Kumbhaghonam Edition
9. शल्यपर्व
शल्यपर्व - अध्याय 001
॥ श्रीः ॥
9.1. अध्यायः 001
Mahabharata - Shalya Parva - Chapter Topics
दुर्योधनेन शल्यस्य सैनापत्येऽभिषेचनपूर्वकं पुनर्युद्धाय निर्याणम्॥ 1 ॥ सञ्जयाच्छल्यदुर्योधनादिवधश्रवणेन मूर्च्छितस्य धृतराष्ट्रस्य विदुरेण समाश्वासनम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-1-0 (60111)
श्रीवेदव्यासाय नमः॥ 9-1-0x (5079)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं (व्यासं) चैव ततो जयमुदीरयेत्॥ 9-1-1 (60112)
जनमेजय उवाच। 9-1-2x (5080)
एवं निपातिते कर्णे समरे सव्यसाचिना।
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज॥ 9-1-2 (60113)
विदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः।
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः॥ 9-1-3 (60114)
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ 9-1-4 (60115)
वैशम्पायन उवाच। 9-1-5x (5081)
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः।
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत्॥ 9-1-5 (60116)
हाकर्ण हाकर्ण इति शोचमानो मुहुर्मुहुः।
कृच्छ्रात्स्वशिबिरं प्रायाद्वतशिष्टैर्नृपैः सह॥ 9-1-6 (60117)
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः।
राजन्विभूतिमिच्छद्भिः सूतपुत्रमनुस्मरन्॥ 9-1-7 (60118)
स दैवं बलवन्मत्वा प्रभाते विमले सति।
सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्वाय निर्ययौ॥ 9-1-8 (60119)
शल्यं सेनापतिं कृत्वा विधिवद्राजसत्तमम्।
रणाय निर्ययौ राजा हतशिष्टैर्नृपैः सह॥ 9-1-9 (60120)
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः।
बभूव भरतश्रेष्ठ देवासुररणोपमम्॥ 9-1-10 (60121)
ततः शल्यो महाराज कृत्वा कदनमाहवे।
पाण्डुसैन्येऽथ मध्याह्ने धर्मराजेन पातितः॥ 9-1-11 (60122)
ततो दुर्योधनो राजा हतबन्धू रणाजिरात्।
अपसृत्य हदं घोरं विवेश रिपुजाद्भुयात्॥ 9-1-12 (60123)
अथापराह्णे तस्याह्नः परिवार्य महारथैः।
हदादाहूय युद्वाय भीमसेनेन पातितः॥ 9-1-13 (60124)
तस्मिंस्तु निहते वीरे महेष्वासास्त्रयो रणे।
कृतवर्मा कृपो द्रौणिर्जघ्नुः पाण्डवसैनिकान्॥ 9-1-14 (60125)
ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः।
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः॥ 9-1-15 (60126)
स प्रविश्य पुरीं सूतो भूजावुच्छ्रित्य दुःखितः।
वेपमानस्ततो राज्ञः प्रविप्रेश निवेशनम्॥ 9-1-16 (60127)
धावतश्चाप्यपश्यxxx तत्रत्यान्पुरुषर्षभान्।
नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशदुःखितान्॥ 9-1-17 (60128)
दृष्ट्वैव च नराञ्शीघ्रं व्याजहारातिदुःखितः।
अहो बत विपन्नोऽस्मि निधनेन महात्मनः॥ 9-1-18 (60129)
अहो सुबलवान्कालो गतिश्च परमा तथा।
शुक्रतुल्यबलाः सर्वे यत्राहन्यन्त पार्थिवाः॥ 9-1-19 (60130)
तं दृष्ट्वैव पुरे राजञ्जनः सर्वः स्म सञ्जयम्।
प्ररुरोद भयोद्विग्नो हा राजन्निति सुस्वरम्॥ 9-1-20 (60131)
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः।
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम्॥ 9-1-21 (60132)
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्।
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम्॥ 9-1-22 (60133)
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम्।
स्नुषामिर्भरतश्रेष्ठ गान्धार्या विदुरेण च।
तथाऽन्यैश्च सुहृद्भिश्च ज्ञातिमिश्च हितैषिभिः॥ 9-1-23 (60134)
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति।
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय॥ 9-1-24 (60135)
नातिहृष्टमनाः सूतो बाष्पसन्दिग्धया गिरा।
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ॥ 9-1-25 (60136)
मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा।
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः॥ 9-1-26 (60137)
संशप्तका हताः सर्वे काम्भोजाश्च शकैः सह।
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः॥ 9-1-27 (60138)
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः।
उदीच्याश्च हताः सर्वे प्रतीच्याश्च नरोत्तमाः।
राजानो राजपुत्राश्च सर्वे विनिहता नृप॥ 9-1-28 (60139)
कर्णपुत्रो हतः शूरः सत्यसेनो महाबलः॥ 9-1-29 (60140)
दुर्योधनो हतो राजा ययोक्तं पाण्डवेन ह।
xxxxxx महाराज शेते पांसुषु रूषितः॥ 9-1-30 (60141)
xxxxxx हतो xxx जञ्शिखण्डी चापराजितः।
उत्तमौज युधामन्युस्तथा सर्वे प्रभद्रकाः॥ 9-1-31 (60142)
पाञ्चालश्च नरव्याघ्र चेदयश्च निषूदिताः।
तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत॥ 9-1-32 (60143)
नरा विनिहताः सर्वे गजाश्च विनिपातिताः।
रथिनत्र नरव्याघ्र हयाश्च निहता युधि॥ 9-1-33 (60144)
निxxxx शिबिरं रावंजावकानां कृतं प्रभो।
पाण्डवानां च शूराणां समासाद्य परस्परम्॥ 9-1-34 (60145)
xxxx स्रीशेषमभवज्जगत्कालेन मोहितम्।
सप्त पाण़्डवतः शिष्टा धार्तराष्ट्रास्त्रयोरथाः॥ 9-1-35 (60146)
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः।
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः॥ 9-1-36 (60147)
एते शेषा महाराज रथिनो नृपसत्तम।
अक्षौहिणीनामष्टानां दशानां च न संशयः॥ 9-1-37 (60148)
एते शेषा महाराज सर्वेऽन्ये निधनं गताः।
कालेन निहतं सर्वं जगद्वै भरतर्षभ।
दुर्योधनं वै पुरतः कृत्वा सर्वे नरा हताः॥ 9-1-38 (60149)
वैशम्पायन उवाच। 9-1-39x (5082)
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः।
निपपात स राजेन्द्रो गतसत्वो महीतले॥ 9-1-39 (60150)
तस्मिन्निपतिते वीरे विदुरोऽपि महायशाः।
निपपात महाराज शोकव्यसनकर्शितः॥ 9-1-40 (60151)
गान्धारी च महाभागा सर्वाश्च कुरुयोषितः।
पतिताः सहसा भूमौ श्रुत्वा घोरतरं वचः॥ 9-1-41 (60152)
निःसंज्ञं पतितं भूमौ तदाऽऽसीद्राजमण्डलम्।
विलापमुक्तोपहतं चित्रं न्यस्तं पटे यथा॥ 9-1-42 (60153)
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः।
शनैरलभत प्राणान्पुत्रव्यसनकर्शितः॥ 9-1-43 (60154)
लब्ध्वा तु स नृपः प्राणान्वेपमानः सुदुःखितः।
निरीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत्॥ 9-1-44 (60155)
विद्धि क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ।
ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः।
एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह॥ 9-1-45 (60156)
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन।
शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि॥ 9-1-46 (60157)
स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः।
तूष्णीमासीन्महीपालः पुत्रव्यसनकर्शितः॥ 9-1-47 (60158)
निःश्वसञ्जिह्मग इव कुम्भक्षिप्तोऽभवन्नृपः॥ 9-1-48 (60159)
सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम्।
तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी॥ 9-1-49 (60160)
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत्।
धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः॥ 9-1-50 (60161)
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी।
तथेमे सुहृदः सर्वे मुह्यते मे मनो भृशम्॥ 9-1-51 (60162)
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ।
विसर्जयामास शनैर्मुह्यमानः पुनःपुनः॥ 9-1-52 (60163)
निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम।
सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम्॥ 9-1-53 (60164)
ततो नरपतिस्तत्र लब्ध्वा संज्ञां परन्तपः।
गतिर्मे को भवेदद्य इति चिन्तासमाकुलः।
अपृच्छत्सञ्जयं तत्र रोदमानं भृशातुरम्॥ 9-1-54 (60165)
प्राञ्जलिं सञ्जयं दृष्ट्वा रोदमानं मुहुर्मुहुः।
ज्ञातीन्स्त्रियोऽथ निर्याप्य प्रविश्य विदुरःपुनः॥ 9-1-55 (60166)
राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः।
समाश्वासयत क्षत्ता वचसा मधुरेण च॥ ॥ 9-1-56 (60167)
इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-1-12 अपराहे अपरार्धे॥ 9-1-41 विलापवुक्तोपहतं इति ङ.पाठः। विलापयुक्तं सुमहत् इति घ. पाठः॥ 9-1-1 प्रथमोऽध्यायः॥शल्यपर्व - अध्याय 002
॥ श्रीः ॥
9.2. अध्यायः 002
Mahabharata - Shalya Parva - Chapter Topics
धृतराष्ट्रेण सञ्जयस्य पुरतो दुर्योधनवचनानुस्मरणेन विलापः॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-2-0 (60168)
वैशम्पायन उवाच। 9-2-0x (5083)
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः।
विललाप महाराज दुःखाद्दुःखतरं गतः॥ 9-2-1 (60169)
सधूममिव निःश्वस्य करौ धुन्वन्पुनःपुनः।
बहु सञ्चिन्तयित्वा तु सञ्जयं वाक्यमब्रवीत्॥ 9-2-2 (60170)
धृतराष्ट्र उवाच। 9-2-3x (5084)
अहो बत महद्दुःखं यदहं पाण्डवान्रणे।
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै॥ 9-2-3 (60171)
वज्रसारमयं नूनं हृदयं सुदृढं मम।
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा॥ 9-2-4 (60172)
चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय।
अद्य चैव हताञ्श्रुत्वा दीर्यते मे भृशं मनः॥ 9-2-5 (60173)
अन्धत्वाद्यदि पुत्राणां न मे रूपिनिदर्शनम्।
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता॥ 9-2-6 (60174)
बालभावमतिक्रम्य यौवनस्थांश्च तानहम्।
श्रियं प्राप्तांश्च ताञ्श्रुत्वा हृष्ट आसं तदाऽनघ॥ 9-2-7 (60175)
तानद्य निहताञ्श्रुत्वा हतैश्वर्यान्हतौजसः।
न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः॥ 9-2-8 (60176)
एह्येहि वत्स राजेन्द्र ममानाथस्य पुत्रक।
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम्॥ 9-2-9 (60177)
कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान्।
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा॥ 9-2-10 (60178)
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा।
अन्धं वृद्वं च मां वीर विहाय क्व नु यास्यसि॥ 9-2-11 (60179)
सा कृपा सा च ते प्रीतिः सा च राजसु मानिता।
कथं त्वं निहतः पार्थैः संयुगेष्वपराजितः॥ 9-2-12 (60180)
को नु मामुत्थितः काले ताततातेति वक्ष्यति।
महाराजेति सततं लोकनाथेति चासकृत्॥ 9-2-13 (60181)
परिष्वज्य च कं कण्ठे स्नेहेन क्लिन्नलोचनः।
अनुशास्ताऽस्मि कौरव्य तत्साधु वदमे वचः॥ 9-2-14 (60182)
ननु नामाहमश्रौषं वचनं तव पुत्रक।
भूयसी मम पृथ्वीयं तात पार्थस्य नो तथा॥ 9-2-15 (60183)
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः।
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः॥ 9-2-16 (60184)
अश्वत्थामा च भोजश्च मागधश्च महाबलः।
बृहद्बलश्च क्राथश्च शकुनिश्चापि सौबलः॥ 9-2-17 (60185)
म्लेच्छाश्च शतसाहस्राः शकाश्च यवनैः सह।
सुदक्षिणश्च काम्भोजस्त्रिगर्ताधिपतिस्तथा॥ 9-2-18 (60186)
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः।
श्रुतायुश्चाश्रुतायुश्च शतायुश्चापि वीर्यवान्॥ 9-2-19 (60187)
जलसन्धोऽथार्ष्यशृङ्गी राक्षसश्चाप्यलायुधः।
अलम्बुसो वीरबाहुः सुबाहुश्च महारथः॥ 9-2-20 (60188)
एते चान्ये च बहवो राजानो राजसत्तम।
मदर्थं प्रहरिष्यन्ति प्राणांस्त्यक्त्वा धनानि च॥ 9-2-21 (60189)
तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः।
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः॥ 9-2-22 (60190)
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे।
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्॥ 9-2-23 (60191)
एकोऽप्येषां महाराज समर्थः सन्निवारणे।
समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम्॥ 9-2-24 (60192)
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः।
अथवा सर्व एवैते पाण्डवस्यानुयायिभिः॥ 9-2-25 (60193)
योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान्मृधे।
कर्ण एको मया सार्धं निहनिष्यति पाण्डवान्॥ 9-2-26 (60194)
ते वै नृपतयो वीराः स्थास्यन्ति मम शासने॥ 9-2-27 (60195)
यश्च तेषां प्रणेता वै वासुदेवो महाबलः।
न स सन्नह्यते राजन्निति मामब्रवीद्वचः॥ 9-2-28 (60196)
एवं च वदतः सूत बहुशो मम सन्निधौ।
युक्तितो ह्यनुपश्यामि निहतान्पाण़्डवान्रणे॥ 9-2-29 (60197)
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः।
व्यायच्छमानाः समरे किमन्यद्भागधेयतः॥ 9-2-30 (60198)
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान्।
शिखण़्डिनं समासाद्य मृगेन्द्र इव जम्बुकम्॥ 9-2-31 (60199)
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः॥ 9-2-32 (60200)
कर्णश्च निहतः सङ्ख्ये दिव्यास्त्रज्ञो महाबलः।
भूरिश्रवा हतो पत्र सोमदत्तश्च संयुगे।
बाह्लिकश्च महाराज किमन्यद्भागधेयतः॥ 9-2-33 (60201)
भगदत्तो हतो यत्र गजयुद्धविशारदः।
जयद्रथश्च निहतः किमन्यद्भागधेयतः॥ 9-2-34 (60202)
सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः।
श्रुतायुश्चाश्रुतायुश्च किमन्यद्भागधेयतः॥ 9-2-35 (60203)
महाबलस्तथा पाण्ड्यः सर्वशस्त्रभृतां वरः।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः॥ 9-2-36 (60204)
बृहद्बलो हतो यत्र मागधश्च महाबलः।
उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम्॥ 9-2-37 (60205)
आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः।
संशप्तकाश्च निहताः किमन्यद्भागधेयतः॥ 9-2-38 (60206)
अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः।
आर्ष्यशृङ्गिश्च निहतः किमन्यद्भागधेयतः॥ 9-2-39 (60207)
नारायणा हता यत्र गोपाला युद्धदुर्मदाः।
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः॥ 9-2-40 (60208)
शकुनिः सौबलो यत्र कैतव्यश्च महाबलः।
निहतः सबलो वीरः किमन्यद्भागधेयतः॥ 9-2-41 (60209)
एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः।
राजानो राजपुत्राश्च शूराः परिघबाहवः।
निहता बहवो यत्र किमन्यद्भागधेयतः॥ 9-2-42 (60210)
यत्र शूरा महेष्वासाः कृतास्त्रा युद्वदुर्मदाः।
बहवो निहताः सूत महेन्द्रसमविक्रमाः॥ 9-2-43 (60211)
नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय।
निहताः समरे सर्वे किमन्यद्भागधेयतः॥ 9-2-44 (60212)
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः।
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः॥ 9-2-45 (60213)
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः।
यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः॥ 9-2-46 (60214)
अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह सञ्जय।
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः॥ 9-2-47 (60215)
नान्यदत्र परं मन्ये वनवासादृते प्रभो।
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये॥ 9-2-48 (60216)
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते।
इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय॥ 9-2-49 (60217)
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि।
दुःशासनो विविंशश्च विकर्णश्च महाबलः॥ 9-2-50 (60218)
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम्।
एकेन समरे येन हतं पुत्रशतं मम॥ 9-2-51 (60219)
असकृद्वदतस्तस्य दुर्योधनवधेन च।
दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः॥ 9-2-52 (60220)
वैशम्पायन उवाच। 9-2-53x (5085)
एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः।
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः॥ 9-2-53 (60221)
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः।
दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम्॥ 9-2-54 (60222)
दुःखेन महता राजन्सन्तप्तो भरतर्षभः।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम्॥ 9-2-55 (60223)
धृतराष्ट्र उवाच। 9-2-56x (5086)
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम्।
सेनापतिं प्रणेतारं कमकुर्वत मामकाः॥ 9-2-56 (60224)
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः।
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः॥ 9-2-57 (60225)
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना।
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम्॥ 9-2-58 (60226)
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान्।
सराजकानां सर्वेषां पश्यतां वः किरीटिना॥ 9-2-59 (60227)
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना।
दुर्योधनापराधेन प्रजेयं विनशिष्यति॥ 9-2-60 (60228)
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यगवेक्ष्य च।
तदिदं मम मूढस्य तथाभूतं वचः स्म तत्॥ 9-2-61 (60229)
यदब्रवीत्स धर्मात्मा विदुरो दीर्घदर्शिवान्।
तत्तथा समनुप्राप्तं वचनं सत्यवादिनाः॥ 9-2-62 (60230)
दैवोपहतचित्तेन यन्मयाऽनुष्ठितं पुरा।
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः॥ 9-2-63 (60231)
को वा मुखमनीकानामासीत्कर्णो निपातिते।
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी॥ 9-2-64 (60232)
केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे।
वामं च योद्वुकामस्य के वा वीरस्य पृष्ठतः॥ 9-2-65 (60233)
कथं च वः समेतानां मद्रराजो महारथः।
निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय॥ 9-2-66 (60234)
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम्।
यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम॥ 9-2-67 (60235)
पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः।
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः॥ 9-2-68 (60236)
पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि।
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः॥ 9-2-69 (60237)
यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम्।
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय॥ ॥ 9-2-70 (60238)
इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि द्वितीयोऽध्यायः* ॥ 2 ॥* एतदनन्तरं झ.पाठे एकोऽध्यायोऽधिको दृश्यते।
Mahabharata - Shalya Parva - Chapter Topics
पार्थेन निहते कर्णे पाण्डवभयात्पलायमानां सेनां निवर्त्य दुर्योधनस्य पुनर्युद्धोद्यमः॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-2-0 (60239)
[सञ्जय उवाच। 9-2-0x (5087)
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः।
कुरूणां पाण्डवानां च समासाद्य परस्परम्॥ 9-2-1 (60240)
निहते सूतपुत्रे तु पाण्डवेन महात्मना।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्॥ 9-2-2 (60241)
घोरे मनुष्यदेहानामाजौ नरवरक्षये।
यत्तत्कर्णे हते पार्थः कसिंहनादमथाकरोत्॥ 9-2-3 (60242)
तदा तव सुतान्राजन्प्राविशत्सुमहद्भयम्॥ 9-2-4 (60243)
न सन्धातुमनीकानि न चैवाथ पराक्रमे।
आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित्॥ 9-2-5 (60244)
वणिजो नावि भिन्नायामगाधे विप्लुवा इव।
अपारे पारमिच्छन्तो हते द्वीपे किरीटिना॥ 9-2-6 (60245)
सूतपुत्रो हते राजन्वित्रस्ताः शरविक्षताः।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव॥ 9-2-7 (60246)
भग्नशृङ्गा इव वृषा शीर्णदंष्ट्रा इवोरगाः।
प्रत्युपायाम सायाह्ने निर्जिताः सव्यसाचिना॥ 9-2-8 (60247)
हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः।
सूतपुत्रे हते राजन्पुत्रास्ते प्राद्रवंस्ततः॥ 9-2-9 (60248)
विध्वस्तकवचनाः सर्वे कान्दिशीका विचेतसः।
अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयाद्दिशः॥ 9-2-10 (60249)
मामेव नूनं बीभत्सुर्मामेव च वृकोदरः।
अभियातीति मन्वानाः पेतुर्मम्लुश्च भारत॥ 9-2-11 (60250)
अश्वानन्ये गजानन्ये रथानन्ये महारथाः।
आरुह्य जवसम्पन्नाः पादातान्प्रजहुर्भयात्॥ 9-2-12 (60251)
कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः।
पदातिसङ्घाश्चाश्वौघैः पलायद्भिर्भृशं हताः॥ 9-2-13 (60252)
व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने।
तथा त्वदीया निहते सूतपुत्रे पदाऽभवन्॥ 9-2-14 (60253)
हतारोहास्तथा नागाश्छिन्नहस्तास्तथाऽपरे।
सर्वं पार्थमयं लोकमपश्यन्वै भयार्दिताः॥ 9-2-15 (60254)
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान्।
दुर्योधनोऽथ स्वं सूतं हाहाकृत्वैवमब्रवीत्॥ 9-2-16 (60255)
नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम्।
जघने युध्यमानं मां तूर्णमश्वान्प्रचोदय॥ 9-2-17 (60256)
समरे युध्यमानं हि कौन्तेयो मां धनञ्जयः।
नोत्सहेताप्यतिक्रान्तुं वेलामिव महार्णवः॥ 9-2-18 (60257)
अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम्।
निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम्॥ 9-2-19 (60258)
तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः।
सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत्॥ 9-2-20 (60259)
गजाश्वरथहीनास्तु पादाताश्चैव मारिष।
पञ्चविंशतिसाहस्राः प्राद्रवञ्शनकैरिव॥ 9-2-21 (60260)
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः।
बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः॥ 9-2-22 (60261)
प्रत्ययुध्यंस्तु ते सर्वे भीमसेनं सपार्षतम्।
पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी॥ 9-2-23 (60262)
अक्रुध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः।
सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत॥ 9-2-24 (60263)
न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः।
योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः॥ 9-2-25 (60264)
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम्।
न्यवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः॥ 9-2-26 (60265)
पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः।
भीममभ्यद्रवन्सङ्ख्ये पतङ्गा इव पावकम्॥ 9-2-27 (60266)
आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः।
विनेदुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम्॥ 9-2-28 (60267)
श्येनवद्व्यचरद्भीमः खङ्गेन गदया तथा।
पञ्चविंशतिसाहस्रांस्तावकानां व्यपोथयत्॥ 9-2-29 (60268)
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः।
धृष्टद्युम्नं पुरस्कृत्य पुनस्तस्थौ महाबलः॥ 9-2-30 (60269)
धनञ्जयो रथानीकमन्वपद्यत वीर्यवान्॥ 9-2-31 (60270)
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः।
जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम्॥ 9-2-32 (60271)
तस्याश्ववाहान्सुबहूंस्ते निहत्य शितैः शरैः।
तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत॥ 9-2-33 (60272)
ततो धनञ्जयो राजन्रथानीकमगाहत।
विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन्धनुः॥ 9-2-34 (60273)
कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम्।
अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रावन्भयात्॥ 9-2-35 (60274)
विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः।
पञ्चविंशतिसाहस्राः पार्थमार्च्छन्पदातयः॥ 9-2-36 (60275)
हत्वा तत्पुरुषानीकं पाञ्चालानां महारथः।
भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत॥ 9-2-37 (60276)
महाधनुर्धरः श्रीमानमित्रगणमर्दनः।
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः॥ 9-2-38 (60277)
पारावतसवर्णाश्वं कोविदारवरध्वजम्।
धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात्॥ 9-2-39 (60278)
गान्धारराजं श्रीघ्रास्त्रमनुसृत्य यशस्विनौ।
अचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी॥ 9-2-40 (60279)
चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष।
हत्वा त्वदीयं सुमहत्सैन्यं शङ्खानथाधमन्॥ 9-2-41 (60280)
ते सर्वे तावकान्प्रेक्ष्य द्रवतो वै पराङ्मुखान्।
अभ्यधावन्त निघ्नन्तो वृषाञ्चित्वा वृषा इव॥ 9-2-42 (60281)
सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः।
अवस्थितं सव्यसाची चुक्रोध बलवन्नृप॥ 9-2-43 (60282)
तत एनं शरै राजन्सहसा समवाकिरत्।
रजसा चोद्गतेनाथ न स्म किञ्चन दृश्यते॥ 9-2-44 (60283)
अन्धकारीकृते लोके शरीभूते महीतले।
दिशः सर्वा महाराज तावकाः प्राद्रवन्भयात्॥ 9-2-45 (60284)
भज्यमानेषु सर्वेषु कुरुराजो विशाम्पते।
परेषामात्मनश्चैव सैन्ये ते समुपाद्रवत्॥ 9-2-46 (60285)
ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान्।
युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः॥ 9-2-47 (60286)
त एनमभिगर्जन्तं सहिताः समुपाद्रवन्।
नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः॥ 9-2-48 (60287)
दुर्योधनोऽप्यसम्भ्रान्तस्तानरीन्व्यधमच्छरैः॥ 9-2-49 (60288)
तत्राद्भुतमपरश्याम तव पुत्रस्य पौरुषम्।
यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम्॥ 9-2-50 (60289)
नातिदूरापयातं च कृतबुद्धि पलायने।
दुर्योधनः स्वकं सैन्यमपश्यकद्भृशविक्षतम्॥ 9-2-51 (60290)
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः।
हर्षयन्निव तान्योधांस्ततो वचनमब्रवीत्॥ 9-2-52 (60291)
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च।
यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः॥ 9-2-53 (60292)
स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ।
यदि सर्वेऽपि तिष्ठामो ध्रुवं नो विजयो भवेत्॥ 9-2-54 (60293)
विप्लयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्पिषान्।
अनुसृत्य हनिष्यन्ति श्रेयोः न समरे वधः॥ 9-2-55 (60294)
सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्।
मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते॥ 9-2-56 (60295)
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः।
द्विषतो भीमसेनस्य वशमेष्यथ विद्रुताः॥ 9-2-57 (60296)
पितामहैराचरितं न धर्मं हातुमर्हथ।
नान्यत्कर्मास्ति पापीयः क्षत्रियस्य पलायनात्॥ 9-2-58 (60297)
न युद्वधर्माच्छ्रेयान्हि पन्थाः स्वर्गस्य कौरवाः।
सुचिरेणार्जिताँलोकान्सद्यो युद्धात्समश्नुते॥ 9-2-59 (60298)
तस्य तद्वचनं राज्ञः पूजयित्वा महारथाः।
पुनरेवाभ्यवर्तन्त क्षत्रियाः पाण्डवान्प्रति।
पराजयममृष्यन्त कृतचित्ताश्च विक्रमे॥ 9-2-60 (60299)
ततः प्रववृते युद्धं पुनरेव सुदारुणम्।
तावकानां परेषां च देवासुररणोपमम्॥ 9-2-61 (60300)
युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान्।
अन्वधावन्महाराज पुत्रो दुर्योधनस्तव॥] ॥ 9-2-62 (60301)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अध्यायः॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-2-2 सधूममिव अत्युष्णित्यर्थः॥ 9-2-14 परिष्वज्य च मां कण्ठे स्नेहेन क्लिन्नलोचनः। अनुशाधीति कौरव्य तत्साधु वद मे वचः इति झ.पाठः॥ 9-2-37 प्रतिमानं केतुभूतः॥ 9-2-61 केचित्सम्यक्प्रपश्यन्ति मूढास्तु न तथा परे इति ख.पाठः। सम्यगवेक्ष्य निपुणं विभाव्यापि मूढास्तथाभूतं तद्वचः केचिन्न पश्यन्तीति सम्बन्धः। तथाभूतं यथार्थम्॥ 9-2-2 द्वितीयोऽध्यायः॥शल्यपर्व - अध्याय 003
॥ श्रीः ॥
9.3. अध्यायः 003
Mahabharata - Shalya Parva - Chapter Topics
कृपेण कर्णवधदुःखितं दुर्योधनं प्रति स्वपरक्षयोर्दौर्बल्यप्राबल्याभिधानपूर्वकमुपायं प्रदर्श्य सन्धिविधानम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-16-0 (60302)
सञ्जय उवाच। 9-16-0x (5088)
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः।
कुरूणां पाण्डवानां च समासाद्य परस्परम्॥ 9-16-1 (60303)
निहते सूतपुत्रे च फल्गुनेन महात्मना।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्॥ 9-16-2 (60304)
विमुखे तव पुत्रे च शोकोपहतचेतसि।
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम्॥ 9-16-3 (60305)
ध्यायमानेषु योधेषु दुऋखं प्राप्तेषु भारत।
बलानां मत्यमानानां श्रुत्वा निनदमुत्तमम्॥ 9-16-4 (60306)
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे।
पतितानवनीपालान्धवजांश्चैव महात्मनाम्।
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च भारत॥ 9-16-5 (60307)
आयोधनं महाघोरं रुद्रस्याक्रीडसन्निभम्।
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः॥ 9-16-6 (60308)
कृपाविष्टः कृपो दृष्ट्वा वयः शीलसमन्वितः।
अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम्।
दुर्योधनमनुक्रोशाद्वाक्यं वाक्यविशारदः॥ 9-16-7 (60309)
दुर्योधन निबोधेयं यत्त्वां वक्ष्यामि कौरव।
श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ॥ 9-16-8 (60310)
न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते।
यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ॥ 9-16-9 (60311)
पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा।
सम्बन्धिबान्धवाश्चैव योद्वव्याः क्षत्रजीविन॥ 9-16-10 (60312)
वधे चैव परो धर्मस्तथाऽधर्मः पलायने।
ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः।
तदत्र प्रतिवक्ष्यामि किञ्चिदेव हितं वचः॥ 9-16-11 (60313)
हते भीष्मे च द्रोणे च कर्णे चैव महारथे।
जयद्रथे च निहते तव भ्रातृषु चानघ।
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे॥ 9-16-12 (60314)
येषु भारं समासज्य राज्ये मतिमकुर्महि।
ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम्॥ 9-16-13 (60315)
वयं त्विह विनाभूता गुणवद्भिर्महारथैः।
कृपणं वर्तयिष्यामः पातयित्वा नृपान्बहून्॥ 9-16-14 (60316)
सर्वैरथ च जीवद्भिर्बीभत्सुरपराजितः।
कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः॥ 9-16-15 (60317)
इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम्।
वानरं केतुमासाद्य सञ्चचाल महाचमूः॥ 9-16-16 (60318)
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च।
गाण्डीवस्य च निर्घोषात्सम्मुह्यन्ते मनांसि नः॥ 9-16-17 (60319)
स्फुरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम्।
अलातमिव चाविद्वं गाण्डवीं समदृश्यत॥ 9-16-18 (60320)
जाम्बूनदविचित्रं च धूयमानं महद्धनुः।
दृश्यते दिक्षु स्रवासु विद्युदभ्रघनेष्विव॥ 9-16-19 (60321)
उह्यमानश्च कृष्णेन वायुनेव बलाहकः।
तावकं तद्बलं राजन्नर्जुनोऽस्त्रविशारदः।
गहनं शिशिरापाये ददाहाग्निरिवोल्बणः॥ 9-16-20 (60322)
गाहमानमनीकानि महेन्द्रसदृशप्रभम्।
विक्षोभयन्तं सेनां वै त्रासयन्तं च पार्थिवान्।
धनञ्जयमपश्याम नलिनीमिव कुञ्जरम्॥ 9-16-21 (60323)
त्रासयन्तं तथा योधान्धनुर्घोषेण पांण्डवम्।
भूय एनमपश्याम सिंहं मृगगणानिव॥ 9-16-22 (60324)
सर्वलोकमहेष्वासो वृषभौ सर्वधन्विनाम्।
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः॥ 9-16-23 (60325)
अद्य सप्तदशाहानि वर्तमानस्य भारत।
सङ्ग्रामस्यातिघोरस्य युध्यतां चाभितो युधि॥ 9-16-24 (60326)
वायुनेव विधूतानि एव सैन्यानि गच्छता।
शरदम्भोदजालानि विशीर्यन्ते समन्ततः॥ 9-16-25 (60327)
तां नावमिव पर्यस्तां मज्जमानां महार्णवे।
तव सेनां महाराज सव्यसाची व्यकम्पयत्॥ 9-16-26 (60328)
क्वनु ते सूतपुत्रोऽभूत्क्वनु द्रोणः सहात्मजः।
अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्वनु॥ 9-16-27 (60329)
दुःशासनश्च ते भ्राता भ्रातृभिः सहितः क्वनु॥ 9-16-28 (60330)
वाणगोचरसम्प्राप्तं युध्यमानं जयद्रथम्।
सम्बन्धिनस्ते भ्रातॄंश्च साहयान्मातुलांस्तथा।
सर्वान्विक्रम्य मिपतो लोकमाक्रम्य मूर्धनि॥ 9-16-29 (60331)
जयद्रथो हतो राजन्किन्नु शेषमुपास्महे।
को वेह स पुमानास्ते यो विजेष्यति पाण्डवम्॥ 9-16-30 (60332)
तस्य चास्त्राणि दिव्यानि विदितानि महात्मनः।
गाण्डीवस्य च निर्घोषो धैर्याणि हरते हि नः॥ 9-16-31 (60333)
नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका।
नागभग्नद्रुमा शुष्का नदीव प्रतिभाति मे॥ 9-16-32 (60334)
ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः।
चरिष्यति महाराजः कक्षेष्वग्निरिव ज्वलन्॥ 9-16-33 (60335)
सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः।
दारयेत गिरीन्सर्वाञ्शोषयेच्चैव सागरान्॥ 9-16-34 (60336)
उवाच वाक्यं यद्भीमः सभामध्ये विशाम्पते।
कृतं तत्सफलं सर्वं भूयश्चैव करिष्यति॥ 9-16-35 (60337)
प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम्।
दुरासदं तदा गुप्तं व्यूढं गाण्डीवधन्वना॥ 9-16-36 (60338)
युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु।
अकारणकृतान्येव तेषां वः फलमागतम्॥ 9-16-37 (60339)
आत्मनोऽर्थे त्वया लोके यत्नतः सर्व आहृतः।
स ते संशयितस्तात आत्मा च भरतर्षभ॥ 9-16-38 (60340)
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम्।
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम्॥ 9-16-39 (60341)
हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा।
विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः॥ 9-16-40 (60342)
ते वयं पाण्डुपुत्रेभ्यो हीनाः स्म बलशक्तितः।
अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो॥ 9-16-41 (60343)
न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते।
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति॥ 9-16-42 (60344)
अणिपत्य हि राजानं राज्यं यदि लभेमहि।
श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम्॥ 9-16-43 (60345)
वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः।
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च॥ 9-16-44 (60346)
`अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः।
धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः॥ 9-16-45 (60347)
कुर्वन्ति भ्रातरश्चास्य वचनं नात्र संशयः॥ 9-16-46 (60348)
यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम्।
अर्जुनो भीमसेनश्च सर्वे कुर्युरसंशयम्॥ 9-16-47 (60349)
नातिक्रमिष्यते कृष्णो वचनं पाण्डवस्य तु।
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः॥ 9-16-48 (60350)
एतत्क्षममहं मन्ये तव पार्थैरविग्रहम्।
न त्वां ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात्॥ 9-16-49 (60351)
पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि॥ 9-16-50 (60352)
इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः।
दीर्घमुष्णं च निःश्वस्यशुशोच च मुमोह च॥ ॥ 9-16-51 (60353)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि तृतीयोऽध्यायः॥ 3 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-16-12 शेषास्त्वां पर्युपास्महे इति ङ.पाठः॥ 9-16-15 कृष्णो नेत्रं नेता यस्य स तथा॥ 9-16-24 वर्तमानस्य सङ्ग्रामस्य अभितो वध्यतां वध्यमानानां च अद्य सप्तदशाहानि जातानीत्यन्वयः। जातानीति शेषः॥ 9-16-47 अर्जुनं भीमसेनं च इति झ. पाठः। असंशयं गतवैरमित्यर्थः॥ 9-16-48 वचनं कौरवस्य तु इति झ. पाठः॥ 9-16-3 तृतीयोऽध्यायः॥शल्यपर्व - अध्याय 004
॥ श्रीः ॥
9.4. अध्यायः 004
Mahabharata - Shalya Parva - Chapter Topics
दुर्योधनेन कृपम्प्रति कारणकथनपूर्वकं सन्ध्यनङ्गीकरणम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-16-0 (60354)
सञ्जय उवाच। 9-16-0x (5089)
एवमुक्तस्ततो राजा गौतमेन तपस्विना।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते॥ 9-16-1 (60355)
ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः॥ 9-16-2 (60356)
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम्।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता॥ 9-16-3 (60357)
गाहमानमनीकानि युध्यमानं महारथैः।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान्॥ 9-16-4 (60358)
सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम्।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम्॥ 9-16-5 (60359)
हेतुकारणसंयुक्तं हितं वचनमुत्तमम्।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने॥ 9-16-6 (60360)
राज्याद्विनिकृतोऽस्माभिःकथं सोस्मासु विश्वसेत्॥ 9-16-7 (60361)
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः।
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु॥ 9-16-8 (60362)
तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः।
प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम्।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते॥ 9-16-9 (60363)
विललाप च यत्कृष्णा सभामध्ये समेयुषी।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा॥ 9-16-10 (60364)
एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो॥ 9-16-11 (60365)
स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः।
कृतागसो व यं तस्य हितं मे स कथं चरेत्॥ 9-16-12 (60366)
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः॥ 9-16-13 (60367)
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत्॥ 9-16-14 (60368)
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ॥ 9-16-15 (60369)
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह।
तौ कथं मद्विते यत्नं कुर्यातां द्विजसत्तम॥ 9-16-16 (60370)
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः॥ 9-16-17 (60371)
तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः।
न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः॥ 9-16-18 (60372)
यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता।
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम्॥ 9-16-19 (60373)
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा॥ 9-16-20 (60374)
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया॥ 9-16-21 (60375)
कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम्।
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम्॥ 9-16-22 (60376)
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा।
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत्॥ 9-16-23 (60377)
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान्।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम्॥ 9-16-24 (60378)
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया॥
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन। 9-16-25 (60379)
सुनीतमनुपश्यामि सुयुद्धेन परन्तप॥ 9-16-26 (60380)
नायं क्लीबायितुं कालः संयोद्वुं काल एव नः॥ 9-16-27 (60381)
इष्टं मे बहुभिर्जज्ञैर्दत्ता विप्रेषु दक्षिणाः।
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम्॥ 9-16-28 (60382)
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्वृतो जनः।
नोत्साहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम्॥ 9-16-29 (60383)
जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम्।
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया॥ 9-16-30 (60384)
पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः।
न ध्रुवं सुखमस्तीह कुतो राष्ट्रं कुतो यशः।
इह कीर्तिर्विचेतव्या सा च युद्वेन नान्यथा॥ 9-16-31 (60385)
वृथा च यत्क्षत्रियस्य निधनं तद्विगर्हितम्।
अधर्मः सुमहानेष यच्छय्यामरणं गृहे॥ 9-16-32 (60386)
अरण्ये यो विमुच्येत सङ्ग्रामे वा तनुं नृपः।
क्रतूनाहृत्य महतो महिमानं स गच्छति॥ 9-16-33 (60387)
कृपणं विलपन्नार्तो जरयाऽभिपरिप्लुतः।
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः॥ 9-16-34 (60388)
त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम्।
अपीदानीं सुयुद्धेन गच्छेयं यत्सलोकताम्॥ 9-16-35 (60389)
शूराणामार्यवृत्तानां सङ्क्रामेष्वनिवर्तिनाम्।
धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम्।
शस्त्रावभृथपूतानां ध्रुवो वासस्त्रिविष्टपे॥ 9-16-36 (60390)
मुदा नूनं प्रपश्यन्ति युद्वे ह्यप्सरसां गणाः॥ 9-16-37 (60391)
पश्यन्ति नूनं पितरः पूजितान्सुरसंसदि।
अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे॥ 9-16-38 (60392)
पन्थानममरैर्यान्तं शूरैश्चैवानिवर्तिभिः।
अपि तत्सङ्गतं मार्गं वयमध्यारुहेमहि॥ 9-16-39 (60393)
पितामहेन वृद्वेन तथाऽचार्येण धीमता।
जयद्रथेन कर्णेन तथा दुःशासनेन च॥ 9-16-40 (60394)
घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः।
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः॥ 9-16-41 (60395)
उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः।
त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठितः॥ 9-16-42 (60396)
तैः स्वयं रचितो मार्गो दुर्गमो हि पुनर्भवेत्।
सम्पतद्भिर्महावेगैरितो यास्यामि सद्गतिम्॥ 9-16-43 (60397)
ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन्।
ऋणं तत्प्रतियुञ्जानो न राज्ये मन आदधे॥ 9-16-44 (60398)
पातयित्वा वयस्यांश्च भ्रातृनथ पितामहान्।
जीवितं यदि रक्षेयं लोको मां गर्हयेद्व्रुवम्॥ 9-16-45 (60399)
कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः।
सखिभिश्च विशेषेण प्रणिपत्य च पाण्डवम्॥ 9-16-46 (60400)
सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम्।
सुयुद्धेन हतः स्वर्गं प्राप्सामि न तदन्यथा॥ 9-16-47 (60401)
सञ्जय उवाच। 9-16-48x (5090)
एं दुर्योधनेनोक्ते सर्वे सम्पूज्य तद्वचः।
साधुसाध्विति राजानं क्षत्रियाः सम्बभाषिरे॥ 9-16-48 (60402)
पराजयमशोचन्तः कृतचित्ताश्च विक्रमे।
सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन्॥ 9-16-49 (60403)
ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः।
ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः॥ 9-16-50 (60404)
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे।
अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तेजलम्॥ 9-16-51 (60405)
तव पुत्रकृतोत्साहाः पर्यवर्तन्त ते ततः।
पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा।
सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः॥ ॥ 9-16-52 (60406)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि चतुर्थोऽध्यायः॥ 4 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-16-11 पुरा यच्छान्तमेवासीत् इति क. पाठः। पुरा यः शन्तमो नासीदद्य पश्यामि तं कथम् इति ङ.पाठः॥ 9-16-15 उरश्छदः कङ्कटक इत्यमरः॥ 9-16-32 विप्रवन्मरणं गृहे इति क.पाठः। विण्मूत्रमरणं गृहे इति ङ. पाठः॥ 9-16-4 चतुर्थोऽध्यायः॥शल्यपर्व - अध्याय 005
॥ श्रीः ॥
9.5. अध्यायः 005
Mahabharata - Shalya Parva - Chapter Topics
दुर्योधनेन कृपम्प्रति कारणकथनपूर्वकं सन्ध्यनङ्गीकरणम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-16-0 (60407)
सञ्जय उवाच। 9-16-0x (5091)
एवमुक्तस्ततो राजा गौतमेन तपस्विना।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते॥ 9-16-1 (60408)
ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः॥ 9-16-2 (60409)
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम्।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता॥ 9-16-3 (60410)
गाहमानमनीकानि युध्यमानं महारथैः।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान्॥ 9-16-4 (60411)
सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम्।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम्॥ 9-16-5 (60412)
हेतुकारणसंयुक्तं हितं वचनमुत्तमम्।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने॥ 9-16-6 (60413)
राज्याद्विनिकृतोऽस्माभिः कथं सोस्मासु विश्वसेत्॥ 9-16-7 (60414)
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः।
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु॥ 9-16-8 (60415)
तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः।
प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम्।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते॥ 9-16-9 (60416)
विललाप च यत्कृष्णा सभामध्ये समेयुषी।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा॥ 9-16-10 (60417)
एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो॥ 9-16-11 (60418)
स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः।
कृतागसो वयं तस्य हितं मे स कथं चरेत्॥ 9-16-12 (60419)
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः॥ 9-16-13 (60420)
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत्॥ 9-16-14 (60421)
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ॥ 9-16-15 (60422)
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह।
तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम॥ 9-16-16 (60423)
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः॥ 9-16-17 (60424)
कथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः।
न निवारयितुं शक्याः सङ्ग्रामत्ते परन्तपाः॥ 9-16-18 (60425)
यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता।
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम्॥ 9-16-19 (60426)
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा॥ 9-16-20 (60427)
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया॥ 9-16-21 (60428)
कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम्।
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम्॥ 9-16-22 (60429)
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा।
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत्॥ 9-16-23 (60430)
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान्।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम्॥ 9-16-24 (60431)
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया॥ 9-16-25 (60432)
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन।
सुनीतमनुपश्यामि सुयुद्धेन परन्तप॥ 9-16-26 (60433)
नायं क्लीबायितुं कालः संयोद्धुं काल एव नः॥ 9-16-27 (60434)
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः।
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्निं च स्थितम्॥ 9-16-28 (60435)
भृत्या मे सुभृतास्तात दीनश्चाभ्यृद्भृतो जनः।
नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम्॥ 9-16-29 (60436)
जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम्।
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया॥ == ॥ 9-16-30 (60437)
इति श्रीमन्महाभारते
Mahabharata - Shalya Parva - Chapter Footnotes
9-16-1 9-16- 9-16- 9-16- 9-16- 9-16- 9-16- 9-16- 9-16- 9-16- 9-16-शल्यपर्व - अध्याय 006
॥ श्रीः ॥
9.6. अध्यायः 006
Mahabharata - Shalya Parva - Chapter Topics
दुर्योधनेन शल्यस्य सैनापत्येऽमिषेचनम्॥ 1 ॥ कृष्णेन युधिष्ठिरम्प्रति शल्यवधविधानम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-6-0 (60438)
सञ्जय उवाच। 9-6-0x (5092)
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान्।
दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह॥ 9-6-1 (60439)
दुर्योधन महाबाहो शृणु वाक्यविदां वर।
यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनांवरौ।
न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन॥ 9-6-2 (60440)
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम्।
योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान्॥ 9-6-3 (60441)
विजेष्यामि रणे पार्थान्सोमकांश्च समागतान्।
अहं सेनाप्रमेता ते भविष्यामि न संशयः॥ 9-6-4 (60442)
तं च व्यूहं विधास्यामि न क (त) रिष्यन्ति यं परे।
इति सत्यं ब्रवीम्येष दुर्योधन न संशयः॥ 9-6-5 (60443)
`अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः।
निहनिष्यामि वा राजन्स्वर्गं यास्यामि वा हतः॥ 9-6-6 (60444)
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत्॥ 9-6-7 (60445)
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः।
पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः।
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः॥ 9-6-8 (60446)
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम्।
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि॥ 9-6-9 (60447)
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः।
यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे॥ 9-6-10 (60448)
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः।
प्रतीकारपरा भूत्वा चेष्टन्ते विविधाः क्रियाः॥ 9-6-11 (60449)
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः॥ 9-6-12 (60450)
द्रोणभीष्मावति विमो सूतपुत्रं च संयुगे।
विचरिष्ये रणमुखे प्रियार्थं तव कौरव॥ 9-6-13 (60451)
सञ्जय उवाच। 9-6-14x (5093)
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा।
अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम।
विधिना शास्त्रदृष्टेन क्लिष्टरूपो विशाम्पते॥ 9-6-14 (60452)
अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत्।
तव सैन्येऽभ्यवाद्यन्त वादित्राणि च भारत॥ 9-6-15 (60453)
हृष्टाश्चासंस्तथा योधा मद्रकाश्च महारथाः।
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम्॥ 9-6-16 (60454)
जय राजंश्चिरं जीव जहि शत्रून्समागतान्।
तव बाहुबलं प्राप्य धार्तराष्ट्रो महाबलः।
निखिलां पृथिवीं सर्वां प्रशास्तु निहतद्विषम्॥ 9-6-17 (60455)
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान्।
मर्त्यधर्माण इह तु किमु सृञ्जयसोमकान्॥ 9-6-18 (60456)
एवं सम्पूज्यमानस्तु मद्राणामधिपो बली।
हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः॥ 9-6-19 (60457)
सञ्जय उवाच। 9-6-20x (5094)
अभिषिक्ते तथा शल्ये तव सैन्येषु मानद।
न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत॥ 9-6-20 (60458)
हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः।
मेनिरे निहतान्पार्थान्मद्रराजवशङ्गतान्॥ 9-6-21 (60459)
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ।
तां रात्रिं सुखिता सुप्ता हर्षचित्ता च साभवत्॥ 9-6-22 (60460)
सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः।
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य पश्यतः॥ 9-6-23 (60461)
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माघव।
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः॥ 9-6-24 (60462)
एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम्।
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम्॥ 9-6-25 (60463)
तमब्रवीन्महाराज वासुदेवो जनाधिपम्।
आर्तायनिमहं जाने यथातत्त्वेन भारत॥ 9-6-26 (60464)
वीर्यवांश्च महातेजा महात्मा च विशेषतः।
कृती च चित्रयोधी च संयुक्तो लाघवेन च॥ 9-6-27 (60465)
यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे।
तादृशृस्तद्विशिष्टो वा मद्रराजो मतो मम॥ 9-6-28 (60466)
युध्यमानस्य तस्याहं चिन्तयानश्च भारत।
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप॥ 9-6-29 (60467)
शिखण़्ड्यर्जुनभीमानां सात्वतस्य च भारत।
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे॥ 9-6-30 (60468)
मद्रराजो महाराजः सिंहद्विरदविक्रमः।
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव॥ 9-6-31 (60469)
तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहने।
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम्॥ 9-6-32 (60470)
स त्वमेको हि लोकेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत्।
मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन॥ 9-6-33 (60471)
अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव।
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम्॥ 9-6-34 (60472)
सौतेः पश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः।
तवैव हि जयो नूनं हते मद्रेश्वरे युधि। 9-6-35 (60473)
तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत्॥
एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम्। 9-6-36 (60474)
प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम्॥
जहि चैनं महाबाहो वासवो नमुचिं यथा॥ 9-6-37 (60475)
न चैवात्र दया कार्या मातुलोऽयं ममेति वै।
क्षत्रवर्म पुरस्कृत्य जहि मद्रजनेश्वरम्॥ 9-6-38 (60476)
द्रोणभीष्मार्णवं तीर्त्वा कर्णपातालसम्भवम्।
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्। 9-6-39 (60477)
यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव।
तद्दर्शय रणे सर्वं जहि चैनं महारथम्॥ 9-6-40 (60478)
सञ्जय उवाच। 9-6-41x (5095)
एतावदुक्त्वा वचनं केशवः परवीरहा।
जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः॥ 9-6-41 (60479)
केशवे तु तदा याते धर्मपुत्रो युधिष्ठिरः।
विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान्।
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः॥ 9-6-42 (60480)
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा।
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा॥ 9-6-43 (60481)
गतज्वरं महेष्वासं तीर्णपारं महारथम्।
बभूव पाण्डवेयानां सैन्यं च मुदितं निशि।
सूतपुत्रस्य निधनाज्जयं लब्ध्वा च मारिष॥ ॥ 9-6-44 (60482)
इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि षष्ठोऽध्यायः॥ 6 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-6-14 क्लिष्टरूपः पराजयनिश्चयात्॥ 9-6-18 मर्त्यधर्माणः मर्त्यधर्मणः॥ 9-6-6 षष्ठोऽध्यायः॥शल्यपर्व - अध्याय 007
॥ श्रीः ॥
9.7. अध्यायः 007
Mahabharata - Shalya Parva - Chapter Topics
उभयसैन्यानां व्यूहरचनापूर्वकं द्वन्द्वीभूय युद्धाय निर्गमनम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-7-0 (60483)
सञ्जय उवाच। 9-7-0x (5096)
व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा।
अब्रवीत्तावकान्सर्वान्सन्नह्यन्तां महारथाः॥ 9-7-1 (60484)
राज्ञश्च मतमाज्ञाय समनह्यत सा चमूः।
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथा परे॥ 9-7-2 (60485)
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः।
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः॥ 9-7-3 (60486)
वादित्राणां च निनदः प्रादुरासीद्विशाम्पते।
योधानां सैन्यमुख्यानामन्योन्यं प्रतिगर्जताम्॥ 9-7-4 (60487)
ततो बलानि सर्वाणि हतशिष्टानि भारत।
सन्नद्धानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम्॥ 9-7-5 (60488)
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः।
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः॥ 9-7-6 (60489)
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः।
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः।
अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः॥ 9-7-7 (60490)
`अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः'।
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः॥ 9-7-8 (60491)
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत्।
स पञ्चभिर्भवेद्युक्तः पातकैश्चोपपातकैः।
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः॥ 9-7-9 (60492)
एवं ते समयं कृत्वा सर्वे तत्र महारथाः।
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान्॥ 9-7-10 (60493)
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे।
अभ्ययुः कौरवान्युद्धे योत्स्यमानाः समन्ततः॥ 9-7-11 (60494)
ततो बलं समभवत्क्षुब्धार्णवसमस्वनम्।
समुद्भूतार्णवाकारमुदीर्णरथकुञ्जरम्॥ 9-7-12 (60495)
धृतराष्ट्र उवाच। 9-7-13x (5097)
द्रोणस्य चैव भीष्मस्य राधेयस्य च मे श्रुतम्।
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे॥ 9-7-13 (60496)
कथं रणे हतः शल्यो धर्मराजेन सञ्जय।
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम॥ 9-7-14 (60497)
सञ्जय उवाच। 9-7-15x (5098)
क्षयं मनुष्यदेहानां तथा नागाश्वसङ्क्षयम्।
शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम॥ 9-7-15 (60498)
आशा बलवती राजन्पुत्राणां तेऽभवत्तदा॥ 9-7-16 (60499)
हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते।
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष॥ 9-7-17 (60500)
तामाशां हृदये कृत्वा समाश्वस्य च भारत।
मद्रराजं च समरे समाश्रित्य महारथम्।
नाथवन्तं तदाऽऽत्मानममन्यत सुतस्तव॥ 9-7-18 (60501)
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे।
तदा राजन्धार्तराष्ट्रान्प्रविवेश महद्भयम्॥ 9-7-19 (60502)
तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान्।
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत्॥ 9-7-20 (60503)
प्रत्युद्ययौ रणे पार्थान्मद्रराजः प्रतापवान्।
विधून्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम्।
रथप्रवरमास्थाय सैन्धवाश्वं महारथः॥ 9-7-21 (60504)
तस्य सूतो महाराज रथस्थोऽशोभयद्रथम्।
स तेन संवृतो वीरो रथेनामित्रकर्शनः।
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्॥ 9-7-22 (60505)
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः।
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः॥ 9-7-23 (60506)
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः।
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह॥ 9-7-24 (60507)
अश्वत्थामा पृष्ठतोऽभूत्काम्भोजैः परिवारितः।
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः॥ 9-7-25 (60508)
हयानीकेन महता सौबलश्चापि संवृतः।
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः॥ 9-7-26 (60509)
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः।
त्रिधाभूता महाराज तव सैन्यमुपाद्रवन्॥ 9-7-27 (60510)
धृष्टद्युम्नः शिखण्डी च सात्यकिस्च महारथः।
शल्यस्य वाहिनीं हन्तुमभिदुद्रुवुराहवे॥ 9-7-28 (60511)
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः।
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः॥ 9-7-29 (60512)
हार्दिक्यं च महेष्वासमर्जुनः शत्रुपूगहा।
संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे॥ 9-7-30 (60513)
गौतमं भीमसेनो वै सोमकाश्च महारथाः।
अभ्यद्रवन्त राजेनद्र जिघांसन्तः परान्युधि॥ 9-7-31 (60514)
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम्।
ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे॥ 9-7-32 (60515)
तथैवायुतशो योधास्तावकाः पाण्डवान्रणे।
अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः॥ 9-7-33 (60516)
धृतराष्ट्र उवाच। 9-7-34x (5099)
हते भीष्मे हमेष्वासे द्रोणे कर्णे जयद्रथे।
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे॥ 9-7-34 (60517)
संरब्धेषु च पार्थेषु पराक्रान्तेषु सञ्जय।
मामकानां परेषां च किं शिष्टमभवद्बलम्॥ 9-7-35 (60518)
सञ्जय उवाच। 9-7-36x (5100)
यथा वयं परे राजन्युद्धाय समुपस्थिताः।
यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे॥ 9-7-36 (60519)
एकादश सहस्राणि रथानां भरतर्षभ।
दश दन्तिसहस्राणि सप्त चैव शतानि च॥ 9-7-37 (60520)
पूर्णे शतसहस्रे द्वे हयानां तत्र भारत।
पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत्॥ 9-7-38 (60521)
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः।
दश चाश्वसहस्राणि पत्तिकोटी च भारत॥ 9-7-39 (60522)
एतद्बलं पाण्डवानामभवच्छेषमाहवे।
एत एव समाजग्मुर्युद्वाय भरतर्षभ॥ 9-7-40 (60523)
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः।
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः॥ 9-7-41 (60524)
तथैव पाण़्डवाः शूराः समरे जितकाशिनः।
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः॥ 9-7-42 (60525)
एवमेते बलौघेन परस्परवधैषिणः।
उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो॥ 9-7-43 (60526)
ततः प्रववृते युद्धं घोररूपं भयानकम्।
तावकानां परेषां च निघ्नतामितरेतरम्॥ ॥ 9-7-44 (60527)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि सप्तमोऽध्यायः॥ 7 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-7-39 पत्तिकोटी इति द्विवचनम्॥ 9-7-7 सप्तमोऽध्यायः॥शल्यपर्व - अध्याय 008
॥ श्रीः ॥
9.8. अध्यायः 008
Mahabharata - Shalya Parva - Chapter Topics
अष्टादशदिवसयुद्धारभ्यः॥ 1 ॥ सङ्कुलयुद्धम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-8-0 (60528)
सञ्जय उवाच। 9-8-0x (5101)
ततः प्रववृते युद्धं कुरूणां भयवर्धनम्।
सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम्॥ 9-8-1 (60529)
नरा रथा गजौघाश्च वाजिनश्च सहस्रशः।
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम्॥ 9-8-2 (60530)
गजानां भीमरूपाणां द्रवतां निःस्वनो महान्।
अश्रूयत यथा काले जलदानां नभस्तले॥ 9-8-3 (60531)
नागैरभ्याहताः केचित्सरथा रथिनोऽपतन्।
व्यद्रवन्त रणे भीता द्राव्यमाणा मदोत्कटैः॥ 9-8-4 (60532)
हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः।
शरैः सम्प्रेषयामासुः परलोकाय भारत॥ 9-8-5 (60533)
सादिनः शिक्षिता राजन्परिवार्य महारथान्।
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा॥ 9-8-6 (60534)
धन्विनः पुरुषाः केचित्परिवार्य महारथान्।
एकं बहव आसाद्य प्रैषयन्यमसादनम्॥ 9-8-7 (60535)
नागान्रथवरांश्चान्ये परिवार्य महारथाः।
सोत्तरा युधि निर्जघ्नुर्द्रवमाणं महारथम्॥ 9-8-8 (60536)
तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून्।
नागा जघ्नुर्महाराज परिवार्य समन्ततः॥ 9-8-9 (60537)
नागा नागमभिद्रुत्य रथी च रथिनं रणे।
शक्तितोमरनाराचैर्निजघ्नुस्तत्र भारत॥ 9-8-10 (60538)
पादातानवमृद्गन्तो रथवारणवाजिनः।
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम्॥ 9-8-11 (60539)
हयाश्च पर्यधावन्त चामरैरुपशोभिताः।
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम्॥ 9-8-12 (60540)
तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशाम्पते।
अशोभत यथा नारी करजैः क्षतविक्षता॥ 9-8-13 (60541)
वाजिनां खुरशब्देन रथनेमिस्वनेन च।
पत्तीनां चापि शब्देन नागानां बृंहितेन च॥ 9-8-14 (60542)
वादित्राणां च घोषेण शङ्खानां निनदेन च।
अभवन्नादिता भूमिर्निर्घातैरिव भारत॥ 9-8-15 (60543)
धनुषां कूजमानानां शस्त्रौघानां च पात्यताम्।
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन॥ 9-8-16 (60544)
बहवो बाहवश्छिन्ना नागराजकरोपमाः।
उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम्॥ 9-8-17 (60545)
शिरसां च महाराज पततां धरणीतले।
च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः॥ 9-8-18 (60546)
शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा।
तपनीयनिभैः काले नलिनैरिव भारत॥ 9-8-19 (60547)
उद्वृत्तनयनैस्तैस्तु गतसत्वैः सुविक्षतैः।
व्यभ्राजत मही राजन्पुण्डरीकैरिवावृता॥ 9-8-20 (60548)
बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महारधनैः।
पतितैर्भाति राजेन्द्र महाशक्रध्वजैरिव॥ 9-8-21 (60549)
ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे।
हस्तिहस्तोपमैर्जज्ञे संवृतं तद्रणाङ्कणम्॥ 9-8-22 (60550)
कबन्धंशतसङ्कीर्णं छत्रचामरसङ्कुलम्।
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा॥ 9-8-23 (60551)
तत्र योधा महाराज विचरन्तो ह्यभीतवत्।
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः॥ 9-8-24 (60552)
मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः।
पतन्तस्तत्र तवैव छिन्नाभ्रासदृशा रणे॥ 9-8-25 (60553)
गजानीकं महाराज वध्यमानं महात्मभिः।
व्यदीर्यत दिशः सर्वा वातनुन्ना धना इव॥ 9-8-26 (60554)
ते गजा धनसङ्काशाः पेतुरुर्व्यां समन्ततः।
वज्रनुन्ना इव बभुः पर्वता युगसङ्क्षये॥ 9-8-27 (60555)
हयानां सादिभिः सार्धं पतितानां महीतले।
राशयः स्म प्रदृश्यन्ते गिरिमात्रांस्ततस्ततः॥ 9-8-28 (60556)
सञ्जज्ञे रणभूमौ तु परलोकवहा नदी।
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा॥ 9-8-29 (60557)
भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला।
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा॥ 9-8-30 (60558)
कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा।
चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता॥ 9-8-31 (60559)
शूराणां हर्षजननी भीरूणां भयवर्धनी।
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्गमे॥ 9-8-32 (60560)
तां नदीं परलोकाय वहन्तीमतिभैरवाम्।
तेरुर्वाहननौभिस्ते शूराः परिघबाहवः॥ 9-8-33 (60561)
वर्तमाने तदा युद्धे निर्मर्यादे विशाम्पते।
चतुरङ्गक्षये घोरे युद्धे देवासुरोपमे॥ 9-8-34 (60562)
व्याक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप।
क्रोशद्भिर्दयितैरन्ये भयार्ता न निवर्तिरे॥ 9-8-35 (60563)
निर्मर्यादे तथा युद्धे वर्तमाने भयानके।
अर्जुनो भीमसेनश्च मोहयाञ्चक्रतुः परान्॥ 9-8-36 (60564)
सा वध्यमाना महती सेना तव नराधिप।
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव॥ 9-8-37 (60565)
मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ।
दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः॥ 9-8-38 (60566)
श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ।
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ॥ 9-8-39 (60567)
तत्राश्चर्यमपश्याम घोररूपं महद्भयम्।
शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः॥ 9-8-40 (60568)
माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ।
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव॥ 9-8-41 (60569)
ततोऽभ्यावर्तत बलं तावकं भरतर्षभ।
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः॥ 9-8-42 (60570)
वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव।
भेजे दश दिशो राजन्प्रणुन्ना शरवृष्टिभिः॥ 9-8-43 (60571)
हाहाकारो महाञ्जज्ञे योधानां तत्र भारत।
तिष्ठतिष्ठेति चाप्यासीद्द्रावितानां महात्मनाम्॥ 9-8-44 (60572)
क्षत्रियाणां तथाऽन्योन्यं संयुगे जयमिच्छताम्।
प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः॥ 9-8-45 (60573)
त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान्।
मातुलान्भागिनेयांश्च वयस्यानपि भारत॥ 9-8-46 (60574)
हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः।
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ॥ ॥ 9-8-47 (60575)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे अष्टमोऽध्यायः॥ 8 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-8-35 न निवर्तिरे न निवर्तिताः॥ 9-8-8 अष्टमोऽध्यायः॥शल्यपर्व - अध्याय 009
॥ श्रीः ॥
9.9. अध्यायः 009
Mahabharata - Shalya Parva - Chapter Topics
नकुकेन कर्णपुत्राणां त्रयाणां मारणम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-9-0 (60576)
सञ्जय उवाच। 9-9-0x (5102)
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान्।
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान्॥ 9-9-1 (60577)
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः।
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता॥ 9-9-2 (60578)
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम्।
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि॥ 9-9-3 (60579)
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः।
यत्रा राजा सत्यसन्धो धर्मपुत्रो युधिष्ठिरः॥ 9-9-4 (60580)
आपतन्तं च सहसा पाण्डवानां महद्बलम्।
दधारैको रणे शल्यो वेलोद्वृत्तमिवार्णवम्॥ 9-9-5 (60581)
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष।
व्यतिष्ठत तदा युद्वे सिन्धोर्वेग इवाचलम्॥ 9-9-6 (60582)
मद्रराजं तु समरे दृष्ट्वा युद्धाय धिष्ठितम्।
कुरवः सन्न्यवर्तन्त मृत्युं कृत्वा निवर्तनम्॥ 9-9-7 (60583)
तेषु राजन्निवृत्तेषु व्यूढानीकेषु सर्वशः।
प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः॥ 9-9-8 (60584)
समार्च्छच्चित्रसेनं तु नकुलो युद्धदुर्मदः।
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ॥ 9-9-9 (60585)
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ।
शरतोयैः सिषिचतुस्तौ परस्परमाहवे॥ 9-9-10 (60586)
नान्तरं तत्र पश्यामः पाण्डवस्येतरस्य च।
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ।
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ॥ 9-9-11 (60587)
चित्रसेनस्तु भल्लेन पीतेन निशितेन च।
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः॥ 9-9-12 (60588)
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः।
त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समार्पयत्॥ 9-9-13 (60589)
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे।
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत्॥ 9-9-14 (60590)
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः।
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः॥ 9-9-15 (60591)
स च्छिन्नधन्वा विरथः खङ्गमादाय चर्म च।
रथादवातरद्वीरः शैलाग्रादिव केसरी॥ 9-9-16 (60592)
पद्मामापततस्तस्य शस्वृष्टिं समासृजत्।
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः॥ 9-9-17 (60593)
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः।
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः॥ 9-9-18 (60594)
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम्।
चित्रसेनशिरः कायादपाहरत पाण्डवः॥ 9-9-19 (60595)
स पपात रथात्तस्माद्दिवाकरसमद्युतिः॥ 9-9-20 (60596)
चित्रसेनशिरस्तत्तु दृष्ट्वा तत्र महारथाः।
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान्॥ 9-9-21 (60597)
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ।
सुशर्मा सत्यसेनश्च मुञ्चन्तौ विविधाञ्शरान्॥ 9-9-22 (60598)
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम्।
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने॥ 9-9-23 (60599)
तावभ्येत्य महाबाहू द्वावप्यतिमहारथौ।
शरौषान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा॥ 9-9-24 (60600)
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः।
अन्यत्कार्मुकमादाय रथमारुह्य वेगवान्।
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः॥ 9-9-25 (60601)
तस्य तौ भ्रातरौ राजञ्शरैः सन्नतपर्वभिः।
रथं विशकलीकर्तुं समारब्धौ विशाम्पते॥ 9-9-26 (60602)
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे।
जघान निशितैर्बाणैः सत्यसेनस्य वाजिनः॥ 9-9-27 (60603)
ततः सन्धाय नारचं रुक्मपुङ्खं शिलाशितम्।
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः॥ 9-9-28 (60604)
अथान्यं रथमास्थाय धनुरादाय चापरम्।
सत्यसेनः सुशर्मा च पाण्डवं पर्यधावताम्॥ 9-9-29 (60605)
अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान्।
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि॥ 9-9-30 (60606)
सुशर्मा तु ततः क्रुद्धः पाण्डवस्य महद्धनुः।
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः॥ 9-9-31 (60607)
अथान्यद्धनुरादाय नकुलः क्रोधमूच्छितः।
सुशर्माणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे॥ 9-9-32 (60608)
सत्यसेनस्य स धनुर्हस्तावपं च मारिष।
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः॥ 9-9-33 (60609)
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम्।
शरैः सञ्छादयामास समन्तात्पाण्डुनन्दनम्॥ 9-9-34 (60610)
सन्निवार्य तु तान्बाणान्नकुलः परवीरहा।
सत्यसेनसुशर्माणौ द्वाभ्यां द्वाभ्यामविध्यत॥ 9-9-35 (60611)
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः।
सारथिं चास्य राजेन्द्र शितैर्विव्यधतुः शरैः॥ 9-9-36 (60612)
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा।
पृथक् शराभ्यां चिच्छेद कृतहस्तः प्रतापवान्॥ 9-9-37 (60613)
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत्॥
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम्। 9-9-38 (60614)
लेलिहानामिव विमो नागकन्यां महाविषाम्॥ 9-9-39 (60615)
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे॥ 9-9-40 (60616)
सा तस्य हृदयं गत्या विभेद शतधा नृप।
स पवात रथाद्भूमिं यतसत्वोऽल्पत्तेतनः॥ 9-9-41 (60617)
भ्रातरं निहतं दृष्ट्वा सुशर्मा क्रोधमूर्च्छितः।
अभ्यवर्षच्छरैस्तूर्णं पादातं पाण्डुनन्दनम्॥ 9-9-42 (60618)
चतुर्भिश्चतुरो वाहान्ध्वजं छित्त्वा च पञ्चभिः।
त्रिभिर्वै सारथिं हत्वा कर्णपुत्रो ननाद ह॥ 9-9-43 (60619)
नकुलं विरथं दृष्ट्वा द्रौपदेयो महारथम्।
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे॥ 9-9-44 (60620)
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम्।
शुशुभे भरतश्रेष्ठो गिरिस्य इव केसरी॥ 9-9-45 (60621)
अन्यत्कार्मुकमादाय सुशर्माणमयोधयत्॥ 9-9-46 (60622)
तत्र तौ शरवर्षाभ्यां समासाद्य परस्परम्।
परस्परवधे यत्नं चक्रतुः सुमहारथौ॥ 9-9-47 (60623)
सुशर्मा तु तः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः।
सुतसोमं तु विंशत्या वाह्वोरुरसि चार्पयत्॥ 9-9-48 (60624)
ततः क्रुद्धो महाराज नकुलः परवीरहा।
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान्॥ 9-9-49 (60625)
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम्।
आकर्णपूर्णं चिक्षेप कर्णपुत्राय संयुगे॥ 9-9-50 (60626)
तस्य तेन शिरः कायाज्जहार नृपसत्तम।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्॥ 9-9-51 (60627)
स हतः प्रापतद्राजन्नकुलेन महात्मना।
नदीपेxxxxxxxणस्तीरजः पादपो महान्॥ 9-9-52 (60628)
कर्णपुत्रवचं दृष्ट्वा नकुलस्य च विक्रमम्।
प्रदुद्राव भवात्सेना तावकी भरतर्वभ॥ 9-9-53 (60629)
तां तु सेनां महाराज्ञ मद्रराजः प्रतापवान्।
xxxxxx शूरः सेनापतिररिन्दमः॥ 9-9-54 (60630)
xxxxxx व्यवस्याप्य च वाहिनीम्।
xxxxxxx भूशं कृत्वा धनुःशब्दं च दारुणम्॥ 9-9-55 (60631)
xxxxxx सगरे राजन्रांक्षेता दृढधन्वना।
प्रत्युद्ययुश्च तांस्ते तु समन्ताद्विगतव्यथाः॥ 9-9-56 (60632)
मद्रराजं महेष्वासं परिवार्य समन्ततः।
स्थिता राजन्महासेना योद्वुकामा समन्ततः॥ 9-9-57 (60633)
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ।
युधिष्ठिरं पुरस्कृत्य हीनिषेवमरिन्दमम्॥ 9-9-58 (60634)
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे।
बाणशङ्खरवांस्तीव्रान्क्ष्वेलाश्च विविधा दधुः॥ 9-9-59 (60635)
तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा।
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन्॥ 9-9-60 (60636)
ततः प्रववृते युद्धं भीरूणां भयवर्धनम्।
तावकानां परेषां च मृत्युं कृत्वा निबर्तनम्॥ 9-9-61 (60637)
यथा देवासुरं युद्धं पूर्वमासीद्विशाम्पते।
अभीतानां तथाऽऽसीत्तद्यमराष्ट्रविवर्धनम्॥ 9-9-62 (60638)
ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे।
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः॥ 9-9-63 (60639)
तथैव पाण्डवाः सर्वे धृष्टद्युम्नपुरोगमाः।
अभ्यधावन्ततां सेनां विसृजन्तः शिताञ्शरान्॥ 9-9-64 (60640)
पाण्डवैरवकीर्णानां सम्मोहः समजायत।
न च जज्ञुस्त्वनीकानि दिशो वा विदिशस्तथा॥ 9-9-65 (60641)
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः।
हतप्रवीरा विध्वस्ता वार्यमाणा समन्ततः।
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः॥ 9-9-66 (60642)
तथैव पाण्डवं सैन्यं शरै राजन्समन्ततः।
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः॥ 9-9-67 (60643)
ते सेने भृशसन्तप्ते वध्यमाने परस्परम्।
व्याकुले समपद्येतां वर्षासु सरिताविव॥ 9-9-68 (60644)
आविवेश ततस्तीव्रं तावकानां महद्भयम्।
पाण्डवानां च राजेन्द्र तथाभूते महाहवे॥ ॥ 9-9-69 (60645)
इति श्रीमन्महाभारतेयथा शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे नवमोऽध्यायः॥ 9 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-9-9 चित्रसेनः कर्णपुत्रः॥ 9-9-9 नवमोऽध्यायः॥ 9 ॥शल्यपर्व - अध्याय 010
॥ श्रीः ॥
9.10. अध्यायः 010
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-10-0 (60646)
सञ्जय उवाच। 9-10-0x (5103)
तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम्।
द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु॥ 9-10-1 (60647)
कूजतां स्तनतां चैव पदातीनां महाहवे।
निहतेषु महाराज हयेषु बहुधा तदा॥ 9-10-2 (60648)
प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम्।
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे॥ 9-10-3 (60649)
हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने।
गाहमानेषु योधेषु परस्परवधैषिषु॥ 9-10-4 (60650)
प्राणादाने महाघोरे वर्तमाने दुरोदरे।
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने॥ 9-10-5 (60651)
पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः।
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान्॥ 9-10-6 (60652)
तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे।
पूर्वाह्णे चापि सम्प्राप्ते भास्करोदयनं प्रति॥ 9-10-7 (60653)
लब्धलक्षाः परे राजन्रक्षितास्तु महात्मना।
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम्॥ 9-10-8 (60654)
बलिभिः पाण्डवैर्दृप्तैर्लैब्धलक्षैः प्रहारिभिः।
कौरव्यसीदत्पृतना मृगीवाग्निबयाकुला॥ 9-10-9 (60655)
तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम्।
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुसुतान्प्रति॥ 9-10-10 (60656)
मद्रराजः सुसङ्क्रुद्धो गृहीत्वा धनुरुत्तमम्।
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः॥ 9-10-11 (60657)
पाण्डवा अपि भूपाल समरे जितकाशिनः।
मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः॥ 9-10-12 (60658)
ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः।
अर्दयामास तां सेनां धर्मराजस्य पश्यतः॥ 9-10-13 (60659)
प्रादुरासन्निमित्तानि नानारूपाण्यनेकशः।
चचाल शब्दं कुर्वाणा मही चापि सपर्वता॥ 9-10-14 (60660)
[सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः।]
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम्॥ 9-10-15 (60661)
मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते।
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप॥ 9-10-16 (60662)
[भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ।
चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम्॥ 9-10-17 (60663)
शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती।
शिरः स्वलीयन्त भृशं काकोलूकाश्च केतुषु]॥ 9-10-18 (60664)
ततस्तद्युद्धमत्युग्रमभवत्सहचारिणाम्।
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप॥ 9-10-19 (60665)
अभ्यघ्नत्कौरवो राजा पाण्डवानामनीकिनीम्।
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक्॥ 9-10-20 (60666)
अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम्।
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितैः॥ 9-10-21 (60667)
द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ।
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च॥ 9-10-22 (60668)
एकैकं दशभिर्बाणैर्विव्याध स महाबलः।
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव॥ 9-10-23 (60669)
ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः।
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः॥ 9-10-24 (60670)
भ्रमराणामिव व्राताः शलभानामिव व्रजाः।
हादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः॥ 9-10-25 (60671)
द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा।
शल्यस्य बाणैरपतन्बभ्रमुर्व्यनदंस्तथा॥ 9-10-26 (60672)
आविष्ट इव मद्रेशो मन्युना पौरुषेण च।
प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः।
विनर्दमानो मद्रेशो मेघहादो महाबलः॥ 9-10-27 (60673)
सा वध्यमाना शल्येन पाण्डवानामनीकिनी।
अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम्॥ 9-10-28 (60674)
तां सम्मर्द्य शतैः सङ्ख्ये लघुहस्तः शितैः शरैः।
बाणवर्षेण महता युधिष्ठिरमताडयत्॥ 9-10-29 (60675)
तमापतन्तं जात्यश्वैः क्रुद्धो राजा युधिष्ठिरः।
अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः॥ 9-10-30 (60676)
तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम्।
सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम्॥ 9-10-31 (60677)
ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः।
पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः॥ 9-10-32 (60678)
द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः।
अभ्यवर्षन्महाराज मेघा इव महीधस्म्॥ 9-10-33 (60679)
ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः।
कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम्॥ 9-10-34 (60680)
उलूकश्च महावीर्यः शकुनिंश्चापि सौबलः।
समागम्याथ शनकैरश्वत्थामा महाबलः।
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे॥ 9-10-35 (60681)
भीमसेनं त्रिभिर्विद्धा कृतवर्मा शिलीमुखैः।
बाणवर्षेण महता क्रुद्धरूपमवारयत्।
धृष्टद्युम्नं ततः क्रुद्धो बाणवर्षैरपीडयत्॥ 9-10-36 (60682)
द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात्॥ 9-10-37 (60683)
दुर्योधनो युधांश्रेष्ठ आहवे केशवार्जुनौ।
समभ्ययादुग्रतेजाः शरैश्चाप्यहनद्बली॥ 9-10-38 (60684)
एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह।
घोररूपाणि चित्राणि तत्रतत्र विशाम्पते॥ 9-10-39 (60685)
ऋक्षवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे।
सोऽवतीर्य रथोपस्थाद्धताश्वात्पाण्डुनन्दनः।
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत॥ 9-10-40 (60686)
प्रमुखे सहदेवस्य जघानाश्वान्स मद्रराट्।
ततः शल्यस्य तनयं सहदेवोऽसिनावधीत्॥ 9-10-41 (60687)
गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत्।
असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम्॥ 9-10-42 (60688)
द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः।
अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव॥ 9-10-43 (60689)
[पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे।
सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः॥ 9-10-44 (60690)
कालो दण़्डमिवोद्यम्य गदां क्रुद्धो महाबलः।
पोथयामास तुरगान्रथं च कृतवर्मणः।
कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमत्॥] 9-10-45 (60691)
शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान्।
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत्॥ 9-10-46 (60692)
तस्य भीमो रणे क्रुद्धः सन्दश्य दशनच्छदम्।
विनाशायाभिसन्धाय गदामादाय वीर्यवान्॥ 9-10-47 (60693)
यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम्।
गजवाजिमनुष्याणां देहान्तकरणीमति॥ 9-10-48 (60694)
हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव।
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम्॥ 9-10-49 (60695)
चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव।
वसामेदोपदिग्धाङ्गीं जिह्वां वैवस्वतीमिव॥ 9-10-50 (60696)
पटुघण्टाशतरवां वासवीमशनीमिव।
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि॥ 9-10-51 (60697)
त्रासनीं सर्वभूतानां स्वसैन्यपरिहर्षिणीम्।
मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम्॥ 9-10-52 (60698)
यया कैलासभवने महेश्वरसखं बली।
आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम्॥ 9-10-53 (60699)
यया मायामयान्दृप्तान्सुबहून्धनदालये।
जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः।
निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः॥ 9-10-54 (60700)
तां वज्रमणिरत्नौघकल्माषां वज्रगौरवाम्।
समुद्यम्य महाबाहुः शल्यमभ्यपतद्रणे॥ 9-10-55 (60701)
गदया युद्धकुशलस्तया दारुणनादया।
पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान्॥ 9-10-56 (60702)
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम्।
निचखान नदन्वीरोवर्म भित्त्वा च सोभ्ययात्॥ 9-10-57 (60703)
वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम्।
यन्तारं मद्रराजस्य निर्बिभेद तदा हृदि॥ 9-10-58 (60704)
स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः।
पपाताभिमुखो भीमं मद्रराजस्त्वपाक्रमत्॥ 9-10-59 (60705)
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः।
गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत॥ 9-10-60 (60706)
ततः सुमनसः पार्था भीमसेनमपूजयन्।
ते दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः॥ ॥ 9-10-61 (60707)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे दशमोऽध्यायः॥ 10 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-10-17 भृग्विति। सर्वभूभुजां कृत्स्नपृथ्वीपतीनां पाण्डुपुत्राणां पाण्डवानां चरमं विलोमगणनया प्रथमं युधिष्ठिरमभिलक्ष्य शक्रभौमबुधाः सप्तमस्थाने बलावहाः आसन्। एतच्च सर्वभूभुजामिति फलस्य जनकमित्यर्थः॥ 9-10-18 आहत्य स्पृष्ट्वा। वर्षती भुवि पतन्ती॥ 9-10-49 परिक्षिप्तां परिच्छन्नाम्॥ 9-10-51 वासवीमैन्द्रीम्। रासनीमिति पाठे शब्दवतीम्॥ 9-10-53 महेश्वरसखं कुबेरम्॥ 9-10-10 दशमोऽध्यायः॥शल्यपर्व - अध्याय 011
॥ श्रीः ॥
9.11. अध्यायः 011
Mahabharata - Shalya Parva - Chapter Topics
शल्यभीमयोर्गदायुद्धम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-11-0 (60708)
सञ्जय उवाच। 9-11-0x (5104)
पतितं प्रेक्ष्य यन्तारं शल्यः शैक्यायसीं गदाम्।
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः॥ 9-11-1 (60709)
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम्।
सशृङ्गमिव कैलासं सवज्रमिव वासवम्॥ 9-11-2 (60710)
सशूलमिव हर्यक्षं सचक्रमिव चक्रिणम्।
सशक्तिमिव सेनान्यं वने मत्तमिव द्विपम्।
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्॥ 9-11-3 (60711)
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः।
सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः॥ 9-11-4 (60712)
प्रैक्षन्त सर्वतस्तौ हि योधा मत्ताविव द्विपौ।
तावकाश्चापरे चैव साधुसाध्वित्यपूजयन्॥ 9-11-5 (60713)
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात्।
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे॥ 9-11-6 (60714)
तथा मद्राधिपस्यापि गदावेगं महात्मनः।
सोढुमुत्सहते नान्यः पुमान्युधि वृकोदरात्॥ 9-11-7 (60715)
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः।
आवर्तितौ गदाहस्तौ मद्रराजवृकोदरौ॥ 9-11-8 (60716)
मण्डलावर्तमार्गेषु गदाविहरणेषु च।
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः॥ 9-11-9 (60717)
तप्तहेममयैः शुभ्रैर्बभूव भयवर्धिनी।
अग्निज्वालैरिवाबद्धा पट्टैः शल्यस्य सा गदा॥ 9-11-10 (60718)
तथैव चरतो मार्गान्मण्डलेषु महात्मनः।
विद्युदभ्रग्रतीकाशा भीमस्य शुशुभे गदा॥ 9-11-11 (60719)
ताडिता मद्रराजेन भीमस्य गदया गदा।
दह्यमानेव खे राजन्साऽसृजत्पावकार्चिषः॥ 9-11-12 (60720)
तथा भीमेन शल्यस्य ताडिता गदया गदा।
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत्॥ 9-11-13 (60721)
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ।
तौ विरेजतुरन्योन्यं गदाग्राभ्यां परिक्षतौ॥ 9-11-14 (60722)
तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ।
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ॥ 9-11-15 (60723)
गदया मद्रराजस्य सव्यदक्षिणमाहतः।
भीमसेनो महाबाहुर्न चचालाचलो यथा॥ 9-11-16 (60724)
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः।
शल्यो न विव्यथे राजन्दन्तिनेव महागिरिः॥ 9-11-17 (60725)
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः।
गदानिपातसंहादो वज्रयोरिव निःस्वनः॥ 9-11-18 (60726)
निवृत्य तु महावीर्यौ समुच्छ्रितमहागदौ।
पुनरन्तरमार्गस्थौ पण्डलानि विचेरतुः॥ 9-11-19 (60727)
अथाभ्येत्य पदान्यष्टौ सन्निपातोऽभवत्तयोः।
उद्यम्य लोहदण़्डाभ्यामतिमानुषकर्मणोः॥ 9-11-20 (60728)
पोथयन्तौ तदाऽन्योन्यं मण्डलानि विचेरतुः।
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा॥ 9-11-21 (60729)
अभ्युद्यतगदौ वीरौ सशृङ्गाविव पर्वतौ।
तावाजघ्नतुरन्योन्यं मण्डलानि विचेरतुः॥ 9-11-22 (60730)
क्रियाविशेषकृतिनौ रणभूमितलेऽचलौ।
तौ परस्परसंरम्भाद्गदाभ्यां सुभृशाहतौ॥ 9-11-23 (60731)
युगपत्पेततुर्वीरावुभाविन्द्रबली इव।
उभयः सेनयोर्योधास्तदा हाहाकृताभवन्॥ 9-11-24 (60732)
भृशं मर्मस्वभिहतावुभावास्तां सुविह्वलौ॥ 9-11-25 (60733)
ततः स्वरथमारोप्य मद्राणामृषभं रणे।
अपोवाह कृपः शल्यं तूर्णमायोधनादथ॥ 9-11-26 (60734)
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः।
भीमसेनो गदापाणिः समाह्वयत मद्रपम्॥ 9-11-27 (60735)
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः।
नानावादित्रशब्देन पाण्डुसेनामयोधयन्॥ 9-11-28 (60736)
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः।
अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः॥ 9-11-29 (60737)
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः।
प्रययुः सिंहनादेन दुर्योधनवधेप्सया॥ 9-11-30 (60738)
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ।
प्राप्तेन चेकितानं वै विव्याध हृदये भृशम्॥ 9-11-31 (60739)
पपात रथोपस्थे तव पुत्रेण पातितः।
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः॥ 9-11-32 (60740)
चेकितानं हतं दृष्ट्वा पाण्डवेया महारथाः।
असक्तमभ्यवर्षन्त शरवर्षाणि भागशः॥ 9-11-33 (60741)
तावकानामनीकेषु पाण्डवा जितकाशिनः।
व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः॥ 9-11-34 (60742)
कृपश्च कृतवर्मा च सौबलश्च महारथः।
अयोधयन्धर्मराजं मद्रराजपुरस्कृताः॥ 9-11-35 (60743)
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम्।
दुर्योधनो महाराज धृष्टद्युम्नमयोधयत्॥ 9-11-36 (60744)
त्रिसाहस्रास्तथा राजंस्तव पुत्रेण चोदिताः।
अयोधयन्त विजयं जैगर्तानां महारथाः॥ 9-11-37 (60745)
विजये धृतसङ्कल्पाः समरे त्यक्तजीविताः।
प्राविशंस्तावका राजन्हंसा इव महत्सरः॥ 9-11-38 (60746)
ततो युद्धमभूद्धोरं परस्परवधैषिणाम्।
अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम्॥ 9-11-39 (60747)
तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये।
अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः॥ 9-11-40 (60748)
श्रवणान्नामधेयानां पार्थिवानां च कीर्तनात्।
परस्परं विजानीमस्तदायुध्यन्नभीतवत्॥ 9-11-41 (60749)
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम्।
दिशश्च विमला जातास्तस्मिन्रजसि नाशिते॥ 9-11-42 (60750)
तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके।
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः॥ 9-11-43 (60751)
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि।
सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः॥ 9-11-44 (60752)
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः।
स्वर्गसंसक्तमनसो योधा युयुधिरे तदा॥ 9-11-45 (60753)
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः।
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम्॥ 9-11-46 (60754)
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत।
इति स्म वाचः श्रूयन्ते तवतेषां च वै बले॥ 9-11-47 (60755)
ततः शल्यो महाराज धर्मपुत्रं युधिष्ठिरम्।
विव्याध निशितैर्बाणैर्हन्तुकामो महारथम्॥ 9-11-48 (60756)
तस्य पार्थो महाराज नाराचान्वै चतुर्दश।
मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव॥ 9-11-49 (60757)
आवार्य पाण्डवं बाणैर्हन्तुकामो महाबलः।
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः॥ 9-11-50 (60758)
अथ मद्रो महाराज शरेणानतपर्वणा।
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः॥ 9-11-51 (60759)
धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महाबलः।
विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः॥ 9-11-52 (60760)
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः।
द्रुमसेनं चतुःषष्ट्या निजघान महारथः॥ 9-11-53 (60761)
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना।
निजघान ततो राजंश्चेदीन्वै प़ञ्चविंशतिम्॥ 9-11-54 (60762)
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः।
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः॥ 9-11-55 (60763)
एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम।
सम्प्रैषयच्छितान्पार्थः शरानाशीविषोपमान्॥ 9-11-56 (60764)
ध्वजाघ्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः।
प्रमुखे वर्तमानस्य भल्लेनापाहरद्रथात्॥ 9-11-57 (60765)
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना।
निपतन्तमपश्याम गिरिशृङ्गमिवाहतम्॥ 9-11-58 (60766)
ध्वजं निपतितं दृष्ट्वा पाण़्डवं च व्यवस्थितम्।
सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह॥ 9-11-59 (60767)
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान्।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः॥ 9-11-60 (60768)
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ।
एकैकं प़ञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत्॥ 9-11-61 (60769)
ततो बाणमयं जालं विततं पाण्डवोरसि।
अपश्याम महाराज मेघजालमिवोद्गतम्॥ 9-11-62 (60770)
तस्य शल्यो रणे क्रुद्धः शरैः सन्नतपर्वभिः।
दिशः सञ्छादयामास प्रदिशश्च महारथः॥ 9-11-63 (60771)
ततो युधिष्ठिरो राजा बाणजालेन पीडितः।
बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा॥ ॥ 9-11-64 (60772)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकादशोऽध्यायः॥ 11 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-11-3 हर्यक्षं रुद्रम्॥ 9-11-10 शुभ्रैदींप्तिमद्धिः॥ 9-11-11 एकादशोऽध्यायः॥शल्यपर्व - अध्याय 012
॥ श्रीः ॥
9.12. अध्यायः 012
Mahabharata - Shalya Parva - Chapter Topics
शल्यपराक्रमवर्णनम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-12-0 (60773)
सञ्जय उवाच। 9-12-0x (5105)
पीडिते धर्मराजे तु मद्रराजेन मारिष।
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ।
परिवार्य रथैः शल्यं पीडयामासुराहवे॥ 9-12-1 (60774)
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः।
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः॥ 9-12-2 (60775)
आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः॥ 9-12-3 (60776)
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे।
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः॥ 9-12-4 (60777)
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया।
मद्रेश्वरमवाकीर्य सिंहनादमथानदत्॥ 9-12-5 (60778)
नकुलः पञ्चभिश्चैनं सहदेवश्च प़ञ्चभिः।
विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः॥ 9-12-6 (60779)
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः।
विकृष्य कार्मुकं घोरं भारघ्नं वेगवत्तरम्॥ 9-12-7 (60780)
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष।
भीमसेनं तु सप्तत्या नकुलं सप्तभिस्तथा॥ 9-12-8 (60781)
ततः स विशिखं चापं सहदेवस्य धन्विनः।
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः॥ 9-12-9 (60782)
सहदेवस्तु समरे मातुलं भूरिवर्चसम्।
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत्।
शरैराशीविषाकारैर्ज्वलज्ज्वलनसन्निभैः॥ 9-12-10 (60783)
सारथिं चास्य समरे शरेणानतपर्वणा।
विव्याध भृशसङ्क्रुद्धस्तं वै भूयस्त्रिभिः शरैः॥ 9-12-11 (60784)
भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः।
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत्॥ 9-12-12 (60785)
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः।
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा॥ 9-12-13 (60786)
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः।
विव्याध तरसा राजंस्तदद्भुतमिवाभवत्॥ 9-12-14 (60787)
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष।
धनुश्चिच्छेद समरे सज्जयं स सुमहारथः॥ 9-12-15 (60788)
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः।
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः॥ 9-12-16 (60789)
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः।
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः॥ 9-12-17 (60790)
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते।
मद्राणामधिपं शूरं शरैर्विव्याध पञ्चभिः॥ 9-12-18 (60791)
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः।
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत्॥ 9-12-19 (60792)
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः।
तोमरं प्रेषयामास स्वर्णदण्डं महारणे॥ 9-12-20 (60793)
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम्।
नकुलः समरे शक्तिं सहदेवो गदां शुभाम्।
धर्मराजः शतघ्नीं च जिघांसुः शल्यमाहवे॥ 9-12-21 (60794)
तानापतत एवाशु पञ्चानां वै भुजच्युतान्।
वारयामास समरे शस्त्रसङ्घैः स मद्रराट्॥ 9-12-22 (60795)
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम्।
प्रहितं भीमसेनेन शरं कनकभूषणम्॥ 9-12-23 (60796)
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान्।
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्॥ 9-12-24 (60797)
गदां च सहदेवेन शरौघैः समवारयत्।
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत॥ 9-12-25 (60798)
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च।
नामृष्यत्तत्र शैनेयः शत्रोर्विजयमाहवे॥ 9-12-26 (60799)
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्च्छितः।
द्वाभ्यां मद्रेश्वरं विद्वा सारथिं च त्रिभिः शरैः॥ 9-12-27 (60800)
ततः शल्यो रणे राजन्सर्वांस्तान्दशभिः शरैः।
विव्याध भृशसङ्क्रुद्धस्तोत्रैरिव महाद्विपान्॥ 9-12-28 (60801)
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः।
न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः॥ 9-12-29 (60802)
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्।
निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान्। 9-12-30 (60803)
`तथाविधं महाराज मद्रराजस्य विक्रमम्।
असह्यं मानवैर्युद्धे तद्बभूव नरर्षभ॥' 9-12-31 (60804)
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान्।
सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत्॥ 9-12-32 (60805)
नकुलः सहदेवश्च सात्यकिश्च महारथः।
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः॥ 9-12-33 (60806)
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथः।
वृतस्तान्योधयामास मद्रराजः प्रतापवान्॥ 9-12-34 (60807)
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे।
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः॥ 9-12-35 (60808)
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे।
मद्रराजोऽपि बलवान्सैनिकानावृणोच्छरैः॥ 9-12-36 (60809)
समावृतांस्ततस्तांस्तु राजन्वीक्ष्य स्वसैनिकान्।
चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः॥ 9-12-37 (60810)
कथं नु न भवेत्सत्यं तन्माधववचो महत्।
अपि क्रुद्धो रणे राजन्क्षपयेत बलं मम॥ 9-12-38 (60811)
`अहं मद्धातरश्चैव सात्यकिश्च महारथः।
पाञ्चालाः सृञ्जयाश्चैव न शक्तास्म हि मद्रपम्॥ 9-12-39 (60812)
निहनिष्यति चैवाद्य मातुलोऽस्मान्महाबलः।
गोविन्दवचनं सत्यं कथं भवति किन्त्विदम्॥ 9-12-40 (60813)
ततः सरथनागाश्वा पाण्डवाः पाण्डुपूर्वज।
मद्रराजं समासेदुः पीडयन्तः समन्ततः॥ 9-12-41 (60814)
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुद्यताम्।
व्यधमत्समरे राजा महाभ्राणीव मारुतः॥ 9-12-42 (60815)
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम्।
शरवृष्टिमपश्याम शलभानामिवायतिम्॥ 9-12-43 (60816)
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि।
सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव॥ 9-12-44 (60817)
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः।
निरन्तरमिवाकाशं सम्बभूव जनाधिप॥ 9-12-45 (60818)
न पाण्डवानां नास्माकं तत्र किञ्चिद्व्यदृश्यत।
बाणान्धकारे महति कृते तत्र महाहवे॥ 9-12-46 (60819)
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः।
चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम्।
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः॥ 9-12-47 (60820)
स तु तान्सर्वतो यत्ताञ्शरैः सञ्छाद्य मारिष।
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः॥ 9-12-48 (60821)
ते च्छन्नाः समरे तेन पाण्डवानां महारथाः।
नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम्॥ 9-12-49 (60822)
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः।
निजघ्नुः समरे शूरंशल्यमाहवशोभिनम्॥ ॥ 9-12-50 (60823)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे द्वादशोऽध्यायः॥ 12 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-12-25 सहदेवेन प्रेषितामिति पूर्वस्मात्सम्बध्यते॥ 9-12-27 सारथिं च विव्याधेत्युत्तरस्मादपकृष्यते॥ 9-12-38 कथन्नु समरे शक्यं--नहि क्रुद्धो रणे इति झ.पाठः॥ 9-12-12 द्वादशोऽध्यायः॥शल्यपर्व - अध्याय 013
॥ श्रीः ॥
9.13. अध्यायः 013
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-13-0 (60824)
सञ्जय उवाच। 9-13-0x (5106)
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः।
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः॥ 9-13-1 (60825)
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः।
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः।
भूयश्चैव महाराज शरवर्षैरवाकिरत्॥ 9-13-2 (60826)
शरकण्टकितास्ते तु तावका भरतर्षभ।
न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः॥ 9-13-3 (60827)
अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः।
परिवार्य मुदा युक्ता योधयन्तश्चकाशिरे॥ 9-13-4 (60828)
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः।
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा॥ 9-13-5 (60829)
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्।
विव्यधुश्च शरैर्घोरैः प्रहृष्टा युद्धदुर्मदाः॥ 9-13-6 (60830)
कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो।
युगं चैवानुकर्षं च शरभूतमभूत्तदा॥ 9-13-7 (60831)
नैतादृशं दृष्टपूर्वं राजन्नेव च नः श्रुतम्।
यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे॥ 9-13-8 (60832)
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः।
उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले॥ 9-13-9 (60833)
ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः।
अवाकिरत्तां पृतनां मेघो धृष्ट्येव पर्वतम्॥ 9-13-10 (60834)
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः।
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम्॥ 9-13-11 (60835)
कोपोद्धूतशरज्वालो धनुःशब्दानिलो महान्।
सैन्येन्धनं ददाहाशु तावकं पार्थपावकः॥ 9-13-12 (60836)
चक्राणां पततां चापि युगानां च धरातले।
तूणीराणां पताकानां ध्वजानां च रथैः सह॥ 9-13-13 (60837)
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत।
अक्षाणामथ योक्त्राणां प्रतोदानां च राशयः॥ 9-13-14 (60838)
शिरसां पततां चापि कुण्डलोष्णीषधारिणाम्।
भुजानां च महाभाग स्कन्धानां च समन्ततः॥ 9-13-15 (60839)
छत्राणां व्यजनैः सार्धं मकुटानां च राशयः।
समदृश्यन्त पार्थस्य रथमार्गेषु भारत॥ 9-13-16 (60840)
अगम्यरूपा पृथिवी मांसशोणितकर्दमा।
भीरूणां त्रासजननी शूराणां हर्षवर्धिनी।
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा॥ 9-13-17 (60841)
हत्वा तु समरे पार्थः सहस्रे द्वे परन्तपः।
रथानां सवरूथानं विधूमोऽग्निरिव ज्वलन्॥ 9-13-18 (60842)
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम्।
विधूमो दृश्यते राजंस्तथा पार्थो धऩञ्जयः॥ 9-13-19 (60843)
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्।
रथेनातिपताकेन पाण्डवं प्रत्यवारयत्॥ 9-13-20 (60844)
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ।
समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ॥ 9-13-21 (60845)
तयोरासीन्महाराज बाणवर्षं सुदारुणम्।
जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ॥ 9-13-22 (60846)
अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभिः।
ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव॥ 9-13-23 (60847)
तयोर्युद्धं महाराज चिरं सममिवाभवत्।
शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत्पुनः॥ 9-13-24 (60848)
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः।
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत॥ 9-13-25 (60849)
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः।
मानयित्वा मुहूर्तं तु गुरुपुत्रं महाहवे॥ 9-13-26 (60850)
व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः।
मृदुपूर्वं ततश्चैनं पुनःपुनरताडयत्॥ 9-13-27 (60851)
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम्।
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम्॥ 9-13-28 (60852)
तमापतन्तं सहसा हेमपट्टविभूषितम्।
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः॥ 9-13-29 (60853)
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः।
आददे परिघं घोरं नगेन्द्रशिखरोपमम्।
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः॥ 9-13-30 (60854)
तमन्तकमिव क्रुद्दं परिघं प्रेक्ष्य पाण्डवः।
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः॥ 9-13-31 (60855)
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे।
दारयन्पृथिवीन्द्राणां मनः सब्देन भारत॥ 9-13-32 (60856)
ततोऽपरैस्त्रिभिर्भल्लैर्द्रौणिं विव्याध पाण़्डवः॥ 9-13-33 (60857)
सोऽतिविद्धो बलवता पार्थेन सुमहात्मना।
नाकम्पत तदा द्रौणिः पौरुषेषु व्यवस्थितः॥ 9-13-34 (60858)
सुरथं च ततो राजन्भारद्वाजो महारथम्।
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः॥ 9-13-35 (60859)
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः।
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत॥ 9-13-36 (60860)
विकर्षन्वै धनुःश्रेष्ठं सर्वभारसहं दृढम्।
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत्॥ 9-13-37 (60861)
सुरथं तं ततः क्रुद्धमापतन्तं महारथम्।
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः॥ 9-13-38 (60862)
त्रिशिखां भ्रुकुटीं कृत्वा सृक्विणी परिसंलिहन्।
उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च।
मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम्॥ 9-13-39 (60863)
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगितः।
शक्ताशनिरिवोत्सृष्टो विदार्य धरणीतलम्॥ 9-13-40 (60864)
ततः स पतितो भूमौ नाराचेन समाहतः।
वज्रेण च यथा शृङ्गं पर्वतस्येव दीर्यतः॥ 9-13-41 (60865)
तस्मिन्विनिहते वीरे द्रोणपुत्रः प्रतापवान्।
आरुरोह रथं तूर्णं तमेव रथिनां वरः॥ 9-13-42 (60866)
ततः सज्जो महाराज द्रौणिराहवदुर्मदः।
अर्जुनं योधयामास संशप्तकवृतो रणे॥ 9-13-43 (60867)
तत्र युद्धं महच्चासीदर्जुनस्य परैः सह।
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम्॥ 9-13-44 (60868)
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम्।
यदेको युगपद्वीरान्समयोधयदर्जुनः॥ 9-13-45 (60869)
विमर्दः सुमहानासीदर्जुनस्य परैः सह।
शतक्रतोर्यथापूर्वं महत्या दैत्यसेनया॥ ॥ 9-13-46 (60870)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे त्रयोदशोऽध्यायः॥ 13 ॥
शल्यपर्व - अध्याय 014
॥ श्रीः ॥
9.14. अध्यायः 014
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-14-0 (60871)
सञ्जय उवाच। 9-14-0x (5107)
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः।
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम्॥ 9-14-1 (60872)
ततो राजन्समापेतुः शरधाराः सहस्रशः।
अम्बुदानां यथा काले जलधाराः समन्ततः॥ 9-14-2 (60873)
राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः।
द्रोणहन्तारमुग्रेषुं पुनर्विव्याध सप्तभिः॥ 9-14-3 (60874)
धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः।
सप्तत्या विशिखानां वै दुर्योधनमपीडयत्॥ 9-14-4 (60875)
पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ।
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम्॥ 9-14-5 (60876)
स तैः परिवृतः शूरः सर्वतोऽतिरथै र्भृशम्।
व्यचरत्समरे राजन्दर्शयन्नस्त्रलाघवम्॥ 9-14-6 (60877)
शिखण्डी कृतवर्माणं गौतमं च महारथम्॥
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ॥ 9-14-7 (60878)
तत्रापि सुमहद्युद्धं घोररूपं विशाम्पते।
प्राणान्सन्तजतां युद्धे प्राणद्यूताभिदेवने॥ 9-14-8 (60879)
शल्यः सायकवर्षाणि विमुञ्जन्सर्वतोदिशम्।
पाण्डवान्पीडयामास ससात्यकिवृकोदरान्॥ 9-14-9 (60880)
तथा तौ तु यमौ यमतुल्यपराक्रमौ।
योधयामास राजेन्द्र वीर्येणास्त्रबलेन च॥ 9-14-10 (60881)
शल्यसायकनुन्नानां पाण्डवानां महामृधे।
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः॥ 9-14-11 (60882)
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते।
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः॥ 9-14-12 (60883)
सञ्छाद्य समरे वीरं नकुलः परवीरहा।
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे॥ 9-14-13 (60884)
सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः।
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः॥ 9-14-14 (60885)
शल्यस्तु पीडितस्तेन स्वस्रीयेण हि मातुलः।
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः॥ 9-14-15 (60886)
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः।
सहदेवश्च माद्रेणो मद्रराजमुपाद्रवन्॥ 9-14-16 (60887)
तानापतत एवाशु पूरयाणान्रथस्वनैः।
दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम्।
प्रतिजग्राह समरे सेनापतिरमित्रजित्॥ 9-14-17 (60888)
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः।
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः॥ 9-14-18 (60889)
ततस्तु सशरं चापं नकुलस्य महात्मनः।
मद्रेश्वरः क्षुरप्रेण मध्ये चिच्छेद मारिष॥ 9-14-19 (60890)
तदपास्य धनुश्छिन्नं ततः शल्यस्य सायकैः।
अथान्यद्धनुरादाय माद्रीपुत्रो महारथः।
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः॥ 9-14-20 (60891)
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष।
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम्॥ 9-14-21 (60892)
भीमसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः।
मद्रराजमभिद्रुत्य जघ्नतुः xxङ्कपत्रिभिः॥ 9-14-22 (60893)
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः।
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम्॥ 9-14-23 (60894)
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष।
हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे॥ 9-14-24 (60895)
विरथं सात्यकिं कृत्वा मद्रराजो महारथः।
विशिखानां शतेनैनमाजघान समन्ततः॥ 9-14-25 (60896)
माद्रीपुत्रं च संरब्धो भीमसेनं च पाण्डवम्।
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः॥ 9-14-26 (60897)
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम्।
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे॥ 9-14-27 (60898)
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः।
पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान्।
अभिदुद्राव वेगेन मद्राणामधिपं बलात्॥ 9-14-28 (60899)
आपतन्तं रथं तस्य शल्यः समितिशोभनः।
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम्॥ 9-14-29 (60900)
स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः।
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च।
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः॥ 9-14-30 (60901)
सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम्।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत्॥ 9-14-31 (60902)
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना।
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः॥ 9-14-32 (60903)
ततः पार्था महेष्वासाः सात्वताऽभिसृतं नृपम्।
अभ्यवर्तन्रथैस्तूर्णं मातुलं वधकाङ्क्षया॥ 9-14-33 (60904)
तत आसीत्परामर्दस्तुमुलः शोणितोदकः।
शूराणां युध्यमानानां सिंहानामिव नर्दताम्॥ 9-14-34 (60905)
तेषामासीन्महाराज व्यधिक्षेपः परस्परम्।
सिंहानामामिषेप्सूनां कूजतामिव संयुगे॥ 9-14-35 (60906)
तेषां बाणसहस्रौघैराकीर्णा वसुधाऽभवत्।
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा॥ 9-14-36 (60907)
शरान्धकारं सहसा कृतं तेन समन्ततः।
अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः॥ 9-14-37 (60908)
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नैगः।
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा॥ 9-14-38 (60909)
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः।
यदेकः समरे शूरो योधयामास वै बहून्॥ 9-14-39 (60910)
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः।
सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी॥ 9-14-40 (60911)
तत्र शल्यरथं राजन्विचरन्तं महाहवे।
अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये॥ ॥ 9-14-41 (60912)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे चतुर्दशोऽध्यायः॥ 14 ॥
शल्यपर्व - अध्याय 015
॥ श्रीः ॥
9.15. अध्यायः 015
Mahabharata - Shalya Parva - Chapter Topics
शल्ययुधिष्ठिरयोर्युद्धम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-15-0 (60913)
सञ्जय उवाच। 9-15-0x (5108)
ततः सेना तव विभो मद्रराजपुरस्कृता।
पुनरभ्यद्रवत्पार्थान्वेगेन महता रणे॥ 9-15-1 (60914)
पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः।
क्षणेन चैव पार्थांस्ते बहुत्वात्समलोडयन्॥ 9-15-2 (60915)
ते वध्यमानाः समरे पाण्डवा नावतस्थिरे।
क्षणेनैव महाराज पश्यतोः कृष्णपार्थयोः॥ 9-15-3 (60916)
ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः।
अवाकिरच्छरौघेण कृतवर्माणमेव च॥ 9-15-4 (60917)
शकुनिं सहदेवस्तु सहसैन्यमवाकिरत्।
नकुलः पार्श्वतः स्थित्वा मद्रराजमयोधयत्॥ 9-15-5 (60918)
द्रौपदेया नरेन्द्राश्च भूयिष्ठान्समवारयन्।
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत्॥ 9-15-6 (60919)
भीमसेनस्तु राजानं गदापाणिरवारयत्।
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः॥ 9-15-7 (60920)
ततः समभवद्युद्धं संसक्तं तत्रतत्र ह।
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम्॥ 9-15-8 (60921)
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे।
यदेकः सर्वसैन्यानि पाण्डवानामयोधयत्॥ 9-15-9 (60922)
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः।
क्रूरश्चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः॥ 9-15-10 (60923)
पीडयित्वा तु राजानं शरैराशीविषोपमैः।
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत्॥ 9-15-11 (60924)
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम्।
अपूजयन्ननीकानि परेषां तावकानि च॥ 9-15-12 (60925)
पीड्यमानास्तु शल्येन पाण्डवा भृशाविक्षताः।
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे॥ 9-15-13 (60926)
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः।
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः॥ 9-15-14 (60927)
ततः पौरुषमास्थाय मद्रराजमताडयत्।
जयो वाऽस्तु वधो वेति कृतबुद्धिर्महारथः॥ 9-15-15 (60928)
समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च पाण्डवः॥ 9-15-16 (60929)
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः।
कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः।
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः॥ 9-15-17 (60930)
भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः।
सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम्॥ 9-15-18 (60931)
तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः।
चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ॥ 9-15-19 (60932)
अजेयौ वासवेनापि समरे शूरसम्मतौ।
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ॥ 9-15-20 (60933)
मदर्थे प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ।
मां वा शल्यो रणे हन्ता तं वाऽहं भद्रमस्तु वः।
इति सत्यामिमां वाणीं लोकवीरा निबोधत॥ 9-15-21 (60934)
योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः।
स्वमंशमभिसन्धाय विजयायेतराय वा॥ 9-15-22 (60935)
तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च।
संयुज्यन्तां रथे क्षिप्रं शास्त्रवद्रथयोजकैः॥ 9-15-23 (60936)
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम्।
पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः॥ 9-15-24 (60937)
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः।
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे॥ 9-15-25 (60938)
एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः॥ 9-15-26 (60939)
ततः प्रहर्षः सैव्यानां पुनरासीत्तदाः मृधे।
पाञ्चालानां सोमकानां मात्स्यानां च विशेषतः॥ 9-15-27 (60940)
प्रतिज्ञातं च सङ्ग्रामे धर्मराजस्य पूजयन्।
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान्।
अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे॥ 9-15-28 (60941)
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम्।
महता हर्षजेनाथ नादेन कुरुपुङ्गवाः॥ 9-15-29 (60942)
हादेन गजघण्टानां शङ्खानां निनदेन च।
तूर्यशब्देन महता नादयन्तश्च मेदिनीम्॥ 9-15-30 (60943)
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान्।
महामेघानिव बहूञ्शैलावस्तोदयावुभौ॥ 9-15-31 (60944)
शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम्।
ववर्ष शरवर्षेण शम्बरं मघवा इव॥ 9-15-32 (60945)
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः।
द्रोणोपदेशान्विविधान्दर्शयानो महामनाः।
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च॥ 9-15-33 (60946)
न चास्य विवरं कश्चिद्ददर्श चरतो रणे॥ 9-15-34 (60947)
तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम्।
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे॥ 9-15-35 (60948)
भीमस्तु तव पुत्रेण युद्धशौण्डेन सङ्गतः॥ 9-15-36 (60949)
पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ।
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः॥ 9-15-37 (60950)
तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम्।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव॥ 9-15-38 (60951)
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा।
चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमपरिष्कृतम्॥ 9-15-39 (60952)
स किङ्किणीकजालेन महता चारुदर्शनः।
पपात रुचिरः सिंहो भीमसेनस्य पश्यतः॥ 9-15-40 (60953)
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम्।
क्षुरेण शितधारेण प्रचकर्त नराधिपः॥ 9-15-41 (60954)
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव।
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत्॥ 9-15-42 (60955)
तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः।
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा॥ 9-15-43 (60956)
हतसूता हयास्तस्य रथमादाय भारत।
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाऽभवत्॥ 9-15-44 (60957)
तमभ्यधावंस्त्राणार्थं द्रोणपुत्रो महारथः।
कृपश्च कृतवर्मां च पुत्रं ते हि परीप्सवः॥ 9-15-45 (60958)
तस्मिन्विलुलिते सैन्ये त्रस्तांस्तस्य पदानुगान्।
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः॥ 9-15-46 (60959)
युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः।
स्वयं सन्नोदयन्नश्वान्दन्तवर्णान्मनोजवान्॥ 9-15-47 (60960)
तत्राश्चर्यपमश्याम कुन्तीपुत्रे युधिष्ठिरे।
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत्॥ 9-15-48 (60961)
विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना।
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः॥ 9-15-49 (60962)
यांयां प्रत्युद्ययौ सेनां तांतां ज्येष्ठः स पाण्डवः।
शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः॥ 9-15-50 (60963)
साश्वसूतध्वजरथान्रथिनः पातयन्बहून्।
अक्रीडदेको बलवान्पवनस्तोयदानिव॥ 9-15-51 (60964)
साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रधा।
व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव॥ 9-15-52 (60965)
शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः।
अभ्यद्रवत मद्रेशं तिष्ठतिष्ठेति चाब्रवीत्॥ 9-15-53 (60966)
तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः।
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात्॥ 9-15-54 (60967)
ततस्तौ भृशसङ्क्रुद्धौ प्रध्माय सलिलोद्भवौ।
समाहूय तदाऽन्योन्यं भर्त्सयन्तौ समीयतुः॥ 9-15-55 (60968)
शल्यस्तु शरवर्षेण पीडयामास पाण्डवम्।
मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत्॥ 9-15-56 (60969)
अदृश्येतां तदा राजन्कङ्कपत्रिभिराचितौ।
उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ।
पुष्पिताविव रेजाते वने शाल्मलिकिंशुकौ॥ 9-15-57 (60970)
दीव्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ।
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम्॥ 9-15-58 (60971)
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम्।
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम्॥ 9-15-59 (60972)
इतीव निश्चयो नाभूद्योधानां तत्र भारत।
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः॥ 9-15-60 (60973)
ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे।
धनुश्चास्य शिताग्रेण बाणेन निरुकृन्तत॥ 9-15-61 (60974)
सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः।
अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत॥ 9-15-62 (60975)
अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः।
द्वाभ्यामतिशिताग्राभ्यामुभौ तत्पार्ष्णिसारथी॥ 9-15-63 (60976)
ततोऽस्य दीप्यमानेन पीतेन निशितेन च।
प्रमुखे वर्तमानस्य भल्लेनापाहरद्वृजम्॥ 9-15-64 (60977)
ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिन्दम॥ 9-15-65 (60978)
ततो मद्राधिपं द्रौणिरभ्यधावत्तथा कृतम्।
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे॥ 9-15-66 (60979)
मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे।
गत्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः॥ 9-15-67 (60980)
विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम्।
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम्॥ 9-15-68 (60981)
तथान्यद्धनुरादाय बलवान्वेगवत्तरम्॥
युधिष्ठिरं मद्रपतिर्भित्त्वा सिंह इवानदत्॥ 9-15-69 (60982)
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान्।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः॥ 9-15-70 (60983)
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः।
सहदेवं त्रिभिर्विद्धा युधिष्ठिरमपीडयत्॥ 9-15-71 (60984)
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकूबरान्।
अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान्॥ 9-15-72 (60985)
कुञ्जरान्कुञ्जरारोहानश्वप्रयायिनः।
रथांश्च रथिभिः सार्धं जघान रथिनां वरः॥ 9-15-73 (60986)
बाहूंश्चिच्छेद तरसा सायुधान्केतनानि च।
चकार च महीं योधैः स्तीर्णां वेदीं कुशैरिव॥ 9-15-74 (60987)
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम्।
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः॥ ॥ 9-15-75 (60988)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे पञ्चदशोऽध्यायः॥ 15 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-15-42 रथशक्त्या रथस्थया शक्त्या॥ 9-15-50 यां यामभ्यगमत्सेनां तां तां व्यनीनशत्। न्यपातयत कौन्तेयो गिरीन्वज्र इवोत्तमान्। इति क.ख.पाठः॥ 9-15-67 मुहूर्तमिव तान्हत्वा नर्दमीने युधिष्ठिरे इति क.ख.पाठः॥ 9-15-15 पञ्चदशोऽध्यायः॥शल्यपर्व - अध्याय 016
॥ श्रीः ॥
9.16. अध्यायः 016
Mahabharata - Shalya Parva - Chapter Topics
युधिष्ठिरेण शल्यशल्यानुजयोर्वधः॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-16-0 (60989)
सञ्जय उवाच। 9-16-0x (5109)
तं भीमसेनश्च शिनेश्च नप्ता
माद्याश्च पुत्रौ पुरुषप्रवीरौ।
समागतं भीमबलेन राज्ञा
पर्यापुरन्योन्यमथाह्वयन्त॥ 9-16-1 (60990)
ततस्तु शूराः समरे नरेन्द्र
नरेश्वरं प्राप्य युधां वरिष्ठम्।
आवार्य चैनं समरे नृवीरा
जघ्नुः शितैः पत्रिभिरुग्रवेगैः॥ 9-16-2 (60991)
संरक्षितो भीमसेनेन राजा
माद्रीसुताभ्यामथ माधवेन।
मद्राधिपं पत्रिभिरुग्रवेगैः
स्तनान्तरे धर्मसुतो निजघ्ने॥ 9-16-3 (60992)
ततो रणे तावकानां रथौघाः
समीक्ष्य मद्राधिपतिं शरार्तम्।
पर्यावव्रुः प्रवराः सर्वयोधा
दुर्योधनस्यानुमते पुरस्तात्॥ 9-16-4 (60993)
ततो द्रुतं मद्रजनाधिपो रणे
युधिष्ठिरं सप्तभिरभ्यविद्व्यत्।
तं चापि पार्थौ नवभिः पृषत्कै--
र्विव्याध राजंस्तुमुले महात्मा॥ 9-16-5 (60994)
आकर्णपूर्णायतसम्प्रयुक्तैः
शरैस्तदा संयति तैलधौतैः।
अन्योन्यमाच्छादयतां महारथौ
मद्राधिपश्चापि युधिष्ठिरश्च॥ 9-16-6 (60995)
ततस्तु तूर्णं समरे महारथौ
परस्परस्यान्तरमीक्षमाणौ।
शरैर्भृशं विव्यधतुर्नृपोत्तमौ
महबलौ शत्रुभिरप्रधृष्यौ॥ 9-16-7 (60996)
तयोर्धनुर्ज्यातलनिःस्वनो महा--
न्महेन्द्रवज्राशनितुल्यनिः स्वनः।
परस्परं बाणगणैर्महात्मनोः
प्रवर्षतोर्मद्रपपाण्डुवीरयोः॥ 9-16-8 (60997)
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ
महावनेष्वामिषगृद्विनाविव।
विषाणिनौ नागवराविवोभौ
ततक्षतुः संयति जातदर्पौ॥ 9-16-9 (60998)
ततस्तु मद्राधिपतिर्महात्मा
युधिष्ठिरं भीमबलं प्रसह्य।
विव्याध वीरं हृदयेऽतिवेगं
शरेण सूर्याग्निसमप्रभेण॥ 9-16-10 (60999)
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि
सुसम्प्रयुक्तेन शरेण राजन्।
जघान मद्राधिपतिं महात्मा
मुदं च लेभे वृषभः कुरूणाम्॥ 9-16-11 (61000)
ततो मुहूर्तादिव पार्थिवेन्द्रो
लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः।
शरेण पार्थं त्वरितो जघान
सहस्रनेत्रप्रतिमप्रभावः॥ 9-16-12 (61001)
त्वरंस्ततो धर्मसुतो महात्मा
शल्यस्य कोपान्नवभिः पृषत्कैः।
भित्त्वा ह्युरस्तपनीयं च वर्म
जघान षड्भिस्त्वपरैः पृषत्कैः॥ 9-16-13 (61002)
ततस्तु मद्राधिपतिः प्रकृष्टं
धनुर्विकृष्य व्यसृजत्पृषत्कान्।
द्वाभ्यां शराभ्यां च तथैव राज्ञ--
श्चिच्छेद चापं कुरुपुङ्गवस्य॥ 9-16-14 (61003)
नवं ततोऽन्यत्समरे प्रगृह्य
राजा धनुर्धोरतरं महात्मा।
शल्यं तु विव्याध शरैः समन्ता--
द्यथा महेन्द्रो नमुचिं शिताग्रैः॥ 9-16-15 (61004)
ततस्तु शल्यो नवभिः पृषत्कै--
र्भीमस्य राज्ञश्च युधिष्ठिरस्य।
निकृत्य रौक्मे पटुवर्मणी तयो--
र्विदास्यामास भुजौ महात्मा॥ 9-16-16 (61005)
ततोऽपरेण ज्वलनार्कतेजसा
क्षुरेण राज्ञो धनुरुन्ममाथ।
कृपश्च तस्यैव जघान सूतं
षड्भिः शरैः सोऽभिमुखः पपात॥ 9-16-17 (61006)
मद्राधिपश्चापि युधिष्ठिरस्य
शरैश्चतुर्भिर्निजघान वाहान्।
वाहांश्च हत्वा व्यकरोन्महात्मा
योधक्षयं धर्मसुतस्य राज्ञः॥ 9-16-18 (61007)
`यदद्भुतं कर्म न शक्यमन्यैः
सुदुःसहं तत्कृतवन्तमेकम्।
शल्यो नरेन्द्रः सविषण्णभावा--
द्विचिन्तयामास मृदङ्गकेतुः॥ 9-16-19 (61008)
किमेतदिन्द्रावरजस्य वाक्यं
मोघं भवत्यद्य विधेर्बलेन।
जहीति शल्यं ह्यवदत्तदाऽऽजौ
न लोकनाथस्य वचोऽन्यथा स्यात्॥' 9-16-20 (61009)
तथा कृते राजनि भीमसेनो
मद्राधिपस्याथ ततो महात्मा।
छित्त्वा धनुर्वेगवता शरेण
द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम्॥ 9-16-21 (61010)
तथापरेणास्य जहार यन्तुः
कायाच्छिरः संहननीयमध्यात्।
जघान चाश्वांश्चतुरः सुशीघ्रं
तथा भृशं कुपितो भीमसेनः॥ 9-16-22 (61011)
तमग्रणीः सर्वधनुर्धराणा--
मेकं चरन्तं समरेऽतिवेगम्।
भीमः शतेन व्यकिरच्छराणां
माद्रीपुत्रः सहदेवस्तथैव॥ 9-16-23 (61012)
तैः सायकैर्मोहितं वीक्ष्य शल्यं
भीमः शरैरस्य चकर्त वर्म।
स भीमसेनेन निकृत्तवर्मा
मद्राधिपश्चर्म सहस्रतारम्॥ 9-16-24 (61013)
प्रगृह्य खङ्गं च रथान्महात्मा
प्रस्कन्द्य कुन्तीसुतमभ्यधावत्।
छित्त्वा रथेषां नकुलस्य सोऽथ
युधिष्ठिरं भीमबलोऽभ्यधावत्॥ 9-16-25 (61014)
तं चापि राजानमथोत्पतन्तं
क्रुद्धं यथैवान्तकमापतन्तम्।
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी
शिनेश्च नप्ता सहसा परीयुः॥ 9-16-26 (61015)
अथास्य चर्माप्रतिमं न्यकृन्त--
द्भीमो महात्मा नवभिः पृषत्कैः।
खङ्गं च भल्लैर्निचकर्त मुष्टौ
नदन्प्रहृष्टस्तव सैन्यमध्ये॥ 9-16-27 (61016)
तत्कर्म भीमस्य समीक्ष्य हृष्टा--
स्ते पाण्डवानां प्रवरा रथौघाः।
नादं च चक्रुर्भृशमुत्स्मयन्तः
शङ्खांश्च दध्मुः शशिसन्निकाशान्॥ 9-16-28 (61017)
तेनाथ शब्देन विभीषणेन
तथाऽभितप्तं बलमप्रधृष्यम्।
स्वेदाभिभूतं रुधिरोक्षिताङ्गं
विसञ्ज्ञकल्पं च तदा विषण्णम्॥ 9-16-29 (61018)
स मद्रराजः सहसा विकीर्णो
भीमाग्रगैः पाण्डवयोधमुख्यैः।
युधिष्ठिरस्याभिमुखं जवेन
सिंहो यथा मृगहेतोः प्रयातः॥ 9-16-30 (61019)
स धर्मराजो निहताश्वसूतः
क्रोधेन दीप्तो ज्वलनप्रकाशः।
दृष्ट्वा च मद्राधिपतिं स्म तूर्णं
समभ्यधावत्तमरिं बलेन॥ 9-16-31 (61020)
गोविन्दवाक्यं त्वरितं विचिन्त्य
दध्रे मतिं शल्यविनाशनाय।
स धर्मराजो निहताश्वसूतो
रथे तिष्ठञ्शक्तिमथान्वकर्षत्॥ 9-16-32 (61021)
तच्चxx शल्यस्य निशाम्य कर्म
तमात्मनो भागमथावशिष्टम्।
कृत्वा मनः शल्यवधे महात्मा
यथोक्तमिन्द्रावरजस्य चक्रे॥ 9-16-33 (61022)
स धर्मराजो मणिहेमदण्डां
जग्राह शक्तिं कनकप्रकाशाम्।
नेत्रे च दीप्ते सहसा विवृत्य
मद्राधिपं क्रुद्धमना निरैक्षत्॥ 9-16-34 (61023)
निरीक्षितो धर्मसुतेन राज्ञा
षूतात्मना निर्हृतकल्मषेण।
आसीन्न यद्भस्मसान्मद्रराज--
स्तदद्भुतं मे प्रतिभाति राजन्॥ 9-16-35 (61024)
ततस्तु शक्तिं रचिरोग्रदण्डां
मणिप्रवेकोज्ज्वलितां प्रदीप्ताम्।
चिक्षेप वेगात्सुभृशं महात्मा
मद्राधिपाय प्रवरः कुरूणाम्॥ 9-16-36 (61025)
दीप्तामथैनां प्रहितां बलेन
सविस्फुलिङ्गां सहसापतन्तीम्।
प्रैक्षन्त सर्वे कुरवः समेता
दिवो युगान्ते महतीमिवोल्काम्॥ 9-16-37 (61026)
तां कालरात्रीमिव पाशहस्तां
यमस्य धात्रीमिव चोग्ररूपाम्।
स ब्रह्मदण्डप्रतिमाममोधां
ससर्ज यत्तो युधि धर्मराजः॥ 9-16-38 (61027)
गन्धस्रगग्र्यासनपानभोजनै--
रभ्यर्चितां पाण्डुसुतैः प्रयत्नात्।
सांवर्तकाग्निप्रतिमां ज्वलन्तीं
कृत्यामथर्वाङ्गिरसीमिवोग्राम्॥ 9-16-39 (61028)
ईशानहेतोः प्रतिनिर्मितां तां
त्वष्ट्रा रिपूणामसुदेहभक्ष्याम्।
भूम्यन्तरिक्षद्युजलाश्रयाणि
प्रसह्य भूतानि निहन्तुमीशाम्॥ 9-16-40 (61029)
घण़्टापताकां मणिवज्रभूषां
वैदूर्यचित्रां तपनीयदण्डाम्।
त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां
ब्रह्मद्विषामन्तकरीममाघाम्॥ 9-16-41 (61030)
बलप्रयत्नादनिरोधवेगां
मन्त्रैश्च घोरैरपि पूरयित्वा।
ससर्ज मार्गेण च तां खगानां
वधाय मद्राधिपतेस्तदानीम्॥ 9-16-42 (61031)
हतो ह्यसावित्यभिगर्जमानो
रुद्रोऽन्धकायान्तकरं यथेषुम्।
प्रसार्य बाहुं सुदृढं सुपाणिं
क्रोधेन नृत्यन्निव धर्मराजः॥ 9-16-43 (61032)
`स्फुरत्प्रभामण्डलिनोंशुजालै--
र्धर्मात्मनो मद्रविनाशकाले।
पुरत्रयप्रोत्सरणे पुरस्ता--
न्माहेश्वरं रूपमभूत्तदानीम्॥ 9-16-44 (61033)
आवर्तनाकुञ्चितबाहुदण्डः
सन्ध्याविहारी तनुवृत्तमध्यः।
विशालवक्षा भगवान्हरो यथा
सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः'॥ 9-16-45 (61034)
तां सर्वशक्त्या प्रहितां सुशक्तिं
युधिष्ठिरेणाप्रतिवार्यवीर्याम्।
प्रतिग्रहायाभिननन्द शल्यः
सम्यग्घुतामग्निरिवाज्यधाराम्॥ 9-16-46 (61035)
सा तस्य वर्माभिविदार्य शुभ्र--
मुरो विशालं च तथैव भित्त्वा।
विवेश गां तोयमिवाप्रसक्ता
यशो विशालं नृपतेर्हरन्ती॥ 9-16-47 (61036)
नासाक्षिकर्णास्यविनिः सृतेन
प्रस्यन्दता च व्रणसम्भवेन।
संसिक्तगात्रो रुधिरेण सोऽभू--
त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः॥ 9-16-48 (61037)
प्रसार्य बाहू च रथाद्गतो गां
सञ्छिन्नवर्मा कुरुनन्दनेन।
महेन्द्रवाहप्रतिमो महात्मा
वज्राहतं शृङ्गमिवाचलस्य॥ 9-16-49 (61038)
ततो निपतितः सोऽभूदिन्द्रध्वज इवोच्छ्रितः।
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट्।
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः॥ 9-16-50 (61039)
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः।
प्रियया कान्तया कान्तः पतमान इवोरसि॥ 9-16-51 (61040)
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः।
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत्॥ 9-16-52 (61041)
धर्म्ये धर्मात्मना युद्वे निहतो धर्मसूनुना।
सम्यक्स्फीत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे॥ 9-16-53 (61042)
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम्।
संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति॥ 9-16-54 (61043)
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम्।
व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान्।
देहान्सुनिशितैर्भल्लै रिपूणां नाशयन्क्षणात्॥ 9-16-55 (61044)
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव।
निमीलिताक्षाः क्षिण्वन्ति भृशमन्योन्यकर्शिताः।
क्षरन्तो रुधिरं देहैर्विशस्त्रायुधजीविताः॥ 9-16-56 (61045)
ततः शल्ये निपतिते मद्रराजानुजो युवा।
भ्रातुस्तुल्यो गुणैः सर्वै रथी पाण्डवमभ्ययात्॥ 9-16-57 (61046)
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्।
हतस्यापचितिं भ्रातुश्चिकीषुर्युद्धदुर्मदः॥ 9-16-58 (61047)
तं विव्याधाशुगैः ष़ड्भिर्धर्मराजस्त्वरन्निव।
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च॥ 9-16-59 (61048)
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च।
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः॥ 9-16-60 (61049)
सकुण्डलं तद्ददृशे पतमानं शिरो रथात्।
पुण्यक्षयमनुप्राप्य पतन्स्वर्गादिव च्युतः॥ 9-16-61 (61050)
तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात्।
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत॥ 9-16-62 (61051)
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे।
हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवुः॥ 9-16-63 (61052)
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः।
वित्रेसुः पाण्डवभयात्प्रविध्वस्तास्तदा भृशम्॥ 9-16-64 (61053)
तांस्तथा भज्यमानांस्तु कौरवान्भरतर्षभ।
शिनेर्नप्ताऽकिरन्बाणैरभ्यवर्तत सात्यकिः॥ 9-16-65 (61054)
तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम्।
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत्॥ 9-16-66 (61055)
तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ।
हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ॥ 9-16-67 (61056)
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम्।
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ॥ 9-16-68 (61057)
चापमार्गबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः।
आकाशगानपश्याम पतङ्गानिव शीघ्रगान्॥ 9-16-69 (61058)
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः।
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा॥ 9-16-70 (61059)
तन्निकृत्तं धनुःश्रेष्ठमपास्य शिनिपुङ्गवः।
अन्यदादत्त वेगेन धनुर्जलदनिःस्वनम्॥ 9-16-71 (61060)
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्।
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे॥ 9-16-72 (61061)
ततो युगं रथेषां च च्छित्त्वा भल्लैः सुसंयतैः।
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी॥ 9-16-73 (61062)
हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो।
अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान्॥ 9-16-74 (61063)
मद्रराजे हते राजन्विरथे कृतवर्मणि।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्॥ 9-16-75 (61064)
स्व परे नान्वबुध्यन्त सैन्येन रजसा वृते।
बलं तु हतभूयिष्ठं त्रस्तमासीत्पराङ्मुखम्॥ 9-16-76 (61065)
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम्।
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ॥ 9-16-77 (61066)
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्।
जवेनापततः पार्थानेकः सर्वानवारयत्॥ 9-16-78 (61067)
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम्।
आनर्त्तं च दुराधर्षं शितैर्बाणैरवारयत्॥ 9-16-79 (61068)
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम्।
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत॥ 9-16-80 (61069)
ततो युधिष्ठिरो राजा त्वरमाणो महारथः।
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः।
विव्याध गौतमं चापि ष़ड्भिर्भल्लैः सुतेजनैः॥ 9-16-81 (61070)
अश्वत्थामाः ततो राज्ञा हताश्वं विरथीकृतम्।
तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात्॥ 9-16-82 (61071)
ततः शारद्वतः षड्भिः प्रत्यविध्यद्युधिष्ठिरम्।
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः॥ 9-16-83 (61072)
एवमेतन्महाराज युद्धशेषमवर्तत।
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत॥ 9-16-84 (61073)
तस्मिन्महेष्वासधरे विशस्ते
सङ्ग्राममध्ये कुरुपुङ्गवेन।
पार्थाः समेताः परमप्रहृष्टाः
शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम्॥ 9-16-85 (61074)
युधिष्ठिरं च प्रशशंसुराजौ
पुरा सुरा वृत्रवधे यथेन्द्रम्।
चक्रुश्च नानाविधवाद्यशब्दा--
न्निनादयन्तो वसुधां समन्तात्॥ ॥ 9-16-86 (61075)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षोडशोऽध्यायः॥ 16 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-16-22 संहननीयो दृढसन्धिको मध्यो यस्य तस्मात्कायात्॥ 9-16-47 तोयमिव सुप्रवेशाङ्गाम्। अप्रसक्तः अप्रतिहता। नृपतेः शल्यस्य॥ 9-16-16 षोडशोऽध्यायः॥शल्यपर्व - अध्याय 017
॥ श्रीः ॥
9.17. अध्यायः 017
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-17-0 (61076)
सञ्जय उवाच। 9-17-0x (5110)
शल्येऽथ निहते राजन्मद्रराजपदानुगाः।
रथाः सप्तशता वीरा दुद्रुवुर्महतो बलात्॥ 9-17-1 (61077)
दुर्योधनस्तु द्विरदमारुह्याचलसन्निभम्।
छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः।
न गन्तव्यं न गन्तव्यमिति मद्रानवारयत्॥ 9-17-2 (61078)
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः।
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम्॥ 9-17-3 (61079)
ते तु शूरा महाराज कृतचित्ताश्च योधने।
धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः॥ 9-17-4 (61080)
श्रुत्वा च निहतं शल्यं धर्मपुत्रं च पीडितम्।
मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः॥ 9-17-5 (61081)
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः।
पूरयन्रथघोषेण दिशः सर्वा महारथः॥ 9-17-6 (61082)
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ।
सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः॥ 9-17-7 (61083)
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः।
युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन्॥ 9-17-8 (61084)
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभैः।
क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा।
वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः॥ 9-17-9 (61085)
पुरोवातेन गङ्गेव--क्षोभ्यमाणा महानदी।
अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी ततः॥ 9-17-10 (61086)
प्रस्कन्द्य सेनां महतीं महात्मानो महारथाः।
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः।
भ्रातरो वाऽस्य ते शूरा दृश्यन्ते नेह केचन॥ 9-17-11 (61087)
धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः।
पाञ्चालाश्च महावीर्याः शिखण्डी च महारथः॥ 9-17-12 (61088)
एवं तान्वादिनः शूरान्द्रौपदेया महारथाः।
अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान्॥ 9-17-13 (61089)
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः।
सम्प्रदृश्यन्त समरे तावका निहताः परैः॥ 9-17-14 (61090)
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः।
वार्यमाणा ययुर्वेगात्पुत्रेण तव भारत॥ 9-17-15 (61091)
दुर्योधनश्च तान्वीरान्वारयामास सान्त्वयन्।
न चास्य शासनं केचित्तत्र चक्रुर्महारथाः॥ 9-17-16 (61092)
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्।
दुर्योधनं महाराज वचनं वचनक्षमम्॥ 9-17-17 (61093)
किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम्।
न युक्तमेतत्समरे त्वयि तिष्ठति भारत॥ 9-17-18 (61094)
सहितैर्नाम योद्धव्यमित्येष समयः कृतः।
अथ कस्मात्स्मरन्नेव घ्नतो मर्षयसे नृप॥ 9-17-19 (61095)
दुर्योधन उवाच। 9-17-20x (5111)
वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम।
एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम्॥ 9-17-20 (61096)
शकुनिरुवाच। 9-17-21x (5112)
न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः।
अलं क्रोद्वुमथैतेषां नायं काल उपेक्षितुम्॥ 9-17-21 (61097)
यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः।
परित्रातुं महेष्वासान्मद्रराजपदानुगान्॥ 9-17-22 (61098)
अन्योन्यं परिरक्षामो यत्नेन महता नृप।
एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः॥ 9-17-23 (61099)
सञ्जय उवाच। 9-17-24x (5113)
एवमुक्तस्तदा राजा बलेन महता वृतः।
प्रययौ सिंहनादेन कम्पयन्निव मेदिनीम्॥ 9-17-24 (61100)
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत।
इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत॥ 9-17-25 (61101)
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान्।
सहितानभ्यवर्तन्तं गुल्ममास्थाय मध्यमम्॥ 9-17-26 (61102)
ते मुहूर्ताद्रणे वीरा हस्ताहस्ति विशाम्पते।
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः॥ 9-17-27 (61103)
ततो नः सम्प्रयातानां हता मद्रास्तरस्विनः।
हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे॥ 9-17-28 (61104)
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः।
पपात महती चोल्का मध्येनादित्यमण्डलम्॥ 9-17-29 (61105)
रथैर्भग्नयुगाक्षैश्च निहतैश्च महारथैः।
अश्वैर्निपातितैश्चैव सञ्छन्नाऽभूद्वसुन्धरा॥ 9-17-30 (61106)
वातायमानैस्तुरगैर्युगासक्तैस्ततस्ततः।
अकृष्यन्त महाराज योधास्तत्र रणाजिरे॥ 9-17-31 (61107)
भग्नचक्रान्रथान्केचिदहरंस्तुरगा रणे।
रथार्धं केचिदादाय दिशो दश विबभ्रमुः।
तत्रतत्र व्यदृश्यन्त योक्त्रैः श्लिष्टाः स्म वाजिनः॥ 9-17-32 (61108)
रथिनः पतमानाश्च दृश्यन्ते स्म नरोत्तमाः।
गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये॥ 9-17-33 (61109)
निहतेषु च शूरेषु मद्रराजानुगेषु वै।
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः॥ 9-17-34 (61110)
अभ्यवर्तन्त वेगेन जयगृद्धाः प्रहारिणः।
बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिःस्वनैः॥ 9-17-35 (61111)
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः।
शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः॥ 9-17-36 (61112)
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत्।
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम्।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्॥ 9-17-37 (61113)
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः।
दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः॥ ॥ 9-17-38 (61114)
इति श्रीमन्महाभारते शल्यवपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे सप्तदशोऽध्यायः॥ 17 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-17-20 प्रस्कन्नाः प्रपन्नाः॥ 9-17-17 सप्तदशोऽध्यायः॥शल्यपर्व - अध्याय 018
॥ श्रीः ॥
9.18. अध्यायः 018
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-18-0 (61115)
सञ्जय उवाच। 9-18-0x (5114)
पातिते युधि दुर्धर्षे मद्रराजे महारथे।
तावकास्तव पुत्राश्च प्रायशो विमुखाऽभवन्॥ 9-18-1 (61116)
वणिजो नावि भिन्नायां यथागाधे महार्णवे।
अपारे पारमिच्छन्तो हते शूरे महात्मनि॥ 9-18-2 (61117)
मद्रराजे महाराज वित्रस्ताः शरविक्षताः।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव॥ 9-18-3 (61118)
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता यथा गजाः।
मध्याह्ने प्रत्यपायाम निर्जिताऽजातशत्रुणा॥ 9-18-4 (61119)
न संस्थातुमनीकानि न च राजन्पराक्रमे।
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित्॥ 9-18-5 (61120)
भीष्मे द्रोणे च निहते सूतपुत्रे च पातिते।
यद्दुःखं तव योधानां भयं चासीद्विशाम्पते॥ 9-18-6 (61121)
तद्भयं स च नः शोको भूय एवाभ्यवर्तत।
निराशाश्च जये राजन्हते शल्ये महारथे॥ 9-18-7 (61122)
हतप्रवीरा विध्वस्ता निकृत्ताश्च शितैः शरैः।
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात्॥ 9-18-8 (61123)
अश्वानन्ये गजानन्ये रथानन्ये महारथाः।
आरुह्य जवसम्पन्ना पादाताः प्राद्रवंस्तथा॥ 9-18-9 (61124)
द्विसाहस्राश्च महातङ्गा गिरिरूपाः प्रहारिणः।
xxप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठनोदिताः॥ 9-18-10 (61125)
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः।
धावतश्चाप्यपश्याम श्वसमानाञ्शराहतान्॥ 9-18-11 (61126)
तान्प्रभग्नान्हतान्दृष्ट्वा हतोत्साहान्पराजितान्।
अभ्यवर्तन्त पाञ्चालाः पाण्डवाश्च जयैषिणः॥ 9-18-12 (61127)
बाणशब्दरवाश्चापि सिंहनादाश्च पुष्कलाः।
शङ्खशब्दश्च शूराणां दारुणः समपद्यत॥ 9-18-13 (61128)
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम्।
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह॥ 9-18-14 (61129)
अद्य राजा सत्यधृतिर्हतामित्रो युधिष्ठिरः।
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया॥ 9-18-15 (61130)
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः।
निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपत्स्यते॥ 9-18-16 (61131)
अद्य जानाति बीभत्सुं समर्थं स्वधन्विनाम्।
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत्॥ 9-18-17 (61132)
अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम्।
अद्यप्रभृति पार्थं च प्रेष्यभूत इवाचरन्।
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः॥ 9-18-18 (61133)
अद्य कृष्णस्य माहात्म्यं विजानातु महीपतिः।
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे॥ 9-18-19 (61134)
अत्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे।
`पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः'॥ 9-18-20 (61135)
अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः।
हते दुर्योधने युद्धे शक्रेणेव तु शम्बरे॥ 9-18-21 (61136)
यत्कृतं भीमसेनेन दुःशासनवधे तदा।
कोऽन्यः कर्ताऽस्ति तल्लोके ऋते भीमान्महाबलात्। 9-18-22 (61137)
अद्य ज्येष्ठस्य जानीतां पाण्डवस्य पराक्रमम्।
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम्॥ 9-18-23 (61138)
अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ सुदुःसहौ।
निहते सौबले वीरे गान्धारेषु च सर्वशः॥ 9-18-24 (61139)
xxxx न तेषां स्याद्येषां योद्धा धनञ्जयः।
xxxxx धृष्टद्युम्नश्च पार्षतः॥ 9-18-25 (61140)
xxxx पञ्च माद्रीपुत्रौ च पाण्डवौ।
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः॥ 9-18-26 (61141)
येषां च जगतो नाथो नाथः कृष्णो जनार्दनः।
कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः॥ 9-18-27 (61142)
`लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः।
येषां नाथो हृषीकेशः सर्वलोकविभुर्हरिः'॥ 9-18-28 (61143)
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च।
तथाऽन्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः॥ 9-18-29 (61144)
कोऽन्यः शक्तो रणे जेतुमृते पार्थाद्युधिष्ठिरात्।
यस्य नाथो हृषीकेशः सदा सत्ययशोनिधिः॥ 9-18-30 (61145)
इत्येवं वदमानास्ते हर्षेण महता युताः।
प्रभग्नांस्तावकान्योधान्संहृष्टाः पृष्ठतोऽन्वयुः॥ 9-18-31 (61146)
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान्।
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः॥ 9-18-32 (61147)
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान्।
दुर्योधनस्तदा सूतमब्रवीद्विस्मयन्निव॥ 9-18-33 (61148)
मामतिक्रमते पार्थो धनुष्पाणिमवस्थितम्।
जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय॥ 9-18-34 (61149)
जघने युध्यमानं हि कौन्तेयो मां न संशयः।
नोत्सहेदभ्यतिक्रान्तुं वेलामिव महोदधिः॥ 9-18-35 (61150)
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम्।
सैन्यरेणुं समुद्भूतं पश्य चैनं समन्ततः॥ 9-18-36 (61151)
सिंहनादांश्च समुद्भूतं पश्य चैनं समन्ततः॥
तस्माद्याहि शनैः सूत जघनं परिपालय॥ 9-18-37 (61152)
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु।
पुनरावर्तते तूर्णं मामकं बलमोजसा॥ 9-18-38 (61153)
तच्छ्रुत्वा तव पुत्रस्य शूरस्य सदृशं वचः।
सारथिर्हेमसञ्छन्नाञ्शरैरश्वानचोदयत्॥ 9-18-39 (61154)
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः।
एकविंशतिसाहस्राः संयुगायावतस्थिरे॥ 9-18-40 (61155)
नानादेशसमुद्भूता नानारञ्जितवाससः।
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः॥ 9-18-41 (61156)
तेषामापततां तत्र संहृष्टानां परस्परम्।
सम्मर्दः सुमहाञ्चज्ञे घोररूपो भयानकः॥ 9-18-42 (61157)
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम्।
बलेन चतुरङ्गेण नानादेश्यानवारयत्॥ 9-18-43 (61158)
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः।
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः॥ 9-18-44 (61159)
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः।
धार्तराष्ट्रा विनेदुर्हि नान्यामकथनयन्कथाम्।
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः॥ 9-18-45 (61160)
स वध्यमानः समरे पदातिगणसंवृतः।
न चचाल ततः स्थानान्मैनाक इव पर्वतः॥ 9-18-46 (61161)
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम्।
निग्रहीतुं प्रवृत्ता हि योधांश्चान्यानवारयन्॥ 9-18-47 (61162)
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः।
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः॥ 9-18-48 (61163)
जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम्।
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः॥ 9-18-49 (61164)
रथाश्वविप्रहीणांस्तु तान्भीमो गदया बली।
एकविंशतिसाहस्रान्पदातीन्समपोथयत्॥ 9-18-50 (61165)
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः।
धृष्टद्युम्नं पुरस्कृत्य न चिरात्प्रत्यदृश्यत॥ 9-18-51 (61166)
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षितः।
सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः॥ 9-18-52 (61167)
नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः।
नानाजात्या हतास्तत्र नादेशसमागताः॥ 9-18-53 (61168)
पताकाध्वजसञ्छन्नं पदातीनां महद्बलम्।
निकृत्तं विबभौ रौद्रं घोररूपं भयावहम्॥ 9-18-54 (61169)
युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः।
अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव॥ 9-18-55 (61170)
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान्।
नाभ्यवर्तन्त ते पुत्रं वेलामिव महोर्मयः॥ 9-18-56 (61171)
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम्।
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम्॥ 9-18-57 (61172)
नातिदूरापयातं तु कृतबुद्वि पलायने।
दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम्॥ 9-18-58 (61173)
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च।
यत्र यातान्न वा हन्युः पाण्डवाः किं सृतेन वः॥ 9-18-59 (61174)
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ।
यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत्॥ 9-18-60 (61175)
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतविप्रियाः।
अनुयाय हनिष्यन्ति श्रेयान्नः समरे वधः॥ 9-18-61 (61176)
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः।
यदा शूरं च भीरुं च मारयत्यन्तकः सदा॥ 9-18-62 (61177)
को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम्।
श्रेयान्नो भीमसेनस्य क्रुद्धस्याभिमुखे स्थितः॥ 9-18-63 (61178)
सुखः साङ्ग्रामिको मृत्युर्दुःखो व्याधिजरादिभिः।
मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन॥ 9-18-64 (61179)
युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः।
हत्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम्॥ 9-18-65 (61180)
न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः।
अचिरेणैव ताँल्लोकान्हतो युद्धे समश्नुते॥ 9-18-66 (61181)
श्रुत्वा तद्वचनं तस्य पूजयित्वा च पार्थिवाः।
पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः॥ 9-18-67 (61182)
तानापतत एवाशु व्यूढानीकाः प्रहारिणः।
प्रत्युद्ययुस्तदा पार्था जयगृद्धाः प्रमन्यवः॥ 9-18-68 (61183)
धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान्।
विश्रुतं त्रिषु लोकेषु व्याक्षिपन्गाण्डिवं धनुः॥ 9-18-69 (61184)
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः।
जवेनाभ्यपतन्हृष्टा यत्ता वै तावकं बलम्॥ ॥ 9-18-70 (61185)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे अष्टादशोऽध्यायः॥ 18 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-18-34 न मातेक्रमते पाथः इति ङ. पाठः। न मानसस्यते इति क.पाठः॥ 9-18-18 अष्टादशोऽध्यायः॥शल्यपर्व - अध्याय 019
॥ श्रीः ॥
9.19. अध्यायः 019
Mahabharata - Shalya Parva - Chapter Topics
सात्यकिना साल्ववधः॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-19-0 (61186)
सञ्जरा उवाच। 9-19-0x (5115)
सन्निवृत्तेषु सैन्येषु साल्वो म्लेच्छगणाधिपः।
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवानां महद्बलम्॥ 9-19-1 (61187)
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम्।
सप्तमैरावतप्रख्यममित्रगणमर्दनम्॥ 9-19-2 (61188)
योऽसौ महान्भद्रकुलप्रसूतः
सुपूजितो धार्तराष्ट्रेण नित्यम्।
सुकल्पितः शास्त्रविनिश्चयज्ञैः
सदौपवाह्यः समरेषु राजन्॥ 9-19-3 (61189)
ऐरावतं दैत्यगणान्विमृद्र--
ञ्शक्रो यथा सञ्जनयन्भयानि।
तमास्थितो राजवरो बभूव
यथोदयस्थः सविता क्षपान्ते॥ 9-19-4 (61190)
स तेन नागप्रवरेण राज--
न्नभ्युद्ययौ पाण्डुसुतान्समेतान्।
शितैः पृषत्कैर्विददार वेगै--
र्महेन्द्रवज्रप्रतिमैः सुघोरैः॥ 9-19-5 (61191)
ततः शरान्वै सृजतो महारणे
योधांश्च राजन्नयतो यमालयम्।
नास्यानत्रं ददृशुः स्वे परे वा
यथा पुरा वज्रधरस्य दैत्याः॥ 9-19-6 (61192)
ते पाण्डवाः सोमकाः सृञ्जयाश्च
तमेकनागं ददृशुः समन्तात्।
सहस्रशो वै विचरन्तमेकं
यथा महेन्द्रस्य गजं समीपे॥ 9-19-7 (61193)
सन्द्राव्यमाणं तु बलं परेषां
परेतकल्पं विबभौ समन्ततः।
नैवावतस्थे समरे भृशं भया--
द्विमृद्यमानं तु परस्परं तदा॥ 9-19-8 (61194)
ततः प्रभग्ना सहसा महाचमूः
सा पाण्डवी तेन नराधिपेन।
दिशश्चतस्रः सहसा विधाविता
गजेन्द्रवेगं तमपारयन्ती॥ 9-19-9 (61195)
दृष्ट्वा च तां वेगवता प्रभग्नां
सर्वे त्वदीया युधि योधमुख्याः।
अपूजयंस्ते तु नराधिपं तं
दध्मुश्च शङ्खाञ्शशिसन्निकाशान्॥ 9-19-10 (61196)
श्रुत्वा निनादं त्वथ कौरवाणां
हर्षाद्विमुक्तं सह शङ्खशब्दैः।
सेनापतिः पाण्डवसृञ्जयानां
पाञ्चालपुत्रो ममृषे न कोपात्॥ 9-19-11 (61197)
ततस्तु तं वै द्विरदं महात्मा
प्रत्युद्ययौ त्वरमाणो जयाय।
जम्भो यथा शक्रसमागमे वै
नागेन्द्रमैरावणमिन्द्रवाह्यम्॥ 9-19-12 (61198)
तमापतन्तं सहसा तु दृष्ट्वा
पाञ्चालपुत्रं युधि राजसिंहः।
तं वै द्विपं प्रेषयामास तूर्णं
वधाय राजन्द्रुपदात्मजस्य॥ 9-19-13 (61199)
स तं द्विपेन्द्रं सहसापतन्त--
मविध्यदग्निप्रतिमैः पृषत्कैः।
कर्मारधौतैर्निशितैर्ज्वलद्भि--
र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः॥ 9-19-14 (61200)
ततोऽपरान्पञ्चशतान्महात्मा
नाराचमुख्यान्विससर्ज कुम्भे।
स तैस्तु विद्धः परमद्विपो रणे
तदा परावृत्य भृशं प्रदुद्रुवे॥ 9-19-15 (61201)
तं नागराजं सहसा प्रणुन्नं
विद्राव्यमाणं विनिवर्त्य साल्वः।
तोत्राङ्कुशैः प्रेषयामास तूर्णं
पाञ्चालराजस्य सुतं प्रदिश्य॥ 9-19-16 (61202)
दृष्ट्वा पतन्तं सहसा तु नागं
धृष्टद्युम्नः स्वरथाच्छीघ्रमेव।
गदां प्रगृह्योग्रजवेन वीरो
भूमिं प्रपन्नो भयविह्वलाङ्गः॥ 9-19-17 (61203)
स तं रथं हेमविभूषिताङ्गं
साश्वं ससूतं सहसा विमृद्य।
उत्क्षिप्य हस्तेन नदन्महाद्विपो
विपोथयामास वसुन्धरातले॥ 9-19-18 (61204)
पाञ्चालराजस्य सुतं च दृष्ट्वा
तदार्दितं नागवरेण तेन।
तमभ्यधावत्सहसा जवेन
भीमः शिखण्डी च शिनेश्च नप्ता॥ 9-19-19 (61205)
शरैश्च वेगं सहसा निगृह्य
तस्याभितो व्यापततो गजस्य।
स सङ्गृहीतो रथिभिर्गजो वै
चचाल तैर्वार्यमाणश्च सङ्ख्ये॥ 9-19-20 (61206)
ततः पृषत्कान्प्रववर्ष राजा
सूर्यो यथा रश्मिजालं समन्तात्।
तैराशुगैर्वध्यमाना रथौघाः
प्रदुद्रुवुः सहितास्तत्रतत्र॥ 9-19-21 (61207)
तत्कर्म साल्वस्य समीक्ष्य सर्वे
पाञ्चालपुत्रा नृप सृञ्जयाश्च।
हाहाकारैर्नादयन्ति स्म युद्धे
द्विपं समन्ताद्रुरुधुर्नराग्र्याः॥ 9-19-22 (61208)
पाञ्चालपुत्रस्त्वरितस्तु शूरो
गदां प्रगृह्याचलशृङ्गकल्पाम्।
ससम्भ्रमं भारत शत्रुघाती
जवेन वीरोऽनुससार नागम्॥ 9-19-23 (61209)
ततस्तु नागं धरणीधराभं
मदं स्रवन्तं जलदप्रकाशम्।
गदां समातिध्य भृशं जघान
पाञ्चालराजस्य सुतस्तरस्वी॥ 9-19-24 (61210)
स भिन्नकुम्भः सहसा विनद्य
मुखात्प्रभूतं क्षतजं विमुञ्चन्।
पपात नागो धरमीधराभः
क्षितिप्रकम्पाच्चलितो यथाऽद्रिः॥ 9-19-25 (61211)
निपात्यमाने तु तदा गजेन्द्रे
हाहाकृते तव पुत्रस्य सैन्ये।
स साल्वराजस्य शिनिप्रवीरो
जहार भल्लेन शिरः शितेन॥ 9-19-26 (61212)
हृतोत्तमाङ्गो युधि सात्वतेन
पपात भूमौ सह नागराज्ञा।
यथाऽद्रिशृङ्गं सुमहत्प्रणुन्नं
वज्रेण देवाधिपचोदितेन॥ ॥ 9-19-27 (61213)
इति श्रीमन्महाभारते शल्यवधपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकोनविंशोऽध्यायः॥ 19 ॥
शल्यपर्व - अध्याय 020
॥ श्रीः ॥
9.20. अध्यायः 020
Mahabharata - Shalya Parva - Chapter Topics
सात्यकिना कृतवर्मपराजयः॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-20-0 (61214)
सञ्जय उवाच। 9-20-0x (5116)
तस्मिंस्तु निहते शूरे साल्वे समितिशोभने।
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः॥ 9-20-1 (61215)
तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः।
दधार समरे शूरः शत्रुसैन्यं महाबलः॥ 9-20-2 (61216)
सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे।
शैलोपमं स्थिरं राजन्कीर्यमाणं शरैर्युधि॥ 9-20-3 (61217)
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह।
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम्॥ 9-20-4 (61218)
तत्राश्चर्यमभूद्युद्वं सात्वतस्य परैः सह।
यदेको वारयामास पाण्डुसेनां दुरासदाम्॥ 9-20-5 (61219)
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे।
सिंहनादः प्रहृष्टानां दिविस्पृक्सुमहानभूत्॥ 9-20-6 (61220)
तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ।
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः॥ 9-20-7 (61221)
स समासाद्य राजानं क्षेमधूर्तिं महाबलम्।
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम्॥ 9-20-8 (61222)
तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान्।
जवेनाभ्यपतद्वीमान्हार्दिक्यः शिनिपुङ्गवम्॥ 9-20-9 (61223)
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ।
अन्योन्यमभिधावन्तौ शस्त्रप्रवरधारिणौ॥ 9-20-10 (61224)
पाण्डवाः सहपाञ्चाला योधाश्चान्ये नृपोत्तमाः।
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः॥ 9-20-11 (61225)
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ।
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्चरौ॥ 9-20-12 (61226)
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ।
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम्॥ 9-20-13 (61227)
चापवेगबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः।
आकाशे समपश्याम पतङ्गानिव शीघ्रगान्॥ 9-20-14 (61228)
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः।
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान्॥ 9-20-15 (61229)
स दीर्घबाहुः सङ्क्रुद्धस्तोत्रार्दित इव द्विपः।
अष्टभिः कृतवर्माणमविध्यत्परमेषुभिः॥ 9-20-16 (61230)
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः।
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे॥ 9-20-17 (61231)
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः।
अन्यदादत्त वेगेन शैनेयः सशरं धनुः॥ 9-20-18 (61232)
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्।
आरोप्य च धनुः शीघ्रं महावीर्यो महाबलः॥ 9-20-19 (61233)
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा।
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात्॥ 9-20-20 (61234)
ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः।
जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः॥ 9-20-21 (61235)
ततो राजन्महेष्वासः कृतवर्मा महारथः।
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम्॥ 9-20-22 (61236)
रोषेण महताऽऽविष्टः शूलमुद्यम्य मारिष।
चिक्षेप भुजवेगेन जिघांसुः शिनि पुङ्गवम्॥ 9-20-23 (61237)
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः।
चूर्णितं पातयामास मोहयन्निव माधवम्।
ततोऽपरेण भल्लेन हृद्येनं समताडयत्॥ 9-20-24 (61238)
सुयुद्वे युयुधानेन हताश्वो हतसारथिः।
कृतवर्मा कृतास्त्रेण धरमीमन्वपद्यत॥ 9-20-25 (61239)
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते।
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम्॥ 9-20-26 (61240)
पुत्राणां तव चात्यर्थं विषादः समजायत।
हतसूते हताश्वे तु विरथे कृतवर्मणि॥ 9-20-27 (61241)
हताश्वं च समालक्ष्य हतसूतमरिन्दम।
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम्॥ 9-20-28 (61242)
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम्।
अपोवाह महाबाहुं तूर्णमायोधनादपि॥ 9-20-29 (61243)
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्॥ 9-20-30 (61244)
तत्परे नान्वबुध्यन्त सैन्येन रजसा वृताः।
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम्॥ 9-20-31 (61245)
दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात्।
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत्॥ 9-20-32 (61246)
पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम्।
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः॥ 9-20-33 (61247)
केकयान्सोमकांश्चैव सृञ्जयांश्चैव मारिष।
असम्भ्रमं दुराधर्षः शितैर्बाणैरवाकिरत्॥ 9-20-34 (61248)
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः।
यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशते।
तथा दुर्योधनो राजा सङ्ग्रामे सर्वतोऽभवत्॥ 9-20-35 (61249)
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे।
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत॥ ॥ 9-20-36 (61250)
इति श्रीमन्महाभारते शल्यपर्वमि शल्यवधपर्वणि अष्टादशदिवसयुद्धे विंशोऽध्यायः॥ 20 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-20-3 सात्वतं कृतवर्माणम्॥ 9-20-20 विंशोऽध्यायः॥शल्यपर्व - अध्याय 021
॥ श्रीः ॥
9.21. अध्यायः 021
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-21-0 (61251)
सञ्जय उवाच। 9-21-0x (5117)
पुत्रस्तु ते महाराज रथस्थो रथिनां वरः।
दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान्॥ 9-21-1 (61252)
तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही।
परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान्॥ 9-21-2 (61253)
न च सोऽस्ति पुमान्कश्चित्पाण्डवानां बलार्णवे।
हयो गजो रथो वाऽपि यः स्याद्बाणैरविक्षतः॥ 9-21-3 (61254)
यं यं हि समरे योधं प्रपश्यामि विशाम्पते।
स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत॥ 9-21-4 (61255)
यथा सैन्येन रजसा समुद्भूतेन वाहिनी।
प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः॥ 9-21-5 (61256)
बाणभूतामपश्याम पृथिवीं पृथिवीपते।
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना॥ 9-21-6 (61257)
तेषु योधसहस्रेषु तावकेषु परेषु च।
नास्ति दुर्योधनसमः पुमानिति मतिर्मम॥ 9-21-7 (61258)
तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम्।
यदेकं सहिताः पार्था नाभ्यवर्तन्त भारत॥ 9-21-8 (61259)
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ।
भीमसेनं च सप्तत्या सहदेवं च पञ्चभिः॥ 9-21-9 (61260)
नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः।
पञ्चभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम्॥ 9-21-10 (61261)
धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष।
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान्॥ 9-21-11 (61262)
अभ्यद्रवत राजानं प्रगृह्यान्यन्महद्धनुः।
ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः॥ 9-21-12 (61263)
नकुलस्तु ततो वीरो राजानं नवभिः शरैः।
घोररूपैर्महेष्वासो विव्याध च ननाद च॥ 9-21-13 (61264)
सात्यकिश्चैव राजानं शरेणानतपर्वणा।
द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः।
अशीत्या भीमसेनश्च शरै राजानमार्पयन्॥ 9-21-14 (61265)
समन्तात्कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः।
न चचाल महाराज सर्वसैन्यस्य पश्यतः॥ 9-21-15 (61266)
लाघवात्सौष्ठवाच्चापि वीर्याच्चापि महात्मनः।
अति सर्वाणि भूतानि ददृशुः सर्वपार्थिवाः॥ 9-21-16 (61267)
धार्तराष्ट्रा हि राजेन्द्र योधास्तु स्वल्पमन्तरम्।
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः॥ 9-21-17 (61268)
तेषामापततां घोरस्तुमुलः समपद्यत।
क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा स्वनः॥ 9-21-18 (61269)
समासाद्य रणे ते तु राजानमपराजितम्।
प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः॥ 9-21-19 (61270)
भीमसेनं रणे क्रुद्धो द्रोणपुत्रो न्यवारयत्।
तयोर्बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम्।
नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा॥ 9-21-20 (61271)
तावुभौ क्रूरकर्माणावुभौ भारतदुःसहौ।
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ॥ 9-21-21 (61272)
त्रासयन्तौ दिशः सर्वा ज्याक्षेपकठिनत्वचौ।
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत्॥ 9-21-22 (61273)
तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभो।
नादं चकार बलवत्सर्वसैन्यानि कम्पयन्॥ 9-21-23 (61274)
एतस्मिन्नन्तरे वीरं राजानमपराजितम्।
अपोवाह रथेनाजौ सहदेवः प्रतापवान्॥ 9-21-24 (61275)
अथान्यं रथमास्थाय धर्मपुत्रो युधिष्ठिरः।
शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः।
ननाद च महानादं प्रवरः सर्वधन्विनाम्॥ 9-21-25 (61276)
तद्युद्धमभवच्चित्रं घोररूपं च मारिष।
प्रेक्षतां प्रीतिजननं सिद्धचारणसेवितम्॥ 9-21-26 (61277)
उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम्।
अभ्यवर्षदमेयात्मा शरवर्षैः समन्ततः॥ 9-21-27 (61278)
तथैव नकुलः शूरः सौबलस्य सुतं रणे।
शरवर्षेण महता समन्तात्पर्यवारयत्॥ 9-21-28 (61279)
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ।
योधयन्तावपश्येतां कृतप्रतिकृतैषिणौ॥ 9-21-29 (61280)
तथैव कृतवर्माणं शैनेयः शत्रुतापनः।
योधयञ्शुशुभे राजन्बलिं शक्र इवाहवे॥ 9-21-30 (61281)
दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे।
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः॥ 9-21-31 (61282)
धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम्।
राजानं योधयामास पश्यतां सर्वधन्विनाम्॥ 9-21-32 (61283)
तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ।
प्रभिन्नयोर्यथा सक्तं मत्तयोर्वनहस्तिनोः॥ 9-21-33 (61284)
गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबालान्।
विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः॥ 9-21-34 (61285)
तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः।
घोररूपमसंवार्यं निर्मर्यादमवर्तत॥ 9-21-35 (61286)
ते च सम्पीडयामासुरिन्द्रियाणीव बालिशम्।
स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे॥ 9-21-36 (61287)
एवं चित्रमभूद्युद्धं तस्य तैः सह भारत।
उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो॥ 9-21-37 (61288)
नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा।
हया हयैः समासक्ता रथिनो रथिभिः सह॥ 9-21-38 (61289)
सङ्कुलं चाभवद्भूयो घोररूपं विशाम्पते॥ 9-21-39 (61290)
इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो।
युद्धान्यासन्महाराज घोरांणि च बहूनि च॥ 9-21-40 (61291)
ते समासाद्य समरे परस्परमरिन्दमाः।
व्यनदंश्चैव जघ्नुश्च समाताद्य महाहवे॥ 9-21-41 (61292)
तेषां पत्रसमुद्भूतं रजस्तीव्रमदृश्यत।
वातेन चोद्धतं राजन्धावद्भिश्चाश्वसादिभिः॥ 9-21-42 (61293)
रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम्।
रजः सन्ध्याभ्रकलिलं दिवाकरपथं ययौ॥ 9-21-43 (61294)
रजसा तेन सम्पृक्तो भास्करो निष्प्रभः कृतः।
सञ्छादिताऽभवद्भूमिस्ते च शूरा महारथाः॥ 9-21-44 (61295)
मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः।
वीरशोणितसिक्तायां भूमौ भरतसत्तम॥ 9-21-45 (61296)
उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम्॥ 9-21-46 (61297)
ततोऽपश्यमहं भूयो द्वन्द्वयुद्धानि भारत।
यथाप्राणं यथाश्रेष्ठं मध्याह्ने वै सुदारुणम्॥ 9-21-47 (61298)
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः।
शब्दश्च तुमुलः सङ्ख्ये शराणां पततामभूत्
महावेणुवनस्येव दह्यमानस्य पर्वते॥ ॥ 9-21-48 (61299)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकविंशोऽध्यायः॥ 21 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-21-42 पत्रं वाहनम्॥ 9-21-21 एकविंशोऽध्यायः॥शल्यपर्व - अध्याय 022
॥ श्रीः ॥
9.22. अध्यायः 022
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-22-0 (61300)
सञ्जय उवाच। 9-22-0x (5118)
वर्तमाने तदा युद्धे घोररूपे भयानके।
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः॥ 9-22-1 (61301)
तांस्तु सर्वानयन्तेन सन्निवार्य महारथाः।
पुत्रास्ते योधयामासुः पाण्डवानामनीकिनीम्॥ 9-22-2 (61302)
निवृत्ताः सहसा योधास्तव पुत्रजयैपिणः।
सन्निवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम्।
तावकानां परेषां च देवासुररणोपभम्॥ 9-22-3 (61303)
परेषां तावकानां च नासीत्कश्चित्पराङ्मुखः॥ 9-22-4 (61304)
अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम्।
तेषां क्षयो महानासीद्युध्यतामितरेतरम्॥ 9-22-5 (61305)
ततो युधिष्ठिरो राजा क्रोधेन महता युतः।
जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान्॥ 9-22-6 (61306)
त्रिभिः शारद्वतं विद्व्वा रुक्मपुङ्खैः शिलाशितैः।
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः॥ 9-22-7 (61307)
अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम्।
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम्॥ 9-22-8 (61308)
ततो दुर्योधनो राजा रथान्सप्तशतान्रणे।
प्रैषयद्यत्र राजाऽसौ धर्मपुत्रो युधिष्ठिरः॥ 9-22-9 (61309)
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः।
अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति॥ 9-22-10 (61310)
ते समन्तान्महाराज परिवार्य युधिष्ठिरम्।
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम्॥ 9-22-11 (61311)
तं दृष्ट्वा धर्मराजानं कौरवेयैस्तथावृतम्।
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः॥ 9-22-12 (61312)
रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतैः।
आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्॥ 9-22-13 (61313)
ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः।
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः॥ 9-22-14 (61314)
रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम्।
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन्॥ 9-22-15 (61315)
तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः।
न च तत्तादृशं दृष्टं नैव चापि परिश्रुतम्॥ 9-22-16 (61316)
वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः।
वध्यमानेषु योधेषु तावकेष्वितरेषु च॥ 9-22-17 (61317)
विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः।
उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम्॥ 9-22-18 (61318)
अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु।
धावमानेषु योधेषु जयगृद्धिषु मारिष॥ 9-22-19 (61319)
संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे।
वह्नीनामुत्तमस्त्रीणां सीमन्तोद्धरणे कृते॥ 9-22-20 (61320)
निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे।
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः॥ 9-22-21 (61321)
चचाल शब्दं कुर्वाणा सपर्वतवना मही।
सदण्डाः सोल्मुका राजन्कीर्यमाणाः समन्ततः॥ 9-22-22 (61322)
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम्।
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः॥ 9-22-23 (61323)
अश्रूणि मुमुचुर्नागा वेपथुं चास्पृशन्भृशम्।
एतान्धोराननादृत्य समुत्पातान्सुदारुणान्॥ 9-22-24 (61324)
पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः।
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः॥ 9-22-25 (61325)
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्।
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान्॥ 9-22-26 (61326)
ततो नः सम्प्रायातानां मद्रयोधास्तरस्विनः।
हृष्टाः किलाकिलाशब्दमकुर्वत परे तथा॥ 9-22-27 (61327)
अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः।
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन्॥ 9-22-28 (61328)
ततो हतं परैस्तत्र मद्रराजबलं तदा।
दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम्॥ 9-22-29 (61329)
गान्धारराजस्तु पुनर्वाक्यमाह ततो बली।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः॥ 9-22-30 (61330)
अनीकं दशसाहस्रमश्वानां भरतर्षभ।
आसीद्गान्धारराजस्य विशालप्रासयोधिनाम्॥ 9-22-31 (61331)
बलेन तेन विक्रम्य वर्तमाने जनक्षये।
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः॥ 9-22-32 (61332)
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः।
अभज्यत महाराज पाण्डूनां सुमहद्बलम्॥ 9-22-33 (61333)
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात्।
अभ्यनोदयदव्यग्रः सहदेवं महाबलम्॥ 9-22-34 (61334)
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः।
सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिः॥ 9-22-35 (61335)
गच्छ त्वं द्रौपदेयैश्च शकुनिं सौबलं जहि।
रथानीकमहं धक्ष्ये पाञ्चालसहितोऽनघ॥ 9-22-36 (61336)
गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया।
पादाताश्च त्रिसाहस्राः शकुनिं तैर्वृतो जहि॥ 9-22-37 (61337)
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः।
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान्॥ 9-22-38 (61338)
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः।
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम्॥ 9-22-39 (61339)
ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान्।
जघान पृष्ठतः सेनां जयगृद्वः प्रतापवान्॥ 9-22-40 (61340)
अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम्।
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान्॥ 9-22-41 (61341)
ते तत्र सादिनः शूराः सौबलस्य महद्बलम्।
रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन्॥ 9-22-42 (61342)
तदुद्यतगदाप्रासमकापुरुषसेवितम्।
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव॥ 9-22-43 (61343)
उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन्।
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत॥ 9-22-44 (61344)
शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ।
ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः॥ 9-22-45 (61345)
ऋष्टिभिर्विमलाभिश्च तत्रतत्र विशाम्पते।
सम्पतन्तीभिराकाशमावृतं बह्वशोभत॥ 9-22-46 (61346)
प्रासानां पततां राजन्रूपमासीत्समन्ततः।
शलभानामिवाकाशे तदा भरतसत्तम॥ 9-22-47 (61347)
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः।
हयाः परिपतन्तिस्म शतशोऽथ सहस्रशः॥ 9-22-48 (61348)
अन्योन्यं परिपिष्टाश्च समासाद्य परस्परम्।
सुविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः॥ 9-22-49 (61349)
ततोऽभवत्तमो घोरं सैन्येन रजसा वृतम्।
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दम॥ 9-22-50 (61350)
अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति।
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु॥ 9-22-51 (61351)
केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः।
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः॥ 9-22-52 (61352)
मल्ला इव समासाद्य निजघ्नुरितरेतरम्।
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः॥ 9-22-53 (61353)
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः।
तत्रतत्र व्यदृश्यन्त पुरुषाः शूरमानिनः॥ 9-22-54 (61354)
रक्तोक्षितैश्छिन्नभुजैरवकृष्टशिरोरुहैः।
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः॥ 9-22-55 (61355)
दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित्।
साश्वारोहैर्हतैरश्वैरावृते वसुधातले॥ 9-22-56 (61356)
रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः।
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः।
सुसन्निकृष्टे सङ्ग्रामे हतभूयिष्ठसैनिके॥ 9-22-57 (61357)
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते।
षट्साहस्रैर्हयैः शिष्टेरपायाच्छकुनिस्ततः॥ 9-22-58 (61358)
तथैव पाण्डवानीकं रुधिरेण समुक्षितम्।
षट्साहस्रैर्हयैः शिष्टेरपायाच्छ्रान्तवाहनम्॥ 9-22-59 (61359)
अश्वारोहाश्च पाण्डूनामब्रुवन्रुधिरोक्षिताः।
सुसन्निकृष्टे सङ्ग्रामे भूयिष्ठे त्यक्तजीविताः॥ 9-22-60 (61360)
न हि शक्यं रथैर्योद्धुं कुत एव महागजैः।
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि॥ 9-22-61 (61361)
प्रतियातो हि शकुनिः स्वमनीकमवस्थितः।
न पुनः सौबलो राजा योद्धुमभ्यागमिष्यति॥ 9-22-62 (61362)
ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः।
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः॥ 9-22-63 (61363)
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते।
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः॥ 9-22-64 (61364)
ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः।
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्॥ 9-22-65 (61365)
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाऽभ्यवर्तत।
तावकानां परेषां च परस्परवधैषिणाम्॥ 9-22-66 (61366)
ते चान्योन्यमवैक्षन्त तस्मिन्वीरसमागमे।
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः॥ 9-22-67 (61367)
असिभिश्छिद्यमानानां शिरसां लोकसंक्षये।
प्रादुरासीन्महाञ्शब्दस्तालानां पततामिव॥ 9-22-68 (61368)
विमुक्तानां शरीराणां छिन्नानां पततां भुवि।
सायुधानां च बाहूनामूरूणां च विशाम्पते।
आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः॥ 9-22-69 (61369)
निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि।
योधाः परिपतन्ति स्म यथाऽऽमिषकृते खगाः॥ 9-22-70 (61370)
अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम्।
अहम्पूर्वमहम्पूर्वमिति निघ्नन्सहस्रशः॥ 9-22-71 (61371)
संयातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः।
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः॥ 9-22-72 (61372)
स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रगामिनाम्।
स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते॥ 9-22-73 (61373)
शक्त्यृष्टिप्रासशब्दश्च तुमुलः समपद्यत।
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव॥ 9-22-74 (61374)
श्रमाभिभूताः संरब्धा श्रान्तवाहाः पिपासवः।
विक्षताश्च शितैः शस्त्रैरभ्यवर्न्तत तावकाः॥ 9-22-75 (61375)
मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः।
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान्॥ 9-22-76 (61376)
बहवश्च गतप्राणाः क्षत्रिया जयगृद्विनः।
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः॥ 9-22-77 (61377)
वृकगृध्रशृगालानां तुमुले मोदनेऽहनि।
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः॥ 9-22-78 (61378)
नराश्वकायैः सञ्छन्ना भूमिरासीद्विशाम्पते।
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी॥ 9-22-79 (61379)
असिभिः पट्टसैः शूलैस्तक्षमाणाः पुनःपुनः।
तावकाः पाण़्वेयाश्च न न्यवर्तन्त भारत॥ 9-22-80 (61380)
प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम्।
योधाः परिपतन्ति स्म वमन्तो रुधिरं मुखैः॥ 9-22-81 (61381)
शिरो गृहीत्वा केशेषु कबन्धः स प्रदृश्यते।
उद्यम्य च शितं खङ्गं रुधिरेण परिप्लुतम्॥ 9-22-82 (61382)
तथोत्थितेषु बहुषु कबन्धेषु नराधिप।
तथा रुधिरगन्धेन योधाः कश्मलमाविशन्॥ 9-22-83 (61383)
मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम्।
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः॥ 9-22-84 (61384)
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्विनः।
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः॥ 9-22-85 (61385)
कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः।
शस्त्रैर्नानाविधैर्जघ्नुर्युद्वपारं तितीर्षवः॥ 9-22-86 (61386)
त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान्।
रथाश्वपत्तिद्विरदाः पाण्डवानभिदुद्रुवुः॥ 9-22-87 (61387)
केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम्।
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन्॥ 9-22-88 (61388)
रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः।
विमानेभ्यो दिवो भ्रष्टाः सिद्वाः पुण्यक्षयादिव॥ 9-22-89 (61389)
एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे।
पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथा परे॥ 9-22-90 (61390)
एवमासीदमर्यादं युद्वं भरतसत्तम।
प्रासासिबाणकलिलं वर्तमाने सुदारुणे॥ ॥ 9-22-91 (61391)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे द्वाविंशोऽध्यायः॥ 22 ॥
शल्यपर्व - अध्याय 023
॥ श्रीः ॥
9.23. अध्यायः 023
Mahabharata - Shalya Parva - Chapter Topics
अर्जुनेन दुर्योधनागर्हणपूर्वकं तत्सेनानिबर्हणम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-23-0 (61392)
सञ्जय उवाच। 9-23-0x (5119)
अल्पावशिष्टे सैन्ये तु पाण्डवैर्निहते बले।
अश्वैः सप्तसहस्रैस्तु उपावर्तत सौबलः॥ 9-23-1 (61393)
स यात्वा वाहिनीं तूर्णं चोदयानः स्वकान्युधि।
युध्यध्वमिति संहृष्टाः पुनःपुनररिन्दमाः॥ 9-23-2 (61394)
अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महाबलः।
शकुनेस्तद्वचः श्रुत्वा तमूचुर्भरतर्षभ॥ 9-23-3 (61395)
असौ तिष्ठति कौरव्यो रणमध्ये महाबलः।
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम्॥ 9-23-4 (61396)
यत्र ते सतनुत्राणा रथास्तिष्ठन्ति दंशिताः।
यत्रैष तुमुलः शब्दः पर्जन्यनिनदोपमः॥ 9-23-5 (61397)
तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम्।
एवमुक्तस्तु तैर्योधैः शकुनिः सौबलस्तदा॥ 9-23-6 (61398)
प्रययौ तत्र यत्रास्ते पुत्रस्तव नराधिप।
सर्वतः संवृतो वीरैः समरे चित्रयोधिभिः॥ 9-23-7 (61399)
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम्।
स रथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः॥ 9-23-8 (61400)
दुर्योधनमिदं वाक्यं हृष्टरूपो विशाम्पते।
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम्॥ 9-23-9 (61401)
जहि राजन्रथानीकमश्वाः सर्वे जिता मया।
नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः॥ 9-23-10 (61402)
हते तस्मिन्रथानीके पाण्डवेनाभिपालिते।
गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा॥ 9-23-11 (61403)
श्रुत्वा तु वचनं तस्य तावका जयगृद्विनः।
जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम्॥ 9-23-12 (61404)
बद्वनिस्त्रिंशहस्ताश्च प्रगृहीतशरासनाः।
शरासनानि धून्वानाः सिंहनादान्प्रचक्रिरे॥ 9-23-13 (61405)
ततो ज्यातलनिर्धोषः पुनरासीद्विशाम्पते।
प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः॥ 9-23-14 (61406)
तान्समीपगतान्दृष्ट्वा जनानुद्यतकार्मुकान्।
उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः॥ 9-23-15 (61407)
चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम्।
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः॥ 9-23-16 (61408)
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन।
वर्तमानस्य महतः समासाद्य परस्परम्॥ 9-23-17 (61409)
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम्।
क्षयमद्य गता युद्धे पश्य दैवं यथाविधम्॥ 9-23-18 (61410)
समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव।
अस्मनासाद्य सञ्जातं गोष्पदोपममच्युत॥ 9-23-19 (61411)
हते भीष्मे धीर्ममासीच्छमः स्यादिति माधव।
न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः॥ 9-23-20 (61412)
उक्तं भीष्मेण यद्वाक्यं हितं तथ्यं च माधव।
तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः॥ 9-23-21 (61413)
तस्मिंस्तु निहते भीष्मे प्रच्युते पृथिवीपतौ।
न जाने कारणं किन्तु येन युद्धमवर्तत॥ 9-23-22 (61414)
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान्।
पतिते शन्तनोः पुत्रे येऽकार्युः संयुगं पुनः॥ 9-23-23 (61415)
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे।
राधेये च विकर्णे च नैव शाम्यति वैशसम्॥ 9-23-24 (61416)
अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते।
सपुत्रे वै नरव्याघ्रे नैव शाम्यति वैशसम्॥ 9-23-25 (61417)
श्रुतायुषि हते वीरे जलसन्धे च मागधे।
श्रुतायुधे च नृपतौ नैव शाम्यति वैशसम्॥ 9-23-26 (61418)
भूरिश्रवसि शल्ये च साल्ये चैव जनार्दन।
आवन्त्येषु च वीरेषु नैव शाम्यति वैशसम्॥ 9-23-27 (61419)
जयद्रथे च निहते राक्षसे चाप्यलायुधे।
बाह्लिके सोमदत्ते च नैव शाम्यति वैशसम्॥ 9-23-28 (61420)
भगदत्ते हते शूरे काम्भोजे च सुदारुणे।
दुःशासने च निहते नैव शाम्यति वैशसम्॥ 9-23-29 (61421)
दृष्ट्वा विनिहताञ्शूरान्पृथङ्माण़्डलिकान्नृपान्।
बलिनश्च रणे कृष्ण नैव शाम्यति वैशसम्॥ 9-23-30 (61422)
अक्षौहिणीपतीन्दृष्ट्वा भीमसेननिपातितान्।
मोहाद्वा यदि वा लोभान्नैव शाम्यति वैशसम्॥ 9-23-31 (61423)
`हतप्रवीरां विध्वस्तां दृष्ट्वा चेमां चमूं रणे।
अलम्बले च निहते नैव शाम्यति वैशसम्॥ 9-23-32 (61424)
भ्रातॄन्विनिहतान्दृष्ट्वा वयस्यान्मातुलानपि।
पुत्रान्विनिहतान्दृष्ट्वा नैव शाम्यति वैशसम्'॥ 9-23-33 (61425)
को नु राजकुले जातः कौरवेषु विशेषतः।
निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात्॥ 9-23-34 (61426)
गुणतोऽभ्यधिकाञ्ज्ञात्वा बलतः शौर्यतोपि वा।
अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम्॥ 9-23-35 (61427)
किन्नु तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः।
प्रशमे पाण्डवैः सार्धं सोन्यस्य शृणुयात्कथम्॥ 9-23-36 (61428)
येन शान्तनवो भीष्मो द्रोणो विदुर एव च।
प्रत्याख्याताः शंमस्यार्थे किन्नु तस्याद्य भेषजम्॥ 9-23-37 (61429)
मौर्ख्याद्येन पिता वृद्वः प्रत्याख्यातो जनार्दन।
तथा माता हितं वाक्यं भाषमाणा हितैषिणी॥ 9-23-38 (61430)
प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः।
कुलान्तकरणो व्यक्तं जात एष जनार्दन॥ 9-23-39 (61431)
तथास्य दृश्यते चेष्टा नीतिश्चैव विशाम्पते।
नैष दास्यति नो राज्यमिति मे मतिरच्युत॥ 9-23-40 (61432)
उक्तोऽहं बहुशस्तात विदुरेण महात्मना।
न जीवन्दास्यते भागं धार्तराष्ट्रः सुयोधनः॥ 9-23-41 (61433)
यावत्प्राणा धरिष्यन्ति धार्तराष्ट्रस्य दुर्मतेः।
तावद्युष्मास्वपापेषु प्रचरिष्यति पापकम्॥ 9-23-42 (61434)
न च युक्तोऽन्यथा जेतुमृते युद्धेन माधव।
इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः॥ 9-23-43 (61435)
तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः।
यदुक्तं वचनं तेन विदुरेण महात्मना॥ 9-23-44 (61436)
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम्।
अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः॥ 9-23-45 (61437)
उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने।
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति॥ 9-23-46 (61438)
तदिदं वचनं तेषां निरुक्तं वै जनार्दन।
क्षयं याता हि राजानो दुर्योधनकृते भृशम्॥ 9-23-47 (61439)
सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव॥ 9-23-48 (61440)
क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते।
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति॥ 9-23-49 (61441)
तदन्तं हि भवेद्वैरमनुमानेन माधव।
एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया।
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः॥ 9-23-50 (61442)
तस्माद्याहि चमूं वीर यावद्वन्मि शितैः शरैः।
दुर्योधनं महाबाहो वाहिनीं चास्य संयुगे॥ 9-23-51 (61443)
क्षेममद्य करिष्यामि धर्मराजस्य माधव।
हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः॥ 9-23-52 (61444)
सञ्जय उवाच। 9-23-53x (5120)
अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना।
तद्बलौघममित्राणामभीतः प्राविशद्बलात्॥ 9-23-53 (61445)
शरासनवनं घोरं शक्तिकण्टकसङ्कुलम्।
गदापरिघपाषाणं रथनागमहाद्रुमम्॥ 9-23-54 (61446)
हयपत्तिलताकीर्णं गाहमानो महायशाः।
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना॥ 9-23-55 (61447)
ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे।
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः॥ 9-23-56 (61448)
ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः।
किरञ्शरशतांस्तीक्ष्णान्वारिधारा घनो यथा॥ 9-23-57 (61449)
प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम्।
इषुभिश्छाद्यमानानां समरे सव्यसाचिना॥ 9-23-58 (61450)
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि।
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः॥ 9-23-59 (61451)
नरान्नागान्समाहत्य हयांश्चापि विशाम्पते।
अपतन्त रणे बाणाः पतङ्गा इव घोषिणः॥ 9-23-60 (61452)
आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः।
न प्राज्ञायन्त समरे दिशो वा प्रदिशोपि वा॥ 9-23-61 (61453)
सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः।
रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः॥ 9-23-62 (61454)
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः।
पार्थं न प्राजहुर्घारा वध्यमानाः शितैः शरैः॥ 9-23-63 (61455)
शरचापधरः पार्थः प्रज्वलन्निव भास्करः।
ददाह समरे योधान्कक्षमग्निरिव ज्वलन्॥ 9-23-64 (61456)
यथा वनान्ते वनपैर्विसृष्टः
कक्षं दहेत्कृष्णगतिः सुघोषः।
भूरिद्रुमं शुष्कलतावितानं
भृशं समृद्धो ज्वलनः प्रतापी॥ 9-23-65 (61457)
एवं स नाराचगणम्प्रतापी
शरार्चिरुच्चावचतिग्मतेजाः।
ददाह सर्वां तव पुत्रसेना--
ममृष्यमाणस्तरसा तरस्वी॥ 9-23-66 (61458)
तस्येषवः प्राणहराः सुमुक्ता
नासज्जन्वै वर्मसु रुक्मपुङ्खाः।
न च द्वितीयं प्रमुमोच बाणं
नरे हये वा परमद्विपे वा॥ 9-23-67 (61459)
अनेकरूपाकृतिभिर्हि बाणै--
र्महारथानीकमनुप्रविश्य।
स एव एकस्तव पुत्रस्य सेनां
जघान दैत्यानिव वज्रपाणिः॥ ॥ 9-23-68 (61460)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे त्रयोविंशोऽध्यायः॥ 23 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-23-42 पापकं प्रचरिष्यति आचरिष्यति धार्तराष्ट्र इति शेषः॥ 9-23-23 त्रयोविंशोऽध्यायः॥शल्यपर्व - अध्याय 024
॥ श्रीः ॥
9.24. अध्यायः 024
Mahabharata - Shalya Parva - Chapter Topics
धृष्टद्युम्नपराजितेन दुर्योधनेनाश्वारोहणेन पलायनम्॥ 1 ॥ अश्वत्थामादिभिस्तदन्वेषणम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-24-0 (61461)
सञ्जय उवाच। 9-24-0x (5121)
युध्यतां यतमानानां शूराणामनिवर्तनाम्।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः॥ 9-24-1 (61462)
इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः।
विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः॥ 9-24-2 (61463)
तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना।
सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः॥ 9-24-3 (61464)
पितॄन्भ्रातॄन्परित्यज्य वयस्यानपि चापरे॥ 9-24-4 (61465)
हतधुर्या रथाः केचिद्धतसूतास्तथा परे।
भग्नाक्षयुगचक्रेषाः केचिदासन्विशाम्पते॥ 9-24-5 (61466)
अन्येषां सायकाः क्षीणास्तथाऽन्ये बाणपीडिताः।
अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः॥ 9-24-6 (61467)
केचित्पुत्रानुपादाय हतभूयिष्ठबान्धवाः।
विचुक्रुशुः पितॄंस्त्वन्ये सहायानपरे पुनः॥ 9-24-7 (61468)
बान्धवांश्च नरव्याघ्र भ्रातॄन्सम्बन्धिनस्तथा।
दुद्रुवुः केचिदुत्सृज्य तत्रतत्र विशाम्पते॥ 9-24-8 (61469)
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः।
निःश्वसन्ति स्म दृश्यन्ते पार्थबाणहता नराः॥ 9-24-9 (61470)
तानन्ये रथमारोप्य ह्याश्वास्य च मुहूर्तकम्।
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे॥ 9-24-10 (61471)
तानपास्य गताः केचित्पुनरेव युयुत्सवः।
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः॥ 9-24-11 (61472)
पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम्।
वर्माणि च समारोप्य केचिद्भरतसत्तम॥ 9-24-12 (61473)
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च।
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन्॥ 9-24-13 (61474)
सज्जयित्वा रथान्केचिद्यथामुख्यं विशाम्पते।
आवृत्य पाण्डवानीकं पुनर्युद्धमरोचयन्॥ 9-24-14 (61475)
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे।
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः॥ 9-24-15 (61476)
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः।
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन्॥ 9-24-16 (61477)
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः।
नाकुलिस्तु शतानीको रथानीकमयोधयन्॥ 9-24-17 (61478)
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः।
अभ्यद्रवत्सुसङ्क्रुद्धस्तावकान्हन्तुमुद्यतः॥ 9-24-18 (61479)
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप।
बाणसङ्घाननेकान्वै प्रेषयामास भारत॥ 9-24-19 (61480)
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना।
नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः॥ 9-24-20 (61481)
वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः।
अश्वांश्च चतुरो हत्वा बाह्वोरुरसि चार्पितः॥ 9-24-21 (61482)
सोऽतिविद्धो महेष्वासस्तोत्रार्दित इव द्विपः।
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे।
सारथेश्चास्य भल्लेन शिरः कायादपाहरत्॥ 9-24-22 (61483)
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः।
अपाक्रामद्वतरथो नातिदूरमरिन्दमः॥ 9-24-23 (61484)
दृष्टा तु हतविक्रान्तं स्वमनीकं महाबलः।
तव पुत्रो महाराज प्रययौ यत्र सौबलः॥ 9-24-24 (61485)
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः।
पाण्डवान्रथिनः सर्वान्समन्तात्पर्यवारयन्॥ 9-24-25 (61486)
ते वृताः समरे पञ्च गजानीकेन भारत।
अशोभन्त महाराज ग्रहास्तारागणैरिव॥ 9-24-26 (61487)
ततोऽर्जुनो महाराज लब्धलक्षौ महाभुजः।
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः॥ 9-24-27 (61488)
तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः।
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमयोधयत्॥ 9-24-28 (61489)
तत्रैकबाणनिहतानपश्याम महागजान्।
पतितान्पात्यमानांश्च निर्भिन्नान्सव्यसाचिना॥ 9-24-29 (61490)
भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः।
करेणादाय महतीं गदामभ्यपतद्बली।
अथाप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः॥ 9-24-30 (61491)
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम्।
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं च सुस्रुवुः॥ 9-24-31 (61492)
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे॥ 9-24-32 (61493)
गदया भीमसेनेन भिन्नकुम्भान्निपातितान्।
धावमानानपश्याम कुञ्जरान्पर्वतोपमान्॥ 9-24-33 (61494)
प्राद्रवन्कुञ्जरास्ते तु भीमसेनगदाहताः।
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः॥ 9-24-34 (61495)
प्रभिन्नकुम्भांस्तु बहून्द्रवमाणानितस्ततः।
पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः॥ 9-24-35 (61496)
युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ।
गार्ध्रपत्रैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः॥ 9-24-36 (61497)
धृष्टद्युम्नस्तु समरे पारजित्य नराधिपम्।
अपक्रान्ते तव सुते हयपृष्ठे समाश्रिते॥ 9-24-37 (61498)
दृष्ट्वा च पाण्डवान्सर्वान्कुञ्चरैः परिवारितान्।
धृष्टद्युम्नो महाराज सहसा समुपाद्रवत्॥ 9-24-38 (61499)
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ।
अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम्॥ 9-24-39 (61500)
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः॥ 9-24-40 (61501)
तेऽपश्यमाना राजानं वर्तमाने जनक्षये।
मन्वाना निहतं तत्र तव पुत्रं महारथाः।
विवर्णवदना भूत्वा पर्यपृच्छन्त ते सुतम्॥ 9-24-41 (61502)
आहुः केचिद्वते सूते प्रयातो यत्र सौबलः।
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्॥ 9-24-42 (61503)
अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः।
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति।
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति॥ 9-24-43 (61504)
ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः।
शरैः सम्पीड्यमानास्तु नातिव्यक्तमथाब्रुवन्॥ 9-24-44 (61505)
इदं सर्वं बलं हन्मो येन स्म परिवारिताः।
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः॥ 9-24-45 (61506)
श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः।
भित्त्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्॥ 9-24-46 (61507)
कृपश्च कृतवर्मा च प्रययौ यत्र सौबलः।
रथानीकं परित्यज्य शूराः सुदृढधन्विनः॥ 9-24-47 (61508)
ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः।
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान्॥ 9-24-48 (61509)
दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान्।
पराक्रान्तास्ततो वीरा निराशा जीविते तदा॥ 9-24-49 (61510)
विवर्णमुखभूयिष्ठमभवत्तावकं बलम्।
परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान्॥ 9-24-50 (61511)
राजन्बलेन त्र्यङ्गेन त्यक्त्वा जीवितमात्मनः।
आत्मना पञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह॥ 9-24-51 (61512)
तस्मिन्देशे व्यवस्थाय यत्र शारद्वतः स्थितः।
सम्प्रद्रुता वयं पञ्च किरीटिशरपीडिताः॥ 9-24-52 (61513)
धृष्टद्युम्नं महारौद्रं तत्र नाभूद्रणो महान्।
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः॥ 9-24-53 (61514)
अथापश्यं सात्यकिं तमुपायातं महारथम्।
रथैश्चतुः शतैर्वीरो मामभ्यद्रवदाहवे॥ 9-24-54 (61515)
धृष्टद्युम्नादहं मुक्तः कञ्छिछ्रान्तवाहनात्।
पतितो माधवानीकं दुष्कृती नरकं यथा॥ 9-24-55 (61516)
तत्र युद्धमभूद्धोरं मुहूर्तमतिदारुणम्॥ 9-24-56 (61517)
सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम्।
जीवग्राहमगृह्णान्मां मूर्च्छितं पतितं भुवि॥ 9-24-57 (61518)
ततो मुहूर्तादिव तद्गजानीकमविध्यत।
गदया भीमसेनेन नाराचैरर्जुनेन च॥ 9-24-58 (61519)
अभिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः।
नातिप्रसिद्धैव गतिः पाण्डवानामजायत॥ 9-24-59 (61520)
रथमार्गं ततश्चक्रे भीमसेनो महाबलः।
पाण्डवानां महाराज व्यपाकर्षन्महागजान्॥ 9-24-60 (61521)
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।
अपश्यन्तो रथानीके दुर्योधनसमरिन्दमम्।
राजानं मृगयामासुस्तव पुत्रं महारथम्॥ 9-24-61 (61522)
परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः।
राज्ञोऽदर्शनसंविग्ना वर्तमानो जनक्षये॥ ॥ 9-24-62 (61523)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे चतुर्विंशोऽध्यायः॥ 24 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-24-4 सम्प्रदुद्रावेति पूर्वस्थं सम्प्रदुद्रुवुरिति विपरिणामेन सम्बध्यते॥ 9-24-24 चतुर्विंशोऽध्यायः॥शल्यपर्व - अध्याय 025
॥ श्रीः ॥
9.25. अध्यायः 025
Mahabharata - Shalya Parva - Chapter Topics
भीमेनावशिष्टानां दुर्योधनानुजानां वधः॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-25-0 (61524)
सञ्जय उवाच। 9-25-0x (5122)
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत।
वध्यमाने बले चैव भीमसेनेन संयुगे॥ 9-25-1 (61525)
चरन्तं च प्रपश्यामो भीमसेनमरिन्दमम्।
दण्डहस्तं यथा क्रुद्वमन्तकं प्राणहारिणम्॥ 9-25-2 (61526)
समेत्य समरे राजन्हतशेषाः सुतास्तव।
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव।
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन्॥ 9-25-3 (61527)
श्रुतर्वा सञ्जयश्चैव जयत्सेनः श्रुतान्तकः।
दुर्विमोचनकश्चैव तथा दुर्विषहो बली॥ 9-25-4 (61528)
दुर्मर्षणः सुजातश्च जैत्रो भूरिबलो रविः।
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः।
भीमसेनमभिद्रुत्य रुरुधुः सर्वतो दिशम्॥ 9-25-5 (61529)
ततो भीमो महाराज स्वरथं पुनरास्थितः।
मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु॥ 9-25-6 (61530)
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे।
भीमसेनमुपासेदुः प्रवाता इव कुञ्जरम्॥ 9-25-7 (61531)
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह।
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले॥ 9-25-8 (61532)
ततोऽपरेण भल्लेन सर्वावरणभेदिना।
श्रुतान्तमवधीद्बीमस्तव पुत्रं महारथः॥ 9-25-9 (61533)
जयत्सेनं ततो विद्वा नाराचेन हसन्निव।
पातयामास कौरव्यं रथोपस्थादरिन्दमः।
स पपात रथाद्राजन्भूमौ तूर्णं ममार च॥ 9-25-10 (61534)
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष।
शतेन गृघ्रवाजानां शराणां नतपर्वणाम्॥ 9-25-11 (61535)
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम्।
त्रीनेतांस्त्रिभिरानर्च्छद्विषाग्निप्रतिमैः शरैः॥ 9-25-12 (61536)
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः।
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः॥ 9-25-13 (61537)
ततोऽपरेण भल्लेन तीक्ष्णेन च परन्तपः।
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे॥ 9-25-14 (61538)
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः।
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः॥ 9-25-15 (61539)
दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव।
एकैकं न्यहनत्सङ्ख्ये द्वाभ्यांद्वाभ्यां चमूमुखे।
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ॥ 9-25-16 (61540)
ततः पतन्तं समरे अभिवीक्ष्य सुतं तव।
भल्लेन पातयामास भीमो दुर्विपहं रणे॥ 9-25-17 (61541)
स पपात हतो बाहात्पश्यतां सर्वधन्विनाम्॥ 9-25-18 (61542)
दृष्ट्वा तु निहतान्भ्रातॄन्वहूनेकेन संयुगे।
अमर्षधशमापसः श्रुतर्वा भीममभ्ययात्॥ 9-25-19 (61543)
विक्षिपन्सुमहच्चापं कार्तखरविभूषितम्।
विमृजन्सायकांश्चैव विषाग्निप्रतिमान्वहून्॥ 9-25-20 (61544)
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे।
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत्॥ 9-25-21 (61545)
ततोऽन्यद्धनुरादाय भीमसेनो महाबलः।
अवाकिरत्तव सुतं तिष्ठतिष्ठेति चाब्रवीत्॥ 9-25-22 (61546)
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम्।
बादृशं समरे पूर्वं तम्भवासवयोर्युधि॥ 9-25-23 (61547)
तयोस्तत्र शितैर्गुक्तैर्यमदण्डनिभैः शरैः।
समाच्छकाधारा सर्वा त्वं दिशो विदिशस्तथा॥ 9-25-24 (61548)
अतः श्रुतर्वा सङ्क्रुद्धो धनुरादाय सायकैः।
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत्॥ 9-25-25 (61549)
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना।
भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः॥ 9-25-26 (61550)
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष।
सारथिं चतुरश्चाश्वाञ्शरैर्निन्ये यमक्षयम्॥ 9-25-27 (61551)
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः।
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम्॥ 9-25-28 (61552)
श्रुतर्वा विरथो राजन्नाददे खङ्गचर्मणी।
अथास्याददतः खह्गं शतचन्द्रं च भानुमत्।
क्षुरप्रेणं शिरः कायात्पातयामास पाण्डवः॥ 9-25-29 (61553)
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना।
पपात कायः स्वरथाद्वसुधामनुनादयन्॥ 9-25-30 (61554)
तस्मिन्निपतिते वीरे तावका भयमोहिताः।
अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः॥ 9-25-31 (61555)
तानापतत एवाशु हतशेषाद्बलार्णवात्।
दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान्॥ 9-25-32 (61556)
ते तु तं वै समासाद्य परिवव्रुः समन्ततः॥ 9-25-33 (61557)
ततस्तु संवृतो भीमस्तावकान्निशितैः शरैः।
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान्॥ 9-25-34 (61558)
ततः पञ्चशतान्हत्वा सवरूथान्महारथान्।
जघान कुञ्जरानीकं पुनः सप्तशतं युधि॥ 9-25-35 (61559)
हत्वा शतसहस्राणि पत्तीनां परमेषुभिः।
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते॥ 9-25-36 (61560)
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव।
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो॥ 9-25-37 (61561)
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान्।
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप॥ 9-25-38 (61562)
विद्राव्य च कुरून्सर्वांस्तांश्च हत्वा पदानुगान्।
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान्॥ 9-25-39 (61563)
हतभूयिष्ठयोधा तु तव सेना विशामम्पते।
किञ्चिच्छेषा महाराज कृपणं समपद्यत॥ ॥ 9-25-40 (61564)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे पञ्चविंशोऽध्यायः॥ 25 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-25-7 प्रवणादिव कुञ्जरमिति झ.पाठः॥ 9-25-25 पञ्चविंशोऽध्यायः॥शल्यपर्व - अध्याय 026
॥ श्रीः ॥
9.26. अध्यायः 026
Mahabharata - Shalya Parva - Chapter Topics
कृष्णार्जुनयोः संवादः॥ 1 ॥ सङ्कुलयुद्धम्॥ 2 ॥ भीमेन सुदर्शननाम्नो दुर्योधनानुजस्य वधः॥ 3 ॥Mahabharata - Shalya Parva - Chapter Text
9-26-0 (61565)
सञ्जय उवाच। 9-26-0x (5123)
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः।
हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ॥ 9-26-1 (61566)
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम्।
उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम्॥ 9-26-2 (61567)
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः।
गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः॥ 9-26-3 (61568)
परिश्रान्तश्च नकुलः सहदेवश्च भारत।
योधयित्वा रणे पापान्धार्तराष्ट्रान्सहानुगान्॥ 9-26-4 (61569)
दुर्योधनमतिक्रम्य त्रय एते व्यवस्थिन्ताः।
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः॥ 9-26-5 (61570)
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः।
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः॥ 9-26-6 (61571)
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः।
छत्रेण ध्रियामणेन प्रेक्षमाणो मुहुर्मुहुः॥ 9-26-7 (61572)
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः।
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि॥ 9-26-8 (61573)
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम।
यावन्न विद्रवन्त्येते तावज्जहि सुयोधन्सम्॥ 9-26-9 (61574)
यातु कश्चित्तुं पाञ्चाल्यं क्षिप्रमागम्यतामिति।
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी॥ 9-26-10 (61575)
हत्वा तव बलं सर्वं सङ्ग्रमे धृतराष्ट्रजः।
जितान्पाण्डुसुतान्प्रत्वा रूपं धारयते महत्॥ 9-26-11 (61576)
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः।
ध्रुवमेष्यति सङ्ग्रमे वधायैवात्मनो नृपः॥ 9-26-12 (61577)
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत्।
धृतराष्ट्रसुताः सर्वे हता भीमेन माधव।
यावेतावास्थितौ कृष्ण तावद्य नभविष्यतः॥ 9-26-13 (61578)
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः।
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः॥ 9-26-14 (61579)
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च।
रथानां तु शते शिष्टे द्वे एव तु जनार्दन।
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः॥ 9-26-15 (61580)
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा।
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः॥ 9-26-16 (61581)
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव।
मोक्षो न नूनं कालात्तु विद्यते भुवि कस्यचित्॥ 9-26-17 (61582)
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम्।
अद्याह्ना हि महाराजो हतामित्रो भविष्यति।
न हि मे मोक्ष्यते कश्चित्परेषामिह चिन्तये॥ 9-26-18 (61583)
ये त्वद्य समरं कृष्ण न हास्यन्ति मदोत्कटाः।
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः॥ 9-26-19 (61584)
अद्य युद्धे समुत्पन्नं दीर्घं राज्ञः प्रजागरम्।
अपनेष्यामि गान्धारिं घातयित्वा शितैः शरैः॥ 9-26-20 (61585)
निकृत्या वै दुराचारो यानि रत्नानि सौबलः।
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम्॥ 9-26-21 (61586)
अद्य वेत्स्यन्ति मच्छक्तिं सर्वा नागपुरे स्त्रियः।
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि॥ 9-26-22 (61587)
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति।
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च मोक्ष्यति॥ 9-26-23 (61588)
नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम।
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम्॥ 9-26-24 (61589)
मम ह्येतदपर्याप्तं वाजिबृन्दमरिन्दम।
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम्॥ 9-26-25 (61590)
सञ्जय उवाच। 9-26-26x (5124)
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना।
अचोदयद्धायन्राजन्दुर्योधनबलं प्रति॥ 9-26-26 (61591)
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः।
भीमसेनोऽकर्जुनश्चैव सहदेवश्च मारिष।
प्रययुः सिंहनादेन दुर्योधनजिघांसया॥ 9-26-27 (61592)
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान्।
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः॥ 9-26-28 (61593)
सुदर्शनस्त्व मतो भीमसेनं समभ्ययात्।
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना॥ 9-26-29 (61594)
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात्॥ 9-26-30 (61595)
ततो हि यत्नतः क्षिप्रं तवं पुत्रो जनाधिप।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्॥ 9-26-31 (61596)
सोपाविशद्रथोपस्थे तव सुत्रेण ताडितः।
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन्॥ 9-26-32 (61597)
प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशाम्पते।
दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत्॥ 9-26-33 (61598)
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः।
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह॥ 9-26-34 (61599)
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः।
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ॥ 9-26-35 (61600)
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः।
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन्॥ 9-26-36 (61601)
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः।
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः॥ 9-26-37 (61602)
शिलाशितेन च विभो क्षुरप्रेण महायशाः।
शिरश्चिच्छेद सहसा तप्तकुण्डलभूषणम्॥ 9-26-38 (61603)
सत्येषुमथ चादत्त योधानां मिषतां ततः।
यथा सिंहो वने राजन्मृगं परि बुभुक्षितः॥ 9-26-39 (61604)
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः।
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूओषितान्॥ 9-26-40 (61605)
ततः प्रायात्त्वरन्पार्थो दीर्घकालं सुसंवृतम्।
मुञ्जन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति॥ 9-26-41 (61606)
तमर्जुनः पृषत्कानां शतेन भरतर्षभ।
पूरयित्वा ततो वाहान्प्राहरत्तस्य धन्विनः॥ 9-26-42 (61607)
ततः शरं समादाय यमदण्डोपमं तदा।
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव॥ 9-26-43 (61608)
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना।
सुशर्माणं समासाद्य बिभेद हृदयं रणे॥ 9-26-44 (61609)
स गतासुर्महाराज पपात धरणीतले।
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान्॥ 9-26-45 (61610)
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान्।
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम्॥ 9-26-46 (61611)
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान्।
अभ्यगाद्भारतीं सेनां हतशेषां महारथः॥ 9-26-47 (61612)
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप।
सुदर्शनमदृश्यन्तं शरैश्चक्रे हसन्निव॥ 9-26-48 (61613)
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत्।
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि॥ 9-26-49 (61614)
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः।
परिवव्रू रमे भीमं किरन्तो विविधाञ्शरान्॥ 9-26-50 (61615)
ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः।
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत्॥ 9-26-51 (61616)
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ॥ 9-26-52 (61617)
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महारथाः।
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत॥ 9-26-53 (61618)
स तान्सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः।
तथैव तावका राजन्पाण्डवेयान्महारथान्।
शरवर्षेण महता समन्तात्पर्यवारयन्॥ 9-26-54 (61619)
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह।
तावकानां च समरे पाण्डवेंयैर्युयुत्सताम्॥ 9-26-55 (61620)
तत्र योधास्तदा पेतुः परस्परसमाहताः।
उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान्॥ ॥ 9-26-56 (61621)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षड्विंशोऽध्यायः॥ 26 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-26-17 मोक्षो नूनं कालसृष्टः इति क.पाठः॥ 9-26-26 षड्विंशोऽध्यायः॥शल्यपर्व - अध्याय 027
॥ श्रीः ॥
9.27. अध्यायः 027
Mahabharata - Shalya Parva - Chapter Topics
सहदेवेन शकुन्युलूकयोर्वधः॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-27-0 (61622)
सञ्जय उवाच। 9-27-0x (5125)
तस्मिन्प्रवृत्ते सङ्ग्रामे गजवाजिनरश्रो
शकुनिः सौबलो राजन्सहदेवं xxxxxxयात्॥ 9-27-1 (61623)
ततोऽस्यापततस्तूर्णं सहदेवः पतापवान्।
शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान्।
उलूकं च रणे राजन्विव्याध दशभिः शरैः॥ 9-27-2 (61624)
शकृनिश्च महाराज भीमं विद्ध्वा त्रिभिः शरैः।
नवत्या निशितैर्बाणैः सहदेवमवाकिरत्॥ 9-27-3 (61625)
ते शूराः समरे राजन्समासाद्य परस्परम्।
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः।
स्वर्णपुङ्खैः शिलधौतैराकर्णप्रहितैः शरैः॥ 9-27-4 (61626)
तेषां चापगुणोत्सृष्टा शरवृष्टिर्विशाम्पते।
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः॥ 9-27-5 (61627)
ततः क्रुद्धो रणे भीमः सहदेवश्च भारत।
चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ॥ 9-27-6 (61628)
ताभ्यां शरशतैश्छनं तद्बलं तव भारत।
सान्धकारमिवाकाशमभवत्तत्रतत्र ह॥ 9-27-7 (61629)
अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते।
तत्रतत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून्॥ 9-27-8 (61630)
निहतानां हयानां च सहैव हयसादिभिः।
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष॥ 9-27-9 (61631)
ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वथैः।
सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव॥ 9-27-10 (61632)
योधास्तत्र महाराज समासाद्य परस्परम्।
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्॥ 9-27-11 (61633)
उद्वृत्तनयनै रोषात्सन्दष्टौष्ठपुटैर्मुखैः।
सकुण्डलैर्मही च्छन्ना पद्मकिञ्चल्कसन्निभैः॥ 9-27-12 (61634)
भुजैश्छिन्नैर्महाराज नागराजकरोपमैः।
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वथैः॥ 9-27-13 (61635)
कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि।
क्रव्यादगणसञ्छन्ना घोराऽभूत्पृथिवी विभो॥ 9-27-14 (61636)
अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे।
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्॥ 9-27-15 (61637)
एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान्।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्॥ 9-27-16 (61638)
स विह्वलो महाराज रथोपस्थ उपाविशत्॥ 9-27-17 (61639)
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान्।
सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत॥ 9-27-18 (61640)
निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः।
स निर्भिद्याकरोच्चैव सिंहनादमरिन्दमः॥ 9-27-19 (61641)
तेन शभ्देन वित्रस्ताः सर्वे सहयवारणाः।
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः॥ 9-27-20 (61642)
प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत्।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः॥ 9-27-21 (61643)
इह कीर्ति समाधाय प्रेत्य लोकान्समश्नुते।
प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन्॥ 9-27-22 (61644)
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः।
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम्॥ 9-27-23 (61645)
द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः।
क्षुब्धसागरसङ्काशः क्षुभितैः सर्वतो दिशम्॥ 9-27-24 (61646)
तांस्ततः पुरतो दृष्ट्वा सौबलस्य पदानुगान्।
प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यताः॥ 9-27-25 (61647)
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते।
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः।
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव॥ 9-27-26 (61648)
अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः।
विव्याध नकुलं षष्ट्या भीमसेनं च सप्ताभिः॥ 9-27-27 (61649)
उलूकोऽपि महाराज भीमं विव्याध सप्तभिः।
सहदेवं च सप्तत्या परीप्सन्पितरं रणे॥ 9-27-28 (61650)
तं भीमसेनः समरे विव्याध नवभिः शरैः।
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः॥ 9-27-29 (61651)
ते हन्यमाना भीमेन नाराचैस्तैलपायितैः।
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः।
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः॥ 9-27-30 (61652)
ततोऽस्यापततः शूरः सहदेवः प्रतापवान्।
उलूकस्य महाराज भल्लेनापाहरच्छिरः॥ 9-27-31 (61653)
स जगाम रथाद्भूमिं सहदेवेन पातितः।
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि॥ 9-27-32 (61654)
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत।
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन्॥ 9-27-33 (61655)
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन्।
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः॥ 9-27-34 (61656)
तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रताम्पवान्।
सहदेवो महाराज धनुश्चिच्छेद संयुगे॥ 9-27-35 (61657)
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा।
प्रगृह्य विपुलं खङ्गं सहदेवाय प्राहिणोत्॥ 9-27-36 (61658)
तमापतन्तं सहसा घोररूपं विशाम्पते।
द्विधा चिच्छेद समरे सौबलस्य हसन्निव॥ 9-27-37 (61659)
असिं दृष्ट्वा द्विधा च्छिन्नं प्रगृह्य महतीं गदाम्।
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि॥ 9-27-38 (61660)
ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम्।
प्रेषयामास सक्रुद्धः पाण्डवं प्रति सौबलः॥ 9-27-39 (61661)
तामापतन्तीं सहसा शरैः कनकभूषणैः।
त्रिधा चिच्छेद समरे सहदेवो हसन्निव॥ 9-27-40 (61662)
सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा।
शीर्यमाणा यथा दीप्ता गगनाद्वै शतहदा॥ 9-27-41 (61663)
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम्।
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः॥ 9-27-42 (61664)
अथोत्क्रुष्टं महच्चासीत्पाण्डवैर्जितकाशिभिः।
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाऽभवन्॥ 9-27-43 (61665)
तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान्।
शरैरनेकसाहस्रैर्वारयामास संयुगे॥ 9-27-44 (61666)
ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम्।
आससाद रमे यान्तं सहदेवोऽथ सौबलम्॥ 9-27-45 (61667)
स्वमंशमवशिष्टं तं संस्मृत्य शकुनिं नृप।
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात्॥ 9-27-46 (61668)
अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः।
स सौबलमभिद्रुत्य गार्ध्रपत्रैः शिलाशितैः॥ 9-27-47 (61669)
भृशमभ्यहन्त्कुद्धस्तोत्रैरिव महाद्विपम्।
उवाच चैनं मेधावी विगृह्य स्मारयन्निव॥ 9-27-48 (61670)
क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव।
यत्तदा भाषसे मूढ गृह्णन्नक्षान्सभातले।
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते॥ 9-27-49 (61671)
निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा।
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः॥ 9-27-50 (61672)
अद्य ते निहनिष्यामि क्षुरेणोन्मथितं शिरः।
वृक्षात्फलमिवाविद्वं लगुडेन प्रमाथिना॥ 9-27-51 (61673)
एवमुक्त्वा महाराज सहदेवो महाबलः।
सङ्क्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम्॥ 9-27-52 (61674)
अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः।
विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव॥ 9-27-53 (61675)
शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः।
छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत्॥ 9-27-54 (61676)
छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः।
कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः॥ 9-27-55 (61677)
ततो भूयो महाराज सहदेवः प्रतापवान्।
शकुनेः प्रेषयान्मास शरवृष्टिं दुरासदाम्॥ 9-27-56 (61678)
ततस्तु क्रुद्धः सुबलस्य पुत्रो
माद्रीसुतं सहदेवं विमर्दे।
प्रासेन जाम्बूनदभूषणेन
जिघांसुरेकोऽभिपपात शीघ्रम्॥ 9-27-57 (61679)
माद्रीसुतस्तस्य समुद्यतं तं
प्रासं सुवृत्तौ च भुजौ रणाग्रे।
भल्लैस्त्रिभिर्युगपत्सञ्चकर्त
ननाद चोच्चैस्तरसाऽऽजिमध्ये॥ 9-27-58 (61680)
तस्याशुकारी सुसमाहितेन
सुवर्णपुङ्खेन दृढायसेन।
भल्लेन सर्वावरणातिगेन
शिरः शरीरात्प्रममाथ भूयः॥ 9-27-59 (61681)
शरेण कार्तस्वरभूषितेन
दिवाकराभेण सुसंहितेन।
हृतोत्तमाङ्गो युधि पाण्डवेन
पपात भूमौ सुबलस्य पुत्रः॥ 9-27-60 (61682)
स तच्छिरो वेगवता शरेण
सुवर्णपुङ्खेन शिलाशितेन।
प्रावेरयत्कुपितः पाण्डुपुत्रो
यत्तत्कुरूणामनयस्य मूलम्॥ 9-27-61 (61683)
भुजौ सुवृत्तौ प्रचकर्त वीरः
पश्चात्कबन्धं रुधिरावसिक्तम्।
विस्पन्दमानं निपपात घोरं
रथोत्तमात्पार्थिव पार्थिवस्य॥ 9-27-62 (61684)
हृतोत्तमाङ्गं शकुनिं समीक्ष्य
भूमौ शयानं रुधिरार्द्रगात्रम्।
योधास्त्वदीया भयनष्टसत्वा
दिशः प्रजग्मुः प्रगृहीतशस्त्राः॥ 9-27-63 (61685)
प्रविद्रुताः शुष्कमुखा विसञ्ज्ञा
गाण्डीवघोषेण समाहताश्च।
भयार्दिता भग्नरथाश्वनागाः
पदातयश्चैव सधार्तराष्ट्राः॥ 9-27-64 (61686)
ततो रथाच्छकुनिं पातयित्वा
मुदान्विता भारत पाण्डवेयाः
शङ्कान्प्रदध्युः समरेऽतिहृष्टाः
सकेशवाः सैनिकान्हर्षयन्तः॥ 9-27-65 (61687)
तं चापि सर्वे प्रतिपूजयन्तो
दृष्ट्वा ब्रुवाणाः सहदेवमाजौ।
दिष्ट्या हतो नैकृतिको महात्मा
सहात्मजो वीर रणे त्वयेति॥ ॥ 9-27-66 (61688)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे सप्तविंशोऽध्यायः॥ 27 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-27-7 अलङ्कृतमिवाकाशं इति क.पाठः॥ 9-27-49 यत्तदा हृष्यसे मृढ ग्लहन्नक्षैः इति झ.पाठः॥ 9-27-27 सप्तविंशोऽध्यायः॥शल्यपर्व - अध्याय 028
॥ श्रीः ॥
9.28. अध्यायः 028
Mahabharata - Shalya Parva - Chapter Topics
हतावशिष्टे बले पाण्डवैर्निहते दुर्योधनेन पलायने निर्धारणम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-28-0 (61689)
स़ञ्जय उवाच। 9-28-0x (5126)
ततः क्रुद्धा महाराज सौबलस्य पदानुगाः।
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन्॥ 9-28-1 (61690)
तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः।
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः॥ 9-28-2 (61691)
शक्त्यृ-ष्टिप्रासहस्तानां सहदेवं जिघांसताम्।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः॥ 9-28-3 (61692)
सङ्गृहीतायुधान्बाहून्योधानामभिधावताम्।
भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि॥ 9-28-4 (61693)
ते हयाः प्रत्यपद्यन्त वसुधां विगतासवः।
चरता लोकवीरेण प्रहताः सव्यसाचिना॥ 9-28-5 (61694)
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसङ्क्षयम्।
हतशेषान्समानीय क्रुद्धो रथगणान्बहून्॥ 9-28-6 (61695)
कुञ्जरांश्च हयांश्चैव पादातांश्च समन्ततः।
उवाच दुःखितान्सर्वान्धार्तराष्ट्र इदं वचः॥ 9-28-7 (61696)
समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान्।
पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं न्यवर्तत॥ 9-28-8 (61697)
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः।
अभ्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात्॥ 9-28-9 (61698)
तानभ्यापततः शीघ्रं हतशेषान्महारणे।
शरैराशीविषाकारैः पाण्डवाः समवाकिरन्॥ 9-28-10 (61699)
तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः।
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत॥ 9-28-11 (61700)
पलायमानं तु भयान्नावतिष्ठति दंशितम्।
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते॥ 9-28-12 (61701)
न प्राज्ञायन्त समरे दिशः सप्रदिशस्तथा।
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः॥ 9-28-13 (61702)
अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत।
ततो निःशेषमभवत्तत्सन्यं तव भारत॥ 9-28-14 (61703)
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत।
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः॥ 9-28-15 (61704)
तेषु राजसहस्रेषु तावकेषु महात्मसु।
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः॥ 9-28-16 (61705)
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम्।
विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्यं संयुगे॥ 9-28-17 (61706)
मुदितान्सर्वतः सिद्धान्नर्दमानान्समन्ततः।
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम्॥ 9-28-18 (61707)
दुर्योधनो महाराज कश्मलेनाभिसंवृतः।
अपयो मनश्चक्रे विहीनबलवाहनः॥ ॥ 9-28-19 (61708)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे अष्टाविंशोऽध्यायः॥ 28 ॥
शल्यपर्व - अध्याय 029
॥ श्रीः ॥
9.29. अध्यायः 029
Mahabharata - Shalya Parva - Chapter Topics
पाण्डवैर्निहतसहायस्य दुर्योधनस्य गदामादाय हदं प्रति प्रस्थानम्॥ 1 ॥ सञ्जयसंहारायासिमुद्यच्छता सात्यकिना व्यासवचनात्तद्विमोचनम्॥ 2 ॥ हास्तिनपुरं गच्छतः सञ्जयस्य मध्येमार्गं दुर्योधनदर्शनम्॥ 3 ॥ तेन तस्मिन्धृतराष्ट्राय स्ववृत्तान्तनिवेदनचोदनपूर्वकं हदं प्रविश्य मायया जलस्तम्भनम्॥ 4 ॥ तत्रागतैर्द्रौणिकृपकृतवर्मभिः सञ्जयाद्दुर्योधनस्य हदप्रवेशं विज्ञाय विलप्य पुनः शिबिरगमनम्॥ 5 ॥ ततो वृद्धपरिजनैर्युयुत्सुना च राजदाराणां नगरप्रापणम्॥ 6 ॥Mahabharata - Shalya Parva - Chapter Text
9-29-0 (61709)
धृतराष्ट्र उवाच। 9-29-0x (5127)
निहते मामके सैन्ये निःशेषे शिबिरे कृते।
पाण्डवानां बले सूत किन्नु शेषमभूत्तदा॥ 9-29-1 (61710)
एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय।
यच्च दुर्योधनो मानी कृतवांस्तनयो मम।
वलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः॥ 9-29-2 (61711)
सञ्जय उवाच। 9-29-3x (5128)
रथानां द्वे सहस्रे तु सप्त नागशतानि च।
पञ्च चाश्वसहस्राणि पत्तीनामयुतानि च॥ 9-29-3 (61712)
एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम्।
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः॥ 9-29-4 (61713)
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः।
नापश्यत्समरे कञ्चित्सहायं रथिनां वरः॥ 9-29-5 (61714)
नर्दमानान्परान्दृष्ट्वा स्वबलस्य च सङ्क्षयम्।
दृष्ट्वा भरतशार्दूलः कश्मलेनाभिसंवृतः।
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रावद्भयात्॥ 9-29-6 (61715)
एकादशचमूभर्ता पुत्रो दुर्योधनस्तव।
गदामादाय तेजस्वी पदातिः प्रस्थितो हदम्॥ 9-29-7 (61716)
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः।
सस्मार वचनं क्षत्रुर्धर्मशीलस्य धीमतः॥ 9-29-8 (61717)
इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान्पुरा।
महद्व्सनमस्माकं क्षत्रियाणां च सर्वशः॥ 9-29-9 (61718)
एवं विचिन्तयानस्तु प्रविविक्षुर्हदं नृपः।
दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम्॥ 9-29-10 (61719)
`दशैकाक्षौहिणीभर्ता तदा दुर्योधनोऽपि सन्।
प्राप्तवान्व्यसनं तीव्रं दैवं हि बलवत्तरम्'॥ 9-29-11 (61720)
पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः।
अभ्यद्रवन्त सङ्क्रुद्धास्तव राजन्बलं प्रति॥ 9-29-12 (61721)
शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम्।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः॥ 9-29-13 (61722)
तान्हत्वा निशितैर्वाणैः सामात्यान्सह बन्धुभिः।
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत॥ 9-29-14 (61723)
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे।
महावनमिव च्छिन्नमभवत्तावकं बलम्॥ 9-29-15 (61724)
अनेकशतसाहस्रे बले दुर्योधनस्य ह।
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत॥ 9-29-16 (61725)
द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः।
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात्॥ 9-29-17 (61726)
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत्।
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता॥ 9-29-18 (61727)
धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः।
उद्यम्य निशितं खङ्गं हन्तुं मामुद्यतस्तदा॥ 9-29-19 (61728)
तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्।
मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन॥ 9-29-20 (61729)
द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः।
ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय॥ 9-29-21 (61730)
अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः।
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः॥ 9-29-22 (61731)
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम्।
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम्॥ 9-29-23 (61732)
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम्।
उपप्रैक्षत मां दृष्ट्वा तथा दीनमवस्थितम्॥ 9-29-24 (61733)
तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे।
मुहूर्तं नाशकं वक्तुमतिदुःखपरिप्लुतः॥ 9-29-25 (61734)
`यस्य मूर्धाभिषिक्तानां सहस्रमणिमौलिनाम्।
आहृत्य च करं सर्वं स्वस्य वेश्म समागतम्॥ 9-29-26 (61735)
चतुःसागरपर्यन्ता पृथिवी रत्नभूषिता।
कर्णेनैकेन यस्यार्थे करमाहारिता पुरा॥ 9-29-27 (61736)
यस्याज्ञा परराष्ट्रेषु कर्णेनैव प्रसारिता।
नाभवद्यस्य शस्त्रेषु खेदो राज्ञः प्रशासतः॥ 9-29-28 (61737)
आसीनो हास्तिनपुरे क्षेमं राज्यमकण्टकम्।
अन्वपालयदैश्वर्यात्कुबेरमपि नास्मरत्॥ 9-29-29 (61738)
भवनाद्भवनं राजन्प्रयातुं पृथिवीपते।
देवालयप्रदेशे च पन्था यस्य हिरण्मयः॥ 9-29-30 (61739)
पताकावृतसूर्यांशुतोरणोच्छ्रितशोभिताः।
प्रयाणे पृथिवीभर्तुर्धन्यानामभवन्गृहाः॥ 9-29-31 (61740)
आरुह्यैरावतप्रख्यं नागमिन्द्रसमो बली।
विभूत्या सुमहत्या यः प्रयाति पृथिवीपते॥ 9-29-32 (61741)
तं भृशक्षतसर्वाङ्गं पद्ध्यामेव धरातले।
तिष्ठन्तमेकं दृष्ट्वा तु ममाभूत्क्लेश उत्तमः॥ 9-29-33 (61742)
तस्य चैवंविधस्याद्य जगन्नाथस्य भूपते।
आपदप्रतिमैवाभूद्बलीयान्विधिरेव हि'॥ 9-29-34 (61743)
ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा।
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे॥ 9-29-35 (61744)
स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम्।
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः॥ 9-29-36 (61745)
तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान्।
भ्रातॄश्च निहतान्सर्वान्सैन्यं च विनिपातितम्॥ 9-29-37 (61746)
त्रयः किल रथाः शिष्टास्तावकानां नराधिप।
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत्॥ 9-29-38 (61747)
स दीर्घमिव निःश्वस्य प्रत्यवेक्ष्य पुनः पुनः।
असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत॥ 9-29-39 (61748)
त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय।
द्वितीयं नेह पश्यामि ससहायाश्च पाण़्डवाः॥ 9-29-40 (61749)
ब्रूयाः सञ्जय राजानं पज्ञाचक्षुषमीश्वरम्।
दुर्योधनस्तव सुतः प्रविष्टो हदमित्युत॥ 9-29-41 (61750)
सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च।
पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः॥ 9-29-42 (61751)
आचक्षीथाः सर्वमिदं मां च मुक्तं महाहवात्।
आस्मिंस्तोयहदे गुप्तं जीवन्तं भृशविक्षतम्॥ 9-29-43 (61752)
एवमुक्त्वा महाराज प्राविशत्तं महाहदम्।
अस्तम्भयत तोयं च मायया मनुजाधिपः॥ 9-29-44 (61753)
तस्मिन्हदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान्।
अपश्यं सहितानेकस्तं देशं समुपेयुषः॥ 9-29-45 (61754)
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम्।
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान्॥ 9-29-46 (61755)
ते सर्वं मामभिप्रेक्ष्य तूर्णमश्वाननोदयन्।
उपयाय तु मामूचुर्दिष्ट्या जीवसि सञ्जय॥ 9-29-47 (61756)
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम्।
कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय॥ 9-29-48 (61757)
आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम्।
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत्॥ 9-29-49 (61758)
हदं चैवाहमाचक्षं यं प्रविष्टो नराधिपः।
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम॥ 9-29-50 (61759)
तं हदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत्।
अहो धिक्स न जानाति जीवतोऽस्मान्नराधिप।
पर्याप्ता हि वयं तेन सह योधयितुं परान्॥ 9-29-51 (61760)
ते तु तत्र चिरं कालं विलप्य च महारथाः।
प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे॥ 9-29-52 (61761)
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम्।
सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः॥ 9-29-53 (61762)
तत्र गुल्माः परिक्षिप्ताः सूर्ये चास्तमिते सति।
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम्॥ 9-29-54 (61763)
ततो वृद्धा महाराज योषितां रक्षिणो नराः।
राजदारानुपादाय पययुर्नगरं प्रति॥ 9-29-55 (61764)
तत्र विक्रोशमानानां रुदतीनां च सर्वशः।
प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसङ्क्षयम्॥ 9-29-56 (61765)
ततस्ता योषितो राजन्रुदन्त्यो वै मुहुर्मुहुः।
कुरर्य इव शब्देन नादयन्त्यो महीतलम्॥ 9-29-57 (61766)
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत।
लुलुचुश्च तदा केशान्क्रोशन्त्यस्तत्रतत्र ह॥ 9-29-58 (61767)
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च।
शोचन्त्यस्तत्र रुरुदुः क्रन्दमाना विशाम्पते॥ 9-29-59 (61768)
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः।
राजदारानुपामन्त्र्य प्रययुर्नगरं प्रति॥ 9-29-60 (61769)
वेत्रव्यासक्तहस्ताश्च द्वाराध्यक्षा विशाम्पते।
शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च।
समादाय ययुस्तूर्णं नगरं दाररक्षिणः॥ 9-29-61 (61770)
आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे पुनः।
स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति॥ 9-29-62 (61771)
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु।
ददृशुस्ता महाराज जना याताः पुरं प्रति॥ 9-29-63 (61772)
ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः।
प्रययुर्नगरं तूर्णं हतस्वपतिबान्धवाः॥ 9-29-64 (61773)
आगोपालाविपालेभ्यो द्रवन्तो नगरं प्रति।
ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः॥ 9-29-65 (61774)
अपिचैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम्।
प्रेक्षमाणास्तदाऽन्योन्यमाधावन्नगरं प्रति॥ 9-29-66 (61775)
तस्मिंस्तथा वर्तमाने विद्रवे भृशदारुणे।
युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत्॥ 9-29-67 (61776)
जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः।
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः॥ 9-29-68 (61777)
हताश्च कुरवः सर्वे भीष्मद्रोणपुरः सराः।
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया॥ 9-29-69 (61778)
विद्रुतानि च सर्वाणि शिबिराद्वै समन्ततः।
[इतस्ततः पलायन्ते हतनाथा हतौजसः॥ 9-29-70 (61779)
अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः।
हरिणा इव वित्रस्ता वीक्षमाणा दिशो दश]॥ 9-29-71 (61780)
दुर्योधनस्य सचिवा ये केचिदवशेषिताः।
राजदारानुपादाय प्रययुर्नगरं प्रति।
प्राप्तकालमहं मन्ये प्रवेशं तैः सह प्रभो॥ 9-29-72 (61781)
युधिष्ठिरमनुज्ञाय वासूदेवं तथैव च।
एतमर्थं महाबाहुरुभयोः सन्न्यवेदयत्॥ 9-29-73 (61782)
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता।
परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत्॥ 9-29-74 (61783)
ततः स रथमास्थाय द्रुतमश्वानचोदयत्।
संवाहयितवांश्चापि राजदारान्पुरं प्रति॥ 9-29-75 (61784)
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे।
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः॥ 9-29-76 (61785)
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम्।
राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम्॥ 9-29-77 (61786)
तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम्॥ 9-29-78 (61787)
विदुर उवाच। 9-29-79x (5129)
दिष्ट्या कुरुक्षये वृत्ते अस्मिंस्त्वं पुत्र जीवसि।
विना राज्ञः पर्वेशार्द्वै किमसि त्वमिहागतः।
एतद्वै कारणं सर्वं विस्तरेण निवेदय॥ 9-29-79 (61788)
युयुत्सुरुवाच। 9-29-80x (5130)
निहते शकुनौ तत्र सज्ञातिसुतबान्धवे।
हतशेषपरीवारो राजा दुर्योधनस्ततः।
स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्॥ 9-29-80 (61789)
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात्।
भयव्याकुलितं सर्वं प्राद्रावन्नगरं प्रति॥ 9-29-81 (61790)
ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः।
वाहनेषु समारोप्य अध्यक्षाः प्राद्रावन्भयात्॥ 9-29-82 (61791)
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम्।
प्रविष्टो हास्तिनपुरं रक्षन्लोकस्य वाच्यताम्॥ 9-29-83 (61792)
सञ्जय उवाच। 9-29-84x (5131)
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम्।
प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित्।
अपूजयदमेयात्मा युयुत्सुं वाक्यमब्रवीत्॥ 9-29-84 (61793)
प्राप्तकालमिदं सर्वं ब्रुवता भरतक्षये।
[रक्षितः कुलधर्मश्च सानुक्रोशतया त्वया॥ 9-29-85 (61794)
दिष्ठ्या त्वामिह सङ्ग्राम दस्माद्वीरक्षयात्पुरम्।
समागतमपश्याम ह्यंशुमन्तमिव प्रजाः॥ 9-29-86 (61795)
अन्धस्यं नृपतेर्यष्टिर्लुब्धस्यादीर्घदर्शिनः।
बहुशो याच्यमानस्य दैवोपहतचेतसः।
त्वमेको व्यसनार्तस्य ध्रियसे पुत्र सर्वथा]॥ 9-29-87 (61796)
अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम्।
एतावदुक्त्वा वचनं विदुरः साश्रुलोचनः।
युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम्॥ 9-29-88 (61797)
[पौरजानपदैर्दुःखाद्धाहेति भृशनादितम्।
निरानन्दं गतश्रीकं हृताराममिवाशयम्।
शून्यरूपमपध्वस्तं दुःखाद्दुःखतरोऽभवत्॥ 9-29-89 (61798)
विदुरः सर्वधर्मज्ञो विक्लवेनान्तरात्मना।
विवेश नगरे राजन्निशश्वास शनैः शनैः॥ 9-29-90 (61799)
युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा।
वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत्सुदुःखितः।
चिन्तयानः क्षयं तीव्रं भरतानां परस्परम्॥ ॥ 9-29-91 (61800)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे एकोनत्रिंशोऽध्यायः॥ 29 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-29-38 हतो दुर्योधन इति क.पाठः॥ 9-29-39 अहमेकोऽवशिष्टस्तु इति क.पाठः॥ 9-29-29 एकोनत्रिंशोऽध्यायः॥शल्यपर्व - अध्याय 030
॥ श्रीः ॥
9.30. अध्यायः 030
Mahabharata - Shalya Parva - Chapter Topics
कृपद्गौणिकृतवर्मसु हृदमेत्य दुर्योधनेन भापमाणेषु तत्र यदृच्छोपागतैर्व्याधैस्तद्दर्शनम्॥ 1 ॥ व्याधनिवेदनेन सपरिवारैः पाण़्डवैर्ह्रदं प्रत्यागमनम्॥ 2 ॥ तद्दर्शनेन कृपादिभिर्दुर्योधनाभ्यनुज्ञानेन दूरस्थन्यग्नोधतरुमेत्य तन्मूले उपवेशनम्॥ 3 ॥ दुर्योधनेन पुनर्जलस्तम्भनेन ह्रदप्रवेशनम्॥ 4 ॥Mahabharata - Shalya Parva - Chapter Text
9-30-0 (61902)
`सञ्जय उवाच। 9-30-0x (5133)
मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत।
मत्तवारणसंघुष्टं शिबिरं विद्रुते बले॥ 9-30-1 (61903)
यत्र शब्देन महता नान्वबुध्यन्महारथाः।
तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित्'॥ 9-30-2 (61904)
धृतराष्ट्र उवाच। 9-30-3x (5134)
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे।
मामकाश्चावशिष्टास्ते किमकुर्वत सञ्जय॥ 9-30-3 (61905)
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान्।
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा॥ 9-30-4 (61906)
सञ्जय उवाच। 9-30-5x (5135)
सम्प्राद्रुवत्सु दारेषु क्षत्रियाणां महात्मनाम्।
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः॥ 9-30-5 (61907)
निशम्य पाण्डुपुत्राणां तदा वैजयिनां स्वनम्।
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्विनः।
स्थानं नारोचयंस्तत्र ततस्ते हदमभ्ययुः॥ 9-30-6 (61908)
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे।
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया॥ 9-30-7 (61909)
मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः।
यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम्॥ 9-30-8 (61910)
यदा दुर्योधनो युद्धं त्यक्त्वा पद्भ्यां पराक्रममत्।
तं हदं प्राविशच्चापि विष्टभ्यापः स्वमायया॥ 9-30-9 (61911)
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः।
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः॥ 9-30-10 (61912)
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः।
सन्निविष्टेषु पार्थेषु प्रययुस्तं हदं शनैः॥ 9-30-11 (61913)
ते तं हदं समासाद्य यत्र शेते जनाधिपः।
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि॥ 9-30-12 (61914)
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम्।
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि॥ 9-30-13 (61915)
तेषामपि बलं सर्वं हतं दुर्योधन त्वया।
प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः॥ 9-30-14 (61916)
न ते वेगं विषहितुं शक्तास्तव विशाम्पते।
अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत॥ 9-30-15 (61917)
दुर्योधन उवाच। 9-30-16x (5136)
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात्।
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान्॥ 9-30-16 (61918)
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः।
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः।
उदीर्णं च बलं तेषां तेन युद्धं न रोचये॥ 9-30-17 (61919)
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः।
अस्मासु च परा शक्तिर्न तु कालः पराक्रमे॥ 9-30-18 (61920)
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे।
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न स्याच्च श्रमो मम॥ 9-28-19 (61921)
सञ्जय उवाच। 9-28-20x (5137)
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम्।
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान्॥ 9-28-20 (61922)
इष्टापूर्तेन दानेन सत्येन च जपेन च।
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान्॥ 9-28-21 (61923)
मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम्।
यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे॥ 9-30-22 (61924)
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो।
उत्तिष्ठ त्वं ब्रवीम्येतत्तन्मे शृणु जनाधिप॥ 9-30-23 (61925)
तेषु सम्बाषमाणेषु व्याधास्तं देशमाययुः।
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया॥ 9-30-24 (61926)
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः।
मांसभारानुपाजह्नुर्भक्त्या परमया विभो॥ 9-30-25 (61927)
ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः।
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः॥ 9-30-26 (61928)
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे।
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः॥ 9-30-27 (61929)
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान्।
अयुद्धमनसं चैव राजानं स्थितमम्भसि॥ 9-30-28 (61930)
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः।
व्याधा ह्यजानन्राजेन्द्र सलिलस्थं सुयोधनम्॥ 9-30-29 (61931)
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव।
यदृच्छोपगतास्तत्र राजानं परिमार्गता॥ 9-30-30 (61932)
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा।
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिव॥ 9-30-31 (61933)
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः।
सुव्यक्तमिह नः ख्यातो हदे दुर्योधनोनृपः॥ 9-30-32 (61934)
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः।
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम्॥ 9-30-33 (61935)
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते।
शयानं सलिले सर्वे कथयामो धनुर्भृते॥ 9-30-34 (61936)
स नो दास्यति सुप्रीतो धनानि बहुलान्युत।
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा॥ 9-30-35 (61937)
एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः।
मांसभारानुपादाय प्रययुः शिबिरं प्रति॥ 9-30-36 (61938)
पाण़्डवाश्च महाराज लब्धलक्षाः प्रहारिणः।
अपश्यमानाः समरे दुर्योधनमवस्थितम्॥ 9-30-37 (61939)
निकृतिज्ञस्य पापस्य तस्याभिगमनेप्सया।
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे॥ 9-30-38 (61940)
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम्।
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः॥ 9-30-39 (61941)
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ।
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः॥ 9-30-40 (61942)
`अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत्।
राज्यं लभे कथं तद्वि पूजितं विजयादिभिः'॥ 9-30-41 (61943)
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ।
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो॥ 9-30-42 (61944)
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम्।
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः॥ 9-30-43 (61945)
ते तु पाण्डवमासाद्य भीमसेनं महाबलम्।
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम्॥ 9-30-44 (61946)
ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु।
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः॥ 9-30-45 (61947)
असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः।
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे॥ 9-30-46 (61948)
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते।
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः॥ 9-30-47 (61949)
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलहदे।
क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम्॥ 9-30-48 (61950)
ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते।
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः॥ 9-30-49 (61951)
सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ।
त्वरिताः क्षत्रिया राजन्नुदक्रोशन्परस्परम्॥ 9-30-50 (61952)
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे।
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः॥ 9-30-51 (61953)
तेषामाशु प्रयातानां रथानां तत्र वेगिनाम्।
वभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते॥ 9-30-52 (61954)
दुर्योधनं परीप्सन्तस्तत्रतत्र युधिष्ठिरम्।
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः॥ 9-30-53 (61955)
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ।
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः॥ 9-30-54 (61956)
उत्तमौजा युधामन्युः सात्यकिश्च महारथः।
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत।
हयाश्च सर्वे नागाश्च शतशश्च पदातयः॥ 9-30-55 (61957)
ततः प्राप्तो महाराज धर्मराजः प्रतापवान्।
द्वैपायनहदं घोरं यत्र दुर्योधनोऽभवत्॥ 9-30-56 (61958)
शीतामलजलं हृद्यं द्वितीयमिव सागरम्।
मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः॥ 9-30-57 (61959)
अत्यद्भुतेन विधिना दैवयोगेन भारत।
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो। 9-30-58 (61960)
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः॥ 9-30-59 (61961)
ततो दुर्योधनो राजा सलिलान्तर्गतो वसन्।
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम्॥ 9-30-59 (61962)
युधिष्ठिरश्च राजेन्द्र तं हदं सह सोदरैः।
आजगाम महाराज तव पुत्रवधाय वै॥ 9-30-60 (61963)
महता शङ्खनादेन रथनेमिस्वनेन च।
ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम्॥ 9-30-61 (61964)
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः।
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन्॥ 9-30-62 (61965)
इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः।
अपयास्यामहे तावदनुजानातु नो भवान्॥ 9-30-63 (61966)
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम्।
तथेत्युक्त्वा हदं तं वै माययाऽस्तम्भयत्प्रभो॥ 9-30-64 (61967)
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः।
जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः॥ 9-30-65 (61968)
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष।
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति॥ 9-30-66 (61969)
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः।
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः॥ 9-30-67 (61970)
कथं नु युद्धं भविता कथं राजा भविष्यति।
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम्॥ 9-30-68 (61971)
इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते।
तत्रासाञ्चक्रिरे राजन्कृपप्रभृतयो रथाः॥ ॥ 9-30-69 (61972)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे त्रिंशोऽध्यायः॥ 30 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-30-18 अस्मासु च परा भक्तिर्दर्शिता कार्यगौरवात्। इति ङ. पाठः॥ 9-30-22 यज्ञकृतां प्रीति यज्ञादिजस्य पुण्यस्य फलम्॥ 9-30-39 नष्टं अदृश्यत्वं गतं लीनमित्यर्थः॥ 9-30-30 त्रिंशोऽध्यायः॥शल्यपर्व - अध्याय 031
॥ श्रीः ॥
9.31. अध्यायः 031
Mahabharata - Shalya Parva - Chapter Topics
युधिष्ठिरेण हदस्थं दुर्योधनं प्रति निष्ठुरोक्तिभिः सन्तर्जनम्॥ 1 ॥ युधिष्ठिरदुर्योधनयोः संवादः॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-31-0 (61973)
सञ्जय उवाच। 9-31-0x (5138)
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः।
तं हदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत्॥ 9-31-1 (61974)
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं हदम्।
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम्॥ 9-31-2 (61975)
वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः।
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम्॥ 9-31-3 (61976)
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम्।
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम्॥ 9-31-4 (61977)
निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते।
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम्।
तथाप्येनं हतं युद्धे लोका द्रक्ष्यन्ति माधव॥ 9-31-5 (61978)
वासुदेव उवाच। 9-31-6x (5139)
मायाविन इमां मायां मायया जहि भारत।
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर॥ 9-31-6 (61979)
क्रियाभ्युपायैर्बहुभिर्भायामप्सु प्रयोज्य च।
जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम्॥ 9-31-7 (61980)
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः।
क्रियाभ्युपायैर्बलिभिर्बलिर्बद्धो महात्मना॥ 9-31-8 (61981)
क्रियाभ्युपायपूर्वं वै हिरण्याक्षो महासुरः।
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ॥ 9-31-9 (61982)
वृत्रश्च निहतो राजन्क्रिययैव महाबलः।
तथा पौलस्त्यतनयो रावणो नाम राक्षसः।
रामेण निहतो राजन्सानुबन्धः सहानुगः॥ 9-31-10 (61983)
क्रियया योगमास्थाय तथा त्वमपि विक्रम॥ 9-31-11 (61984)
क्रियाभ्युपायैर्निहतौ मया राजन्पुरातनौ।
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान्॥ 9-31-12 (61985)
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो।
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ॥ 9-31-13 (61986)
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो।
क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर॥ 9-31-14 (61987)
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा।
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर॥ 9-31-15 (61988)
सञ्जय उवाच। 9-31-16x (5140)
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः।
जलस्थं तं महाराज तव पुत्रं महाबलम्।
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत॥ 9-31-16 (61989)
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया।
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते॥ 9-31-17 (61990)
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः।
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन॥ 9-31-18 (61991)
स ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः।
यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः॥ 9-31-19 (61992)
सर्वे त्वां शूर इत्येवं जना जल्पन्ति संसदि।
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः॥ 9-31-20 (61993)
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः।
कौरवेयो विशेषेण कुलं जन्म च संस्मर॥ 9-31-21 (61994)
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः।
युद्वात्त्रस्ततरस्तोयं प्रविश्य प्रतितिष्ठसि॥ 9-31-22 (61995)
अयुद्धेन व्यवस्थानं नैष धर्मः सनातनः॥ 9-31-23 (61996)
अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम्।
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः॥ 9-31-24 (61997)
इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा।
सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा।
घातयित्वा कथं तात हदे तिष्ठति साम्प्रतम्॥ 9-31-25 (61998)
शूरमानी न शूरस्त्वं मृषा वदसि भारत।
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः॥ 9-31-26 (61999)
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन।
ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि सङ्गरम्॥ 9-31-27 (62000)
स त्वमुत्तिष्ठ युध्यस्व विहाय भयमात्मनः।
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन॥ 9-31-28 (62001)
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया।
क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन॥ 9-31-29 (62002)
यत्तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम्।
दुःशासनं च मोहात्त्वमात्मानं नावबुद्धवान्॥ 9-31-30 (62003)
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत।
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम्॥ 9-31-31 (62004)
क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन।
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत्॥ 9-31-32 (62005)
क्व ते कृतास्त्रता याता किं नु शेषे जलाशये।
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत॥ 9-31-33 (62006)
अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम्।
अथवा निहतोस्माभिर्भूमौ स्वप्स्यसि भारत॥ 9-31-34 (62007)
एष ते परमो धर्मः सृष्टो धात्रा महात्मना।
तं कुरुष्व यथातथ्यं पौरुषे स्व व्यवस्थितः॥ 9-31-35 (62008)
सञ्जय उवाच। 9-31-36x (5141)
एवमुक्तो महाराज धर्मपुत्रेण धीमता।
सलिलस्थस्तव सुत इदं वचनमब्रवीत्॥ 9-31-36 (62009)
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत्।
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत॥ 9-31-37 (62010)
अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः।
एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम्॥ 9-31-38 (62011)
न प्राणहेतोर्न भयाश्च विषादाद्विशाम्पते।
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम्॥ 9-31-39 (62012)
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव।
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे॥ 9-31-40 (62013)
युधिष्ठिर उवाच। 9-31-41x (5142)
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे।
तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन॥ 9-31-41 (62014)
हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि।
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि॥ 9-31-42 (62015)
दुर्योधन उवाच। 9-31-43x (5143)
यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन।
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर॥ 9-31-43 (62016)
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम्।
न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम्॥ 9-31-44 (62017)
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर।
भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ॥ 9-31-45 (62018)
न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित्।
द्रोणे कर्णे च संशान्ते निहते च पितामहे॥ 9-31-46 (62019)
अस्त्विदानीमियं राजन्केवला पृथिवी तव।
असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम्॥ 9-31-47 (62020)
सुहृदस्तादृशान्हत्वा पुत्रान्भ्रातॄन्पितॄनपि।
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः॥ 9-31-48 (62021)
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः।
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत॥ 9-31-49 (62022)
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा।
एषा ते पृथिवी राजन्भुङ्क्षैनां विगतज्वरः॥ 9-31-50 (62023)
वनमेव गमिष्यामि वसानो मृगचर्मणी।
न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो॥ 9-31-51 (62024)
गच्छ त्वं भुङ्क्ष राजेन्द्र पृथिवीं निहतेश्वराम्।
हतयोधां नष्टरत्नां शीर्णक्षत्रां यथासुखम्॥ 9-31-52 (62025)
[सञ्जय उवाच। 9-31-53x (5144)
दुर्योधनं तव सुतं सलिलस्थं महायशाः।
श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः॥] 9-31-53 (62026)
युधिष्ठिर उवाच। 9-31-54x (5145)
आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः।
नैतन्मनसि मे राजन्वाशितं शकुनेरिव॥ 9-31-54 (62027)
यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन।
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम्॥ 9-31-55 (62028)
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम्।
न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः॥ 9-31-56 (62029)
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम्।
त्वां तु युद्धे विनिर्जित्य भोक्ताऽस्मि वसुधामिमाम्॥ 9-31-57 (62030)
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि।
त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि॥ 9-31-58 (62031)
धर्मतो याचमानानां प्रशमार्थं कुलस्य नः।
वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबालम्॥ 9-31-59 (62032)
किमिदानीं ददासि त्वं को हि ते जित्तविभ्रमः।
अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीं॥ 9-31-60 (62033)
न त्वमद्य महीं दातुमीशः कौरवनन्दन।
आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि॥ 9-31-61 (62034)
मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम्।
सूच्यग्रेणापि यद्भूमेरपि भिद्येत भारत॥ 9-31-62 (62035)
तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान्।
स कथं पृथिवीमेतां प्रददासि विशाम्पते॥ 9-31-63 (62036)
सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम्॥ 9-31-64 (62037)
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम्।
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम्॥ 9-31-65 (62038)
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे।
पृथिवीं दातुकामोऽपि जीवंस्त्वं नैव मोक्ष्यसे॥ 9-31-66 (62039)
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्।
अथवा निहतोऽस्माभिर्व्रज लोकाननुत्तमान्॥ 9-31-67 (62040)
आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम्।
संशयः सर्वभूतानां विजये नौ भविष्यति॥ 9-31-68 (62041)
जीवितं त्वयि दुष्प्रापं मयि यत्परिवर्तते।
जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः॥ 9-31-69 (62042)
दहने हि कृतो यत्नस्त्वयाऽस्मासु विशेषतः।
आशीविषैर्विषैश्चापि जले जापि प्रवेशनैः।
त्वया विनिकृता राजन्राज्यस्य हरणेन च॥ 9-31-70 (62043)
अप्रियाणां च वचनैर्द्रौपद्याः कर्षणेन च।
एतस्मात्कारणात्पाप जीवितं न विद्यते॥ 9-31-71 (62044)
उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति॥ 9-31-72 (62045)
एवं तु विविधा वाचो जययुक्ताः पुनःपुनः।
कीर्तयन्ति स्म ते वीरास्तत्रतत्र जनाधिप॥ ॥ 9-31-73 (62046)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे एकत्रिंशोऽध्यायः॥ 31 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-31-7 कियाभ्युपायैः शत्रुकियानुरूपैः प्रतीकारैर्घर्म्यैरधर्म्यैर्वेत्यर्थः। एतेतु च्छलकारिणश्छलैरेव हन्तव्या इति भावः। माययैव सुयोधनं इति क.पाठः॥ 9-31-11 विक्रम विक्रमं कुरुष्व क्रियया योगमास्थाय हतस्त्वाष्ट्रोऽपि विक्रमात् इति क.पाठः॥ 9-31-12 क्रियाभ्युपायैर्निहतो मयो नाम महासरः। इति क.पाठः॥ 9-31-27 हे शूरेति साधिक्षेपसम्बोधनम्। यया वृत्त्या निमित्तभूतया। वानप्रस्थत्वेन वा न्यस्तशस्त्रत्वेन वा क्लीबत्वेन वा त्वं सङ्गरं त्यजसि तां वृत्तिं ब्रूहि। न त्वं वानप्रस्थोऽसि राज्यार्थिवात्। नापि न्यस्तशस्त्रो गदाधारित्वात्। परिशेषात क्लीबोऽस्मीति मा भाषस्व। युद्धं कुर्विति भावः॥ 9-31-32 पौरुषं यत्नः। विक्रान्तता शौर्यम्। विस्फूर्जितं गर्जनम्॥ 9-31-49 हतापत्यस्य भारत इति क.पाठः॥ 9-31-52 निहतत्विषमिति क.ङ.पाठः॥ 9-31-31 एकत्रिंशोऽध्यायः॥शल्यपर्व - अध्याय 032
॥ श्रीः ॥
9.32. अध्यायः 032
Mahabharata - Shalya Parva - Chapter Topics
युधिष्ठिरकटुभाषणरुष्टेन सुयोधनेन गदयासह हदादुत्थानम्॥ 1 ॥ युधिष्ठिरदुर्योधनयोः संवादः॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-32-0 (62047)
धृतराष्ट्र उवाच। 9-32-0x (5146)
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः।
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः॥ 9-32-1 (62048)
न हि सन्तर्जना तेन श्रुतपूर्वा कथञ्चन।
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्॥ 9-32-2 (62049)
[यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा।
खेदायैवाभिमानित्वात्सहेत्सैवं कथं गरिः॥] 9-32-3 (62050)
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्।
प्रसादाद्भ्रियते यस्य प्रत्यक्षं तव सञ्जय॥ 9-32-4 (62051)
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः।
विहीनश्च स्वकैर्भृत्यैर्निर्जिते चावृतो भृशम्॥ 9-32-5 (62052)
स श्रुत्वा कटुका वाचो जययुक्ताः पुनःपुनः।
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय॥ 9-32-6 (62053)
सञ्जय उवाच। 9-32-7x (5147)
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः।
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह॥ 9-32-7 (62054)
श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः।
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनःपुनः॥ 9-32-8 (62055)
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनःपुनः।
मनश्चकार युद्धाय राजानं चाभ्यभाषत॥ 9-32-9 (62056)
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः।
अहमेकः परिद्यूनो विरथो हतवाहनः॥ 9-32-10 (62057)
आत्तशस्त्रै रथोपेतैर्बहुभिः परिवास्तिः।
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सह॥ 9-32-11 (62058)
एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर।
न ह्येको बहुभिर्वीरैर्न्याय्यो योधयितुं युधि॥ 9-32-12 (62059)
विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः।
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः॥ 9-32-13 (62060)
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात्।
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथवा पुनः॥ 9-32-14 (62061)
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः।
एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः॥ 9-32-15 (62062)
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप।
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम्॥ 9-32-16 (62063)
अहमुत्थाय सर्वान्वै प्रतियोत्स्यामि संयुगे।
अन्वभ्याशं गतान्सर्वान्निहनिष्यामि भारत॥ 9-32-17 (62064)
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन्।
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये॥ 9-32-18 (62065)
तेजसा नाशयिष्यामि स्थिरीभवत पाण़्डवाः।
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनां॥ 9-32-19 (62066)
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः।
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः॥ 9-32-20 (62067)
मद्रराजस्य शल्यस्य भूरिश्रवस एव च।
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च॥ 9-32-21 (62068)
मेत्राणां सुहृदां चैव बान्धवानां तथैव च।
प्रानृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह॥ 9-32-22 (62069)
सञ्जय उवाच। 9-32-23x (5148)
एतावदुक्त्वा वचनं विरराम जनाधिपः।
`सलिलान्तर्गतः श्रीमान्पुत्रो दुर्योधनस्तव॥' 9-32-23 (62070)
युधिष्ठिर उवाच। 9-32-24x (5149)
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन।
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज॥ 9-32-24 (62071)
दिष्ट्या शूरोऽसि गान्धारे दिष्ट्या जानासि सङ्गरम्।
यस्त्वमेको हि नः सर्वान्सङ्गरे योद्भुमिच्छसि॥ 9-32-25 (62072)
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम्।
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः॥ 9-32-26 (62073)
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम्।
हत्वैकं भव नो राजा हतो वा स्वर्गमाप्नुहि॥ 9-32-27 (62074)
दुर्योधन उवाच। 9-32-28x (5150)
एकश्चेद्योद्भुमाक्रन्दे वरोऽद्य मम दीयताम्।
आयुधानामियं चापि मता मे सतं गदा॥ 9-32-28 (62075)
भ्रातणां भवतामेकः शक्यं मां योऽभिमन्यते।
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह॥ 9-32-29 (62076)
वृत्तानि रथयुद्धानि विचित्रामि पदेपदे।
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत्॥ 9-32-30 (62077)
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः।
युद्धानामपि पर्यायो भवत्वनुमते तव॥ 9-32-31 (62078)
गदया त्वां महाबाहो विजेष्यामि सहानुजम्।
पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः।
न हि मे सम्भ्रामो जातु शक्रादपि युधिष्ठिर॥ 9-32-32 (62079)
युधिष्ठिर उवाच। 9-32-33x (5151)
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन।
एक एकेन सङ्गम्य संयुगे गदया बली॥ 9-32-33 (62080)
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः।
अद्य ते जीवितं नास्ति यदीन्द्रोपि तवाश्रयः॥ 9-32-34 (62081)
सञ्जय उवाच। 9-32-35x (5152)
एतत्स नरशार्दूलो नामृष्यत तवात्मजः।
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन्॥ 9-32-35 (62082)
तथाऽसौ वाक्प्रतोदेन तुद्यमानः पुनःपुनः।
वचो न ममृषे राजन्नुत्तमाश्वः कशामिव॥ 9-32-36 (62083)
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान्।
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम्।
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन्॥ 9-32-37 (62084)
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम्।
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिवानिव॥ 9-32-38 (62085)
ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम्।
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः॥ 9-32-39 (62086)
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्।
प्रजानामिव सङ्क्रुद्धं शूलपाणिमिव स्थितम्॥ 9-32-40 (62087)
*सगदो भारतो भाति प्रतपन्भास्करो यथा*॥ 9-32-41 (62088)
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम्।
मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम्॥ 9-32-42 (62089)
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम्।
ददृशुः शर्वपाञ्चालाः पुत्रं तव जनाधिप॥ 9-32-43 (62090)
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः।
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः॥ 9-32-44 (62091)
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव।
उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्॥ 9-32-45 (62092)
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः।
प्रत्युवाच ततस्तान्वै पाण्डवान्सह केशवान्॥ 9-32-46 (62093)
दुर्योधन उवाच। 9-32-47x (5153)
अस्यावहासस्य फलं प्रतिमोक्ष्यथ पाण्डवाः।
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम्॥ 9-32-47 (62094)
उत्थिन्तश्च जलात्तस्मात्पुत्रो दुर्योधनस्तव।
अतिष्ठत गदापाणी रुधिरेण समुक्षितः॥ 9-32-48 (62095)
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्।
शरीरं स्म तदा भाति स्रवन्निव महीधारः॥ 9-32-49 (62096)
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः।
वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम्॥ 9-32-50 (62097)
स मेघनिनदो हर्षान्नर्दन्निव च गोवृषः।
आजुहाव ततः पार्थान्गदया युधि वीर्यवान्॥ 9-32-51 (62098)
दुर्योधन उवाच। 9-32-52x (5154)
एकैकेन च मां यूयमासीदत युधिष्ठिर।
न ह्येको बहुभिर्न्याय्यो वीरो योधयितुं युधि॥ 9-32-52 (62099)
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः।
भृशं विक्षतगात्रश्च हतवाहनसैनिकः॥ 9-32-53 (62100)
[अवश्यमेव योद्वव्यं सर्वैरेव मया सह।
युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा]॥ 9-32-54 (62101)
युधिष्ठिर उवाच। 9-32-55x (5155)
मा भूदियं तव प्रज्ञा कथमेकं सुयोधन।
यदाऽभिमन्युं बहवो जघ्नुर्युधि महारथाः॥ 9-32-55 (62102)
[क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम्।
अन्यथा तु कथं हन्युरभिमन्युं तथागतम्॥ 9-32-56 (62103)
सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः।
न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा॥ 9-32-57 (62104)
यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु।
तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम्॥ 9-32-58 (62105)
सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम्।
पदस्थः पिहितं द्वारं परलोकस्य पश्यति॥] 9-32-59 (62106)
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च।
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत॥ 9-32-60 (62107)
इममेकं च ते कामं वीर भूयो ददाम्यहम्।
पञ्चानां पाण़्डवेयानां येन त्वं योद्धुमिच्छसि॥ 9-32-61 (62108)
तं हत्वा वै भवाराजा हतो वा स्वर्गमाप्नुहि।
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम्॥ 9-32-62 (62109)
सञ्जय उवाच। 9-32-63x (5156)
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम्।
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्॥ 9-32-63 (62110)
सोऽवबद्वशिरस्त्राणः शुभकाञ्चनवर्मभृत्।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव॥ 9-32-64 (62111)
सन्नद्धः सगतो राजन्सज्जः सङ्ग्राममूर्धनि।
अब्रवीत्पाण़्डवान्सर्वान्पुत्रो दुर्योधनस्तव॥ 9-32-65 (62112)
भ्रातॄणां भवतामेको युध्यतां गदया मया।
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा॥ 9-32-66 (62113)
अथवा फल्गुनेनाद्य त्वया वा भरतर्षभ।
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे॥ 9-32-67 (62114)
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्।
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया॥ 9-32-68 (62115)
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तये।
गदया वो हनिष्यामि सर्वानेव समागतान्॥ 9-32-69 (62116)
न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन।
न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः।
अथवा सफलं ह्येतत्करिष्ये भवतां पुरः॥ 9-32-70 (62117)
अस्मिन्महूर्ते सत्यं वा मिथ्या वै तद्भविष्यति।]
गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह॥ ॥ 9-32-71 (62118)
इति श्रीमन्महाभारते शल्यपर्वणि द्वात्रिंशोऽध्यायः॥ 32 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-32-3 आतपत्रेण दुर्योधनः सूर्याद्रक्षित इत्येष प्रवादोऽपि यस्य न स इति भावः॥ 9-32-10 परिद्यूनः परिश्रान्तः॥ 9-32-27 नः अस्माकं पञ्चानां मध्ये एकमपि हत्वा त्वं राजा भवेत्यन्वयः॥ 9-32-34 अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः इति क.ङ.पाठः॥ 9-32-56 क्षत्रधर्मं अस्तीति शेषः। धर्मोऽस्त्री पुण्यआचारे इति मेदिनी॥ 9-32-32 द्वात्रिंशोऽध्यायः॥शल्यपर्व - अध्याय 033
॥ श्रीः ॥
9.33. अध्यायः 033
Mahabharata - Shalya Parva - Chapter Topics
युधिष्ठिरेण दुर्योधनम्प्रति स्वेष्वन्यतमपराजयेनापि तस्य राज्यप्राप्तिवचने कृष्णेन तम्प्रति सकोपं भीमेनापि दुर्योधनप राजये स्वस्य संशयोक्तिः॥ 1 ॥ भीमेन कृष्णम्प्रति स्वसामर्थ्यप्रकथनपूर्वकं स्वेन दुर्योधनवधस्य सुकरत्वे कथिते कृष्णादिभिस्तत्प्रशंसनम्॥ 2 ॥ भीमदुर्योधनयोर्वीरवादपुर्वकं युद्धोद्यमः॥ 3 ॥Mahabharata - Shalya Parva - Chapter Text
9-33-0 (62119)
सञ्जय उवाच। 9-33-0x (5157)
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः।
युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम्॥ 9-33-1 (62120)
यदी नाम ह्ययं यूद्धे वरयेत्त्वां युधिष्ठिर।
अर्जुनं नकुलं चैव सहदेवमथापि वा॥ 9-33-2 (62121)
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम्।
एकमेव निहत्याजौ भव राजा कुरुष्विति॥ 9-33-3 (62122)
एतेन हि कृता योग्या वर्षाणीह त्रयोदश।
आयसे पुरुषे राजन्भीमसेनजिघांसया॥ 9-33-4 (62123)
कथं नाम भवेत्कार्यमस्माद्वि भरतर्षभ।
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम॥ 9-33-5 (62124)
नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे।
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः॥ 9-33-6 (62125)
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा।
विषमं शकुनेश्चैव तव चैव विशेषतः॥ 9-33-7 (62126)
बली भीमः समर्थश्च कृती राजा सुयोधनः।
बलवान्वा कृती वेति कृती राजन्विशिष्यते॥ 9-33-8 (62127)
सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः।
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम्॥ 9-33-9 (62128)
कोऽनु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा।
[कृच्छ्रप्राप्तेन च तथा हारयेद्राज्यमागतम्।]
पातितश्चैकबाणेन शोचयेदेवमाहवे॥ 9-33-10 (62129)
न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे।
गदाहस्तं विजेतुं वै शक्तः स्यादमरोपि हि॥ 9-33-11 (62130)
फल्गुनो वा भवान्वाथ माद्रीपुत्रावथापि वा।
न समर्थानहं मन्ये गदाहस्तस्य संयुगे॥ 9-33-12 (62131)
न त्वं भीमो न नकुलः सहदेवोऽथ फल्गुनः।
जेतुं न्यायेन शक्तो वै कृती राजा सुयोधनः॥ 9-33-13 (62132)
स कथं वदसे शत्रुं युध्यस्व गदयेति हि।
एकं च नो निहत्याजौ भव राजेति भारत॥ 9-33-14 (62133)
वृकोदरं समासाद्य संशयो वै जये हि नः।
न्यायतो युध्यमानानां कृती ह्येष महाबलः॥ 9-33-15 (62134)
[नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च सन्ततिः।
अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः॥] 9-33-16 (62135)
भीमसेन उवाच। 9-33-17x (5158)
मधुसूदन माकार्षीविषादं यदुनन्दन।
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम्॥ 9-33-17 (62136)
अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः।
विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते॥ 9-33-18 (62137)
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम।
न तथा धार्तराष्ट्रस्य माकार्षीर्माधव व्यथाम्॥ 9-33-19 (62138)
अनया गदयानाहं संयुगे योद्धुमुत्सहे।
भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन॥ 9-33-20 (62139)
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि।
योधयेयं रणे कृष्ण किमुताद्य सुयोधनम्॥ 9-33-21 (62140)
सञ्जय उवाच। 9-33-22x (5159)
तथा सम्भाषमाणं तु वासुदेवो वृकोदरम्।
हृष्टः सम्पूजयामास वचनं चेदमब्रवीत्॥ 9-33-22 (62141)
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः।
निहतारिः स्वकां दीप्तां श्रियं प्राप्नोत्यसंशयम्॥ 9-33-23 (62142)
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे।
राजानो राजपुत्राश्च नागाश्च विनिपातिताः॥ 9-33-24 (62143)
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा।
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन॥ 9-33-25 (62144)
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम्।
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः॥ 9-33-26 (62145)
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति।
त्वमस्य सक्थिनी भंक्त्वा प्रतिज्ञां पालयिष्यसि॥ 9-33-27 (62146)
यत्नेन ह त्वया पापो योद्धव्यो धृतराष्ट्रजः।
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा॥ 9-33-28 (62147)
ततस्तु सात्यकी राजन्पूजयामास पाण्डवम्।
विविधाभिश्च तं वाग्भिर्भिमसेनं जनेश्वर॥ 9-33-29 (62148)
पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः।
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन्॥ 9-33-30 (62149)
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत्।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम्॥ 9-33-31 (62150)
अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे।
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः॥ 9-33-32 (62151)
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम्।
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः॥ 9-33-33 (62152)
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्।
निहते गदया पापे अद्य राजन्सुखी भव॥ 9-33-34 (62153)
अद्य कीर्तिमयीं मालां प्रितमोक्ष्ये तवानघ।
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः॥ 9-33-35 (62154)
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम्।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्॥ 9-33-36 (62155)
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान्।
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्॥ 9-33-37 (62156)
[तदाह्वानममृष्यन्वै तव पुत्रोऽतिवीर्यवान्।
प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम्॥ 9-33-38 (62157)
गदाहस्तं तव सुतं युद्धाय समुपस्थितम्।
ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम्]॥ 9-33-39 (62158)
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम्।
वियूथमिव मातङ्गं समहृष्यन्त पाण्डवाः॥ 9-33-40 (62159)
[न सम्भ्रमो न च भयं न च ग्लानिर्न च व्यथा।
आसीद्दुर्योधनस्यापि स्थितः सिंह इवाहवे]॥ 9-33-41 (62160)
समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गियाम्।
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत्॥ 9-33-42 (62161)
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम्।
स्मर तद्दुष्कृतं कर्मं यद्भूतं वारणावते। 9-33-43 (62162)
द्रौपदी च परामृष्टा समामध्ये रजस्वला।
द्यूते च वञ्चितो राजा शकूनेर्बुद्धिलाघवात्॥ 9-33-44 (62163)
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि।
अनागासु च पार्थेषु तस्य पश्य महत्फलम्॥ 9-33-45 (62164)
त्वत्कृते निहतः शेते शरतल्पे महायशाः।
याङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः॥ 9-33-46 (62165)
हतो द्रोणश्च कर्णश्च इतः शल्यः प्रतापवान्।
वैराग्नेरादिकर्ता च शकुनिर्निहतो रणे॥ 9-33-47 (62166)
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः।
राजानश्च हताः शूराः समरेष्वनिवर्तिनः॥ 9-33-48 (62167)
एते चान्ये च निहता बहवः क्षत्रियर्षभाः।
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः॥ 9-33-49 (62168)
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः।
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः॥ 9-33-50 (62169)
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप।
राज्याशां विपुलां चापि पाण्डवेषु च दुष्कृतम्॥ 9-33-51 (62170)
दुर्योधन उवाच। 9-33-52x (5160)
किं कत्थितेन बहुना युध्यस्वाद्य मया सह।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर॥ 9-33-52 (62171)
किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम्।
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम्॥ 9-33-53 (62172)
गदिनं कोऽद्य मां पाप हन्तुमुत्सहते रिपुः।
न्यायतो युध्यमानश्च देवेष्वपि पुरन्दरः॥ 9-33-54 (62173)
मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम्।
दर्शयस्व बलं युद्धे यावन्नासून्निहन्मि ते॥ 9-33-55 (62174)
तस्य तद्वचनं श्रुत्वा पाण्डवाः सहसृञ्जयाः।
सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः॥ 9-33-56 (62175)
उन्मत्तमिव मातङ्गं तलशब्देन मानवाः।
भूयः संहर्षयामासू राजन्दुर्योधनं द्विषः॥ 9-33-57 (62176)
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत्।
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम्॥ ॥ 9-33-58 (62177)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-33-4 योग्या अभ्यासः। योग्यः प्रवीणेत्याद्युपक्रम्य स्त्र्यभ्यासार्कयोषितोरिति मेदिनी॥ 9-33-7 शकुनेश्च तव च यथापुरा तथैवेदमिति सम्बन्धः॥ 9-33-10 पणित्वा चैकपाणेन रोचयेदेव माहवम् इति झ.पाठः॥ 9-33-33 त्रयस्त्रिंशोऽध्यायः॥शल्यपर्व - अध्याय 034
॥ श्रीः ॥
9.34. अध्यायः 034
Mahabharata - Shalya Parva - Chapter Topics
xxxxxxxxxx॥ 1 ॥ तस्मिन्पाण्ढवादिभिरर्चितोपविष्टे पुनर्गदायुद्धारम्भः॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-16-0 (62178)
सञ्जय उवाच। 9-16-0x (5161)
xxxxxxxxxxxसुसंवृत्ते सुदारुणे।
xxxxxxxxxxx पाण्डवेषु महात्मसु॥ 9-16-1 (62179)
ततस्तालध्वजके रामस्तयोर्युद्ध उपस्थिते।
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः॥ 9-16-2 (62180)
तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः।
उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन्॥ 9-16-3 (62181)
पूजयित्वा ततः पश्चादिदं वचनमब्रुवन्।
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव॥ 9-16-4 (62182)
अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम्।
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम्॥ 9-16-5 (62183)
राम उवाच। 9-16-6x (5162)
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै।
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः।
शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव॥ 9-16-6 (62184)
ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम्।
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम्॥ 9-16-7 (62185)
कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम्।
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ॥ 9-16-8 (62186)
माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः।
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम्॥ 9-16-9 (62187)
भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप।
तथैव चोद्यतगदौ पूजयामासतुर्बलम्॥ 9-16-10 (62188)
स्वागतेन च ते तत्र प्रतिपूज्य पुनःपुनः।
पश्य युद्धं महाबाहो इति ते राममब्रुवन्॥ 9-16-11 (62189)
एवमुचुर्महात्मानं रौहिणेयं नराधिपाः॥ 9-16-12 (62190)
परिष्वज्य तदा रामः पाण्डवान्सह सृञ्जयान्।
अपृच्छत्कुशलं सर्वान्पार्थिवांश्चामितौजसः।
तथैव ते समासाद्य पप्रच्छुस्तमनामयम्॥ 9-16-13 (62191)
प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महात्मनः।
कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः॥ 9-16-14 (62192)
जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे।
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत॥ 9-16-15 (62193)
तौ च तं विधिवद्राजन्पूजयामासतुर्गुरुम्।
ब्रह्माणामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ॥ 9-16-16 (62194)
ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम्।
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत॥ 9-16-17 (62195)
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः।
न्यविशत्परमप्रीतः पूज्यमानो महारथैः॥ 9-16-18 (62196)
स बभौ राजमध्यस्थो नीलवासाः सितप्रभः।
दिवीव नक्षत्रगणैः परिवीतो निशाकरः॥ 9-16-19 (62197)
ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः।
आसीदन्तकरो राजन्वैरस्यान्तं विधित्सतोः॥ ॥ 9-16-20 (62198)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवशपर्वणि अष्टादशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः॥ 34 ॥
शल्यपर्व - अध्याय 035
॥ श्रीः ॥
9.35. अध्यायः 035
Mahabharata - Shalya Parva - Chapter Topics
जनमेजयेन वैशम्पायनम्प्रति बलरामस्य तीर्थयात्राप्रकारप्रश्नः॥ 1 ॥ तेन तम्प्रति तत्कथनमुपक्रम्य प्रभासतीर्थस्य तत्पदवाच्यत्वे हेतुकथनम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-35-0 (62199)
जनमेजय उवाच। 9-35-0x (5163)
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते।
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः॥ 9-35-1 (62200)
साहाय्यं धार्तराष्ट्रस्य न च कर्ताऽस्मि केशव।
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्॥ 9-35-2 (62201)
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः।
तस्य चागमनं भूयो ब्रह्मञ्शं सितुमर्हसि॥ 9-35-3 (62202)
आख्याहि मे विस्तरशः कथं राम उपस्थितः।
कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम॥ 9-35-4 (62203)
वैशम्पायन उवाच। 9-35-5x (5164)
उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु।
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः॥ 9-35-5 (62204)
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्॥
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च। 9-35-6 (62205)
उक्तवान्वचनं पथ्यं हितं चैव विशेषतः॥ 9-35-7 (62206)
न च तत्कृतवान्राजा यथाऽख्यातं हि तत्पुरा॥ 9-35-8 (62207)
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः।
आगच्छत महाबाहुरुपप्लाव्यं जनाधिप॥ 9-35-9 (62208)
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः।
आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम्।
यथोक्तं च यथावृत्तं गत्वा पाण्डवमब्रवीत्॥ 9-35-10 (62209)
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः।
निर्गच्छध्व पाण्डवेयाः पुष्येण सहिता मया॥ 9-35-11 (62210)
ततो विभज्यमानेषु बलेषु बलिनां वरः।
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः॥ 9-35-12 (62211)
तेषामपि महाबाहो साहाय्यं मधुसूदन।
क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा॥ 9-35-13 (62212)
ततो मन्युपरीतात्मा जगाम यदुनन्दनः।
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः।
मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः॥ 9-35-14 (62213)
आश्रयामास भोजस्तु दुर्योधनमरिन्दमः।
युयुधानेन सहितो वासुदेवस्तु पाण्डवान्॥ 9-35-15 (62214)
रौहिणेये गते शूरे पुष्येण मधुसूदनः।
पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कूरून्॥ 9-35-16 (62215)
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह।
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च॥ 9-35-17 (62216)
आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा।
सुवर्णरजनं चैव धैनूर्वासांसि वाजिनः॥ 9-35-18 (62217)
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च।
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्॥ 9-35-19 (62218)
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः।
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्॥ 9-35-20 (62219)
एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः।
तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा॥ 9-35-21 (62220)
सरस्वत्याः प्रतिस्रोतः समुद्रादभिजग्मिवान।
रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन्॥ 9-35-22 (62221)
ऋत्विग्भिश्च सुहृद्भिश्च यथाऽन्यैर्द्विजसत्तमैः।
रथैर्गजैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ।
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः॥ 9-35-23 (62222)
श्रान्तानां क्लान्तबपुषां शिशूनां विपुलायुषाम्।
देशेदेशे तु देयानि दानानि विविधानि च॥ 9-35-24 (62223)
अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा।
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत॥ 9-35-25 (62224)
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः॥ 9-35-26 (62225)
योयो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा।
तस्यतस्य तु तत्रैवमुपजह्रुस्तदा नृष॥ 9-35-27 (62226)
तत्रतत्र स्थिता राजन्रौहिणेयस्य शासनात्।
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः॥ 9-35-28 (62227)
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च।
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम्॥ 9-35-29 (62228)
यत्र यः स्वपते विप्रो यो वा जागर्ति भारत।
तत्रतत्रैव सर्वस्य क्लृप्तं सर्वमपश्यत॥ 9-35-30 (62229)
यथासुखं जनः सर्वो याति तिष्ठति वै तदा।
यातुकामस्य यानानि पानानि तृषितस्य च॥ 9-35-31 (62230)
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ।
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च॥ 9-35-32 (62231)
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः।
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्॥ 9-35-33 (62232)
नित्यप्रमुदितोपेतः स्वादुभक्ष्यो जलान्वितः।
विपण्यापणपण्यानं नानाजनशतैर्वृतः।
नानाद्रुमलतोपेतो नानारत्नविभूषितः॥ 9-35-34 (62233)
ततो महात्मा नियतो मनस्विनां
पुण्येषु तीर्थेषु वसूनि राजन्।
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च
यदुप्रवीरो हलभृत्प्रतीतः॥ 9-35-35 (62234)
दोग्ध्रीश्च धेनूश्च सहस्रशो वै
सुवाससः काञ्चनबद्धशृङ्गीः।
हयांश्च नानाविधदेशजातान्
यानानि दासांश्च शुभान्द्विजेभ्यः॥ 9-35-36 (62235)
रत्नानि मुक्तामणिविद्रुमं चा--
प्यग्र्यं सुवर्णं रजतं सुशुन्द्वम्।
अयस्मयं ताम्रमयं च भाण्डं
ददौ द्विजातिप्रवरेषु रामः॥ 9-35-37 (62236)
एवं स वित्तं प्रददौ महात्मा
सरस्वतीतीर्थगतेषु भूरि।
ययौ क्रमेणाप्रतिमप्रभाव--
स्ततः कुरुक्षेत्रमुदारवृत्तः॥ 9-35-38 (62237)
जनमेजय उवाच। 9-35-39x (5165)
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे।
फलं च द्विपदां श्रेष्ठ कर्म निर्वृत्तिमेव च॥ 9-35-39 (62238)
यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः।
ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे॥ 9-35-40 (62239)
वैशम्पायन उवाच। 9-35-41x (5166)
तीर्थानां च फलं राजन्गुणोत्पत्तिं चं सर्वशः।
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः॥ 9-35-41 (62240)
पूर्वं महाराज यदुप्रवीर
ऋत्विक्सुहृद्विप्रगणैश्च सार्धम्।
पुण्यं प्रभासं समुपाजगाम
यत्रोडुराढ्यक्ष्मणा क्षीयमाणः॥ 9-35-42 (62241)
विमुक्तशापः पुनराप्य तेजः
सर्वं जगद्भासयते नरेन्द्र।
एतत्तु तीर्थप्रवरं पृथिव्यां
प्रभासनात्तस्य ततः प्रभासः॥ ॥ 9-35-43 (62242)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टदशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः॥ 35 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-35-14 मैत्रनक्षत्रयोगे अनुराधायां॥ 9-35-15 भोजः कृतवर्मा॥ 9-35-16 पुष्येण हि पाण्डवेभ्यः प्रयाणं अनुराधातस्तीर्थयात्रार्थमिति विवेकः॥ 9-35-34 विपणिः पाण्यवीथिका। आपणा हट्टाः। पण्यानि विक्रेयद्रव्याणि॥ 9-35-35 कृतदक्षिणाश्चेति क.ङ.पाठः॥ 9-35-39 गुणान् रमणीयत्वादीन्। उत्पत्तिं सम्भवम्। कर्मनिर्वृत्तिं तीर्थयात्राविदिसिद्धम्। निवृत्तिमपि कर्मणाम् इति क.ङ.पाठः॥ 9-35-40 यथाकमेण तीर्थकमापेक्षया अनुपूर्वशः गुणोत्पत्त्यादिक्रमापेक्षया॥ 9-35-43 प्रभासः प्रभासत्वम्॥ 9-35-35 पञ्चत्रिंशोऽध्यायः॥शल्यपर्व - अध्याय 036
॥ श्रीः ॥
9.36. अध्यायः 036
Mahabharata - Shalya Parva - Chapter Topics
चन्द्रे स्वभार्यास्वश्विन्यादिदंक्षपुत्रीषु इतरोपेक्षणेन रोहिण्यामेवासक्ते दक्षेण रोषाच्चन्द्रे यक्ष्मप्रक्षेपः॥ 1 ॥ देवै प्रसादितदक्षवचनाच्चन्द्रेण प्रभासतीर्थनिमज्जनेन क्षयरोगपरिहरणम्॥ 2 ॥ बलभद्रेण तत्तीर्थे मज्जनादि॥ 3 ॥Mahabharata - Shalya Parva - Chapter Text
9-36-0 (62243)
जनमेजय उवाच। 9-36-0x (5167)
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत॥ 9-36-1 (62244)
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने॥ 9-36-2 (62245)
वैशम्पायन उवाच। 9-36-3x (5168)
दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते।
स सप्तविंशतिं कन्या दक्ष सोमाय वै ददौ॥ 9-36-3 (62246)
नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन्।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः॥ 9-36-4 (62247)
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन्।
अत्यरिच्यत तासां तु रोहिणी रुपसम्पदा॥ 9-36-5 (62248)
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः।
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा॥ 9-36-6 (62249)
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः।
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः॥ 9-36-7 (62250)
सोमो वसति नास्मासु रोहिणीं भजते सदा।
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर।
वत्स्यामो नियताहारास्तपश्चरणतत्पराः॥ 9-36-8 (62251)
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्।
समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत्॥ 9-36-9 (62252)
तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम्।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्॥ 9-36-10 (62253)
विसृष्टास्तास्तथा जग्मुः शीताशोर्भवनं शुभाः।
तथाऽपि सोमो भगवान्पुनरेव महीपते।
रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः॥ 9-36-11 (62254)
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन्॥ 9-36-12 (62255)
सोमो वसति नास्मासु नाकरोद्वचनं तव।
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके॥ 9-36-13 (62256)
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत्।
समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन॥ 9-36-14 (62257)
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी।
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः॥ 9-36-15 (62258)
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा।
सोमो वसति नास्मासु तस्मान्नः शरणं भव॥ 9-36-16 (62259)
रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति॥ 9-36-17 (62260)
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत्।
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते॥ 9-36-18 (62261)
ससर्ज रोषात्सोमाय स चोडुपतिमाविशत्।
स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी॥ 9-36-19 (62262)
यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः।
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः॥ 9-36-20 (62263)
न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति।
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे॥ 9-36-21 (62264)
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः।
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः॥ 9-36-22 (62265)
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे।
ततो देवाः समागम्य सोममूचुर्महीपते॥ 9-36-23 (62266)
किमिदं भवतो रूपमीदृशं सम्प्रकाशते।
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम्॥ 9-36-24 (62267)
श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम्।
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः॥ 9-36-25 (62268)
शापस्य कारमं चैव यक्ष्माणं च तथाऽऽत्मनः।
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन्॥ 9-36-26 (62269)
प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम्।
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते॥ 9-36-27 (62270)
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम्।
वीरुदोषधयश्चैव बीजानि विविधानि च।
तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि॥ 9-36-28 (62271)
एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः।
नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा॥ 9-36-29 (62272)
हेतुना तु महाभागा निवर्तिष्यति केनचित्।
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः॥ 9-36-30 (62273)
सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः।
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम॥ 9-36-31 (62274)
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति।
मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम॥ 9-36-32 (62275)
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति॥ 9-36-33 (62276)
सरस्वतीं ततः सोमः स जगामर्षिशासनात्।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह॥ 9-36-34 (62277)
अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः।
लोकान्प्रभासयामास शीतांशुत्वमवाप च॥ 9-36-35 (62278)
देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम्।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्॥ 9-36-36 (62279)
ततः प्रजापतिः सर्वा विससर्जाथ देवताः।
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत्॥ 9-36-37 (62280)
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम॥ 9-36-38 (62281)
स विसृष्टो महाराज जगामाथ स्वमालयम्।
प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा॥ 9-36-39 (62282)
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत्॥ 9-36-40 (62283)
अमावास्यां महाराज नित्यशः शशलक्षणः।
स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थउत्तमे॥ 9-36-41 (62284)
अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप।
प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः॥ 9-36-42 (62285)
`लोकान्प्रभासयामास पुपोष च वपुस्तथा।
तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः'॥ 9-36-43 (62286)
ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत॥ 9-36-44 (62287)
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः।
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा॥ 9-36-45 (62288)
उदपानमथागच्छत्त्वरावान्केशवाग्रजः।
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः॥ 9-36-46 (62289)
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय।
जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम्॥ ॥ 9-36-47 (62290)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे षट्त्रिंशोऽध्यायः॥ 36 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-36-9 त्वा त्वां अधर्मः मा स्मृशेत्॥ 9-36-14 विरोचन हे विशेषेण रोचमान। त्वां माशप्स्ये। तव रोचनां शापेन न हरामि तथा यतस्वेत्यर्थः॥ 9-36-38 गच्छयतः इति क.पाठः॥ 9-36-36 षटत्रिंशोऽध्यायः॥शल्यपर्व - अध्याय 037
॥ श्रीः ॥
9.37. अध्यायः 037
Mahabharata - Shalya Parva - Chapter Topics
एकतद्वितत्रितनामकानां विप्राणां कथा॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-37-0 (62291)
वैशम्पायन उवाच। 9-37-0x (5169)
तस्मान्नदीगतं चापि ह्युदपानं यशस्विनः।
त्रितस्य च महाराज जगामाथ हलायुधः॥ 9-37-1 (62292)
तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा द्विजान्।
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः॥ 9-37-2 (62293)
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः।
कूपे च वसता तेन सोमः पीतो महात्मना॥ 9-37-3 (62294)
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान्।
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः॥ 9-37-4 (62295)
जनमेजय उवाच। 9-37-5x (5170)
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः।
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम॥ 9-37-5 (62296)
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान्।
कथं च याजयामास पपौ सोमं च वै कथम्।
एतदाचक्ष्व मे ब्रह्मन्श्रोतव्यं यदि मन्यसे॥ 9-37-6 (62297)
वैशम्पायन उवाच। 9-37-7x (5171)
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः॥ 9-37-7 (62298)
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च।
ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः॥ 9-37-8 (62299)
तेषां तु तपसा प्रीतो नियमेन दमेन च।
अभवद्गौतमो नित्यं पिता धर्मरतः सदा॥ 9-37-9 (62300)
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च।
जगाम भगवान्स्थानमनुरूपमिवात्मनः॥ 9-37-10 (62301)
राजानस्तस्य ये ह्यासन्याज्या राजन्महात्मनः।
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन्॥ 9-37-11 (62302)
तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च।
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा॥ 9-37-12 (62303)
तथा सर्वे महाभागा मुनयः पुण्यलक्षणाः।
अपूजयन्महाभागं यथास्य पितरं तथा॥ 9-37-13 (62304)
कदाचिद्वि ततो राजन्भ्रातरावेकतद्वितौ।
यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च॥ 9-37-14 (62305)
तयोर्बुद्धिः समभवत्त्रितं गृह्य परन्तप।
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः।
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्॥ 9-37-15 (62306)
चक्रुश्चैवं तथा राजन्भ्रातरस्त्रय एव च।
यथा ते तु परिक्रम्य याज्यान्सर्वान्पशून्प्रति।
याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून्पशून्॥ 9-37-16 (62307)
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः।
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः॥ 9-37-17 (62308)
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत्।
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून्॥ 9-37-18 (62309)
तयोश्चिन्ता समभवदेकतस्य द्वितस्य च।
कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम्॥ 9-37-19 (62310)
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह।
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर॥ 9-37-20 (62311)
त्रितो यज्ञेषु कुशलस्तथा वेदेषु निष्ठितः।
ततस्त्रितो बहुतरं गावः समुपलप्स्यते॥ 9-37-21 (62312)
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे।
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृताः॥ 9-37-22 (62313)
वैशम्पायन उवाच। 9-37-23x (5172)
तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत्।
तत्र कूपो विदूरेऽभूत्सरस्वत्यास्तटे महान्॥ 9-37-23 (62314)
अथं त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः।
तद्भ्यादपसर्पन्वै तस्मिन्कूपे पपात ह।
अगाधे सुमहाघोरे सर्वभूतभयङ्करे॥ 9-37-24 (62315)
त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः।
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी॥ 9-37-25 (62316)
त ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ।
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः॥ 9-37-26 (62317)
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः।
उदपाने तदा राजन्निर्जले पांसुपंवृते॥ 9-37-27 (62318)
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते।
निमग्नं भरतश्रेष्ठ नरके दुष्कृती यथा॥ 9-37-28 (62319)
ततो ह्यचिन्तयत्प्राज्ञो मृतभूतो ह्यसोमपः।
सोमः कथं तु पातव्य इहस्थेन मया भवेत्॥ 9-37-29 (62320)
स एवमभिसञ्चिन्त्य तस्मिन्कूपे महातपाः।
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया॥ 9-37-30 (62321)
पांसुग्रस्ते ततः कूपे न्यखनत्सलिलं मुनिः।
अग्नीन्सङ्कल्पयामास होतॄनात्मानमेव च॥ 9-37-31 (62322)
ततस्तां वीरुधं सोमं सङ्कल्प सुमहातपाः।
ऋचो जयूंषि सामानि मनसा चिन्तयन्मुनिः॥ 9-37-32 (62323)
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप।
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम्॥ 9-37-33 (62324)
सोमस्याभिषवस्याग्रे प्रवृत्तस्तुमुलो ध्वनिः।
स चाविशद्दिवं राजन्स्वरश्चैव त्रितस्त वै॥ 9-37-34 (62325)
समवाप च तं यज्ञां यथोक्तं ब्रह्मवादिभिः॥ 9-37-35 (62326)
वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः।
आविग्नं त्रिदिवं सर्वं कारमं च न बुध्यते॥ 9-37-36 (62327)
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः।
श्रुत्वा चैवाब्रवीत्सर्वान्देवान्देवपुरोहितः॥ 9-37-37 (62328)
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः।
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः॥ 9-37-38 (62329)
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः।
प्रययुस्तत्र यत्रास्ते त्रितयज्ञश्च वर्तते॥ 9-37-39 (62330)
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः।
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु॥ 9-37-40 (62331)
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम्।
ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम्॥ 9-37-41 (62332)
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः।
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम्॥ 9-37-42 (62333)
ततस्त्रितो महाराज भागांस्तेषां यथाविधि।
मन्त्रयुक्तान्समददात्तेन प्रीतास्तदाऽभवन्॥ 9-37-43 (62334)
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः।
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति॥ 9-37-44 (62335)
स तु वव्रे लवरं देवांस्त्रातुमर्हथ मामितः।
यश्चाम्भोपस्पृशेत्कूपे स सोमपगतिं लभेत्॥ 9-37-45 (62336)
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती।
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः॥ 9-37-46 (62337)
तथेति चोक्त्वा विबुधा जग्मू राजन्यथाऽऽगताः।
त्रितश्चाभ्यागमत्प्रीतः स्वमेव निलयं तदा॥ 9-37-47 (62338)
क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा।
उवाच परुषं वाक्यं शशाप च महातपाः॥ 9-37-48 (62339)
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ।
तस्माद्वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ॥ 9-37-49 (62340)
भवितारौ मया शप्तौ पापेनानेन कर्मणा।
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः॥ 9-37-50 (62341)
इत्युक्तेन तदा तेन क्षणादेव विशाम्पते।
तथाभूतावदृश्येतां वचनात्सत्यवादिनः॥ 9-37-51 (62342)
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः।
दत्त्वाच विविधान्देयान्पूजयित्वा च वै द्विजान्॥ 9-37-52 (62343)
उदपानं च तं वीक्ष्य प्रशस्य च पुनःपुनः।
नदीगतमदीनात्मा प्राप्तो विनशनं तदा॥ ॥ 9-37-53 (62344)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि सप्तत्रिंशोऽध्यायः॥ 37 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-37-6 याजयामास स्वार्थे णिच् यागं कृतवान्॥ 9-37-8 सर्वे प्रजापतिसुताः प्रजापतय एव च इति क.पाठः॥ 9-37-16 पशून्प्रतिपश्वर्थम्। दक्षिणार्था गाः प्राप्तुमित्यर्थः॥ 9-37-18 त्रितश्चाकालयन्पशून् इति क.पाठः॥ 9-37-23 पथिस्थाने वृकोऽभवदिति क.ङ.पाठः॥ 9-37-45 यश्चेहोपस्पृशेदिति झ.पाठः॥ 9-37-37 सप्तत्रिंशोऽध्यायः॥शल्यपर्व - अध्याय 038
॥ श्रीः ॥
9.38. अध्यायः 038
Mahabharata - Shalya Parva - Chapter Topics
बलभद्रस्य सरस्वतीतीरस्थानानातीर्थयात्राप्रकारवर्णनम्॥ 1 ॥ तत्तत्तीर्थमहिमानुवर्णनं च॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-38-0 (62345)
वैशम्पायन उवाच। 9-38-0x (5173)
ततो विनशनं राजन्नाजगाम हलायुधः।
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती।
तस्मात्तामृषयो नित्यं प्राहुर्विनशनेति च॥ 9-38-1 (62346)
तत्राप्युपस्पृश्य बलः सरस्वत्यां महाबलः।
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे॥ 9-38-2 (62347)
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः।
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः॥ 9-38-3 (62348)
तत्र देवाः सगन्धर्वा मासिमासि जनेश्वर।
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम्॥ 9-38-4 (62349)
तत्र नृत्यन्ति गन्धर्वास्तथैवाप्सरसां गणाः।
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम्॥ 9-38-5 (62350)
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः।
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः॥ 9-38-6 (62351)
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा।
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे॥ 9-38-7 (62352)
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः।
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम्॥ 9-38-8 (62353)
शय्याश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम्।
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः॥ 9-38-9 (62354)
विश्वावसुमुखास्तत्र गन्धर्वाप्सरसां गणाः।
नृत्तवादित्रगीतं च कुर्न्वति सुमनोरमम्॥ 9-38-10 (62355)
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु।
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा॥ 9-38-11 (62356)
भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः।
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः॥ 9-38-12 (62357)
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः।
गर्गस्रोतो महातीर्थमाजगामैककुण्डली॥ 9-38-13 (62358)
तत्र गर्गेण वृद्धेन तपसा भावितात्मना।
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः॥ 9-38-14 (62359)
उत्पाता दारुणाश्चैक शुभाश्च जनमेजय।
सरस्वत्याः शुभे तीर्थे विदिता वै महात्मना॥ 9-38-15 (62360)
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम्॥ 9-38-16 (62361)
तत्र गर्गं महाभागमृषयः सुव्रता नृप।
उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो॥ 9-38-17 (62362)
तत्र गत्वा महाराज बलः श्वेतानुलेपनः।
विधिवद्वि धनं दत्त्वा मुनीनां भावितात्मनाम्॥ 9-38-18 (62363)
उच्चावचांस्तथा भक्ष्यान्विप्रेभ्यो विप्रदाय सः।
नीलवासास्तदाऽगच्छच्छङ्घतीर्थं महायशाः॥ 9-38-19 (62364)
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम्।
श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम्।
सरस्वत्यास्तटे जातं नगं तालध्वजो बली॥ 9-38-20 (62365)
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः।
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः॥ 9-38-21 (62366)
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः।
व्रतैश्च नियमैश्चैव कालेकाले स्म भुञ्जते॥ 9-38-22 (62367)
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक्।
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ॥ 9-38-23 (62368)
एवं ख्यातो नरव्याघ्र लोकेऽस्मिन्स वनस्पतिः।
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम्॥ 9-38-24 (62369)
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः।
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च॥ 9-38-25 (62370)
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः।
पुण्यं नैसर्गिकं राजन्नाजगाम हलायुधः॥ 9-38-26 (62371)
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः।
आप्लुत्य सलिले चापि पूजयामास वै द्विजान्॥ 9-38-27 (62372)
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान्।
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम्॥ 9-38-28 (62373)
गत्वा चैवं महाबाहुर्नातिदूरे महायशाः।
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः॥ 9-38-29 (62374)
यत्र पन्नगराजस्य वासुकेः सन्निवेशनम्।
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम्॥ 9-38-30 (62375)
ऋषिणां हि सहस्राणि तत्र नित्यं चतुर्दश।
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्।
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि॥ 9-38-31 (62376)
पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव॥ 9-38-32 (62377)
तत्रापि विधिवद्दत्वा विप्रेभ्यो रत्नसञ्चयान्।
प्रायात्प्राचीं दिशं राजंस्तत्र तीर्थान्यनेकशः॥ 9-38-33 (62378)
सहस्रशतसङ्ख्यानि प्रथितानि पदेपदे।
आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः॥ 9-38-34 (62379)
दत्त्वा वसु द्विजाग्र्येभ्यो निर्जगाम महाबलः।
तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः॥ 9-38-35 (62380)
ततो रामोऽगमत्तीर्थमृषिभिः सेक्तिं महत्।
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती॥ 9-38-36 (62381)
ऋषीणां नैमिषेयाणावमेक्षार्थं महात्मनाम्।
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली।
वभूव विस्मितो राजन्बलः श्वेतानुलेपनः॥ 9-38-37 (62382)
जनमेजय उवाच। 9-38-38x (5174)
कस्मात्सरस्वती ब्रह्मन्निवृत्ता कप्राङ्मुखी भवत्।
व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम॥ 9-38-38 (62383)
कस्मिंश्चित्कारणे तत्र विस्मितो यदुनन्दनः।
निवृत्ता हेतुना केन कथमेव सरिद्वरा॥ 9-38-39 (62384)
वैशम्पायन उवाच। 9-38-40x (5175)
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः।
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके॥ 9-38-40 (62385)
ऋषयो बहवो राजंस्तत्सत्रमभिपेदिरे।
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि॥ 9-38-41 (62386)
निवृत्ते नैमिषे ये वै सत्रे द्वादशवार्षिके।
आजग्मुर्ऋषयस्तत्र बहवस्तीर्थकारणात्॥ 9-38-42 (62387)
ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते।
तीर्थानि नगरायन्ते कूले वै दक्षिणोत्तरे॥ 9-38-43 (62388)
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः।
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः॥ 9-38-44 (62389)
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम्।
स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः॥ 9-38-45 (62390)
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम्।
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः॥ 9-38-46 (62391)
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः।
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथा परे॥ 9-38-47 (62392)
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः।
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः॥ 9-38-48 (62393)
आसन्वै मुनयस्तवत्र सरस्वत्याः समीपतः।
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः॥ 9-38-49 (62394)
शतशश्च समापेतुर्ऋषयः सत्रयाजिनः।
तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः।
तेऽवकाशं च ददृशुः कुरुक्षेत्रं (त्रे) महाव्रताः॥ 9-38-50 (62395)
ततो यज्ञोपवीतैः स्वैस्तत्र कृत्वा सरस्वतीम्।
जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः॥ 9-38-51 (62396)
ततस्तमृपिसङ्घातं निराशं चिन्तयान्वितम्।
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती॥ 9-38-52 (62397)
ततः कुञ्जान्बहून्कृत्वा सन्निवृत्ता सरस्वती।
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय॥ 9-38-53 (62398)
ततो निवृत्त्य राजेन्द्र तेषामर्थे सरस्वती।
भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा॥ 9-38-54 (62399)
अमोघा गमनं कृत्वा तेषां भूयो जगाम ह।
अत्यद्भुतं महच्चक्रे तदा राजन्महानदी॥ 9-38-55 (62400)
एवं स कुञ्जो राजन्वै नैमिषीय इति स्मृतः।
कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम्॥ 9-38-56 (62401)
तत्र कुञ्जान्बहून्दृष्ट्वा निवृत्तां च सरस्वतीम्।
बभूव विस्मयस्तत्र रामस्याथ महात्मनः॥ 9-38-57 (62402)
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः।
दत्त्वा देयान्द्विजातिभ्यो भाण्डानि विविधानि च॥ 9-38-58 (62403)
भक्ष्यं भोज्यं कच विविधं ब्राह्मणेभ्यः प्रदाय च।
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः॥ 9-38-59 (62404)
सरस्वतीतीर्थवरं नानाद्विजगणायुतम्।
बदरेङ्गुदश्यामाकाप्लुक्षाश्वत्थबिभीतकैः॥ 9-38-60 (62405)
कङ्कोलैश्च पलाश्चैश्च करीरैः पीलुभिस्तथा।
सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा॥ 9-38-61 (62406)
करुषकवरैश्चैव बिल्वैराम्रातकैस्तथा।
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम्॥ 9-38-62 (62407)
कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम्।
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि॥ 9-38-63 (62408)
तथाऽश्मकुट्टैर्वातेयैर्मुनिभिर्बहुभिर्वृतम्।
स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम्॥ 9-38-64 (62409)
अहिंस्रैर्धर्मपरमैर्नृभिरत्यर्थरोवितम्।
सप्तसारस्वतं तीर्थमाजगाम हलायुधः।
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः॥ ॥ 9-38-65 (62410)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टविंशोऽध्यायः॥ 38 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-38-1 शूद्राभीरान्द्विष्टमाना---इति क.पाठः॥ 9-38-3 शुभ्राः शुचयः॥ 9-38-9 छायाश्च विपुला इति ङ.पाठः॥ 9-38-10 गन्धर्वाप्सरसान्विंताः इति ङ.पाठः॥ 9-38-17 कालज्ञानार्थम्॥ 9-38-20 शङ्खं शङ्खनामानम्। नगं वृक्षम्॥ 9-38-26 पुण्यं द्रैतवनं इति झ.पाठः॥ 9-38-37 अवेक्षार्यमिष्टसिद्ध्यर्थम्॥ 9-38-38 इच्छामि श्रोतुमिति शेषः॥ 9-38-51 यज्ञोपवीतैः यज्ञसूत्रैः निराशं सरस्वतीजललाभे इत्यर्थः॥ 9-38-53 कुज्जान् आत्मनो वासस्थानानि तिर्थविशेषानित्यर्थः॥ 9-38-38 अष्टत्रिंशोऽध्यायः॥शल्यपर्व - अध्याय 039
॥ श्रीः ॥
9.39. अध्यायः 039
Mahabharata - Shalya Parva - Chapter Topics
सरस्वत्याः सप्तधाविभागे कारणाभिधानम्॥ 1 ॥ सप्तभागानां कस्मिंश्चित्तीर्थे एकीभवनात्तत्तीर्थस्य सप्तसारस्वतनामप्राप्तिः॥ 2 ॥ मङ्कणमुनिचरितप्रतिपादनम्॥ 3 ॥Mahabharata - Shalya Parva - Chapter Text
9-39-0 (62411)
जनमेजय उवाच। 9-39-0x (5176)
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः।
कथं सिद्धः स भगवान्कश्चास्य नियमोऽभवत्॥ 9-39-1 (62412)
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम।
एतन्मे सर्वमाचक्ष्व यथातत्त्वं महामुने॥ 9-39-2 (62413)
वैशम्पायन उवाच। 9-39-3x (5177)
सप्तनद्यः सरस्वत्या याभिर्व्याप्तमिदं जगत्।
आहूता बलवद्भिर्हि तत्रतत्र सरस्वती॥ 9-39-3 (62414)
सुप्रभा काञ्चनाक्षी च विशाला च मनोरमा।
सरस्वती चौघवती सुरेणुर्विमलोदका॥ 9-39-4 (62415)
पितामहस्य महतो वर्तमाने महामखे।
वितते यज्ञवाटे च संसिद्धेषु द्विजातिषु॥ 9-39-5 (62416)
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा।
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा॥ 9-39-6 (62417)
तत्र चैव महाराज दीक्षिते प्रपितामहे।
यजतस्तस्य सत्रेण सर्वकामसमृद्विना॥ 9-39-7 (62418)
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा।
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्रतत्र ह॥ 9-39-8 (62419)
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः।
वादित्राणि च दिव्यानि वादयामासुरञ्जसा॥ 9-39-9 (62420)
तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवतागणाः।
विस्मयं परमं जग्मुः किमु मानुषयोनयः॥ 9-39-10 (62421)
वर्तमाने यथा यज्ञे पुष्करस्थे पितामहे।
अब्रुवन्नृषयो राजन्नायं यज्ञो महागुणः॥ 9-39-11 (62422)
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती।
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम्॥ 9-39-12 (62423)
पितामहेन यजता आहूता पुष्करेषु वै।
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती॥ 9-39-13 (62424)
तां दृष्ट्वा मुनयस्तुष्टास्त्वरायुक्तां सरस्वतीम्।
पितामहं मानयन्तीं क्रतुं ते बहुमेनिरे॥ 9-39-14 (62425)
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती।
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम्॥ 9-39-15 (62426)
नैमिषे मुनयो राजन्समागम्य समासते।
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर॥ 9-39-16 (62427)
यत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः।
ते समागम्य मुनयः सस्मारुर्वै सरस्वतीम्॥ 9-39-17 (62428)
सा तु ध्याता महाराज मुनिभिः सत्रयाजिभिः।
समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम्।
आजगाम महाभागा तत्र पुण्या सरस्वती॥ 9-39-18 (62429)
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रायाजिxxxम्।
आगता सरितां श्रेष्ठा तत्र भारत पूजित॥ 9-39-19 (62430)
गयस्य यजमानस्य गयेष्वेव महाक्रतुम्।
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती॥ 9-39-20 (62431)
गयस्य यजमानस्य गयेष्वेव महाक्रतुम्।
विशालां तु गयस्याहुर्ऋषयः संशितव्रता॥ 9-39-21 (62432)
सरित्सा हिमवत्पार्श्वात्प्रस्रुता शीघ्रगामिनी।
औद्दालकेस्तथा यज्ञे यजतस्तस्य भारत॥ 9-39-22 (62433)
समेते सर्वतः स्फीते मुनीनां मण्डले तदा।
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः॥ 9-39-23 (62434)
औद्दालकेन यजता पूर्वं ध्याता सरस्वती।
आजगाम सरिच्छेष्ठा तं देशं मुनिकारणात्॥ 9-39-24 (62435)
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः।
मनोहरेति विख्याता सा हि तैर्मनसा वृता॥ 9-39-25 (62436)
[सुरणुऋषभे द्वीपे पुण्ये राजर्षिसेविते।]
कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः।
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती॥ 9-39-26 (62437)
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना।
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती॥ 9-39-27 (62438)
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती।
सुवेणिरिति विख्याता प्रस्रुता शीघ्रगामिनी॥ 9-39-28 (62439)
विमलोदा भगवती ब्रह्मणा यजता पुनः।
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ॥ 9-39-29 (62440)
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः।
सप्तसारस्वतं तीर्थं ततस्तु प्रथितं भुवि॥ 9-39-30 (62441)
इति सप्तसरस्वत्यो नामतः परिकीर्तिताः।
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम्॥ 9-39-31 (62442)
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः।
आपगामवगाढस्य राजन्प्रक्रीडितं महत्॥ 9-39-32 (62443)
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत।
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम्। 9-39-33 (62444)
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि॥
तद्रेतः स तु जग्राह कलशे वै महातपाः। 9-39-34 (62445)
`ऋषिः परमधर्मात्मा तदा पुरुषसत्तम'॥
सप्तधा प्रविभागं तु कलशस्थं जगाम ह। 9-39-35 (62446)
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः॥
वायुवेगो वायुबलो वायुहा वायुमण्डलः। 9-39-36 (62447)
वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान्।
महर्षेश्चरितं यादृक् त्रिषु लोकेषु विश्रुतम्॥ 9-39-37 (62448)
पुरा मङ्कणकः सिद्भः कुशाग्रेणेति नः श्रुतम्।
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्॥ 9-39-38 (62449)
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्॥ 9-39-39 (62450)
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत्।
प्रनृत्तमुभयं वीर सेजसा तस्य मोहितम्॥ 9-39-40 (62451)
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः।
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप।
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि॥ 9-39-41 (62452)
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह।
सुगणां हितकामार्थं महादेवोऽभ्यभाषत॥ 9-39-42 (62453)
भोभो ब्राह्मण धर्मज्ञ किमर्थं नृत्यते भवान्।
हर्षस्थानं किमर्थं च तवेदमधिकं मुने।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम॥ 9-39-43 (62454)
ऋषिरुवाच। 9-39-44x (5178)
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम्।
यं दृष्ट्वा सम्प्रनृत्तो वै हर्षेण महता विभो॥ 9-39-44 (62455)
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्।
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम्॥ 9-39-45 (62456)
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता।
अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽभवत्॥ 9-39-46 (62457)
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम्॥ 9-39-47 (62458)
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः।
मेने देवं महादेवमिदं चोवाच विस्मितः॥ 9-39-48 (62459)
नान्यं देवादहं मन्ये रुद्रात्परतरं महत्।
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक्॥ 9-39-49 (62460)
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः।
त्वामेव सर्वं विशति पुनरेव युगक्षये॥ 9-39-50 (62461)
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया।
त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः॥ 9-39-51 (62462)
त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ।
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह॥ 9-39-52 (62463)
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः।
`त्वं प्रभुः परमैश्वर्यादधिकं भासि शङ्करः॥ 9-39-53 (62464)
त्वयि ब्रह्मा च विष्णुश्च लोकान्सन्धाय तिष्ठतः।
त्वन्मूलं च जगत्सर्वं भूतस्थावरजङ्गमम्॥ 9-39-54 (62465)
स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम्।
ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर॥ 9-39-55 (62466)
अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम्।
ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः॥ 9-39-56 (62467)
न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर।
यस्मात्त्वयोपकरणात्करोमि कमलेक्षण॥ 9-39-57 (62468)
प्रपद्ये शरणं शंभुं सर्वदा सर्वतः स्थितम्।
कर्मणा मनसा वाचा तमेवाभिभजाम्यहम्॥ 9-39-58 (62469)
जनमेजय उवाच।' 9-39-59x (5179)
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत्॥ 9-39-59 (62470)
यदिदं चापलं देव कृतमेतत्स्मयादिकम्।
ततः प्रसादयमि त्वां तपो मे न क्षरेदिति॥ 9-39-60 (62471)
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत्।
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा॥ 9-39-61 (62472)
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा।
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः॥ 9-39-62 (62473)
न तस्य दुर्लभं किञ्चिद्धवितेह परत्र वा।
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः॥ 9-39-63 (62474)
एतन्मङ्कणकस्यापि चरितं भूरितेजसः।
स हि पुत्रः सुकन्यायामुत्पन्नो मातरिश्वना॥ ॥ 9-39-64 (62475)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनचत्वारिंशोऽध्यायः॥ 39 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-39-4 विशाला सुतनुस्तथा। सरस्वत्योघमाला च सुवेणी निर्मलोदका इति ङ.पाठः। सरस्वत्यूर्मिमाला च सुवेणी विमलोदका इति क.पाठः॥ 9-39-17 सस्मरुः स्मृतवन्तः॥ 9-39-20 गयेषु गयदेशेषु॥ 9-39-25 मनोरमेति विख्याता सा हि तैर्मनसा कृता इति झ.पाठः॥ 9-39-28 सुरेणुरिति झ.पाठः॥ 9-39-32 राजन्प्रजपितं महत् इति क.पाठः॥ 9-39-33 स्नायन्तीं स्नान्तीम्॥ 9-39-36 मरुतां प्राणवायूनां एकोनपञ्चाशताम्। एतेषां तपसा मरुतो दित्यामुत्पन्ना इति कल्पान्तरविषयोऽयमर्थः॥ 9-39-60 स्मयादिकं गर्दादिकम्॥ 9-39-39 एकोनचत्वारिंशोऽध्यायः॥शल्यपर्व - अध्याय 040
॥ श्रीः ॥
9.40. अध्यायः 040
Mahabharata - Shalya Parva - Chapter Topics
बलरामस्यौशनसतीर्थगमनम्॥ 1 ॥ तत्तीर्थस्य कपालमोचननामप्राप्तिहेतूक्तिः॥ 2 ॥ बलस्य उशंग्वाश्रमगमनम्॥ 3 ॥ उशङ्गुचरित्रकथनं बलस्य पृथूदकतीर्थे स्नानदानादि॥ 4 ॥Mahabharata - Shalya Parva - Chapter Text
9-40-0 (62476)
वैशम्पायन उवाच। 9-40-0x (5180)
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः।
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः॥ 9-40-1 (62477)
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च।
पूजितो मुनिसङ्खैश्च प्रातरुत्थाय लाङ्गली॥ 9-40-2 (62478)
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत।
प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः॥ 9-40-3 (62479)
ततस्त्वौशनसं तीर्थमाजगाम हलायुधः।
कपालमोचनं नाम यत्र मुक्तो महामुनिः॥ 9-40-4 (62480)
महता शिरसा राजन्ग्रस्तजङ्घो महोदरः।
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा॥ 9-40-5 (62481)
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना।
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः।
यत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम्॥ 9-40-6 (62482)
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम्।
विधिवद्वै ददौ वित्तं ब्राह्मणानां महात्मनाम्॥ 9-40-7 (62483)
जनमेजय उवाच। 9-40-8x (5181)
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः।
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना॥ 9-40-8 (62484)
वैशम्पायन उवाच। 9-40-9x (5182)
पुरा वै दण्डकारण्ये राघवेण महात्मना।
वसता राजशार्दूल राक्षसाञ्शमयिष्यता॥ 9-40-9 (62485)
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः।
क्षुरेण शितधारेण तत्पणात महावने॥ 9-40-10 (62486)
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया।
वने विचरतो राजन्नस्थि भित्त्वाऽस्फुरत्तदा॥ 9-40-11 (62487)
स तेन लग्नेन तदा द्विजातिर्न शशाक ह।
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च॥ 9-40-12 (62488)
स पूतिना विस्रवता वेदनार्तो महामुनिः।
जगाम् सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम्॥ 9-40-13 (62489)
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः।
कथयामास तत्सर्वमृषीणां भावितात्मनाम्॥ 9-40-14 (62490)
आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान्।
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत्॥ 9-40-15 (62491)
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा।
सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम्॥ 9-40-16 (62492)
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः॥ 9-40-17 (62493)
तत औशनसे तीर्थे तस्योपस्पृशतस्तदा।
xxx च्छरश्चरणं मुक्त्वा पपातान्तर्जले तदा॥ 9-40-18 (62494)
विमुक्तस्तेन शिरसा परं सुखमवाप ह।
स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो॥ 9-40-19 (62495)
ततः स विरुजो राजन्पूतात्मा वीतकल्मषः।
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः॥ 9-40-20 (62496)
सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः।
कथयामास तत्सर्वमृषीणां भावितात्मनाम्॥ 9-40-21 (62497)
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद।
कपालमोचनमिति नाम चक्रुः समागताः॥ 9-40-22 (62498)
स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः।
पीत्वा पयःसुविपुलं सिद्धिमायात्तदा मुनिः॥ 9-40-23 (62499)
तत्र दत्त्वा बहून्देयान्विप्रान्सम्पूज्य माधवः।
जगाम तत्र राजेन्द्र उशङ्गोराश्रमं तदा॥ 9-40-24 (62500)
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः॥ 9-40-25 (62501)
सर्वकामसमृद्धं च तदाश्रमपदं महत्।
मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो॥ 9-40-26 (62502)
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः।
जगाम तत्र राजेन्द्र उशङ्गुस्तनुमत्यजत्॥ 9-40-27 (62503)
उशङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत।
देहन्यासे कृतमना विचिन्त्य बहुधा तदा॥ 9-40-28 (62504)
ततः सर्वानुपादाय तनयान्वै महातपाः।
उशङ्गुरब्रवीत्तत्र नयध्वं मां पृथूदकम्॥ 9-40-29 (62505)
विज्ञायातीतवयसमुशङ्गुं ते तपोधनाः।
तं च तीर्थमपानिन्युः सरस्वत्यास्तपोधनम्॥ 9-40-30 (62506)
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्।
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम्॥ 9-40-31 (62507)
स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः।
ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः।
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः॥ 9-40-32 (62508)
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्।
पृथूदके जप्यपरो नैनं श्वो मरणं तपेत्॥ 9-40-33 (62509)
`इत्युक्त्वा स्वां तनुं त्यक्त्वा प्रपेदे वैष्णवं पदम्'।
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः।
दत्त्वा चैव बूहून्देयान्विप्राणां विप्रवत्सलः॥ 9-40-34 (62510)
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः॥ 9-40-35 (62511)
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः।
तपसा महता राजन्प्राप्तवानृषिसत्तमः॥ 9-40-36 (62512)
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रस्तथा मुनिः॥ 9-40-37 (62513)
महातपस्वीं भगवानुग्रतेजा महातपाः।
तत्राजगाम बलवान्बलभद्रः प्रतापवान्॥ ॥ 9-40-38 (62514)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चत्वारिंशोऽध्यायः॥ 40 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-40-17 तीर्थमुपास्पृशदिति शेषः॥ 9-40-24 त्रिशङ्खोराश्रमं तदा इति क.पाठः। रुशङ्गोराश्रमं तदा इति झं. पाठः॥ 9-40-33 अक्षयं स्वर्गमाप्नोतीत्यर्थः॥ 9-40-36 ब्राह्मणं ब्रह्मसन्घातो वेदसमूह इति यावत्। ततः स्वार्थे ष्यञ्। ब्राह्मणं ब्रह्मसङ्घाते इति मेदिनी॥ 9-40-40 चत्वारिंशोऽध्यायः॥शल्यपर्व - अध्याय 041
॥ श्रीः ॥
9.41. अध्यायः 041
Mahabharata - Shalya Parva - Chapter Topics
आर्ष्टिषेणेन पृथूदकतीर्थे तपश्चर्यवा कृत्स्नवेदाधिगमः॥ 1 ॥ विश्वामित्रादीनां तत्तत्तीर्थे तपश्चर्यया ब्राह्मण्याधिगम॥ बलभद्रस्य तत्र स्नानादिपूर्वकं बकाश्रमम्प्रति गमनम्॥ 3 ॥Mahabharata - Shalya Parva - Chapter Text
9-41-0 (62515)
जनमेजय उवाच। 9-41-0x (5183)
आर्ष्टिषेणस्तथा ब्रह्मन्विपुलं तप्तवांस्तपः।
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा॥ 9-41-1 (62516)
देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम।
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे॥ 9-41-2 (62517)
वैशम्पायन उवाच। 9-41-3x (5184)
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः।
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः॥ 9-41-3 (62518)
तस्य राजन्गुरुकुले वसतो नित्यमेव च।
समाप्तिं नागमद्विद्या नापि वेदा विशाम्पते॥ 9-41-4 (62519)
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः।
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान्॥ 9-41-5 (62520)
स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः।
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः॥ 9-41-6 (62521)
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः।
आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम्॥ 9-41-7 (62522)
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति।
अपि चाल्पेन कालेन फलं प्राप्स्यति पुष्कलम्॥ 9-41-8 (62523)
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः।
एवं सिद्वः स भगवानार्ष्टिषेणः प्रतापवान्॥ 9-41-9 (62524)
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्।
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत्॥ 9-41-10 (62525)
तथाच कौशिकस्तात तपोनित्यो जितेन्द्रियः।
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान्॥ 9-41-11 (62526)
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि।
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान्॥ 9-41-12 (62527)
स राजा कौशिकस्तात महायोग्यभवत्किल।
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः॥ 9-41-13 (62528)
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः।
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात्॥ 9-41-14 (62529)
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः।
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम॥ 9-41-15 (62530)
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च।
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः॥ 9-41-16 (62531)
न स शक्नोति पृथिवीं यत्नवानपि रक्षितुम्।
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्॥ 9-41-17 (62532)
निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः।
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्॥ 9-41-18 (62533)
तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून्।
ततस्तु भगवान्विप्रो वसिष्ठो श्रममभ्ययात्।
ददृशेऽथ ततः सर्वं भज्यमानं महाव्रनम्॥ 9-41-19 (62534)
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः।
सृजस्व शबरान्घोरानिति स्वां गामुवाच ह॥ 9-41-20 (62535)
तथोक्ता साऽसृजद्धेनुः पुरुषान्घोरदर्शनान्।
ते तु तद्बलमासाद्य बभञ्जुः सर्वतोदिशम्॥ 9-41-21 (62536)
तच्छ्रुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः।
तपः परं मन्यमानस्तपस्येव मनो दधे॥ 9-41-22 (62537)
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः।
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः॥ 9-41-23 (62538)
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत्।
तथा स्थण्डिलशायी च ये चान्ये नियमाःपृथक्॥ 9-41-24 (62539)
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे।
न चास्य नियमाद्बुद्धिरपयाति महात्मनः॥ 9-41-25 (62540)
ततः परेण यत्नेन तप्त्वा बहुविधं तपः।
तेजसा भास्कराकारो गाधिजः समपद्यत॥ 9-41-26 (62541)
तपसा तु तथायुक्तं विश्वामित्रं पितामहः।
अमन्यत महातेजा वरदोऽदर्शयत्तदा॥ 9-41-27 (62542)
स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति।
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः॥ 9-41-28 (62543)
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः।
विचचार महीं कृत्स्नां कृतकामः सुरोपमः॥ 9-41-29 (62544)
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु।
पयस्विनीस्तथा धेनूर्यानानि शयनानि च॥ 9-41-30 (62545)
अथ वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम्।
अददन्मुदितो राजन्पूजयित्वा द्विजोत्तमान्॥ 9-41-31 (62546)
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात्।
यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः॥ ॥ 9-41-32 (62547)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकचत्वारिंशोऽध्यायः॥ 41 ॥
शल्यपर्व - अध्याय 042
॥ श्रीः ॥
9.42. अध्यायः 042
Mahabharata - Shalya Parva - Chapter Topics
बलदेवस्यावाकीर्णतीर्थगमनम्॥ 1 ॥ बकमुनिचरित्रकथनम्॥ 2 ॥ बलदेवस्य ततो वसिष्ठापवाहतीर्थगमनम्॥ 3 ॥Mahabharata - Shalya Parva - Chapter Text
9-42-0 (62548)
वैशम्पायन उवाच। 9-42-0x (5185)
ब्रह्मयोनिभिराकीर्णं जगाम यद्वुनन्दनः।
यत्र दाल्भ्यो बको राजन्पश्वर्थ सुमहातपाः।
जुहाव धृतराष्ट्रस्य राष्ट्रं कोपसमन्वितः॥ 9-42-1 (62549)
तपसा घोररूपेण कर्शयन्देहमात्मनः।
क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान्॥ 9-42-2 (62550)
पुरा हि नैमिशीयानां सत्रे द्वादशवार्षिके।
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन्॥ 9-42-3 (62551)
तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्विनः।
`तत्र ते लेभिरे राजन्पाञ्चालेभ्यो महर्षयः।'
बलान्वितान्वत्सतरान्निर्व्याधीन्सप्तविंशतिम्॥ 9-42-4 (62552)
तानब्रवीद्बलो दाल्भ्यो विभजध्वं पशूनिति।
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम्॥ 9-42-5 (62553)
एवमुक्त्वा वको राजन्नृषीन्सर्वांन्प्रतापवान्।
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः॥ 9-42-6 (62554)
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम्।
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत्॥ 9-42-7 (62555)
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः।
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि॥ 9-42-8 (62556)
ऋषिस्त्वथ बकः क्रुद्धश्चिन्तयामास धर्मवित्।
अहो वत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि॥ 9-42-9 (62557)
चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः।
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः॥ 9-42-10 (62558)
स तूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः।
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा॥ 9-42-11 (62559)
अवाकर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम्।
xxxx दाल्भ्यो महाराज नियमं परमं स्थितः॥ 9-42-12 (62560)
स तैरेव जुहावाग्नौ राष्ट्रं मांसैर्महातपः॥ 9-42-13 (62561)
तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे।
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव॥ 9-42-14 (62562)
छिxxxमानं xxxxxx परशुना विभो
xxxxxxxxxxxx व्यवकीर्थमचेतनम्॥ 9-42-15 (62563)
दृष्ट्वा तथाऽवकीर्णं तु राष्ट्रं च मनुजाधिपः।
बभूव दुर्मना राजा चिन्तयामास च प्रभुः॥ 9-42-16 (62564)
xxxxxxxxxरद्यत्रं ब्राह्मणैः सहितः पुरा।
xxxxxगच्छत्तु क्षीयते राष्ट्रमेव च॥ 9-42-17 (62565)
यदा स पार्थिवः खिन्नस्ते च विप्रास्तदाऽनघ॥ 9-42-18 (62566)
यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृपः।
अथ विप्रादिकांस्तत्र पप्रच्छ जनमेजय॥ 9-42-19 (62567)
ततो विप्रादिकाः प्राहुः पशुविप्रकृतस्त्वया।
मांसैरभिजुहोतीदं तव राष्ट्रं मुनिर्बकः॥ 9-42-20 (62568)
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान्।
तस्यैतत्तपसः कर्म येन तेऽद्य लयो महान्॥ 9-42-21 (62569)
`यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप।'
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव॥ 9-42-22 (62570)
वैशम्पायन उवाच। 9-42-23x (5186)
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत्।
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ॥ 9-42-23 (62571)
प्रसादये त्वां भगवन्नपराधं क्षमस्व मे।
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः।
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि॥ 9-42-24 (62572)
तं तथा विलपन्तं तु शोकोपहतचेतसम्।
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत्॥ 9-42-25 (62573)
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः।
मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम्॥ 9-42-26 (62574)
मोक्षयित्वा ततो र्ष्ट्रं प्रतिगृह्य पशून्बहून्।
हृष्टात्मा नैमिशारण्यं जगाम पुनरेव सः॥ 9-42-27 (62575)
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः।
स्वमेव नगरं राजन्प्रतिपेदे महर्द्धिमत्॥ 9-42-28 (62576)
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः।
असुराणामभावाय भवाय च दिवौकसाम्॥ 9-42-29 (62577)
मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः।
दैवतैरपि सम्भग्ना जितकाशिभिराहवे॥ 9-42-30 (62578)
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः।
वाजिनः कुञ्जरांश्चैव रथांश्चश्वतरीयुतान्॥ 9-42-31 (62579)
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम्।
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते॥ 9-42-32 (62580)
तत्र यज्ञे ययातेश्च महाराज सरस्वती।
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः॥ 9-42-33 (62581)
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः।
आक्रामदूर्ध्वं पुदितो लेभे लोकांश्च पुष्कलान्॥ 9-42-34 (62582)
पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः।
औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम्।
ददौ कामान्ब्राह्मणेभ्यो वान्यान्यो मनसेच्छति॥ 9-42-35 (62583)
यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे।
तस्यतस्य सरिच्छ्रेष्ठा गृहादि शयनादिकम्।
षड्रसं भोजनं चैव दानं नानाविधं तथा॥ 9-42-36 (62584)
ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम्।
राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः॥ 9-42-37 (62585)
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा।
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम्॥ 9-42-38 (62586)
ततस्तालकेतुर्महाधर्मकेतु--
र्महात्मा कृतात्मा महादाननित्यः।
वसिष्ठापवाहं महाभीमवेगं
धृतात्मा जितात्मा समभ्याजगाम॥ ॥ 9-42-39 (62587)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि द्विचत्वारिंशोऽध्यायः॥ 42 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-42-1 ब्रह्मयोनेरवाकीर्णमिति झ.पाठः। तत्र ब्रह्मयोनेः ब्राह्मण्योत्पादकात्तीर्थादवाकीर्णं नाम द्वाल्भ्यसेवितं तीर्थं जगामेत्यर्थः ॥ 9-42-3 पाञ्चलान्विश्वजितो महत्मान्ते अगमन्॥ 9-42-4 ईश्वरं पाश्चालसजम्॥ 9-42-5 xxxxxxxxxxx खयं तत्र भागं न गृहीतवानित्यर्थः॥ 9-42-19 अथ वै प्राश्निकांस्तत्रेति झ पाठः॥ 9-42-42 द्विचत्वारिंशोऽध्यायः॥शल्यपर्व - अध्याय 043
॥ श्रीः ॥
9.43. अध्यायः 043
Mahabharata - Shalya Parva - Chapter Topics
वसिष्ठापवाहतीर्थस्य तन्नामप्राप्तिप्रकारकथनम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-43-0 (62588)
जनमेजय उवाच। 9-43-0x (5187)
वसिष्ठापवाहो ब्रह्मन्वै भीमवेगः कथं नु सः।
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत्॥ 9-43-1 (62589)
कथमस्याभवद्वैरं कारणं किं च तत्प्रभो।
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यति॥ 9-43-2 (62590)
वैशम्पायन उवाच। 9-43-3x (5188)
विश्वामित्रस्य विप्रर्षेर्वसिष्ठस्य च भारत।
भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत्॥ 9-43-3 (62591)
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान्।
पूर्वतः पार्श्वतश्चासीद्विश्वामित्रस्य धीमतः॥ 9-43-4 (62592)
यत्र स्थाणुर्महाराज तप्तवान्परमं तपः।
तत्रास्य कर्म तद्धोरं प्रवदन्ति मनीषिणः॥ 9-43-5 (62593)
यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम्।
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो॥ 9-43-6 (62594)
तत्र तीर्थे सुराः स्कन्दमभ्यषिञ्चन्नराधिप।
सैनापत्येन महता सुरारिविनिबर्हणम्॥ 9-43-7 (62595)
तस्मिन्सारस्वते तीर्थे विश्वामित्रो महामुनिः।
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु॥ 9-43-8 (62596)
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत।
स्पर्धां तपः कृतां तीव्रां चक्रतुस्तौ वतपोधनौ॥ 9-43-9 (62597)
तत्राप्यधिकसन्तप्तो विश्वामित्रो महामुनिः।
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह॥ 9-43-10 (62598)
तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत।
इदं सरस्वती तूर्णं मत्समीपं तपोधनम्॥ 9-43-11 (62599)
आनयिष्यति वेगेन वसिष्ठं जपतां वरम्।
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः॥ 9-43-12 (62600)
एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः।
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः॥ 9-43-13 (62601)
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह।
गत्वा चैनं महावीर्यं महाकोपं च भामिनी॥ 9-43-14 (62602)
तदा तं वेपमानाङ्गी विवर्णा प्राञ्जलिर्भृशम्।
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती॥ 9-43-15 (62603)
हतवीरा यथा नारी साऽभवद्दुःखिता भृशम्।
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम्॥ 9-43-16 (62604)
तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय।
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी॥ 9-43-17 (62605)
साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा।
प्राकम्पत भृशं भीता वायुनेवाहता लता॥ 9-43-18 (62606)
तथारूपां तु तां दृष्ट्वा मुनिराह महानदीम्।
अविचारं वसिष्ठं त्वमानयस्त्वान्तिकं मम॥ 9-43-19 (62607)
सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्षितम्।
वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि॥ 9-43-20 (62608)
साऽभिगम्य वसिष्ठं च इदमर्थमचोदयत्।
यदुक्ता सरितांश्रेष्ठा विश्वामित्रेण धीमता॥ 9-43-21 (62609)
उभयोः शापयोर्भीता वेपमाना पुनःपुनः।
चिन्तयित्वा महाशापमृषिविप्रासिता भृशम्॥ 9-43-22 (62610)
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्।
उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः॥ 9-43-23 (62611)
पाह्यात्मानं सरिच्छेष्ठे वह मां शीघ्रगामिनी।
विश्वामित्रः शपेद्वि त्वां मा कृथास्त्वं विचारणाम्॥ 9-43-24 (62612)
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित्।
चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत्॥ 9-43-25 (62613)
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि।
कृतवान्हि दयां नित्यं तस्या कार्यं हितं मया॥ 9-43-26 (62614)
अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम्।
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत्॥ 9-43-27 (62615)
इदमन्तरमित्येवं ततः सा सरितां वरा।
कूलापहारमकरोत्स्वेन वेगेन सा सरित्॥ 9-43-28 (62616)
तेन कूलापहारेण मैत्रावरुणिरौह्यत।
उह्यमानः स तुष्टाव तदा राजन्सरस्वतीम्॥ 9-43-29 (62617)
पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति।
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः॥ 9-43-30 (62618)
त्वमेवाकाशगा देवि मेघेषु सृजसे पयः।
सर्वाश्चापस्त्वमेवेति यथा वयमधीमहि॥ 9-43-31 (62619)
पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्बुद्धिरमा तथा।
त्वमेव वाणी स्वाहा त्वं तवायत्तमिदं जगत्।
त्वमेव सर्वभूतेषु वससीह चतुर्विधा॥ 9-43-32 (62620)
वैशम्पायन उवाच। 9-43-33x (5189)
एवं सरस्वती राजन्स्तूयमाना महर्षिणा।
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति॥ 9-43-33 (62621)
न्यवेदयत चाक्षीक्ष्णं विश्वामित्राय तं मुनिम्॥ 9-43-34 (62622)
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः।
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा॥ 9-43-35 (62623)
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्मवध्याभयान्नदी।
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता।
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम्॥ 9-43-36 (62624)
ततोपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम्।
अब्रवीत्त्वथ सङ्क्रुद्धो विश्वामित्रः सरस्वतीम्॥ 9-43-37 (62625)
यस्मान्मां त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता।
शोणितं वह कल्याणि राक्षसानां च सम्मतम्॥ 9-43-38 (62626)
ततः सरस्वती शप्ता विश्वामित्रेण धीमता।
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा॥ 9-43-39 (62627)
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा।
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः॥ 9-43-40 (62628)
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप।
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा॥ ॥ 9-43-41 (62629)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रिचत्वारिंशोऽध्यायः॥ 43 ॥
शल्यपर्व - अध्याय 044
॥ श्रीः ॥
9.44. अध्यायः 044
Mahabharata - Shalya Parva - Chapter Topics
विश्वामित्रशापाद्रुधिरजलायाः सरस्वत्या ऋषिभिस्वपसा शोधनम्॥ 1 ॥ इन्द्रेण सरस्वत्यरुणासङ्गमे यजनादिना ब्रह्महत्यापरिहरणम्॥ 2 ॥ बलरामस्य तत्र स्नानादिपूर्वकं तस्मात्सोमतीर्थगमनम्॥ 3 ॥Mahabharata - Shalya Parva - Chapter Text
9-44-0 (62630)
वैशम्पायन उवाच। 9-44-0x (5190)
स शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता।
तस्मिंस्तीर्थवरे शुभ्रं शोणितं समुपावहत्॥ 9-44-1 (62631)
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत।
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते॥ 9-44-2 (62632)
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः।
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा॥ 9-44-3 (62633)
कस्यचित्त्वथ कालस्य ऋषयः सुतपोधनाः।
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते॥ 9-44-4 (62634)
तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः।
प्राप्य प्रीतिं परां चापि तपोलुप्धा विशारदाः॥ 9-44-5 (62635)
प्रययुर्हि ततो राजन्येन तीर्थमसृग्वहम्।
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा॥ 9-44-6 (62636)
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम्।
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम॥ 9-44-7 (62637)
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः।
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे॥ 9-44-8 (62638)
ते तु सर्वे महाभागाः समागम्य महाव्रताः।
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन्॥ 9-44-9 (62639)
कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम्।
एवमग्राह्यतां यातः श्रुत्वाऽध्यास्यामहे वयम्॥ 9-44-10 (62640)
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती।
दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः॥ 9-44-11 (62641)
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे।
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः॥ 9-44-12 (62642)
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम्।
विमोचयामहे सर्वे शापादेतां सरस्वतीम्॥ 9-44-13 (62643)
ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा।
उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा॥ 9-44-14 (62644)
आराध्य पशुभर्तारं महादेवं जगत्पतिम्।
मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम्॥ 9-44-15 (62645)
तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती।
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि।
निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा॥ 9-44-16 (62646)
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्।
तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा॥ 9-44-17 (62647)
कृत्वाञ्जलिं ततो राजन्राक्षसाः क्षुधयाऽर्दिताः।
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनःपुनः॥ 9-44-18 (62648)
वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्।
न च नः कामकारोऽयं यद्वयं पापकारिणा॥ 9-44-19 (62649)
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा।
पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः।
योषितां चैव पापेन योनिदोषकृतेन च॥ 9-44-20 (62650)
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च।
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः॥ 9-44-21 (62651)
`शक्तिमन्तोऽपि ये केचिदाश्रितानां च रक्षणम्।
न कुर्वन्ति मनुष्यास्ते सम्भवन्तीह राक्षसाः'॥ 9-44-22 (62652)
आचार्यमृत्विजं चैव गुरुं वृद्वजनं तथा।
प्रणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः॥ 9-44-23 (62653)
तत्कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः।
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे॥ 9-44-24 (62654)
तेषां तु वचनं श्रुत्वा तुष्टुवुस्तां महानदीम्।
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः॥ 9-44-25 (62655)
ऋषय ऊचुः। 9-44-26x (5191)
क्षुतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत्।
सकेशमवधूतं च रुदितोपहतं च यत्॥ 9-44-26 (62656)
श्वभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह।
तस्माज्ज्ञात्वा सदा विद्वानेतान्यत्नाद्विवर्जयेत्।
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम्॥ 9-44-27 (62657)
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः।
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन्॥ 9-44-28 (62658)
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा।
अरुणामानयामास स्वां तनुं पुरुषर्षभ॥ 9-44-29 (62659)
तस्यान्तेराक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः।
अरुणायां महाराज ब्रह्मवध्यापहा हि सा॥ 9-44-30 (62660)
एतमर्थमभिज्ञाय देवराजः शतक्रतुः।
तस्मिंस्तीर्थे वरे स्नात्वा विमुक्तः पाप्मना किल॥ 9-44-31 (62661)
जनमेजय उवाच। 9-44-32x (5192)
किमर्थं भगवाञ्शक्रो ब्रह्मवध्यामवाप्तवान्।
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत्॥ 9-44-32 (62662)
वैशम्पायन उवाच। 9-44-33x (5193)
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर।
यथा बिभेद समयं नमुचेर्वासवः पुरा॥ 9-44-33 (62663)
जमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत्।
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत्॥ 9-44-34 (62664)
न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि।
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे॥ 9-44-35 (62665)
एवं स कृत्वा समयं दृष्ट्वा नीहास्मीश्वरः।
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः॥ 9-44-36 (62666)
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात्।
भोभो मित्रह पापेति ब्रुवाणं शक्रमन्तिकात्॥ 9-44-37 (62667)
एवं स शिरसा तेन चोद्यमानः पुनः पुनः।
पितामहाय सन्तप्त एतमर्थं न्यवेदयत्॥ 9-44-38 (62668)
तमब्रवील्लोकगुरुररुणायां यथाविधि।
इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे॥ 9-44-39 (62669)
[एषा पुण्यजला शक्र कृता मुनिभिरेव तु।
निगूढमस्यागमनमिहासीत्पूर्वमेव तु॥ 9-44-40 (62670)
ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा।
सरस्वत्यारुणायाश्च पुण्योऽयं सङ्गमो महान्॥ 9-44-41 (62671)
इह त्वं यज देवेन्द्र दद दानान्यनेकशः।
अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे॥] 9-44-42 (62672)
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय।
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत्॥ 9-44-43 (62673)
स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च।
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः॥ 9-44-44 (62674)
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत।
लोकान्कामदुधात्प्राप्तमक्षयान्राजसत्तम॥ 9-44-45 (62675)
वैशपायन उवाच। 9-44-46x (5194)
तत्राप्युपस्पृश्य बलो महात्मा
दत्त्वा च दानानि पृथग्विधानि।
अवाप्य धर्मं परमार्यकर्मा
जगाम सोमस्य महत्सुतीर्थम्॥ 9-44-46 (62676)
यत्रायजद्राजसूयेन सोमः
साक्षात्पुरा विधिवत्पार्थिवेन्द्र।
अत्रिर्धीमान्ब्रह्मपुत्रो बभूव
होता यस्मिन्क्रतुमुख्ये महात्मा॥ 9-44-47 (62677)
यस्यान्तेऽभूत्सुमहद्दानवानां
दैतेयानां राक्षसानां च देवैः।
सङ्ग्रामो वै तारकाख्यः सुतीव्रो
यत्र स्कन्दस्तारकाख्यं जघान॥ 9-44-48 (62678)
सैनापत्यं लब्धवान्दैवतानां
महासेनो यत्र दैत्यान्तकर्ता।
साक्षाच्चैवं न्यवसत्कार्तिकेयः
सदा कुमारो यत्र स प्लुक्षराजः॥ ॥ 9-44-49 (62679)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चतुश्चत्वारिंशोऽध्यायः॥ 44 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-44-10 अध्यास्यामहे अध्यवसायं करिष्यामहे॥ 9-44-49 सदा कुमारो यत्र नक्षत्रधर्मा इति क.पाठः। यत्र नक्षत्रकामः इति ङ.पाठः॥ 9-44-44 चतुश्चत्वारिंशोऽध्यायः॥शल्यपर्व - अध्याय 045
॥ श्रीः ॥
9.45. अध्यायः 045
Mahabharata - Shalya Parva - Chapter Topics
कुमारोत्पत्तिवर्णनम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-45-0 (62680)
जनमेजय उवाच। 9-45-0x (5195)
सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम।
कुमारस्याभिषेकं तु ब्रह्मन्नाख्यातुमर्हसि॥ 9-45-1 (62681)
यस्मिन्देशे च काले च यथा च वदतां वर।
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः॥ 9-45-2 (62682)
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत्।
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे॥ 9-45-3 (62683)
वैशम्पायन उवाच। 9-45-4x (5196)
कुरुवंशस्य सदृशं कौतूहलमिदं तव।
हर्षमुत्पादयत्वेव वचो मे जनमेजय॥ 9-45-4 (62684)
हन्त ते कथयिष्यामि शृण्वानस्य नराधिप।
अभिषेकं कुमारस्य प्रभावं च महात्मनः॥ 9-45-5 (62685)
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा।
तत्सर्वं भगवानग्निर्नाशकद्धर्तुमक्षयम्॥ 9-45-6 (62686)
तेन सीदति तेजस्वी दीप्तिमान्हव्यवाहनः।
न चैवं धारयामास ब्रह्मणे उक्तवान्प्रभुः॥ 9-45-7 (62687)
स गङ्गामुपसगम्य नियोगाद्ब्रह्मणः प्रभुः।
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम्॥ 9-45-8 (62688)
अथ गङ्गापि तं गर्भमसहन्ती विधारणे
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते॥ 9-45-9 (62689)
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः।
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः॥ 9-45-10 (62690)
शरस्तम्बे महात्मानमनलात्मजमीश्वरम्।
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचुक्रुशुः॥ 9-45-11 (62691)
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः।
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा॥ 9-45-12 (62692)
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः।
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः॥ 9-45-13 (62693)
यत्रोत्सृष्टश्च गर्भः स गङ्गया निरिमूर्धनि।
स शैलः काञ्चनः सर्वः सम्बभौ मेरुवत्तदा॥ 9-45-14 (62694)
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता।
अतश्च सर्वे संवृत्ता गिरयः काञ्चनात्मकाः॥ 9-45-15 (62695)
कुमारः सुमहावीर्यः कार्तिकेय इति स्मृतः।
गाङ्गेयः पूर्वमभवन्महाकायो बलान्वितः॥ 9-45-16 (62696)
शमेन तपसा चैव वीर्येण च समन्वितः।
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः। 9-45-17 (62697)
स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः।
स्तयमानः सदा शेते गन्धर्वैर्मुनिभिस्तथा॥ 9-45-18 (62698)
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः।
दिव्यवादित्रनृत्यज्ञाः स्तुवन्त्यश्चारुदर्शनाः॥ 9-45-19 (62699)
अन्वयुश्चाग्नयः सर्वे गङ्गा च सरितां वरा।
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्। 9-45-20 (62700)
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः।
वेदश्चैनं चतुर्मूर्तिरपतस्थे कृताञ्जलिः॥ 9-45-21 (62701)
धनुर्वेदश्चतुष्पादः सास्त्रग्रामः ससङ्ग्रहः।
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला॥ 9-45-22 (62702)
स ददर्श महात्मानं देवदेवमुमापतिः।
शैलपुत्र्या समागम्यभूतसङ्घशतैर्वृतः॥ 9-45-23 (62703)
निकाया भूतसङ्घानां परमाद्भुतदर्शनाः।
विकृता विकृताकारा विकृताभरणध्वजाः॥ 9-45-24 (62704)
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः।
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा॥ 9-45-25 (62705)
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः।
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि॥ 9-45-26 (62706)
श्वाविच्छल्यकगोधानामजैडकगवां तथा।
सदृशानि वपूंष्यन्ये तत्रतत्र व्यधारयन्॥ 9-45-27 (62707)
केचिच्छेलाम्बुदप्रख्याश्चक्रालातगदायुधाः।
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः॥ 9-45-28 (62708)
सप्तमातृगणाश्चैव समाजग्मुर्विशाम्पते।
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा॥ 9-45-29 (62709)
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः।
ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सहविष्णुना॥ 9-45-30 (62710)
शक्रस्तथाऽभ्ययाद्द्रष्टुं कुमारममितप्रभम्।
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः॥ 9-45-31 (62711)
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः।
पितरो जगतः श्रेष्ठा देवानामपि देवताः।
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः॥ 9-45-32 (62712)
स तु बालोऽपि बलवान्महायोगबलान्वितः।
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम्॥ 9-45-33 (62713)
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम्।
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च॥ 9-45-34 (62714)
कं नु पूर्वमयं बालो गौरवादभ्युपैष्यति।
अपि मामिति सर्वेषां तेषामासीन्मनोगतम्॥ 9-45-35 (62715)
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः।
युगपद्योगमास्थाय ससर्ज विविधास्तनूः॥ 9-45-36 (62716)
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः॥ 9-45-37 (62717)
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः।
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः॥ 9-45-38 (62718)
विशाखस्तु ययौ देवीं ततो गिरिवरात्मजाम्।
शाखो ययौ स भगवान्दिव्यमूर्तिर्विभावसुम्॥ 9-45-39 (62719)
नैगमेयोऽगमद्गङ्गां कुमारः पावकप्रभः॥ 9-45-40 (62720)
सर्वे भासुरदेहास्ते चत्वारः समरूपिणः।
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत्॥ 9-45-41 (62721)
हाहाकारो महानासीद्देवदानवरक्षसाम्।
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम्॥ 9-45-42 (62722)
ततो रुद्रश्च देवी च पावकश्च पितामहम्।
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम्॥ 9-45-43 (62723)
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव।
इदमूचुर्वचो राजन्कार्तिकेयप्रियेप्सया॥ 9-45-44 (62724)
अस्य बालस्य भगवन्नाधिपत्य यथेप्सितम्।
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि॥ 9-45-45 (62725)
ततः स भगवान्धीमान्सर्वलोकपितामहः।
मनसा चिन्तयामास किमयं लभतामिति॥ 9-45-46 (62726)
ऐश्वर्याणि च सर्वाणि देवगन्धर्वरक्षसाम्।
भूतयक्षविहङ्गानां पन्नगानां च सर्वशः॥ 9-45-47 (62727)
सर्वमेवादिदेशासौ कौरवेय महात्मनः।
समर्थं च तमैश्वर्ये महामतिरमन्यत॥ 9-45-48 (62728)
ततो मुहूर्तं स ध्यात्वा देवानां स्रेयसि स्थितः।
सैनापत्यं ददौ तस्मै सर्व भूतेषु भारत॥ 9-45-49 (62729)
सर्वदेवनिकायानां ये राजानः परिश्रुताः।
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः॥ 9-45-50 (62730)
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः।
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः॥ 9-45-51 (62731)
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम्।
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता॥ 9-45-52 (62732)
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते।
निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः॥ ॥ 9-45-53 (62733)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चचत्वारिंशोऽध्यायः॥ 45 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-45-6 तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयमिति झ.पाठः॥ 9-45-7 तेनासीदति तेजस्वी इति झ.ङ.पाठः॥ 9-45-25 बिडालवृषदंशौ मार्जारजातिभेदौ तत्सदृशाननौ॥ 9-45-27 श्वानशल्यकगोधानामिति क.पाठः॥ 9-45-37 तस्य स्कन्दस्य पृष्ठतः पश्चात् शाखविशाखनैगमेयाः आसन्। ते स्कन्देन सह चत्वारः॥ 9-45-39 वायुमूर्तिर्विभावसुमिति झ.पाठः॥ 9-45-42 अद्भुतमदृष्टपूवम्॥ 9-45-45 पञ्चचत्वारिंशोऽध्यायः॥शल्यपर्व - अध्याय 046
॥ श्रीः ॥
9.46. अध्यायः 046
Mahabharata - Shalya Parva - Chapter Topics
बृहस्पत्यादिभिः स्कन्दस्य सैनापत्येऽभिषेचनम्॥ 1 ॥ ब्रह्मादिभिः स्कन्दाय स्वस्वपारिषदानां दानम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-46-0 (62734)
वैशम्पायन उवाच। 9-46-0x (5197)
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः।
बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि॥ 9-46-1 (62735)
ततो हिमवता दत्ते मणिप्रवरशोभिते।
दिव्यरत्नाचिते पुण्ये निषण्णं परमासने॥ 9-46-2 (62736)
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम्।
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः॥ 9-46-3 (62737)
इन्द्राविष्णू महावीर्यौ सूर्योचन्द्रमसौ तथा।
धाता चैव विधाता च तथा चैवानिलानलौ॥ 9-46-4 (62738)
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वतां।
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च॥ 9-46-5 (62739)
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः।
विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह॥ 9-46-6 (62740)
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः।
देवर्षिभिरसङ्ख्यातैस्तथा ब्रह्मर्षिभिस्तथा॥ 9-46-7 (62741)
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः।
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः॥ 9-46-8 (62742)
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः।
पितामहः पुलस्त्यश्च पुलहश्च महातपाः॥ 9-46-9 (62743)
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च।
क्रतुर्हरिः प्रचेताश्च मनुर्दक्षस्तथैव च॥ 9-46-10 (62744)
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशाम्पते।
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः॥ 9-46-11 (62745)
समुद्राश्च हदाश्चैव तीर्थानि विविधानि च।
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप॥ 9-46-12 (62746)
अदितिर्देवमाता च हीः श्रीः स्वाहा सरस्वती।
उमा शची सिनीवाली तथैवानुमतिः कुहूः॥ 9-46-13 (62747)
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम्।
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान्॥ 9-46-14 (62748)
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च।
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप॥ 9-46-15 (62749)
उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वासुकिः।
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह॥ 9-46-16 (62750)
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः।
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये॥ 9-46-17 (62751)
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः।
ते कुमाराभिषेकार्षं समाजग्मुस्ततस्ततः॥ 9-46-18 (62752)
जगृहुस्ते तदा राजन्सर्वं एव दिवौकसः।
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः॥ 9-46-19 (62753)
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप।
सारस्वताभिः पुण्याभिरद्भिस्ताभिरलङ्कृतम्॥ 9-46-20 (62754)
अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः।
सैनापत्ये महात्मानमसुराणां भयङ्करम्॥ 9-46-21 (62755)
पुरा यथा महाराज वरुणं वै जलेश्वरम्।
तथाऽभ्यषिञ्चद्भगवान्सर्वलोकपितामहः॥ 9-46-22 (62756)
कश्यपश्च महातेजा ये चान्ये सोककीर्तिताः।
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः॥ 9-46-23 (62757)
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः।
नन्दिसेनं लोहिताक्षं घण्टाकार्णं च सम्मतम्॥ 9-46-24 (62758)
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम्।
तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः॥ 9-46-25 (62759)
मायाशतधरं कामं कामवीर्यबलान्वितम्।
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्॥ 9-46-26 (62760)
सहि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्।
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश॥ 9-46-27 (62761)
तथा देवा ददुस्तस्मै सेनां नैर्ऋतसङ्कुलाम्।
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम्॥ 9-46-28 (62762)
जयशब्दं तथा चक्रुर्देवाः सर्वे सवासवाः।
गन्धर्वा यक्षरक्षांसि मुनयः पितरस्तथा॥ 9-46-29 (62763)
ततः प्रादादनुचरौ यमः कालोपमावुभौ।
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती॥ 9-46-30 (62764)
सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ।
तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान्॥ 9-46-31 (62765)
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ।
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च॥ 9-46-32 (62766)
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः।
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ॥ 9-46-33 (62767)
परिधं च वटं चैव भीमं च सुमहाबलम्।
दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ॥ 9-46-34 (62768)
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते।
उत्क्रोशं सत्करं चैव वज्रदण्डधरावुभौ॥ 9-46-35 (62769)
ददावनलपुत्राय वासवः परवीरहा।
तौ हि शत्रून्महेन्द्रास्य जघ्नतुः समरे बहून्॥ 9-46-36 (62770)
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम्।
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः॥ 9-46-37 (62771)
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ।
स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ॥ 9-46-38 (62772)
किन्दुं च कुसुमं चैव कुमुदं च महायशाः।
डम्बराडम्बरौ चैव ददौ धाता महात्मने॥ 9-46-39 (62773)
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ।
ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ॥ 9-46-40 (62774)
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने।
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः॥ 9-46-41 (62775)
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ।
सुव्रतं च महात्मानं शुभकर्माणमेव च॥ 9-46-42 (62776)
कार्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ।
पाणीतकं कालिकं च महामायाविनावुभौ॥ 9-46-43 (62777)
पूषा च पार्षदौ प्रादात्कार्तिकेयाय भारत।
बलं चातिबलं चैव महावक्त्रौ महाबलौ॥ 9-46-44 (62778)
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम।
यमं चातियमं चैव तिमिवक्त्रौ महाबलौ॥ 9-46-45 (62779)
प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः।
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्॥ 9-46-46 (62780)
हिमवान्प्रददौ राजन्हुताशनसुताय वै।
काञ्चनं च महात्मानं मेघमालिनमेव च॥ 9-46-47 (62781)
ददावनुचरौ मेरुरग्निपुत्राय भारत।
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ॥ 9-46-48 (62782)
महात्मा त्वग्निपुत्राय महाबलपराक्रमौ।
उच्छृङ्गं चातिशृङ्गं च महापाषाणयोधिनौ॥ 9-46-49 (62783)
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ।
सङ्ग्रहं विग्रहं चैव समुद्रोऽमि गदाधरौ॥ 9-46-50 (62784)
प्रददावग्निपुत्राय महापारिषदावुभौ।
उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च॥ 9-46-51 (62785)
प्रददावग्निपुत्राय पार्वती शुभदर्शना।
जयं महाजयं चैव गङ्गा ज्वलनसूनवे॥ 9-46-52 (62786)
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः।
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा॥ 9-46-53 (62787)
सागराः सरितश्चैव गिरयश्च महाबलाः।
ददुः सेनागणाध्यक्षाञ्शूलपट्टसधारिणः॥ 9-46-54 (62788)
दिव्यप्रहरणोपेतान्नानावेषविभूषितान्।
शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः॥ 9-46-55 (62789)
विविधायुधसम्पन्नाश्चित्राभरणभूषिताः।
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च॥ 9-46-56 (62790)
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ।
घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः॥ 9-46-57 (62791)
अक्षः सन्तर्जनो राजन्कुनदीकस्तमोन्तकृत्।
एकाक्षो द्वाशाक्षश्च तथैवैकजटः प्रभुः॥ 9-46-58 (62792)
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः।
पुण्यनामा सुनामा च सुचक्रः प्रियदर्शनः॥ 9-46-59 (62793)
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः।
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः॥ 9-46-60 (62794)
ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः।
परिश्रुतः कोकनदः कृष्णकेशो जटाधरः॥ 9-46-61 (62795)
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः।
विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः॥ 9-46-62 (62796)
उदाराक्षो रथाक्षश्च वज्रनाभो वसुप्रभः।
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च॥ 9-46-63 (62797)
वृषो मेषः प्रवाहश्च तथा नन्दोपनन्दकौ।
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा॥ 9-46-64 (62798)
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतपवान्।
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा॥ 9-46-65 (62799)
क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत।
गोव्रजः कनकापीडो महापारिषदेश्वरः॥ 9-46-66 (62800)
गायनो हसनश्चैव बाणः खङ्गश्च वीर्यवान्।
वैताली गतिताली च तथा कथकवातिकौ॥ 9-46-67 (62801)
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह।
रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः॥ 9-46-68 (62802)
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः।
कालकक्षः सितश्चैव भूतानां मथनस्तथा॥ 9-46-69 (62803)
यज्ञवाहः सुवाहश्च देवयाजी च सोमपः।
मज्जानश्च महातेजाः क्रथक्राथौ च भारत॥ 9-46-70 (62804)
तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान्।
मधुरः सुप्रसादश्च किरीटी च महाबलः॥ 9-46-71 (62805)
वत्सलो मधुवर्णश्च कलशोदर एव च।
धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान्॥ 9-46-72 (62806)
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः।
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा॥ 9-46-73 (62807)
अचलः कनकाक्षश्च बालानामपि यः प्रभुः।
सञ्चारकः कोकनदो गृध्रपत्रश्च जम्बुकः॥ 9-46-74 (62808)
लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः।
स्वर्णग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभः॥ 9-46-75 (62809)
पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः।
चाषवक्त्रक्ष जम्बूकः शाकवक्त्रश्च कुञ्जलः॥ 9-46-76 (62810)
योगयोक्ता महात्मानः सततं ब्राह्मणप्रियाः।
पैतामहा महात्मानो महापारिषदाश्च ये॥ 9-46-77 (62811)
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय।
सहस्रशः पारिषदाः कुमारमुपतस्थिरे॥ 9-46-78 (62812)
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्चनमेजय।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा॥ 9-46-79 (62813)
खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा।
मार्जारशशवक्ताश्च दीर्घवक्त्राश्च भारत॥ 9-46-80 (62814)
नकुलोलूकवक्त्राश्च काकवक्त्रास्तथा परे।
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा॥ 9-46-81 (62815)
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः।
ऋक्षशार्दूलवक्त्राश्च द्वीतिसिंहाननास्तथा॥ 9-46-82 (62816)
भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये।
गरुडाननाः कङ्कुमुखा वृककाकमुखास्तथा॥ 9-46-83 (62817)
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा।
महाजठरपादाङ्गास्तारकाक्षाश्च भारत॥ 9-46-84 (62818)
पारावतमुखाश्चान्ये तथा वृषमुखाः परे।
कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः॥ 9-46-85 (62819)
कृकलासमुखाश्चैव विरजोम्बरधारिणः।
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः॥ 9-46-86 (62820)
आशीविषाश्चीरधरा गोनासावदनास्तथा।
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः॥ 9-46-87 (62821)
हस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः॥ 9-46-88 (62822)
स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः।
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि॥ 9-46-89 (62823)
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा।
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः॥ 9-46-90 (62824)
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः।
नानावृक्षभुजाः केचित्कटिशीर्षास्तथा परे॥ 9-46-91 (62825)
भुजङ्गभोगवदना नानागुल्मनिवासिनः।
चीरसंवृतगात्राश्च नानाकनकवाससः॥ 9-46-92 (62826)
नानावेषधराश्चैव नानामाल्यानुलेपनाः।
नानावस्त्रधराश्चैव चर्मवासस एव च॥ 9-46-93 (62827)
उष्णीषिणो मुकुटिनः सुग्रीवाश्च सुवर्चसः।
किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः॥ 9-46-94 (62828)
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे।
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा॥ 9-46-95 (62829)
चित्रमालाधराः केचित्केचिद्रोमाननास्तथा।
विग्रहैकरसा नित्यमजेताः सुरसत्तमैः॥ 9-46-96 (62830)
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः।
स्थूलपृष्ठा हस्वपृष्ठाः प्रलम्बोदरमेहनाः॥ 9-46-97 (62831)
महाभुजा हस्वभुजा हस्वगात्राश्च वामनाः।
कुब्जाश्च हस्वजङ्घाश्च हस्तिकर्णशिरोधराः॥ 9-46-98 (62832)
हस्तिनासाः कूर्मनासा वृकनासास्तथा परे।
दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः॥ 9-46-99 (62833)
महादंष्ट्रा हस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथा परे।
वारमेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः॥ 9-46-100 (62834)
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः।
पिङ्गाक्षाः शङ्कुकर्णाश्च रक्तनासाश्च भारत॥ 9-46-101 (62835)
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः।
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः॥ 9-46-102 (62836)
नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत।
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः॥ 9-46-103 (62837)
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा।
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः॥ 9-46-104 (62838)
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत।
वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः॥ 9-46-105 (62839)
श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे।
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत॥ 9-46-106 (62840)
चामरापीडकनिभाः श्वेतलोहितराजयः।
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः॥ 9-46-107 (62841)
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु।
शेषैः कृतः पारिषदैरायुधानां परिग्रहः॥ 9-46-108 (62842)
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः।
पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः॥ 9-46-109 (62843)
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः।
असिमुद्ग्ररहस्ताश्च दण्डहस्ताश्च भारत॥ 9-46-110 (62844)
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः।
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः॥ 9-46-111 (62845)
महाबला महावेगा महापारिषदास्तथा।
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः॥ 9-46-112 (62846)
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः।
एते चान्ये च बहवो महापारिषदा नृप॥ 9-46-113 (62847)
उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम्।
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः॥ 9-46-114 (62848)
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराऽभवन्।
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च।
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे॥ ॥ 9-46-115 (62849)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि षट्चत्वारिंशोऽध्यायः॥ 46 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-46-13 नागराजश्च वामन इति ख.पाठः॥ 9-46-45 घसं त्वातिघसं चैवेति ख.पाठः॥ 9-46-46 षट्चत्वारिंशोऽध्यायः॥शल्यपर्व - अध्याय 047
॥ श्रीः ॥
9.47. अध्यायः 047
Mahabharata - Shalya Parva - Chapter Topics
कुमारमातृगणस्य नामकीर्तनम्॥ 1 ॥ कुमारेण तारकासुरवधः क्रौञ्चपर्वतभेदनं च॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-47-0 (62850)
वैशम्पायन उवाच। 9-47-0x (5198)
शृणु मातृगणान्राजन्कुमारानुचरानिमान्।
कीर्त्यमानान्मया वीर सपत्नगणसूदनान्॥ 9-47-1 (62851)
यशस्विनीनां मातॄणां शृणु नामानि भारत
याभिर्वायप्तास्त्रयोलोकाः कल्याणीभिश्च भागशः॥ 9-47-2 (62852)
प्रभावती विशालाक्षी पालिता गोस्तानी तथा।
श्रीमती बहुला चैव तथैव बहुपुत्रिका॥ 9-47-3 (62853)
अप्सुजाता च गोपाली बृहदम्बालिका तथा।
जयावती मालतिका ध्रुवरत्ना भयङ्करी॥ 9-47-4 (62854)
वसुदामा च दामा च विशोका नन्दिनी तथा।
एकचूडा महाचूडा चक्रनेमिश्च भारत॥ 9-47-5 (62855)
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना।
शत्रुञ्जया तथा चैव क्रोधना शलभी खरी॥ 9-47-6 (62856)
माधवी शुभवक्त्रा च तीर्थसेनिश्च भारत।
गीतप्रिया च कल्याणी रुद्ररोमाऽमिताशना॥ 9-47-7 (62857)
मेघस्वना भोगवती सुभ्रूश्च कनकावती।
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत॥ 9-47-8 (62858)
पुन्नावती सुनक्षत्रा कन्दरा बहुयोजना।
सन्तानिका च कौरव्य कमला च महाबला॥ 9-47-9 (62859)
सुदामा बहुदामा च सुप्रभा च यशस्विनी।
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला॥ 9-47-10 (62860)
शतघण्टा शतानन्दा भगनन्दा च भाविनी।
वपुष्मती चन्द्रशीता भद्रकाली च भारत॥ 9-47-11 (62861)
ऋक्षाम्बिका निष्कुटिका वामा चत्वरवासिनी।
सुमङ्गला स्वस्तिमती बुद्धिकामा जयप्रिया॥ 9-47-12 (62862)
धनदा सुप्रसादा च भवदा च जलेश्वरी।
एडी भेडी समेडी च वेतालजननी तथा॥ 9-47-13 (62863)
कण्डूतिः कालिका चैव देवमित्रा च भारत।
वसुश्रीः कोटरा चैव चित्रसेना तथाऽचला॥ 9-47-14 (62864)
कुक्कुटिका शङ्खलिका तथा शकुनिका नृप।
कुण्डारिका कौकुलिका कुम्भिकाऽथ शतोदरी॥ 9-47-15 (62865)
उत्क्राथिनी जलेला च महावेगा च कङ्कणा।
मनोजवा कण्टकिनी प्रघसा पूतना तथा॥ 9-47-16 (62866)
केशयन्त्री त्रुटिर्वामा क्रोशनाऽथ तडित्प्रभा।
मन्दोदरी च मुण्डी च कोटरा मेघवाहिनी॥ 9-47-17 (62867)
सुभगा लम्बिनी लम्बा ताम्रचूडा विकाशिनी।
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला॥ 9-47-18 (62868)
पृथुवस्त्रा मधुलिका मधुकुम्भा तथैव च।
पक्षालिका मत्कुलिका जरायुर्जर्जरानना॥ 9-47-19 (62869)
ख्याता दहदहा चैव तथा धमधमा नृप।
खण्डखण्डा च राजेन्द्र पूषणा मणिकुट्टिका॥ 9-47-20 (62870)
अमोघा चैव कौरव्य तथा लम्बपयोधरा।
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला॥ 9-47-21 (62871)
शशोकूलमुखी कृष्णा खरजङ्घा महाजवा।
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा॥ 9-47-22 (62872)
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा।
कालेहिका वामनिका मुकुटा चैव भारत॥ 9-47-23 (62873)
लोहिताक्षी महाकाया हरिपिण्डा च भूमिप।
एकत्वचा सुकुसुमा कृष्णकर्णी च भारत॥ 9-47-24 (62874)
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा।
चतुष्पथनिकेता च गोकर्णी महिषानना॥ 9-47-25 (62875)
खरकर्णी महाकर्णी भेरीस्वनमहास्वना।
शङ्खकुम्भश्रवाश्चैव भगदा च महाबला॥ 9-47-26 (62876)
गणा च सुगणा चैव तथा भीत्यथ कामदा।
चतुष्पथरता चैव भूतितीर्थान्यगोचरी॥ 9-47-27 (62877)
पशुदा वित्तदा चैव सुखदा च महायशाः।
पयोदा गोमहिषदा सविशाला च भारत॥ 9-47-28 (62878)
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना।
नौकर्णी मुखकर्णी च विशिरा मन्थिनी तथा॥ 9-47-29 (62879)
एकचन्द्रा मेघकर्णा मेघमाला विरोचना।
एताश्चान्याश्च बहवो मातरो भरतर्षभ॥ 9-47-30 (62880)
कार्तिकेयानुयायिन्यो नानारूपाः सहस्रशः।
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्श्च भारत॥ 9-47-31 (62881)
सबला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः।
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा॥ 9-47-32 (62882)
निर्मासगात्र्यः श्वेताश्च तथा काञ्चनसन्निभाः।
कृष्णमेघनिभाश्चान्या धूम्नाश्च भरतर्षभ॥ 9-47-33 (62883)
अरुणाभा महाभोगा दीर्घकेश्यः सिताम्बराः।
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः॥ 9-47-34 (62884)
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः।
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथाऽपराः॥ 9-47-35 (62885)
वरदाः कामचारिण्यो नित्यं प्रमुदितास्तथा।
याम्या रौद्रास्तथा सौम्याः कौबेर्योऽथ महाबलाः॥ 9-47-36 (62886)
वारुण्योऽथ च माहेन्द्यस्तथाऽऽग्नेय्यः परन्तप।
वायव्यश्चाथ कौमार्यो ब्राह्मश्च भरतर्षभ॥ 9-47-37 (62887)
वैष्णव्यश्च तथा सौर्यो वाराह्यश्च महाबलाः।
रूपेणाप्सरसां तुल्या मनोहार्यो मनोरमाः॥ 9-47-38 (62888)
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः।
शक्रवीर्योपमा युद्धे दीप्ता वह्निसमास्तथा॥ 9-47-39 (62889)
शत्रुणां विग्रहे नित्यं भयदास्ता भवन्त्युत।
कामरूपधराश्चैव जवे वायुसमास्तथा॥ 9-47-40 (62890)
अचिन्त्यबलवीर्याश्च तथाऽचिन्त्यपराक्रमाः।
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः॥ 9-47-41 (62891)
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः।
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा॥ 9-47-42 (62892)
नानाविचित्रवेषाश्च नानाभाषास्तथैव च।
एते चान्ये च मातॄणां गणाः शत्रुभयङ्कराः॥ 9-47-43 (62893)
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते।
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः॥ 9-47-44 (62894)
गुहाय राजशार्दूल विनाशाय सुरद्विषाम्।
महास्वनां महाघण्टां द्योतमानां सितप्रभाम्॥ 9-47-45 (62895)
अरुणादित्यवर्णां च पताकां भरतर्षभ।
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम्॥ 9-47-46 (62896)
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम्।
अजेयां स्वगणैर्युक्तां नाम्ना सेनां धनञ्जयाम्॥ 9-47-47 (62897)
रुद्रतुल्यबलैर्युक्तां योधानामयुतैस्त्रिभिः।
न सा विजानाति रणात्कदाचिद्विनिवर्तितुम्॥ 9-47-48 (62898)
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम्।
उमा ददौ विरजसी वाससी रविसप्रभे॥ 9-47-49 (62899)
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम्।
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः॥ 9-47-50 (62900)
गरुडो दयितं पुत्रं मयरं चित्रबर्हिणम्।
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम्॥ 9-47-51 (62901)
छागं तु वरुणो राजा बलवीर्यसमन्वितम्।
कृष्णाजिनं ततो ब्रह्मा ब्रह्मण्याय ददौ प्रभुः।
समरेषु जयं चैव प्रददौ लोकभावनः॥ 9-47-52 (62902)
सैनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह।
शुशुभे ज्वलितोर्चिष्मान्द्वितीय इव पावकः॥ 9-47-53 (62903)
ततः पारिषदैश्चैव मातृभिश्च समन्वितः।
ययौ देत्यविनाशाय ह्लादयन्सुरपुङ्गवान्॥ 9-47-54 (62904)
सा सेना नैर्ऋती भीमा सघण्टोच्छ्रितकेतना।
सभेरीशङ्खमुरजा सायुधा सपताकिनी॥ 9-47-55 (62905)
शारदी द्यौरिवाभाति ज्योतिर्भिरिव शोभिता॥ 9-47-56 (62906)
ततो देवनिकायास्ते नानाभूतगणास्तथा।
वादयामासुरव्याग्रा भेरीः शङ्खांश्च पुष्कलान्॥ 9-47-57 (62907)
पटहान्झर्झरांश्चैव क्रकचान्गोविषाणिकान्।
आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान्॥ 9-47-58 (62908)
तुष्टुवुस्ते कुमारं तु सर्वे देवाः सवासवाः।
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः॥ 9-47-59 (62909)
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ।
रिपून्दन्ताऽस्मि समरे ये वो वधचिकीर्षवः॥ 9-47-60 (62910)
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात्।
प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून्॥ 9-47-61 (62911)
सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः।
अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना॥ 9-47-62 (62912)
स निर्ययौ महासेनो महत्या सेनया वृतः।
वधाय युधि दैत्यानां रक्षार्थं च दिवोकसाम्॥ 9-47-63 (62913)
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः।
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप॥ 9-47-64 (62914)
स तया भीमया देवः शुलमुद्गरहस्तया।
ज्वलितालातधारिण्या चित्राभरणवर्मया॥ 9-47-65 (62915)
गदामुसलनाराचशक्तितोमरहरतया।
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः॥ 9-47-66 (62916)
`तं दष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा।
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः॥ 9-47-67 (62917)
अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः।
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः॥ 9-47-68 (62918)
शक्त्यस्त्रं भगवान्भीमं पुनःपुनरवाकिरत्।
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः॥ 9-47-69 (62919)
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा।
उल्काज्वाला महाराज पपात वसुधातले॥ 9-47-70 (62920)
संहादयन्तश्च तथा निर्घाताश्चापतन्क्षिपौ।
यथान्तकालसमये सुघोराः स्युस्तथा नृप॥ 9-47-71 (62921)
क्षिप्ता ह्येका यदा शक्तिः सुघोराऽनलसूनुना।
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ॥ 9-47-72 (62922)
ततः प्रीतो महासेनो जघान भगवान्प्रभुः।
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम्॥ 9-47-73 (62923)
वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप।
महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान्॥ 9-47-74 (62924)
त्रिपादं चायुतशतैर्जघान दशभिर्वृतम्।
हदोदरं निखर्वैश्च वृतं दशभिरीश्वरः॥ 9-47-75 (62925)
जघानानुचरैः सार्धं विविधायुधपाणिभिः।
तथाऽकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु॥ 9-47-76 (62926)
कुमारानुचरा राजन्पूरयन्तो दिशो दश।
ननृतुश्च ववल्गुश्च जहसुश्च मुदान्विताः॥ 9-47-77 (62927)
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः।
त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च॥ 9-47-78 (62928)
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे।
पताकयावधूताश्च हताः केचित्सुरद्विषः॥ 9-47-79 (62929)
केचिद्धण्टारवत्रस्ता निषेदुर्वसुधातले।
केचित्प्रहरणैश्छिन्ना विनिष्पेतुर्गतायुषः॥ 9-47-80 (62930)
एवं सुरद्विषोऽनेकान्बलवानाततायिनः।
जघान समरे वीरः कार्तिकेयो महाबलः॥ 9-47-81 (62931)
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः।
क्रौञ्चं पर्वतमाश्रित्य देवसङ्घानबाधत॥ 9-47-82 (62932)
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः।
स कार्तिकेयस्य भयात्क्रौञ्चं शरणमीयिवान्॥ 9-47-83 (62933)
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम्।
शक्त्या बिभेद भगवान्कार्तिकेयोऽग्निदत्तया॥ 9-47-84 (62934)
ससालस्कन्धशबलं त्रस्तवानरवारणम्।
प्रोङ्कीनोद्धान्तविहगं विनिष्पतितपन्नगम्॥ 9-47-85 (62935)
गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम्।
कुरङ्गमविनिर्घोषनिनादितवनान्तरम्॥ 9-47-86 (62936)
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः।
शोच्यामपि दशां प्राप्तो रराजेव सपर्वतः॥ 9-47-87 (62937)
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः।
किन्नराश्च समुद्विग्नाः शक्तिपातरवोद्धताः॥ 9-47-88 (62938)
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः।
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः॥ 9-47-89 (62939)
तान्निजघ्नुरतिक्रम्य कुमाराजुचरा मृधे।
स चैव भगवान्क्रुद्धो दैत्येन्द्रस्य सुतं तदा॥ 9-47-90 (62940)
सहानुजं जघानाशु वृत्रं देवपतिर्यथा।
बिभेद क्रौञ्चं शक्त्या च पावकिः परवीरहा॥ 9-47-91 (62941)
बहुधा चैकधा चैव कृत्वाऽऽत्मानं महाबलः।
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः॥ 9-47-92 (62942)
एवम्प्रभावो भगवांस्ते भूयश्च पावकिः।
शौर्याद्द्विगुणयोगेन तेजसा यशसा श्रिया॥ 9-47-93 (62943)
क्रौञ्चस्ते विनिर्भिन्नो दैत्याश्च शतशो हताः॥ 9-47-94 (62944)
ततः स भगवान्देवो निहत्य विबुधद्विषः।
सभाज्यमानो विबुधैः परं हर्षमवाप ह॥ 9-47-95 (62945)
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत।
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम्।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः॥ 9-47-96 (62946)
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः।
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः॥ 9-47-97 (62947)
केचिदनं व्यवस्यान्ति पितामहसुतं प्रभुम्।
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम्॥ 9-47-98 (62948)
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः।
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत॥ 9-47-99 (62949)
एकधा च द्विधा चैव चतुर्धा च महाबलम्।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः॥ 9-47-100 (62950)
एतत्ते कथितं राजन्कार्तिकेयाभिषेचनम्।
शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम्॥ 9-47-1 (62951)
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु।
कुमारेण महाराज त्रिविष्टपमिवापरम्॥ 9-47-2 (62952)
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक्।
ददौ नैर्ऋतमुख्येभ्यस्त्रैलोक्यं पावकात्मजः॥ 9-47-3 (62953)
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः।
अभिषिक्तो महाराज देवसेनापतिः सुरैः॥ 9-47-4 (62954)
औशनं नाम तत्तीर्थं यत्र पूर्वमपाम्पतिः।
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ॥ 9-47-5 (62955)
अस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली।
ब्राह्मणेभ्योददौ रुक्मं वासांस्याभरणानि च॥ 9-47-6 (62956)
उषित्वा रजनीं तत्र माधवः परवीरहा।
पूज्यतीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली॥ 9-47-7 (62957)
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥ 9-47-8 (62958)
यथाऽभिषिक्तो भगवान्स्कन्दो देवैः समागतैः।
`सेनानीश्च कृतो राजन्बाल एव महाबलः'॥ ॥ 9-47-9 (62959)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि सप्तचत्वारिंशोऽध्यायः॥ 47 ॥
शल्यपर्व - अध्याय 048
॥ श्रीः ॥
9.48. अध्यायः 048
Mahabharata - Shalya Parva - Chapter Topics
देवैर्वरुणस्य जलाधिपत्येऽभिषेचनम्॥ 1 ॥ बलभद्रस्याग्नितीर्थकौबेरतीर्थगमनं तन्महिमानुवर्णनं च॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-16-0 (62960)
जनमेजय उवाच। 9-16-0x (5199)
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः।
अभिषेकं कुमारस्य विस्तरेण यथाविधि॥ 9-16-1 (62961)
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन।
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम॥ 9-16-2 (62962)
अभिषेकं कुमारस्य दैत्यानां च वधं तथा।
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे॥ 9-16-3 (62963)
अपाम्पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः।
तन्मे ब्रूहि महाप्रज्ञ कुशलो ह्यसि सत्तम॥ 9-16-4 (62964)
वैशम्पायन उवाच। 9-16-5x (5200)
शृणु राजन्निदं चित्रं पूर्वकाले यथाऽभवत्॥ 9-16-5 (62965)
आदौ कृतयुगे राजन्वर्तमाने यथाविधि।
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन्॥ 9-16-6 (62966)
यथाऽस्मान्सुरराट् शक्रो भयेभ्यः पाति सर्वदा।
तथा त्वमपि सर्वासां सरितां वै पतिर्भव॥ 9-16-7 (62967)
वासश्च ते सदा देव सागरे मकरालये।
समुद्रोऽयं तव वशे भविष्यति नदीपतिः॥ 9-16-8 (62968)
सोमेन सार्धं च तव हानिवृद्वी भविष्यतः।
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत्॥ 9-16-9 (62969)
समागम्य ततः सर्वे वरुणं सागरालयम्।
अपाम्पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा॥ 9-16-10 (62970)
अभिषिच्य ततो देवा वरुणं यादसाम्पतिम्।
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम्॥ 9-16-11 (62971)
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः।
सरितः सागरांश्चैव नदांश्चापि सरांसि च।
पालयामास विधिना यथा देवाञ्शतक्रतुः॥ 9-16-12 (62972)
ततस्त्रत्राप्युपस्पृश्य दत्त्वा च विविधं वसु।
अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा।
नष्टो न दृश्यते यत्र शमीगर्भे दुताशनः॥ 9-16-13 (62973)
लोकालोकविनाशे च प्रादुर्भूते तदाऽनघ।
उपतस्थुः सुरा यत्र सर्वलोकपितामहम्॥ 9-16-14 (62974)
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे।
सर्वभूतक्षयो राजन्सम्पादय विभोऽनलम्॥ 9-16-15 (62975)
जनमेजय उवाच। 9-16-16x (5201)
किमर्थं भगवानग्निः प्रनष्टो लोकभावनाः।
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः॥ 9-16-16 (62976)
वैशम्पायन उवाच। 9-16-17x (5202)
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान्।
शमीगर्भमथासाद्य ननाश भगवांस्ततः॥ 9-16-17 (62977)
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः।
अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः॥ 9-16-18 (62978)
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि।
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि॥ 9-16-19 (62979)
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः।
ज्वलनं तं समासाद्य प्रीताऽभूवन्सवासवाः॥ 9-16-20 (62980)
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत्।
भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना॥ 9-16-21 (62981)
तत्राप्याप्लुत्य मतिमान्ब्रह्मशापान्मुमोच ह॥ 9-16-22 (62982)
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा।
ससर्ज चान्नानि तथा देवतानां यथाविधि॥ 9-16-23 (62983)
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च।
कौबेरं प्रययौ तीर्थं यत्र तप्त्वा महत्तपः॥ 9-16-24 (62984)
धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः॥ 9-16-25 (62985)
तत्रस्थमेव तं राजन्धनानि निधयस्तथा।
उपतद्धतुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली बलः॥ 9-16-26 (62986)
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ।
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे॥ 9-16-27 (62987)
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना।
यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः॥ 9-16-28 (62988)
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा।
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम्॥ 9-16-29 (62989)
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा।
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः॥ 9-16-30 (62990)
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोजवम्।
विमानं पुष्पकं दिव्यं नैर्ऋतैश्वर्यमेव च॥ 9-16-31 (62991)
तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान्।
जगाम त्वरितो रामस्तीर्थं स्वेतानुलेपनः॥ 9-16-32 (62992)
निषेवितं सर्वसत्वैर्नाम्ना बदरपाचनम्।
नानर्तुकवनोपेतं सदा पुष्पफलं शुभम्॥ ॥ 9-16-33 (62993)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टचत्वारिंशोऽध्यायः॥ 48 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-16-25 ऐलबिलः कुबेरः॥ 9-16-48 अष्टचत्वारिंशोऽध्यायः॥शल्यपर्व - अध्याय 049
॥ श्रीः ॥
9.49. अध्यायः 049
Mahabharata - Shalya Parva - Chapter Topics
बलरामस्य बदरपाचनतीर्थगमनम्॥ 1 ॥ श्रुतावत्यरुन्धत्योर्महिमानुवर्णनम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-49-0 (62994)
वैशम्पायन उवाच। 9-49-0x (5203)
ततस्तीर्थवरं रामो ययौ बदरपाचनाम्।
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता॥ 9-49-1 (62995)
भरद्वाजस्य दुहिता रुपेणाप्रतिमा भुवि।
श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी॥ 9-49-2 (62996)
तपश्चचार सात्युग्रं नियमैर्बहुभिर्वृता।
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी॥ 9-49-3 (62997)
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह।
चरन्त्या नियमांस्तांस्तांस्त्रीभिस्तीव्रान्सुदुश्चरान्॥ 9-49-4 (62998)
तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते।
भक्त्या च भगवान्प्रीतः परया पाकशासनः॥ 9-49-5 (62999)
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः।
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः॥ 9-49-6 (63000)
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्।
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत॥ 9-49-7 (63001)
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो॥ 9-49-8 (63002)
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत।
शक्त्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन॥ 9-49-9 (63003)
व्रतैश्च नियमैश्चैव तपसा च तपोधन।
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः॥ 9-49-10 (63004)
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम्।
उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत॥ 9-49-11 (63005)
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते।
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः॥ 9-49-12 (63006)
तच्च सर्वं यथाभूतं भविष्यति वरानने।
तपसा लभ्यते सर्वं यथाभूतं भविष्यति॥ 9-49-13 (63007)
यथा स्थानानि दिव्यानि विबुधानां शुभानने।
तपसा तानि प्राप्याणि तपोमूलं महात्सुखम्॥ 9-49-14 (63008)
इति कृत्वा तपो घोरं देहं सन्न्यस्य मानवाः।
देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम॥ 9-49-15 (63009)
प़ञ्च चैतानि सुभगे बदराणि शुभव्रते।
पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः॥ 9-49-16 (63010)
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः।
अविदूरे ततस्तस्मादाश्रमात्तीर्थमुत्तमम्॥ 9-49-17 (63011)
तच्च तीर्थं महाराज यत्र जप्यं जजाप सः।
इन्द्रतीर्थेतिविख्यातं त्रिषु लोकेषु मानद॥ 9-49-18 (63012)
तस्य जिज्ञासनार्थं स भगवान्पाकशासनः।
बदराणामपचनं चकार विबुधाधिपः॥ 9-49-19 (63013)
ततः प्रतप्ता सा राजन्वाग्यता विगतक्लमा।
तत्परा शुचिसंवीता पावके समधिश्रयत्।
अपचद्राजशार्दूल बदराणि महाव्रता॥ 9-49-20 (63014)
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ।
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात्॥ 9-49-21 (63015)
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः।
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत्॥ 9-49-22 (63016)
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना।
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ॥ 9-49-23 (63017)
चरणे दह्यमाने च नाचिन्तयदनिन्दिता।
दुःखं कमलपत्राक्षी महर्षिप्रियकाम्यया॥ 9-49-24 (63018)
न वैमनस्यं तस्यास्तु मुखभेदोऽथवाऽभवत्।
शरीरमग्निना दीप्य जलमध्ये यथा स्थिता॥ 9-49-25 (63019)
तच्चास्याः पचने यत्नं न न्यवर्तत भारत।
सर्वथा बदराण्येव पक्तव्यानीति कन्यका॥ 9-49-26 (63020)
सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा।
अपचद्बदराण्येव न चापच्यन्त भारत॥ 9-49-27 (63021)
तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम्।
न च तस्या मनोदुःखं स्वल्पमप्यभवत्तदा॥ 9-49-28 (63022)
अथ तत्कर्म दृष्ट्वाऽस्याः प्रीतस्त्रिभुवनेश्वरः।
ततः सन्दर्शयामास कन्यायै रूपमात्मनः॥ 9-49-29 (63023)
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्।
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च॥ 9-49-30 (63024)
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे।
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि॥ 9-49-31 (63025)
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति।
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्।
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्॥ 9-49-32 (63026)
अस्मिन्खलु महाभागे शुभे तीर्थवरेऽनघे।
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम्॥ 9-49-33 (63027)
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः।
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल॥ 9-49-34 (63028)
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने।
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी॥ 9-49-35 (63029)
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः।
अरुन्धत्यपि कल्याणी तपोनित्याऽभवत्तदा॥ 9-49-36 (63030)
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम्।
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा॥ 9-49-37 (63031)
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः।
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे॥ 9-49-38 (63032)
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना।
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय॥ 9-49-39 (63033)
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते।
इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया।
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी॥ 9-49-40 (63034)
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा।
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी॥ 9-49-41 (63035)
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः।
दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः॥ 9-49-42 (63036)
ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात्।
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं ततः॥ 9-49-43 (63037)
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन्।
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च॥ 9-49-44 (63038)
ततः सन्दर्शयामास स्वरूपं भगवान्हरः।
ततोऽब्रवीत्तदा तेभ्यस्तस्याश्च चरितं महत्॥ 9-49-45 (63039)
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम्।
अस्यास्च यत्तपो विप्रा न समं तन्मतं मम॥ 9-49-46 (63040)
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्।
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः॥ 9-49-47 (63041)
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः।
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि॥ 9-49-48 (63042)
साऽब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि।
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम्॥ 9-49-49 (63043)
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम्।
तथाऽस्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः॥ 9-49-50 (63044)
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्।
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम्॥ 9-49-51 (63045)
सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा।
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्।
अश्रान्तां चाविवर्णां च क्षुत्पिपासाऽसमायुताम्॥ 9-49-52 (63046)
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया।
यथा त्वया महाभागे मदर्थे संशितव्रते॥ 9-49-53 (63047)
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः।
तथा चेदं ददाम्यद्य नियमेन सुतोषितः।
विशेषं तव कल्याणि प्रयच्छामि वरं वरे॥ 9-49-54 (63048)
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना।
तस्य चाहं प्रभावेन तव कल्याणि तेजसा।
प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि॥ 9-49-55 (63049)
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः।
सस्नात्वा प्राप्स्यते लोकान्देहन्यासात्सुदुर्लभान्॥ 9-49-56 (63050)
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान्।
श्रुतावतीं ततः पुण्यां जगाम त्रिदिवं पुनः॥ 9-49-57 (63051)
गते वज्रधरे राजंस्तत्र वर्षं पपात ह।
पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम्॥ 9-49-58 (63052)
दवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः।
मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते॥ 9-49-59 (63053)
उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम्।
तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत॥ 9-49-60 (63054)
जनमेजय उवाच। 9-49-61x (5204)
का तस्या भगवन्माता क्व संवृद्धा च शोभना।
श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे॥ 9-49-61 (63055)
वैशम्पायन उवाच। 9-49-62x (5205)
भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः।
दृष्ट्वाऽप्सरसमायान्ती घृताचीं पृथलोचनाम्॥ 9-49-62 (63056)
स तु जग्राह तद्रेतः करेण जपतां वरः।
तदाऽपतत्पर्णपुटे तत्र सा सम्भवत्सुता॥ 9-49-63 (63057)
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः।
नाम चास्याः स कृतवान्भरद्वाजो महामुनिः॥ 9-49-64 (63058)
श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि।
स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम्॥ 9-49-65 (63059)
तत्राप्युपस्पृश्य महानुभावो
वसूनि दत्त्वा च महाद्विजेभ्यः।
जगाम तीर्थं सुसमाहितात्मा
शक्रस्य वृष्णिप्रवरस्तदानीम्॥ ॥ 9-49-66 (63060)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनपञ्चाशोऽध्यायः॥ 49 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-49-23 उपावर्तयत अग्रेऽग्रे प्रसारितवती॥ 9-49-26 तच्चास्या वचनं नित्यमवर्तद्वृदि भारत इति झ.पाठः॥ 9-49-49 एकोनपञ्चाशोऽध्यायः॥शल्यपर्व - अध्याय 050
॥ श्रीः ॥
9.50. अध्यायः 050
Mahabharata - Shalya Parva - Chapter Topics
बलभद्रस्येरद्रतीर्थादिगमनम्॥ 1 ॥ तत्तत्तीर्थमाहात्म्यकथनम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-50-0 (63061)
वैशम्पायन उवाच। 9-50-0x (5206)
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली।
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि॥ 9-50-1 (63062)
तत्र ह्यमरराजो वै ईजे क्रतुशतेन ह।
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्॥ 9-50-2 (63063)
अनर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान्।
आजहर क्रतूंस्तत्र यथोक्तं वेदपारगैः॥ 9-50-3 (63064)
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः।
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः॥ 9-50-4 (63065)
तस्य नाम्ना तु तत्तीर्थं शिवं पुण्यं सनातनम्।
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्॥ 9-50-5 (63066)
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः।
ब्राह्मणान्पूजयित्वा च पानाच्छादुनभोजनैः॥ 9-50-6 (63067)
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह।
यत्र रामो महाभागो भार्गवः सुमहातपाः॥ 9-50-7 (63068)
असकृत्पृथिवीं कृत्वा हतक्षत्रियपुङ्गवाम्।
उपाध्यायं पुरस्कृत्य काश्यपं मुनिसत्तमम्॥ 9-50-8 (63069)
अयजद्वाजपेयेन सोऽश्वमेधशतेन च।
प्रददौ दक्षिणार्थं च पृथिवीं सागराम्बराम्॥ 9-50-9 (63070)
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय।
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान्॥ 9-50-10 (63071)
पुण्यतीर्थे शुभे देशे वसु दत्त्वा हलायुधः।
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत्।
यत्रानयामास तदा राजसूयमपाम्पतिः॥ 9-50-11 (63072)
दितेः सुतान्महाभागो वरुणो वै सितप्रभः।
यत्र निर्जित्य सङ्ग्रामे मानुषान्दानवांस्तथा।
गन्धर्वान्राक्षसांश्चैव वरुणः परवीरहा॥ 9-50-12 (63073)
तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत।
देवानां दानवानां च त्रैलोक्यस्य भयावहः॥ 9-50-13 (63074)
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय।
जायते सुमहाघोरः संक्षयः क्षत्रियान्प्रति॥ 9-50-14 (63075)
हलायुधस्तदा रामस्तस्मिंस्तीर्थवरे शुभे।
तत्रस्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः॥ 9-50-15 (63076)
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः।
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः॥ 9-50-16 (63077)
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम।
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत॥ 9-50-17 (63078)
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः।
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह॥ 9-50-18 (63079)
द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः।
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते॥ 9-50-19 (63080)
एते चान्ये च बहवो योगसिद्धाः सहस्रशः।
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप॥ 9-50-20 (63081)
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ।
आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे॥ 9-50-21 (63082)
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत।
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः॥ 9-50-22 (63083)
असितो देवलश्चैव तस्मिन्नेव महातपाः।
परमं योगमास्थाय ऋषिर्योगमवाप्तवान्॥ ॥ 9-50-23 (63084)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चाशोऽध्यायः॥ 50 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-50-1 आनयामास मुनीनित्यनुषज्ज्यते। राजसूयं कर्तुमिति शेषः॥ 9-50-50 पञ्चाशत्तमोऽध्यायः॥शल्यपर्व - अध्याय 051
॥ श्रीः ॥
9.51. अध्यायः 051
Mahabharata - Shalya Parva - Chapter Topics
देवलजैगीषव्ययोश्चरित्रकीर्तनम्॥ 1 ॥ बलभद्रस्यादित्यतीर्थात्सोमतीर्थगमनम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-51-0 (63085)
वैशम्पायन उवाच। 9-51-0x (5207)
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः।
गार्हिस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा॥ 9-51-1 (63086)
धर्मनित्यः शुचिर्दान्तो यज्ञशीलो महातपाः।
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु॥ 9-51-2 (63087)
अक्रोधनो महाराज तुल्यनिन्दात्मसंस्तुतिः।
प्रियाप्रिये तुल्यवृत्तिर्यमवत्समदर्शनः॥ 9-51-3 (63088)
काञ्चने लोष्ठके चैव समदर्शी महातपाः।
देवानपूजयन्नित्यमतिथींश्च द्विजैः सह।
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः॥ 9-51-4 (63089)
ततोऽभ्येत्य महाभाग योगमास्थाय भिक्षुकः।
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः॥ 9-51-5 (63090)
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः।
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः॥ 9-51-6 (63091)
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्।
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः॥ 9-51-7 (63092)
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्॥ 9-51-8 (63093)
जैगीषव्यो मुनिस्तं तु ददर्शाथ स केवलम्।
आहारकाले मतिमान्परिव्राड् जमेजय॥ 9-51-9 (63094)
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम्।
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा॥ 9-51-10 (63095)
देवलस्तु यथाशक्ति पूजयामास भारत।
ऋषिदृष्टेन विधिना समा बहीः समाहितः॥ 9-51-11 (63096)
कदाचित्तस्य नृयते देवलस्य महात्मनः।
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्॥ 9-51-12 (63097)
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम।
न चायमलसो भिक्षुरभ्यभाषत किञ्चन॥ 9-51-13 (63098)
एवं विगणयन्नेव स जगाम महोदधिम्।
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलं॥ 9-51-14 (63099)
गच्छन्नेव स धर्मात्मा समुद्रं सरितां परिम्।
जैगीषव्यं ततोऽपश्यद्रतं प्रागेव भारत॥ 9-51-15 (63100)
ततः सविस्मयश्चिन्तां जगामाथामितप्रभः।
कथं सिक्षुरचं प्राप्तः समुद्रे स्नात एव च॥ 9-51-16 (63101)
इत्येवं चिन्तयामास महर्षिरसितस्तदा।
स्नात्वा सखुद्रे विधिवच्छुचिर्जप्यं जजाप सः॥ 9-51-17 (63102)
कृतजxxxxx श्रीमानाश्रयं च जगाम ह।
xxxxxxxxxx गृहीत्वा जनमेजय॥ 9-51-18 (63103)
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः।
xxxxxxxxx तत्र जैगीषव्यमपश्यत॥ 9-51-19 (63104)
न व्याहरति चैवेनं जैगीषव्यः कथञ्चन।
xxxxxxxx वसति स्म महातपाः॥ 9-51-20 (63105)
तं दृष्ट्वा चाप्लुतं तोये सामरे सागरोपमम्।
प्रविष्टxxxxx चापि पूर्वमेव ददर्श सः॥ 9-51-21 (63106)
xxxxx देवलो राजंश्चिन्तयामास बुद्धिमान्।
xxxxxxx तपसो जैगीषव्यास्व योगजम्॥ 9-51-22 (63107)
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः।
मया दृष्टः समुद्रे च आश्रमे च कथंन्वयम्॥ 9-51-23 (63108)
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः।
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशाम्पते।
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः॥ 9-51-24 (63109)
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान्।
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत॥ 9-51-25 (63110)
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः।
अपश्यद्वै दिवं यातं जैगीषव्यं स देवलः॥ 9-51-26 (63111)
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत।
पितृलोकाच्च तं यातं याम्यं लोकमपश्यत॥ 9-51-27 (63112)
`तस्मादादित्यलोकं च व्रजन्तं सोऽन्वपश्यत।'
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम्।
व्रजन्तमन्वपश्यत्स जैगीषव्यं स देवलः॥ 9-51-28 (63113)
लोकान्समुत्पतन्तं तु शुभानेकान्तयाजिनाम्।
ततोऽग्निहोत्रिणां लोकांस्ततश्चाप्युत्पपात ह॥ 9-51-29 (63114)
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः।
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम्।
व्रजन्तं लोकममलमपश्यद्देवपूजितम्॥ 9-51-30 (63115)
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः।
तेषां स्थानं ततो यतां तथाऽग्निष्टोमयाजिनाम्॥ 9-51-31 (63116)
अग्निष्टुतेन च तथा ये यजन्ति तपोधनः।
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः॥ 9-51-32 (63117)
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम्।
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत॥ 9-51-33 (63118)
यजन्ते राजसूयेन पुण्डरीकेण चैव ये।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः॥ 9-51-34 (63119)
अश्वमेधं क्रतुवरं नरमेधं तथैव च।
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत॥ 9-51-35 (63120)
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः॥ 9-51-36 (63121)
द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः॥ 9-51-37 (63122)
मैत्रावरुणयोर्लोकानादित्यानां तथैव च।
सलोकतामनुप्राप्तमपश्यत ततोऽसितः॥ 9-51-38 (63123)
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः।
तानिं सर्वाण्यतीतं च समपश्यत्ततोऽसितः॥ 9-51-39 (63124)
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम्।
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः॥ 9-51-40 (63125)
त्रील्लोँकान्प्रवरान्विप्रमुत्पतन्तं स्वतेजसा।
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत॥ 9-51-41 (63126)
ततो मुनिवरं भूयो जैगीषव्यमथासितः।
नान्वपश्यत लोकस्थमन्तर्हितमरिन्दम॥ 9-51-42 (63127)
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः।
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम्॥ 9-51-43 (63128)
असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान्।
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मचारिणः॥ 9-51-44 (63129)
जैगीषव्यं न पश्यामि तं शंसन्तु तपोधनाः।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे॥ 9-51-45 (63130)
सिद्धा ऊचुः। 9-51-46x (5208)
शृणु देवल भूतार्थं शंसतां नो दृढव्रत।
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोक्षयम्॥ 9-51-46 (63131)
वैशम्पायन उवाच। 9-51-47x (5209)
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मचारिणाम्।
असिता देवलस्तूर्णमुत्पपात पपात च॥ 9-51-47 (63132)
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह।
न देवलगतिस्तत्र तव गन्तुं तपोधन।
ब्रह्मणः सदने विप्र जैगीषव्यो यदाप्तवान्॥ 9-51-48 (63133)
वैशम्पायन उवाच। 9-51-49x (5210)
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः।
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह॥ 9-51-49 (63134)
स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत्।
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः॥ 9-51-50 (63135)
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया।
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्॥ 9-51-51 (63136)
ततोऽब्रविन्महात्मानं जैगीषव्यं स देवलः।
विनयावनतो राजन्नुपसर्प्य महामुनिम्।
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम्॥ 9-51-52 (63137)
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः।
विधिं योगस्य परमं कार्याकार्यस्य शास्त्रतः॥ 9-51-53 (63138)
सन्नाये कृतबुद्धिं तं ततो दृष्ट्वा महातपाः।
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा॥ 9-51-54 (63139)
सन्न्यासे कृतबुद्धिं तं भूतानि पितृभिः सह।
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति॥ 9-51-55 (63140)
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा।
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे॥ 9-51-56 (63141)
ततस्तु फलमूलानि पवित्राणि च भारत।
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः॥ 9-51-57 (63142)
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः।
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते॥ 9-51-58 (63143)
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः।
मोक्षे गार्हस्थ्यधर्मे वा किन्नु श्रेयस्करं भवेत्॥ 9-51-59 (63144)
इति निश्चित्य मनसा देवलो राजसत्तम।
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत्॥ 9-51-60 (63145)
एवमादीनि सञ्चिन्त्य देवलो निश्चयान्वितः।
प्राप्तवान्परमां सिद्धिं परं योगं च भारत॥ 9-51-61 (63146)
ततो देवाः समागम्य बृहस्पतिपुरोगमाः।
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः॥ 9-51-62 (63147)
अथाब्रवीदृषिवरो देवान्वै नारदस्तथा।
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम्॥ 9-51-63 (63148)
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः।
नैवमित्येव शंसन्तो जैगीषव्यं महामुनिम्॥ 9-51-64 (63149)
नातः परतरं किञ्चित्तुल्यमस्ति प्रभावतः।
तेजसस्तपसश्चास्य योगस्य च महात्मनः॥ 9-51-65 (63150)
एवं प्रभावो धर्मात्मा जैगीषव्यस्तथाऽसितः।
तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः॥ 9-51-66 (63151)
तत्राप्युपस्पृश्य ततो महात्मा
दत्त्वा च वित्तं हलभृद्द्विजेभ्यः।
अवाप्य धर्मं परमार्थकर्मा
जगाम सोमस्य महाxxxxxxर्थम्। ॥ 9-51-67 (63152)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकपञ्चाशत्तमोऽध्यायः॥ 51 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-51-7 नैवापुञ्चत धर्मतः इति छ.पाठः॥ 9-51-8 न्यतिक्रमत् व्यत्यक्रामत्॥ 9-51-16 असितप्रभ इति छ.पाठः॥ 9-51-46 भूतार्थं यथाभूतार्थम्॥ 9-51-47 उत्पपात ब्रह्मलोकं गन्तुमिति शेषः। पपात च गगनात्॥ 9-51-54 सर्वाः क्रिया उत्सर्गेष्ठ्यादयः॥ 9-51-56 मोक्षं सन्न्यासं त्यक्तुं मनो दधे। उत्सृष्टा नामग्नीनां पुनराधानं कर्तुमैच्छत्॥ 9-51-66 असितो देवल॥ 9-51-51 एकपञ्चाशत्ततोऽध्यायः॥शल्यपर्व - अध्याय 052
॥ श्रीः ॥
9.52. अध्यायः 052
Mahabharata - Shalya Parva - Chapter Topics
दधीचिसारस्वतयोश्चरितवर्णनम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-52-0 (63153)
वैशम्पायन उवाच। 9-52-0x (5211)
यत्रेजिवानुडुपती राजसूयेन भारत।
यस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः॥ 9-52-1 (63154)
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान्।
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह॥ 9-52-2 (63155)
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान्।
वेदानध्यापयामास पुरा सारस्वतो मुनिः॥ 9-52-3 (63156)
जनमेजय उवाच। 9-52-4x (5212)
कथं द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान्।
वेदानध्यापयामास पुरा सारस्वतो मुनिः॥ 9-52-4 (63157)
वैशम्पायन उवाच। 9-52-5x (5213)
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः।
दधीचिरिति विख्यातो ब्रह्मचारी जितेन्द्रियः॥ 9-52-5 (63158)
तस्यातितपसः शक्रो बिभेति सततं विभो।
न स लोभयितुं शक्यः फलैर्बहुविधैरपि॥ 9-52-6 (63159)
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः।
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम्॥ 9-52-7 (63160)
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः।
समीपतो महाराज सोपातिष्ठत भामिनी॥ 9-52-8 (63161)
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः।
रेतः स्कन्नं सरस्वत्यां तस्मा जग्राह निम्नगा॥ 9-52-9 (63162)
कुक्षौ चाप्यदधद्वृष्टा तद्रेतः पुरुषर्षभ।
सा दधार च तं गर्भं पुत्रहेतोर्महात्मनः॥थ 9-52-10 (63163)
सुषुवे चापि समये पुत्रं सारस्वतं वरम्।
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो॥ 9-52-11 (63164)
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम्।
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम्।
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया॥ 9-52-12 (63165)
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम्।
तत्कुक्षिणाऽहं ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम्॥ 9-52-13 (63166)
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात्।
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम्॥ 9-52-14 (63167)
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप पुष्कलाम्।
पितृवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः॥ 9-52-15 (63168)
परिष्वज्य चिरं कालं तदा भरतसत्तम।
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः॥ 9-52-16 (63169)
विश्वेदेवाः सपितरो गन्धर्वाप्सरसां गणाः।
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा॥ 9-52-17 (63170)
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम्।
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव॥ 9-52-18 (63171)
दधीचिरुवाच। 9-52-19x (5214)
प्रस्रुताऽसि महाभागे सरसो ब्रह्मणः पुरा।
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः॥ 9-52-19 (63172)
मम प्रियकरी चापि सततं प्रियदर्शने।
तस्मात्सारस्वतं पुत्रमदधा वरवर्णिनि॥ 9-52-20 (63173)
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः।
सारस्वत इति ख्यातो भविष्यति महातपाः॥ 9-52-21 (63174)
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान्।
सारस्वतो महाभागे वेदानध्यापयिष्यति॥ 9-52-22 (63175)
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे।
भविष्यसि महाभागे मत्प्रसादात्सरस्वति॥ 9-52-23 (63176)
एवं स्त संस्तुता तेन वरं लब्ध्वा महानदी।
पुत्रमादाय मुदिता जगाम भरतर्षभ॥ 9-52-24 (63177)
एतस्मिन्नेव काले तु विरोधे देवदानवैः।
शक्रः प्रहरणान्विषी लोकांस्त्रीन्विचचार ह॥ 9-52-25 (63178)
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा।
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम्॥ 9-52-26 (63179)
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्याः सुरारयः।
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः॥ 9-52-27 (63180)
तस्माद्यत्नादृषिश्रेष्ठो याच्यतां कार्यसिद्धये।
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून्॥ 9-52-28 (63181)
स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा।
साहाय्यं नः कुरुष्वेति चकारैवाविचारयन्॥ 9-52-29 (63182)
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा।
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा॥ 9-52-30 (63183)
कारयामास दिव्यानि नानाप्रहरणान्युत।
गदा वज्राणि चक्राणि गुरून्दण्डांश्च पुष्कलान्॥ 9-52-31 (63184)
स हि तीव्रेण तपसा सम्भृतः परमर्षिणा।
प्रजापतिसुतेनाथ भृगुणा लोकभावनः॥ 9-52-32 (63185)
अतिकायः स तेजस्वी लोकसारो विनिर्मितः।
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः॥ 9-52-33 (63186)
नित्यमुद्विजते चास्य तेजसः पाकशासनः॥ 9-52-34 (63187)
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत।
भृशं क्रोधविसृष्टेन ब्रह्मतेजोद्भवेन च।
दैत्यदानववीराणां जघान नवतीर्नव॥ 9-52-35 (63188)
अथ काले व्यतिक्रान्ते महत्यतिभयङ्करी।
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी॥ 9-52-36 (63189)
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः।
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम्॥ 9-52-37 (63190)
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा।
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती॥ 9-52-38 (63191)
न गन्तव्यमितः पुत्र तवाहारमहं सदा।
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत॥ 9-52-39 (63192)
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा।
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन्॥ 9-52-40 (63193)
अथ तस्यामनावृष्ट्यामतीतायां महर्षयः।
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात्॥ 9-52-41 (63194)
तेषां क्षुधापरीतानां नष्टा देवा विधावताम्।
सर्वेषामेव राजेन्द्र न किचित्प्रतिभाति ह॥ 9-52-42 (63195)
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान्।
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम्॥ 9-52-43 (63196)
स गत्वाऽचष्ट तेभ्यश्च सारस्वतमृषिं प्रभुम्।
स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने॥ 9-52-44 (63197)
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः।
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः॥ 9-52-45 (63198)
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः।
शिष्यत्वमुपागच्छध्वं विधिना च ममेत्युत॥ 9-52-46 (63199)
तत्राब्रुवन्मुनिगणा बालस्त्वमसि पुत्रक।
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन्॥ 9-52-47 (63200)
यो ह्यधर्मेण वै ब्रूयाद्गृह्णीयाद्योऽप्यधर्मतः।
म्रियेतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ॥ 9-52-48 (63201)
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥ 9-52-49 (63202)
एतच्छ्रुत्वा वचस्तस्य मनुयस्ते विधानतः।
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे॥ 9-52-50 (63203)
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे।
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात्॥ 9-52-51 (63204)
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ह्युपाहरन्।
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः॥ 9-52-52 (63205)
तत्रापि दत्त्वा वसु रौहिणेयो
महाबलः केशवपूर्वजोऽथ
जगाम तीर्थं मुदितः क्रमेण
तं वृद्धकन्याश्रममे व वीरः॥ ॥ 9-52-53 (63206)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि द्विपञ्चाशत्तमोऽध्यायः॥ 52 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-52-5 दधीच इति इति छ.झ.पाठः॥ 9-52-12 ऋषिसंसादितं दृष्ट्वेति क.छ.पाठः। तत्र संसादितं परिवारितमित्यर्थः॥ 9-52-28 दधीचोऽस्थीनीति छ.पाठः॥ 9-52-29 प्राणत्यागं कुरुश्रेष्ठ चकारैवाविचारयषिति झ.पाठः॥ 9-52-34 अस्य मुनेः॥ 9-52-35 तेन तदस्थिजेन वज्रेण नवतीर्नव दशाधिकां अष्टशतीम॥ 9-52-52 द्विपञ्चाशत्तमोऽध्यायः॥शल्यपर्व - अध्याय 053
॥ श्रीः ॥
9.53. अध्यायः 053
Mahabharata - Shalya Parva - Chapter Topics
वृद्धकन्याचरित्रकथनम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-53-0 (63207)
जनमेजय उवाच। 9-53-0x (5215)
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा।
किमर्थं च तपस्तेपे को वाऽस्या नियमोऽभवत्॥ 9-53-1 (63208)
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम्।
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता॥ 9-53-2 (63209)
वैशम्पायन उवाच। 9-53-3x (5216)
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः।
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः।
तपसाऽथ सुतां सुभ्रूं समुत्पादितवान्विभुः॥ 9-53-3 (63210)
तां च दृष्ट्वा मुनिः प्रीतः कुणिर्गार्ग्यो महायशाः।
जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम्॥ 9-53-4 (63211)
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा।
महता तपसोग्रेण कृत्वाश्रममनिन्दिता॥ 9-53-5 (63212)
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा।
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप॥ 9-53-6 (63213)
सा पित्रा दीयमानापि पतिं नैच्छदनिन्दिता।
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत॥ 9-53-7 (63214)
ततः सा तपसोग्रेण पीडयित्वाऽऽत्मनस्तनुम्।
पितृदेवार्चनरता बभूव विजने वने॥ 9-53-8 (63215)
साऽऽत्मानं मन्यमाना तु कृतकृत्यं श्रमान्विता।
`जगाम वृद्धभावं तु कौमारब्रह्मचारिणी'॥ 9-53-9 (63216)
वार्धकेन च राजेन्द्र तपसा चैव कर्शिता।
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम्॥ 9-53-10 (63217)
चकार गमने बुद्धिं परलोकाय वै तदा।
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत्॥ 9-53-11 (63218)
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे।
एवं तु श्रुतमस्माभिर्देवलोके महाव्रते॥ 9-53-12 (63219)
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः।
तन्नारदवचः श्रुत्वा साऽब्रवीदृषिसंसदि॥ 9-53-13 (63220)
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः।
इत्युक्तेऽस्यास्तु जग्राह पाणिं गालवसम्भवः॥ 9-53-14 (63221)
ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत्।
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने॥ 9-53-15 (63222)
यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह।
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा॥ 9-53-16 (63223)
यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः।
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः॥ 9-53-17 (63224)
सा रात्रावभवद्राजंस्तरुणी वरवर्णिनी।
दिव्याभरणवस्त्रा च दिव्यगन्धानुलेपना॥ 9-53-18 (63225)
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिव श्रिया।
उवास च क्षपामेकां प्रभाते साऽब्रवीच्च तम्॥ 9-53-19 (63226)
यस्त्वया समयो विप्र कृतो मे तपतां वर।
तेनोषिताऽस्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम्॥ 9-53-20 (63227)
सा तु ध्यात्वाऽब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः।
वसते रजनीमेकां तर्पयित्वा दिवौकसः॥ 9-53-21 (63228)
चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत्।
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः॥ 9-53-22 (63229)
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता।
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन्॥ 9-53-23 (63230)
समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान्।
साधयित्वा तदाऽऽत्मानं तस्याः स गतिमाप्तवान्।
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः॥ 9-53-24 (63231)
एतत्ते वृद्वकन्याया व्याख्यातं चरितं महत्।
तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा॥ 9-53-25 (63232)
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः॥ 9-53-26 (63233)
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तपः।
शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा॥ 9-53-27 (63234)
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः।
पप्रच्छर्षिगणारामः कुरुक्षेत्रस्य यत्फलम्॥ 9-53-28 (63235)
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम्॥ ॥ 9-53-29 (63236)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रिपञ्चाशतमोऽध्यायः॥ 53 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-53-3 तपसा संयुता सुभ्रूः समुत्पनः इति छ. पाठः॥ 9-53-22 चत्वारिंशतमष्टौ चेति। प्रतिवेदं द्वादशवर्षाणीति वेदचतुष्टयाध्ययनायाष्टाचत्वारिंशद्वर्षाणि। ततो द्वै वत्सरौ स्नातकेन गुरोरानृण्यार्थं सेवा कार्या। ततोऽष्टवार्षिकीं कन्यां परिणीय तस्या यौवनावध्यष्टवर्षाणीत्यष्टपञ्चाशद्वर्षाणि ब्रह्मचर्यं सर्वस्येष्टम्॥ 9-53-24 सङ्गतिमन्वियात् इति छ. पाठः॥ 9-53-53 त्रिपञ्चाशोऽध्यायः॥शल्यपर्व - अध्याय 054
॥ श्रीः ॥
9.54. अध्यायः 054
Mahabharata - Shalya Parva - Chapter Topics
दलभद्राय महर्षिभिः कुरुक्षेत्रमहिमानुवर्णनम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-54-0 (63237)
ऋषय ऊचुः। 9-54-0x (5217)
प्रजापतेरुत्तरवेदिरुच्यते
सनातनं राम समन्तपञ्चकम्।
समीजिरे यत्र पुरा दिवौकसो
वरेण सत्रेण महावरप्रदाः॥ 9-54-1 (63238)
पुरा च राजर्षिवरेण धीमता
बहूनि वर्षाण्यमितेन तेजसा।
प्रकृष्टमेतत्कुरुणा महात्मना
ततः कुरुक्षेत्रमितीह पप्रथे॥ 9-54-2 (63239)
राम उवाच। 9-54-3x (5218)
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना।
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः॥ 9-54-3 (63240)
ऋषय ऊचुः। 9-54-4x (5219)
पुरा किल कुरुं राम कर्षन्तं सततोत्थितम्।
अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम्॥ 9-54-4 (63241)
इन्द्र उवाच। 9-54-5x (5220)
किमिदं वर्तते कर्म प्रयत्नेन परेण च।
राजर्षे किमभिप्रेत्य येनेयं कृष्यते क्षितिः॥ 9-54-5 (63242)
कुरुरुवाच। 9-54-6x (5221)
इह ये पुरुषाः क्षेत्रे जनिष्यन्ति शतक्रतो।
ते गमिष्यन्ति सुकृतां लोकान्पापविवर्जितान्॥ 9-54-6 (63243)
अपहास्य तु तं शक्रो जगाम त्रिदिवं पुनः।
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम्॥ 9-54-7 (63244)
आगम्यागम्य चैवैनं भूयोभूयोऽपहास्य च।
शत्रक्रतुरनिर्विण्णं पृष्ट्वापृष्ट्वा जगाम ह॥ 9-54-8 (63245)
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः।
ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम्॥ 9-54-9 (63246)
एतच्छ्रुत्वाऽब्रुवन्देवाः सहस्राक्षमिदं वचः।
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते॥ 9-54-10 (63247)
यदि ह्यत्र प्रसूता वै स्वर्गं गच्छन्ति मानवाः।
अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति॥ 9-54-11 (63248)
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत्।
अलं खेदेन भवतः क्रियतां वचनं मम॥ 9-54-12 (63249)
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः।
युधि वा निहताः सम्यगपि तिर्यग्गता नृप॥ 9-54-13 (63250)
ते स्वर्गभाजो राजेन्द्र भवन्त्विह हतास्तु ये।
तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह॥ 9-54-14 (63251)
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना।
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः॥ 9-54-15 (63252)
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा।
शक्रेण चाभ्यनुज्ञातः पुण्ये प्राणान्मुमोच ह॥ 9-54-16 (63253)
[शक्रेण चाभ्यनुज्ञातं ब्राह्मद्यैश्च सुरैस्तथा।
नातः परतरं पुण्यं भूमेः स्थानं भविष्यति॥ 9-54-17 (63254)
इह तप्स्यन्ति ये केचित्तपः परमकं नराः।
देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम्॥ 9-54-18 (63255)
ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः।
तेषां सहस्रगुणितं भविष्यत्यचिरेण वै॥ 9-54-19 (63256)
ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः।
यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन॥ 9-54-20 (63257)
यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः।
तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति॥] 9-54-21 (63258)
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः।
कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध॥ 9-54-22 (63259)
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः।
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्॥ 9-54-23 (63260)
`कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
इत्येवं निश्चितो भूत्वा तेन स्वर्गं गमिष्यति॥ 9-54-24 (63261)
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
तथा स्थानं च मौनं च वीरासनमुपास्महे॥ 9-54-25 (63262)
एवं प्रलपमानोऽपि चिन्तयंश्च मुहुर्मुहुः।
दूरस्थो यदि वा तिष्ठँल्लभेत्स्वर्गं सुनिश्चितम्'॥ 9-54-26 (63263)
सुरर्षभा ब्राह्मणसत्तमाश्च
तथा नृगाद्या नरदेवमुख्याः।
इष्ट्वा महार्हैः क्रतुभिर्नृसिंह
सन्त्यज्य देहान्सुगतिं प्रपन्नाः॥ 9-54-27 (63264)
तंरन्तुकारन्तुकयोर्यदन्तरं
रामहदानां च मचक्रुकस्य च।
एतत्कुरुक्षेत्रसमन्तपञ्चकं
प्रजापतेरुत्तरवेदिरुच्यते॥ 9-54-28 (63265)
शिवं महापुण्यमिदं दिवौकसां
सुसम्मतं स्वर्गगुणैः समन्वितम्।
अतश्च सर्वे निहता नृपा रणे
यास्यन्ति पुण्यां गतिमक्षयां सदा॥ 9-54-29 (63266)
[इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तदा।
तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेष्वरैः]॥ ॥ 9-54-30 (63267)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चतुःपञ्चाशत्तमोऽध्यायः॥ 54 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-54-2 पप्रथे प्रसिद्धं बभूव॥ 9-54-3 परिष्यन्ति शतक्रतो इति झ. पाठः॥ 9-54-11 प्रमीता वै इति झ.पाठः॥ 9-54-18 ब्रह्मणः क्षयं निवासम्॥ 9-54-28 आरुन्दुकारुन्दकयोर्यदन्तरं रामह्रदाना च समन्दुकस्य इति क.पाठः। परमन्दुकस्येति ङ.छ.पाठः॥ 9-54-54 चतुःपञ्चाशत्तमोऽध्यायः॥शल्यपर्व - अध्याय 055
॥ श्रीः ॥
9.55. अध्यायः 055
Mahabharata - Shalya Parva - Chapter Topics
मित्रावरुणाश्रमे नारदाद्भीमदुर्योधनयोर्गदायुद्धोपक्रमश्राविणा बलरामेण तद्दिदृक्षया कुरुक्षेत्रं प्रत्यागमनम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-55-0 (63268)
वैशम्पायन उवाच। 9-55-0x (5222)
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा देयांश्च सात्वतः।
आश्रमं सुमहत्पुण्यमगमज्जनमेजय॥ 9-55-1 (63269)
मधूकाम्रवणोपेतं प्लुक्षन्यग्रोधसङ्कुलम्।
चिरबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम्॥ 9-55-2 (63270)
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम्।
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम्॥ 9-55-3 (63271)
ते तु सर्वे महात्मानमूचू राजन्हलायुधम्।
शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः॥ 9-55-4 (63272)
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम्।
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः॥ 9-55-5 (63273)
अत्रैव ब्राह्मणी वृद्वा कौमारब्रह्मचारिणी।
योगयुक्ता दिवं याता तपोयुक्ता विशाम्पते॥ 9-55-6 (63274)
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः।
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी॥ 9-55-7 (63275)
साऽपि प्राप्य परं योगं गता स्वर्गमनुत्तमम्।
भुक्त्वाऽश्रमेऽश्वमेधस्य फलं फलवतः शुभम्॥ 9-55-8 (63276)
गता स्वर्गं महाराज पूजिता च महात्मभिः।
अभिगम्याश्रमं पुण्यं स दृष्ट्वा यदुनन्दनः॥ 9-55-9 (63277)
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः।
सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम्॥ 9-55-10 (63278)
नातिदूरं ततो गत्वा नगं तालध्वजो बली।
पुण्ये तीर्थवरे स्नात्वा विस्मयं परमं गतः॥ 9-55-11 (63279)
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः।
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम्॥ 9-55-12 (63280)
हलायुधस्तु तत्रापि दत्त्वा दानं महाबलः।
आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ।
सन्तर्पयामास पितॄन्देवांश्च रणदुर्मदः॥ 9-55-13 (63281)
तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह।
मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः॥ 9-55-14 (63282)
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवम्।
तं देशं कारपचनात्स तस्मादाजगामह॥ 9-55-15 (63283)
स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च।
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः।
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः॥ 9-55-16 (63284)
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः।
आजगामाथ तं देशं यत्र रामो व्यवस्थितः॥ 9-55-17 (63285)
जटामण्डलसंवीतः कुशचीरी महातपाः।
हेमदण्डधरो राजन्कमण्डलुधरस्तथा॥ 9-55-18 (63286)
महतीं सुखशब्दां तां गृह्य वीणां मनोरमाम्।
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः॥ 9-55-19 (63287)
प्रभवः कलहानं च नित्यं च कलहप्रियः।
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः॥ 9-55-20 (63288)
प्रत्युत्थाय च तं रामः पूजयित्वा यतव्रतम्।
देवर्षिं पर्यपृच्छत्स यथावृत्तं कुरून्प्रति॥ 9-55-21 (63289)
तदाऽस्याकथयद्राजन्नारदः सर्ववेदवित्।
सर्वमेतद्यथावृत्तमतीतं कुरुसंक्षयम्॥ 9-55-22 (63290)
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा।
किमवस्थं तु तत्क्षत्रं ये तु तत्राभवन्नृपाः॥ 9-55-23 (63291)
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन।
विस्तरश्रवणे जातं कौतूहलमतीव मे॥ 9-55-24 (63292)
नारद उवाच। 9-55-25x (5223)
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा।
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः॥ 9-55-25 (63293)
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान्।
एते चान्ये च बहवो हतास्तत्र महाबलाः॥ 9-55-26 (63294)
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै।
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः॥ 9-55-27 (63295)
अहतांस्तु महाबाहो शृणु मे तत्र माधव॥ 9-55-28 (63296)
धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः।
कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान्।
तेऽपि वै विद्रुता राम दिशो दश भयात्तदा॥ 9-55-29 (63297)
दुर्योधनो हते सैन्ये विद्रुतेषु पदातिषु।
हदं द्वैपायनं नाम विवेश भृशदुःखितः॥ 9-55-30 (63298)
शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा।
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन्॥ 9-55-31 (63299)
स तुद्यमानो बलवान्वाग्भी राम समन्ततः।
उत्थितः स हदाद्वीरः प्रगृह्य महतीं गदाम्॥ 9-55-32 (63300)
स चाप्युपागतो योद्धुं भीमेन सह साम्प्रतम्।
भविष्यति तयोरद्य युद्धं राम सुदारुणम्॥ 9-55-33 (63301)
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम्।
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे॥ 9-55-34 (63302)
वैशम्पायन उवाच। 9-55-35x (5224)
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान्।
सर्वान्विसर्जयामास ये तेनाभ्यागताः सह।
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः॥ 9-55-35 (63303)
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात्।
ततः प्रीतमनाः रामः श्रुता तीर्थफलं महत्।
विप्राणां सन्निधौ श्लोकमगायदिममच्युतः॥ 9-55-36 (63304)
सरस्वतीवाससमा कुतो रतिः
सरस्वतीवाससमाः कुतो गुणाः।
सरस्वतीं प्राप्य दिवं गता जनाः
सदा स्मरिष्यन्ति नदीं सरस्वतीम्॥ 9-55-37 (63305)
सरस्वती सर्वनदीषु पुण्या
सरस्वती लोकशुभावहा सदा।
सरस्वतीं प्राप्य जनाः सुदुष्कृतं
सदा न शोचन्ति परत्र चेह च॥ 9-55-38 (63306)
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम्।
हयैर्युक्तं रथं शुभ्रमारुरोह परन्तपः॥ 9-55-39 (63307)
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः।
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्वमुपस्थितम्॥ 9-55-40 (63308)
एवं तदभवद्युद्वं तुमुलं जनमेजयं।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्॥ 9-55-41 (63309)
धृतराष्ट्र उवाच। 9-55-42x (5225)
राम सन्निहितं श्रुत्वा गदायुद्ध उपस्थिते।
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय॥ ॥ 9-55-42 (63310)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः॥ 55 ॥ समाप्तं हदप्रवेशपर्व ॥ 2 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-55-10 स्कन्धावाराणि सर्वाणीति क.ङ.छ.पाठः॥ 9-55-12 प्लक्षप्रस्रवणं विलमिति क.पाठः॥ 9-55-19 कच्छपीं सुखशब्दां तामिति क.छ.झ.पाठः॥ 9-55-30 दुर्योधनो हते शल्ये विद्रुतेषु कृपादिषु इति झ.पाठः॥ 9-55-38 सरस्वतीं हीनविदेशवासिनः सदा रमरिष्यन्ति इति ङ.पाठः। सरस्वतीहीनविदेशवासिनः इति क.पाठः॥ 9-55-55 पञ्चपञ्चाशत्तमोऽध्यायः॥शल्यपर्व - अध्याय 056
॥ श्रीः ॥
9.56. अध्यायः 056
Mahabharata - Shalya Parva - Chapter Topics
(अथ गदायुद्धपर्व ॥ 3 ॥) गदायुद्धाय सन्नद्धयोर्भीमदुर्योधनयोर्वर्णनम्॥ 1 ॥
Mahabharata - Shalya Parva - Chapter Text
9-56-0 (63311)
सञ्जय उवाच। 9-56-0x (5226)
रामसान्निध्यमागम्य पुत्रो दुर्योधनस्तव।
योद्धुकामो महाबाहुः समहृष्यत वीर्यवान्॥ 9-56-1 (63312)
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत।
प्रीत्या* परमया युक्तो युधिष्ठिरमथाब्रवीत्॥ 9-56-2 (63313)
दुर्योधन उवाच। 9-56-3x (5227)
समन्तपञ्चकं पुण्यमितो याम विशाम्पते।
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः॥ 9-56-3 (63314)
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने।
सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गं गमिष्यसि॥ 9-56-4 (63315)
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः।
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः॥ 9-56-5 (63316)
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम्।
पद्ध्याममर्षी द्युतिमानगच्छत्पाण्डवैः सह॥ 9-56-6 (63317)
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम्।
अन्तरिक्षचरा देवाः साधुसाध्वित्यपूजयन्॥ 9-56-7 (63318)
वादकाश्च नरास्तत्र दृष्ट्वा ते हर्षमागताः॥ 9-56-8 (63319)
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः।
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत्॥ 9-56-9 (63320)
ततः शङ्खनिनादैश्च भेरीणां च महास्वनैः।
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः॥ 9-56-10 (63321)
ततस्ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः।
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते।
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम्॥ 9-56-11 (63322)
तस्मिन्देशे त्वनिरिणे ते तु युद्धमरोचयन्॥ 9-56-12 (63323)
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत्।
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः॥ 9-56-13 (63324)
अवबद्धशिरस्त्राणः शुद्धकाञ्चनवर्मभृत्।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव॥ 9-56-14 (63325)
तौ तथा सङ्गतौ वीरौ भीमदुर्योधनावुभौ।
संयुगे सम्प्रकाशेते संरब्धाविव कुञ्जरौ॥ 9-56-15 (63326)
रथमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ।
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ॥ 9-56-16 (63327)
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महोरगौ।
दहन्तौ लोचनै राजन्परस्परवधैषिणौ॥ 9-56-17 (63328)
संप्रहृष्टमना राजन्गदामादाय कौरवः।
सृक्विणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन्॥ 9-56-18 (63329)
ततो दुर्योधनो राजन्गदामादाय वीर्यवान्।
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत्॥ 9-56-19 (63330)
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान्।
आह्वयामास नृपतिं सिंहः सिंहं यथा वने॥ 9-56-20 (63331)
तावुद्यतगदापाणी दुर्योधनवृकोदरौ।
संयुगे सम्प्रकाशेतां गिरी सशिखराविव॥ 9-56-21 (63332)
तावुभौ समतिक्रुद्धावुभौ भीमपराक्रमौ।
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः॥ 9-56-22 (63333)
उभौ सदृशकर्माणौ वरुणस्य महाबलौ।
वासुदेवस्य रामस्य तथा वैश्रवणस्य च॥ 9-56-23 (63334)
सदृशौ तौ महाराज मधुकैटभयोरपि।
उभौ सदृशकर्माणौ तथा सुन्दोपसुन्दयोः॥ 9-56-24 (63335)
[रामरावणयोश्चैव वालिसुग्रीवयोस्तथा]।
तथैव कालस्य समौ मृत्योश्चैव परन्तपौ॥ 9-56-25 (63336)
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ।
वासितासङ्गमे दृप्तौ शरदीव मदोत्कटौ॥ 9-56-26 (63337)
उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव।
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिन्दमौ॥ 9-56-27 (63338)
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ।
सिंहाविव दुराधर्षौ गदायुद्धविशारदौ॥ 9-56-28 (63339)
नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ।
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ॥ 9-56-29 (63340)
लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ।
[पूर्वपश्चिमजौ मेघौ प्रेक्षमाणावरिन्दमौ॥ 9-56-30 (63341)
गर्जमानौ सुविषमं क्षरन्तौ प्रावृषीव हि।
रश्मियुक्तौ महात्मानौ दीप्तिमन्तौ महाबलौ॥ 9-56-31 (63342)
ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ।
व्याघ्राविव सुसंरब्धौ गर्जन्ताविवतोयदौ॥ 9-56-32 (63343)
जहृषाते महाबाहु सिंहकेसरिणाविव।
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ॥ 9-56-33 (63344)
ददृशाते महात्मानौ सशृङ्गाविव पर्वतौ।
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम्॥ 9-56-34 (63345)
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ।]
उभौ परमसंहृष्टावुभौ परमसम्मतौ॥ 9-56-35 (63346)
सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ।
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ।
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ॥ 9-56-36 (63347)
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम्।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम्॥ 9-56-37 (63348)
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः।
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः॥ 9-56-38 (63349)
ततः समुपविष्टं तत्सुमहद्राजमण्डलम्।
विराजमानं ददृशे दिवीवादित्यमण्डलम्॥ 9-56-39 (63350)
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः।
उपविष्टो महाराज पूज्यमानः समन्ततः॥ 9-56-40 (63351)
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः।
नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः॥ 9-56-41 (63352)
तौ तथा तु महाराज गदाहस्तौ सुदुःसहौ।
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ॥ 9-56-42 (63353)
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुसत्तमौ।
उदीक्षन्तौ स्थितौ तत्र वृत्रशक्रौ यथाऽऽहवे॥ ॥ 9-56-43 (63354)
इति श्रीमन्महाभारते शल्यपर्वणि गयादुद्धपर्वणि षट्पञ्चाशत्तमोऽध्यायः॥ 56 ॥ *एतच्छ्लोकस्य स्थाने झ.पुस्तके अधोलिखिताः पञ्च श्लोका वर्तन्ते। ते च।
प्रीत्या परमया युक्ताः समभ्यर्च्य यथाविधि।
आसनं च ददौ तस्मै पर्यपृच्छदनामयम्॥ 9-56-1 (63355)
ततो युधिष्ठिरं रामो वाक्यमेतदुवाच ह।
मधुरं धर्मसंयुक्तं शूराणां हितमेव च॥ 9-56-2 (63356)
मया श्रुतं कथयतामृषीणां राजसत्तम।
कुरुक्षेत्रं परं पुण्यं पावनं स्वर्ग्यमेव च॥ 9-56-3 (63357)
देवतैर्ऋषिभिर्जुष्टं ब्राह्मणैश्च महात्मभिः।
तत्र वै योत्स्यमाना ये देहं त्यक्ष्यन्ति मानवाः॥ 9-56-4 (63358)
9-56-5 (63359)
तेषां स्वर्गे ध्रुवो वासः शक्रेण सह मारिष।
तस्मात्समन्तपञ्चकमितो याम द्रुतं नृप॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-56-8 वातिकाश्चारणा ये तु इति झ.पाठः। तत्र वातिकाः वातेन सह गच्छन्ति ते आकाशचारिणः। चारणाः सिद्धविशेषा इत्यर्थः॥। 9-56-11 स्वयनं सुगतिदम्॥ 9-56-12 अनिरिणे अनूषरे॥ 9-56-26 वासितासङ्गमे एककरिणीसङ्गमार्थे दृप्तौ मोहितौ॥ 9-56-30 लोहिताङ्गौ द्वौ कुजाविवेत्यभूतोपमा॥ 9-56-33 जहषाते हर्षं प्रापतुः॥ 9-56-56 षट्पञ्चाशत्तमोऽध्यायः॥शल्यपर्व - अध्याय 057
॥ श्रीः ॥
9.57. अध्यायः 057
Mahabharata - Shalya Parva - Chapter Topics
भीमदुर्योधनयोर्वीरवादः॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-57-0 (63360)
वैशम्पायन उवाच। 9-57-0x (5228)
ततो वाग्युद्धमभवत्तुमुलं जनमेजय।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्॥ 9-57-1 (63361)
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी।
एकादशचमूभर्ता यत्र पुत्रो ममानघ॥ 9-57-2 (63362)
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम्।
गदामादाय चैकाकी पदातिः प्रस्थितो रणम्॥ 9-57-3 (63363)
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः।
गदामुद्यम्य यो याति किमन्यद्भागधेयतः॥ 9-57-4 (63364)
अहो दुःखं महत्प्राप्तं पुत्रेण मम स़ञ्जय।
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः॥ 9-57-5 (63365)
सञ्जय उवाच। 9-57-6x (5229)
स मेघनिनदो हर्षान्निनदन्निव गोवृषः।
आजुहाव तदा पार्थं युद्धाय युधि वीर्यवान्॥ 9-57-6 (63366)
भीममाह्वयमाने तु कुरुराजे महात्मनि।
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत॥ 9-57-7 (63367)
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च।
बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः॥ 9-57-8 (63368)
महास्वनाः सुनिर्वातास्तुमुला रोमहर्षणाः।
पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलात्॥ 9-57-9 (63369)
राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते।
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा॥ 9-57-10 (63370)
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करकर्षिणः।
गिरीणां शिखराण्येव न्यपतन्त महीतले॥ 9-57-11 (63371)
मृगा बहुविधाकाराः सम्पतन्ति दीशो दश।
दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः॥ 9-57-12 (63372)
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः।
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः॥ 9-57-13 (63373)
उदपानगताश्चापो व्यवर्धन्त समन्ततः।
अशरीरा महानादाः श्रूयन्ते स्म भयानकाः॥ 9-57-14 (63374)
एवमादीनि दृष्ट्वा स निमित्तानि वृकोदरः।
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम्॥ 9-57-15 (63375)
एष शक्यो मया जेतुं मन्दात्मा च सुयोधनः॥ 9-57-16 (63376)
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदयेशयम्।
सुयोधने कौरवेन्द्रे खाण्डवेऽग्निमिवार्जुनः॥ 9-57-17 (63377)
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्।
निहत्य गदया पापमिमं कुरुकुलान्तकम्॥ 9-57-18 (63378)
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि।
हत्वेमं पापकर्माणं गदया रणमूर्धनि॥ 9-57-19 (63379)
अद्योरुगदया राजन्भेत्ताऽस्मि समरेऽनया।
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम्॥ 9-57-20 (63380)
सर्पोत्सर्गस्य शयने विषदानस्य भोजने।
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि॥ 9-57-21 (63381)
सभायामवहासस्य सर्वस्वहरणस्य च।
वर्षमज्ञातवासस्य वनवासस्य चानघ॥ 9-57-22 (63382)
अद्यान्तमेषां दुःखानां गन्ताऽहं भरतर्षभ।
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः॥ 9-57-23 (63383)
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः।
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम्॥ 9-57-24 (63384)
अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः।
समाप्तं च महाराज नारीणां दर्शनं पुनः॥ 9-57-25 (63385)
अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः।
प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले॥ 9-57-26 (63386)
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम्।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्॥ 9-57-27 (63387)
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान्।
अभ्यतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्॥ 9-57-28 (63388)
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्।
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह॥ 9-57-29 (63389)
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः।
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते॥ 9-57-30 (63390)
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला।
द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च॥ 9-57-31 (63391)
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत्।
विराटनगरे चैव योन्यन्तरगतैरिव।
तत्सर्वं पातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते॥ 9-57-32 (63392)
त्वत्कृतेऽसौ हतः शेते शरतल्पे पितामहः।
गाङ्गेयो रथिनां श्रेष्ठो रथिना याज्ञसेनिना॥ 9-57-33 (63393)
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान्।
वैराग्नेरादिकर्तासौ शकुनिः सौबलो हतः॥ 9-57-34 (63394)
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः।
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः॥ 9-57-35 (63395)
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः।
त्वामद्य निहनिष्यामि गदया नात्र संशयः॥ 9-57-36 (63396)
इत्येवमुच्चै राजानं भाषमाणं वृकोदरम्।
उवाच गतभी राजन्पुत्रस्ते सत्यविक्रमः॥ 9-57-37 (63397)
किं कत्थनेन बहुना युध्यस्वेह वृकोदर।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम॥ 9-57-38 (63398)
इति दुर्यार्धेनोऽक्षुद्रस्त्वया क्षुद्रबलेन वै।
शक्यस्रासयितुं वाचा न चान्यः प्राकृतो यथा॥ 9-57-39 (63399)
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम।
त्वया सह गदायुद्धं त्रिदशैरुपपादितम्॥ 9-57-40 (63400)
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते।
वाणी सङ्कोच्यतामेषा कर्मणा मा चिरं कृथाः॥ 9-57-41 (63401)
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन्।
राजानः सोमकाश्चैव ये तत्रासन्समागताः॥ 9-57-42 (63402)
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः।
भूयो धीरां मतिं चक्रे युद्धाय कुरुनन्दनः॥ 9-57-43 (63403)
तं मत्तमिव मातङ्गं तलशब्दैर्नराधिपाः।
भूयः संहर्षयांचक्रुर्दुर्योधनममर्षणम्॥ 9-57-44 (63404)
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः।
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः॥ 9-57-45 (63405)
बृंहन्ति कुञ्चरास्तत्र हया हेषन्ति चासकृत्।
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणां ॥ 9-57-46 (63406)
इति श्रीमन्महाभारते शल्यपर्वणि कदायुद्धपर्वणि सप्तपञ्चाशत्तमोऽध्यायः॥ 57 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-57-16 नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधन इति झ.पाठः॥ 9-57-41 वाणी सम्पद्यतामिति झ.पाठः॥ 9-57-57 सप्तपञ्चाशत्तमोऽध्यायः॥शल्यपर्व - अध्याय 058
॥ श्रीः ॥
9.58. अध्यायः 058
Mahabharata - Shalya Parva - Chapter Topics
सञ्जय उवाच।Mahabharata - Shalya Parva - Chapter Text
9-58-0 (63407)
सञ्जय उवाच। 9-58-0x (5230)
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथाऽऽगतम्।
प्रत्युद्ययावदीनात्मा वेगेन महता नदन्॥ 9-58-1 (63408)
समापेततुरन्योन्यं शृङ्गिणौ वृषभाविव।
महानिर्घातघोषश्च प्रहाराणामजायत॥ 9-58-2 (63409)
अभवच्च तयोर्युद्वं तुमुलं रोमहर्षणम्।
जिघृक्षतोर्यथाऽन्योन्यमिन्द्रप्रह्लादयोरिव॥ 9-58-3 (63410)
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ।
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ॥ 9-58-4 (63411)
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे।
खद्योतसङ्खैरिव खं दर्शनीयं व्यरोचत॥ 9-58-5 (63412)
तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम्।
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ॥ 9-58-6 (63413)
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ।
सम्प्रहारयतां चित्रे सम्प्रगृह्य गदे शुभे॥ 9-58-7 (63414)
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ।
बलिनौ वारणौ यद्वद्वासितार्थे मदोत्कटौ॥ 9-58-8 (63415)
समानवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ।
प्रहर्षं परमं जग्मुर्देवगन्धर्वदानवाः॥ 9-58-9 (63416)
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ।
संशयः सर्वभूतानां विजये समपद्यत॥ 9-58-10 (63417)
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ।
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति॥ 9-58-11 (63418)
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम्।
ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम्॥ 9-58-12 (63419)
आविद्ध्यतो गतां तस्य भीमसेनस्य संयुगे।
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत॥ 9-58-13 (63420)
आविद्ध्यन्तमरिं प्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम्।
गदामतुलवेगां तां विस्मितः सम्बभूव ह॥ 9-58-14 (63421)
चरंश्च विविधान्मार्गान्मण्डलानि च भारत।
अशोभत तदा वीरो भूय एव वृकोदरः॥ 9-58-15 (63422)
तौ परस्परमासाद्य यत्तावन्योन्यसूदने।
मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः॥ 9-58-16 (63423)
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा।
मण्डलानि विचित्राणि गतप्रत्यागतानि च॥ 9-58-17 (63424)
गोमूत्रिकाणि चित्राणि स्थानानि विविधानि च।
परिमोक्षं प्रहाराणां वर्जनं परिधावनम्॥ 9-58-18 (63425)
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम्।
मत्स्योद्वृत्तं सोरुवृत्तमवप्लुतमुपप्लुतम्॥ 9-58-19 (63426)
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ।
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम्॥ 9-58-20 (63427)
वञ्चयानौ पुनश्चैव चेरतुः कुरुसत्तमौ।
विक्रीडन्तौ सुबलिनौ मण्डलानि विचेरतुः॥ 9-58-21 (63428)
[तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः।
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ॥ 9-58-22 (63429)
परस्परं समासाद्य दंष्ट्राभ्यां द्विरदौ यथा।
अशोभेतां महाराज शोणितेन परिप्लुतौ॥ 9-58-23 (63430)
एवं तदभवद्युद्धं घोररूपं परन्तप।
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव॥] 9-58-24 (63431)
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली।
दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत।
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत॥ 9-58-25 (63432)
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि।
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत्॥ 9-58-26 (63433)
आहतस्तु ततो भीमः पुत्रेण तव भारत।
आविध्यत गदां गुवीं प्रहारं तमचिन्तयन्॥ 9-58-27 (63434)
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम्।
ददृशुस्ते महाराज भीमसेनस्य तां गदाम्॥ 9-58-28 (63435)
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः।
समुद्यम्य गदां घोरां प्रत्यविध्यत्परन्तपः॥ 9-58-29 (63436)
गदामारुतवेगेन तव पुत्रस्य भारत।
शब्द आसीत्सुतुमुलस्तेजश्च समजायत॥ 9-58-30 (63437)
स चरन्विविधान्मार्गान्मण्डलानि च भागशः।
समशोभत तेजस्वी भूयो भीमात्सुयोधनः॥ 9-58-31 (63438)
आविद्धा सर्ववेगेन भीमेन महती गदा।
सधूमं सार्चिषं चाग्निं मुमोचोग्रमहास्वना॥ 9-58-32 (63439)
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः।
अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत॥ 9-58-33 (63440)
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः।
भयं विवेश पाण्डूंस्तु सर्वानेव ससात्यकीन्॥ 9-58-34 (63441)
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः।
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ॥ 9-58-35 (63442)
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा।
अशोभेतां महाराज शोणितेन परिप्लुतौ॥ 9-58-36 (63443)
एवं तदभवद्युद्धं घोररूपमसंवृतम्।
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव॥ 9-58-37 (63444)
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः।
चरंश्चित्रतरान्मा र्गान्कौन्तेयमभिदुद्रुवे॥ 9-58-38 (63445)
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम्।
अतिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम्॥ 9-58-39 (63446)
सविस्फुलिङ्गो निर्हादस्तयोस्तत्राभिघातजः।
प्रादुरासीन्महाराज घृष्टयोर्वज्रयोरिव॥ 9-58-40 (63447)
वेगवत्या तया तत्र भीमसेनप्रमुक्तया।
निपतन्त्या महाराज पृथिवी समकम्पत॥ 9-58-41 (63448)
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे।
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात्॥ 9-58-42 (63449)
स सव्यं मण्डलं राजा उद्धाम्य कृतनिश्चयः।
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया॥ 9-58-43 (63450)
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः।
नाकम्पत महाराज तदद्भुतमिवाभवत्॥ 9-58-44 (63451)
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन्।
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम्॥ 9-58-45 (63452)
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम्।
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः॥ 9-58-46 (63453)
तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः।
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान्॥ 9-58-47 (63454)
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता।
चालयामास पृथिवीं महानिर्घातनिःस्वनाः॥ 9-58-48 (63455)
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः।
गदानिपातं प्रज्ञाय भीमसेनं च वञ्चितम्॥ 9-58-49 (63456)
वञ्चयित्वा तदा भीमं गदया कुरुसत्तमः।
ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः॥ 9-58-50 (63457)
गदया निहतो भीमो मुह्यमानो महारणे।
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव॥ 9-58-51 (63458)
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण़्डवाः।
भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन्॥ 9-58-52 (63459)
स तु तेन प्रहारेण मातङ्ग इव रोषितः।
हस्तिवद्वस्तिसंकाशमभिदुद्राव ते सुतम्॥ 9-58-53 (63460)
ततस्तु तरसा भीमो गदया तनयं तव।
अभिदुद्राव वेगेन सिंहो वनगजं यथा॥ 9-58-54 (63461)
उपसृत्य तु राजानं गदामोक्षविशारदः।
आविध्यत गदां राजन्समुद्दिश्य सुतं तव॥ 9-58-55 (63462)
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा।
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम्॥ 9-58-56 (63463)
तस्मिन्कुरुकुलश्रेष्ठे जानुभ्यामवनीं गते।
उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते॥ 9-58-57 (63464)
तेषां तु निनदं श्रुत्वा शृञ्जयानां नरर्षभः।
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत॥ 9-58-58 (63465)
उत्थाय तु महाबाहुर्महानाग इव श्वसन्।
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत॥ 9-58-59 (63466)
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवन्।
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे॥ 9-58-60 (63467)
स महात्मा महात्मानं भीमं भीमपराक्रमः।
अताडयच्छङ्खदेशे न चचालाचलोपमः॥ 9-58-61 (63468)
स भूयः शुशुभे पार्थस्ताडितो गदया रणे।
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्चरः॥ 9-58-62 (63469)
ततो गदां वीरहणीमयोमयीं
प्रगृह्य वज्राशनितुल्यनिःस्वनाम्।
अताडयच्छत्रुममित्रकर्शनो
बलेन विक्रम्य धनञ्जयाग्रजः॥ 9-58-63 (63470)
स भीमसेनाभिहतस्तवात्मजः
पपात सङ्कम्पितदेहबन्धनः।
सुपुष्पितो मारुतवेगताडितो
वने महासाल इवावघूर्णितः॥ 9-58-64 (63471)
ततः प्रणेदुर्जहृषुश्च पाण्डवाः
समीक्ष्य पुत्रं पतितं क्षितौ तव।
ततः सुतस्ते प्रतिलभ्य चेतनां
समुत्पपात द्विरदो यथा हदात्॥ 9-58-65 (63472)
स पार्थिवो नित्यममर्षितस्तदा
महारथः शिक्षितवत्परिभ्रमन्।
अताडयत्पाण्डवमग्रतः स्थितं
स विह्वलाङ्गो जगतीमुपास्पृशत्॥ 9-58-66 (63473)
स सिंहनादं विननाद कौरवो
निपात्य भूमौ युधि भीममोजसा।
बिभेद चैवाशनितुल्यमोजसा
गदानिपातेन शरीररक्षणम्॥ 9-58-67 (63474)
ततोऽन्तरिक्षे निनदो महानभू--
द्दिवौकसामप्सरसां च नेदुषाम्।
पपात चोच्चैरमरप्रवेरितं
विचित्रपुष्पोत्करवर्षमुत्तमम्॥ 9-58-68 (63475)
ततः परानाविशदुत्तमं भयं
समीक्ष्य भूमौ पतितं नरोत्तमम्।
अहीयमानं च बलेन कौरवं
निशाम्य भेदं सुदृढस्य वर्मणः॥ 9-58-69 (63476)
ततो मुहूर्तादुपलभ्य चेतनां
प्रमृज्य वक्त्रं रुधिराक्तमात्मनः।
धृतिं समालम्ब्य विवृत्य लोचने
बलेन संस्तभ्य वृकोदरः स्थितः॥ 9-58-70 (63477)
`ततो यमौ यमसदृशौ पराक्रमे
सपार्षतः शिनितनयश्च वीर्यवान्।
समाह्वयन्नहमहमित्यभित्वरं--
स्तवात्मजं समभिययुर्वधैषिणः॥ 9-58-71 (63478)
निवर्त्य तान्पुनरपि पाण्डवो बली
तवात्मजं स्वयमभिगम्य कालवत्।
चचार चाप्यपगतखेदवेपथुः
सुरेश्वरो नमुचिमिवोत्तमं रणे'॥ ॥ 9-58-72 (63479)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि अष्टपञ्चाशत्तमोऽध्यायः॥ 58 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-58-3 जिगीषतोर्यथेति झ.पाठः॥ 9-58-49 आस्थायेति। कौशिकान् कुश उन्मत्तस्तदाचरितान्मार्गानास्थाय पुनः पुनरुत्पतनेन वञ्चनेन च भीममुन्मत्तीकृत्य गदया ताडयामासेति द्वयोः सम्बन्धः॥ 9-58-52 नहृष्टमनसः खिन्नचेतसः॥ 9-58-61 शङ्खदेशे ललाटप्रान्त॥ 9-58-69 नेदुषां नाद कृतवतीनाम्॥ 9-58-58 अष्टपञ्चाशत्तमोऽध्यायः॥शल्यपर्व - अध्याय 059
॥ श्रीः ॥
9.59. अध्यायः 059
Mahabharata - Shalya Parva - Chapter Topics
भीमसेनेन दुर्योधनस्योरुभेदनम्॥ 1 ॥Mahabharata - Shalya Parva - Chapter Text
9-59-0 (63480)
सञ्चय उवाच। 9-59-0x (5231)
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः।
अब्रवीदर्जुनस्तत्र वासुदेवं यशस्विनम्॥ 9-59-1 (63481)
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः।
कस्य वा को गुणो ज्यायानेतद्वद जनार्दन॥ 9-59-2 (63482)
वासुदेव उवाच। 9-59-3x (5232)
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः।
कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात्॥ 9-59-3 (63483)
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति।
अन्यायेन तु युध्यन्वै हन्यादेव सुयोधनम्॥ 9-59-4 (63484)
मायया निर्जिता देवैरसुरा इति नः श्रुतम्।
विरोचनस्तु शक्रेण मायया निर्जितः स वै॥ 9-59-5 (63485)
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः।
तस्मान्मायामयं वीर आतिष्ठतु वृकोदरः॥ 9-59-6 (63486)
प्रतिज्ञातं च भीमेन द्यूतकाले धनञ्जय।
ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम्॥ 9-59-7 (63487)
सोऽयं प्रतिज्ञां तां चापि पारयत्वरिकर्शनः।
मायाविनं तु राजानं माययैव निकृन्ततु॥ 9-59-8 (63488)
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति।
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः॥ 9-59-9 (63489)
पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे।
धर्मराजापराधेन भयं नः पुनरागतम्॥ 9-59-10 (63490)
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून्।
जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम्।
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः॥ 9-59-11 (63491)
अबुद्धिरेषां महती धर्मराजस्य पाण्डव।
यदेकविजये वीर पणितं कृतमीदृशम्॥ 9-59-12 (63492)
सुयोधनः कृती वीर एकायनगतस्तथा॥ 9-59-13 (63493)
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः।
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु॥ 9-59-14 (63494)
पुनरावर्तमानानां भग्नानां जीवितैषिणाम्।
भेतव्यमरिशेषाणामेकायनगता हि ते॥ 9-59-15 (63495)
[साहसोत्पतितानां च निराशानां च जीविते।
न शक्यमग्रतः स्थातुं शक्रेणापि धनञ्जय]॥ 9-59-16 (63496)
सुयोधनमिमं भग्नं हतसैन्यं हदं गतम्।
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने।
कोऽन्विष्य संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत्॥ 9-59-17 (63497)
अपि नो निर्जितं राज्यं न हरेत सुयोधनः।
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः।
चरत्यूर्ध्वं च तिर्यक्व भीमसेनिघांसया॥ 9-59-18 (63498)
एनं चेन्न महाबाहुरन्यायेन हनिष्यति।
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति॥ 9-59-19 (63499)
सञ्जय उवाच। 9-59-20x (5233)
धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः।
प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत्॥ 9-59-20 (63500)
गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे।
मण्डलानि विचित्राणि यमकानीतराणि च॥ 9-59-21 (63501)
दक्षिणं मण्डलं सव्यं गोमूत्रिकमथापि च।
व्यचरत्पाण्डवो राजन्नरिं सम्मोहयन्निव॥ 9-59-22 (63502)
तथैव तव पुत्रोऽपि गदामार्गविशारदः।
व्यचरल्लघु चित्रं च भीमसेनजिघांसया॥ 9-59-23 (63503)
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते।
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ॥ 9-59-24 (63504)
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ।
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ॥ 9-59-25 (63505)
मण्डलानि बिचित्राणि चरतोर्नृपभीमयोः।
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः॥ 9-59-26 (63506)
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे।
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः॥ 9-59-27 (63507)
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव।
गदानिर्घातसं हादः प्रहाराणामजायत॥ 9-59-28 (63508)
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम्।
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ॥ 9-59-29 (63509)
तौ मुहूर्ते समाश्वस्य पुनरेव परन्तप।
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे॥ 9-59-30 (63510)
तयोः समभवद्युद्धं घोररूपमसंवृतम्।
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम्॥ 9-59-31 (63511)
समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ।
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव॥ 9-59-32 (63512)
जर्झरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ।
ददृशाते हिमवति पुष्पिताविव किंशुकौ॥ 9-59-33 (63513)
दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते।
ईषदुत्स्मयमानस्तु सहसा प्रससार ह॥ 9-59-34 (63514)
तमभ्याशगतं प्राज्ञः क्षणे प्रेक्ष्य वृकोदरः।
अवाक्षिपद्गदां तस्मिन्वेगेन महता बती॥ 9-59-35 (63515)
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते।
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि॥ 9-59-36 (63516)
मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात्।
भीमसेनं च गदया प्राहरत्कुरुसत्तम॥ 9-59-37 (63517)
तस्य विस्यन्दमानेन रुधिरेणामितौजसः।
प्रहारगुरुपाताच मूर्छेव समजायत॥ 9-59-38 (63518)
तन्नावुध्यत पुत्रस्ते पीडितं पाण्डवं रणे।
धारयामास भीमोऽपि शरीरमतिपीडितम्॥ 9-59-39 (63519)
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे।
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः॥ 9-59-40 (63520)
ततो मुहूर्तनाश्वस्य दुर्योधनमुपस्थितम्।
देगेनाभ्ययतद्राजन्गदामादाय पाण्डवः॥ 9-59-41 (63521)
तमापतन्तं सम्प्रेक्ष्य संरब्धगमितौजसम्।
मोधमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ॥ 9-59-42 (63522)
अवस्याने मतिं कृत्वा पुत्रन्तव महामनाः।
इयेषोत्पतितुं राजञ्छलयिष्यन्वृकोदरम्॥ 9-59-43 (63523)
अबुध्यद्भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम्।
अचास्य सममिद्रुत्य समुत्पत्य च सिंहवत्॥ 9-59-44 (63524)
सत्या वञ्चवतो राजन्पुनरेवोत्पतिष्यतः।
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः॥ 9-59-45 (63525)
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा।
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ॥ 9-59-46 (63526)
स पपात नरव्याघ्रो वसुधामनुनादयन्।
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते॥ 9-59-47 (63527)
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च।
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता॥ 9-59-48 (63528)
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम्।
महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी।
पपात चोल्का महती पतिते पृथिवीपतौ॥ 9-59-49 (63529)
तथा शोणितवर्षं च पांसुवर्षं च भारत।
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते॥ 9-59-50 (63530)
यक्षाणां राक्षसानां च पिशाचानां तथैव च।
अन्तरिक्षे महान्नादस्तत्र भारत शुश्रुवे॥ 9-59-51 (63531)
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्।
जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम्॥ 9-59-52 (63532)
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह।
मुमुचुस्ते महानादं तव पुत्रे निपातिते॥ 9-59-53 (63533)
बेरीशङ्खमृदङ्गानामभवच्च स्वनो महान्।
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते॥ 9-59-54 (63534)
[बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः।
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप॥ 9-59-55 (63535)
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च।
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते]॥ 9-59-56 (63536)
हदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम।
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्॥ 9-59-57 (63537)
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाऽभवन्।
दुर्योधने तदा राजन्पतिते तनये तव॥ 9-59-58 (63538)
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह।
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ॥ 9-59-59 (63539)
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा।
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत॥ 9-59-60 (63540)
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः।
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम्॥ ॥ 9-59-61 (63541)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि एकोनषष्टितमोऽध्यायः॥ 59 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-59-15 अरिशेषाणो पञ्चम्यर्थे षष्ठी॥ 9-59-34 सहसैवाभिसारित इति क.छ.पाठः॥ 9-59-45 धृत्या वञ्चयत इति क.छ.पाठः॥ 9-59-48 क्षुपः क्षुद्रवृक्षः॥ 9-59-59 एकोनषष्टितमोऽध्यायः॥शल्यपर्व - अध्याय 060
॥ श्रीः ॥
9.60. अध्यायः 060
Mahabharata - Shalya Parva - Chapter Topics
भीमसेनेन दुर्योधनापनयानुस्मारणपूर्वकं वामपादेन तच्छिरस्ताडनम्॥ 1 ॥ युधिष्ठिरेण दुर्योधनसमाश्वासनम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-60-0 (63542)
सञ्जय उवाच। 9-60-0x (5234)
तं पातितं ततो दृष्ट्वा महासालमिवोद्गतम्।
प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः॥ 9-60-1 (63543)
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम्।
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः॥ 9-60-2 (63544)
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान्।
पातितं कौरवेन्द्रं तमुपगम्येदमब्रवीत्॥ 9-60-3 (63545)
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम्।
यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते।
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि॥ 9-60-4 (63546)
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत्।
शिरश्च राजसिंहस्य पादेन समलोडयत्॥ 9-60-5 (63547)
तथैव क्रोधसंरक्तो भीमः परबलार्दनः।
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप॥ 9-60-6 (63548)
येऽस्मान्पुरा प्रनृत्यन्ति मूढा गौरिति गौरिति।
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति॥ 9-60-7 (63549)
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना।
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून्॥ 9-60-8 (63550)
सोऽवाप्य वैरस्य चिरस्य पारं
वृकोदरः प्राह शनैः प्रहस्य।
युधिष्ठिरं केशवसृञ्जयांश्च
धनञ्जयं माद्रवतीसुतौ च॥ 9-60-9 (63551)
रजस्वला द्रौपदीमानयन्ते
ये चाप्यकुर्वन्त सदस्यवस्त्राम्। 9-60-10cतान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रान्
रणे हतांस्तपसा याज्ञसेन्याः॥ 9-60-10 (63552)
ये नः पुरा षण्ढतिलानवोचन्
क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः।
ते नो हताः सगणाः सानुबन्धाः
कामं स्वर्गं नरकं वा व्रजामः॥ 9-60-11 (63553)
पुनश्च राज्ञः पतितस्य भूमौ
स तां गदां स्कन्धगतां प्रगृह्य।
वामेन पादेन शिरः प्रमृद्य
दुर्योधनं नैकृतिकेत्यवोचत्॥ 9-60-12 (63554)
हृष्टेन राजन्कुरुपार्थिवस्य
क्षुद्रात्मना भीमसेनेन पादम्।
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन्
धर्मात्मानः सोमकानां प्रबर्हाः॥ 9-60-13 (63555)
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम्।
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम्॥ 9-60-14 (63556)
गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया।
शुभेनाथाशुभेनैव कर्मणा विरमाधुना॥ 9-60-15 (63557)
मा शिरोऽस्य पदाऽमर्दीर्मा धर्मस्तेऽतिगो भवेत्।
राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ॥ 9-60-16 (63558)
एकादशचमूनाथं कुरूणामधिपं तथा।
मास्प्राक्षीर्भीम पादेन राजानं ज्ञातिमेव च॥ 9-60-17 (63559)
हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे।
सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः॥ 9-60-18 (63560)
विध्वस्तोऽयं हतामात्यो हतबन्धुर्हतात्मजः।
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया॥ 9-60-19 (63561)
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः।
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि॥ 9-60-20 (63562)
इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः।
उपसृत्याब्रवीद्दीनो दुर्योधनमरिन्दमम्॥ 9-60-21 (63563)
तात मन्युर्न ते कार्यो नात्मा शोच्यस्त्वया तथा।
नूनं पूर्वकृतं कर्म सुघोरमनुभूयते॥ 9-60-22 (63564)
धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम्।
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम॥ 9-60-23 (63565)
आत्मनो ह्यपराधेन महद्व्यसनमीहशम्।
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत॥ 9-60-24 (63566)
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा।
पुत्रान्पौत्रांस्तथा चान्यांस्ततोसि निधनं गतः॥ 9-60-25 (63567)
तवापराधादस्माभिर्भ्रातरस्ते निपातिताः।
निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम्॥ 9-60-26 (63568)
[आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ।
वयमेवाधुना शोच्याः सर्वावस्थासु कौरव॥ 9-60-27 (63569)
कृपणं वर्तयिष्यामस्तैर्हीना बन्धुभिः प्रियैः।
भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः॥ 9-60-28 (63570)
कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः।
त्वमेकः सुस्थितो राजन्स्वर्गे ते निलयो ध्रुवः।
वयं नरकसंज्ञं वै दुःखं प्राप्स्याम दारुणम्॥] 9-60-29 (63571)
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः।
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः॥ 9-60-30 (63572)
सञ्जय उवाच। 9-60-31x (5235)
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः।
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः॥ ॥ 9-60-31 (63573)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि षष्टितमोऽध्यायः॥ 60 ॥
शल्यपर्व - अध्याय 061
॥ श्रीः ॥
9.61. अध्यायः 061
Mahabharata - Shalya Parva - Chapter Topics
भीमे अपनयबुद्ध्या क्रुद्धेन बलरामेण लाङ्गलमुद्यम्य तम्प्रत्यभिगमनम्॥ 1 ॥ कृष्णेन तत्सान्त्वनं ततो बलस्य द्वारकागमनम्॥ 2 ॥ युधिष्ठिरस्य कृष्णेन भीमेन च संलापः॥ 3 ॥Mahabharata - Shalya Parva - Chapter Text
9-61-0 (63574)
धृतराष्ट्रा उवाच। 9-61-0x (5236)
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः।
किमब्रवीत्तदा सूत बलदेवो महाबलः॥ 9-61-1 (63575)
गदायुद्धविशेषज्ञो गदायुद्धविशारदः।
कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय॥ 9-61-2 (63576)
सञ्जय उवाच। 9-61-3x (5237)
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्।
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली॥ 9-61-3 (63577)
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः।
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह॥ 9-61-4 (63578)
अहो धिग्यदधो नाभेः प्रहृतं धर्मविग्रहे।
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः॥ 9-61-5 (63579)
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः।
अयं तु शास्त्रमुत्सृज्य स्वच्छन्दात्सम्प्रवर्तते॥ 9-61-6 (63580)
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान्।
[ततो राजानमालोक्य रोषसंरक्तलोचनः।
बलदेवो महाराज ततो वचनमब्रवीत्॥ 9-61-7 (63581)
न चैष पतितः कृष्ण केवलं मत्समोऽसमः।
आश्रितस्य तु दौर्बल्यादाश्रयः परिभर्त्स्यते॥] 9-61-8 (63582)
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली॥ 9-61-9 (63583)
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः।
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः॥ 9-61-10 (63584)
`भ्रातृभिः सहितो वीरैः सार्जुनैरस्त्रकोविदैः।
न विव्यथे महाराज दृष्ट्वा हलधरं बली'॥ 9-61-11 (63585)
अथ रामं निजग्राह केशवो विनयान्वितः।
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली॥ 9-61-12 (63586)
सितासितौ यदुवरौ शुशुभातेऽधिकं तदा।
`सङ्गताविव राजेन्द्र कैलासाञ्जनपर्वतौ।
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये॥ 9-61-13 (63587)
उवाच चैनं संरब्धं शमयन्निव केशवः॥ 9-61-14 (63588)
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा।
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः॥ 9-61-15 (63589)
आत्मन्यपि च मित्रे च विपरीतं यदा भवेत्।
तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत्॥ 9-61-16 (63590)
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः।
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम्॥ 9-61-17 (63591)
प्रतिज्ञापालनं धर्मः क्षत्रियस्येति वेत्थ तत्॥ 9-61-18 (63592)
सुयोधनस्य गदया भक्ताऽस्म्यूरू महाहवे।
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले॥ 9-61-19 (63593)
मैत्रेयेणाभिशप्तश्च पूर्वमेव महार्षिणा।
ऊरू ते भेत्स्यते भीमो गदयेति परन्तप।
अतो दोषं न पश्यामि मा क्रुध्यस्व प्रलम्बहन्॥ 9-61-20 (63594)
यौनः स्वैः सुखहार्दैश्च सम्बन्धः सह पाण्डवैः।
तेषां वृद्ध्या हि वृद्धिर्नो मा क्रुधः पुरुषर्षभ॥ 9-61-21 (63595)
वासुदेववचः श्रुत्वा सीरभृत्प्राह धर्मवित्॥ 9-61-22 (63596)
धर्मश्च धारितः सद्भिः स च द्वाभ्यां नियच्छति।
अर्थश्चाप्यतिलुब्धस्य कामश्चातिप्रसङ्गिणः॥ 9-61-23 (63597)
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन्।
धर्मार्थकामान्योऽभ्येति सोत्यन्तं सुखमश्नुते॥ 9-61-24 (63598)
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्।
भीमसेनेन गोविन्द कामं त्वं तु यथाऽऽत्थ माम्॥ 9-61-25 (63599)
कृष्ण उवाच। 9-61-26x (5238)
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः।
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः॥ 9-61-26 (63600)
प्राप्तं कलियुगं विद्वि प्रतिज्ञां पाण्डवस्य च।
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः।
`ततः पुरुषशार्दूलो हत्वा नैकृतिकं रणे॥ 9-61-27 (63601)
निकृत्या निकृतिप्रज्ञं यो हन्याद्वैरिणं रणे।
अधर्मो विद्यते नात्र यद्भीमो हतवान्रिपुम्॥ 9-61-28 (63602)
युध्यमानं रणे वीरं कुरुवृष्णियशस्करम्।
अनेन कर्णः सन्दिष्टः पृष्ठतो धनुरच्छिनत्॥ 9-61-29 (63603)
ततः सञ्छिन्नधन्वानं विरथं पौरुषे स्थितम्।
व्यायुधीकृत्य बहवः सौभद्रमपलायिनम्॥ 9-61-30 (63604)
जन्मप्रभृति लुब्धश्च पापात्मा चैष दुर्मतिः।
निहतो भीमसेनेन दुर्बुद्धिः कुलपांसनः॥ 9-61-31 (63605)
प्रतिज्ञां भीमसेनेन त्रयोदशसमार्जिताम्।
किमर्थं नाभिजानाति युध्यमानो हि शत्रुभिः॥ 9-61-32 (63606)
ऊर्ध्वमाक्रम्य वेगेन जिघांसन्तं वृकोदरः।
बिभेद गदया चोरू न स्थाने न च मण्डले'॥ 9-61-33 (63607)
सञ्जय उवाच। 9-61-34x (5239)
धर्मच्छलमिमं श्रुत्वा केशवात्स विशाम्पते।
नैव प्रीतमाना रामो वचनं प्राह संसदि॥ 9-61-34 (63608)
हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम्।
जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः॥ 9-61-35 (63609)
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्।
ऋजुयोधी हतो राजा धर्मराष्ट्रो नराधिपः॥ 9-61-36 (63610)
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च।
हुत्वाऽऽत्मानममित्राग्नौ प्राप चावभृथं यशः।
`स्वर्गं गन्ता महाराजः ससुहृज्ज्ञातिबान्धवः'॥ 9-61-37 (63611)
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्।
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति॥ 9-61-38 (63612)
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशाम्पते।
रामे द्वारवतीं याते नातिप्रमनसोऽभवन्॥ 9-61-39 (63613)
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्।
शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम्॥ 9-61-40 (63614)
वासुदेव उवाच। 9-61-41x (5240)
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे।
हतबन्धोर्यदेतस्य पतितस्य विचेतसः॥ 9-61-41 (63615)
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा।
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप॥ 9-61-42 (63616)
युधिष्ठिर उवाच। 9-61-43x (5241)
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः।
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये॥ 9-61-43 (63617)
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम्।
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिता वयम्॥ 9-61-44 (63618)
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते।
इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम्॥ 9-61-45 (63619)
तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम्।
लभतां पाण़्डवः कामं धर्मोऽधर्मोऽथवा कृतः॥ 9-61-46 (63620)
सञ्जय उवाच। 9-61-47x (5242)
इत्युक्तवति कौन्तेये धर्मराजे युधिष्ठिरे।
वासुदेवो महाबाहुर्युधिष्ठिरमभाषत।
काममस्त्वेतदिति वै कृच्छ्राद्यदुकुलोद्वहः॥ 9-61-47 (63621)
इत्युक्त्वा वासुदेवोऽपि वायुपुत्रप्रियेप्सया।
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि॥ 9-61-48 (63622)
`अर्जुनोऽपि महाबाहुरप्रीतेनान्तरात्मना।
नोवाच किञ्चिद्वचनं भ्रातरं साध्वसाधु वा'॥ 9-61-49 (63623)
भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः।
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः॥ 9-61-50 (63624)
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम्।
हर्षादुत्फुल्लनयनो जितकाशी विशाम्पते॥ 9-61-51 (63625)
तवाद्य पृथिवी सर्वा क्षेमा निहतकण्टका।
तां प्रशाधि महाराज स्वधर्ममनुपालय॥ 9-61-52 (63626)
यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः।
सोऽयं विनिहतः शेते पृथिव्यं पृथिवीपते॥ 9-61-53 (63627)
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः।
राधेयः शकुनिश्चैव हताश्च तव शत्रवः॥ 9-61-54 (63628)
सेयं रत्नसमाकीर्णा मही सवनपर्वता।
उपावृत्ता महाराज त्वामद्य निहतद्विषम्॥ 9-61-55 (63629)
युधिष्ठिर उवाच। 9-61-56x (5243)
गतो वैरस्य निधनं हतो राजा सुयोधनः।
कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा॥ 9-61-56 (63630)
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः।
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः॥ ॥ 9-61-57 (63631)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि एकषष्टितमोऽध्यायः॥ 61 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-61-15 आत्मवृद्धिः शत्रुक्षयः स्वमित्रस्य वृद्धिः शत्रुमित्रस्य क्षयः स्वमित्रमित्रस्य वृद्धिः शत्रुमित्रमित्रस्य क्षयः एवं षड्विधा आत्मनो वृद्धिः॥ 9-61-16 यदि चोदात्मनो ग्लानिस्तदा शान्तिकर इति क.पाठः॥ 9-61-19 भक्ता भङ्क्ष्ये॥ 9-61-21 यौनः योनिनिमित्तः सम्बन्धः। अस्माकं पितामहः पाण्डवानां मातामहश्चैक इति यौनसम्बन्धः॥ 9-61-22 सीरभृत् रामः॥ 9-61-23 धर्मइति। नियच्छति नियममेति अर्थकामाभ्यां धर्मः सङ्कोचमेतीत्सर्थः॥ 9-61-24 धर्मार्थौ कामे नापीडयन् धर्मकावर्थेनापीडयन् कामार्थौ धर्मेण चापीडयन्नित्यर्थः॥ 9-61-25 कामं यथेष्टं त्वं मां प्रति उक्तवानसि नतु धर्म्ये॥ 9-61-27 कलियुगारम्भे एतावत्पापं नातीव खेदावहमिति भावः॥ 9-61-41 अधर्ममनुपश्यसीति क.छ.पाठः॥ 9-61-46 धर्मोऽधर्मे च वा कृते इति झ.पाठः॥ 9-61-62 एकषष्टितमोऽध्यायः॥शल्यपर्व - अध्याय 062
॥ श्रीः ॥
9.62. अध्यायः 062
Mahabharata - Shalya Parva - Chapter Topics
पाञ्चालादिभिर्भीमस्तुतिः॥ 1 ॥ कृष्णादुर्योधनयोः परस्परगर्हणम्॥ 2 ॥ दुर्योधनेनात्मस्तुतौ तन्मूर्धि गन्धर्वैः पुष्पवर्षणम्॥ 3 ॥ भीष्मादिमरणेन दुःखितानां पाण्डवानां कृष्णेन समाश्वासनम्॥ 4 ॥Mahabharata - Shalya Parva - Chapter Text
9-62-0 (63632)
धृतराष्ट्र उवाच। 9-62-0x (5244)
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे।
पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय॥ 9-62-1 (63633)
स़ञ्जय उवाच। 9-62-2x (5245)
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे।
सिंहेनेव महाराज मत्तं वनगजं यथा॥ 9-62-2 (63634)
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः।
पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने।
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे॥ 9-62-3 (63635)
नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा॥ 9-62-4 (63636)
धनूंष्येके व्याक्षिपन्त ज्याश्चाप्यन्ये तथाऽक्षिपन्।
दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीन्॥ 9-62-5 (63637)
चिकीडुश्च तथैवान्ये जहसुश्च तवाहिताः।
अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः॥ 9-62-6 (63638)
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम्।
कौरवेयं रणे हत्वा गदयाऽतिकृतश्रमम्॥ 9-62-7 (63639)
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे।
त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः॥ 9-62-8 (63640)
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः।
दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात्॥ 9-62-9 (63641)
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम्।
अशक्यमेतदन्येन सम्पादयितुमीदृशम्॥ 9-62-10 (63642)
कुञ्जरेणेव मत्तेन वीरसङ्ग्राममूर्धनि।
दुर्योधपशिरो दिष्ट्या पादेन मृदितं त्वया॥ 9-62-11 (63643)
सिंहेन महिषस्येव कृत्वा सङ्गरमुत्तमम्।
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयाऽनघ॥ 9-62-12 (63644)
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम्।
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा॥ 9-62-13 (63645)
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च।
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः॥ 9-62-14 (63646)
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः।
तथा त्वां निहतामित्रं वयं नन्दाम भारत॥ 9-62-15 (63647)
दुर्योधनवधे यानि रोमाणि हृषितानि नः।
अद्यापि न विकृष्यन्ते तानि तद्विद्धि भारत।
इत्यब्रुन्भीमसेनं वातिकास्तत्र सङ्गताः॥ 9-62-16 (63648)
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह।
ब्रुवतोऽसदृशं तत्र प्रोवाच मधुसूदनः॥ 9-62-17 (63649)
न न्याय्यं निहतं शत्रुं भूयो हन्तुं नराधिपाः।
असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः॥ 9-62-18 (63650)
तदैवैष हतः पापो यदैव निरपत्रपः।
लुब्धः पापसहायश्च सुहृदां शासनातिगः॥ 9-62-19 (63651)
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः।
पाण्डुभ्यः प्रार्थ्यमानोऽपि पित्र्यमंशं न दत्तवान्॥ 9-62-20 (63652)
नैव तेभ्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः।
किमनेन वितुन्नेन वाग्भिः काष्ठसधर्मणा॥ 9-62-21 (63653)
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः।
दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः॥ 9-62-22 (63654)
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः।
अमर्षवशमापन्न उदतिष्ठद्विशाम्पते॥ 9-62-23 (63655)
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम्।
दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत्॥ 9-62-24 (63656)
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तु।
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भोगिनः॥ 9-62-25 (63657)
प्राणान्तकरिणीं घोरां वेदनामप्यचिन्तयन्।
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत्॥ 9-62-26 (63658)
कंसदासस्य दायाद न ते लज्जाऽस्त्यनेन वै।
अधर्मेण गदायुद्धे यदर्हं विनिपातितः।
ऊरूभिन्धीति भीमस्य स्मृतिं मिथ्याप्रयच्छता॥ 9-62-27 (63659)
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः।
घातयित्वा महीपालानृजुयुद्धान्सहस्रशः।
जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा॥ 9-62-28 (63660)
अहन्यहनि शूराणां कुर्वाणः कदनं महत्।
शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः॥ 9-62-29 (63661)
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते।
आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मया॥ 9-62-30 (63662)
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान्।
पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः॥ 9-62-31 (63663)
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च।
घटोत्कचे व्यंसयतः कस्त्वत्तः पापकृत्तमः॥ 9-62-32 (63664)
छिन्नहस्तः प्रायगतस्तथा भूरिश्रवा बली।
त्वयाऽभिसृष्टेन हतः शैनेयेन दुरात्मना॥ 9-62-33 (63665)
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया।
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रस्य वै पुनः॥ 9-62-34 (63666)
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः।
पापितः समरे कर्णश्चक्रव्याग्रोऽग्रणीर्नृणाम्॥ 9-62-35 (63667)
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे।
ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम्॥ 9-62-36 (63668)
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः।
स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः॥ 9-62-37 (63669)
`त्वया मायाविना कृष्ण मायां कर्मप्रमोषिणीम्।
कृत्वा हतः सिन्धुपतिः किं तन्न विदितं मम'॥ 9-62-38 (63670)
वासुदेव उवाच। 9-62-39x (5246)
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः।
सगणः ससुहृच्चैव पापं मार्गमनुष्ठितः॥ 9-62-39 (63671)
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ।
कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः॥ 9-62-40 (63672)
याच्यमानं मया मूढ पित्र्यमंशं न दित्ससि।
पाण्डवेभ्यः स्वराज्यं च लोभाच्छकुनिनिश्चयात्॥ 9-62-41 (63673)
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः।
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते॥ 9-62-42 (63674)
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला।
तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रप॥ 9-62-43 (63675)
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना।
निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे॥ 9-62-44 (63676)
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने।
यातेषु मृगयां चैव तृणबिन्दोरथाश्रमम्॥ 9-62-45 (63677)
अभिमन्युश्च यद्बाल एको बहुभिराहवे।
त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे॥ 9-62-46 (63678)
`कुर्वाणं कर्म समरे पाण्डवानर्थकाङ्क्षिणम्।
यच्छिखण्ड्यवधीद्भीष्मं मित्रार्थे न व्यतिक्रमः॥ 9-62-47 (63679)
स्वधर्मं पृष्ठतः कृत्वा आचार्यस्त्वत्प्रियेप्सया।
पार्षतेन हतः सङ्ख्ये वर्तमानोऽसतां पथि॥ 9-62-48 (63680)
प्रतिज्ञामात्मनः सत्यां चिकीर्षन्समरे निपुम्।
हतवान्सात्वतो विद्वान्सौमदत्तिं महारथम्॥ 9-62-49 (63681)
अर्जुनः समरे राजन्युध्यमानः कदाचन।
निन्दितं पुरुषव्याघ्रः करोति न कथञ्चन॥ 9-62-50 (63682)
लब्ध्वाऽपि बहुधा छिद्रं वीरवृत्तमनुस्मरन्।
निजघान रणे कर्णं मैवं वोचः सुदुर्मते॥ 9-62-51 (63683)
देवानां मतमाज्ञाय तेषां प्रियहितेप्सया।
अर्जुनस्य महानागं मया व्यंसितमस्त्रजम्॥ 9-62-52 (63684)
त्वं च भीष्मश्च कर्णश्च द्रोणो द्रौणायनिस्तथा।
विराटनगरे तस्य ह्यानृशंस्येन जीविताः॥ 9-62-53 (63685)
स्मर पार्थस्य विक्रान्तं गन्धर्वेषु कृतं तथा।
अधर्मं नात्र गान्धारे पाण्डवैर्यत्कृतं त्वयि॥ 9-62-54 (63686)
स्वबाहुबलमास्थाय स्वधर्मेण परन्तपाः।
जितवन्तो रणे वीराः पापोसि निधनं गतः'॥ 9-62-55 (63687)
[यान्यकार्याणि चास्माकं कृतानिति प्रभाषसे।
वैगुण्येन तवात्यर्थं सर्वं हि तदनुष्ठितम्॥ 9-62-56 (63688)
बृहस्पतेरुशनसो नोपदेशः श्रुतस्त्वया।
वृद्धा नोपासिताश्चैव हितं वाक्यं न ते श्रुतभ्॥ 9-62-57 (63689)
लोभेनातिबलेन त्वं तृष्णया च वशीकृतः।
कृतवानस्यकार्याणि विपाकस्तस्य भुज्यताम्॥] 9-62-58 (63690)
दुर्योधन उवाच। 9-62-59x (5247)
अधीतं विधिवद्दत्तं भूः प्रभुक्ता ससागरा।
मूर्ध्नि स्थिममित्राणां को नु स्वन्ततरो मया॥ 9-62-59 (63691)
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम्।
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया॥ 9-62-60 (63692)
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः।
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया॥ 9-62-61 (63693)
ससुहृत्सानुबन्धस्च स्वर्गं गन्ताऽहमच्युत।
यूयं गर्हितसङ्कल्पाः शोचन्तो वर्तयिष्यथ॥ 9-62-62 (63694)
`न मे विषादो भीमेन पादेन शिर आहतम्।
काका वा कङ्कगृध्रा वा निधास्यन्ति पदं क्षणात्'॥ 9-62-63 (63695)
सञ्जय उवाच। 9-62-64x (5248)
अस्य वाक्यस्य निधने कुरुराजस्य धीमतः।
अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम्॥ 9-62-64 (63696)
अवादयन्त गन्धर्वा वादित्रं सुमनोहरम्॥ 9-62-65 (63697)
जगुश्चाप्सरसो राज्ञो यशः सम्बद्धमेव च।
सिद्धाश्च मुमुचुर्वाचः साधुसाध्विति पार्थिव॥ 9-62-66 (63698)
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुःसुखः।
व्यराजंश्च दिशः सर्वा नभो वैदूर्यसन्निभम्॥ 9-62-67 (63699)
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः।
दुर्योधनस्य पूजां तु दृष्ट्वा व्रीडामुपागमन्॥ 9-62-68 (63700)
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते।
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च॥ 9-62-69 (63701)
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः।
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः॥ 9-62-70 (63702)
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः।
ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे॥ 9-62-71 (63703)
उपायान्निहता ह्येते मया तस्मान्नराधिपाः।
अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित्॥ 9-62-72 (63704)
ते हि सर्वे महेष्वासाश्चत्वारोऽतिरथा मुवि।
अशक्या धर्मतो हन्तुं लोकपालैरपि स्वयम्॥ 9-62-73 (63705)
तथैवायं गदापाणिर्धार्तराष्ट्रो गतश्रमः।
अशक्यो धर्मतो हन्तुं कालेनापि दि दण्डिना॥ 9-62-74 (63706)
नैतन्मनसि कर्तव्यं यदयं निहतो नृपः।
मिथ्याचर्याच्छलोपायैर्बहवः शत्रवो हताः॥ 9-62-75 (63707)
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः।
सद्भिश्चानुगतः पन्थाः सर्वैरनुगमिष्यते॥ 9-62-76 (63708)
`एवं विधात्रा विहितं स्वयमेषां महात्मनाम्।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम्॥ 9-62-77 (63709)
भूतं भव्यं भविष्यच्च निमेषाद्यो हनिष्यति।
कृतान्तमन्यथा कर्तुं नेच्छेत्सोऽयं धनञ्जय॥' 9-62-78 (63710)
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे।
साश्वनागरथाः सर्वे विश्राम्यन्तु नराधिपाः॥ 9-62-79 (63711)
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह।
पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत्॥ 9-62-80 (63712)
ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं जनार्दनः।
`देवदत्तं प्रहृष्टात्मा शङ्खप्रवरमर्जुनः॥ 9-62-81 (63713)
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
पोण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥ 9-62-82 (63714)
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।
धृष्टद्युम्नस्तथा जैत्रं सात्यकिर्नन्दिवर्धनम्॥ 9-62-83 (63715)
तेषां नादेन महता शङ्खानां भरतर्षभ।
आपुपूरे नभः सर्वं पृथिवी च चचाल ह॥ 9-62-84 (63716)
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।
पाण्डुसैन्येष्ववाद्यन्त स शब्दस्तुमुलोऽभवत्॥ 9-62-85 (63717)
अस्तुवन्पाण्डवानन्ये निर्भीश्च स्तुतिमङ्गलैः'।
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः॥ ॥ 9-62-86 (63718)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि द्विषष्टितमोऽध्यायः॥ 62 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-62-21 नैष योग्योऽद्य मित्रं वेति झ.पाठः॥ 9-62-62 द्विषष्टितमोऽध्यायः॥शल्यपर्व - अध्याय 063
॥ श्रीः ॥
9.63. अध्यायः 063
Mahabharata - Shalya Parva - Chapter Topics
पाञ्चालादिषु स्वस्वशिबिराण्युपगतेषु पाण्डवैर्दुर्योधनशिबिरमेत्य स्वस्वरथेभ्योऽवतरणम्॥ 1 ॥ कृष्णे रथात्प्रथमं पार्थमवतार्थ पश्चात्स्वयमप्यवतीर्णे अग्निना तद्ग्रथस्य भस्मीकरणम्॥ 2 ॥ कृष्णेनार्जुनम्प्रति रथदाहस्य कारणकथनम्॥ 3 ॥ कृष्णचोदनया पाण्डवैरोघवतीतीरे रात्रौ निवसनम्॥ 4 ॥ कृष्णेन युधिष्ठिरचोदनया गान्धार्याश्वासनाय हास्तिनपुरागमनम्॥ 5 ॥Mahabharata - Shalya Parva - Chapter Text
9-63-0 (63719)
सञ्जय उवाच। 9-63-0x (5249)
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः।
शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः॥ 9-63-1 (63720)
पाण्डवान्गच्छतश्चापि शिबिरं नो विशाम्पते।
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा॥ 9-63-2 (63721)
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः।
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत॥ 9-63-3 (63722)
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम्।
दुर्योधनस्य शिबिरं रङ्गवन्निःसृते जने॥ 9-63-4 (63723)
गतोत्सवं पुरमिव हृतनागमिव हदम्।
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम्॥ 9-63-5 (63724)
तत्रैतान्पर्युपातिष्ठन्दुर्योधन पुरःसराः।
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः॥ 9-63-6 (63725)
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः।
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः॥ 9-63-7 (63726)
ततो गाण्डीवधन्वानमभ्यभाषत केशवः।
स्थितः प्रियहिते नित्यमतीव भरतर्षभ॥ 9-63-8 (63727)
अवरोपय गाण्डीवमक्षयौ च महेषुधी।
अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम।
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ॥ 9-63-9 (63728)
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः॥ 9-63-10 (63729)
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम्।
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः॥ 9-63-11 (63730)
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि।
कपिरप्याश्वपाक्रामत्सहदेवैर्ध्वजालयैः॥ 9-63-12 (63731)
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः।
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते॥ 9-63-13 (63732)
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धनः।
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः॥ 9-63-14 (63733)
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो।
अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत्॥ 9-63-15 (63734)
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह।
गोवन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना॥ 9-63-16 (63735)
किमेतन्महदाश्चर्यमभवद्यदुनन्दन।
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे॥ 9-63-17 (63736)
वासुदेव उवाच। 9-63-18x (5250)
द्रोणकर्णास्त्रनिर्दग्धः पूर्वमेवायमर्जुन।
मदास्थितत्वात्समरे न विशीर्णः परन्तप॥ 9-63-18 (63737)
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा।
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि॥ 9-63-19 (63738)
सञ्जय उवाच। 9-63-20x (5251)
ईषदुत्स्मयमानस्तु भगवान्केशवोऽरिहा।
परिष्वज्य च राजानं युधिष्ठिरमभाषत॥ 9-63-20 (63739)
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः।
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः॥ 9-63-21 (63740)
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ।
मुक्ता वीरक्षयादिस्मात्सङ्ग्रामान्निहतद्विषः।
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत॥ 9-63-22 (63741)
उपयातमुपप्लाव्यं सह गाण्डीवधन्वना।
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः॥ 9-63-23 (63742)
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः।
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो॥ 9-63-24 (63743)
तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम्॥ 9-63-25 (63744)
स सव्यसाची गुप्तस्ते विजयी च जनेश्वर। 9-63-26 (63745)
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः।
मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात्॥ 9-63-26 (63746)
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः।
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम्॥ 9-63-27 (63747)
युधिष्ठिर उवाच। 9-63-28x (5252)
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन।
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः॥ 9-63-28 (63748)
भवतस्तु प्रसादेन संग्रामे बहवो हताः।
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः॥ 9-63-29 (63749)
तथा तव महाबाहो पर्यायैर्बहुभिर्मया।
कर्मणआमनुसन्धानात्तेजस्वी जगति श्रुता॥ 9-63-30 (63750)
उपप्लाव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत्।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः॥ 9-63-31 (63751)
`एवमुक्तस्ततः कृष्णः प्रत्युवाच युधिष्ठिरम्।
न तुल्याश्चार्जुनस्येह बलेन कुरुनन्दन॥ 9-63-32 (63752)
स एष सर्वाण्यस्त्राणि दिव्यानि प्राप्य शङ्करात्।
सत्समो वा विशिष्टो वा रणे त्वमिति पाण्डवः।
अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन्महीम्॥ 9-63-33 (63753)
भूतं भव्यं भविष्यच्च अनुज्ञातस्त्वया विभो।
निमेषार्धान्नरव्याघ्रो नयेदिति मतिर्मम॥ 9-63-34 (63754)
द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम्।
निहन्तुं शक्नुयात्क्रुद्धो निमेषार्धाद्धनञ्जयः॥ 9-63-35 (63755)
सदेवासुरगन्धर्वान्सयक्षोरगराक्षसान्।
त्रीन्वा लोकान्विजेतुं स शक्तः किमिह मानुषान्॥ 9-63-36 (63756)
विधिना विहितं चासौ मया सञ्चोदितोऽपि सन्।
न चकार मतिं हन्तुं ततस्ते बलवत्तराः॥ 9-63-37 (63757)
अत्र गीता मया सुष्ठु गिरः सत्या महीपते।
दर्सितं मयि सर्वं च तेनासौ जितवान्रिपून्॥ 9-63-38 (63758)
अर्जुनोऽपि महाबाहुर्मया तुल्यो महीपते।
स महेश्वरलब्धास्त्रः किं न कुर्याद्विभुः प्रभो॥' 9-63-39 (63759)
इत्येवमुक्ते ते वीराः शिबिरं तव भारत।
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसञ्चयान्॥ 9-63-40 (63760)
रजतं जातरूपं च मणीनथ च मौक्तिकान्।
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च॥ 9-63-41 (63761)
`गजानश्वान्रथांश्चैव महान्ति शयनानि च'।
दासीदासमसंख्येयं राज्योपकरणानि च॥ 9-63-42 (63762)
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ।
उदक्रोशन्महाभागा नरेन्द्र विजितारयः॥ 9-63-43 (63763)
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च।
अतिष्ठन्त मुहुः सर्वे पाण्डवा विगतज्वराः॥ 9-63-44 (63764)
अथाब्रवीन्महाराज वासुदेवो महायशाः।
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः॥ 9-63-45 (63765)
तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा।
वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः॥ 9-63-46 (63766)
ते समासाद्य सरितं पुण्यामोघवतीं नृप।
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः॥ 9-63-47 (63767)
युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयन्॥ 9-63-48 (63768)
तत्र ते गमनं माप्तं रोचते तव माधव।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम॥ 9-63-49 (63769)
हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः।
क्षिप्रमेव महाभाग गान्धारीं प्रशमिष्यसि।
पितामहश्च भगवान्व्यासस्तत्र भविष्यति॥ 9-63-50 (63770)
ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम्॥ 9-63-51 (63771)
स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान्।
दारुकं रथमारोप्य येन राजाऽम्बिकासुतः॥ 9-63-52 (63772)
तमूचुः सम्प्रयास्यन्तं शैब्यसुग्रीववाहनम्।
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम्॥ 9-63-53 (63773)
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः।
आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम्॥ ॥ 9-63-54 (63774)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि त्रिषष्टितमोऽध्यायः॥ 63 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-63-5 वर्षवरः षण्ढः॥ 9-63-6 दुर्योधनस्य पुरसराः दुर्योधनपुरः सराः॥ 9-63-30 तेजस्वीति गतिः श्रुता इति छ.पाठः। तथैव च महाबाहो मनुसन्तानं तेजसश्च गतीः शुभाः इति झ.पाठः॥ 9-63-63 त्रिषष्टितमोऽध्यायः॥शल्यपर्व - अध्याय 064
॥ श्रीः ॥
9.64. अध्यायः 064
Mahabharata - Shalya Parva - Chapter Topics
जनमेजयेन गान्धार्याश्वासनकारणप्रश्ने वैशम्पायनेन तत्कथनम्॥ 1 ॥ कृष्णेन गान्धारीधृतराष्ट्रो समाश्वास्य पुनः पाण्डवसमीपागमनम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-64-0 (63775)
जनमेजय उवाच। 9-64-0x (5253)
किमर्थं द्विजशार्दूल धर्मराजो युधिष्ठिरः।
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम्॥ 9-64-1 (63776)
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति।
न च तं लब्धवान्कामं ततो युद्धमभूदिदम्॥ 9-64-2 (63777)
निहतेषु तु योधेषु हते दुर्योधने तदा।
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि॥ 9-64-3 (63778)
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे।
किं तु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः॥ 9-64-4 (63779)
न चैतत्कारणं ब्रह्मन्नल्पं विप्रतिभाति मे।
यत्रागमदमेयात्मा स्वयमेव जनार्दनः॥ 9-64-5 (63780)
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम।
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये॥ 9-64-6 (63781)
वैशम्पायन उवाच। 9-64-7x (5254)
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव।
तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ॥ 9-64-7 (63782)
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे।
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम्॥ 9-64-8 (63783)
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत।
युधिष्ठिरं महाराज महद्भयमथाविशत्॥ 9-64-9 (63784)
सोऽचिन्तयन्महाभागां गान्धारीं तपसान्विताम्।
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत्॥ 9-64-10 (63785)
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा।
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत्॥ 9-64-11 (63786)
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्।
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति॥ 9-64-12 (63787)
कथं दुःखमिदं तीव्रं गान्धारी सम्प्रशक्ष्यति।
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्॥ 9-64-13 (63788)
एवं विचिन्त्य बहुधा भयशोकसमन्वितः।
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत॥ 9-64-14 (63789)
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम्।
अप्राप्यं मनसाऽपीदं प्राप्तमस्माभिरच्युत॥ 9-64-15 (63790)
प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे।
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन॥ 9-64-16 (63791)
त्वया देवासुरे युद्धे वधार्थममरद्विषाम्।
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः॥ 9-64-17 (63792)
साह्यं तथा महाबाहो दत्तमस्माकमच्युत।
सारथ्येन च वार्ष्णेय भवता हि धृता वयम्॥ 9-64-18 (63793)
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे।
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः॥ 9-64-19 (63794)
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम्।
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वथैः॥ 9-64-20 (63795)
अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः।
शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे॥ 9-64-21 (63796)
ते च ते सफला जाता हते दुर्योधनेऽच्युत।
तत्सर्वं न यथा नश्येत्पुनः कृष्ण तथा कुरु॥ 9-64-22 (63797)
सन्देहडोलां प्राप्तं नश्चेतः कृष्ण जये सति।
गान्धार्या हि महाबाहो क्रोधं शमय माधव॥ 9-64-23 (63798)
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता।
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति।
तस्या प्रसादनं वीर प्राप्तकालं मतं मम॥ 9-64-24 (63799)
कश्च तां क्रोधसन्दीप्तां पुत्रव्यसनकर्शिताम्।
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम॥ 9-64-25 (63800)
तत्र मे गमनं प्राप्तं रोचते तव माधव।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम॥ 9-64-26 (63801)
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः।
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः॥ 9-64-27 (63802)
क्षिप्रमेव महाबाहो गान्धारीं शमयिष्यसि।
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति॥ 9-64-28 (63803)
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्।
कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना॥ 9-64-29 (63804)
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः।
आमन्त्र्य दारुकं प्राह रथः सञ्जो विधीयताम्॥ 9-64-30 (63805)
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः।
न्यवेदयद्रथं सज्जं केशवाय महात्मने॥ 9-64-31 (63806)
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः।
जगाम हास्तिनपुरं त्वरितः केशवो विभुः॥ 9-64-32 (63807)
ततः प्रायान्महाराज माधवो भगवान्रथी।
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान्॥ 9-64-33 (63808)
प्रविश्य नगरं वीरो रथघोषेण नादयन्।
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात्।
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम्॥ 9-64-34 (63809)
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम्॥ 9-64-35 (63810)
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः।
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः॥ 9-64-36 (63811)
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः।
पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह॥ 9-64-37 (63812)
स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम्।
प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि।
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः॥ 9-64-38 (63813)
न तेऽस्त्यविदितं किञ्चिद्भूतं भव्यं च भारत।
कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो॥ 9-64-39 (63814)
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः।
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत॥ 9-64-40 (63815)
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः।
द्यूतच्छलजितैः शुद्वैर्वनवासो ह्युपागतः॥ 9-64-41 (63816)
अज्ञातवासचर्या च नानावेषसमावृतैः।
अन्ये च बहवः क्लेशास्त्वशक्तैरिव सर्वदा॥ 9-64-42 (63817)
मया च स्वयमागम्य युद्धकाल उपस्थिते।
सर्वलोकस्य सान्निध्येग्रामांस्त्वं पञ्चयाचितः॥ 9-64-43 (63818)
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः।
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम्॥ 9-64-44 (63819)
भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च।
द्रोणेन च सपुत्रेण विदुरेण च धीमता।
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि॥ 9-64-45 (63820)
कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत।
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते॥ 9-64-46 (63821)
किमन्यत्कालयोगाद्धि द्विष्टमेव परायणम्।
मा च दोषान्महाप्राज्ञ पाण्डवेषु निवेशय॥ 9-64-47 (63822)
अल्पोप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्।
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप॥ 9-64-48 (63823)
एतत्सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम्।
तन्मन्युं पाण्डुपुत्रेषु न भवान्कर्तुमर्हति॥ 9-64-49 (63824)
कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृत फलम्।
गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम्॥ 9-64-50 (63825)
त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी।
मा शुचो नरशार्दूल पाण्डवान्प्रतिकिल्बिम्॥ 9-64-51 (63826)
एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम्।
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ॥ 9-64-52 (63827)
जानासि च महाबाहो धर्मराजस्य या त्वयि।
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः॥ 9-64-53 (63828)
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम्।
दह्यते स दिवारात्रौ न च शर्माधिगच्छति॥ 9-64-54 (63829)
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्।
स शोचन्नरशार्दूलः शान्तिं नैवाधिगच्छति॥ 9-64-55 (63830)
हिया च परयाऽविष्टो भवन्तं नाधिगच्छति।
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम्॥ 9-64-56 (63831)
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः।
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम्॥ 9-64-57 (63832)
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते।
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे॥ 9-64-58 (63833)
जानासि च यथा राज्ञि सभायां मम सन्निधौ।
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम्॥ 9-64-59 (63834)
उक्तवत्यसि कल्याणि न च ते तनयैः कृतम्।
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः॥ 9-64-60 (63835)
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः।
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे॥ a6-64-61 (63836)
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः।
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन॥ 9-64-62 (63837)
शक्ता चासि महाभागे पृथिवीं सचराचराम्।
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात्॥ 9-64-63 (63838)
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत्।
एवमेतन्महाबाहो यथा वदसि केशव॥ 9-64-64 (63839)
आधिभिर्दह्यमानाया मतिः सञ्चलिता मम।
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन॥ 9-64-65 (63840)
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव।
त्वं गतिः सहितैर्वीरैः पाण्डवैर्दिपदा वर॥ 9-64-66 (63841)
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा।
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह॥ 9-64-67 (63842)
तत एनां महाबाहुः केश्वः शोककर्शिताम्।
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः॥ 9-64-68 (63843)
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः।
द्रौणिसङ्कल्पितं भावमन्वबुध्यत केशवः॥ 9-64-69 (63844)
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च।
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत्॥ 9-64-70 (63845)
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः।
द्रौणेः पापोस्त्यभिप्रायस्तेनास्मि सहसोत्थितः॥ 9-64-71 (63846)
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता॥ 9-64-72 (63847)
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्।
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम्॥ 9-64-73 (63848)
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय।
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन॥ 9-64-74 (63849)
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः॥ 9-64-75 (63850)
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम्।
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः॥ 9-64-76 (63851)
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह।
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप॥ 9-64-77 (63852)
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान्।
तच्च तेभ्यः समाख्याय सहितस्तैः समाहितः॥ ॥ 9-64-78 (63853)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि चतुःषष्टितमोऽध्यायः॥ 64 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-64-27 हेतुकारणसंयुक्तैः हेतवो दृष्टा अपराधाः। कारणानि अदृष्टान्यवश्यंभावीनि तैर्युक्तानि तैर्युक्तानि तैः॥ 9-64-33 प्रायादगच्छत्॥ 9-64-34 विदितं धृताराष्ट्रस्येति झ.पाठः॥ 9-64-36 कृष्णस्य व्यासस्य॥ 9-64-49 असूयां पाण्डुपुत्रोष्विति झ.पाठः॥ 9-64-64 चतुःषष्टितमोऽध्यायः॥शल्यपर्व - अध्याय 065
॥ श्रीः ॥
9.65. अध्यायः 065
Mahabharata - Shalya Parva - Chapter Topics
सञ्जयेन धृतराष्ट्रंप्रति दुर्योधनविलापप्रकारकथनम्॥ 1 ॥ वादिकैरश्वत्थाम्नि दुर्योधनपातननिवेदनम्॥ 2 ॥Mahabharata - Shalya Parva - Chapter Text
9-65-0 (63854)
धृतराष्ट्र उवाच। 9-65-0x (5255)
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः।
शौटीर्यमानी पुत्रो मे किमभाषत सञ्जय॥ 9-65-1 (63855)
अत्यर्थं कोपनो राजा जावैरश्च पाण्डुषु।
व्यसनं परमं प्राप्तः किमाह परमाहवे॥ 9-65-2 (63856)
सञ्जय उवाच। 9-65-3x (5256)
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप।
राज्ञा यदुक्तं मग्नेन तस्मिन्व्यसनसागरे॥ 9-65-3 (63857)
भग्नसक्थो नृपो राजन्पांसुना सोऽवकुण्ठितः।
यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश॥ 9-65-4 (63858)
केशान्नियस्य यत्नेन निःश्वसन्नुरगो यथा।
संरम्भाश्रुपरीताब्यां नेत्राभ्यामभिवीक्ष्य माम्॥ 9-65-5 (63859)
बाहू धरण्यां निष्पिष्य सुदुर्मत्त इव द्विपः।
प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन्।
गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत्॥ 9-65-6 (63860)
भीष्मे शान्तनवे नाथे कर्णे शस्त्रभृतां वरे।
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे॥ 9-65-7 (63861)
अश्वत्थाम्नि यथा शल्ये शूरे च कृतवर्मणि।
अन्येष्वपि च शूरेषु न्यस्तभारो महात्मसु।
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः॥ 9-65-8 (63862)
एकादशचमूभर्ता सोऽहमेतां दशां गतः।
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते॥ 9-65-9 (63863)
आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संयुगे।
यथाऽहं भीमसेनेन व्युत्क्रम्य समयं हतः॥ 9-65-10 (63864)
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः।
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च धीमति॥ 9-65-11 (63865)
इदं च गर्हितं कर्म नृशंसैः पाण्डवैः कृतम्।
येन ते वाच्यतां सत्सु गमिष्यन्तीति मे मतिः॥ 9-65-12 (63866)
का प्रीतिः सत्वयुक्तस्य कृत्वोपाधिकृतं जयम्।
को वा समयभेत्तारं बुधः सम्मन्तुमर्हति॥ 9-65-13 (63867)
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः।
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः॥ 9-65-14 (63868)
किन्नु चित्रमितस्त्वद्य भग्नसक्थस्य यन्मम।
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः॥ 9-65-15 (63869)
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु।
एवं कुर्यान्नरो यो हि स वै स़ञ्जय पूरुषः॥ 9-65-16 (63870)
अभिज्ञौ युद्धधर्मस्य मम माता पिता च यौ।
तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनाद्वि मे॥ 9-65-17 (63871)
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा।
मूर्ध्नि स्थितममित्राणां जीवतामेव स़ञ्जय॥ 9-65-18 (63872)
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम्।
अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया॥ 9-65-19 (63873)
मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः।
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया॥ 9-65-20 (63874)
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः।
आजानेयैस्तथा यातं को नु स्वन्ततरो मया॥ 9-65-21 (63875)
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत्।
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया॥ 9-65-22 (63876)
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम्।
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया॥ 9-65-23 (63877)
दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः।
दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यगता विभो॥ 9-65-24 (63878)
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम्।
निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया॥ 9-65-25 (63879)
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवञ्जितः।
दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः॥ 9-65-26 (63880)
सुप्तं वाऽथ प्रमत्तं वा यथा हन्याद्विषेण वा।
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः॥ 9-65-27 (63881)
अश्चत्थामा महाभागः कृतवर्मा च सात्वतः।
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम॥ 9-65-28 (63882)
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः।
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ॥ 9-65-29 (63883)
वार्तिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः।
अधर्माद्भीमसेनेन निहतोऽहं यथा रणे॥ 9-65-30 (63884)
सोऽहं द्रोणं स्वर्गगतं कर्णशल्यावुभौ तथा।
वृषसेनं महावीर्यं शकुनिं चापि सौबलम्॥ 9-65-31 (63885)
जलसन्धं महावीर्यं भगदत्तं च पार्थिवम्।
सोमदत्तं महेष्वासं सैन्धवं च जयद्रथम्॥ 9-65-32 (63886)
दुऋशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा।
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ॥ 9-65-33 (63887)
एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः।
पृष्ठतोऽनुगमिष्यामि सार्थहीनो यथाऽध्वगः॥ 9-65-34 (63888)
कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम।
रोरूयामाणा दुःखार्ता दुःशला सा भविष्यति॥ 9-65-35 (63889)
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम।
गान्धारीसहितश्चैव का गतिं प्रतिपत्स्यति॥ 9-65-36 (63890)
नूनं लक्ष्मणमाताऽपि हतपुत्रा हतेश्वरा।
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना॥ 9-65-37 (63891)
यदि जानाति चार्वाकः परिव्राद्वाग्विशारदः।
करिष्यति महाभागो ध्रुवं चापचितिं मम॥ 9-65-38 (63892)
समन्तप़ञ्चके पुण्ये त्रिषु लोकेषु विश्रुते।
अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान्॥ 9-65-39 (63893)
ततो जनसहस्राणि बाष्पपूर्णानि दिशो दश॥
ससागरवना घोरा पृथिवी सचराचरा। 9-65-40 (63894)
चचालाथ सनिर्हादा दिशश्चैवाविलाऽभवन्॥
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्। 9-65-41 (63895)
व्यवहारं गदायुद्धे पार्थिवस्य च पातनम्॥
तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत। 9-65-42 (63896)
`वादिका दुःखसन्तप्ताः शोकोपहतचेतसः'।
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम्॥ ॥ 9-65-43 (63897)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि पञ्चषष्टितमोऽध्यायः॥ 65 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-65-1 शौटीरः शूरः स एव शौटीर्यमात्मानं मन्यते शौटीर्यमानी॥ 9-65-16 स वै सञ्जयपूजित इति झ.पाठः॥ 9-65-20 मया मत्तः॥ 9-65-30 वार्तिकान्वार्ताहारिणः॥ 9-65-38 चार्वाको ब्राह्मणवेषधारी राक्षसः। अपचितिं प्रतीकारम्॥ 9-65-65 पञ्चषष्टितमोऽध्यायः॥शल्यपर्व - अध्याय 066
॥ श्रीः ॥
9.66. अध्यायः 066
Mahabharata - Shalya Parva - Chapter Topics
द्रौणिकृतकृतवर्मभिर्दुर्योधनस्य भूपतनदर्शनेन शोचनम्॥ 1 ॥ द्रौणिदुर्योधनयोः संलापः॥ 2 ॥ द्रौणिना रात्रौ पाण्डववधप्रतिज्ञानम्॥ 3 ॥ दुर्योधनवचनात् कृपेण द्रौणेः सैनापत्येऽफिषेचनम्॥ 4 ॥Mahabharata - Shalya Parva - Chapter Text
9-66-0 (63898)
सञ्जय उवाच। 9-66-0x (5257)
वादिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम्।
हतशिष्टास्तदा राजन्कौरवाणां महारथाः॥ 9-66-1 (63899)
विनिर्भिन्नाः शितैर्बाणैर्णदातोमरशक्तिभिः।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।
त्वरिता जवनैरश्वैरायोधनमुपागमन्॥ 9-66-2 (63900)
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम्।
प्रभग्नं वायुवेगेन महासालं यथा वने॥ 9-66-3 (63901)
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम्।
महागर्जामेवारण्ये व्याधेन विनिपातितम्॥ 9-66-4 (63902)
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम्।
यदृच्छया निपतितं चन्द्रमादित्यगोचरात्॥ 9-66-5 (63903)
युगान्तमारुतेनेव शोषितं मकरालयम्।
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम्॥ 9-66-6 (63904)
रेणुध्वस्तं दीर्घभुजं मातङ्गमिव विक्रमे।
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः॥ 9-66-7 (63905)
यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम्।
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम्।
सामर्षं तं नरव्याघ्रं भौमं निपतितं तथा॥ 9-66-8 (63906)
ते तं दृष्ट्वा महेष्वासं भूतले पतितं नृपम्।
मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः॥ 9-66-9 (63907)
अवतीर्य रथेभ्यश्च प्राद्रवन्राजसन्निधौ।
दुर्योधनं च सम्प्राप्य सर्वे भूमावुपाविशन्॥ 9-66-10 (63908)
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन्।
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम्॥ 9-66-11 (63909)
न नूनं विद्यते पुण्यं मानुषे किञ्चिदेव हि।
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः॥ 9-66-12 (63910)
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम्।
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने॥ 9-66-13 (63911)
दुःशासनं न पश्यामि नापि कर्णं महारथम्।
नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ॥ 9-66-14 (63912)
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन।
लोकनाथो भवान्यत्र शेषे पांसुषु रूषितः॥ 9-66-15 (63913)
एष मूर्धाभिषिक्तानामग्रे गत्वा परन्तपः।
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम्॥ 9-66-16 (63914)
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव।
सा च ते महती सेना क्व गता पार्थिवोत्तम॥ 9-66-17 (63915)
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे।
यो वै लोकगुरुर्नाथो भवानेतां दशां गताः॥ 9-66-18 (63916)
अध्रुवा सर्वमर्त्येषु ध्रुवैव श्रीर्विचिन्त्यते।
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम्॥ 9-66-19 (63917)
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः।
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः॥ 9-66-20 (63918)
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन्।
कृपादीन्स तदा वीरान्सर्वानेव नराधिपः॥ 9-66-21 (63919)
ईदृशो लोकधर्मोऽयं धात्रा निर्दिष्ट उच्यते।
विनाशः सर्वभूतानां कालपर्यायकारितः॥ 9-66-22 (63920)
सोऽयं मां समनुप्राप्तः प्रत्यक्षो भवतां हि यः।
पृथिवीं पालयित्वाऽहमेतां निष्ठामुपागतः॥ 9-66-23 (63921)
दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि।
दिष्ट्याऽहं निहतः पापैश्चलेनैव विशेषतः॥ 9-66-24 (63922)
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता।
दिष्ट्या चास्मिन्हतो युद्धे निहतज्ञातिबान्धवः॥ 9-66-25 (63923)
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात्।
स्वस्तियुक्तांश्च कल्याणांस्तन्मे प्रियमनुत्तमम्॥ 9-66-26 (63924)
मा भवन्तोऽत्र तप्यन्तां सौहृदान्निधनेन मे।
यदि वेदाः प्रमाणं वो जिता लोका मयाऽक्षयाः॥ 9-66-27 (63925)
जानमानः प्रभावं च कृष्णस्यामिततेजसः।
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात्॥ 9-66-28 (63926)
स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन।
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः।
यतितं विजये शक्त्या दैवं तु दुरतिक्रमम्॥ 9-66-29 (63927)
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः।
तूष्णीबभूव राजेन्द्र रुजाऽसौ विह्वलो भृशम्॥ 9-66-30 (63928)
तथा दृष्ट्वा तु राजानं बाष्पशोकसमन्वितम्।
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये॥ 9-66-31 (63929)
स च क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च।
बाष्पविह्वलया वाचा राजानमिदमब्रवीत्॥ 9-66-32 (63930)
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा।
न तथा तेन तप्यामि तथा राजंस्त्वयाऽद्य वै॥ 9-66-33 (63931)
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो।
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च॥ 9-66-34 (63932)
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः।
अद्य रात्रौ महाराज निहनिष्यामि पाण्डवान्॥ 9-66-35 (63933)
अनुज्ञां तु महाराज भवान्मे दातुमर्हति॥ 9-66-36 (63934)
तच्छ्रुत्वा वचनं द्रौणेर्धृतराष्ट्र तवात्मजः।
मनसः प्रीतिजननं कृपं वचनमब्रवीत्। 9-66-37 (63935)
दुर्योधन उवाच।
आचार्य शीघ्रं कलशं जलपूर्णं समानय॥ 9-66-37x (5258)
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः।
कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत्॥ 9-66-38 (63936)
तमब्रवीन्महाराज पुत्रस्तव विशाम्पते।
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम्।
सैनापत्येन भद्रं ते मम चेदिच्छसि प्रियम्॥ 9-66-39 (63937)
राज्ञो नियोगाद्योद्वव्यं ब्राह्मणेन विशेषतः।
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः॥ 9-66-40 (63938)
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः।
द्रौणिं राज्ञो नियोगेन सैनापत्येऽभ्यषेचयत्॥ 9-66-41 (63939)
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम्।
प्रययौ सिंहनादेन दिशः सर्वा विनादयन्॥ 9-66-42 (63940)
दुर्योधनोऽपि राजेन्द्र शोणितेन परिप्लुतः।
तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम्॥ 9-66-43 (63941)
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप।
शोकसंविग्नमनसश्चिन्तामापेदिरे भृशम्॥ ॥ 9-66-44 (63942)
इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां वैयासिक्यां शल्यपर्वणि गदायुद्धपर्वणि षट्षष्टितमोऽध्यायः॥ 66 ॥ ॥ समाप्तं गदायुद्धपर्व शल्यपर्व च॥ 9 ॥
अतः परं सौप्तिकं पर्व भविष्यति। तस्यायमाद्यः श्लोकः। 9-66-1 (63943) 9-66-1x (5259) सञ्जय उवाच। ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः। उपास्तमयवेलायां शिबिराभ्याशमागताः॥