85-23 (59251) ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम्। दृष्ट्वाऽर्जुनं तदा भीममागतं भ्रातरं प्रति॥ 8-85-24 (59252) हतावशिष्टांस्तुरगानर्जुनेन महाबलः। भीमो व्यधमदश्रान्तो गदापाणिर्महाहवे॥ 8-85-25 (59253) `गदापाणिं तदा दृष्ट्वा भीमं भारत भारताः। मेनिरे तमनुप्राप्तं दण्डपाणिमिवान्तकम्'॥ 8-85-26 (59254) कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम्। प्राकाराट्टपुरद्वारदारणीमतिदारुणाम्॥ 8-85-27 (59255) गदां तुरगनाशाय त्वरन्भीमो व्यवासृजत्। सा जघान बहूनश्वानश्वारोहांश्च मारिष॥ 8-85-28 (59256) कांस्यायसतनुत्रांश्च नरानश्वांश्च पाण्डवः। पोथयामास गदया सशब्दं तेऽपतन्हताः॥ 8-85-29 (59257) दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः। भग्नमूर्धास्थिचरणाः क्रव्यादगणभोजनाः॥ 8-85-30 (59258) असृङ्मांसवसाभिश्च तृप्तिमभ्यागता गदा। अस्थीन्यप्यश्नती तस्थौ कालरात्रीव दुर्दृशा॥ 8-85-31 (59259) सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूयसः। भीमोऽभ्यधावत्सङ्क्रुद्धो गदापाणिरितस्ततः॥ 8-85-32 (59260) गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः। मेनिरे समनुप्राप्तं कालदण़्डोद्यतं यमम्॥ 8-85-33 (59261) स मत्त इव मातङ्गः सङ्क्रुद्धः पाण्डुनन्दनः। प्रविवेश गजानीकं मकरः सागरं यथा॥ 8-85-34 (59262) विगाह्य च गजानीकं प्रगृह्य महतीं गदाम्। क्षणेन भीमः सङ्क्रुद्धस्तन्निन्ये यमसादनम्॥ 8-85-35 (59263) गजान्सकङ्कटान्मत्तान्सारोहान्सपताकिनः। पततः समपश्याम सपक्षान्पर्वतानिव॥ 8-85-36 (59264) हत्वा तु तद्गजानीकं भीमसेनो महाबलः। पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमभ्ययात्॥ 8-85-37 (59265) ततः पराङ्मुखीभूतं निरुत्साहं बलं तव। तदानीं तु महाराज प्रायशः शस्त्रवेष्टितम्॥ 8-85-38 (59266) विलम्बमानं तत्सैन्यभप्रगल्भमवस्थितम्। दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः शस्त्रवृष्टिभिः॥ 8-85-39 (59267) नराश्वरथमातङ्गा युधि गाण्डीवधन्वना। शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः॥ 8-85-40 (59268) ततः कुरुणामभवदार्तनादो महान्नृप। नराश्वनागासुहनान्दृष्ट्वा बाणान्किरीटिनः॥ 8-85-41 (59269) हाहाकृतं भृशं त्रस्तं लीयमानं परस्परम्। अलातचक्रवत्सैन्यं तदा बभ्राम तावकम्॥ 8-85-42 (59270) ततोऽर्जुनशरध्वस्तं कुरूणां सुमहद्बलम्। न ह्यत्रासीदनिर्भिन्नो रथः सादी हयो गजः॥ 8-85-43 (59271) आदीप्तमिव तत्सैन्यं शरैश्छिन्नतनुच्छदम्। आसीत्स्वशोणितक्लिन्नं रौद्रं नष्टं विशाम्पते॥ 8-85-44 (59272) तत्सैन्यं हतभूयिष्ठमाहतं निशितैः शरैः। न जहौ समरं प्राप्य फल्गुनं शत्रुतापनम्॥ 8-85-45 (59273) तत्राद्भुतमपश्याम कौरवाणां पराक्रमम्। वध्यमानोऽपि यत्पार्थं न जहौ भरतर्षभ॥ 8-85-46 (59274) तं दृष्ट्वा विक्रमं तस्य कुरवः सव्यसाचिनः। निराशाः समपद्यन्त सर्वे कर्णस्य जीविते॥ 8-85-47 (59275) अविषह्यं तु पार्थस्य शरसंस्पर्शमाहवे। मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना॥ 8-85-48 (59276) ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः। प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम्॥ 8-85-49 (59277) तान्विद्रावयते पार्थः किरञ्शरशतान्बहून्। हर्षयन्पाण्डवीं सेनां राजानं च युधिष्ठिरम्॥ 8-85-50 (59278) पुत्रास्तव महाराज जग्मुः कर्णरथं प्रति। अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा॥ 8-85-51 (59279) कुरवो हि महाराज निर्विषाः पन्नगा इव। कर्णमेवोपलीयन्त भयाद्गाण्डीवघन्वनः॥ 8-85-52 (59280) यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष। उपलीयन्ति सन्त्रासाद्धर्मं लोकपरायणम्॥ 8-85-53 (59281) तथा कर्णं महेष्वासं पुत्रास्तव नराधिप। उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः॥ 8-85-54 (59282) ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान्। मा भैष्टेत्यब्रवीत्कर्णो भीतानाविष्टचेतसः॥ 8-85-55 (59283) सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम्। धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया॥ 8-85-56 (59284) तान्प्रद्रुतान्कुरून्दृष्ट्वा कर्णः शस्त्रभृतां वरः। सञ्चिन्तयित्वा पार्थस्य वधे दध्रे मनः श्वसन्॥ 8-85-57 (59285) विस्फार्य सुमहच्चापं ततश्चाधिरथिर्वृषः। पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः॥ 8-85-58 (59286) ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः। शरौघैश्छादयामासुर्महामेघा इवाचलम्॥ 8-85-59 (59287) ततः शरसहस्राणि कर्णमुक्तानि मारिष। पाञ्चालानां हरत्प्राणांस्तमांसीव तमोनुदः॥ 8-85-60 (59288) महदासीत्तदा युद्धं पाञ्चालानां महामते। वध्यतां सूतपुत्रेण मित्रार्थे मित्रगृद्धिना॥ ॥ 8-85-61 (59289) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चाशीतितमोऽध्यायः॥ 85 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-85-12 मुसलैर्भिन्दिपालैश्च इति झ.पाठः॥ 8-85-85 पञ्चाशीतितमोऽध्यायः॥
कर्णपर्व - अध्याय 086

॥ श्रीः ॥

8.86. अध्यायः 086

Mahabharata - Karna Parva - Chapter Topics

सङ्कलयुद्धम्॥ 1 ॥ भीमदुःशासनयोः समागमः संवादश्च॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-86-0 (59290) सञ्जय उवाच। 8-86-0x (5045) ततः कर्णः कुरुषु प्रद्रुतेषु वरूथिना श्वेतहयेन राजन्। पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो महेषुमिर्वात इवाभ्रसङ्घान्॥ 8-86-1 (59291) सूतं रथादञ्जलिकैर्निपात्य जघान चाश्वाञ्जनमेजयस्य। शतानीकं सुतसोमं च भल्लै-- रवाकिरद्धनुषी चाप्यकृन्तत्॥ 8-86-2 (59292) धृष्टद्युम्नं निर्बिभेदाथ षड्भि-- र्जघानाश्वान्दक्षिणांस्तस्य सङ्ख्ये। हत्वा चाश्वान्सात्यकेः सूतपुत्रः कैकेयपुत्रं न्यवधीद्विशोकम्॥ 8-86-3 (59293) तमभ्यधावन्निहते कुमारे सेनापतिः कैकयो मित्रवर्मा। शरैर्विधुन्वन्भृशमुग्रवेगैः कर्णात्मजं चाप्यहनत्सुदेवम्॥ 8-86-4 (59294) तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त प्रहस्य बाहू च शिरश्च कर्णः। स स्यन्दनाद्गामगमद्गतासुः परश्वथैः साल इवावरुग्णः॥ 8-86-5 (59295) हताश्वमञ्जोगमिभिः सुषेणः शिनिप्रवीरं निशितैः पृषत्कैः। प्रच्छाद्य नृत्यन्निव कर्णपुत्रः शैनेयबाणाभिहतः पपात॥ 8-86-6 (59296) पुत्रे हते क्रोधपरीतयेताः कर्णः शिनीनां प्रवरं जिघांसुः। हतोऽसि हे सात्यक इत्युदीर्य व्यवासृजद्बाणममित्रसाहम्॥ 8-86-7 (59297) तमस्य चिच्छेद शरं शिखण्डी त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम्। शिखण्डिनः कार्मुकं च ध्वजं च च्छित्त्वा क्षुराभ्यां न्यहनत्सुजातः॥ 8-86-8 (59298) शिखण्डिनं षड्भिरविध्यदुग्रो धार्ष्टद्युम्नेः स शिरश्चोच्चकर्त। ततोऽभिनत्सुतसोमं क्षुरेण सुसञ्झितेनाधिरथिर्महात्मा॥ 8-86-9 (59299) अथाक्रन्दे तुमुले वर्तमाने धार्ष्टद्युम्ने निहते तत्र कृष्णः। अपाञ्चाल्यं क्रियते याहि पार्थ कर्णं जहीलाब्रवीद्राजसिंह॥ 8-86-10 (59300) ततः प्रहस्याशु नरप्रवीरो रथं रथेनाधिरथेर्जगाम। भये तेषां त्राणमिच्छन्सुबाहु-- रभ्याहतानां रथयूथपेन॥ 8-86-11 (59301) ततोऽपरे भारत दुष्प्रकम्प्याः पाञ्चालानां रथसङ्घाः समेताः। प्रतिश्रिता ह्यन्तरिक्षे ग्रहाभा धनुःप्रवीरास्तु रथप्रवीराः॥ 8-86-12 (59302) विस्फार्य गाण्डीवमथोग्रघोषं ज्यया समाहत्य तले भृशं च। बाणान्धकारं सहसैव कृत्वा जघान नागाश्वरथध्वजांश्च॥ 8-86-13 (59303) [प्रतिश्रुतः प्राचरदन्तरिक्षे गुहा गिरीणामपतन्वयांसि। यन्मण्डलज्येन विजृम्भमाणो रौद्रे मुहूर्तेऽभ्यपतत्किरीटी॥] 8-86-14 (59304) तं भीमसेनोऽनुययौ रथेन पृष्ठे रक्षन्पाण्डवमेकवीरः। तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णाय यातावरिभिर्विषक्तौ॥ 8-86-15 (59305) तत्रान्तरे सुमहान्सूतपुत्र-- श्चक्रे युद्धं सोमकान्सम्प्रमथ्य। रथाश्वमातङ्गणाञ्जघान प्रच्छादयामास शरैर्दिशश्च॥ 8-86-16 (59306) तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च। कर्णं बिभेदुः सहिताः पृषत्कैः सन्नर्दमानाः सह पार्षतेन॥ 8-86-17 (59307) ते पञ्च पाञ्चालरथाः समेता वैकर्तनं कर्णमभिद्रवन्तः। तस्माद्रथाच्च्यावयितुं न शेकु-- र्धैर्यात्कृतात्मानमिवेन्द्रियार्थाः॥ 8-86-18 (59308) तेषां धनूंषि ध्वजवाजिसूतां-- स्तूर्णं पताकाश्च निकृत्य बाणैः। तान्पाञ्चालानभ्यहनत्पृवत्कैः कर्णस्ततः सिंह इवोन्ननाद॥ 8-86-19 (59309) तस्यास्यतस्तानभिनिघ्नतश्च ज्याबाणहस्तस्य धनुःस्वेनन। साद्रिद्रुमा स्यात्पृथिवी विशीर्णे-- त्यतीव मत्वा जनता व्यपीदत्॥ 8-86-20 (59310) स शक्रचापप्रतिमेन धन्वना भृशायतेनाधिरथिः शरान्सृजन्। बभौ रणे दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा॥ 8-86-21 (59311) शिखण्डिनं द्वादशभिः पराभिन-- च्छितैः शरैः षड्भिरथोत्तमौजसम्। त्रिभिर्युधामन्युमविध्यदाशुगै-- स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ॥ 8-86-22 (59312) पराजिताः पञ्च महारथास्तु ते महाहवे सूतसुतेन मारिष। निरुद्यमास्तस्थुरमित्रनन्दना यथेन्द्रियार्थात्मवता पराजिताः॥ 8-86-23 (59313) निमज्जतस्तानथ कर्णसागरे विपन्ननावो वणिजो यथार्णवे। उद्दध्रिरे नौभिरिवार्णवाद्रथैः सुकल्पितैर्द्रौपदिजाः स्वमातुलान्॥ 8-86-24 (59314) ततः शिनीनामृषभः शितैः शरै-- र्निकृत्य कर्णप्रहितानिषून्वहून्। विदार्य कर्णं निशितैरयस्मयै-- स्तवात्मजं ज्येष्ठमविध्यदष्टमिः॥ 8-86-25 (59315) कृपोऽथ भोजश्च तवात्मजस्तथा स्वयं च कर्णो निशितैरताडयत्। स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा॥ 8-86-26 (59316) समाततेनेष्वसनेन कूजता महास्वनेनाशनिपातदीधितिः। बभूव दुर्धर्षतरः स सात्यकिः शरन्नभोमध्यगतो यथा रविः॥ 8-86-27 (59317) पुनः समास्थाय रथान्सुदंशिताः शिनिप्रवीरं जुगुपुः परन्तपाः। समेत्य पाञ्चालमहारथा रणे मरुद्रणाः शक्रमिवारिनिग्रहे॥ 8-86-28 (59318) ततोऽभवद्युद्धमतीव दारुणं तवाहितानां तव सैनिकैः सह। रथाश्वमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराऽभवत्॥ 8-86-29 (59319) रथा द्विपा वाजिपदातयस्तथा भ्रमन्ति नानाविधशस्त्रवेष्टिताः। परस्परेणाभिहताश्च चस्खलु-- र्विनेदुरार्ता व्यसवोऽपतंस्तथा॥ 8-86-30 (59320) तथागतं भीममभीस्तवात्मजः ससार राजावरजः किरञ्शरैः। तमभ्यधावत्त्वरितो वृकोदरो महारुरुं सिंह इवाभिपेदिवान्॥ 8-86-31 (59321) ततस्तयोर्युद्धमतीव दारुणं प्रदीव्यतोः प्राणदुरोदरं द्वयोः। परस्परेणाभिनिविष्टरोषयो-- रुदग्रयोः शम्बरशक्रयोर्यथा॥ 8-86-32 (59322) शरैः शरीरार्तिकरैः सुतेजनै-- र्निजघ्नतुस्तावितरेतरं भृशम्। सकृत्प्रभिन्नाविव वासितान्तरे महागजौ दोर्भिरदीनघातिनौ॥ 8-86-33 (59323) आलोक्य तौ चैव परस्परं ततः समं च शूरौ च ससारथी तदा। भीमोऽब्रवीद्याहि दुःशासनाय दुःशासनो याहि वृकोदराय॥ 8-86-34 (59324) तयो रथौ सारथिसम्प्रचोदितौ समं रथौ तौ महसा समीयतुः। नानायुधच्छत्रपताकिकाध्वजौ दिवीव पूर्वं बलशक्रयो रणे॥ 8-86-35 (59325) भीम उवाच। 8-86-36x (5046) दिष्ट्याऽसि दुःशासन अद्य दृष्टः क्षणं प्रतीच्छे सहवृद्धि मूलम्। चिरोदितं यन्मया ते सभायां कृष्णाभिमर्शेन गृहाण मत्तः॥ 8-86-36 (59326) स एवमुक्तस्तु ततो महात्मा दुःशासनो वाक्यमुवाच वीरः। सर्वं स्मरन्नेव विसंस्मरामि उदीर्यमाणं शृणु भीमसेन॥ 8-86-37 (59327) स्मरामि चात्मप्रभवं चिराय यज्जातुषे वेश्मनि रात्र्यहानि। विश्वासहीना मृगयां चरन्तो वसन्ति सर्वत्र निराकृतास्तु॥ 8-86-38 (59328) महाभयं रात्र्यहानि स्मरन्त-- स्तथोपभोगाच्च सुखाच्च हीनाः। वनेष्वटन्तो गिरिगह्वराणि पाञ्चालराजस्य पुरं प्रविष्टाः॥ 8-86-39 (59329) मायां यूयं कामपि सम्प्रविष्टा यतो वृतः कृष्णया फल्गुनो वः। संभूय पापैस्तदनार्यवृत्तं कृतं तदा मातृकृतानुरूपम्॥ 8-86-40 (59330) एका वृता पञ्चभिः साभिपन्ना। ह्यलज्जमानेश्च परस्परस्य। स्मरे सभायां सुबलात्मजेन दासीकृता यत्सह कृष्णया च॥ 8-86-41 (59331) सञ्जय उवाच। 8-86-42x (5047) इत्येवमुक्तस्तु तवात्मजेन पाण्डोः सुतः कोपवशं भृशं धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत्। ललाटमप्यस्य बिभेद पत्रिणा 8-86-42 (59332) शिरश्च कायात्प्रजहार सारथेः॥ स राजपुत्रोऽन्यदवाप्य कार्मुकं वृकोदरं द्वादशभिः पराभिनत्। स्वयं नियच्छंस्तुरगानजिह्मगैः 8-86-43 (59333) शरैश्च भीमं पुनरप्यवीवृषत्॥ ॥ 8-86-44 (59334) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षडशीतितमोऽध्यायः॥ 86 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-86-14 प्रतिश्रुतः प्रतिस्वनः॥ 8-86-86 षडशीतितमोऽध्यायः॥
कर्णपर्व - अध्याय 087

॥ श्रीः ॥

8.87. अध्यायः 087

Mahabharata - Karna Parva - Chapter Topics

भीमेन राज्ञां समक्षं दुःशासनवक्षसो रक्तपानम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-87-0 (59335) सञ्जय उवाच। 8-87-0x (5048) सर राजपुत्रेण समार्च्छदुग्र-- दुःशासनेन निकृतो निकृत्या॥ 8-87-1 (59336) तत्राकरोद्दुष्करं राजपुत्रो दुःशासनः कुरुवीरो महात्मा। यद्भीमसेनं प्रतियोधयद्रणे जम्भो यथा शक्रमुदारवीर्यम्॥ 8-87-2 (59337) धनुच्छित्त्वा भीमसेनस्य सङ्ख्ये षड्भिः शरैः सारथिमभ्यविध्यत्। ततोऽविध्यत्त्रिंशता भीमसेनं वरेषुभिर्वन्यमिव द्विपेन्द्रम्॥ 8-87-3 (59338) स कार्मुकं गृह्य तु भारसाधनं भीमस्तदा राजपुत्रं ह्यविध्यत्। पञ्चाशतैर्बाणगणैः स्तनानन्तरे तोत्रैर्यथा तीव्रवेगं द्विपेन्द्रम्॥ 8-87-4 (59339) ततस्तु राजन्विरथं महात्मा दुःशासनो भीमसेनं चकार। निहत्य सङ्ख्ये चतुरोऽस्य बाहा-- ञ्छित्त्वा रथेषां पुनरेव चाक्षिपत्॥ 8-87-5 (59340) ततः क्षितिस्वो ह्यबरुह्य याना-- द्वृकोदरो मदया तस्य वाहान्। यमक्षयं प्रेषयित्वा महात्मा रथं समाकर्पत राजसूनोः॥ 8-87-6 (59341) तस्मादवप्लुत्य रथात्ससर्ज दुःशासनस्तोमरमुग्रवेगम्। स तेन विद्धो ह्युरसि ह्यप्रमेयो गदां तस्मै विससर्जाप्रमेयाम्॥ 8-87-7 (59342) ततः क्रोधाद्भीमसेनः कृतानि सर्वाणि दुःखान्यनुसंस्मरन्वै। संस्मृत्य संस्मृत्य तथा प्रतिज्ञा-- मुग्रामसौ राजपुत्रौ व्यषीदत्॥ 8-87-8 (59343) सञ्चिन्तितं रोषमतीव वेगा- त्त्रयोदशाब्दं पुरुषप्रवीरः। प्रगृह्य वज्राशनितुल्यवेगां गदां करेणाथ वृकोदरो रुषा॥ 8-87-9 (59344) निपातयित्वा पृथिवीतले भृशं स ताजयामा वृकोदरो बली। अतीव सन्ताडितभिन्नगात्रो दुःशासनो वै निपपात भूमौ॥ 8-87-10 (59345) आक्रम्य कण्ठे युधि राजपुत्रं संरक्तनेत्रो ह्यब्रवीद्धार्तराष्ट्रम्। तद्ब्रूहि किं त्वं परिमार्गमाणो ह्यस्मान्पराभूय इहागतः पुनः॥ 8-87-11 (59346) दिदीपयंस्तद्भृशदीपितं मे चिरार्जितं रोषमतिप्रदीप्तम्। मधु प्रपास्ये तव कोष्टभाजना-- दित्यब्रवीद्भीमसेनस्तरस्वी॥ 8-87-12 (59347) दुःशासनं कण्ठदेशे प्रमृद्रं-- स्ततः क्रूरं भीमसेनश्चकार। कतं व्यंसयित्वा सहसा ससार बलादसौ धार्तराष्ट्रस्तरस्वी॥ 8-87-13 (59348) भीमोऽभिदुद्राव सुतं त्वदीयं सपत्रतां दर्शयन्धार्तराष्ट्रे। मृगं मुहुः सिंहशिशुर्यथा वने तथाश्वभिद्रुत्य महाबलं बली॥ 8-87-14 (59349) निगृह्य चैनं परमेण कर्मणा उत्क्षिप्य चोत्क्षिप्य च तूर्णमेनम्। भूमौ तदा निष्पिपेषाथ वीर असिं विकोशं विमलं चकार॥ 8-87-15 (59350) तं पातयित्वा तु वृकोदरोऽथ जगर्ज हर्षेण विनादयन्दिशः। नादेन तेनाखिलपार्श्ववर्तिनो मूर्च्छाकुलाः पतितास्त्वाजमीढ॥ 8-87-16 (59351) दुःशासनं तत्र समीक्ष्य राज-- न्भीमो महाबाहुरचिन्त्यकर्मा। स्मृत्वा च केशग्रहणं च देव्या वस्त्रापहारं च रजस्वलायाः॥ 8-87-17 (59352) अनागसो भर्तृपराङ्मुखाया दुःखानि दत्तान्यपि विप्रचिन्त्या। जज्वाल कोपादथ भीमसेन आज्यप्रसिक्तो हि यथा हुताशः॥ 8-87-18 (59353) तत्राह कर्णं च सुयोधनं च कृपं द्रौणिं कृतवर्माणमेव। निहन्मि दुःशासनमद्य पापं संरक्ष्यतामद्य समस्तयोधाः॥ 8-87-19 (59354) इत्येवमुक्त्वा सहसाभ्यधाव-- न्निहन्तुकामोऽतिबलस्तरस्वी। तथा तु विक्रम्य रमे वृकोदरो महागजं केसरिको यथैव। निगृह्य दुःशासनमेकवीरः सुयोधनस्याधिरथेः समक्षम्॥ 8-87-20 (59355) असिं समुद्यम्य सितं सुधारं कण्ठे पदाक्रम्य च वेपमानम्। उवाच तद्गौरिति यद्ब्रुवाणो हृष्टोऽवदः कर्णसुयोधनाभ्याम्॥ 8-87-21 (59356) ये राजसूयावभृथे पवित्रा जाताः कछा याज्ञसेन्या दुरात्मन्। ते पाणिना कतरेणावकृष्टा-- स्तद्ब्रूहि त्वां पृच्छति भीमसेनः॥ 8-87-22 (59357) श्रुत्वा तु तद्भीमवचः सुघोरं दुःशासनो भीमसेनं निरीक्ष्य। जज्वाल बीमं स तदा स्मयेन संशृण्वतां कौरवसोमकानाम्। उक्तस्तदाजौ स तथा सरोषं जगाद भीमं परिवृत्तनेत्रः॥ 8-87-23 (59358) अयं करिकराकारः पीनस्तनविमर्दनः। गोसहस्रप्रदाता च क्षत्रियान्तकरः करः॥ 8-87-24 (59359) अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः। पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम्॥ 8-87-25 (59360) एवं त्वसौ राजसुतं निशम्य ब्रुवन्तमाजौ विनिपीड्य वक्षः। भीमो बलात्तं प्रतिगृह्य दोर्भ्या-- मुच्चैर्ननादाथ समस्तयोधान्॥ 8-87-26 (59361) उवाच यस्यास्ति बलं स रक्ष-- त्वसौ भवेदद्य निरस्तबाहुः। दुःशानं जीवितं प्रोत्सृजन्त-- माक्षिप्य योधांस्तरसा महाबलः॥ 8-87-27 (59362) एवं क्रुद्धो भीमसेनः करेण उत्पाटयामास भुजं महात्मा। दुःशासनं तेन स वीरमध्ये जघान वज्राशनिसन्निभेन॥ 8-87-28 (59363) कण्ठे समाक्रम्य च वेपमानं कृत्वाऽनु रूपं परमं सुघोरम्। कालान्तकाभ्यां सदृशं तदानीं विदार्य वक्षश्च महारथस्य॥ 8-87-29 (59364) दुःशासनस्य निपुशासनस्य उद्धृत्य वक्षः पतितस्य भूमौ। ततोऽपिबच्छोणितमस्य कोष्ण-- मास्वाद्य चास्वाद्य च वीक्षमाणः॥ 8-87-30 (59365) क्रुद्धः प्रहृष्टो निजगाद वाक्यं स्तन्यस्य मातुः पयसोऽमृतस्य। माध्वीकजस्येव रसस्य तस्य मधोश्च पानाद्यवकस्य पानात्॥ 8-87-31 (59366) पयोदधिभ्यां मथिताच्च मुख्या-- त्तथेक्षुसारस्य मनोहरस्य। सर्वेभ्य एवाभ्यधिको रसोऽस्य मतो ममाद्याहितलोहितस्य॥ 8-87-32 (59367) एवं ब्रुवाणं पुनरुत्थितं त-- मास्फोट्य वल्गन्तमतिप्रहृष्टम्। ये भीमसेनं ददृशुस्तदानीं प्रायेण तेऽपि व्यथिता निपेतुः॥ 8-87-33 (59368) ये चापि नासन्पतिता मनुष्या-- स्तेषां करेभ्यः पतितं तु शस्त्रम्। भयाच्च सञ्चुक्रुशुरस्वरैस्तदा निमीलिताक्षा मुमुहुश्च तत्र॥ 8-87-34 (59369) ये तत्र भीमं रुधिरं पिबन्तं दुःशासनस्य ददृशुः प्रपन्नाः। नायं मनुष्यस्त्विति भाषमाणाः सर्वेऽपलायन्त भयाभिपन्नाः॥ ॥ 8-87-35 (59370) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तशीतितमोऽध्यायः॥ 87 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-87-27 योधानाक्षिप्य उवाचेत्यन्वयः॥ 8-87-32 अहितस्य शत्रोःदुःशासनस्य लोहितस्य रक्तस्य॥ 8-87-87 सप्ताशीतितमोऽध्यायः॥
कर्णपर्व - अध्याय 088

॥ श्रीः ॥

8.88. अध्यायः 088

Mahabharata - Karna Parva - Chapter Topics

दुःशासनवधक्रोधादात्मनामभिद्रुतदतां तदनुजानां भीमेन वधः॥ 1 ॥ दुःशासनादिनिधनाद्बिश्यतः कर्णस्य शल्येन प्रोत्साहनम्॥ 2 ॥ सङ्कुलयुद्धम्॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-88-0 (59371) सञ्जय उवाच। 8-88-0x (5049) स पीत्वा रुधिरं तस्य चरणौ गृह्य भारत। इत्युच्चैर्वचनं प्राह प्रतिनृत्यन्वृकोदरः॥ 8-88-1 (59372) एष ते रुधिरं तीव्रं पिबामि पुरुषादवत्। वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति॥ 8-88-2 (59373) ये चास्मान्प्रतिनृत्यन्ति तदा गौरिति गौरिति। तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति॥ 8-88-3 (59374) प्रमाणकोट्यां शयने कालकूटकभोजनम्। दंशनं चाहिभिस्तीक्ष्णैर्दाहं जतुगृहे च यत्॥ 8-88-4 (59375) द्यूते च दोषभूयस्त्वमरण्ये वसतिश्च या। इष्वस्त्राणि च सङ्ग्रामे अनिलानिलवेश्मसु॥ 8-88-5 (59376) दुःखान्येवाभिजानीमो न सुखानि कदाचन। धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य वयं सदा॥ 8-88-6 (59377) इत्युच्चैर्वचनं प्रोच्य जयं प्राप्य वृकोदरः। पुनरेव महाराज तव सैन्यमभिद्रवत्॥ 8-88-7 (59378) रक्तार्द्रपाणिस्तु ततो महात्मा गदापाणिः काल इवान्तकाले। विभीषयंस्तव पुत्रस्य सैन्य-- मितस्ततो धावति वाहिनीं ते॥ 8-88-8 (59379) ततः क्षणाद्भारत शून्यमासी-- दायोधनं घोरतरं कुरूणाम्। यत्राजिमध्ये प्रापिबद्भीमसेनो दुःशासनस्य रुधिरं क्रोधदीप्तः॥ 8-88-9 (59380) स हत्वा समरे राजन्राजपुत्रं महाबलम्। पूर्णकामो मदोदग्रः सिंहो रुरुमिवोत्कटः॥ 8-88-10 (59381) रुधिरार्द्रो महाराज व्यशोभत परन्तपः। सपुष्पः किंशुक इव रक्तरक्ततरो बभौ॥ 8-88-11 (59382) रुधिराक्तो घोरवेषः क्रुद्धो राजन्वचोऽब्रवीत्। ब्रूहीदानीं पापमते नृशंस पतितो ह्यसि॥ 8-88-12 (59383) दुःशासने यादृशं संश्रुतं न-- स्तदवाप्तं पाण्डवैः सर्वमेव। अत्रैवमाप्स्याम्यपरं द्वितीयं दुर्योधनं यज्ञपशुं विशस्य॥ 8-88-13 (59384) शिरो मृदित्वाऽस्य पुनश्च शान्तिं यास्याम्यहं कौरवाणां समक्षम्। या साऽपतिः सा सपतिर्हि जाता यास्ताः सपत्योऽपतयस्तु जाताः॥ 8-88-14 (59385) पश्यन्तु चित्रं विविधं हि लोके ये वै तिलाः षण्डतिला बभूवुः। ते चेत्संसिद्धा निधनं गताः परे किं चित्ररूपं बत जीवलोके॥ 8-88-15 (59386) एतावदुक्त्वा वचनं प्रहृष्टः प्राक्रोशदुच्चै रुधिरार्द्रवक्रः। ननर्त चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः॥ 8-88-16 (59387) दृष्ट्वा तु नृत्यन्तमुदग्रवीर्यं कालं यथा त्वन्तकाले प्रजानाम्। महद्भयं चाधिरथिं विवेश जये निराशाश्च सुतास्त्वदीयाः॥ 8-88-17 (59388) दुःशासने तु निहते पुत्रास्तव महारथाः। महत्क्रोधविषं वीरा धारयन्तो महाबलाः। ते तु राजन्महावीर्या भीमं प्राच्छादयञ्छरैः॥ 8-88-18 (59389) निषङ्गी कवची खङ्गी दण्डधारो धनुर्धरः। अलम्बुर्जलसन्धश्च वातवेगसुवर्चसौ॥ 8-88-19 (59390) एते समेत्य सहिता भ्रातृव्यसनकर्शिताः। भीमसेनं महाबाहुं पीडयामासुरञ्जसा॥ 8-88-20 (59391) स वध्यमानो विशिखैः समन्तात्तैर्महारथैः। भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ॥ 8-88-21 (59392) ततः परिवृतो राजन्नवभिः शत्रुतापनैः। दुःशासनादवरजैः पुत्रैस्तव वृकोदरः॥ 8-88-22 (59393) तांस्तु भल्लैर्महावेगैर्नवभिर्नव भारत। रुक्माङ्गदान्रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम्॥ 8-88-23 (59394) हतेषु तव पुत्रेषु बलं तद्विप्रदुद्रुवे। पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम्॥ 8-88-24 (59395) ततः कर्णं महाराज प्रविवेश महद्भयम्। दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव॥ 8-88-25 (59396) तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः। 8-88-26 (59397) उवाच वचनं कर्णं प्राप्तकालं हितं तदा॥ 8-88-27 (59398) एते द्रवन्ति राजानो भीमसेनभयार्दिताः। दुर्योधनश्च सम्मूढो भ्रातृव्यसनकर्शितः॥ 8-88-28 (59399) दुःशासनस्य रुधिरे पीयमाने महात्मना। व्यापन्नचेताः सहसा शोकोपहतचेतनः॥ 8-88-29 (59400) उपासते त्वामेते हि परिवार्य महारथाः। कृपप्रभृतयः कर्ण हतशेषाः सहोदराः॥ 8-88-30 (59401) पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः। त्वामेवाभिमुखाः शूरा युद्धाय समुपस्थिताः॥ 8-88-31 (59402) स त्वं पुरुषशार्दूल पौरुषे महति स्थितः। क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम्॥ 8-88-32 (59403) भारो हि धार्तराष्ट्रेण त्वयि सर्वः समाहितः। तमुद्वह महाबाहो यथाशक्ति यथाबलम्॥ 8-88-33 (59404) जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये। वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव। त्वयि मोहं समापन्ने पाण़्डवानभिधावति॥ 8-88-34 (59405) सञ्जय उवाच। 8-88-35x (5050) एतच्छ्रुत्वा तु वचनं शल्यस्यामिततोजसः। हृदि मानुष्यकं भावं कृत्वा युद्वाय सुस्थिरम्॥ 8-88-35 (59406) ततः क्रुद्धो वृषसेनोऽभ्यधाव-- द्भीमं समायान्तममित्रसाहम्। बाणैः किरन्तं प्रतियाति चोग्रं व्यात्ताननं कालमिवापतन्तम्॥ 8-88-36 (59407) तमभ्यधावन्नकुलः प्रवीर-- मारादमित्रं प्रतुदन्पृषत्कैः। कर्णस्य पुत्रं समरे प्रहृष्टं जिष्णुर्जिघांसुर्मघवेव जम्भम्॥ 8-88-37 (59408) ततो ध्वजं स्फाटिकहेमचित्रं चिच्छेद धैर्यान्नकुलः क्षुरेण। कर्णात्मजस्येष्वसनं च चित्रं भल्लेन जाम्बूनदचित्रनद्धम्॥ 8-88-38 (59409) अथान्यदादाय धनुः स शीघ्रं कर्णात्मजः पाण्डवमभ्यविध्यत्। दिव्यैरस्त्रैरभ्यवर्षत्तदैनं कर्णस्य पुत्रो नकुलं कृतास्त्रम्॥ 8-88-39 (59410) ततः क्रुद्धो नकुलः कर्णपुत्रं शरैर्महोल्काभिरिवाभ्यपीडयत्। स कर्णपुत्रो नकुलस्य राज-- न्सर्वानस्त्रान्वारयदुत्तमास्त्रैः॥ 8-88-40 (59411) आसीत्सुघोरं भरतप्रवीर युद्धं तदा कर्णजपाण्डवाभ्याम्॥ 8-88-41 (59412) वनायुजान्सुकुमारान्सुशुभ्रा-- नलङ्कृताञ्जातरूपेण चित्रान्। जघान चाश्वान्नकुलस्य वीरो रणाजिरे सूतपुत्रस्य पुत्रः॥ 8-88-42 (59413) ततो हताश्वादवरुह्य याना-- च्चर्माऽऽददे रुचिरं बर्हिचित्रम्। आकाशसङ्काशमसिं प्रगृह्य प्रकाशमानः खगवच्चचार॥ 8-88-43 (59414) ततोऽस्य पक्षाननयद्यमाय द्विसाहस्रान्नकुलः क्षिप्रकारी। ते प्रापतन्नसिना वै विशस्ता यथाऽश्वमेधे पशवः शमित्रा॥ 8-88-44 (59415) ततस्ततो विजिता युद्धशौण्डा नानादेश्याः सुहृदः सत्यसन्धाः। एकेन शीघ्रं नकुलेन नुन्नाः सारेप्सुनेवोत्तमचन्दनस्य॥ 8-88-45 (59416) भूमौ चरन्तं नकुलं रथौघाः समन्ततः सायकैः प्रत्यगृह्णन्। स तुद्यमानो नकुलो विहङ्गै-- श्चचार सङ्ख्ये द्विषतो विनिघ्नन्॥ 8-88-46 (59417) तं कर्णपुत्रोऽपि चरन्तमाजौ नराश्वमातङ्गरथप्रवीरान्। निघ्नन्तमष्टादशभिः पृषत्कै-- र्विव्याध वीरः स चुकोप विद्धः॥ 8-88-47 (59418) ततोऽभ्यधावत्समरे जिघांसुः कर्णात्मजं पाण्डुसुतो नृवीरम्। तस्येषुभिर्वधमत्सूतपुत्रो महारणे वर्म सहस्रभारम्॥ 8-88-48 (59419) तस्याथ कांस्यं सुशितं सुपीत-- मसिप्रवीरं गुरुभारासाहम्। द्विषच्छरीरापहरं सुघोर-- माधून्वतः सर्पमिवात्तकोशम्॥ 8-88-49 (59420) क्षिप्रं शरैः षङ्भिरमित्रसाह-- श्चकर्त खङ्गं निशितैः सुधारैः। पुनश्च पार्थं निशितैः पृषत्कैः स्तनान्तरे क्षिप्रमिवात्यविध्यत्॥ 8-88-50 (59421) स भीमसेनस्य रथं च गत्वा ववर्ष वै शरवर्षं सुघोरम्॥ 8-88-51 (59422) नकुलमथ विदित्वा छिन्नबाणासनासिं विरथमरिभिरार्तं कर्णपुत्रास्त्रमग्नम्। पवनचलपताका ह्लादिनो वल्गिताश्वाः परपुरुषनियुक्ताः स्वै रथैः शीघ्रमीयुः॥ 8-88-52 (59423) द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः। द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान् भगवत इव रुद्राः सङ्ख्यया हेतिमन्तः॥ 8-88-53 (59424) अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तः कृपहृदिकसुतौ च द्रौणिदुर्योधनौ च। शकुनिशुकवृकाश्च क्राथदेवावृधौ च द्विरदजलदघौषैः स्यन्दनैः कार्मुकैश्च॥ 8-88-54 (59425) अथ तव रथवर्यास्तान्दशैकप्रवीरा-- निषुभिरशनिकल्पैस्ताडयन्तो न्यरुन्धन्। नवजलदसवर्णैर्हस्तिभिस्तान्स्म वव्रु-- र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः॥ ॥ 8-88-55 (59426) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टाशीतितमोऽध्यायः॥ 88 ॥
कर्णपर्व - अध्याय 089

॥ श्रीः ॥

8.89. अध्यायः 089

Mahabharata - Karna Parva - Chapter Topics

सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-89-0 (59427) सञ्जय उवाच। 8-89-0x (5051) सुकल्पिता हैमवता महोत्कटा रणाभिकामैः कृतिभिः समास्थिताः। सुवर्णजालैर्वितता बभुर्गजा-- स्तथा यथा खे जलदाः सविद्युतः॥ 8-89-1 (59428) कुणिन्दपुत्रो दशभिर्महायसैः कृपं ससूताश्वमपीडयद्भृशम्। ततः शरद्वत्सुतसायकैर्हतः सहैव नागेन पपात भूतले॥ 8-89-2 (59429) कुणिन्दपुत्रावरजस्तु तोमरै-- र्दिवाकरांशुप्रतिमैरयस्मयैः। जघान भोजस्य हयानथापतन् क्षणाद्विशस्ताः कृतवर्मणे हयाः॥ 8-89-3 (59430) अथापरे द्रौणिहता महाद्विपा-- स्त्रयः ससर्वायुधयोधकेतनाः। निपेतुरुर्व्यां व्यसवो विचेतना-- स्तथा यथा वज्रहता महाचलाः॥ 8-89-4 (59431) कुणिन्दराजावरजादनन्तरः स्तनान्तरे पत्रिवरैरताडयत्। तवात्मजं तस्य तवात्मजः शरैः शितैः शरीरं व्यहनद्द्विपं च तम्॥ 8-89-5 (59432) स नागराजः सह राजसूनुना पपात रक्तं बहु सर्वतः क्षरन्। महेन्द्रवज्रप्रहतोऽम्बुदागमे यथा जलं गेरिकपर्वतस्तथा॥ 8-89-6 (59433) कुणिन्दपुत्रप्रहितोऽपरो द्विपः क्राथं ससूताश्वरथं व्यपोथयत्। ततोऽपतत्क्राथसराभिघातितः सहेश्वरो वज्रहतो यथा गिरिः॥ 8-89-7 (59434) रथी द्विपस्थेन हतोऽपतच्छरैः क्राथाधिपः पर्वतजेन दुर्जयः। सवाजिसूतेष्वसनध्वजस्तथा यथा महावातहतो महाद्रुमः॥ 8-89-8 (59435) वृको द्विपस्थं गिरिराजवासिनं भृशं शरैर्द्वादशभिः पराभिनत्। ततो वृकं साश्वरथं महाद्विपो द्रुतं चतुर्भिरणैर्व्यपोथयत्॥ 8-89-9 (59436) स पोथितो नागरवेण वीर्यवा-- न्पराभिनद्द्वादशभिः शिलीमुखैः। वृकेण बाणाभिहतोऽपतत्क्षितौ सवारणो बभ्रुसुतेन सार्धम्॥ 8-89-10 (59437) कुणिन्दराजस्य सुतोऽपरस्तदा स चापि शूरः सहसा समर्पितः। पपात बाणैः सुबलस्य सूनुना विषाणपुच्छापरगात्रपातिना॥ 8-89-11 (59438) गजेन वाहाञ्शकुनेः कुणिन्दजो निनाय वैवस्वतमन्दिरं रणे। रथं च संक्षुभ्य ननाद नर्दत-- स्ततोऽस्य गान्धारपतिः शिरोऽहरत्॥ 8-89-12 (59439) ततः कुणिन्देषु गतेषु तेषु प्रहृष्टरूपास्तव ते महारथाः। भृशं प्रदरध्मुर्लवणाम्बुसम्भवा-- न्वरांश्च बाणासनपाणयोऽभ्ययुः॥ 8-89-13 (59440) तथाऽभवद्युद्धमतीव दारुणं पुनः कुरूणां सह पाण्डुसृञ्जयैः। शरासिशक्त्यृष्टिगदापरश्वथै-- र्नराश्वनागासुहरं भृशाकुलम्॥ 8-89-14 (59441) रथाश्वमातङ्गपदातयस्ततः परस्परं विप्रहताः क्षितौ पतन्। यथा सविद्युत्तटितो जलप्रदाः समुत्थितैर्दिग्भ्य इवोग्रमारुतेः॥ 8-89-15 (59442) ततः शतानीकहता महागजा हया रथाः पत्तिगणाश्च तावकाः। सुपर्णवातप्रहता यथोरगा-- स्तथा गता गां विवशा विचूर्णिताः॥ 8-89-16 (59443) ततोऽभ्यविद्ध्यद्बहुभिः शितैः शरैः स विन्दपुत्रो नकुलात्मजं स्मयन्। ततोऽस्य कोपाद्विचकर्त नाकुलिः शिरः क्षुरेणाम्बुजसन्निभाननम्॥ 8-89-17 (59444) ततः शतानीकमविध्यदायसै-- स्त्रिभिः शरैः कर्णसुतोऽर्जुनं त्रिभिः। त्रिभिश्च भीमं नकुलं च सप्तभि-- र्जनार्दनं द्वादशभिश्च सायकैः॥ 8-89-18 (59445) तदस्य कर्मातिमनुष्यकर्मणः समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन्। पराक्रमज्ञास्तु धनञ्जयस्य ये हुतोऽयमग्नाविति ते तु मेनिरे॥ ॥ 8-89-19 (59446) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोननवतितमोऽध्यायः॥ 89 ॥
कर्णपर्व - अध्याय 090

॥ श्रीः ॥

8.90. अध्यायः 090

Mahabharata - Karna Parva - Chapter Topics

अर्जुनेन कर्णसूनोर्वृषसेनस्य वधः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-90-0 (59447) सञ्जय उवाच। 8-90-0x (5052) ततः किरीटि परवीरघाती हताश्वमालोक्य नरप्रवीरः। माद्रीसुतं नकुलं लोकमध्ये समीक्ष्य कृष्णं भृशविक्षतं च। समभ्यधावद्वृषसेनमाहवे स सूतजस्य प्रमुखे स्थितस्तदा॥ 8-90-1 (59448) तमापतन्तं नरवीरमुग्रं महाहवे बाणसहस्रधारिणम्। अभ्यापतत्कर्णसुतो महारथं यथा महेन्द्रं नमुचिः पुरा तथा॥ 8-90-2 (59449) तौ तत्र शूरौ रथकुञ्जरौ रणे परस्परस्याभिमुखौ महारथौ। ससर्जतुः शरसङ्घाननेका-- न्सम्भ्रान्तरूपौ सुभृशं तदानीम्॥ 8-90-3 (59450) ततो द्रुतं चैकशरेण पार्थं शितेन विद्ध्वा युधि कर्णपुत्रः। ननाद नादं सुमहानुभावो विद्ध्वेव शक्रं नमुचिः स वीरः॥ 8-90-4 (59451) पुनः स पार्थं वृषसेन उग्रै-- र्बाणैरविद्ध्यद्भुजमूले तु सव्ये। तथैव कृष्णं नवभिः समार्दय-- त्पुनश्च पार्थं दशभिर्जघान॥ 8-90-5 (59452) पूर्वं यथा वृषसेनप्रयुक्तै-- रभ्याहतः श्वेतहयः शरैस्तैः। संरम्भमीषद्गमितो वधाय कर्णात्मजस्याथ मनः प्रदध्रे॥ 8-90-6 (59453) ततः किरीटि रणमूर्ध्नि कोपात् कृत्वा त्रिशाखां भ्रुकुटिं ललाटे। मुमोच तूर्णं विशिखान्महात्मा वधे धृतः कर्णसुतस्य सङ्ख्ये। आरक्तनेत्रोऽन्तकशत्रुहन्ता उवाच कर्णं भृशमुत्स्मयंस्तदा॥ 8-90-7 (59454) दुर्योधनं द्रौणिमुखांश्च सर्वा-- नहं रणे वृषसेनं तमुग्रम्। सम्पश्यतः कर्ण तवाद्य सङ्ख्ये नयामि लोकं निशितैः पृषत्कैः॥ 8-90-8 (59455) ऊनं च तावद्धि जना वदन्ति सर्वैर्भवद्भिर्मम सूनुर्हतोऽसौ। एको रथो मद्विहीनस्तरस्वी अहं हनिष्ये भवतां समक्षम्॥ 8-90-9 (59456) संरक्ष्यतां रथसंस्थाः सुतोऽय-- महं हनिष्ये भवतां समक्षम्॥ पश्चाद्वधिष्ये त्वामपि सम्प्रमूढ-- महं हनिष्येऽर्जुन आजिमध्ये॥ 8-90-10 (59457) तमद्य मूलं कलहस्य सङ्ख्ये दुर्योधनापाश्रय जातदर्पम्। त्वामद्य हन्ताऽस्मि रणे प्रसह्य अस्यैव हन्ता युधि भीमसेनः। दुर्योधनस्याधमपूरुषस्य यस्यानयादेष महान्क्षयोऽभवत्॥ 8-90-11 (59458) स एवमुक्त्वा विनिमृज्य चापं लक्ष्यं हि कृत्वा वृषसेनमाजौ। ससर्ज बाणान्विशिखान्महात्मा वधाय राजन्कर्णसुतस्य सङ्ख्ये॥ 8-90-12 (59459) विव्याध चैनं दशभिः पृषत्कै-- र्मर्मस्वशङ्कं प्रहसन्किरीटी। चिच्छेद चास्येष्वसनं भुजौ च क्षुरैश्चतुर्भिर्निशितैः शिरश्च॥ 8-90-13 (59460) स पार्थबाणाभिहतः पपात रथाद्विबाहुर्विशिरा धरायाम्। सुपुष्पितो वज्रहतोऽतिमात्रो भग्नो यथा साल इवावकृत्तः॥ 8-90-14 (59461) तं पार्थबाणाभिहतं पतन्तं सम्प्रेक्ष्य कर्णः सुतमाशुकारी। रथं रथेनाशु जगाम रोषा-- त्किरीटिनः पुत्रवधाभितप्तः॥ 8-90-1x1 सञ्जय उवाच। 8-90-1a1 तमायान्तमभिप्रेक्ष्य वेलोद्वृत्तमिवार्णवम्। 8-90-1b1 गर्जन्तं सुमहाकायं दुर्निवारं सुरैरपि। 8-90-1c1 अर्जुनं प्राह दाशार्हः प्रहस्य पुरुषर्षभः॥ 8-90-2a2 अर्य सरथ आयासि श्वेताश्वः शल्यसारथिः। 8-90-2b2 येन ते सह योद्धव्यं स्थिरो भव धनञ्जय॥ 8-90-3a3 पश्य चैनं समायुक्तं रथं कर्णस्य पाण्डव। 8-90-3b3 श्वेतवाजिसमायुक्तं युक्तं राधासुतेन च॥ 8-90-4a4 नानापताकाकलिलं किङ्किणीजालमालिनम्। 8-90-4b4 उह्यमानमिवाकाशो विमानं पाण्डुरैर्हयैः॥ 8-90-5a5 ध्वजं च पश्य कर्णस्य नागकक्षं महात्मनः। 8-90-5b5 आखण्डलधनुःप्रख्यमुल्लिखन्तमिवाम्बरम्॥ 8-90-6a6 पश्य कर्णं समायान्तं धार्तराष्ट्रप्रियैषिणम्। 8-90-6b6 शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम्॥ 8-90-7a7 एष मद्रेश्वरो राजा रथाग्रे पर्यवस्थितः। 8-90-7b7 नियच्छति हयानस्य राधेयस्यामितौजसः॥ 8-90-8a8 शृणु दुन्दुभिनिर्घोषं शङ्खशब्दं च दारुणम्। 8-90-8b8 सिंहनादांश्च विविधाञ्शृणु पाण़्डव सर्वतः॥ 8-90-9a9 अन्तर्धाय महाशब्दान्कर्णेनामिततेजसा। 8-90-9b9 दोधूयमानस्य भृशं धनुषः शृणु निःस्वनम्॥ 8-90-10a10 एते दीर्यन्ति सगणाः पाञ्चालानां महारथाः। 8-90-10b10 दृष्ट्वा केसरिणं क्रुद्धं मृगा इव महावने॥ 8-90-11a11 सर्वयत्नेन कौन्तेय हन्तुमर्हसि सूतजम्। 8-90-11b11 न हि कर्णशरानन्यः सोढुमुत्सहते नरः॥ 8-90-12a12 सदेवासुरगन्धर्वांस्त्रीँल्लोकान्सचराचरान्। 8-90-12b12 त्वं हि जेतुं रणे शक्तस्तथैव विदितं मम॥ 8-90-13a13 भीममुग्रं महात्मानं त्र्यक्षं शर्वं कपर्दिनम्। 8-90-13b13 न शक्ता द्रष्टुमीशानं किं पुनर्योधितुं प्रभुम्॥ 8-90-14a14 त्वया साक्षान्महादेवः सर्वभूतशिवः शिवः। 8-90-14b14 युद्धेनाराधितः स्थाणुर्देवाश्च वरदास्तव॥ 8-90-15a15 तस्य पार्थ प्रसादेन देवदेवस्य शूलिनः। 8-90-15b15 जहि कर्णं महाबाहो नमुचिं वृत्रहा यथा॥ 8-90-16a16 श्रेयस्तेऽस्तु सदा पार्थ युद्धे जयमवाप्नुहि॥ 8-90-16b17x अर्जुन उवाच। 8-90-17a17 ध्रुव एव जयः कृष्ण मम नास्त्यत्र संशयः। 8-90-17b17 सर्वलोकगुरुर्यस्त्वं तुष्टोऽसि मधुसूदन॥ 8-90-18a18 चोदयाश्वान्हृषीकेश रथं मम महारथ। 8-90-18b18 नाहत्वा समरे कर्णं निवर्तिष्यति फल्गुनः॥ 8-90-19a19 अद्य कर्णं हतं पश्य मच्छरैः शकलीकृतम्। 8-90-19b19 मां वा द्रक्ष्यसि गोविन्द कर्णेन निहतं शरैः॥ 8-90-20a20 उपस्थितमिदं घोरं युद्धं त्रैलोक्यमोहनम्। 8-90-20b20 यज्जनाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति॥ 8-90-21a21 एवं ब्रुवंस्तदा पार्थः कृष्णमक्लिष्टकारिणम्। 8-90-21b21 प्रत्युद्ययौ रथेनाशु गजं प्रतिगजो यथा॥ 8-90-22a22 पुनरप्याह तेजस्वी पार्थः कृष्णमरिन्दम। 8-90-22b22 चोदयाश्वान्हृषीकेश कालोऽयमतिवर्तते॥ 8-90-23a23 एवमुक्तस्तदा तेन पाण़्डवेन महात्मना। 8-90-23b23 जयेन सम्पूज्य स पाण्डवं तदा 8-90-23c23 प्रचोदयामास हयान्मनोजवान्॥ 8-90-24a24 स पाण्डुपुत्रस्य रथो मनोजवः 8-90-24b24 क्षणेन कर्णस्य रथाग्रगोऽभवत्॥ ॥ 8-90-15 (59462) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे नवतितमोऽध्यायः*॥ 90 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-90-9 ऊनमिति। अभिमन्युं साधनैरिति शेषः। साधनैरूनं वदन्तीत्यन्वयः॥ 8-90-90 नवतितमोऽध्यायः॥ 8-90-* एतदनन्तरं झ.पुस्तके एकोऽध्यायोऽधिको दृश्यते।
कर्णपर्व - अध्याय 091

॥ श्रीः ॥

8.91. अध्यायः 091

Mahabharata - Karna Parva - Chapter Topics

रणाय कर्णार्जुनयोः समागमः॥ 1 ॥ तदवलोकनाय दिवि देवगन्धर्वादीनां समागमः॥ 2 ॥ देवासुरादीनां कर्णार्जु नसमाश्रयणेन द्वैधीभावः॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-91-0 (59463) सञ्जय उवाच। 8-91-0x (5053) वृषसेनं हतं दृष्ट्वा क्रोधामर्षसमन्वितः। पुत्रशोकोद्भवं वारि नेत्राभ्यां समवासृजत्॥ 8-91-1 (59464) रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपुम्। युद्धायामर्पताम्राक्षः समाहूय धनञ्जयम्॥ 8-91-2 (59465) तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारितौ। समेतौ ददृशुस्तत्र द्वाविवार्कौ समुद्गतौ॥ 8-91-3 (59466) श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ। शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि। `रथौ चतुर्भिर्जलदैर्भगमित्राविवाम्बरे'॥ 8-91-4 (59467) तौ दृष्ट्वा विस्मयं जग्मुः सर्वसैन्यानि मारिष। त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव॥ 8-91-5 (59468) रथज्यातलनिर्हादैर्बाणशङ्खरवैस्तथा। तौ रथावभ्यधावन्त क्षत्रियाः सर्व एव हि॥ 8-91-6 (59469) ध्वजावालोक्य वीराणां विस्मयः समपद्यत। हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः॥ 8-91-7 (59470) तौ रथौ सम्प्रसक्तौ तु दृष्ट्वा भारत पार्थिवाः। सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान्॥ 8-91-8 (59471) श्रुत्वा तयोर्द्वैरथं च तत्र योधाः सहस्रशः। चक्रुर्बाहुस्वनांश्चैव तथा बाणरवं महत्॥ 8-91-9 (59472) आजघ्नुः कुरवस्तत्र वादित्राणि समन्ततः। राधेयमभितो दध्मुः शङ्खाञ्शतसहस्रशः॥ 8-91-10 (59473) तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम्। तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन्॥ 8-91-11 (59474) क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्। बाहुशब्दैश्च शूराणां कर्णार्जुनसमागमे॥ 8-91-12 (59475) तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ। प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ॥ 8-91-13 (59476) वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभितौ। तूणीरवसम्पन्नौ द्वावप्येतौ सुदर्शनौ॥ 8-91-14 (59477) रक्तचन्दनदिग्धाङ्गौ समदौ गोवृषाविव। चापविद्युद्ध्वजोपेतौ शस्त्रसम्पत्तियोधिनौ॥ 8-91-15 (59478) चामरव्यजनोपैतौ श्वेतच्छत्रोपशोभितौ। कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ॥ 8-91-16 (59479) सिंहस्कन्धौ दीर्घभुजौ रक्ताक्षौ हेममालिनौ। सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ। अन्योन्यवधमिच्छन्तावन्योन्यजयकाङ्क्षिणौ॥ 8-91-17 (59480) अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव। प्रभिन्नाविव मातङ्गौ सुसंरब्धाविवाचलौ॥ 8-91-18 (59481) आशीविषशिशुप्रख्यौ यमकालान्तकोपमौ। इन्द्रवृत्राविव क्रुद्धौ सूर्यचन्द्रसमप्रभौ॥ 8-91-19 (59482) महाग्रहाविव क्रुद्धौ युगान्ताय समुत्थितौ। देवगर्भौ देवसमौ देवतुल्यौ च रूपतः॥ 8-91-20 (59483) यदृच्छया समायातौ सूर्याचन्द्रमसौ यथा। बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि॥ 8-91-21 (59484) तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव धिष्ठितौ। बभूव परमो हर्षस्तावकानां विशाम्पते॥ 8-91-22 (59485) संशयः सर्वभूतानां विजये समपद्यत। समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ॥ 8-91-23 (59486) उभौ वरायुधधरावुभौ रणकृतश्रमौ। उभौ च बाहुशब्देन नादयन्तौ नभस्तलम्॥ 8-91-24 (59487) उभौ विश्रुतकर्माणौ पौरुषेण बलेन च। उभौ च सदृशौ युद्धे शम्बरामरराजयोः॥ 8-91-25 (59488) कार्तवीर्यसमौ चोभावुभौ दाशरथेः समौ। विष्णुवीर्यसमौ चोभावुभौ भवसमौ युधि॥ 8-91-26 (59489) उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ। सारथिप्रवरौ चापि उभौ मद्रजनार्दनौ॥ 8-91-27 (59490) ततो दृष्ट्वा महाराज राजमानौ महारथौ। सिद्धचारणसङ्घानां विस्मयः समपद्यत॥ 8-91-28 (59491) धार्तराष्ट्रास्ततस्तूर्णं सबला भरतर्षभ। परिवव्रुर्महात्मानं कर्णमाहवशोभिनम्॥ 8-91-29 (59492) तथैव पाण्डवा दृष्ट्वा धृष्टद्युम्नपुरोगमाः। यमौ च चेकितानश्च प्रहृष्टाश्च प्रभद्रकाः॥ 8-91-30 (59493) नानादेश्याश्च ये शूराः शिष्टा युद्धाभिनन्दिनः। ते सर्वे सहिता हृष्टाः परिवव्रुर्धनञ्जयम्॥ 8-91-31 (59494) रिरक्षिषन्तः शथ्रुघ्नाः पत्त्यश्वरथकुञ्जराः। धनञ्जयस्य विजये धृताः कर्णवधेऽपि च॥ 8-91-32 (59495) तथैव तावकाः सर्वे यत्ताः सेनाप्रहारिणः। दुर्योधनमुखा राजन्कर्णं जुगुपुराहवे॥ 8-91-33 (59496) तावकानां रणे कर्णो ग्लहो ह्यासीद्विशाम्पते। तथैव पाण्डवेयानां ग्लहः पार्थोऽभवत्तदा॥ 8-91-34 (59497) तयोस्तु सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्युधि। तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ॥ 8-91-35 (59498) ताभ्यां द्यतं समासक्तं विजयायेतराय वा। अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि॥ 8-91-36 (59499) तौ तु स्थितौ महाराज समरे युद्धशालिनौ। अन्योन्यं प्रतिसंरब्धावन्योन्यवधकाङ्क्षिणौ॥ 8-91-37 (59500) तावुमौ प्रजिहीर्षन्ताविन्द्रवृत्राविव प्रभो। भीमरूपधरावास्तां महाधूमाविव ग्रहौ॥ 8-91-38 (59501) ततोऽन्तरिक्षे सञ्जज्ञे विवादो भरतर्षभ। मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे॥ 8-91-39 (59502) व्याश्रयन्त द्विधा भिन्नाः सर्वे लोकास्तु मारिष। देवदानवगन्धर्वाः पिशाचोरगराक्षसाः। प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे॥ 8-91-40 (59503) द्यौरासीत्कर्णपक्षेऽत्र सनक्षत्रा विशाम्पते। भूर्विशाला पार्थमाता पुत्रस्य जयकाङ्क्षिणी॥ 8-91-41 (59504) सागराश्चैव गिरयः सरितश्च नरोत्तम। महीजा जलजाश्चैव व्याश्रयन्त किरीटिनम्॥ 8-91-42 (59505) असुरा यातुधानाश्च गुह्यकाश्च परन्तप। कर्णः समभवद्यत्र खेचराणि वयांसि च॥ 8-91-43 (59506) रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः। सोपवेदोपनिषदो व्याश्रयन्त किरीटिनम्॥ 8-91-44 (59507) वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः। महीवियज्जलचराः काद्रवेयाश्च सान्वयाः। विषवन्तो महानागा वेगिनश्चार्जुनेऽभवन्॥ 8-91-45 (59508) ऐरावताः सौरभेया वैशालेयाश्च भोगिनः। एतेऽभवन्नर्जुनस्य पापाः सर्पाश्च कर्णतः॥ 8-91-46 (59509) ईहामृगा व्यालमृगा मङ्गला मृगपक्षिणः। मङ्गलाः पशवश्चैव सिंहव्याघ्रास्तथैव च। पार्थस्य विजये राजन्सर्व एव समाश्रिताः॥ 8-91-47 (59510) वसवो मरुतः साध्या रुद्रा देवाश्विनावपि। अग्नी रुद्रश्च सोमश्च पन्नगाश्च दिशो दश। कर्णतः समपद्यन्त श्वसृगालवयांसि च॥ 8-91-48 (59511) वसवश्च महेन्द्रेण मरुतश्च सहाग्निना। धनञ्जयस्य ते वर्गा आदित्याः कर्णतोऽभवन्॥ 8-91-49 (59512) देवताः पितृभिः सार्धमृषिभिश्च परन्तप। तुम्बुरुप्रमुखाः सर्वे गन्धर्वा भरतर्षभ। यमौ वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः॥ 8-91-50 (59513) देवर्षिब्रह्मर्षिगणाः सर्वे च खचराश्च ये प्रालेयाः सहमौनेयाः शुभाश्चाप्सरसां गणाः॥ 8-91-51 (59514) सहाप्सरोभिः शुभ्राभिर्देवदूताश्च गुह्यकाः। किरीटिनं संश्रिताः स्म पुण्यगन्धा मनोरमाः॥ 8-91-52 (59515) अमनोज्ञाश्च ये गन्धास्ते सर्वे कर्णमाश्रिताः। विपरीतान्यनिष्टानि भवन्ति विनशिष्यताम्॥ 8-91-53 (59516) ये त्वन्तकाले पुरुषं विपरीतमुपाश्रितम्। प्रविशन्ति नरं क्षिप्रं मृत्युकालेऽभ्युपागते। ते भावाः सहिताः कर्णं प्रविष्टाः सूतनन्दनम्॥ 8-91-54 (59517) ओजस्तेजश्च सिद्धिश्च प्रहर्षः सत्यविक्रमौ। मनस्तुष्टिर्जयश्चापि तथाऽऽनन्दो नृपोत्तम॥ 8-91-55 (59518) ईदृशार्नि नरव्याघ् तस्मिन्सङ्ग्रामसागरे। निमित्तानि च शुभ्राणि विविशुर्जिष्णुमाहवे॥ 8-91-56 (59519) ऋषयो ब्राह्मणैः सार्धमभजन्त किरीटिनम्॥ 8-91-57 (59520) ततो देवगणैः सार्धं सिद्धाश्च सह चारणैः। द्विधा भूता महाराज व्याश्रयन्त नरोत्तमौ॥ 8-91-58 (59521) विमानानि विचित्राणि गुणवन्ति च सर्वशः। समारुह्य समाजग्मुर्द्वैरथं कर्णपार्थयोः। अन्तरिक्षे महाराज देवगन्धर्वराक्षसाः॥ 8-91-59 (59522) एवं सर्वेषु भूतेषु द्विधा भूतेषु भारत। आशंसमानेषु जयं राधेयस्यार्जुनस्य च। विमानायुतसम्बाधमाकाशमभवत्तदा॥ 8-91-60 (59523) ईहामृगव्यालमृगैर्दिपाश्वरथपङ्क्तिभिः। ऊह्यमानाः परे मेघैर्वायुना च मनीषिणः। दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम्॥ 8-91-61 (59524) देवदानवगन्धर्वा नागयक्षपतत्रिणः। महर्षयो देवगणाः पितरश्च स्वधाभुजः॥ 8-91-62 (59525) तपोविद्यौषधीसिदधा नानारूपाम्बरत्विषः। अन्तरिक्षे महाराज विवदन्तोऽवतस्थिरे॥ 8-91-63 (59526) ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च। आस्थितो यानमाकाशे दिव्यं तेजः समागताः॥ 8-91-64 (59527) ततः प्रजापतिस्तूर्णमाजगाम महामते। द्वैरथं युधि तं द्रुष्टं कर्णपाण्डवयोस्तदा॥ 8-91-65 (59528) विजित्य कर्णः स्विदिमां वसुन्धरा-- मथार्जुनः स्वित्प्रतिपद्यतेऽखिलाम्। इतीश्वरस्यापि बभूव संशयः प्रजापतेः प्रेक्ष्य तयोर्महद्बलम्॥ ॥ 8-91-66 (59529) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकनवतितमोऽध्यायः॥ 91 ॥
कर्णपर्व - अध्याय 092

॥ श्रीः ॥

8.92. अध्यायः 092

Mahabharata - Karna Parva - Chapter Topics

कर्णार्जुनसमाश्रयात् लोकक्षयभीरुणा प्रजापतिना ब्रह्माणं प्रति उभयोः साम्येन जयप्रार्थना॥ 1 ॥ इन्द्रेण सकारणनिरूपणमर्जुनस्यैव जये प्रार्थिते ब्रह्मेशानाभ्यां तदङ्गीकारे देवैर्हर्षात्पुष्पवर्षणम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-92-0 (59530) सञ्जय उवाच। 8-92-0x (5054) प्रजापतिस्तु तं दृष्ट्वा देवभागं समागतम्। अब्रवीत्तु ततो राजन्पश्यतो वै स्वयंभुवः॥ 8-92-1 (59531) उभावतिरथौ शूरावुभौ दृढपराक्रमौ। उभौ सदृशकर्माणौ वज्रिचक्रायुधौपमौ॥ 8-92-2 (59532) अहो बत महद्युद्धं कर्णार्जुनसमागमे। भविष्यति महाघोरं वृत्रवासवयोरिव॥ 8-92-3 (59533) प्रजापतिरथोक्त्वैवं स्वयम्भुवमचोदयत्। समोऽस्तु विजयः काममुभयोर्नरसिंहयोः॥ 8-92-4 (59534) कर्णार्जुनविवादेन मा नश्येदखिलं जगत्। स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः॥ 8-92-5 (59535) एवमुक्तस्तु भगवाञ्जये ताभ्यामनिश्चिते। इत्यब्रवीन्महाराज महाब्रह्मा प्रजापतिम्॥ 8-92-6 (59536) द्वावप्येतौ हि कृतिनौ द्वावप्यतिबलोत्कटौ। भविष्यत्यनयोर्युद्धं त्रैलोक्यस्य भयावहम्॥ 8-92-7 (59537) ततः प्रजापतिं तत्र सहस्राक्षोऽभ्यचोदयत्। विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः॥ 8-92-8 (59538) मनस्वी बलवाञ्शूरः कृतविद्यस्तपोधनः। विभर्ति च महातेजा धनुर्वेदमशेषतः॥ 8-92-9 (59539) पार्थः सर्वगुणोपेतो देवकार्यमिदं यतः। क्लिश्यन्ते पाण्डवा नित्यं वनवासादिभिर्भृशं॥ 8-92-10 (59540) सम्पन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः। अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन्॥ 8-92-11 (59541) अतिक्रमे च लोकानामभावो नियतो भवेत्। नावस्थानं च पश्यामि क्रुद्धयोः कृष्णयोः क्वचित्॥ 8-92-12 (59542) स्रष्टारौ जगतश्चैतौ ततश्च पुरुषर्षभौ। नरनारायणावेतौ पुराणावृषिसत्तमौ॥ 8-92-13 (59543) अनियम्यौ नियन्तारौ जगतः पुरुषर्षभौ। [नैतयोस्तु समः कश्चिद्दिवि वा मानुषेषु वा॥ 8-92-14 (59544) अनुगम्यास्त्रयो लोकाः सह देवर्षिचारणैः। सर्वदेवगणाश्चापि सर्वभूतानि यानि च। अनयोस्तु प्रभावेन वर्तते निखिलं जगत्॥] 8-92-15 (59545) कामं तु सुकृताँल्लोकानाप्नोतु पुरुषर्षभः। कर्णो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः॥ 8-92-16 (59546) वसूनां समलोकत्वं मरुतां वासमाप्नुयात्। सहितो द्रोणभीष्माभ्यां नाकपृष्ठे महीयताम्॥ 8-92-17 (59547) `क्लेशितो हि वने पार्थो दिर्घकालं पितामह। तस्मादेष जयेद्युद्धे तपसाऽभ्यधिकोऽर्जुनः॥ 8-92-18 (59548) पूर्वं भगवता प्रोक्तः कृष्णयोर्विजयो ध्रुवः। तत्तथास्तु नमस्तेऽस्तु प्रमो ब्रूहि पितामह॥ 8-92-19 (59549) तत्सहस्राक्षवचनं निशम्य भगवान्प्रभुः। नोवाच तज्जयं तुल्यं तयोः कर्णकिरीटिनोः॥ 8-92-20 (59550) तस्मादाशां गतः शक्रस्तूष्णीम्भूते पितामहे। विजयः पाण्डवेयस्य कर्णस्य च वधो भवेत्॥ 8-92-21 (59551) ब्रह्मेशानौ ततो वाक्यमूचतुर्भुवनेश्वरम्। विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः॥ 8-92-22 (59552) मनस्वी जयतां शूरः कृतविद्यस्तपोधनः। बिभर्ति च महातेजा धनुर्वेदमशेषतः॥ 8-92-23 (59553) अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन्। अतिक्रमे च लोकानामभावो नियतो भवेत्॥ 8-92-24 (59554) न च विद्म ह्यवस्थानं क्रुद्धयोः कृष्णयोः क्वचित्। स्रष्टारौ जगतश्चैव सतश्च पुरुषर्षभौ॥ 8-92-25 (59555) कामं तु सुकृताँल्लोकान्प्राप्नोत्वेष परन्तपः। कर्णो वैकर्तनः शूरो विजयस्तु नरे ध्रुवः॥ 8-92-26 (59556) तथोक्ते देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः। आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात्॥ 8-92-27 (59557) श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम्। तत्तथा व्येतु ते रोगः शमाप्नुत विमन्यवः॥ 8-92-28 (59558) इति श्रुत्वेन्द्रवचनं सर्वभूतानि मानिष। विस्मितान्यभवन्राजन्पूजयाञ्चक्रिरे तदा। नोचुस्तदा जयं तुल्यं तयोः पुरुषसिंहयोः॥ 8-92-29 (59559) व्यसृजंश्च सुगन्धीनि पुष्पवर्षाणि हर्षिताः। नानारूपाणि विबुधा देवतूर्याण्यवादयन्॥ 8-92-30 (59560) दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः। विस्मयोत्फुल्लनयना नान्या बुबुधिरे क्रियाः॥ ॥ 8-92-31 (59561) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विनवतितमोऽध्यायः॥ 92 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-92-11 दिष्टमपि दैवविहितमपि॥ 8-92-92 द्विनवतितमोऽध्यायः॥
कर्णपर्व - अध्याय 093

॥ श्रीः ॥

8.93. अध्यायः 093

Mahabharata - Karna Parva - Chapter Topics

शल्यकर्णयोः सँलापः॥ 1 ॥ कृष्णार्जुनयोः सँलापः॥ 2 ॥ अर्जुनेन कृष्णम्प्रति स्वसामर्थ्यकथनम्॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-93-0 (59562) सञ्जय उवाच। 8-93-0x (5055) रथौ तयोः श्वेतहयौ दिव्यौ युक्तौ महास्वनौ। समास्थितौ लोकवीरौ शङ्खान्दध्मुः पृथक्पृथकम्। वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत॥ 8-93-1 (59563) तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा। अन्योन्यस्पांधेनोरुग्रं शक्रशम्बरयोरिव॥ 8-93-2 (59564) तयोर्ध्वजौ हि विमलौ शुशुभाते रथे स्थितौ। राहुकेतू यथाऽऽकाशे उदितौ जगतः क्षये॥ 8-93-3 (59565) कर्णस्याशीविषनिभा रत्नसारमयी दृढ़ा। पुरन्दरधनुः प्रख्या हस्तिकक्ष्या विराजते॥ 8-93-4 (59566) कपिश्रेष्ठस्तु पार्थस्य व्यादितास्य इवान्तकः। दंष्ट्राभिर्भीषयन्भाभिर्दुर्निरीक्ष्यो रविर्यथा॥ 8-93-5 (59567) युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः। कर्णध्वजमुपातिष्ठत्स्वस्थानाद्वेगवान्कपिः॥ 8-93-6 (59568) उत्पत्य च महावेगः कक्ष्यामभ्याहनत्तदा। नखैश्च दशनैश्चैव गरुडः पन्नगं यथा॥ 8-93-7 (59569) सा किङ्किणीकाभरणा कालपाशोपमा तदा। अभ्यद्रवत्सुसंरब्धा हस्तिकक्ष्याऽथ तं कपिम्॥ 8-93-8 (59570) तयोर्घोरतरे युद्धे द्वैरथे द्यूत आहिते। प्राकुर्वतां ध्वजौ युद्धं पूर्वं पूर्वतरं तदा॥ 8-93-9 (59571) हया हयानभ्यहेषन्स्पर्धमानाः परस्परम्। अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः। शल्यश्च पुण्डरीकाक्षं तथैवाभिसमैक्षत॥ 8-93-10 (59572) तत्राजयद्वासुदेवः शल्यं नयनसायकैः। कर्णं चाप्यजयदृष्ट्या कुन्तीपुत्रो धनञ्जयः॥ 8-93-11 (59573) अयाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम्॥ 8-93-12 (59574) यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित्। किं करिष्यसि सङ्घामे शल्य सत्यमथोच्यताम्॥ 8-93-13 (59575) शल्य उवाच। 8-93-14x (5056) यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः। उभावेकरयेनाहं हन्यां माधवपाण्डवौ॥ 8-93-14 (59576) सञ्जय उवाच। 8-93-15x (5057) एवमेव तु गोविन्दमर्जुनः प्रत्यभाषत। तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः॥ 8-93-15 (59577) पतेद्दिवाकरः स्थानाच्छीर्येद्भूमिरनेकधा। शैल्यमग्निरियान्न त्वां हन्यात्कार्णो धनञ्जय॥ 8-93-16 (59578) यदि चैतत्कथञ्चित्स्याल्लोकपर्यसनं भवेत्। हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे॥ 8-93-17 (59579) इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः। अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम्॥ 8-93-18 (59580) मम तावदपर्याप्तौ कर्णशल्यौ जनार्दन। सपताकध्वजं कर्णं सशल्यरथवाजिनम्॥ 8-93-19 (59581) सच्छत्रकवचं चैव सशक्तिशरकार्मुकम्। द्रष्टाऽस्यद्य रणे कृष्ण शरैश्छिन्नमनेकधा॥ 8-93-20 (59582) अद्यैव सरथं साश्वं सशक्तिकवचायुधम्। सञ्चूर्णितमिवारण्ये वृक्षं पश्याद्य दन्तिना॥ 8-93-21 (59583) अद्य राधेयभार्याणां वैधव्यं समुपस्थितम्। ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव॥ 8-93-22 (59584) द्रष्टासि ध्रुवमद्यैव विधवाः कर्णयोषितः। न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम्॥ 8-93-23 (59585) कृष्णां सभागतां दृष्ट्वा मूढेनादीर्घदर्शिना। अस्मांस्तथाऽवहसता क्षिपता च पुनःपुनः॥ 8-93-24 (59586) अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया। वारणेनेव मत्तेन पुष्पितं गजतीरुहम्॥ 8-93-25 (59587) अद्य ता मधुरा वाचः श्रोतासि मधुसूदन। दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते॥ 8-93-26 (59588) अद्याभिमन्युजननीं प्रहृष्टः सांत्वयिष्यसि। कुन्तीं पितृष्वसारं च प्रहृष्टः सन् जनार्दन॥ 8-93-27 (59589) अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव। वाग्भिश्चामृतकल्पाभिर्धर्मराजं च पाण्डवम्॥ ॥ 8-93-28 (59590) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिनवतितमोऽध्यायः॥ 93 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-93-6 क्रुद्धोऽभिलषितं गत्वा इति ख.ट.पाठः॥ 8-93-9 द्यत आह्वये इति ख.ट.पाठः॥ 8-93-93 त्रिनवतितमोऽध्यायः॥
कर्णपर्व - अध्याय 094

॥ श्रीः ॥

8.94. अध्यायः 094

Mahabharata - Karna Parva - Chapter Topics

कर्णाल्लंनयोर्युद्धारम्भः॥ 1 ॥ द्रौणिना दुर्योधनाय हिताख्यानम्॥ 2 ॥ तेन तदनादृत्य रणाय सेनानियोजनम्॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-94-0 (59591) सञ्जय उवाच। 8-94-0x (5058) तद्देतनागासुरसिद्धयक्षै-- र्गन्धर्वरक्षोप्सरसां च सङ्घैः। ब्रह्मर्षिराजर्षिसुपर्णजुष्टं बभौ वियद्विस्मयनीयरूपम्॥ 8-94-1 (59592) नानद्यमानं निनदैर्मनोज्ञै-- र्वादित्रगीतस्तुतिनृत्यहासैः। सर्वेऽन्तरिक्षं ददृशुर्मनुष्याः खस्थाश्च तद्विस्मयनीयरूपम्॥ 8-94-2 (59593) ततः प्रहृष्टाः कुरुपाण्डुयोधा वादित्रशङ्खस्वनसिंहनादैः। विनादयन्तो वसुधां दिशश्च स्वनेन सर्वान्द्विषतो निजघ्नुः॥ 8-94-3 (59594) नराश्वमातङ्गरथैः समाकुलं शरासिशक्त्यृष्टिनिपातदुःसहम्। अभीरुजुष्टं हतदेहसङ्कुलं रणाजिरं लोहितमाबभौ तदा॥ 8-94-4 (59595) [बभूव युद्धं कुरुपाण्डवानां यथा सुराणामसुरैः सहाभवत्।] तथा प्रवृते तुमुले सुदारुणे धनञ्जयश्चाधिरथिश्च सायकैः। दिशश्च सैन्यं च शितैरजिह्मगैः परस्परं प्रावृणुतां सुदंशितौ॥ 8-94-5 (59596) ततस्त्वदीयाश्च परे च सायकैः कृतेऽन्धकारे ददृशुर्न किञ्चन। भयातुरा एकरथौ समाश्रयं-- स्ततोऽभवत्त्वद्भुतमेव सर्वतः॥ 8-94-6 (59597) ततोऽस्त्रमस्त्रेण परस्परं तौ विधूय वाताविव पूर्वपश्चिमौ। घनान्धकारे वितते तमोनुदौ यथोदितौ तद्वदतीव रेजतुः॥ 8-94-7 (59598) न चाभिसर्तव्यमिति प्रचोदिताः परे त्वदीयाश्च तथाऽवतस्थिरे। महारथौ तौ परिवार्य सर्वतः सुरासुराः शम्बरवासवाविव॥ 8-94-8 (59599) मृदङ्गभेरीपणवानकस्वनै-- र्निनादिते वाहनशङ्खनिस्वनैः। तौ सिंहनादैर्बभतुर्नरोत्तमौ पतङ्गचन्द्राविव दुःसहावुभौ॥ 8-94-9 (59600) महाधनुर्मण्डुलमध्यगावुभौ सुवर्चसौ बाणसहस्रदीधिती। दिधक्षमाणौ सचराचरं जग-- द्युगान्तसूर्याविव दुःसहौ रणे॥ 8-94-10 (59601) उभावजेयावहितान्तकावुभा-- वुभौ जिघांसू कृतिनौ परस्परम्। महाहवे वीतभयौ समीयतु-- र्महेन्द्रजम्भाविव कर्णपाण्डवौ॥ 8-94-11 (59602) ततो महास्त्राणि महाधनुर्धरौ विमुञ्चमानाविषुभिर्भयानकैः। नराश्वनागानमितान्निजघ्नतुः परस्परं चापि महारथौ नृप॥ 8-94-12 (59603) ततो विसस्रुः पुनरर्दिता नरा नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः। सनागपत्त्यश्वरथा दिशो द्रुता-- स्तथा यथा सिंहहता वनौकसः॥ 8-94-13 (59604) ततस्तु दुर्योधनभोजसौबलाः कृपो गुरोश्चापि सुतो महाहवे। महारथाः पञ्च धनञ्जयाच्युतौ शरैः शरीरार्तिकरैरताडयन्॥ 8-94-14 (59605) धनूंषि तेषामिषुधीन्ध्वजान्हया-- न्रथांश्च सूतांश्च धनञ्जयः शरैः। समं प्रमध्याशु परान्समन्ततः शरोत्तमैर्द्वादशभिन्न सूतजम्॥ 8-94-15 (59606) अथाभ्यधावंस्त्वरिताः शतं रथाः शतं गजाश्चार्जुनमाततायिनः। शकास्तुषारा यवनाश्च सादिनः सहैव काम्भोजवरैर्जिघांसवः॥ 8-94-16 (59607) वरायुधान्पाणिगतैः शरैः सह क्षुरैर्न्यकृन्तत्प्रपतञ्शिरांसि च। हयांश्च नागांश्च रथांश्च युध्यतो धनञ्जयऋ शत्रुगणान्क्षितौ क्षिणौत्॥ 8-94-17 (59608) ततोऽन्तरिक्षे सुरतूर्यनिःस्वनाः ससाधुवादा हृषितैः समीरिताः। निपेतुरप्युत्तमपुष्पवृष्टयः सुरूपगन्धाः पवनेरिताः शुभाः॥ 8-94-18 (59609) तदद्भुतं देवमनुष्यसाक्षिकं समीक्ष्य भूतानि विसिस्मियुस्तदा। तवात्मजः सूतसुतश्च न व्यथां न विस्मयं जग्मतुरेकनिश्चयौ॥ 8-94-19 (59610) अथाब्रवीद्द्रोणसुतस्तवात्मजं करं करेण प्रतिपीड्य सान्त्वयन्। प्रसीद दुर्योधन शाम्य पाण्डवै-- रलं विरोधेन धिगस्तु विग्रहम्॥ 8-94-20 (59611) हतो गुरुर्ब्रह्मसमो महास्त्रवि-- त्तथैव भीष्मप्रमुखा महारथाः। अहं त्ववध्यो मम चापि मातुलः प्रशाधि राज्यं सह पाण्डवैश्चिरम्॥ 8-94-21 (59612) धनञ्जयः स्यास्यति वारितो मया जनार्दनो नैव विरोधमिच्छति। युधिष्ठिरो भूतहिते रतः सदा वृकोदरस्तद्वशगस्तथा यमौ॥ 8-94-22 (59613) त्वया तु पार्थैश्च कृते च संविदे प्रजाः शिवं प्राप्नुयुरिच्छया तव। व्रजन्तु शेषाः स्वपुराणि पार्थिवा निवृत्तवैराश्च भवन्तु सैनिकाः। न चेद्वचः श्रोष्यसि मे नराधिप ध्रुवं हि तप्तोऽसि हतोऽरिभिर्युधि॥ 8-94-23 (59614) वृद्धं पितरमालोक्य गान्धारीं च यशस्विनीम्। कृपालुर्धर्मराजो हि याचितः शममेष्यति॥ 8-94-24 (59615) यथोचितं च वै राज्यमनुज्ञास्यति ते प्रभुः। विपश्चित्सुमतिर्वीरः सर्वशास्त्रार्थतत्त्ववित्॥ 8-94-25 (59616) वैरं नेष्यति धर्मात्मा स्वजने नास्त्यतिक्रमः। न विग्रहमतिः कृष्णा स्वजने प्रतिनन्दति॥ 8-94-26 (59617) भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ। वासुदेवमते चैव पाण्डवस्य च धीमतः। स्थास्यन्ति पुरुषव्याघ्रास्तयोर्वचनगौरवात्॥ 8-94-27 (59618) रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम्। जीवने यत्नमातिष्ठ जीवन्भद्राणि पश्यति॥ 8-94-28 (59619) राज्यं श्रीश्चैव भद्रं ते जीवमाने च कल्पते। मृतस्य तु खलु कौरव्य नैव राज्यं कुतः सुखम्॥ 8-94-29 (59620) लोकवृत्तमिदं वृत्तं प्रवृत्तं पश्य भारत। शाम्य त्वं पाण्डवैः सार्धं शेषं रक्ष कुलस्य च॥ 8-94-30 (59621) मा भूत्स कालः कौरव्य यदाऽहमहितं वचः। ब्रूयां कामं महाबाहो माऽवमंस्था वचो मम॥ 8-94-31 (59622) धर्मिष्ठमिदमत्यर्थं राज्ञश्चैव कुलस्य च। एतद्धि परमं श्रेयः कुरुवंशस्य वृद्धये। प्रयाहि तं च गान्धारे कुलस्य च सुखावहम्॥ 8-94-32 (59623) पथ्यमायतिसंयुक्तं कर्णोऽप्यर्जुनमाहवे। न जेष्यति नरव्याघ्र इति मे निश्चिता मतिः॥ 8-94-33 (59624) रोचतां ते नरश्रेष्ठ ममैतद्वचनं शुभम्। अतोऽन्यथा हि राजेन्द्र विनाशः सुमहान्भवेत्॥ 8-94-34 (59625) इदं च दृष्टं जगता सह त्वया कृतं यदेकेन किरीटमालिना। यथा न कुर्याद्बलभिन्न चान्तको न च प्रचेता भगवान्न यक्षराट्॥ 8-94-35 (59626) अतोऽपि भूयान्स्वगुणैर्धनञ्जयो न चातिवर्तिष्यति मे वचोऽखिलम्। तवानुयात्रां च सदा करिष्यति प्रसीद राजेन्द्र शमं त्वमाप्नुहि॥ 8-94-36 (59627) ममाभिमानः परमः सदा त्वयि ब्रवीम्यतस्त्वां परमाच्च सौहृदात्। निवारयिष्यामि च कर्णमाहवे महान्हि मेऽस्ति प्रणयोऽथ सूतजे॥ 8-94-37 (59628) वदन्ति मैत्रीं सहजां विचक्षणा-- स्तथैव साम्ना च धनेन चार्जिताम्। प्रतापतश्चोपनतां चतुर्विधां तदस्ति सर्वं तव पाण्डवेषु॥ 8-94-38 (59629) निसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना हितमाप्नुयुः प्रभो। त्वयि प्रसन्ने यदि मित्रतां गते हितं कृतं स्याज्जगतस्त्वयाऽतुलम्॥ 8-94-39 (59630) इतीदमुक्तः सुहृदा वचो हितं विचिन्त्य निःश्वस्य च दुर्मनाऽब्रवीत्। यथा भवानाह सखे तथैव त-- न्ममापि विज्ञापयतो वचः शृणु॥ 8-94-40 (59631) निहत्य दुःशासनमुक्तवान्बहु प्रहस्य शार्दूलवदेष दुर्मतिः। वृकोदरस्तद्वृदये मम स्थितं न तत्परोक्षं भवतः कुतः शमः॥ 8-94-41 (59632) न चापि कर्णं प्रसहेद्रणेऽर्जुनो महागिरिं मेरुमिवोग्रमारुतः। न चाश्वसिष्यन्ति पृथात्मजा मयि प्रसह्य वैरं बहुशो विचिन्त्य॥ 8-94-42 (59633) न चापि कर्णं गुरुपुत्र संयुगा-- दुपारमेत्यर्हसि वीर भाषितुम्। श्रमेण युक्तो महताद्य फल्गुन-- स्तमेष कर्णः प्रसभं हनिष्यति॥ 8-94-43 (59634) `वसुन्धरायाः परिवर्तनं भवे-- द्व्रजेच्च शोषं मकरालयोऽर्णवः। प्लवेयुरप्यद्रिवरा महाम्बुधौ न चार्जुनो जेष्यति कर्णमाहवे॥ 8-94-44 (59635) अपां पृथिव्या नभसो नभस्वतः सुतिग्मदीप्तेश्च हिरण्यरेतसः। अभाव एषामपि सर्वतो भवे-- न्न चार्जुनो जेष्यति कर्णमाहवे'॥ 8-94-45 (59636) तमेवमुक्त्वाऽप्यनुनीय चासकृ-- त्तवात्मजः स्वाननुशास्ति सैनिकान्। द्रुतं घ्नताभिद्रवताहितानिमा-- नहीनसत्वाः किमु जोषमासते॥ ॥ 8-94-46 (59637) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुर्नवतितमोऽध्यायः॥ 94 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-94-6 एकौ मुख्यौ रथौ रथिनौ कर्णार्जुनौ॥ 8-94-7 तमोनुदौ सूर्यबन्द्रौ॥ 8-94-8 नच अभिसर्तव्यं नापयातव्यमिति नियमेन प्रचोदिताः प्रेरिताः॥ 8-94-23 ध्रुवं हि तप्तासि इति क.ख.ड.पाठः॥ 8-94-41 दुःशासनमुक्तवान्वच इति झ.पाठः तत्र वचो दुर्योधनस्य हतस्य शिरः पदा ताडयिष्यामीत्येवंरूपम्॥ 8-94-94 चतुर्नवतितमोऽध्यायः॥
कर्णपर्व - अध्याय 095

॥ श्रीः ॥

8.95. अध्यायः 095

Mahabharata - Karna Parva - Chapter Topics

रणे कर्णस्यार्जुनसाम्यमसहमानेन भीमेन सकोपं पार्थप्रोत्साहनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-95-0 (59638) सञ्जय उवाच। 8-95-0x (5059) तौ शङ्खभेरीनिनदे समृद्धे समीयतुः श्वेतहयौ नराग्र्यौ। वैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मन्त्रिते ते ससुतस्य राजन्॥ 8-95-1 (59639) `आशीविषावग्निमिवोत्सृजन्तौ तथा मुखाभ्यामभिनिः श्वसन्तौ। यशस्विनौ जज्वलतुर्मृधे तदा घृतावसिक्ताविव हव्यवाहौ'॥ 8-95-2 (59640) यथा गजौ हैमवतौ प्रभिन्नौ प्रवृद्धदन्ताविव वासितार्थे। तथा समाजग्मतुरुग्रवीर्यौ धनञ्जयश्चाधिरथिश्च वीरौ॥ 8-95-3 (59641) बलाहकेनेव महाबलाहको यदृच्छया वा गिरिणा यथा गिरिः। तथा धनुर्ज्यातलनेमिनिःस्वनौ समीयतुस्ताविषुवर्षवर्षिणौ॥ 8-95-4 (59642) शरास्त्रशक्त्यृष्टिगदासिसर्पौ रोषानिलोद्वूतमहोर्मिमालौ। यथाऽचलौ द्वौ चलतस्तथा तौ यथाऽर्णवौ चाशु चतुर्युगान्ते'॥ 8-95-5 (59643) प्रवृद्धशृङ्गद्रुमवीरुदोषधी प्रवृद्वनानाविधनिर्झरौघौ। यथाऽचलौ वा चलितौ महाजलै-- स्तथा महास्त्रैरितरेतरं हतः॥ 8-95-6 (59644) स सन्निपातो रथयोर्महानभू-- त्सुरेशवैरोचनयोर्यथा पुरा। शरैर्विनुन्नाश्वनियन्तृदेहयोः सुदुःसहास्त्रैः परिभिन्नदेहयोः॥ 8-95-7 (59645) प्रभूतपद्मोत्पलमत्स्यकच्छपौ महाहदौ पक्षिगणानुनादितौ। सुसन्निकृष्टावनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः॥ 8-95-8 (59646) उभौ महेन्द्रस्य समानविक्रमा-- वुभौ महेन्द्रप्रतिमौ महारथौ। महेन्द्रवज्रप्रतिमैश्च सायकै-- र्महेन्द्रवृत्राविव सम्प्रजघ्नतुः॥ 8-95-9 (59647) सनागपत्त्यश्वरथे उभे बले विचित्रवर्माभरणाम्बरायुधे। चकम्पतुश्चोन्नदतुश्च विस्मया-- द्धरा वियच्चार्जुनकर्णसङ्गमे॥ 8-95-10 (59648) भुजाः सवस्त्राङ्गुलयः समुच्छ्रिताः ससिंहनादैर्हृषितैर्दिदृक्षुभिः। यदाऽर्जुनं मत्त इव द्विपो द्विपं समभ्ययादाधिरथिर्जिघांसया॥ 8-95-11 (59649) उदक्रोशन्सोमकास्तत्र पार्थं त्वरस्व याह्यर्जुन भिन्धि कर्णम्। छिन्ध्यस्य मूर्धानमलं चिरेण श्रद्धां च राज्याद्वृतराष्ट्रसूनोः॥ 8-95-12 (59650) तथाऽस्माकं बहवस्तत्र योधाः कर्णं तथा याहि याहीत्यवोचन्। जह्यर्जुनं कर्ण ततः सुदीनाः पुनर्वनं यान्त्वचिराय पार्थाः॥ 8-95-13 (59651) कर्णोऽथ पूर्वं दशभिः पृषत्कै-- र्गाण्डीवधन्वानमविध्यदाशु। जघान तं चापि ततः किरीटी शरैस्तदाष्टादशभिः सुमुक्तैः॥ 8-95-14 (59652) पुनश्च कर्णस्त्वरितोऽपि पार्थं रथेषुभिस्तं दशभिर्जघान। तं चापि पार्थो दशभिः शिताग्रैः कक्ष्यान्तरे तीक्ष्णमुखैरविध्यत्॥ 8-95-15 (59653) कर्णस्ततो भारत साम्पराये घोरेऽतिवेलं रणसंविमर्दी। जघान पार्थं नवभिः शिताग्रैः कक्ष्यान्ते नागमिव प्रभिन्नम्॥ 8-95-16 (59654) ततोऽपराभ्यां युधि सूतपुत्रो द्वाभ्यां क्षुराभ्यां हरिमाशुकारी। समाजघान त्वरया महात्मा यथा सुरेन्द्रं नमुचिः प्रसह्य॥ 8-95-17 (59655) तं पाण़्डवः पञ्चभिरायसाग्रै-- राकर्णपूर्णैर्निजघान कर्णम्। ते शोणितं तस्य पपुस्तदानीं कालस्य दूता इव पार्थबाणाः॥ 8-95-18 (59656) कर्णोऽपि पार्थं सह वासुदेवं समाचिनोद्भारत वत्सदन्तैः। परस्परं तौ विशिखैः प्रमुक्तै-- स्ततक्षतुः सूतपुत्रोऽर्जुनश्च॥ 8-95-19 (59657) परस्परं छिद्रदिदृक्षया च सुभीममभ्याययतुः प्ररुष्टौ॥ 8-95-20 (59658) ततोऽस्त्रमाग्नेयममित्रतापनं मुमोच कर्णाय सुरेश्वरात्मजः। धनञ्जयात्संयुगमूर्ध्नि निःसृतं तदा प्रजज्वाल तदस्त्रमुत्तमम्॥ 8-95-21 (59659) समीक्ष्य कर्णो ज्वलनास्त्रमुद्यतं स वारुणं तत्प्रशमार्थमाहवे। समुत्सृजत्सूतपुत्रः प्रतापवान् स तेन वह्निं शमयाञ्चकार॥ 8-95-22 (59660) वलाहकास्त्रेण दिशस्तरस्वी चकार सर्वास्तिमिरेण संवृताः। अपावहन्मेघगणांस्ततस्तान् समीरणास्त्रेण समीरितेन॥ 8-95-23 (59661) ततः सोऽस्त्रं दयितं देवराज्ञः प्रादुश्चक्रे वज्रममित्रतापनः। गाण्डीवज्या विमृशंश्चातिमन्यु-- र्धनञ्जयः शत्रुसङ्घप्रमाथी॥ 8-95-24 (59662) नाराचनालीकवराहकर्णा गाण्डीवतः प्रादुरासन्सुतीक्ष्णाः। सहस्रशो वज्रसमानवेगा-- स्ते सर्वतः पर्यधावन्त घोराः॥ 8-95-25 (59663) पार्थेषवः कर्णरथं विलग्ना अधोमुखाः पक्षिगणा दिनान्ते। निशानिकेतार्थमिवाशु वृक्षं जग्राह तान्सूतपुत्रः पृषत्कैः॥ 8-95-26 (59664) क्षिप्तांस्तथा पाण्डवबाणसङ्घा-- नमृष्यमाणस्य धनञ्जयस्य। रणाजिरे त्वन्तकतुल्यकर्मा वैकर्तनो रोषपरीतचेताः॥ 8-95-27 (59665) ज्योतिष्प्रभां यद्वदुपागतः स-- न्दिवाकरो नाशयते क्षणेन। पार्थस्य तान्बाणगणान्समग्रा-- न्व्यनाशयद्युध्यत एव कर्णः॥ 8-95-28 (59666) रोषात्प्रदीप्तः सुमहाविमर्दे भीमस्ततोऽक्रुध्यददीनसत्वः। पाणिं स्वपाणौ स विनिष्पिष्य रोषा-- दमर्षितो वाक्यमुवाच पार्थम्॥ 8-95-29 (59667) त्वां सूतपुत्रो नु कथं किरीटि-- न्रथेषुभिर्हन्ति शिताग्रधारैः। धृत्या हि भूतानि ययाऽजयस्त्वं ग्रासं ददत्खाण्डवे पावकाय॥ 8-95-30 (59668) धृत्या तया सूतपुत्रं जहि त्व-- महं वैनं गदया पोथयिष्ये। समेत्य पार्थं सुनृशंसवादी जीवन्नायं यास्यति कालपक्वः॥ ॥ 8-95-31 (59669) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे म़ञ्जनवतितमोऽध्यायः॥ 95 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-95-6 हतः जघ्नतुरित्यर्थः॥ 8-95-7 सुदुःसहान्यैः परिशोणितोदकैः इति क.ट.पाठः॥ 8-95-31 मा जीवनं यास्यति सूतपुत्र इति क.पाठः॥ 8-95-95 पञ्चनवतितमोऽध्यायः॥
कर्णपर्व - अध्याय 096

॥ श्रीः ॥

8.96. अध्यायः 096

Mahabharata - Karna Parva - Chapter Topics

कर्णे युधि वर्धमाने कृष्णेनार्जुनप्रोत्साहनम्॥ 1 ॥ ततोऽर्जुनेन स्वसामर्थ्यप्रकाशनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text

8-96-0 (59670) सञ्जय उवाच। 8-96-0x (5060) अथाब्रवीच्चक्रधरोऽपि पार्थं दृष्ट्वा रथेषून्प्रतिहन्यमानान्। अमूमुषत्पश्यत एव तेऽद्य ह्यस्त्राणि कर्णोऽस्त्रगणैः किरीटिन्॥ 8-96-1 (59671) स पार्थ किं मुह्यसि वेत्सि चैव ता-- न्दृष्ट्वा समेतान्नदतः कुरूस्त्वम्। कर्णं पुरस्कृत्य विदुर्हि सर्वे तवास्त्रमस्त्रैर्विनिहन्यमानम्॥ 8-96-2 (59672) यया धृत्या तामसं जघ्निवांस्त्वं तत्संयुगे तामसांश्चातिघोरान्। दम्भोद्भवं चासुरमाहवे त्वं दर्पोत्सिक्तं वीर्यवन्तं किरीटिन्। तया धृत्या त्वं जहि कर्णमद्य पार्थाहवे त्यक्तुमस्त्रं समर्थः॥ 8-96-3 (59673) अनेन चाशु क्षुरनेमिनाद्य मया विसृष्टेन सुदर्शनेन। छिन्ध्यस्य मूर्धानमरेः प्रसह्य वज्रेण शक्रो नमुचेरिवारेः॥ 8-96-4 (59674) किरातरूपी भगवान्यया च त्वया महात्मा परितोषितोऽभूत्। स तां पुनर्वीर धृतिं गृहीत्वा सहानुबन्धं जहि सूतपुत्रम्॥ 8-96-5 (59675) ततो महीं सागरमेखलां त्वं सपत्तगा ग्रामवतीं समृद्धाम्। प्रयच्छ राज्ञे निहतारिसङ्घां यशश्च पार्थातुलमाप्नुहि त्वम्॥ 8-96-6 (59676) कर्णं पुरस्कृत्य नदन्तिं सर्वे तवास्त्रमग्र्यं प्रतिहत्य वीराः। कुरु प्रयत्नं भरतप्रवीर द्रवन्त्यमी सृञ्जयाः सोमकाश्च। दृष्ट्वाथ कर्णं समरे प्रहृष्टं त्वां चापि दृष्ट्वा परिहीयमानम्॥ 8-96-7 (59677) सञ्जय उवाच। 8-96-8x (5061) सञ्चोदितो भीमजनार्दनाभ्यां स्मृत्वा तदात्मानमवेत्य सर्वम्। इहात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच॥ 8-96-8 (59678) प्रादुष्करोभ्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः। तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा शिवो ब्रह्मविदश्च सर्वे॥ 8-96-9 (59679) इति स्मोक्त्वा पाण्डवः सव्यसाची नमस्कृत्वा ब्रह्मणे सोऽमितात्मा। अनुत्तमं ब्राह्ममसह्यमस्त्रं प्रादुश्चक्रे मनसा यद्विधेयम्॥ 8-96-10 (59680) ततो दिशश्च प्रदिशश्च सर्वाः समावृणोत्सायकैर्भूरितेजाः। गाण्डीवमुक्तैर्भुजगैरिवोग्रै-- र्दिवाकरांशुप्रतिमैर्ज्वलद्भिः॥ 8-96-11 (59681) सृष्टास्तु बाणा भरतर्षभेण शतं शतं भीममुखाः सुतीक्ष्णाः। प्राच्छादयन्कर्णरथं क्षणेन युगान्तकालार्ककरप्रकाशाः॥ 8-96-12 (59682) वैकर्तनेनाशु तदाजिमध्ये सहस्रशो बाणगणा विसृष्टाः। ते चाक्षयाः पाण्डवमभ्युपेयुः पर्जन्यसृष्टा इव वारिधाराः॥ 8-96-13 (59683) ततः स कृष्णं च किरीटिनं च वृकोदरं चाप्रतिमप्रभावः। त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वनेन॥ 8-96-14 (59684) ततः स बाणाभिहतः किरीटी भीमं तथा प्रेक्ष्य जनार्दनं च। अमृष्यमाणः पुनरेव पार्थः शरान्दशाष्टौ सममुद्ववर्ष॥ 8-96-15 (59685) स केतुमेकेन शरेण विद्ध्वा शल्यं चतुर्भिस्त्रिभिरेव कर्णम्। ततः सुमुक्तैर्दशभिर्जघान सेनापतिं काञ्चनवर्मनद्वम्॥ 8-96-16 (59686) स राजपुत्रो विशिरा विबाहु-- र्विवाजिसूतो विधनुर्विकेतुः। अथो रथाग्रादपतत्प्ररुग्णः परश्वथैः साल इवावकृत्तः॥ 8-96-17 (59687) पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्धा। चतुश्शतं द्विरदानां निपात्य रथाञ्जघानाष्टरथान्किरीटि। सहस्रमश्वांश्च पुनश्च सादी-- नष्टौ सहस्राणि च पत्तिवीरान्॥ 8-96-18 (59688) दृष्ट्वा तु मुख्यावतिविध्यमानौ वरेषुभिः शूरवरावरिघ्नौ। कर्णं च पार्थं च नियम्य वाहा- न्सर्वे वरिष्ठाश्च ततोऽवतस्थुः॥ 8-96-19 (59689) प्रच्छादयामास ततः पृषत्कैः सघोषमाच्छिद्य च गाण्डिवज्याम्। अस्मिन्क्षणे फल्गुनं सूतपुत्रः समाचिनोत्क्षुद्रकाणां शतेन॥ 8-96-20 (59690) निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै-- स्तैलप्रघौतैः खगपत्रवाजैः। षष्ट्या बिभेदाशु च वासुदेवं तदन्तरे प्रात्वरन्सोमकाश्च॥ 8-96-21 (59691) ततो नवज्यां सुदृढां किरीटि स्वबाहुविक्षेपसहां प्रगृह्य। समादधे गाण्डिवे क्षिप्रकारी निमेषमात्रेण महाधनुष्मान्॥ 8-96-22 (59692) ज्याछेदनं ज्याविधानं च तस्य नैवावबुध्यत्सूतपुत्रो लघुत्वात्। पार्थस्य सङ्ख्ये द्विषतां निहन्तु-- स्तदद्भुतं तत्र बभूव राजन्॥ 8-96-23 (59693) पार्थोऽपि तां ज्यामवधाय तूर्णं शरासनज्यामाधिरथेर्विहत्य। सुसंरब्धः कर्णशरैः क्षताङ्गो रणे योधांस्तावकान्प्रत्यगृह्णात्॥ 8-96-24 (59694) नैवापत्पक्षिगणोऽन्तरिक्षे पार्थेन चास्त्रेण कृतेऽन्धकारे॥ 8-96-25 (59695) शल्यं तु पार्थो दशभिर्निमेषा-- द्भृशं तनुत्रे प्रहसन्नविध्यत्। ततः कर्णं द्वादशभिः पृषत्कै-- र्विद्ध्वा पुनः सप्तभिरप्यविध्यत्॥ 8-96-26 (59696) स पार्थबाणासनवेगनुन्नै-- र्दृढाहतः पत्रिभिरुग्रवेगैः। विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवान्तकाले॥ 8-96-27 (59697) ततस्त्रिभिस्तं त्रिदशाधिपोपमं शरैर्बिभेदाधिरथिर्धनञ्जयम्। शरांश्च पञ्च ज्वलनानिवोरगा-- न्प्रवेशयामास जिघांसुरच्युते॥ 8-96-28 (59698) सुवर्णचित्रं पुरुषोत्तमस्य वर्माथ भित्त्वाभ्यपतन्सुपुङ्खाः। वेगेन गां ते विविशुश्च राज-- न्स्नात्वा कर्णाऽभिमुखाः प्रतीयुः॥ 8-96-29 (59699) तान्पञ्चभल्लैर्दशभिः सुमुक्तै-- स्त्रिधात्रिधैकैकमथोच्चकर्त। धनञ्जयस्ते न्यपतन्पृथिव्यां यथाऽहयस्तार्क्ष्यमुखेन कृत्ताः॥ 8-96-30 (59700) ततः प्रजज्वाल किरीटमाली क्रोधेन कक्षं प्रदहन्निवाग्निः। स कर्णमाकर्णविकृष्टसृष्टैः शरैः शरीरान्तकरैर्ज्वलद्भिः। मर्मस्वविध्यत्स चचाल दुःखा-- द्धैर्यात्तुं तस्थावतिमात्रधैर्यः॥ 8-96-31 (59701) प्रादुश्चकाराथ शरान्महात्मा देहं विचिन्वन्निव सूतजस्य। शरास्तु ते काञ्चनचित्रपुङ्खाः सम्पेतुरुर्व्यां शतशो महान्तः॥ 8-96-32 (59702) ततः शरौघैः प्रदिशो दिशश्च रविप्रभाः कर्णरथश्च राजन्। अदृश्य आसीत्कुपिते धनञ्जये तुषारनीहारवृतो गिरिर्यथा॥ 8-96-33 (59703) सचक्ररक्षा अपि पृष्ठगोपाः कर्णस्य ये चापि पुरःसराश्च। भीता द्रवन्ति स्म निहन्यमाना महेषुभिः पार्थकरप्रणुन्नैः॥ 8-96-34 (59704) ततोऽर्जुनो वै भरतप्रवीरो महानुभावः समरे निहन्ता। सुयोधनेनानुमतान्विनिघ्न-- न्समुच्छ्रितान्सरथान्सारभूतान्॥ 8-96-35 (59705) गाण्डीवधन्वा द्विगुणं सहस्रं कुरुप्रवीरानृषभः कुरूणाम्। क्षणेन सर्वान्सरथान्ससूता-- न्निनाय राजन्क्षयमेकवीरः॥ 8-96-36 (59706) अथो पलायन्त विहाय कर्णं तवात्मजा ये कुरवश्च शिष्टाः। एतानवाकीर्य शरक्षतांश्च विलप्यमानांस्तनयान्विमृद्गन्॥ 8-96-37 (59707) सर्वे प्रणेशुः कुरवो विभग्नाः पार्थेषुभिः सम्परितप्यमानाः। सुयोधनेनाथ पुनर्वरिष्ठाः प्रचोदिताः कर्णरथानुयाने॥ 8-96-38 (59708) भोः क्षत्रियाः शूरतमास्तु सर्वे क्षत्रे च धर्मे निरताः स्थ यूयम्। न युक्तरूपं भवतां समीपा-- त्पलायनं कर्णमतिप्रहाय॥ 8-96-39 (59709) तवात्मजेनापि तथोच्यमाना नैवावतिष्ठन्त भयाद्विवर्णाः। क्षणेन नष्टाः प्रदिशो दिशश्च सर्वे ततः प्रेक्ष्य दिशो विशून्याः॥ 8-96-40 (59710) भयावदीर्णः कुरुभिर्विहीनः पार्थेषुभिः सम्परितप्यमानः। न विव्यधे भारत तत्र कर्णः प्रतीपमेवार्जुनमभ्यधावत्॥ ॥ 8-96-41 (59711) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षण्णवतितमोऽध्यायः॥ 96 ॥
कर्णपर्व - अध्याय 097

॥ श्रीः ॥

8.97. अध्यायः 097

Mahabharata - Karna Parva - Chapter Topics

रणे हीयमानेन कर्णेनार्जुनस्य शिरो लक्षीकृत्य नागास्त्रप्रयोगः॥ 1 ॥ कृष्णेन पार्थरथे पादनिपीडनेन धरण्यां किञ्चिन्निमज्जिते तदस्त्रेण शिरोवर्जं पार्थकिरीटमात्रापहारः॥ 2 ॥ कर्णस्य रथचक्रे विप्रशापात् धरण्यां निमग्ने तदुद्दिधीर्षया तेनपार्थंप्रति मुहूर्तमयुद्धप्रार्थनम्॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-97-0 (59712) सञ्जय उवाच। 8-97-0x (5062) ततोऽपयाताः शरपातमात्र-- मवस्थिता वै कुरवो नरेन्द्र। विद्युत्प्रकाशं ददृशुः समन्ता-- द्वनञ्जयास्त्रं समुदीर्यमाणम्॥ 8-97-1 (59713) ततोऽग्रसत्सूतपुत्रोऽर्जुनस्य वियद्गतं घोरतरं शरैस्तत्। क्रुद्धेन पार्थेन शरं विसृष्टं वधाय कर्णस्य महाविमर्दे॥ 8-97-2 (59714) [उदीर्यमाणं स्म कुरून्दहन्तं सुवर्णपुङ्खैर्विशिखैर्ममर्द। कर्णस्त्वमोघेष्वसनं दृढज्यं विस्फारयित्वा विसृजञ्छरोघान्॥] 8-97-3 (59715) रामादुपात्तेन महामहिम्ना ह्याथर्वणेनारिविनाशनेन। तदर्जुनास्त्रं व्यधमद्दहन्तं पार्थं च बाणैर्निशितैरविध्यत्॥ 8-97-4 (59716) ततो विमर्दः सुमहान्बभूव तत्रार्जुनस्याधिरथेश्च राजन्। अन्योन्यमासादयतोः पृषत्कै-- र्विषाणघातैर्द्विपयोरिवाजौ॥ 8-97-5 (59717) ततोऽस्त्रसङ्घातसमावृतं तदा बभूव राजंस्तुमुलं रणाजिरम्। यत्कर्णपार्थौ शरवृष्टिसङ्घै-- र्निरन्तरं चक्रतुरम्बरं तदा॥ 8-97-6 (59718) [ततो जालं बाणमयं महान्तं सर्वेऽद्राक्षुः कुरवः सोमकाश्च। नान्यं च भूतं ददृशुस्तदा ते बाणान्धकारे तुमुलेऽथ किञ्चित्॥ 8-97-7 (59719) तौ सन्दधानावनिशं च राजन्। समस्यन्तौ चापि शराननेकान्। सन्दर्शयेतां युधि मार्गान्विचित्रा-- न्धनुर्धरौ तौ विविधैः कृतास्त्रैः॥ 8-97-8 (59720) तयोरेवं युध्यतोराजिमध्ये सूतात्मजोऽभूदधिकः कदाचित्। पार्थः कदाचित्त्वधिकः किरीटि वीर्यास्त्रमायाबलपौरुषेण॥ 8-97-9 (59721) दृष्ट्वा तयोस्तं युधि सम्प्रहारं परस्परस्यान्तरमीक्षमाणयोः। घोरं तयोर्दुर्विषहं रणेऽन्यै-- र्योधाः सर्वे विस्मयमभ्यगच्छन्॥ 8-97-10 (59722) ततो भूतान्यन्तरिक्षस्थितानि तौ कर्णपार्थौ प्रशशंसुर्नरेन्द्र। भोः कर्ण साध्वर्जुन साधु चेति वियत्सु वाणी श्रूयते सर्वतोपि॥ 8-97-11 (59723) तस्मिन्विमर्दे रथवाजिनागै-- स्तदाऽभिघातैर्दलिते हि भूतले। ततस्तु पातालतले शयानो नागोऽश्वसेनः कृतवैरोऽर्जुनेन॥ 8-97-12 (59724) राजंस्तदा खाण्डवदाहमुक्तो विवेश कोपाद्वसुधातले यः। अथोत्पपातोर्ध्वगतिर्जवेन सन्दृश्य कर्णार्जुनयोर्विमर्दम्॥ 8-97-13 (59725) अयं हि कालोस्य दुरात्मनो वै पार्थस्य वैरप्रतियातनाय। सञ्चिन्त्य तूर्णं प्रविवेश चैव कर्णस्य राजन्शररूपधारी॥ 8-97-14 (59726) ततोस्त्रसङ्घातसमाकुलं तदा बभूव जन्यं विततांशुजालम्। तत्कर्णपार्थो शरसङ्घवृष्टिभि-- र्निरन्तरं चक्रतुरम्बरं तदा॥ 8-97-15 (59727) तद्बाणजालैकमयं महान्तं सर्वेऽत्रसन्कुरवः सोमकाश्च। नान्यत्किञ्चिद्ददृशुः सम्पतद्वै बाणान्धकारे तुमुलेऽतिमात्रम्॥ 8-97-16 (59728) ततस्तौ पुरुषव्याघ्रौ सर्वलोकधनुर्धरौ। त्यक्तप्राणौ रणे वीरो युद्धश्रममुपागतौ॥ 8-97-17 (59729) समुत्क्षेपैर्वीक्षमाणौ सिक्तौ चन्दनवारिणा। सवालव्यजनैर्दिव्यैर्दिविस्थैरप्सरोगणैः। शक्रसूर्यकराब्जाभ्यां प्रमार्जितमुखावुभौ॥ 8-97-18 (59730) कर्णोऽथ पार्थं न विशेषयद्यदा भृशं च पार्थेन शराभितप्तः। ततस्तु वीरः शरविक्षताङ्गो दध्रे मनो ह्येकशयस्य तस्य॥] 8-97-19 (59731) ततो रिपुघ्नं समधत्त कर्णः सुसञ्चितं सर्पमुखं ज्वलन्तम्। रौद्रं शरं सन्नतमुग्रधौतं पार्थार्थमित्येव चिराभिगुप्तम्॥ 8-97-20 (59732) सदार्चितं चन्दनचूर्णशायितं सुवर्णतूणीरशयं महार्चिषम्। आकर्णपूर्णं विचकर्ष कर्णो विमोक्तुकामः शरमुग्रवेगम्॥ 8-97-21 (59733) प्रदीप्तमैरावतवंशसम्भवं शिरो जिहीर्षुर्युधि सव्यसाचिनः। ततः प्रजज्वाल दिशो नभश्च उल्काश्च घोराः शतशः प्रपेतुः॥ 8-97-22 (59734) तस्मिंस्तु नागे धनुषि प्रयुक्ते हाहाकृता लोकपालाः सशक्राः॥ 8-97-23 (59735) स सूतपुत्रस्तमपाङ्गदेशे अवाङ्मुखं सन्धयति स्म रोषात्। न तं स्म जानाति महानुभाव-- मपाङ्गदेशेऽभिनिविष्टमाजौ॥ 8-97-24 (59736) [न चापि तं बुबुधे सूतपुत्रो बाणे प्रविष्टं योगबलेन नागम्। दशशतनयनोऽहिं दृश्य बाणे प्रविष्टं निहत इति सुतो मे स्रस्तगात्रो बभूव। जलजकुसुमयोनिः श्रेष्ठभावो जितात्मा त्रिदशपतिमवोचन्मा व्यथिष्ठा जये श्रीः॥ 8-97-25 (59737) ततोऽब्रवीन्मद्रराजो महात्मा दृष्ट्वा कर्णं प्रहितेषु तमुग्रम्। ग्रीवायतः कर्ण न संहितोऽयं समीक्ष्य सन्धत्स्व शरं परघ्नम्॥ 8-97-26 (59738) अथाब्रवीत्क्रोधसंरक्तनेत्रो मद्राधिपं सूतपुत्रो मनस्वी। न सन्धत्ते द्विः शरं शल्य कर्णो न मादृशा जिह्मयुद्वा भवन्ति॥ 8-97-27 (59739) इतीदमुक्त्वा विससर्ज तं शरं प्रयत्नतो वर्षगणाभिपूजितम्। हतोसि रे फल्गुन इत्यधिक्षिप-- न्नुवाच चोच्चैर्निरमूर्जितां वृषः॥ 8-97-28 (59740) स सायकः कर्णभुजप्रसृष्टो हुताशनार्कप्रतिमः सुघोरः। गुणच्युतः कर्णधनुःप्रमुक्तो वियद्गतः प्राज्वलदन्तरिक्षे॥ 8-97-29 (59741) तमापतन्तं ज्वलितं निरीक्ष्य वियद्गतं वृष्णिकुलप्रवीरः। रथस्य चक्रं सहसा निपीड्य पञ्चाङ्गुलं मज्जयति स्म वीरः॥ 8-97-30 (59742) ततोऽन्तरिक्षे सुमहान्निनादः सम्पूजनार्थं मधुसूदनस्य। [दिव्याश्च वाचः सहसा बभूवु-- र्दिव्यानि पुष्पाण्यथ सिंहनादाः। तस्मिंस्तथा वै धरणीं निमग्ने रथे प्रयत्नान्मधुसूदनस्य॥] 8-97-31 (59743) ततः किरीटं बहुरत्नचित्रं जघान नागोऽर्जुनमूर्धतो बलात्। गिरेः सुजाताङ्कुरपुष्पितद्रुमं महेन्द्रवज्रं शिखरं यथोत्तमम्॥ 8-97-32 (59744) ततः किरीटं तपनीयचित्रं पार्थोत्तमाङ्गादहरत्तरस्वी। तद्धेमजालावनतं सुघोरं सम्प्रज्वलत्तन्निपपात भूमौ॥ 8-97-33 (59745) ततोऽर्जुनस्योत्तमगात्रभूषणं सुवर्णमुक्तामणिवज्रचित्रितम्। धरावियद्द्योसलिलेषु विश्रुतं बलं निसर्गोत्तममन्युधिः सदा॥ 8-97-34 (59746) शरेण मूर्ध्नि प्रजहार सूतजो दिवाकरेन्दुज्वलनग्रहत्विषम्। सुवर्णमुक्तामणिवज्रभूषणं पुरन्दरार्थं तपसा प्रयत्नतः॥ 8-97-35 (59747) स्वयं कृतं यद्विधिना स्वयम्भुवा महार्हरूपं द्विषतां भयङ्करम्। निजघ्नते देवरिपून्सुरेश्वरः स्वयं ददौ यद्धि मुदाऽर्जुनाय॥ 8-97-36 (59748) हरिप्रचेतोहरिवित्तगोप्तृभिः पिनाकपाशाशनिदण्डधारिभिः। सुरोत्तमैरप्यविषह्यमर्दितुं प्रसह्य नागेन जहार तद्वृषा॥ 8-97-37 (59749) तदुत्तमेषून्मथितं विषाहिना प्रदीप्तमर्चिष्मदतीव सुन्दरम्। पपात पार्थस्य किरीटमुत्तमं दिवाकरोस्तादिव पर्वताज्ज्वलन्॥ 8-97-38 (59750) महीवियद्द्योसलिलानि वायुना प्रसह्य रुग्णानि विघूर्णितानि वा। इतीव शब्दं भुवनेषु तत्तथा जना व्यवस्यन्ति दिशश्च विह्वलाः॥ 8-97-39 (59751) विना किरीटं* शुशुभे स पार्थः श्यामो युवा शैल त्रिशृङ्गैः॥ 8-97-40 (59752) ततः समुद्ग्रथ्य सितेन वाससा स्वमूर्धजनाव्यथितस्तदाऽर्जुनः। बभौ सुसम्पूर्णमरीचिनेन्दुना शिरोगतेनोदयपर्वतो यथा॥ 8-97-41 (59753) स चापि राधेयभुजप्रमुक्तो हुताशनार्कप्रतिमद्युतिर्महान्। महोरगः कृतवैरोऽर्जुनेन किरीटमाहृत्य समुत्पपात॥ 8-97-42 (59754) तमुत्पतन्तं द्विपदां वरिष्ठो दृष्ट्वा वचः पार्थमुवाच कृष्णः। महोरगं पाण्डव पश्यपश्य प्रयोजितं त्वन्निधनार्थमुग्रम्॥ 8-97-43 (59755) स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा हरिमुग्रवाचा। उवाच को न्वेष ममाद्य नागः क्षयाय नागाद्गरुडस्य वक्रम्॥ 8-97-44 (59756) कृष्ण उवाच। 8-97-45x (5063) योऽसौ त्वया खाण्डवे चित्रभानुं सन्तर्पयाणेन धनुर्धरेण। वियद्गतो जननीगुप्तदेहो मत्वैकरूपं निहताऽस्य माता॥ 8-97-45 (59757) स एष तद्वैरमनुस्मरन्वै त्वां प्रार्थयत्यात्मवधाय नूनम्। नभश्चुतां प्रज्वलितामिवोल्कां पश्यैनमायान्तममित्रसाह॥ 8-97-46 (59758) सञ्जय उवाच। 8-97-47x (5064) ततः स जिष्णुः परिवृत्य रोषा-- च्चिच्छेद षड्भिर्निशितैः सुधारैः। नागं वियत्तिर्यगिवोत्पततं स च्छिन्नगात्रो निपपात भूमौ॥ 8-97-47 (59759) [गते च तस्मिन्भुजगे किरीटिना स्वयं विभुः पार्थिव भूतलादथ। समुज्जहाराशु पुनः पतन्तं रथं भुजाभ्यां पुरुषोत्तमस्ततः॥] 8-97-48 (59760) तस्मिन्मुहूर्ते दशभिः पृषत्कैः सिलाशितैर्बर्हिणबर्हवाजितैः। विव्याध कर्णः पुरुषप्रवीरो धनञ्जयं तिर्यगवेक्षमाणः॥ 8-97-49 (59761) ततोऽर्जुनो द्वादशभिः सुमुक्तै-- र्वराहकर्णैर्जिशितैः समर्प्य। नाराचमाशीविषतुल्यवेग-- माकर्णपूर्णायतमुत्ससर्ज॥ 8-97-50 (59762) स चित्रवर्मेषुवरो विदार्य प्राणान्निरस्यन्निव साधुमुक्तः। कर्णस्य पीत्वा रुधिरं विवेश वसुन्धरां शोणितदिग्धवाजः॥ 8-97-51 (59763) ततो वृषो बाणनिपातकोपितो महोरगो दण्डविघट्टितो यथा। तदाऽऽशुकारी व्यसृजच्छरोत्तमान् महाविषः सर्प इवोत्तमं विषम्॥ 8-97-52 (59764) जनार्दनं द्वादशभिः पराभिन-- न्नवैर्नवत्या च शरैस्तथाऽर्जुनम्। शरेण घोरेण पुनश्च पाण्डवं विदार्य कर्णो व्यनदज्जहास च॥ 8-97-53 (59765) तमस्य हर्षं ममृषे न पाण्डवो बिभेद मर्माणि ततोऽस्य मर्मवित्। परःशतैः पत्रिभिरिन्द्रविक्रम-- स्तथा यथेन्द्रो बलमोजसा रणे॥ 8-97-54 (59766) ततः शराणां नवतिं तदाऽर्जुनः ससर्ज कर्णेऽन्तकदण्डसन्निभाम्। तैः पत्रिभिर्विद्धतनुः स विव्यथे तथा यथा वज्रविदारितोऽचलः॥ 8-97-55 (59767) मणिप्रवेकोत्तमवज्रहाटकै-- रलङ्कृतं चास्य वराङ्गभूषणम्। प्रविद्धमुर्व्यां निपपात पत्रिभि-- र्धनञ्जयेनोत्तमकुण्डलेपि च॥ 8-97-56 (59768) महाधनं शिल्पिवरैः प्रयत्नतः कृतं यदस्योत्तमवर्म भास्वरम्। सुदीर्घकालेन ततोऽस्य पाण्डवः क्षणेन बाणैर्बहुधा व्यशातयत्॥ 8-97-57 (59769) `तस्येषुभिः खण्डितकुण्डलोऽन्तः परिक्षतश्चाभ्यधिकं तदानीम्। स लोहिताङ्गश्रवणश्चकाशे सलोहिताङ्गश्रवणो यथा दिवि'॥ 8-97-58 (59770) स तं विवर्माणमथोत्तमेषुभिः शितैश्चतुर्भिः कुपितः पराभिनत्। स विव्यथेऽत्यर्थमरिप्रताडितो यथाऽऽतुरः पित्तकफानिलज्वरैः॥ 8-97-59 (59771) महाधनुर्मण्डलनिःसृतैः शितैः क्रियाप्रयत्नप्रहितैर्बलेन च। ततक्ष कर्णं बहुभिः शरोत्तमै-- र्बिभेद मर्मस्वपि चार्जुनस्त्वरन्॥ 8-97-60 (59772) दृढाहतः पत्रिभिरुग्रवेगैः पार्थेन कर्णो विविधैः शिताग्रैः। बभौ गिरिर्गैरिकधातुरक्तः क्षरन्प्रपातैरिव रक्तमम्भः॥ 8-97-61 (59773) [ततोऽर्जुनः कर्णमवक्रगैर्नवैः सुवर्णपुङ्खैः सुदृढैरयस्मयैः। यमाग्निदण्डप्रतिमैः स्तनान्तरे पराभिनत्क्रौञ्चमिवाद्रिमग्निजः॥ 8-97-62 (59774) ततः शरावापमपास्य सूतजो धनुश्च तच्छक्रशरासनोपमम्। ततो रथस्थः स मुमोह च स्खलन्। प्रशीर्णमुष्टिः सुभृशाहतः प्रभो॥ 8-97-63 (59775) न चार्जुनस्तं व्यसने तदेषिवा-- न्निहन्तुमार्यः पुरुषव्रते स्थितः। ततस्तमिन्द्रावरजः सुसम्भ्रमा-- दुवाच किं पाण़्डव हे प्रमाद्यसे॥ 8-97-64 (59776) नैवाहितानां सततं विपश्चितः क्षणं प्रतीक्षन्त्यपि दुर्बलीयसाम्। विशेषतोऽरीन्व्यसनेषु पण्डितो निहत्य धर्मं च यशश्च विन्दते॥ 8-97-65 (59777) तदेकवीरं तव चाहितं सदा त्वरस्व कर्णं सहसाऽभिमर्दितुम्। पुरा समर्थः समुपैति सूतजो भिन्धि त्वमेनं नमुचिं यथा हरिः॥ 8-97-66 (59778) ततस्तदेवेत्यभिपूज्य सत्वरं जनार्दनं कर्णमविध्यदर्जुनः। शरोत्तमैः सर्वकुरूत्तमस्त्वरं-- स्तथा यथा शम्बरहा पुरा बलिम्॥] 8-97-67 (59779) साश्वं तु कर्णं सरथं किरीटि समाचिनोद्भारत वत्सदन्तैः। प्रच्छादयामास दिशश्च बाणैः सर्वप्रयत्नात्तपनीयपुङ्खैः॥ 8-97-68 (59780) सवत्सदन्तैः पृथुपीनवक्षाः समाचितः सोऽधिरथिर्विभाति। सुपुष्पिताशोकपलाशशाल्मलि-- र्यथाऽचलश्चन्दनकाननायुतः॥ 8-97-69 (59781) शरैः शरीरे बहुभिः समर्पितै-- र्विभाति कर्णः समरे विशाम्पते। महीरुहैराचितसानुकन्दरो यथा गिरीन्द्रः स्फुटकर्णिकारवान्॥ 8-97-70 (59782) स वाणसङ्घान्बहुधा व्यवासृजन् विभाति कर्णः शरजालरश्मिवान्। स लोहितो रक्तगभस्तिमण्डलो दिवाकरोऽस्ताभिमुखो यथा तथा॥ 8-97-71 (59783) बाह्वन्तरादाधिरथेर्विमुक्तान् बाणान्महाहीनिव दीप्यमानान्। व्यध्वंसयन्नर्जुनबाहुमुक्ताः शराः समासाद्य दिशः शिताग्राः॥ 8-97-72 (59784) [ततः स कर्णः समवाप्य धैर्यं बाणान्विमुञ्चन्कुपिताहिकल्पान्। विव्याध पार्थं दशभिः पृषत्कैः कृष्णं च ष़ड्भिः कुपिताहिकल्पैः॥ 8-97-73 (59785) ततः किरीटि भृशमुग्रनिःस्वनं महाशरं सर्पविषानलोपमम्। अयस्मायं रौद्रमहास्त्रसम्भृतं महाहवे क्षेप्तुमना महामतिः॥] 8-97-74 (59786) कालो ह्यदृश्यो नृप विप्रशापा-- न्निदर्शयन्कर्णवधं ब्रुवाणः। भूमिस्तु चक्रं ग्रसतीत्यवोच-- त्कर्णस्य तस्मिन्वधकाल आगते॥ 8-97-75 (59787) न चास्य घोरं प्रतिभाति चास्त्रं यद्भार्गवोऽस्मै प्रददौ महात्मा। चक्रं च वामं ग्रसते भूमिरस्य प्राप्ते तस्मिन्वधकाले नृवीर॥ 8-97-76 (59788) ततो रथो घूर्णितवान्नरेन्द्र शापात्तदा ब्राह्मणसत्तमस्य। प्राप्तं वधं शंसति चाप्यथास्त्रं प्रणश्यमानं द्विजमुख्यशापात्॥ 8-97-77 (59789) [ततश्चक्रमपतत्तस्य भूमौ स विह्वलः समरे सूतपुत्रः। सवेदिकश्चैत्य इवातिमात्रः सुपुष्पितो भूमितले निमग्नः]॥ 8-97-78 (59790) मग्ने रथे ब्राह्मणशापमूढो ह्यस्त्रं च तं मोघमिषु च सर्पम्। अमृष्यमाणो व्यसनानि तानि हस्तौ विधुन्वन्विजगर्ह धर्मम्॥ 8-97-79 (59791) धर्मप्रधानं किल पाति धर्म इत्यब्रुवन्धर्मविदः सदैव। वयं च धर्मे प्रयताम नित्यं चर्तुं यथाशक्ति यथाश्रुतं च। स चापि निघ्नाति न पाति भक्तान् मन्ये न नित्यं परिपाति धर्मः॥ 8-97-80 (59792) एवं ब्रुवन्प्रस्खलिताश्वसूतो विचाल्यमानोऽर्जुनबाणपातैः। मर्माभिघाताच्छिथिलः क्रियासु पुनः पुनर्धर्ममसौ जगर्ह॥ 8-97-81 (59793) ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे। हस्ते कृष्णं तथा पार्थमभ्यविध्यच्च सप्तभिः॥ 8-97-82 (59794) ततोऽर्जुनः सप्तदश तिग्मवेगानजिह्मगान्। इन्द्राशनिसमान्घोरानसृजत्पावकोपमान्॥ 8-97-83 (59795) निर्भिद्य ते भीमवेगा ह्यपतन्पृथिवीतले। कम्पितात्मा ततः कर्णः शक्त्या चेष्टामदर्शयत्॥ 8-97-84 (59796) बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत्। ऐन्द्रं ततोऽर्जुनश्चापि तं दृष्ट्वाऽभ्युपमन्त्रयत्॥ 8-97-85 (59797) गाण्डीवं ज्यां च बाणांश्च सोऽनुमन्त्र्य परन्तपः। व्यसृजच्छरवर्षाणि वर्षाणीव पुरन्दरः॥ 8-97-86 (59798) ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः। प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात्। 8-97-87 (59799) स कर्णोऽग्रसदस्यास्त्रं कुर्वन्मोक्षं महारथः॥ ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते। विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान्॥ 8-97-88 (59800) ततो ब्रह्मास्त्रमत्युग्रं सम्मन्त्र्य समयोजयत्। छादयित्वा ततो बाणैः कर्णं प्रत्यस्यदर्जुनः॥ 8-97-89 (59801) ततः कर्णः शितैर्बाणैर्ज्यां चिच्छेद सुतेजनैः। [द्वितीयां च तृतीयां च चतुर्थी पञ्चमीं तथा॥ 8-97-90 (59802) षष्ठीमथास्य चिच्छेद सप्तमीं च तथाऽष्टमीम्। नवमीं दशमीं चास्य तथा चैकादशीं वृषः। ज्याशतं शतसन्धानः स कर्णो नावबुध्यते॥] 8-97-91 (59803) ततो ज्यां विनिधायान्यामभिमन्त्र्य च पाण्डवः। शरैरवाकिरत्कर्णं दीप्यमानैरिवाहिभिः॥ 8-97-92 (59804) तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे। नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत्॥ 8-97-93 (59805) अस्त्रैरस्त्राणि संवार्य प्रनिघ्नन्सव्यसाचिनः। चक्रे चाप्यधिकं पार्थात्स्ववीर्यमतिदर्शयन्॥ 8-97-94 (59806) ततः कर्णोऽर्जुनं दृष्ट्वा स्वस्यास्त्रेण च पीडितम्। अभ्यसेत्यब्रवीत्पार्थमातिष्ठास्त्रं व्रजेति च॥ 8-97-95 (59807) ततोऽग्निसदृशं घोरं शरं सर्पविषोपमम्। अश्मसारमं दिव्यमभिमन्त्र्यं परन्तपः। रौद्रमस्त्रं समाधाय क्षेप्तुकामः किरीटिने॥ 8-97-96 (59808) ततोऽग्रसन्मही चक्रं राधेयस्य तदा नृप॥ 8-97-97 (59809) [ततोऽवतीर्य राधेयो रथादाशु समुद्यतः। चक्रं भुजाभ्यामालम्ब्य समुत्क्षेप्तुमियेष सः॥ 8-97-98 (59810) सप्तद्वीपा वसुमती सशैलवनकानना। गीर्णचक्रा समुत्क्षिप्ता कर्णेन चतुरङ्गुलम्॥ 8-97-99 (59811) ग्रस्तचक्रस्तु राधेयः क्रोधादश्रूण्यवर्तयत्। अर्जुनं वीक्ष्य संरब्धमिदं वचनमब्रवीत्॥ 8-97-100 (59812) भोभो पार्थ महेष्वास मुहुर्तं परिपालय। यावच्चक्रमिदं ग्रस्तमुद्धरामि महीतलात्॥ 8-97-101 (59813) सव्यं चक्रं महीग्रस्तं दृष्ट्वा दैवादिदं मम। पार्थ कापुरुषाचीर्णमभिसन्धिं विसर्जय॥ 8-97-102 (59814) न त्वं कापुरुषाचीर्णं मार्गमास्थातुमर्हसि। ख्यातस्त्वमसि कौन्तेय विशिष्टो रणकर्मसु। विशिष्टतरमेव त्वं कर्तुमर्हसि पाण्डव॥ 8-97-103 (59815) प्रकीर्णकेशे विमुखे ब्राह्मणेऽथ कृताञ्जलौ। शरणागते न्यस्तशस्त्रेयाचमाने तथाऽर्जुन॥ 8-97-104 (59816) अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा। न विमुञ्चन्ति शस्त्राणि शूराः साधुव्रते स्थिताः॥ 8-97-105 (59817) त्वं च शूरतमो लोके साधुवृत्तश्च पाण्डव। अभिज्ञो युद्धधर्माणां तस्मात्क्षम मुहूर्तकम्॥ 8-97-106 (59818) दिव्यास्त्रविदमेयात्मा कार्तवीर्यसमो युधि। यावच्चक्रमिदं ग्रस्तमुद्वरामि महाभुज॥ 8-97-107 (59819) न मां रथस्थो भूमिष्ठं विकलं हन्तुमर्हसि। न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम्॥ 8-97-108 (59820) त्वं हि क्षत्रियदायादो महालकुलविवर्धनः। अतस्त्वां प्रबवीम्येष मुहूर्तं क्षम पाण़्डव॥ ॥ 8-97-109 (59821) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तनवतितमोऽध्यायः॥ 97 ॥ [विना किरीटं शंशुभे स पार्थः। श्यामो युवा नील इवोच्चशृङ्गः। ततः समुद्ग्रथ्य सितेन वाससा स्वमूर्धजानव्यथितस्तदाऽर्जुनः। विभासितः सूर्यमरीचिना दृढं शिरोगतेनोदयपर्वतो यथा॥ 8-97-1 (59822) गोकर्णा सुमुखी कृतेन इषुणा गोपुत्रसम्प्रेषिता गोशब्दात्मजभूषणं सुविहितं सुव्यक्तगोऽसुप्रभं दृष्ट्वा गोगतकं जहार मुकुटं गोशब्दगोपूरि वै गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशं 8-97-2 (59823) स सायकः कर्णभुजप्रसृष्टो हुताशनार्कप्रतिमो महार्हः। महोरगः कृतवैरोऽर्जुनेन किरीटमाहत्य ततो व्यतीयात्॥ 8-97-3 (59824) तं चापि दग्ध्वा तपनीयचित्रं किरीटमाकृष्य तदर्जुनस्य। इयेष गन्तुं पुनरेव तूणं दृष्टश्च कर्णेन ततोऽब्रवीत्तम्॥ 8-97-4 (59825) मुक्तस्त्वयाऽहं त्वसमीक्ष्य कर्ण शिरो हृतं यन्न मयाऽर्जुनस्य। समीक्ष्य मां मुञ्च रणे त्वमाशु हन्ताऽस्मि शत्रुं तव चात्मनश्च॥ 8-97-5 (59826) स एवमुक्तो युधि सूतपुत्र-- स्तम्ब्रवीत्को भवानुग्ररूपः। नागोऽब्रवीद्विद्वि कृतागसं मां पार्थेन मातुर्वधजातवैरम्॥ 8-97-6 (59827) यदि स्वयं वज्रधरोऽस्य गोप्ता तथापि याता पितृराजवेश्मनि। 8-97-7 (59828) कर्ण उवाच। न नाग कर्णोऽद्य रणे परस्य बलं समास्थाय जयं बुभूषेत्॥ 8-97-7x (5065) न संदध्यां द्विः शरं चैव नाग यद्यर्जुनानां शतमेव हन्याम्। तमाह कर्णः पुनरेव नागं तदाऽजिमध्ये रविसूनुसत्तमः॥ 8-97-8 (59829) व्यालास्त्रसर्गोत्तमयत्नमन्युभि-- र्हन्ताऽस्मि पार्थं सुसुखी व्रज त्वम्। इत्येवमुक्तो युधि नागराजः कर्णेन रोषादसहंस्तस्य वाक्यम्॥ 8-97-9 (59830) स्वयं प्रायात्पार्थवधाय राजन् कृत्वा स्वरूपं विजिघांसुरुग्रः। ततः कृष्णः पार्थमुवाच सङ्ख्ये महोरगं कृतवैरं जहि त्वम्॥ 8-97-10 (59831) 8-97-11 (59832) स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा रिपुवीर्यसाहः। उवाच को ह्येष ममाद्य नागः स्वयं य आयाद्गरुडस्य वक्त्रम्॥]

Mahabharata - Karna Parva - Chapter Footnotes

8-97-16 बाणजालैकमयं दृष्ट्वेति शेषः॥ 8-97-30 पदा विनिष्पिष्य रथोत्तमं स प्रावेशयत्पृथिवीं किञ्चिदेव। क्षितिं गता जानुभिस्तेऽथ वाहा हेमच्छन्नाश्चन्द्रमरीचिवर्णाः इति झ.पाठः॥ 8-97-48 गते गमिते। विभुः समर्थः॥ 8-97-49 बर्हिणानां बर्हा एव वाजाः पक्षाः सञ्जाता येषां तैर्बर्हिणबर्हवाजितैः॥ 8-97-62 अग्निजः कार्तिकेयः॥ 8-97-64 ईषिवान् मनसि कृतवान्॥ 8-97-78 चैत्यः सवेदिको ग्रामसूचको महाद्रुमः॥ 8-97-89 प्रत्यस्यत्प्रतिप्राक्षितत्॥ 8-97-95 अभ्यस पुनः पुनः अस्त्रं आतिष्ठ वज प्रेरयेत्यब्रवीदिति योजना। ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेण च पीडितम् इति झ.पाठः॥ 8-97-96 क्षेप्तुकामः किरीटवान् इति झ. पाठः॥ 8-97-97 सप्तनवतितमोऽध्यायः॥ 8-97-* एतदारभ्य गरुडस्य वक्रं इत्यन्तानां चतुर्णां श्लोकानां स्थाने अधोदृश्यमाना एकादश श्लोका झ.पुस्तके विद्यन्ते 8-97-2 गोकर्णा मुकुटं जहारेत्यन्वयः। अर्जुनस्य मुकुटहरणमपि महत्कर्मेति सूचयन्मुकुटं विशिनष्टि। गवि चक्षुषि कर्णो यस्याः सा गोकर्णा चक्षुःश्रवाः सर्पिणी अर्जुनेन खाण्डवे निहता सती इह निमित्तभूता तस्य मुकुटमेव हृतवती नतु शिरः। अथं हताया हनननिमित्तत्वमत आह। सुमुखी कृतेन इषुणा मोपुत्रसम्प्रेषिता। सन्धिरविवक्षितत्वान्न भवति। शोभनं पुत्रजीवकरं मुखं यस्याः सा सुमुखी। सा हि पुत्रं निगीर्य दह्यमानात् खाण़्वादुत्पतन्ती शिरोदेशे अर्जुनेन च्छिन्ना सती स्वयं मृतां पुत्रं च रक्षितवतीत्यादिपर्वण्युपाख्यायते। कृतेन स्वयं निर्मितेन पुत्रेण त्रातेन इषुणा इथुभावं गतेन। आत्मा वै पुत्रनामासीति श्रुतेरिष्वाकारपुत्ररूपेण सम्पन्ना सती। गोमतो रश्मिमतोऽर्कस्य पुत्रेण कर्णेन प्रेषिता। इषुणेतीत्थम्भावे तृतीया। गोपुत्रेति मतुब्लोप आर्षः। किङ्कृत्वा मुकुटं जहारेत्यत आह। सुव्यक्तगोऽसुप्रभं गोगतकं दृष्ट्वा सुव्यक्ताः अतिशयेनाविर्भूता गावो रश्मयस्तेज इति यावत्। सुव्यक्तैर्गोभिरसुभिश्च प्रकर्षेण भासमानं प्रदेशो लक्ष्यते। तत्र गतं विद्यमानं कं शिरो यस्य तम्। अर्जुनस्य ग्रीवादेशं कर्णेन लक्षीकृतं विज्ञाय भगवता स्वभारेणाश्वेषु जानुभ्यामवनीं गमितेषु रश्मिभिः समसूत्रदेशेऽर्जुनस्य शिरो दृष्ट्वापि वेगातिशयात्स्वयं नीचीभवितुमशक्ता सती तद्देशस्थं मुकुटं जहारेत्यर्थः। गोशब्दात्मजभूषणं सुविहितमिति। गौः पृथिवी तया शब्द्यते गोशब्दा अदितिः। इयं वा अदितिरिति पृथिव्या अदितेर्निर्देशात्। तस्या आत्मजस्येन्द्रस्य भूषणं सुविहितं वेधसेति शषः। तथाचात्रैवोक्तम्। पुरन्दरार्थं तपसा प्रयत्नतः स्वयं कृतं यद्विधिना स्वयम्भुवेति। कीदृशं मुकुटम्। वै निश्चितं प्रसिद्धं वा। गोशब्दगोपूरि गोभि रश्मिभिः शब्द्यते रश्मिमानिति कथ्यत इति सूर्यस्तस्येव भुव नगर्भव्यापिनो गावः किरणास्तैर्भुवनं पूरयितुं शीलमस्य तत्तथा। सूर्यसमप्रभमित्यर्थः। ननु चेतनाधिष्ठितो बाणः पुनरेत्या र्जुनं कुतो न हतवानित्यत आह। गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशमिति। गोकर्णं सर्पं पुनरर्जुनं हन्तुमिच्छन्तमसनेन बाणक्षेपेण मर्दयति यः स तथाभूतोऽर्नुनश्च तमेव सर्पमनवाप्य मृत्योर्वशं न ययौ। सर्पस्य पुनरागमनं वधश्चात्रैव कीर्त्यते। गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयो। स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि। नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमस्विति कोशः॥
कर्णपर्व - अध्याय 098

॥ श्रीः ॥

8.98. अध्यायः 098

Mahabharata - Karna Parva - Chapter Topics

पार्थाय धर्मानुवादकं कर्णंम्प्रति कृष्णेन तत्कृतदुष्कृतानुस्मारणपूर्वकं मर्मोद्धाटनम्॥ 1 ॥ कर्णेन स्वबाणाहतिनिर्विण्णेऽर्जुने तदन्तरे रथादवरुह्य तच्चक्रोद्धरणोद्यमः॥ 2 ॥ तदन्तरे कृष्णचोदनया पार्थेन कर्णशिरश्छेदः॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-98-0 (59833) सञ्जय उवाच। 8-98-0x (5066) अथाब्रवीद्वासुदेवो महात्मा राधेय दिष्ट्या स्मरसीह धर्मम्। `धर्मे हि बद्धा सततं हि पार्था-- स्तेभ्यस्ततो वृद्धिसौ ददाति॥ 8-98-1 (59834) धर्मादपेताः परिपन्थिनस्ते तस्माद्गता वै कुरवो विनाशम्'। प्रायेण नीचा व्यसनेषु मग्ना निन्दन्ति दैवं न तु दुष्कृतं स्वम्॥ 8-98-2 (59835) कृष्णां सभां कर्ण यदेकवस्त्रा-- मानीतवांस्त्वं च सुयोधनश्च। दुःशासनः शकुनिः सौबलश्च। धर्मस्तदा ते रुचितो न कस्मात्॥ 8-98-3 (59836) यदा सभायां राजानमनक्षज्ञं युधिष्ठिरम्। आनीय जितवन्तो वै क्व ते धर्मस्तदा गतः॥ 8-98-4 (59837) वनवासे व्यतीते च कर्ण वर्षे त्रयोदशे। न प्रयच्छसि यद्राज्यं क्व ते धर्मस्तदा गतः॥ 8-98-5 (59838) यद्भीमसेनं सर्पैश्च विषयुक्तैश्च भोजनैः। आचरत्त्वन्मते राजा क्व ते धर्मस्तदा गतः॥ 8-98-6 (59839) यद्वारणावते पार्थान्सुप्ताञ्जतुगृहे तदा। हन्तुकामास्तदा यूयं क्व ते धर्मस्तदा गतः॥ 8-98-7 (59840) यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम्। सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः॥ 8-98-8 (59841) यदनार्यैः पुरा कृष्णां क्लिश्यमानामनागसम्। उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः॥ 8-98-9 (59842) विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः। पतिमन्यं वृणीष्वेति वदंस्त्वं गजगामिनीम्। उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः॥ 8-98-10 (59843) राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवान्। यदा शकुनिमाश्रित्य क्व ते धर्मस्तदा गतः॥ 8-98-11 (59844) यदाऽभिमन्युं बहवो युद्धे जघ्नुर्महारथाः। परिवार्य रणे बालं क्व ते धर्मस्तदा गतः॥ 8-98-12 (59845) [यद्येष धर्मस्तत्र न विद्यते हि किं सर्वथा तालुविशोषणेन। अद्येह धर्म्याणि विधत्स्व सूत तथापि जीवन्न विमोक्ष्यसे हि॥ 8-98-13 (59846) नलो ह्यक्षैर्निर्जितः पुष्करेण पुनर्यशो राज्यमवाप वीर्यात्। प्राप्तास्तथा पाण्डवा बाहुवीर्या-- त्सर्वैः समेताः परिवृत्तलोभाः॥ 8-98-14 (59847) निहत्य शत्रून्समरे प्रवृद्धा-- न्ससोमका राज्यमवाप्नुयुस्ते। तथा गता धार्तराष्ट्रा विनाशं धर्माभिगुप्तैः सततं नृसिंहैः]॥ 8-98-15 (59848) सञ्जय उवाच। 8-98-16x (5067) एवमुक्तस्तदा कर्णो वासुदेवेन भारत। लज्जयावनतो भूत्वा नोत्तरं किञ्चिदुक्तवान्॥ 8-98-16 (59849) क्रोधात्प्रस्फुरमाणौष्ठो धनुरुद्यम्य भारत। योधयामास वै पार्थं महावेगपराक्रमः॥ 8-98-17 (59850) ततोऽब्रवीद्वासुदेवः फल्गुनं पुरुषर्षभम्। दिव्यास्त्रेणैव निर्भिद्य पातयस्व महाबल॥ 8-98-18 (59851) एवमुक्तस्तु देवेन क्रोधमागात्तदाऽर्जुनः। मन्युमभ्याविशद्धोरं स्मृत्वा तत्तु धनञ्जयः॥ 8-98-19 (59852) तस्य क्रुद्धस्य सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः। प्रादुरासंस्तदा राजंस्तदद्भुतमिवाभवत्॥ 8-98-20 (59853) तत्समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनञ्जयम्। अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने॥ 8-98-21 (59854) ब्रह्मास्त्रेणव तं पार्थो कवर्ष शरवृष्टिभिः। तदस्त्रमस्त्रेणावार्य प्रजहार च पाण्डवः॥ 8-98-22 (59855) ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः। मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल तेजसा॥ 8-98-23 (59856) वारुणेन ततः कर्णः शमयामास पावक्रम्। जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः॥ 8-98-24 (59857) पाण्डवेयस्त्वसम्भ्रान्तो वायव्यास्त्रेण वीर्यवान्। अपोवाह तदाऽभ्राणि राधेयस्य प्रपश्यतः॥ 8-98-25 (59858) [ततः शरं महाघोरं ज्वलन्तिमिव पावकम्। आददे पाण्डुपुत्रस्य सूतपुत्रो जिघांसया॥ 8-98-26 (59859) योज्यमाने ततस्तस्मिन्बाणे धनुषि पूजिते। चचाल पृथिवी राजन्सशैलवनकानना॥ 8-98-27 (59860) ववौ सशर्करो वायुर्दिशश्च रजसा वृताः। हाहाकारश्च संवज्ञे सुराणां दिवि भारत॥ 8-98-28 (59861) तमिगुं सन्धितं दृष्ट्वा सूतपुत्रेण मारिष। विषादं परमं जग्मुः पाण्डवा दीनचेतसः॥ 8-98-29 (59862) स सायकः कर्णभुजप्रमुक्तः शक्राशनिग्रख्यरुचिः शिताग्रः। मुलान्तरं प्राप्य धनञ्जयस्य विवेश वल्मीकमिवोरमोत्तमः॥ 8-98-30 (59863) स राढविद्धः समरे महात्मा विधूर्णमानः श्लथहस्तगाण्डिवः। चचाल वीभत्सुरमित्रमर्दनः क्षितेः प्रकम्पे च यथाऽचलोत्तमः॥ 8-98-31 (59864) तदन्तरं प्राप्य वृषो महारथो रथाङ्गसुर्वीगतमुज्जिहीर्षुः। रथादवप्लुत्य निगृह्य दोर्भ्यां शशाक दैवान्न महाबलोऽपि॥ 8-98-32 (59865) ततः किरीटि प्रतिलभ्य संज्ञां जग्राह बाणं यमदण्डकल्पम्। ततोऽर्जुनः प्राञ्जलिकं महात्मा ततोऽब्रवीद्वासुदेवोऽपि पार्थम्॥ 8-98-33 (59866) छिन्ध्यस्य मूर्धानमरेः शरेण न यावदारोहति वै रथं वृषः। तथैव सम्पूज्य स तद्वचः प्रभो-- स्ततः शरं प्रज्वलितं प्रगृह्य। जघान कक्षाममलार्कवर्णां महारथे रथचक्रे विमग्ने॥ 8-98-34 (59867) तं हस्तिकक्षाप्रवरं सुकेतुं सुवर्णमुक्तामणिवज्रजुष्टम्। कलाप्रकृष्टोत्तमशिल्पियत्नैः कृतं सुरूपं तपनीयचित्रम्॥ 8-98-35 (59868) जयास्पदं तव सैन्यस्य नित्य--- ममित्रवित्रासनमीड्यरूपम्। विख्यातमादित्यसुतस्य लोके त्विषा समं पावकभानुचन्द्रैः॥ 8-98-36 (59869) ततः क्षुरप्रेण सुसंशितेन सुवर्णपुङ्खेन हुताग्निवर्चसा। श्रिया ज्वलन्तं ध्वजमुन्ममाथ महारथस्याधिरथेः किरीटी॥ 8-98-37 (59870) यशश्च दर्पश्च तथा प्रियाणि सर्वाणि कार्याणि च तेन केतुना। साकं कुरूणां हृदयानि चापतन् बभूव हाहेति च निःस्वनो महान्॥ 8-98-38 (59871) द्वष्ट्वा ध्वजं पातितमाशुकारिणा कुरुप्रवीरेण निकृत्तमाहवे। नाशंसिरे सूतपुत्रस्य सर्वे जयं तदा भारत ये त्वदीयाः॥ 8-98-39 (59872) अथ त्वरन्कर्णवधाय पार्थो महेद्रवज्रानलदण्डसन्निभम्। आदत्त चाथाञ्जलिकं निषङ्गा-- त्सहस्ररश्मेरिव रश्मिमुत्तमम्॥ 8-98-40 (59873) मर्मच्छिदं शोणितमांसदिग्धं वैश्वानरार्कप्रतिमं महार्हम्। नराश्वनागासुहरं त्र्यरत्निं षड्वाजमञ्जोगतिमुग्रवेगम्॥ 8-98-41 (59874) सहस्रनेत्राशनितुल्यवीर्यं कालानलं व्यात्तमिवातिघोरम्। पिनाकनारायणचक्रसन्निभं भयङ्करं प्राणभृतां विनाशनम्॥ 8-98-42 (59875) जग्राह पार्थः स शरं प्रहृष्टो यो देवसङ्घैरपि दुर्निवार्यः। सम्पूजितो यः सततं महात्मा देवासुरान्यो विजयेन्महेषुः॥ 8-98-43 (59876) तं वै प्रमृष्टं प्रसमीक्ष्य युद्धे चचाल सर्वं सचराचरं जगत्। कृत्स्नं जगत्स्वस्त्यृषयोऽभिचक्रु-- स्तमुद्यतं प्रेक्ष्य महाहवेषुम्॥ 8-98-44 (59877) ततस्तु तं वै शरमप्रमेयं गाण्डीवधन्वा धनुषि व्ययोजयत्। युक्त्वा महास्त्रेण परेण चापं विकृष्य गाण्डीवमुवाच सत्वरम्॥ 8-98-45 (59878) अयं हास्त्रप्रहितो महाशरः शरीरहृच्चासुहरश्च दुर्हृदः। तपोऽस्ति तप्तं गुरवश्च तोषिता मया यदीष्टं सुहुतं यदि श्रुतम्॥ 8-98-46 (59879) अनेन सत्येन निहन्त्वयं शरः सुसंहितः कर्णमरिं ममोर्जितम्। इत्यूचिवांस्तं प्रमुमोच बाणं धनञ्जयः कर्णवधाय घोरम्॥ 8-98-47 (59880) कृत्या ह्यथर्वाङ्गिरसी प्रचोदिता यथा तथा त्वं जहि शात्रवं मम। ब्रुवन्किरीटी तमतिप्रहृष्टो-- ऽसृजद्देवानां जयहेतुं महेषुम्॥ 8-98-48 (59881) जिघांसुरर्केन्दुसमप्रभावः कर्णं वशी पाण्डवः क्षिप्रकारी। ततो विमुक्तो बलिना महेषुः प्रज्वालयामास नभो दिशश्च॥ 8-98-49 (59882) सैन्यान्यनेकानि च विप्रमोह्य गाण्डीवमुक्तेन ततो महात्मा। तेनार्जुनस्तन्महनीयमस्य शिरोऽहरत्सूतपुत्रस्य राजन्॥ 8-98-50 (59883) शरोत्तमेनाञ्जलिकेन राजं-- स्तदा महास्त्रप्रतिमन्त्रितेन। पार्थोऽपराह्णे शिर उच्चकर्त वैकर्तनस्याथ महेन्द्रसूनुः। छिन्नं पपाताञ्जलिकेन तूर्णं कायश्च पश्चाद्धरणीं जगाम॥ 8-98-51 (59884) तदुद्यतादित्यसमानतेजसं शरन्नभोमध्यगभास्करोपमम्। वराङ्गमुर्व्यामपतच्चमुमूखे दिवाकरोऽस्तादिव रक्तमण्डलः॥ 8-98-52 (59885) ततोऽस्य देहं सततं सुखैधितं सुरूपमत्यर्थसुखं सुगन्धि च। परेण कृच्छ्रेण शिरः समत्यज-- द्गृहं महर्धीन्निवसन्निवेश्वरः॥ 8-98-53 (59886) शरैर्विभिन्नं व्यसु तत्सुवर्चसः पपात कर्णस्य शरीमुच्छ्रितम्। स्रवद्व्रणं गैरिकतोयविस्रवं गिरेर्यथा वज्रहतं महाशिरः॥ 8-98-54 (59887) देहाच्च कर्णस्य निपातितस्य तेजः सूर्यं खं वितत्याविवेश। तदद्भुतं सर्वमनुष्ययोधाः संदृष्टवन्तो निहते स्म कर्णे॥ 8-98-55 (59888) ततः शङ्खान्पाण्डवा दध्मुरुच्चै-- र्दृष्ट्वा कर्णं पातितं फल्गुनेन। तथैव कृष्णश्च धनञ्जयश्च हष्टौ यमौ दध्मतुर्वारिजातौ॥ 8-98-56 (59889) तं सोमकाः प्रेक्ष्य हतं शयानं सैन्यैः सार्धं सिंहनादान्प्रचक्रुः। तूर्याणि सञ्जघ्नुरतीव हृष्टा वासांसि चैवादुधुवुर्भुजांश्च॥ 8-98-57 (59890) संवर्धयन्तश्च नरेन्द्र योधाः पार्थं समाजग्मुरतीव हृष्टाः। बलान्विताश्चापरे ह्यप्यनृत्य-- न्नन्योन्यमाश्लिष्य नदन्त ऊचुः॥ 8-98-58 (59891) दृष्ट्वा तु कर्णं भुवि वा विपन्नं कृत्तं रथात्सायकैरर्जुनस्य। महानिलेनाद्रिमिवापविद्वं यज्ञावसानेऽग्निमिव प्रशान्तम्॥ 8-98-59 (59892) तदाननं सूर्यसुतस्य राज-- न्विभ्राजते पद्मिवावनालम्। रराज कर्णस्य शिरो निकृत्त-- मस्तंगतं भास्करस्येव बिम्बम्॥ 8-98-60 (59893) शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः। रराज देहः कर्णस्य स्वरश्मिभिरिवांशुमान्॥ 8-98-61 (59894) प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः। बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः॥ 8-98-62 (59895) अस्तं गच्छन्यथाऽदित्यः प्रभामादाय गच्छति। तथा जीवितमाहाय कर्णस्येषुर्जगाम सः॥ 8-98-63 (59896) अपराह्णेऽपराह्णस्य सूतपुत्रस्य मारिष। छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः॥ 8-98-64 (59897) उपर्युपरि सैन्यानां विनिघ्नन्नितराञ्जनान्। शिरः कर्णस्य सोऽत्सेधमिषुः सोप्यहरद्द्रुतम्॥ 8-98-65 (59898) कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम्। दृष्ट्वा शयानं भुवि मद्रराज-- श्छिन्नध्वजेनाथ ययौ रथेन॥ 8-98-66 (59899) हते कर्णे कुरवः प्राद्रवन्त भयार्दिता गाढविद्धाश्च सङ्ख्ये। अवेक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं वपुषा ज्वलन्तम्॥ 8-98-67 (59900) तच्छिरो भरतश्रेष्ठ शोभयामास मेदिनीम्। यदृच्छयेव पतितं मण्डलं चाण्डदीधितेः॥ 8-98-68 (59901) तं दृष्ट्वा समरविमर्द (बद्ध) लब्धनिद्रं दष्टोष्ठं रुधिरपीरतकातराक्षम्। राधेयं रथवरपृष्ठसन्निषण्णं हीनांशुर्दिवसकरो मुहूर्तमासीत्॥ 8-98-69 (59902) निःशब्दतूर्यं हतयोधमुख्यं प्रशान्तदर्पं धृतराष्ट्रसैन्यम्। न शोभते सूर्यसुतेन हीनं वृन्दं ग्रहाणामिव चन्द्रहीनम्॥ 8-98-70 (59903) सहस्रनेत्रप्रतिमानकर्मणः सहस्रपत्रप्रतिमाननं शुभम्। सहस्ररश्मिर्दिवसक्षये यथा तथाऽपतत्कर्णशिरो वसुन्धराम्॥ 8-98-71 (59904) व्यूढोरस्कं कमलवदनं तप्तहेमावभासं कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम्। पांसुग्रस्तं मलिनमसकृत्पुत्रमन्वीक्षमाणो मन्दम्मन्दं व्रजति सविता मन्दिरं मन्दरश्मिः॥ ॥ 8-98-72 (59905) इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टनवतितमोऽध्यायः॥ 98 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-98-64 अपराह्णे दिवसस्य पश्चिमे भागे। अपरं चरमम् अहः मरणदिनं यस्य॥ 8-98-98 अष्टनवतितमोऽध्यायः॥
कर्णपर्व - अध्याय 099

॥ श्रीः ॥

8.99. अध्यायः 099

Mahabharata - Karna Parva - Chapter Topics

शल्येन कर्णमरणाद्व्याकुलमनसो दुर्योधनस्य समाश्वासनम्॥ 1 ॥ तथा तम्प्रति रणाङ्कणवर्णनम्॥ 2 ॥ देवगन्धर्वादीनां स्वस्वस्थानगमनम्॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-99-0 (59906) सञ्जय उवाच। 8-99-0x (5068) कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम्। यदृच्छया सूर्यमिवावनिं गतं दिदृक्षवः सम्परिवार्य तस्थुः॥ 8-99-1 (59907) प्रहृष्टवित्रस्तविषण्णविस्मिता-- स्तथाऽपरे शोकसमन्विताऽभवन्। परे त्वदीयाश्च रणे विशाम्पते यथायथेष्टं पृतना तथा गता॥ 8-99-2 (59908) प्रविद्धवर्माभरणायुधाम्बरं धनञ्जयेन प्रहतं महारथम्। निशाम्य कर्णं कुरवः प्रदुद्रुवु-- र्हतर्षभं केसरिणेव गोकुलम्॥ 8-99-3 (59909) कृत्वा दिमर्दं भृशमर्जुनेन कर्णं हतं केसरिणेव नागम्। दृष्ट्वा शयानं युधि मद्रराज-- श्छिन्नध्वजेनापययौ रथेन॥ 8-99-4 (59910) कर्णे हते पार्थभयात्प्रदुद्रुवु-- र्वैकर्तने धार्तराष्ट्राः सशल्याः। अवेक्षमाणा मुहुरर्जुनस्य केतुं महान्तं यशसा ज्वलन्तम्॥ 8-99-5 (59911) शल्यस्तु कर्णार्जुनयोर्विमर्दे बलानि दृष्ट्वा मृदितध्वजानि। ययौ स तेनैव रथेन तूर्णं हेलीकृतः सृञ्जयसोमकैश्च॥ 8-99-6 (59912) निपातितस्यन्दनवाजिनागं बलं च दृष्ट्वा हतसूतपुत्रम्। भीमस्तु भीमेन तदा स्वरेण समुन्नदद्रोदसी कम्पयंश्च। 8-99-7 (59913) आस्फोटयन्नृत्यति वल्गते च हते कर्णे त्रासयन्धार्तराष्ट्रान्। तदा राजन्सृञ्जयाः सोमकाश्च शङ्खान्दध्मुः सस्वजुश्चापि सर्वे॥ 8-99-8 (59914) परस्परं क्षत्रिया हृष्टरूपाः सूतात्मजे वै निहते तदानीम्। दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो दीनो मुहुर्निश्वसन्नार्तरूपः॥ 8-99-9 (59915) मद्राधिपश्चापि विमूढचेता-- स्तूर्णं ध्वजेनापहृतेन तेन। रथेन दुर्योधनमेत्य तूर्णं पश्यन्सुदुःखात्तमुवाच राजन्॥ 8-99-10 (59916) विशीर्णनागाश्वरथप्रवीरं बलं त्वदीयं यमराष्ट्रकल्पम्। अन्योन्यमासाद्य हतैः शयानै-- र्नराश्वनागैर्गिरिकूटकल्पैः॥ 8-99-11 (59917) नैतादृशं भारत युद्धमासी-- द्यथा हि कर्णार्जुनयोर्बभूव। ग्रस्तौ हि कर्णेन समेत्य कृष्णा-- वन्ये हि सर्वे तव शात्रवेयाः॥ 8-99-12 (59918) दैवं तु यत्तत्स्ववशे प्रवृत्तं तत्पाण्डवान्पाति निहन्ति चास्मान्। तवार्थसिद्ध्यर्थकरा हि सर्वे प्रसह्य वीरा निहता द्विषद्भिः॥ 8-99-13 (59919) कुबेरवैवस्वतवासवानां तुल्यप्रभावा वरुणस्य चापि। वीर्येण शौर्येण पराक्रमेण तैश्चापि युक्ता विमलैर्गुणौघैः॥ 8-99-14 (59920) अवध्यकल्पा निहता नरेन्द्रा-- स्तवार्थकामा युधि पाण्डवेयैः। तन्मा शुचो भारत दिष्टमेत-- त्पर्यायसिद्धिर्न तु नित्यसिद्धिः॥ 8-99-15 (59921) एतद्वचो मद्रपतेर्निशम्य स्वं चाविनीतं मनसा विचिन्त्य। दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो मुहुर्मुहुर्निश्वसन्नार्तरूपः॥ 8-99-16 (59922) *तद्व्यानमूकं कृपणं भृशार्त-- मार्तायनिर्दीनमुवाच राजन्। पश्येदमुग्रैर्नरवाजिनागै-- रायोधनं वीर हतैः सुपूर्णम्॥ 8-99-17 (59923) महीधराभैः पतितैश्च नागैः सकृत्प्रयत्नैः शरभिन्नगात्रैः। प्रविह्वलद्भिश्च गतासुभिश्च प्रध्वस्तवर्मायुधसर्वयोधैः॥ 8-99-18 (59924) वज्रापविद्वैरिव चाचलौघै-- र्विभिन्नपाषाणमृगद्रुमौघैः। प्रविद्धघण्टाङ्कुशतोमरध्वजैः सहेमजालै रुधिरौघसम्प्लवैः॥ 8-99-19 (59925) शरावनुन्नैः पतितैस्तुरङ्गै-- स्तनद्भिरार्तैः क्षतजं वमद्भिः। दीनैस्त्रसद्भिः परिवृत्तनेत्रै-- र्मही पतद्भिः कृपणा वभूव॥ 8-99-20 (59926) तथाऽपविद्वैर्गजवाजियूथै-- र्मन्दासुभिश्चापि गतासुभिश्च। रथैश्च नागैस्तुरगैश्च नुन्नै-- र्मही महावैतरणीव भाति॥ 8-99-21 (59927) गजैर्निकृत्तापरहस्तगात्रै-- रुद्वेपमानैः पतितैः पृथिव्याम्। रथर्षभैर्नागवराश्वयोधैः पदातिभिश्चाभिमुखैः परैर्हतैः॥ 8-99-22 (59928) विशीर्णवर्माभरणाम्बरायुधै-- र्युता प्रशान्तैरिव पावकैर्मही। शरप्रहाराभिहतैर्महाबलै-- रवेक्षमाणैः पतितैः समन्ततः॥ 8-99-23 (59929) प्रनष्टसंज्ञैः पुनराश्वसद्भि-- र्मही बभौ कुम्भगतैरिवाग्निभिः। रत्नैश्च्युतैर्भूरतिदीप्तिमद्भि-- र्नक्तं ग्रहैर्द्यौर्विमलैर्विभाति॥ 8-99-24 (59930) शरास्तु कर्णार्जुनबाहुमुक्ता विदार्य नागांश्च मनुष्यदेहान्। प्राणान्निरस्याशु महीं प्रतीयु-- र्महोरगा वासमिवाभिनम्राः॥ 8-99-25 (59931) हतैर्मनुष्यैश्च गजैश्च सङ्ख्ये शरावभिन्नै रुधिरप्रदिग्धैः। धऩञ्जयस्याधिरथेश्च मार्गे हतैरगम्या वसुधाऽतिदुर्गा॥ 8-99-26 (59932) रथैर्महेषून्मथितैः सुकल्पितैः सनागयोधाश्ववरायुधध्वजैः विशीर्णयोक्त्रैर्विनिकीर्णबन्धनै-- र्निकृत्तचक्राक्षयुगत्रिवेणुभिः॥ 8-99-27 (59933) विमुक्तयोक्त्रैश्च रथैरुपस्करैः कृताभिषङ्गैर्विनिबद्वकूबरैः। प्रभग्ननीडैर्मणिहेमभूषितै-- र्वृता मही द्यौरिव शारदैर्घनैः॥ 8-99-28 (59934) निकृष्यमाणा जवनैस्तुरङ्गमै-- र्हतेश्वरा राजरथाः सुकल्पिताः। मनुष्यमातङ्करथाश्वसादिषु द्रुतं व्रजन्तो बहुधा विघूर्णिताः॥ 8-99-29 (59935) सहेमपृष्ठाः सपरश्वथायुधाः शिताश्च शूला मुसलाः समुद्गराः। चित्राश्च खङ्गा विमलाश्च कोशा गजाश्च जाम्बूनदपट्टनद्धाः॥ 8-99-30 (59936) चापानि जाम्बूनदभूषितानि शराश्च कार्तस्वरचित्रपुङ्खाः। ऋष्ट्यश्च पीता विमलाश्च कोशाः प्रासाश्च दण्डाः कनकप्रभासाः॥ 8-99-31 (59937) शुभ्राणि वालव्यजनानि शङ्खा-- श्छिन्नावरुद्धा विरुचः स्रजश्च। कुथाः पताकाम्बरवेष्टनानि किरीटमाला मकुटाश्च शुभ्राः॥ 8-99-32 (59938) प्रकीर्णका विप्रतिकीर्णकाश्च प्रधानमुख्यास्तरलाश्च हाराः। आपीडकेयूरवराङ्गदानि ग्रैवेयनिष्काः ससुवर्णसूत्राः॥ 8-99-33 (59939) मण्युत्तमा वज्रसुवर्णयुक्ता रत्नानि चोच्चावचमङ्गलानि। गात्राणि चाभान्ति सुखोचितानि शिरांसि चेन्दुप्रतिमाननानि॥ 8-99-34 (59940) देहांश्च भोगांश्च परिच्छदांश्च त्यक्त्वा मनोज्ञा निहताः सुखानि। स्वधर्मनिष्ठां महतीमवाप्य प्राप्ताश्च लोकान्यशसा गतास्ते॥ 8-99-35 (59941) निवर्त दुर्योधन यान्तु सैनिका व्रजस्व राजञ्शिबिराणि मानद। दिवाकरोऽप्येष विलम्बते प्रभो पुनस्त्वमेवात्र नरेन्द्र कारणम्॥ 8-99-36 (59942) सञ्जय उवाच। 8-99-37x (5069) एतावदुक्त्वा विरराम शल्यो दुर्योधनं चैव निवर्तयित्वा। युद्धाय राजन्विनिविष्टबुद्धि-- र्हा कर्ण हा कर्ण इति ब्रुवाणम्॥ 8-99-37 (59943) तं द्रोणपुत्रप्रमुखा नरेन्द्राः सर्वे समाश्वास्य ततः प्रजग्मुः। निरीक्षमाणा ध्वजमर्जुनस्य रथं च दिव्यं यशसा ज्वलन्तम्॥ 8-99-38 (59944) नराश्वमातङ्गशरीरजेन रक्तेन सिक्तां रुधिरेण भूमिम्। रक्ताम्बरस्रक्तपनीययोगा-- न्नारीं प्रकाशामिव सर्वरम्याम्॥ 8-99-39 (59945) प्रच्छन्नरूपां रुधिरेण राज न्रौद्रे मुहूर्तेऽतिविराजमाने। नैवावतस्थुः कुरवः समीक्ष्य प्रव्राजिता नरदेवा यथाऽक्षैः॥ 8-99-40 (59946) वधेन कर्णस्य सुदुःखितास्ते हा कर्ण हा कर्ण इति ब्रुवाणाः। द्रुतं प्रजग्मुः शिबिराणि राज-- न्दिवाकरं रक्तमवेक्षमाणाः॥ 8-99-41 (59947) गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः शिलाशितैः शोणितदिग्धवाजैः। शरैश्चिताङ्गोऽपि रराज कर्णो हतोऽपि दीप्तांशुरिवांशुजालैः॥ 8-99-42 (59948) कर्णस्य देहं रुधिराम्बुसिक्तं पुत्रानकुम्पी भगवान्विवस्वान्। स्पृष्ट्वा कराग्रैः क्षतजानुरूपैः स्नातुं तदाऽगादपरं समुद्रम्॥ 8-99-43 (59949) इतीव सञ्चिन्त्य सुरर्षभाश्च सम्प्रस्थितास्ते तु यथानिकेतम्। सञ्चिन्त्य सर्वा जनता विसस्रु-- र्यथासुखं खे च महीतले च॥ 8-99-44 (59950) तदद्भुतं प्राणभृतां भयङ्करं निशाम्य युद्धं कुरुवीरमुख्ययोः। समाचितौ कर्णशरैऋ परन्तपौ तथैव संरेजतुरच्युतार्जुनौ॥ 8-99-45 (59951) तमो निहत्याभ्युदितौ यथाऽमलौ शशाङ्कसूर्याविव रश्मिमालिनौ। विहाय तान्बाणगणान्महाबलौ सुहृद्वृतावप्रतिमानविक्रमौ॥ 8-99-46 (59952) सुखप्रविष्टौ सुखदौ विरेजतुः सदस्यचिन्त्याविव विष्णुवासवौ। सदेवगन्धर्वमनुष्यचारणै-- र्महर्षिभिर्यक्षमहोरगैरपि। जयाभिवृद्ध्या परयाऽभिपूजितौ निहत्य कर्णं परमाहवे तदा॥ 8-99-47 (59953) यथानुरूपं प्रतिपूज्य तानथ प्रशस्यमानावतुलैश्च कर्मभिः। ननन्दतुश्चैव सुहृद्भिरावृतौ बलं निहत्येव सुरेशकेशवौ॥ ॥ 8-99-48 (59954) इति श्रीमन्महाभारते कर्णपर्वणि एकोनशततमोऽध्यायः॥ 99 ॥

Mahabharata - Karna Parva - Chapter Text

8-99-0 (59955) [धृष्टराष्ट्र उवाच। 8-99-0x (5070) तस्मिंस्तु कर्णार्जुनयोर्विमर्दे दग्धस्य रौद्रेऽहनि विद्रुतस्य। बभूव कुरुसृञ्जयानां बलस्य बाणोन्मथितस्य कीदृक्॥ 8-99-1 (59956) सञ्जय उवाच। 8-99-2x (5071) शृणु राजन्नवहितो यथा वृत्तो महाक्षयः। घोरो मनुष्यदेहानामाजौ च गजवाजिनाम्॥ 8-99-2 (59957) यत्र कर्णे हते पार्थः सिंहनादमथाकरोत्। तदा तव सुतान्राजन्नाविवेश महद्भयम्॥ 8-99-3 (59958) न सन्धातुमनीकानि न चैवाशु पराक्रमे। आसीद्वुद्विर्हते कर्णे तव योधस्य कर्हिचित्॥ 8-99-4 (59959) वणिजो नावि भिन्नायामगाधे विप्लुवे यथा। अपारे पारमिच्छन्तो हते द्वीपे किरीटिना॥ 8-99-5 (59960) सूतपुत्रे हते राजन्वित्रस्ताः शस्त्रविक्षताः। अनाथा नाथमिच्छन्तो मृगाः सिंहैरिवार्दिताः॥ 8-99-6 (59961) भग्नशृङ्गा वृषा यद्वद्भग्नदंष्ट्रा इवोरगाः। प्रत्यपायाम सायाह्ने निर्जिताः सव्यसाचिना॥ 8-99-7 (59962) हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः। सूतपुत्रे हते राजन्पुत्रास्ते दुद्रुवुर्भयात्॥ 8-99-8 (59963) विस्रस्तयन्त्रकवचाः कान्दिग्भूता विचेतसः। अन्योन्यमवमृद्गन्तो वीक्षमाणा भयार्दिताः॥ 8-99-9 (59964) मामेव नूनं बीभत्सुर्मामेव च वृकोदरः। अभियातीति मन्वानाः पेतुर्मम्लुश्च सम्भ्रमात्॥ 8-99-10 (59965) हयानन्ये गजानन्ये रथानन्ये महारथाः। आरुह्य जवसम्पन्नाः पदातीन्प्रजहुर्भयात्॥ 8-99-11 (59966) कुञ्जरैः स्यन्दनाः क्षुण्णाः सादिनश्च महारथैः। पदातिसङ्घाश्चाश्वौधैः पलायद्भिर्भयार्दितैः॥ 8-99-12 (59967) व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने। सूतपुत्रे हते राजंस्तव योधास्तथाऽभवन्॥ 8-99-13 (59968) हतारोहा यथा नागाश्छिन्नहस्ता यथा नराः। सर्वे पार्थमयं लोकं सम्पश्यन्तो भयार्दिताः॥ 8-99-14 (59969) सम्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान्। दुर्योधनोऽथ स्वं सूतं हाहाकृत्वेदमब्रवीत्॥ 8-99-15 (59970) नातिक्रमेच्च मां पार्थो धनुष्पाणिमवस्थितम्। जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय॥ 8-99-16 (59971) युध्यमानं हि कौन्तेयं हनिष्यामि न संशयः। नोत्सहेन्मामतिक्रान्तुं वेलामिव महोदधिः॥ 8-99-17 (59972) अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम्। अन्याञ्शिष्टांस्तथा शत्रून्कर्णस्यानृण्यमाप्नुयाम्॥ 8-99-18 (59973) तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः। सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत्॥ 8-99-19 (59974) रथाश्वनागहीनास्तु पादातास्तव मारिष। पञ्चविंशतिसाहस्रा युद्वायैव व्यवस्थिताः॥ 8-99-20 (59975) तान्भीमसेनः सङ्क्रुद्धो धृष्ट्यद्युम्नश्च पार्षतः। बलेन चतुरङ्गेण संवृत्याजघ्नतुः शरैः॥ 8-99-21 (59976) प्रत्ययुध्यन्त समरे भीमसेनं सपार्षतम्। पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी॥ 8-99-22 (59977) अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः। सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत॥ 8-99-23 (59978) न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः। योधयामास कौन्तेयो भुजवीर्यव्यपाश्रयः॥ 8-99-24 (59979) जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम्। अवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः॥ 8-99-25 (59980) पदातिनोऽपि सन्त्यक्त्वा प्रियं जीवितमात्मनः। भीममभ्यद्रवन्सङ्ख्ये पतङ्गा ज्वलनं यथा॥ 8-99-26 (59981) आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः। विनेशुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम्॥ 8-99-27 (59982) श्येनवद्विचरन्भीमो गदाहस्तो महाबलः। पञ्चविंशतिसाहस्रांस्तावकानवपोथयत्॥ 8-99-28 (59983) हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः। धृष्टद्युम्नं पुरस्कृत्य तस्थौ तत्र महाबलः॥ 8-99-29 (59984) धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान्। माद्रीपुत्रौ तु शकुनिं सात्यकिश्च महारथः। जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम्॥ 8-99-30 (59985) तस्याश्वसादीन्सुबहूंस्ते निहत्य शितैः शरैः। समभ्यधावंस्त्वरितास्तत्र युद्धमभून्महत्॥ 8-99-31 (59986) धनञ्जयोऽपि चाभ्येत्य रथानीकं तव प्रभो। विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः॥ 8-99-32 (59987) कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम्। अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रवन्भयात्॥ 8-99-33 (59988) विप्रहीणरथाश्चैव शरैश्च परिकर्शिताः। पञ्चविंशतिसाहस्राः कालमार्छन्पदातयः॥ 8-99-34 (59989) हत्वा तान्पुरुषव्याघ्रः पाञ्चालानां महारथः। पुत्राः पाञ्चालराजस्य धृष्टद्युम्नो महामनाः॥ 8-99-35 (59990) भीमसेनं पुरस्कृत्य नचिरात्प्रत्यदृश्यत। महाधनुर्धरः श्रीमानमित्रगणतापनः॥ 8-99-36 (59991) पारावतसवर्णाश्वं कोविदारमयध्वजम्। धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात्॥ 8-99-37 (59992) गान्धारराजं शीघ्रास्त्रमनुसृत्य यशस्विनौ। नचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी॥ 8-99-38 (59993) वेकितानः शिखण्डी च द्रौपदेयाश्च मारिष। हत्वा त्वदीयं सुमहत्सैन्यं शङ्खांस्तथाऽधमन्॥ 8-99-39 (59994) ते सर्वे तावकान्प्रेक्ष्य द्रवतोऽपि पराङ्मुखान्। अभ्यवर्तन्त संरब्धान्वृषाञ्जित्वा यथा वृषाः॥ 8-99-40 (59995) सेनावशेषं तं दृष्ट्वा तव सैन्यस्य पाण्डवः। व्यवस्थितः सव्यसाची चुक्रोध बलवान्नृप॥ 8-99-41 (59996) धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान्। विश्रुतं त्रिषु लोकेषु व्याक्षिपद्गाण्डिवं धनुः॥ 8-99-42 (59997) तत एनाञ्शरव्रातैः सहसा समवाकिरत्। तमसा संवृतेनाथ न स्म किञ्चिद्वदृश्यत॥ 8-99-43 (59998) अन्धकारीकृते लोके रजोभूते महीतले। योधाः सर्वे महाराज तावकाः प्राद्रावन्भयात्॥ 8-99-44 (59999) सम्भज्यमाने सैन्ये तु कुरुराजो विशाम्पते। परानभिमुखांश्चैव सुतस्ते समुपाद्रवत्॥ 8-99-45 (60000) ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान्। युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः॥ 8-99-46 (60001) त एनमभिगर्जन्तः सहिताः समुपाद्रवन्। नानाशस्त्रभृतः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः॥ 8-99-47 (60002) दुर्योधनोऽप्यसम्भ्रान्तस्तान्रणे निशितैः शरैः। तत्रावधीत्ततः क्रुद्वः शतशोऽथ सहस्रशः॥ 8-99-48 (60003) तत्सैन्यं पाण्डवेयानां योधयामास सर्वतः॥ 8-99-49 (60004) तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम्। यदेकः सहितान्सर्वान्रणेऽयुध्यत पाण्डवान्। ततोऽपश्यन्महात्मा स स्वसैन्यं भृशदुःखितम्॥ 8-99-50 (60005) ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः। हर्षयन्निव तान्योधानिदं वचनमब्रवीत्॥ 8-99-51 (60006) न तं देशं प्रपश्यामि यत्र याता भयार्दिताः। गतानां यत्र वै मोक्षः पाण्डवात्किं गतेन वः॥ 8-99-52 (60007) अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ। अद्य सर्वान्हनिष्यामिध्रुवो हि विजयो भवेत्॥ 8-99-53 (60008) विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्विषान्। अनुसृत्य वधिष्यन्ति श्रेयान्नः समरे वधः॥ 8-99-54 (60009) सुखं साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्। मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते॥ 8-99-55 (60010) शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः। यदा शूरं च भीरुं च मारयत्यन्तको मयः॥ 8-99-56 (60011) को न मूढो न युध्येत मादृशः क्षत्रियव्रतः। द्विषतो भीमसेनस्य क्रद्धस्य वशमेष्यथा॥ 8-99-57 (60012) पितामहैराचरितं न धर्मं हातुमर्हथ। न ह्यधर्मोऽस्ति पापीयान्क्षत्रियस्य पलायनात्॥ 8-99-58 (60013) न युद्धधर्माच्छ्रेयो हि पन्थाः स्वर्गस्य कौरवाः। अचिरेण हता लोकान्सद्यो योधाः समश्नुत॥ 8-99-59 (60014) सञ्जय उवाच। 8-99-60x (5072) एवं ब्रुवति पुत्रे ते सैनिका भृशविक्षताः। अनवेक्ष्यैव तद्वाक्यं प्राद्रवन्सर्वतो दिशः॥ 8-99-60 (60015) सञ्जय उवाच। 8-99-61x (5073) 8-99-61 (60016) दृष्ट्वा तु सैन्यं परिवृत्यमानं पुत्रेण ते मद्रपतिस्तदानीम्। सन्त्रस्तरूपः परिमूढचेता दुर्योधनं वाक्यमिदं बभाषे]॥

Mahabharata - Karna Parva - Chapter Footnotes

8-99-2 प्रहृष्टाः अर्जुनादयः। वित्रस्ताः भीरवः। विषण्णाः शत्रवः। विस्मिताः प्रेक्षकाः॥ 8-99-* अत्र झ.पाठे 61 श्लोका अधिका दृश्यन्ते 8-99-99 एकोनशततमोऽध्यायः॥
कर्णपर्व - अध्याय 100

॥ श्रीः ॥

8.100. अध्यायः 100

Mahabharata - Karna Parva - Chapter Topics

कर्णवधानन्तरं कृष्णार्जुनयोर्युधिष्ठिरसमीपगमनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text

8-100-0 (60017) सञ्जय उवाच। 8-100-0x (5074) शरसङ्कृत्तवर्माणं रुधिरोक्षितवक्षसम्। गतासुमपि राधेयं नैव लक्ष्मीर्विमुञ्चति॥ 8-100-1 (60018) तप्तजाम्बूनदनिभं बालार्कसदृशद्युतिम्। जीवन्तमिव तं शूरं सर्वभूतानि मेनिरे॥ 8-100-2 (60019) हतस्यापि महाराज सूतपुत्रस्य संयुगे। वित्रेसुः सर्वतो योधाः सिंहस्येवेतरे मृगाः॥ 8-100-3 (60020) हतोऽपि पुरुषव्याघ्रो व्याहरन्निव लक्ष्यते। नाभवद्विकृतिः काचिन्मृतस्यापि महात्मनः॥ 8-100-4 (60021) चारुवेषधरं राजंश्चारुमौलिशिरोधरम्। तन्मुखं सूतपुत्रस्य पूर्णचन्द्रसमद्युति॥ 8-100-5 (60022) कनकोत्तमसह्काशो ज्वलन्निव विभावसुः। स शान्तः पुरुषव्याघ्रः पार्थसायकवारिणा॥ 8-100-6 (60023) यथाऽग्निर्ज्वलनो दीप्तो जलमासाद्य शाम्यति। कर्णाग्निः समरे तद्वत्पार्थमेघेन शामितः॥ 8-100-7 (60024) आहृत्य स यशो दीप्तं सुयुद्धेनात्मनो भुवि। सपुत्रः समरे कर्णः प्रशान्तः पार्थतेजसा॥ 8-100-8 (60025) प्रताप्य पाण्डवान्सर्वान्पाञ्चालानस्त्रतेजसा। नानाभरणवान्रजंस्तप्तजाम्बूनदप्रभः॥ 8-100-9 (60026) वर्षित्वा शरवर्षाणि प्रताप्य रिपुवाहिनीम्। श्रीमानिव सहस्रांशुर्ज्वलन्सर्वान्प्रताप्य च। हतो वैकर्तनः कर्णः पादपोऽङ्कुरवानिव॥ 8-100-10 (60027) ददानीत्येव यः प्रादान्न नास्तीत्यर्थितोऽवदत्। सद्ध्यः सदा सत्पुरुषः स हतो द्वैरथे वृषा॥ 8-100-11 (60028) यस्य ब्राह्मणसात्सर्वं वित्तमासीन्महात्मनः। नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम्॥ 8-100-12 (60029) स दातॄणां प्रियो राजन्दाता चैव मनोरथान्। स पार्थास्त्रविनिर्दग्धो गतः परमिकां गतिम्॥ 8-100-13 (60030) यमाश्रित्याकरोद्वैरं सुतस्ते स गतो दिवम्। आदाय तव पुत्राणां जयाशां सर्म वर्म च॥ 8-100-14 (60031) हते च कर्णे सरितो न सस्रु-- र्जगाम चास्तं कलुषो दिवाकरः। श्वेतो ग्रहश्च ज्वलितार्कवर्णो यमस्य पुत्रोऽभ्युदितः स तिर्यक्॥ 8-100-15 (60032) नभश्चचालाथ ननाद चोर्वी ववुश्च वाताः परुषाश्च घोराः। दिशो बभूवुर्ज्वलिताः सधूमा महार्णवाः सस्वनुश्चुक्षुभुश्च॥ 8-100-16 (60033) सकाननाश्चाद्रिवराश्चकम्पिरे प्रविव्यथुर्भूतगणाश्च मारिष। बृहस्पतिः सम्परिवार्य रोहिणीं बभूव चन्द्रार्कसमो विशाम्पते॥ 8-100-17 (60034) हते कर्णे न दिशो विप्रचाराः सचन्द्रार्का द्यौर्विचचाल भूमिः। पपात चोल्का ज्वलनप्रभा च निशाचरा हृष्टतरा बभूवुः॥ 8-100-18 (60035) शशिप्रकाशाननमर्जुनो यदा जहार कर्णस्य शिरः शरेण। ततोऽन्तरिक्षे सहसैव शब्दो बभूव हाहेति सुरैर्विमुक्तः॥ 8-100-19 (60036) सदेवगन्धर्वमनुष्यपूजितं निहत्य कर्णं रिपुमाहवेऽर्जुनः। रराज राजन्परमेण तेजसा यथा पुरा वृत्रवधे शतक्रतुः॥ 8-100-20 (60037) पताकिना भीमनिनादकेतुना रथेन शङ्खस्फटिकावभासिना। महेन्द्रवाहप्रतिमेन तावुभौ महेन्द्रवीर्यप्रतिमानपौरुषौ॥ 8-100-21 (60038) सुवर्णमुक्तामणिवज्रविद्रुमै-- रलङ्कृतेनाप्रतिमेन रंहसा। नरोत्तमौ यादवपाण्डुनन्दनौ दिवाकरौ दीप्तहुताशनाविव। रणाजिरे वीतभयौ विरेजतुः समानयोगाविव विष्णुवासवैः॥ 8-100-22 (60039) ततो धनुर्ज्यातलनेमिनिस्वनैः प्रसह्य कृत्वा च रिपून्गतप्रभान्। स साधयित्वा च रिपूञ्शरौघैः कपिध्वजः पक्षिवरध्वजश्च। प्रदध्मतुः शङ्खवरौ सुघोषौ मनांस्यरीणामुपतापयन्तौ॥ 8-100-23 (60040) सुवर्णजालावततौ महास्वनौ हिमावदातौ परिगृह्य पाणिमिः। चुचुम्बतुः शङ्खवरौ नृणां वरौ विघोषयन्तौ विजयं जगत्त्रये॥ 8-100-24 (60041) पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः। पृथिवीमन्तरिक्षं च दिशश्च समपूरयत्॥ 8-100-25 (60042) वित्रस्ताश्चाभवन्सर्वे कुरवो राजसत्तम। शूरयोः शङ्खशब्देन माधवस्यार्जुनस्य च॥ 8-100-26 (60043) तौ शङ्खशब्देन निनादयन्तौ वनानि शैलान्सरितो गुहाश्च। वित्रासयन्तौ तव पुत्रसेनां युधिष्ठिरं नन्दयितुं प्रयातौ॥ 8-100-27 (60044) ततः प्रजग्मुः कुरवो जवेन श्रुत्वैव शङ्खस्वनमीर्यमाणम्। विहाय मद्राधिपतिं पतिं च दुर्योधनं भारत भारतानाम्॥ 8-100-28 (60045) ततो रथेनाम्बुदबृन्दनादिना शरद्वहर्मध्यदिवाकरत्विषा। धनञ्जयस्याधिरथेश्च विस्मिताः प्रशंसमानाः प्रययुस्तदाऽर्जुनम्॥ 8-100-29 (60046) महाहवे तं बहुशोभमानं धनञ्जयं योधगणैः समेताः। तावन्वमोदंश्च जनाः प्रकामं प्रभाकरावभ्युदितौ यथैव॥ ॥ 8-100-30 (60047) इति श्रीमन्महाभारते कर्णपर्वणि शततमोऽध्यायः॥ 100 ॥

Mahabharata - Karna Parva - Chapter Footnotes

8-100-13 सदा स्त्रीणां प्रिय इति झ.पाठः॥ 8-100-100 शततमोऽध्यायः॥
कर्णपर्व - अध्याय 101

॥ श्रीः ॥

8.101. अध्यायः 101

Mahabharata - Karna Parva - Chapter Topics

कर्णवधानन्तरमर्जुनेन युधिष्ठिराभिवादनम्॥ 1 ॥ तेन कृष्णार्जुनप्रशंसनम्॥ 2 ॥ कृष्णयुधिष्ठिरसंवादः॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text

8-101-0 (60048) सञ्जय उवाच। 8-101-0x (5075) हते वैकर्तने कर्णे कुरवो भयपीडिताः। वीक्षमाणा दिशः सर्वाः पलायन्त सहस्रशः॥ 8-101-1 (60049) रावणं निहतं दृष्ट्वा राक्षसा राघवेण वा। दिशो भीता द्रवन्नेव तावका भयपीडिताः॥ 8-101-2 (60050) ततो महारवं चक्रुर्योधा राजन्समन्ततः। वार्यमाणा भृशोद्विग्नास्तव पुत्रेण भारत॥ 8-101-3 (60051) तेषां तु मतमाज्ञाय पुत्रस्ते भरतर्षभ। अवहारं ततश्चक्रे शल्यस्यानुमतेन च॥ 8-101-4 (60052) कृतवर्मा रणे तूर्णं वृतो भारत तावकैः। नारायणावशिष्टैश्च शिबिरायैव दुद्रुवे॥ 8-101-5 (60053) अश्वत्थामा ततः शूरो विनिश्वस्य मुहुर्मुहुः। पाण्डवानां जयं दृष्ट्वा शिबिरायैव दुद्रुवे॥ 8-101-6 (60054) कृपः शारद्वतो राजन्नागानीकेन भारत। महता मेघकल्पेन शिबिरायैव दुद्रुवे॥ 8-101-7 (60055) गान्धाराणां सहस्रेण शकुनिः परिवारितः। सुशर्मा च ययौ राजन्वीक्षमाणो भयार्दितः॥ 8-101-8 (60056) दुर्योधनोऽपि स ययौ ह्वतसर्वस्व आतुरः। ज्ञातिशोकसमापन्नश्चिन्तयित्वा मुहुर्मुहुः॥ 8-101-9 (60057) छिन्नध्वजेन शल्यस्तु रथेन रथिनां वरः। प्रययौ शिबिरायैव वीक्षमाणो दिशो दश॥ 8-101-10 (60058) ततोऽपरे सुबहुशो भारतानां महारथाः। व्यद्रवन्त दिशो भीता भयविह्वलचेतसः॥ 8-101-11 (60059) अश्रूपूर्णा भयोद्विग्ना वेपमाना भयातुराः। कुरवः प्राद्रवन्सर्वे दृष्ट्वा कर्णं निपातितम्॥ 8-101-12 (60060) प्रशंसन्तोऽर्जुनं केचित्केचित्कर्णं महारथाः। प्राद्रवन्त रणे भीताः कुरवः कुरुसत्तम॥ 8-101-13 (60061) तेषां योधसहस्राणां तावकानां महामृधे। नासीत्तत्र पुमान्कश्चिद्यस्तु युद्धे मनो दधे॥ 8-101-14 (60062) कर्णे हते महाराज निराशाः कुरवोऽभवन्। जीवनेषु च राज्येषु दारेषु च धनेषु च॥ 8-101-15 (60063) तान्समानीय पुत्रस्ते यत्नेन महता विभो। निवेशाय मनो दध्रे दुःखशोकसमन्वितः॥ 8-101-16 (60064) तस्याज्ञां शिरसा दीनाः प्रतिगृह्य विशाम्पते। विषण्णमनसो भीत्या न्यविशन्त महारथाः॥ 8-101-17 (60065) चिन्तयन्तो वधं घोरं सूतपुत्रस्य संयुगे। अर्जुनस्य जयं युद्धे चिन्तयानाः पुनःपुनः॥ 8-101-18 (60066) पाण्डवाश्च महेष्वासा न्यविशन्त परन्तपाः। प्रहृष्टमनसः सर्वे जित्वा शत्रुं महारथाः॥ 8-101-19 (60067) ततो युधिष्ठिरं तत्र निविष्टं वै मुदान्वितम्। समेत्य सर्वे पाञ्चाला वर्धयन्तो यथाविधि॥ 8-101-20 (60068) अर्जुनस्तु रथात्तूर्णमवरुह्य महायशाः। धर्मराजस्य चरणौ पीडयामास हृष्टवत्॥ 8-101-21 (60069) तमुत्थाप्य महाराज धर्मपुत्रः प्रतापवान्। सस्वजे भरतश्रेष्ठमुपजिघ्रन्नुपस्पृशन्॥ 8-101-22 (60070) नकुलः सहदेवश्च पाण्डवश्च वृकोदरः। अभिवाद्य महाराजमस्वजन्त स्म फल्गुनम्॥ 8-101-23 (60071) धृष्टद्युम्नः शिखण्डी च पाण्डवानां च ये रथाः। वर्धयन्ते स्म राजानं निहते सूतनन्दने॥ 8-101-24 (60072) ततः कृष्णो महाराज सात्यकिश्चापि सात्वतः। वर्धयन्ते स्म राजानं निहते सूतनन्दने॥ 8-101-25 (60073) वासुदेवश्च कौन्तेयं प्रणयादिदमब्रवीत्। अद्य राजन्हताः सर्वे धार्तराष्ट्राः सराजकाः। हते वैकर्तने कर्णे रथानां प्रवरे रथे॥ 8-101-26 (60074) यदि लोकास्त्रयः सर्वे योधयेयुः सवासवाः। तथापि दुर्जयः सूतस्तव कोपात्तु सूदितः॥ 8-101-27 (60075) एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम्॥ 8-101-28 (60076) तव प्रसादाद्ग्रोविन्द हतः कर्णो महायशाः। पाण्डवाश्च जयं प्राप्या नाशिताश्चापि शत्रवः॥ 8-101-29 (60077) त्वं हि शक्तो भयात्त्रातुं यस्य कस्यचिदाहवे। त्वमस्य जगतो गोप्ता पाण्डवानां च सर्वदा॥ 8-101-30 (60078) त्वां समासाद्य शक्रोऽपि मोदते दिवि नित्यशः। त्वं पाता पाण्डुपुत्राणां यथैव जगतस्तथा॥ 8-101-31 (60079) अनाश्चर्यो जयस्तेषां भक्तिर्येषां त्वयि प्रभो॥ 8-101-32 (60080) त्वया नाथेन गोविन्द नाथवन्तो वयं युधि। यथेन्द्रेण पुरा देवास्त्वया चापि जनार्दन॥ 8-101-33 (60081) स्वप्स्याम्यद्य सुखं कृष्णनिद्रां लप्स्ये त्वहं क्षपाम्। विगतं हि भयं मेऽद्य त्वत्प्रसादान्न संशयः॥ 8-101-34 (60082) एवमुक्तस्तु पार्थेन केशवः प्राह पाण्डवम्। निमित्तमात्रं हि वयं तवाप्यस्मिन्मुदागमे॥ 8-101-35 (60083) यस्य ते भ्रातरः शूरा भीमसेनादयो नृप। सम्बन्धिनश्चेन्द्रवीर्याः पार्षतप्रमुखास्तथा॥ 8-101-36 (60084) अर्हते च भवान्नित्यं प्रियं नित्यं च मद्वितम्। प्रियो हि मे त्वमेतेन वचनेन नरोत्तम॥ 8-101-37 (60085) इत्युक्तो धर्मराजस्तु स्वरथं हेमभूपितम्। दन्तवर्णैर्हयैर्युक्तं कालवालैर्महीपतिः॥ 8-101-38 (60086) आस्थाय पुरुषव्याघ्रः स्वबलेनापि संवृतः। प्रययौ बहुवृत्तान्तं द्रष्टुमायोधनं प्रति॥ 8-101-39 (60087) सम्भाषमाणौ तौ वीर उभौ माधवपाण्डवौ॥ 8-101-40 (60088) स ददर्श रणे कर्णं शयानं पुरुषर्षभम्। गाण्डीवमुक्तैर्विशिखैः सर्वतः सन्निपीडितम्॥ 8-101-41 (60089) सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः। प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ॥ 8-101-42 (60090) अद्य राजाऽस्मि सर्वस्यां पृथिव्यां मधुसूदन। दिष्ट्या जयसि गोविन्द दिष्ट्याशत्रुर्निपातितः॥ 8-101-43 (60091) एवं सुबहुशो राजन्प्रशशंस जनार्दनम्। अर्जुनं च कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः॥ 8-101-44 (60092) दृष्ट्वा च निहतं कर्णं स पुत्रं पार्थसायकैः। पुनर्जातमिवात्मानं मेने कुरुकुलोद्वहः॥ 8-101-45 (60093) समेत्य च कुरुश्रेष्ठं कुन्तीपुत्रं युधिष्ठिरम्। वर्धयन्ति स्म राजानो हर्षयुक्ता महारथाः॥ 8-101-46 (60094) सञ्जय उवाच। 8-101-47x (5076) एवमेष क्षयो वृत्तः सुमहान्रोमहर्षणः। तव दुर्मन्त्रिते राजन्दिष्ट्या त्वमनुशोचसि॥ 8-101-47 (60095) वैशम्पायन उवाच। 8-101-48x (5077) श्रुत्वैतदप्रियं राजा धृतराष्ट्रो महीपतिः। पपात भूमौ निश्चेष्टः कौरव्यः परमासनात्। तथा सत्यव्रता देवी गान्धारी दिव्यदर्शना॥ 8-101-48 (60096) ततस्तूर्णं तु विदुरस्तं नृपं सञ्जयस्तथा। पर्याश्वासयतां चैतावुभावेव तु भूमिपम्॥ 8-101-49 (60097) तथैवाश्वासयामासुर्गान्धारीं कुरुयोषितः॥ 8-101-50 (60098) स दैवं परमं मेने भवितव्यं च भारत। ताभ्यामाश्वासितो राजा तूष्णीमास्ते विशाम्पते॥ 8-101-51 (60099) एवमाख्याय राज्ञे च सञ्जयो राजसत्तम। जगाम शिबिरं भूयो हते कर्णे महात्मनि॥ 8-101-52 (60100) स दृष्ट्वा निहतं शल्यं राजानं च सुयोधनम्। शकुनिं सुबहून्राजन्सैनिकांश्च सहस्रशः॥ 8-101-53 (60101) तथैव पाण्डवीं सेनां निहतां प्रेक्ष्य सञ्जयः। सौप्तिके द्रौणिना राजन्हतवाजिनरद्विपाम्॥ 8-101-54 (60102) स हि दृष्ट्वा हतान्सर्वान्समन्ताद्युधि सञ्जयः। प्रयातो हास्तिनपुरं शोकार्तो भयविह्वलः॥ 8-101-55 (60103) हतेषु पुनरेतेषु प्रभूतगजवाजिषु। योधैश्च तैर्महाराज नानादेशसमुद्भवैः॥ 8-101-56 (60104) कुरुक्षेत्रं तु तत्सर्वं शून्यमासीद्विशाम्पते। निहतैः पाण्डवेयैश्च धार्तराष्ट्रैश्च संयुगे॥ 8-101-57 (60105) यथाहि विषयं वृत्तं धार्तराष्ट्रस्य संञ्जयः। निवेदयति तत्सर्वं यथावृत्तं यथाविधि॥ 8-101-58 (60106) एवं महायुद्धमिदं महात्मनो धनञ्जयस्याधिरथेश्च यः पठेत्। स सम्यगिष्टस्य मखस्य यत्फलं तदाप्नुयाद्यः शृणुयाच्च नित्यशः॥ 8-101-59 (60107) मखो हि विष्णुर्भगवान्सनातनो वहन्ति यं चाप्यनिलेन्दुभानवः। अतोऽनसूयुः शृणुयात्पठेच्च यः स सर्वलोकांश्च जयेत्सुखी भवेत्॥ ॥ 8-101-60 (60108) इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां कर्णपर्वणि एकाधिकशततमोऽध्यायः॥ 101 ॥ ॥ कर्णपर्व समाप्तम्॥ 8 ॥ अतः परं शल्यपर्व भविष्यति। तस्यायमाद्यः श्लोकः॥ 8-101-1 (60109) जनमेजय उवाच। 8-101-2x (5078) एवं निपातिते कर्णे समरे सव्यसाचिना। अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज॥ 8-101-2 (60110) इदं कर्णपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी. आर्. व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1829 सन 1907.


AUM shantiH