Mahabharata - महाभारतम्
Sanskrit Documents | Critical Edition | Southern Recension | Mahabharata Resources

Kumbhaghonam Edition

10. सौप्तिकपर्व

सौप्तिकपर्व - अध्याय 001

॥ श्रीः ॥

10.1. अध्यायः 001

Mahabharata - Sauptika Parva - Chapter Topics

सञ्जयधृतराष्ट्रयोः संलापः॥ 1 ॥ द्रौणिकृपकृतवर्मभिर्वनमध्यमेत्य न्यग्रोधस्याधस्तादुपवेशनम्॥ 2 ॥ तत्र रात्रौ घूकेन बहुकाकावधदर्शिना द्रौणिना तद्वत्स्वेनापि पाण्डववधनिर्धारणम्॥ 3 ॥ ततः कृपकृतवर्माणौ समुद्बौध्य स्वकर्तव्यकथनप्रार्थना॥ 4 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-1-0 (63944) श्रीवेदव्यासाय नमः। 10-1-0x (5260) नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 10-1-1 (63945) सञ्जय उवाच। 10-1-1x (5261) ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः। उपास्तमयवेलायां शिबिराभ्याशमागताः॥ 10-1-1 (63946) विमुच्य वाहांस्त्वरिता भीताः समनुबोधनात्। गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते॥ 10-1-2 (63947) सेनानिवेशमभितो नातिदूरमवस्थिताः। [निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः।] दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन्॥ 10-1-3 (63948) श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्। अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः॥ 10-1-4 (63949) ते मुहूर्तात्ततो गत्वा श्रान्तवाहा पिपासिताः। नामृष्यन्त महेष्वासाः क्रोधामर्षवशङ्गताः॥ 10-1-5 (63950) राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः॥ 10-1-6 (63951) धृतराष्ट्र उवाच। 10-1-7x (5262) अश्रद्धेयमिदं कर्म कृतं मीमेन सञ्जय। यत्स नागायुतप्राणः पुत्रो मम निपातितः॥ 10-1-7 (63952) अवध्यः सर्वभूतानां वज्रसंहननो युवा। पाण्डवैः समरे पुत्रो निहतो मम निपातितः॥ 10-1-8 (63953) न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः। यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः॥ 10-1-9 (63954) अद्रिसारमयं नूनं हृदयं मम सञ्जय। हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा॥ 10-1-10 (63955) कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति। न ह्यहं पाण्डुपुत्रस्य विषये वस्तुमुत्सहे॥ 10-1-11 (63956) कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय। प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्॥ 10-1-12 (63957) प्रभुज्य पृथिवीं सर्वां स्थिता मूर्धनि सञ्जय। कथमद्य भविष्यामि श्रोतुं शक्ष्यामि सञ्जय। 10-1-13 (63958) येन पुत्रशतं पूर्णमेकेन निहतं मम॥ कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः। 10-1-14 (63959) अकुर्वता वचस्तस्य मम पुत्रेण सञ्जय॥ अधर्मेण हते तात पुत्रे दुर्योधने मम। 10-1-15 (63960) कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय॥ 10-1-16 (63961) सञ्जय उवाच। 10-1-17x (5263) गत्वा तु तावका राजन्नातिदूरं मनस्विनः। अपश्यन्त वनं घोरं नानाद्रुमलतावृतम्॥ 10-1-17 (63962) ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः। सूर्यास्तमयवेलायां कौरवेयस्य शासनात्॥ 10-1-18 (63963) नानामृगगणैर्जुष्टं नानापक्षिभिराकुलम्। नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्॥ 10-1-19 (63964) नानातोयसमाकीर्णैस्तटाकैरुपशोभितम्। पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम्॥ 10-1-20 (63965) प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः। शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः॥ 10-1-21 (63966) उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः। ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम्॥ 10-1-22 (63967) तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः। उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो॥ 10-1-23 (63968) ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे। सर्वस्य जगतो धात्री शर्वरी प्रत्यपद्यत॥ 10-1-24 (63969) ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम्। नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः॥ 10-1-25 (63970) इच्छया ते प्रवल्गन्ति ये सत्वा रात्रिचारिणः। दिवाचराश्च ये सत्वास्ते निद्रावशमागताः॥ 10-1-26 (63971) रात्रिञ्चराणां सत्वानां निनादोऽभूत्सुदारुणः। क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी॥ 10-1-27 (63972) तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः। कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम्॥ 10-1-28 (63973) उपोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः। तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्॥ 10-1-29 (63974) निद्रया च परीताङ्गा निषेदुर्धरणीतले। श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः॥ 10-1-30 (63975) ततो निद्रावशं प्राप्तौ कृपभोजौ महाबालौ। सुखोचितावदुःखार्हौ निषण्णौ धरणीतले॥ 10-1-31 (63976) तौ तु सुप्तौ महाराज तस्मिन्देशे महारथौ। [महार्हशयनोपेतौ भूमावेव ह्यनाथवत्॥] 10-1-32 (63977) क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत। न वै स्म स जगामाथ निद्रां सर्प इव श्वसन्॥ 10-1-33 (63978) न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना। वीक्षाञ्चक्रे महाबाहुस्तद्वनं घोरदर्शनम्॥ 10-1-34 (63979) वीक्षमाणो वनोद्देशं नानासत्वैर्निषेवितम्। अपश्यत महाबाहुर्न्यग्रोधं वायसावृतम्॥ 10-1-35 (63980) तत्र काकसहस्राणि तां निशां पर्यणामयन्। सुखं स्वपन्तः कौरव्य पृथक्पृथगुपाश्रयाः॥ 10-1-36 (63981) सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः। सोऽपश्यत्सहसा यान्तमुलूकं घोरदर्शनम्॥ 10-1-37 (63982) महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्। सुतीक्ष्णघोणानखरं सुपर्णमिव वेगितम्॥ 10-1-38 (63983) सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण़्डजः। न्यग्रोधस्य ततः साखां पातयामास भारत॥ 10-1-39 (63984) सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः। सुप्ताञ्जघान विस्रब्धान्वायसान्वायसान्तकः॥ 10-1-40 (63985) केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह। चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः॥ 10-1-41 (63986) क्षणेनाघ्नत्स बलवान्येऽस्य दृष्टिपथे स्थिताः॥ 10-1-42 (63987) तेषां शरीरावयवैः शरीरैश्च विशाम्पते। न्यग्रोधमण्डलं सर्वं सञ्छन्नं पर्वतोपमम्॥ 10-1-43 (63988) तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत्। प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः॥ 10-1-44 (63989) तद्दृष्ट्वा तादृशं कर्म कौशिकेन कृतं निशि। तद्भावे कृतसङ्कल्पो द्रौणिरेकोऽन्वचिन्तयत्॥ 10-1-45 (63990) उपदेशः कृतोऽनेन पक्षिणा मम संयुगे। शत्रूणां क्षपणं युक्तं प्राप्तः कालश्च मे मतः॥ 10-1-46 (63991) नाद्य शक्यं मया हन्तुं पाण्डवा जितकाशिनः। बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः॥ 10-1-47 (63992) राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया। पतङ्गाग्निसमां वृत्तिमास्यायात्मविनाशिनीम्॥ 10-1-48 (63993) न्यायतो युध्यमानस्य प्राणत्यागो न संशयः। छद्मना तु भवेत्सिद्विः शत्रूणां च क्षयो महान्॥ 10-1-49 (63994) तत्र सशयितादर्थाद्योऽर्थो निःसंशयो भवेत्। तं जना बहुमन्यन्ते येऽर्थशास्त्रविशारदाः॥ 10-1-50 (63995) यच्चाप्यत्र भवेत्कार्यं गर्हितं लोकनिन्दितम्। कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता॥ 10-1-51 (63996) निन्दितानि च कर्माणि कुत्सितानि पदेपदे। सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः॥ 10-1-52 (63997) अस्मिन्नर्थे पुरा गीताः श्रूयन्ते धर्मवित्तमैः। श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः॥ 10-1-53 (63998) परिश्रान्ते विदीर्णे वा भुञ्जाने वाऽपि शत्रुभिः। प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम्॥ 10-1-54 (63999) निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्। भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत्॥ 10-1-55 (64000) इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे। पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान्॥ 10-1-56 (64001) स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः। सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च॥ 10-1-57 (64002) तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबालौ। नोत्तरं प्रतिपद्येतां तत्र युक्तं हिया वृतौ॥ 10-1-58 (64003) स मुहूर्तमिव ध्यात्वा तावुभौ वाक्यमब्रवीत्॥ 10-1-59 (64004) हतो दुर्योधनो राजा एकवीरो मबाहलः। यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह॥ 10-1-60 (64005) एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः। पातितो भीमसेनेन एकादशचमूपतिः॥ 10-1-61 (64006) वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम्। मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्गता॥ 10-1-62 (64007) विनर्दन्ति च पाञ्चालाः क्ष्वेलन्ति च हसन्ति च। धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन्॥ 10-1-63 (64008) वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः। अनिलेनेरितो घोरो दिशः पूरयतीव ह॥ 10-1-64 (64009) अश्वानां हेषमाणानां गजानां चैव बृंहताम्। सिंहनादश्च शूराणां श्रूयते सुमहानयम्॥ 10-1-65 (64010) दिशं प्राचीं समाश्रित्य हृष्टानां गच्छतां भृशम्। रथनेमिस्वनाश्चैव श्रूयन्ते रोमहर्षणाः॥ 10-1-66 (64011) पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्। वयमेव त्रयः शिष्टा अस्मिन्महति वैशसे॥ 10-1-67 (64012) केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः। निहताः पाण्डवैर्यस्मिन्मन्ये कालस्य पर्ययम्॥ 10-1-68 (64013) एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः। यथा ह्यस्येदृशी निष्ठा कृते यत्नेऽपि दुष्करे॥ 10-1-69 (64014) भवतोस्तु यदि प्रज्ञा न मोहादपचीयते। व्यसनेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम्॥ ॥ 10-1-70 (64015) इति श्रीमन्महाभारते सौप्तिकपर्वणि प्रथमोऽध्यायः॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-1-1 ततः दुर्योधनेन सैनापत्येऽश्वत्थाम्नोऽभिषेकानन्तरं ते अश्वत्थामकृपाचार्यकृतवर्माणः॥ 10-1-2 शिबिरनिकटस्थं देशं आसाद्य वाहान्विमुच्य न्यविशन्तेति योजना॥ 10-1-4 अनुसारः पृष्ठगमनम्। प्राद्रवन्निति पुनर्वाहान्योजयित्वेति गम्यते॥ 10-1-6 राज्ञो दुर्योधनस्य॥ 10-1-20 नानापुष्पोपशोभितमिति झ.पाठः॥ 10-1-23 अन्वासत उपासितवन्तः॥ 10-1-25 अंशुकं वस्त्रम्॥ 10-1-32 शयनोपेतौ प्रागिति शेषः॥ 10-1-36 पर्यणामयन् परिणीतवन्त आसन्॥ 10-1-38 हर्यक्ष्यं हरिन्मणिनिभलोचनम्। षाणा नासा॥ 10-1-1 प्रथमोऽध्यायः॥
सौप्तिकपर्व - अध्याय 002

॥ श्रीः ॥

10.2. अध्यायः 002

Mahabharata - Sauptika Parva - Chapter Topics

कृपेण द्रौणिम्प्रति कर्तव्योपदेशः॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-2-0 (64016) कृप उवाच। 10-2-0x (5264) श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो। ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज॥ 10-2-1 (64017) आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः। दैवे पुरुषकारे च परं ताभ्यां न विद्यते॥ 10-2-2 (64018) न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम। न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः॥ 10-2-3 (64019) ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः। प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः॥ 10-2-4 (64020) पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम्। कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम्॥ 10-2-5 (64021) उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम्। व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः॥ 10-2-6 (64022) सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते। बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी॥ 10-2-7 (64023) तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते। प्राज्ञाः पुरुषकारे तु वर्तन्ते देवमास्थिताः॥ 10-2-8 (64024) ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ। विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च॥ 10-2-9 (64025) कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति। तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम्॥ 10-2-10 (64026) उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम्। अभलं दृश्यते लोके सम्यगप्युपपादितम्॥ 10-2-11 (64027) तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः। उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते॥ 10-2-12 (64028) प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि। अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्॥ 10-2-13 (64029) चष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया। यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि॥ 10-2-14 (64030) शक्नोति जीवितुं दक्षो नालसः सुखमेधते। दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः॥ 10-2-15 (64031) यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम्। नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति॥ 10-2-16 (64032) नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित्। स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः॥ 10-2-17 (64033) एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा। स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः॥ 10-2-18 (64034) हीनं पुरुषकारेण यदि दैवेन वा पुनः। कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्॥ 10-2-19 (64035) हीनं पुरुषकारेण कर्म त्विह न सिध्यति॥ 10-2-20 (64036) दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते। दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते॥ 10-2-21 (64037) सम्यगीहा पुनरियं या बृद्धानुपसेवते। आपृच्छति च यच्छ्रेयः करोति च हितं वचः॥ 10-2-22 (64038) उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः। ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते॥ 10-2-23 (64039) वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्। उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्॥ 10-2-24 (64040) रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः। अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः॥ 10-2-25 (64041) सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना। असमर्थः समारब्धो मूढत्वादविचिनन्तितः॥ 10-2-26 (64042) हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह। वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः॥ 10-2-27 (64043) पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति। तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः॥ 10-2-28 (64044) अनुवर्तामहे यत्तु तं वयं पापपूरुषम्। अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान्॥ 10-2-29 (64045) अेन तु ममाद्यापि व्यसनेनोपतापिता। बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते॥ 10-2-30 (64046) मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः। तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति॥ 10-2-31 (64047) ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः'। तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्॥ 10-2-32 (64048) ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम्। उपपृच्छामहे गत्वा विदुरं च महामतिम्॥ 10-2-33 (64049) ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम्। तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः॥ 10-2-34 (64050) अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित्॥ 10-2-35 (64051) कृते पुरुषकारे तु येषां कार्यं न सिध्यति। दैवेनोपहतास्ते तु नात्र कार्या विचारणा॥ ॥ 10-2-36 (64052) इति श्रीमन्महाभारते सौप्तिकपर्वणि द्वितीयोऽध्यायः॥ 2 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-2-2 दैवे आसमन्तात् बद्धाः पुरुषकारे निहीनतया बद्धाः। तेन दैवं प्रधानं पुरुषकार उपसर्जनमित्युक्तं भवति। आरम्भा मानुषाः सर्वे इति क.पाठः॥ 10-2-6 उत्थानमिति। दैवस्य प्रधानस्योत्थानं पुरुषकारो व्यर्थं भवति तथाऽनुत्थानमुत्थानहीनं दैवमपि व्यर्थमिति पक्षद्वयं सर्वत्र व्यवस्यति तत्र पूर्वएव पक्षः श्रेयानित्यर्थः॥ 10-2-9 विचेष्टन्तः प्रवृत्ता दृश्यन्ते लोकदृष्ठ्येत्यर्थः॥ 10-2-13 कर्माकृत्वा दुःखं पश्येदित्यापि प्रायशोऽस्ति॥ 10-2-14 दुर्दर्शौ दुर्लभौ॥ 10-2-16 स्पर्शं चास्याधिगच्छतीति छ.पाठः। तत्र अस्य कर्मणः स्पर्शं लोकस्य सम्बन्धं चाधिगच्छति लोकप्रियः स्यादित्यर्थः॥ 10-2-17 अकृत्वा कर्म यो लोके फलं विन्दति धिष्ठित इति झ.पाठः। तत्र अदक्षस्तु परप्रयत्नार्जितेन जीवन्नपि भोक्तुमेवायं समर्थो नार्जयितुमिति निन्द्यत इति भावः॥ 10-2-18 एतत् दैवदाक्ष्ययोः साहित्यम्। अन्यथा तयोरन्यतरालम्बनेन॥ 10-2-23 योगे अलब्धलाभे॥ 10-2-25 अनीशः अजितचित्तः। अवमानी परमवजानन्॥ 10-2-2 द्वितीयोऽध्यायः॥
सौप्तिकपर्व - अध्याय 003

॥ श्रीः ॥

10.3. अध्यायः 003

Mahabharata - Sauptika Parva - Chapter Topics

द्रौणिना कृपवचनमनादृत्य कृपकृतवर्मणोः पुरतः निशि प्रसुप्तपाण्डुपाञ्चालहननप्रतिज्ञानम्॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-3-0 (64053) सञ्जय उवाच। 10-3-0x (5265) कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्। अश्वत्थामा महाराज दुःखशोकसमन्वितः॥ 10-3-1 (64054) दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा। क्रूरं मनस्ततः कृत्वा तावभौ प्रत्यभाषत॥ 10-3-2 (64055) पुरुषेपुरुषे बुद्धिर्याया भवति शोभना। तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वयास्वया॥ 10-3-3 (64056) सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्। सर्वस्यात्मा बहुमतः सर्वोत्मानं प्रशंसति॥ 10-3-4 (64057) सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता। परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्॥ 10-3-5 (64058) कारणान्तरयोगेन येषां संवदते मतिः। तेऽन्योन्येन च तुष्यन्ति बहुमन्यन्ति चासकृत्॥ 10-3-6 (64059) तस्यैव तु मनुष्यस्य सासा बुद्धिस्तदातदा। कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते॥ 10-3-7 (64060) अनित्यत्वात्तु चित्तानां मनुष्याणां विशेषतः। चित्तवैक्लब्यमासाद्य सासा बुद्धिः प्रजायते॥ 10-3-8 (64061) यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि। भैषज्यं कुरुते योगात्प्रशमार्थमिति प्रभो॥ 10-3-9 (64062) एवं कार्यस्य योगात्प्रशमार्थमिति प्रभो॥ प्रज्ञया च स्वया युक्त्या तां च गृह्णन्ति वै बुधाः॥ 10-3-10 (64063) अन्यया यौवने बाल्ये बुद्ध्या भवति मोहितः। मध्येऽन्यया जरायां तु सोन्यां रोचयते मतिम्॥ 10-3-11 (64064) व्यसन वा महाघोरं समृद्धिं चापि तादृशीम्। अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्॥ 10-3-12 (64065) एकस्मिन्नेव पुरुषे सासा बुद्धिस्तदातदा। भवत्यनित्या प्रज्ञा हि सा तस्यैव न रोचते॥ 10-3-13 (64066) निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति। तया प्रकुरुते भावं सा तस्योद्योगकारिका॥ 10-3-14 (64067) सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः। कर्तुमारभते प्रीतिं मरणादिषु कर्मसु॥ 10-3-15 (64068) सर्वे हि युक्तां विज्ञाय प्रज्ञां वापि स्वकां नराः। चेष्टन्ते विविधां चेष्टां हितमित्येव जानते॥ 10-3-16 (64069) उपजाता व्यसनजा येयमद्य मतिर्मम। युवयोस्तां प्रवक्ष्यामि सर्वेषां शोकनाशिनीम्॥ 10-3-17 (64070) प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च। वर्णेवर्णे समाधत्त ह्येकैकं गुणवत्तरम्॥ 10-3-18 (64071) ब्राह्मणे वेदमग्र्यं तु क्षत्रिये तेज उत्तमम्। दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्॥ 10-3-19 (64072) अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियो मृतः। अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान्॥ 10-3-20 (64073) सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणैरभिपूजिते। मन्दभाग्यतयाऽस्म्येतं क्षत्रधर्ममनुष्ठितः॥ 10-3-21 (64074) क्षत्रधर्मं विदित्वाऽहं यदि ब्राह्मण्यमाश्रितः। प्रकरिष्ये महत्कर्म न मे तत्साधुसम्मतम्॥ 10-3-22 (64075) धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे। पितरं निहतं दृष्ट्वा किन्नु वक्ष्यामि संसदि॥ 10-3-23 (64076) सोऽहमद्य यथाकामं क्षत्रधर्ममवाप्य च। गन्ताऽस्मि पदवीं राज्ञः पितुश्चापि महात्मनः॥ 10-3-24 (64077) अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः। विमुक्तयुग्यकवचा हर्षेण च समन्विताः। वयं जिता मताश्चैषां श्रान्ता व्यायामकर्शिताः॥ 10-3-25 (64078) तेषां निशि प्रसुप्तानां सुस्थानां शिबिरे स्वके। अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम्॥ 10-3-26 (64079) तानवस्कन्द्य शिबिरे प्रेतभूतानचेतसः। सूदयिष्यामि विक्रम्य मघवानिव दानवान्॥ 10-3-27 (64080) अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान्। सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः॥ 10-3-28 (64081) निहत्य चैव पाञ्चालाञ्शान्तिं लब्धाऽस्मि सत्तम॥ 10-3-29 (64082) पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे। पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव॥ 10-3-30 (64083) अद्याहं सर्वपाञ्चालान्निकृत्या च निकृष्य च। अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा। `सूदयिष्यामि सङ्क्रुद्धः पशूनिव पिनाकधृत्'॥ 10-3-31 (64084) अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम्। प्रहृत्यैकेन शस्त्रेण भविष्याम्यनृणः पितुः॥ 10-3-32 (64085) दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि। गमिष्यामि निशावेलां पदवीमद्य दुर्गमाम्॥ 10-3-33 (64086) अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि। विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात्॥ 10-3-34 (64087) अद्य पाञ्चालपाण्डूनां शयितानां शिरो निशि। खङ्गेन निशितेनाजौ प्रमथिष्यामि गौतम॥ 10-3-35 (64088) अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके। कृतकृत्यः सुखी चैव भविष्यामि महामते॥ ॥ 10-3-36 (64089) इति श्रीमन्महाभारते सौप्तिकपर्वणि तृतीयोऽध्यायः॥ 3 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-3-4 सर्वोत्मानमित्यत्र सर्व आत्मानमिति च्छेदः। सन्धिरार्षः॥ 10-3-6 योगे येषां समा गतिरिति झ.पाठः। तत्र योगे समुदाये इत्यर्थः॥ 10-3-10 तां च निन्दन्ति मानवा इति झ.पाठः॥ 10-3-12 हे भोज हे कृतवर्मन्। एकमेव सम्बोधयन् कृपस्य वचसि अनादरं सूचयति॥ 10-3-13 भवत्यकृतवुद्धित्वादिति झ.पाठः। तत्र अकृतधर्मत्वात् अवसरानुरोधात्। इदानीं मम शान्तिबुद्धिर्न रोचते इत्यर्थः॥ 10-3-20 क्षत्रियोऽधम इति झ.पाठः॥ 10-3-22 विदित्वा आश्रित्य॥ 10-3-24 गन्तास्मि गमिष्यामि। पदवीं आनृण्यम्॥ 10-3-33 गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमामिति झ.पाठः॥ 10-3-3 तृतीयोऽध्यायः॥
सौप्तिकपर्व - अध्याय 004

॥ श्रीः ॥

10.4. अध्यायः 004

Mahabharata - Sauptika Parva - Chapter Topics

द्रौणिकृपयोः संवादः॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-4-0 (64090) कृप उवाच। 10-4-0x (5266) दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत। न त्वां वारयितुं शक्तो वज्रपाणिरपि स्वयम्॥ 10-4-1 (64091) अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ। अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः॥ 10-4-2 (64092) अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः। परानभिमुखं यान्तं रथावास्थाय दंशितौ॥ 10-4-3 (64093) आवाभ्यां सहितः शत्रूञ्श्वो निहन्ता समागमे। विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान्॥ 10-4-4 (64094) शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम्। चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम्॥ 10-4-5 (64095) विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद। समेत्य समरे शत्रून्वधिष्यसि न संशयः॥ 10-4-6 (64096) न हि त्वां रथिनां श्रेष्ठं प्रगृहीतवरायुधम्। जेतुमुत्सहते कश्चिदपि देवेषु पावकिः॥ 10-4-7 (64097) कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा। को द्रौणिं युधि संरब्धं योधयेदपि देवराट्॥ 10-4-8 (64098) ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः। प्रभातायां रजन्यां वै निहनिष्याम शात्रवान्॥ 10-4-9 (64099) तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः। सात्वतोपि महेष्वासो नित्यं युद्धेषु कोविदः॥ 10-4-10 (64100) ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान्। प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम्॥ 10-4-11 (64101) विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम्। अहं च कृतवर्मा च प्रभाते त्वां नरोत्तमम्॥ 10-4-12 (64102) अनुयास्याव सहितौ धन्विनौ परतापनौ। रथिनं त्वरया यान्तं रथमास्थाय दंशितौ॥ 10-4-13 (64103) स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे। ततः कर्ताऽसि शत्रूणां युध्यतां कदनं महत्॥ 10-4-14 (64104) कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि। विहरस्व यथा शक्रः सूदयित्वा महासुरान्॥ 10-4-15 (64105) त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम्। दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः॥ 10-4-16 (64106) मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा। न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम्॥ 10-4-17 (64107) न चाहं समरे तात कृतवर्मा न चैव हि। अनिर्जित्य रणे पाण्डूनपयास्यामि कर्हिचित्॥ 10-4-18 (64108) हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह। निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम्॥ 10-4-19 (64109) सर्वोपायैः सहायास्ते प्रभाते वयमाहवे। सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ॥ 10-4-20 (64110) एवमुक्तस्ततो द्रौणिक्रमातुलेन हितं वचः। अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने॥ 10-4-21 (64111) आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च। अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः॥ 10-4-22 (64112) तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्। यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत्॥ 10-4-23 (64113) किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन्। हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति॥ 10-4-24 (64114) यथा च निहतः पापैः पिता मम विशेषतः। प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति॥ 10-4-25 (64115) कथं हि मादृशो लोके मुहूर्तमपि जीवति। द्रोणहन्तेति यद्वाचः पाञ्चालानां शृणोम्यहम्॥ 10-4-26 (64116) धृष्टद्युम्नमहत्वा तु नादं जीवितुमुत्सहे। स मे पितुर्वधाद्वध्यः पाञ्चाला ये च सङ्गताः॥ 10-4-27 (64117) विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः। स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत्॥ 10-4-28 (64118) कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्। नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः॥ 10-4-29 (64119) यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः। शोकं मे वर्धयत्येष वारिवेग इवार्णवम्॥ 10-4-30 (64120) एकाग्नमनसो मेऽद्य कुतो निद्रा कुतः सुखम्॥ 10-4-31 (64121) वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान्। अविषह्यतमान्मन्ये महेन्द्रेणापि सत्तम॥ 10-4-32 (64122) न चापि शक्तः संयन्तुमस्मात्कार्यात्कथञ्चन। तं न पश्यामि लोकेऽस्मिन्यो मां कोपान्निवर्तयेत्॥ 10-4-33 (64123) इति मे निश्चिता बुद्धिरेषा साधुमता मम॥ 10-4-34 (64124) वादिकैः कथ्यमानस्तु मित्राणां मे पराभवः। पाण्डवानां च विजयटो हृदयं दहतीव मे॥ 10-4-35 (64125) अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके। ततो विश्रमिता चैव स्वप्ता च विगतज्वरः॥ ॥ 10-4-36 (64126) इति श्रीमन्महाभारते सौप्तिकपर्वणि चतुर्थोऽध्यायः॥ 4 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-4-4 निहन्ता निहनिष्यसि॥ 10-4-23 चतुर्थ आतुरादीनां चतुर्णां मध्ये एको भागः अमर्षः। मे मम स्वप्नं अह्वाय झटिति नाशयेत्। तस्मात् स्वपेत्युक्तं तन्न युज्यते॥ 23 ॥ 10-4-24 अनुस्मरन् अनुस्मरतः। न शाम्यति अमर्ष इत्यर्थः॥ 10-4-36 स्वप्ता स्वप्स्यामि॥ 10-4-4 चतुर्थोऽध्यायः॥
सौप्तिकपर्व - अध्याय 005

॥ श्रीः ॥

10.5. अध्यायः 005

Mahabharata - Sauptika Parva - Chapter Topics

कृपेण प्रसुप्तमारणस्याधार्मिकत्वकथनेन प्रतिषेधनेऽपि पितृवधामर्षिणा द्रौणिना जिघांसया रिपुशिविरद्वारगमनम्॥ 1 ॥ कृपकृतवर्मश्यामपि सौहार्दात्तदनुगमनम्॥ 2 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-5-0 (64127) कृप उवाच। 10-5-0x (5267) शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः। नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः॥ 10-5-1 (64128) तथैव तावन्मेधावी विनयं यो न शिक्षते। न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम्॥ 10-5-2 (64129) [चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य ह। न स धर्मान्विजानाति दर्वी सूपरसानिव॥ 10-5-3 (64130) मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि। क्षिप्रं धर्मान्विजानाति जिह्वा सूपरसानिव॥ 10-5-4 (64131) शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः। जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत्॥ 10-5-5 (64132) अनयस्त्ववमानी यो दुरात्मा पापपूरुषः। दिष्टमुत्सृज्य कल्याणं करोति बहुपातकम्॥ 10-5-6 (64133) नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात्। निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते॥ 10-5-7 (64134) यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते। तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति॥ 10-5-8 (64135) तथैव सुहृदोऽप्राज्ञान्कुर्वाणान्कर्म पापकम्। प्राज्ञाः सम्प्रतिषेधन्ति यथाशक्ति पुनःपुनः॥ 10-5-9 (64136) स कल्याणे मनः कृत्वा नियम्यात्मानमात्मना। कुरु मे वचनं तात येन पश्चान्न तप्स्यसे॥ 10-5-10 (64137) न वधः पूज्यते लोके सुप्तानामिह धर्मतः। तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम्॥ 10-5-11 (64138) ये व ब्रूयुस्तवास्मीति ये च स्युः शरणागताः। विमुक्तमूर्धजा ये च ये चापि हतवाहनाः॥ 10-5-12 (64139) अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो। विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः॥ 10-5-13 (64140) यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः। व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लुवे॥ 10-5-14 (64141) सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः। न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम्॥ 10-5-15 (64142) त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ। प्रकाशे सर्वभूतानां विजेता युधि शात्रवान्॥ 10-5-16 (64143) असम्भावितरूपं हि त्वयि कर्म विगर्हितम्। शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम॥ 10-5-17 (64144) अश्वत्थामोवाच। 10-5-18x (5268) एवमेव यथाऽऽत्थ त्वमनुशाससि मातुल। तैस्तु पूर्वमयं सेतुः समन्ताद्विह्वलीकृतः॥ 10-5-18 (64145) प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ। न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः॥ 10-5-19 (64146) कर्णश्च पतिते चक्रे उत्थास्यन्रथिनां वरः। उत्तमे व्यसने मग्नो हतो गाण्डीवधन्वना॥ 10-5-20 (64147) तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः। शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना॥ 10-5-21 (64148) भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे। क्रोशतां बूमिपालानां युयुधानेन पातितः॥ 10-5-22 (64149) दुर्योधनश्च भीमेन समेत्य गदया मृधे। पश्यतां भूमिपालानामधर्मेण निपातितः॥ 10-5-23 (64150) एकाकी बहुभिस्तत्र परिवार्य महारथैः। अधर्मेण नरव्याघ्रो भीमसेनेन पातितः॥ 10-5-24 (64151) विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः। वादिकानां कथयतां स मे मर्माणि कृन्तति॥ 10-5-25 (64152) एवं चाधार्मिकाः पापाः पाञ्चाला भिन्नसतवः। तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति॥ 10-5-26 (64153) पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके। कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै॥ 10-5-27 (64154) त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम्। तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम्॥ 10-5-28 (64155) न स जातः पुमाँल्लोके कश्चिन्न स भविष्यति। यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम्॥ 10-5-29 (64156) सञ्जय उवाच। 10-5-30x (5269) एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान्। एकान्ते योजयित्वाऽश्वान्प्रायादभिमुखः परान्॥ 10-5-30 (64157) तमब्रूतां महात्मानौ भोजशारद्वतावुभौ। किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम्॥ 10-5-31 (64158) एकसामर्थप्रयातौ स्वस्त्वया सह नरर्षभ। समदुःखसुखौ चापि तस्माच्छंसितुमर्हसि॥ 10-5-32 (64159) अश्वत्थामा तुं सङ्क्रुद्धः पितुर्वधमनुस्मरन्। ताभ्यां तथ्यं तथाऽऽचख्यौ यदस्यात्मचिकीर्षितम्॥ 10-5-33 (64160) हत्वा शतसहस्राणि योधानां निशितैः शरैः। न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः॥ 10-5-34 (64161) तं तथैव वधिष्यामि न्यस्तवर्माणमद्य वै। पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा॥ 10-5-35 (64162) तथा विनिहतः पापः पाञ्चाल्यः पशुवन्मया। शस्त्रेण विजिताँल्लोकान्नाप्नुयादिति मे मतिः॥ 10-5-36 (64163) क्षिप्रं सन्नद्वकवचौ सखङ्गावात्तकार्मुकौ। मामेवाद्य प्रतीक्षेतां रथवर्यौ परन्तपौ॥ 10-5-37 (64164) इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान्। तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः॥ 10-5-38 (64165) ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः। हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः॥ 10-5-39 (64166) ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो। द्वारदेशमनुप्राप्य द्रौणिस्तस्थौ महारथः॥ ॥ 10-5-40 (64167) इति श्रीमन्महाभारते सौप्तिकपर्वणि पञ्चमोऽध्यायः॥ 5 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-5-1 अशुश्रूषूः सुदुर्मेधा इति ङ.पाठः। दुर्मेधाः मूढः। अनियतेतिच्छेदः॥ 10-5-6 अनेय इति झ.पाठः। तत्र अनेयः सन्मार्गं नेतुमशक्यः। दिष्टमुपदिष्टम्॥ 10-5-8 उच्चावचैः सर्गैरिति क.छ.पाठः॥ 10-5-14 अप्लवे इति च्छेदः॥ 10-5-23 अधर्मेण नाभेरधस्तात्प्रहारेण॥ 10-5-32 नावां शङ्कितुमर्हसीति झ.पाठः॥ 10-5-36 शस्त्राग्निवर्जिताँल्लोकान्प्राप्रुयादिति मे मतिः इति ङ.पाठः॥ 10-5-5 पञ्चमोऽध्यायः॥
सौप्तिकपर्व - अध्याय 006

॥ श्रीः ॥

10.6. अध्यायः 006

Mahabharata - Sauptika Parva - Chapter Topics

अश्वत्थाम्नः शिबिरद्वारस्थमहाभूतदर्शनम्॥ 1 ॥ भूतजिगीषया द्रौणिविसृष्टानामस्त्रशस्त्राणां भूतेन ग्रसनम्॥ 2 ॥ ततश्चिंतातान्तश्च द्रौणेर्महादेवोपासनाध्यवसायः॥ 3 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-6-0 (64168) धृतराष्ट्र उवाच। 10-6-0x (5270) द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ। अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे॥ 10-6-1 (64169) स़ञ्जय उवाच। 10-6-2x (5271) कृतवर्माणमामन्त्र्य कृपं च स महारथः। द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत्॥ 10-6-2 (64170) तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्। सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं रोमहर्षणम्॥ 10-6-3 (64171) वसानं चर्म वैयाघ्रं वसारुधिरविस्रवम्। कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्॥ 10-6-4 (64172) बाहुभिः स्वायतैर्भीमैर्नानाप्रहरणोद्यतैः। बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम्॥ 10-6-5 (64173) दंष्ट्राकरालवदनं व्यादितास्यं भयानकम्। नयनानां सहस्रैश्च विचित्रैरभिभूषितम्॥ 10-6-6 (64174) नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च। सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः॥ 10-6-7 (64175) तस्यास्यनासिकाभ्यां च श्रवणाभ्यां च सर्वशः। तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः॥ 10-6-8 (64176) तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः। प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः॥ 10-6-9 (64177) तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम्। द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत्॥ 10-6-10 (64178) द्रौणिमुक्ताञ्छरांस्तांस्तु तद्भूतं महदग्रसत्। उदधेरिव वार्योघान्पावको बडबामुखः॥ 10-6-11 (64179) अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान्निरर्थकान्। रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव॥ 10-6-12 (64180) सा तमाहत्य दीप्ताग्रा रथशक्तिरदीर्यत। युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता॥ 10-6-13 (64181) अथ हेमत्सरुं दिव्यं खङ्गमाकाशवर्चसम्॥ कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम्॥ 10-6-14 (64182) ततः खङ्गवरं धीमान्भूताय प्राहिणोत्तदा। स तदासाद्य भूतं वै विलयं तूलवद्ययौ॥ 10-6-15 (64183) ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम्। ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत्॥ 10-6-16 (64184) ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः। अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः॥ 10-6-17 (64185) तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः। अचिन्तयत्सुसन्त्रस्तः कृपभोजवचः स्मरन्॥ 10-6-18 (64186) ब्रुवतामप्रियं पथ्यं सुहृदां न शृमोति यः। स शोचत्यापदं प्राप्य थाऽहमवमत्य तौ॥ 10-6-19 (64187) शास्त्रदृष्टानविद्वान्यः समतीत्य जिघांसति। स पथः प्रच्युतो धर्म्यात्कुपथे प्रतिहन्यते॥ 10-6-20 (64188) गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा। वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च॥ 10-6-21 (64189) मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च मातयेत्। इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा॥ 10-6-22 (64190) सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम्। अमार्गेणैवमारभ्य घोरामापदमागतः॥ 10-6-23 (64191) तां चापदं घोरतरां प्रवदन्ति मनीषिणः। यदुद्यम्य महत्कृत्यं भयादपि निवर्तते॥ 10-6-24 (64192) अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह। न हि दैवाद्गरीयो वै मानुष्यं किञ्चिदिष्यते॥ 10-6-25 (64193) मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति। स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते॥ 10-6-26 (64194) प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः। यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते॥ 10-6-27 (64195) तदिदं दुष्प्रणीतेन भयं मा समुपस्थितम्। न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन॥ 10-6-28 (64196) इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम्। न चैतदभिजानामि चिन्तयन्नपि सर्वथा॥ 10-6-29 (64197) ध्रुवं येयमधर्मेण प्रहिता कलुषा मतिः। तस्याः फलमिदं घोरं प्रतिघाताय कल्पते॥ 10-6-30 (64198) तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम्। नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन॥ 10-6-31 (64199) सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम्। दैवदण्डमिमं घोरं स हि मे नाशयिष्यति॥ 10-6-32 (64200) कपर्दिनं प्रपद्येऽहं देवदेवमुमापतिम्। कपालमालिनं रुद्रं भगनेत्रहरं हरम्॥ 10-6-33 (64201) स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च। तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम्॥ ॥ 10-6-34 (64202) इति श्रीमन्महाभारते सौप्तिकपर्वणि षष्ठोऽध्यायः॥ 6 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-6-12 रथशक्तिं चक्रम्॥ 10-6-13 युग्मान्ते सूर्यमिति झ.पाठः तत्र युग्मान्ते मिथुनराशेरन्ते अतिदीप्तं इत्यर्थः॥ 10-6-15 विलं नकुलवद्ययौ इति झ.पाठः॥ 10-6-17 अनाकाशं निरवकाशम्॥ 10-6-6 षष्ठोऽध्यायः॥
सौप्तिकपर्व - अध्याय 007

॥ श्रीः ॥

10.7. अध्यायः 007

Mahabharata - Sauptika Parva - Chapter Topics

द्रौणिना शिवस्तुतिः॥ 1 ॥ द्रौणेः पुरतः काञ्चनवेद्यामग्न्युद्भवः॥ 2 ॥ द्रौणेः समीपे नानाविधभीषणभूतगणानामागमनम्॥ 3 ॥ शिवेन आत्मनो हविष्ट्वकल्पनपूर्वकमग्नौ प्रविष्टाय द्रौणये खङ्गदानपूर्वकं तच्छरीरप्रवेशः॥ 4 ॥ पुनरश्वत्थाम्नः शिबिरगमनम्॥ 5 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-7-0 (64203) सञ्जय उवाच। 10-7-0x (5272) एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशाम्पते। अवतीर्य रथोपस्थाद्दध्यौ स प्रयतः स्थितः॥ 10-7-1 (64204) द्रौणिरुवाच। 10-7-2x (5273) उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्। गिरिशं वरदं देवं भवभावनमव्ययम्॥ 10-7-2 (64205) शितिकण्ठमजं रुद्रं दक्षक्रतुहरं हरम्। विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्॥ 10-7-3 (64206) श्मशानवासिनं दृप्तं महागणपतिं विभुम्। खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम्॥ 10-7-4 (64207) मनसा ह्यनुचिन्त्यैनं दुष्करेणाल्पचेतसा। अद्य भूतोपहारेण यक्ष्ये त्रिपुराघातिनम्॥ 10-7-5 (64208) xxतुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम्। विलोहितं नीलकण्ठमसह्यं दुर्निवारणम्॥ 10-7-6 (64209) शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च। व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम्॥ 10-7-7 (64210) बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्। धनाध्यक्षप्रियसखं गौरीहृदयवल्लभम्॥ 10-7-8 (64211) कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्। कुत्तिवाससमत्युग्रमातोषणतत्परम्॥ 10-7-9 (64212) परं परेभ्यः परमं परं यस्मान्न विद्यते। इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम्॥ 10-7-10 (64213) हिरण्यकवचं देवं चन्द्रमौलिविभूषणम्। प्रपद्ये शरणं देवं परमेण समाधिना॥ 10-7-11 (64214) इमां चेदापदं घोरां तराम्यद्य सुदुस्तराम्। सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम्॥ 10-7-12 (64215) इति तस्य व्यवसितं ज्ञात्वा योगात्सुकर्मणः। पुरस्तात्काञ्चनी वेदी प्रादुरासीन्महात्मनः॥ 10-7-13 (64216) तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत। स दिशो विदिशः खं च ज्वालाभिरिव पूरयन्॥ 10-7-14 (64217) दीप्तास्यनयनाश्चात्र नैकपादशिरोधराः। [रत्नचित्राङ्गदधराः समुद्यतकरास्तथाः॥] 10-7-15 (64218) द्विपाः शैलप्रतीकाशाः प्रादुरासन्महागणाः। श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः॥ 10-7-16 (64219) ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा। काकवक्त्राः प्लुवमुखाः शुकवक्त्रास्तथैव च॥ 10-7-17 (64220) महाजगरवक्त्राश्च हंसवक्त्राः शितप्रभाः। दार्वाघाटमुखाश्चापि चाषवक्त्राश्च भारत॥ 10-7-18 (64221) कूर्मनक्रमुखाश्चैव शिंशुमारमुखास्तथा। महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च॥ 10-7-19 (64222) हरिवक्त्राः क्रौञ्चमुखाः कपोताभमुखास्तथा। पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च॥ 10-7-20 (64223) पाणिकर्णाः सहस्राक्षास्तथैव च महोदराः। निर्मांसाः काकवक्त्राश्च श्येनवक्त्राश्च भारत॥ 10-7-21 (64224) तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः। प्रदीप्तनेत्रजिह्वाश्च ज्वालावर्णास्तथैव च॥ 10-7-22 (64225) ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः। मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप॥ 10-7-23 (64226) शङ्खाभाः शङ्खवक्त्राश्च शङ्खवर्णास्तथैव च। शङ्खमालापरिकराः शह्खध्वनिसमस्वनाः॥ 10-7-24 (64227) जटाधराः प़ञ्चशिखास्तथा मुण्डाः कृशोदराः। चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः॥ 10-7-25 (64228) मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः। उष्णीषिणः कुण्डलिनश्चारुवक्त्राः स्वलङ्कृताः॥ 10-7-26 (64229) पद्मोत्पलापीडधरास्तथा मुकुटधारिणः। महात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः॥ 10-7-27 (64230) शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः। भुशुण्डीपाशहस्ताश्च दण़्डहस्ताश्च भारत॥ 10-7-28 (64231) पृष्ठेषु बद्धेषुधयश्चित्रबाणोत्कटास्तथा। सध्वजाः सपताकाश्च सघण्टाः सपरश्वथाः॥ 10-7-29 (64232) महापाशोद्यतकरास्तथा लगुडपाणयः। स्थूणाहस्ताः खङ्गहस्ताः सर्पोच्छ्रितकिरीटिनः॥ 10-7-30 (64233) महासर्पाङ्गदधराश्चित्राभरणधारिणः। रजोध्वजाः पङ्कदिग्धाः सर्वे चित्राम्बरस्रजः। नीलाङ्गाः पिङ्गलाङ्गाश्च मुण्डवक्तास्तथैव च॥ 10-7-31 (64234) भेरीशङ्खमृदङ्गांश्च झर्झरानकगोमुखान्। अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः॥ 10-7-32 (64235) गायमानास्तथैवान्ये संहृष्टाः पुरुषर्षभाः। लङ्घयन्तः प्लुवन्तश्च वल्गन्तश्च महारथाः॥ 10-7-33 (64236) धावन्तो जवनाश्चण्डाः पावकोद्वूतमूर्धजाः। मत्ता इव महानागा विनदन्तो मुहुर्मुहुः॥ 10-7-34 (64237) सुभीमा घोररूपाश्च शूलपट्टसपाणयः। नानाविरागवसनाश्चित्रमाल्यानुलेपनाः॥ 10-7-35 (64238) रत्नचित्राङ्गदधराः समुद्यतकरास्तथा। हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः॥ 10-7-36 (64239) पातारोऽसृग्वसाज्यानां मांसान्त्रकृतभोजनाः। चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः॥ 10-7-37 (64240) अतिहस्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः। विकटाः काललंबोष्ठा बृहच्छेफाण्डपिण्डिकाः॥ 10-7-38 (64241) महार्हनानाविकटा मुण्डाश्च जटिलाः परे। सार्केन्दुग्रहनक्षत्रां द्यां कुर्युस्ते महीतले॥ 10-7-39 (64242) उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम्। ये च वीतभया नित्यं हरस्य भ्रुकुटीसहाः॥ 10-7-40 (64243) कामकारकरा नित्यं त्रैलोक्यस्येश्वरेश्वराः। नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः॥ 10-7-41 (64244) प्राप्याष्टगुणमैश्वर्यं ये न यास्यन्ति वै स्मयम्। येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः॥ 10-7-42 (64245) मनोवाक्कर्मभिर्युक्तैर्नित्यमाराधितश्च यैः। मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान्॥ 10-7-43 (64246) पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा। चतुर्विधात्मकं सोमं ये पिबन्ति च सर्वदा॥ 10-7-44 (64247) श्रुतेन ब्रह्मचर्येण तपसा च दमेन च। ये समाराध्य शूलाङ्कं भवसायुज्यमागताः॥ 10-7-45 (64248) यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः। महाभूतगणैर्भुङ्क्ते भूतभव्यभवत्प्रभुः॥ 10-7-46 (64249) नानावादित्रहसितक्ष्वेडितोत्कृष्टगर्जितैः। सन्त्रासयन्तस्ते विश्वमश्वत्थामानमभ्ययुः॥ 10-7-47 (64250) संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः। विवर्धयिषवो द्रौणेर्महिमानं महात्मनः॥ 10-7-48 (64251) जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः। भीमोग्रपरिघालातशूलपट्टसपाणयः। घोररूपाः समाजग्मुर्भूतसङ्घाः सहस्रशः॥ 10-7-49 (64252) जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात्। न च तान्प्रेक्षमाणोऽपि व्यथामुपजगाम ह॥ 10-7-50 (64253) अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान्। स्वयमेवात्मनात्मानमुपहारमुपाहरत्॥ 10-7-51 (64254) धनूंषि समिधस्तत्र पवित्राणि सिताः शराः। हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि॥ 10-7-52 (64255) ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान्। उपहारं महामन्युरथात्मानमुपाहरत्॥ 10-7-53 (64256) तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम्। अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः॥ 10-7-54 (64257) द्रौणिरुवाच। 10-7-55x (5274) इममात्मानमद्याहं जातमाङ्गिरसे कुले। स्वग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम्॥ 10-7-55 (64258) भवद्भक्त्या महादेव पस्मेण समाधिना। अस्यामापदि विश्वात्मन्नुपाकुर्मी तवाग्रतः॥ 10-7-56 (64259) त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै। गुणानां हि प्रधानानां कैवल्यं त्वयि तिष्ठति॥ 10-7-57 (64260) सर्वभूताश्रय विभो हविर्भूतमवस्थितम्। प्रतिगृहाण मां देव यद्यशक्याः परे मया॥ 10-7-58 (64261) इत्युक्त्वा द्रौणिरास्थाय तां देवीं दीप्तपावकाम्। सन्त्यज्यात्मानमारुह्य कृष्णवर्त्मन्युपाविशत्॥ 10-7-59 (64262) तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम्। अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव॥ 10-7-60 (64263) सत्यशौचार्जवत्यागैस्तपसा नियमेन च। क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा॥ 10-7-61 (64264) यथावदहमाराद्वः कृष्णेनाक्लिष्टकर्मणा। तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते॥ 10-7-62 (64265) कुर्वता तात सम्मानं त्वां च जिज्ञासता मया। पाञ्चालाः सर्वदा गुप्ता मायाश्च बहुशः कृताः॥ 10-7-63 (64266) कृतस्तस्यैव सम्मानं पाञ्चालान्रक्षता मया। अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम्॥ 10-7-64 (64267) एवमुक्त्वा महात्मानं भगवानात्मनस्तनुम्। आविवेश ददौ चास्मै विमलं खङ्गमुत्तमम्॥ 10-7-65 (64268) अथाविष्टो भगवता भूयो जज्वाल तेजसा। वेगवांश्चाभवद्युद्धे देवसृष्टेन तेजसा॥ 10-7-66 (64269) तं दृष्ट्वा तानि भूतानि रक्षांसि च समाद्रवन्। अभितः शिबिरं यान्तं द्रोणपुत्रं महारथम्। देवदेवं हरं स्थाउं यान्तं साक्षादिवेश्वरम्॥ ॥ 10-7-67 (64270) इति श्रीमन्महाभारते सौप्तिकपर्वणि सप्तमोऽध्यायः॥ 7 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-7-1 रथोपस्थाद्दध्यौ स प्रयतः स्थितः इति क.पाठः॥ 10-7-5 सोऽहमात्मोपहारेणेति झ.पाठः॥ 10-7-9 उमाभूषणतत्परमिति झ.पाठः॥ 10-7-11 हिरण्यदण़्डकवचं चारुमौलिविभूषणमिति क.पाठः॥ 10-7-17 प्लुवमुखाः मण्डूकवक्ताः॥ 10-7-18 दार्वाघाटः पक्षिविशेषः। महागजसवकाश्चेति क.पाठः॥ 10-7-38 पिण़्डिका जानुनोरधः---पश्चाद्भागः॥ 10-7-53 सौम्येन सोमदैवत्येन मन्त्रेण॥ 10-7-7 सप्तमोऽध्यायः॥
सौप्तिकपर्व - अध्याय 008

॥ श्रीः ॥

10.8. अध्यायः 008

Mahabharata - Sauptika Parva - Chapter Topics

शिबिरद्वारे कृपकृतवर्माणौ संस्थाप्यान्तः प्रविष्टेन द्रौणिना धृष्टद्युम्नादिपाञ्चालानां द्रौपदेयादीनां च वधः॥ 1 ॥ भयाद्वहिर्निष्क्रान्तानां कृपकृतवर्मक्ष्यां वधः॥ 2 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-8-0 (64271) धृतराष्ट्र उवाच। 10-8-0x (5275) तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे। कच्चित्कृपश्च भोजश्च भयार्तौ न व्यवर्तताम्॥ 10-8-1 (64272) कच्चिन्न वारितौ क्षुद्रौ रक्षिभिर्नोपलक्षितौ। असह्यमिति मन्वानौ न निवृत्तौ महारथौ॥ 10-8-2 (64273) कच्चिदुन्मथ्य शिबिरं हत्वा सोमकपाण्डवान्। `कृता प्रतिज्ञा सफला कच्चित्सञ्जय सा निशि'॥ 10-8-3 (64274) दुर्योधनस्य पदवीं कच्चित्परमिकां रणे। `गत्वातिष्ठदसौ द्रौणिः कृत्वा कर्म सुदुष्करम्॥ 10-8-4 (64275) धृष्टद्युम्नशिखण्डिभ्यां द्रौपद्याश्च सुतैः किल। सञ्छन्ना मेदिनी सुप्तैर्निहतैः पाण्डुसैनिकैः॥ 10-8-5 (64276) पाञ्चालैर्वा विनिहतैः शयानै रुधिरोक्षितैः। कच्चिन्महीतलं छन्नं तन्ममाचक्ष्व सञ्जय'॥ 10-8-6 (64277) [पाञ्चालैर्निहतौ वीरौ कच्चित्तु स्वपतां क्षितौ। कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय॥] 10-8-7 (64278) सञ्जय उवाच। 10-8-8x (5276) तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि। कृपश्च कृतवर्मा च द्रौणिमेवाभ्यवर्तताम्॥ 10-8-8 (64279) अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ। प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत्॥ 10-8-9 (64280) यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने। किम्पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः॥ 10-8-10 (64281) अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत्। यथा न कश्चिदपि वां जीवन्मुच्येत मानवः। तथा भवद्ध्यां कार्यं स्यादिति मे निश्चिता मतिः॥ 10-8-11 (64282) इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत्। अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः॥ 10-8-12 (64283) स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह। `द्रौणिः परमसङ्क्रुद्धस्तेजसा प्रज्वलन्निव। ततः पर्यचरत्सर्वं सम्प्रसुप्तं जनं निशि'॥ 10-8-13 (64284) धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्॥ 10-8-14 (64285) ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे। प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः॥ 10-8-15 (64286) अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत। पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात्॥ 10-8-16 (64287) क्षौमावदाते महति स्पर्द्व्यास्तरणसंवृते। माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते॥ 10-8-17 (64288) तं शयानं महात्मानं विस्रब्धमकुतोभयम्। अपोथयत पादेन शयनस्थं महीपते॥ 10-8-18 (64289) सम्बुध्य चरणस्पर्शादुत्थाय रणदुर्मदः। अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम्॥ 10-8-19 (64290) तमुत्पतन्तं शयनादश्वत्थामा महाबलः। केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले॥ 10-8-20 (64291) स बलात्तेन निष्पिष्टः साध्वसेन च भारत। अभ्याक्रान्तश्च निद्रान्धो नाशकच्चेष्टितुं तदा॥ 10-8-21 (64292) `निष्पिष्य तु ततो भूमौ पाञ्चाल्यं द्रौणिरञ्जसा। धनुषो ज्यां विमुच्याशु क्रूरबुद्धिरमर्षणः॥ 10-8-22 (64293) तस्य कण्ठेऽथ बद्ध्वा तां त्वरितः क्रोधमूर्च्छितः।' द्रौणिः क्रूरं मनः कृत्वा पाञ्चाल्यमवधीत्तदा॥ 10-8-23 (64294) तमाक्रम्य पदा राजन्कण्ठे चोरसि पादयोः। तदन्तं विस्फुरन्तं च पशुमारममारयत्॥ 10-8-24 (64295) `स वार्यमाणस्तरसा बलाद्बलवता बली'। तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत्॥ 10-8-25 (64296) आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः। त्वत्कृते सुकृतां लोकान्गच्छेयं द्विपदांवर॥ 10-8-26 (64297) एवमुक्त्वा तु वचनं विरराम परन्तपः। सुतः पाञ्चालराजस्य आक्रान्तो बलिना भृशम्॥ 10-8-27 (64298) तस्याव्यक्तां तु तां वचं संश्रुत्य द्रौणिरब्रवीत्। आचार्यघातिनां लोका न सन्ति कुलपांसन। तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते॥ 10-8-28 (64299) `नृशंसेनातिवृत्तेन त्वया मे निहतः पिता। तस्मात्त्वमपि वध्यश्च नृशंसेन नृशंसकृत्॥' 10-8-29 (64300) एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्। मर्मस्वभ्यवधीत्क्रुद्धः पादघातैः सुदारुणैः॥ 10-8-30 (64301) तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि। अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः॥ 10-8-31 (64302) ते दृष्ट्वा धर्षयन्तं तमतिमानुषविक्रमम्। भूतमित्यध्यवस्यन्तो न स्म प्रव्याहरन्भयात्॥ 10-8-32 (64303) तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्। अध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम्॥ 10-8-33 (64304) स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः। रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली॥ 10-8-34 (64305) अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे। सहितैः रक्षिभिः सर्वैः प्राणेदुर्योषितस्तदा॥ 10-8-35 (64306) राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः। व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत॥ 10-8-36 (64307) तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः। सम्भ्रान्ताः समनह्यन्त किमेतदिति चाब्रुवन्॥ 10-8-37 (64308) स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य ताः। अब्रुन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै॥ 10-8-38 (64309) राक्षसो वा मनुष्यो वा नैनं जानीम कोन्वयम्। हत्वा पाञ्चालराजानं रथमारुह्य तिष्ठति॥ 10-8-39 (64310) ततस्ते योधमुख्यास्तं सहसा पर्यवारयन्। स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत्॥ 10-8-40 (64311) धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्। अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके॥ 10-8-41 (64312) तमप्याक्रम्य पादेन कण्ठे चोरसि तेजसा। तथैव मारयामास विनर्दन्तमरिन्दमम्॥ 10-8-42 (64313) युधामन्युश्च विक्रान्तो मत्वा तं राक्षसं स्म सः। गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत्॥ 10-8-43 (64314) `गदाप्रहाराभिहतो नाचलद्द्रौणिराहवे'। तमभिद्रुत्य वेगेन क्षितौ चैनमपातयत्॥ 10-8-44 (64315) विस्फुरन्तं च पशुवत्तथैवैनममारयत्। तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत्॥ 10-8-45 (64316) संसुप्तानेव राजेन्द्र तत्र तत्र महारथान्। पाञ्चालवीरानाक्रम्य क्रुद्धो न्यहनदन्तिके। स्फुरतो वेपमानांश्च शमितेव पशून्मखे॥ 10-8-46 (64317) ततो निस्त्रिंशमादाय जघानान्यान्पृथक्पृथक्। भागशो विचरन्मार्गानसियुद्वविशारदः॥ 10-8-47 (64318) तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान्। श्रान्तान्व्यस्तायुधान्सर्वानसिनैव व्यपोथयत्॥ 10-8-48 (64319) योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना। रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः॥ 10-8-49 (64320) विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च। अवक्षेपेण चैवासेस्त्रिधा रक्तोक्षितोऽभवत्॥ 10-8-50 (64321) तस्य लोहितरक्तस्य दीप्तखङ्गस्य युध्यतः। अमानुष इवाकारो बभौ परमभीषणः॥ 10-8-51 (64322) ये त्वजाग्रन्त कौरव्य तेऽपि शब्देन मोहिताः। वीक्षमाणास्तु ते तत्र द्रौणिं दृष्ट्वा प्रविव्यथुः॥ 10-8-52 (64323) तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनम्। राक्षसं मन्यमानास्तं नयनानि न्यमीलयन्॥ 10-8-53 (64324) स घोररूपो व्यचरत्कालवच्छिबिरे तदा। अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान्॥ 10-8-54 (64325) तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः। धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते। अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत्॥ 10-8-55 (64326) ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः। शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन्॥ 10-8-56 (64327) भारद्वाजः स तान्दृष्ट्वा शरवर्षाणि वर्षतः। ननाद बलवन्नादं जिघांसुस्तान्महारथान्॥ 10-8-57 (64328) ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन्। अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे॥ 10-8-58 (64329) सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे। खङ्गं च विमलं दिव्यं जातरूपपरिष्कृतम्। द्रौपदेयानभिद्रुत्य खङ्गेन व्यधमद्बली॥ 10-8-59 (64330) ततः स नरशार्दूलः प्रतिविन्ध्यं महाहवे। कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि॥ 10-8-60 (64331) प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान्। पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत्॥ 10-8-61 (64332) सुतसोमस्य सासिं तं बाहुं छित्त्वा नरर्षभ। पुनरप्याहनत्पार्श्वे स भिन्नहृदयोऽपतत्॥ 10-8-62 (64333) नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्। दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत्॥ 10-8-63 (64334) अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः। स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः॥ 10-8-64 (64335) श्रुतकर्मा तु परिघं घोरं गृह्य दुरासदम्। अताडयत्समुद्यम्य वेगेन द्रौणिमुत्स्मयन्॥ 10-8-65 (64336) स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना। स हतो न्यपतद्भूमौ विमूर्धा विकृताननः॥ 10-8-66 (64337) तेन शब्देन वीरस्तु श्रुतकीर्तिरबुध्यत। अश्वत्थामानमासाद्य शरवर्षैरवाकिरत्॥ 10-8-67 (64338) `शरैराच्छादितस्तेन द्रोणपुत्रो महारथः। अदृश्यत महाराज श्वाविच्छललतो यथा॥' 10-8-68 (64339) तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः। सकुण्डलं शिरः कायाद्वाजमानमपाहरत्॥ 10-8-69 (64340) ततो भीष्मनिहन्तारं सह सर्वैः प्रभद्रकैः। आहनत्सर्वतो वीरं नानाप्रहरणैर्बलात्॥ 10-8-70 (64341) शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्पयत्॥ 10-8-71 (64342) स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः। शिखण्डिनं समासाद्य द्विधा चिच्छेद सोसिना॥ 10-8-72 (64343) शिखण़्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः। प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान्॥ 10-8-73 (64344) यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत्। द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि। चकार कदनं घोरं दृष्ट्वा तत्र महाबलः॥ 10-8-74 (64345) अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च। न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः॥ 10-8-75 (64346) कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम्। रक्ताम्बरधरां घोरां पाशहस्तां कुटुम्बिनीम्॥ 10-8-76 (64347) ददृशुः कालरात्रिं ते स्मयमानामिव स्थिताम्। नराश्वकुञ्जरान्पाशैर्बद्धा घोरैः प्रतस्थुषीम्॥ 10-8-77 (64348) वहन्तीं विविधान्प्रेतान्पाशबद्वान्विमूर्धजान्। तथैव च सदा राजन्न्यस्तशस्त्रान्महारथान्॥ 10-8-78 (64349) स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष। ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा॥ 10-8-79 (64350) यतः प्रभृति सङ्ग्रामः कुरुपाण्डवसेनयोः। ततः प्रभृति तां कन्यामपश्यन्द्रौणिमेव च॥ 10-8-80 (64351) तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्व्यपातयत्। त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान्॥ 10-8-81 (64352) तदनुस्मृत्य ते वीरा दर्शनं पूर्वकालिकम्। इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः॥ 10-8-82 (64353) ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः। शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः॥ 10-8-83 (64354) सोऽच्छिनत्कस्यचित्पदौ जघनं चैव कस्यचित्। कांश्चिद्बिभेदपार्श्वेषु कालसृष्ट इवान्तकः॥ 10-8-84 (64355) अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशोत्कटैः। गजाश्वमथितैश्चान्यैर्मही कीर्णाऽभवत्प्रभो॥ 10-8-85 (64356) क्रोशतां किमिदं कोऽयं कः शब्दः किन्नु किं कृतम्। पाञ्चालानां तथा द्रौणिरन्तकः समपद्यत॥ 10-8-86 (64357) अपेतशस्त्रसन्नाहान्सन्नद्वान्पाण्डुसृञ्जयान्। प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः॥ 10-8-87 (64358) ततस्तच्छस्त्रवित्रस्ता भयादभ्यपतन्नराः। निद्रान्धा नष्टसंज्ञाश्च तत्रतत्र निपेतिरे॥ 10-8-88 (64359) ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः। विनदन्तो भृशं त्रस्ता निरैक्षन्त परस्परम्॥ 10-8-89 (64360) ततो रथं पुनर्द्रौणिरास्थितो भीमदर्शनः। धनुष्पाणिः शरैरन्यान्प्रैषयद्वै यमक्षयम्॥ 10-8-90 (64361) पुनरुत्पततश्चापि दूरादपि नरोत्तमान्। शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत्॥ 10-8-91 (64362) तथैव स्यन्दनाग्रेण प्रमथन्स व्यरोचत। शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः॥ 10-8-92 (64363) पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा। तेन चाकाशवर्णेन तथाचरत सोऽसिना॥ 10-8-93 (64364) तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः। व्यक्षोभयत राजेन्द्र महाह्दमिव द्विपः॥ 10-8-94 (64365) उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः। निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः॥ 10-8-95 (64366) विस्वरं चुक्रुशुश्चान्ये बह्वबद्वं तथाऽवदन्। न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च॥ 10-8-96 (64367) विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम्। उत्पतन्तोऽपतञ्श्रान्ताः केचित्तत्राभ्रमंस्तदा। पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः॥ 10-8-97 (64368) बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः। समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम्॥ 10-8-98 (64369) तत्र केचिन्नरा भीता व्यलीयन्त महीतले। तथैव तान्निपतितानपिंषन्गजवाजिनः॥ 10-8-99 (64370) तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ। हृष्टानि व्यनदन्नुच्चैर्मुदा युक्तानि सत्तम॥ 10-8-100 (64371) स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः। अपूरयद्दिशः सर्वा दिवं चातिमहान्स्वनः॥ 10-8-101 (64372) तेषामार्तरवं श्रुत्वा वित्रस्ता गजवाजिनः। मुक्ताः पर्यपतन्राजन्मृद्गन्तः शिबिरे जनम्॥ 10-8-102 (64373) तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः। अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः॥ 10-8-103 (64374) तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः। नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च॥ 10-8-104 (64375) गजो राजानतिक्रम्य निर्मनुष्या हया हयान्। अताडयंस्तथाऽभञ्जंस्तथाऽमृद्गंश्च भारत॥ 10-8-105 (64376) ते भग्नाः प्रपतन्ति स्म मृद्रन्तश्च परस्परम्। न्यपातयंस्तथा चान्यान्पातयित्वा तदाऽपिषन्॥ 10-8-106 (64377) विचेतसः सनिद्राश्च तमसा चावृता नराः। जघ्रुः स्वानेव तत्राथ कालेनैव प्रचोदिताः॥ 10-8-107 (64378) त्यक्त्वाद्वाराणि च द्वास्थास्तथागुल्मानिगौल्मिकाः। प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः॥ 10-8-108 (64379) विप्रनष्टाश्च तेऽन्योन्यं नाजानन्तस्तथा विभो। क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः॥ 10-8-109 (64380) पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान्। गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः॥ 10-8-110 (64381) हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे। तान्बुद्धा रणमध्येऽसौ द्रोणपुत्रो व्यपोथयत्॥ 10-8-111 (64382) तत्रापरे वध्यमाना मुहुर्महुरचेतसः। शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः॥ 10-8-112 (64383) तांस्तु निष्पतितांस्त्रस्ताञ्शिबिराज्जीवितैषिणः। कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः॥ 10-8-113 (64384) विसस्तयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन्। वेपमानान्क्षितौ भीतान्त्रैव कांश्चिदमुच्यताम्॥ 10-8-114 (64385) नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः॥ कृपश्चैव महाराज हार्दिक्यश्चैव दुर्मतिः। 10-8-115 (64386) भूयश्चैव चिकीर्षन्तौ द्रौणपुत्रस्य तौ प्रियम्। त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम्॥ 10-8-116 (64387) ततः प्रकाशे शिबिरे खङ्गेन पितृनन्दनः। अश्वत्थामा महाराज व्यचरत्कृतहस्तवत्॥ 10-8-117 (64388) कांश्चिदापततो वीरानपरांश्चैव धावतः। व्ययोजयत खङ्गेन प्राणैर्द्विजवरोत्तमः॥ 10-8-118 (64389) कांश्चिद्योधान्स खङ्गेन मध्ये सञ्छिद्य वीर्यवान्। अशातयद्द्रोणपुत्रः संरब्धस्तिलकाण्डवत्॥ 10-8-119 (64390) निनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः। पतितैरभवत्कीर्णा मेदिनी भरतर्षभ॥ 10-8-120 (64391) मानुषाणां सहस्रेषु हतेषु पतितेषु च। उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन्॥ 10-8-121 (64392) सायुधान्साङ्गदान्बाहून्विचकर्त शिरांसि च। हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत॥ 10-8-122 (64393) पृष्ठच्छिन्नान्पार्श्वच्छिन्नाञ्शिरश्छिन्नांस्तथापरान्। स महात्माकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान्॥ 10-8-123 (64394) मध्यदेशे नरानन्यांश्चिच्छेदान्यांश्च कर्णतः। अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः॥ 10-8-124 (64395) एवं हि बहुभिः शस्त्रैर्घ्नतोऽपि बलवत्तरान्। तमसा रजनी घोरा बभौ दारुणदर्शना॥ 10-8-125 (64396) किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः। बहुना च गजाश्वेन भूतभूद्भीमदर्शना॥ 10-8-126 (64397) यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे। क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि। भ्रातॄनन्ये पितॄनन्ये पुत्रानन्ये विचुक्रुशुः॥ 10-8-127 (64398) केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे। यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूग्कर्मभिः। असान्निध्याद्वि पार्थानामिदं वः कदनं कृतम्॥ 10-8-128 (64399) न चासुरैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः। शक्यो विजेतुं कौन्तेयो नेता यस्य जनार्दनः। ब्रह्मण्यः मत्यवाग्दान्तः सर्वभूतानुकम्पकः॥ 10-8-129 (64400) न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम्। धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः॥ 10-8-130 (64401) तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः। इति लालप्यमानाः स्म शेरते बहवो जनाः॥ 10-8-131 (64402) स्तनतां च मनुष्याणामपरेषां च कूजताम्। ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान्॥ 10-8-132 (64403) शोणितव्यतिषिक्तायां वसुधायां च भूमिप। तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत॥ 10-8-133 (64404) स चेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः। न्यपातयन्नरान्क्रुद्वः पशून्पशुपतिर्यथा॥ 10-8-134 (64405) अन्योन्यं सम्परिष्वज्य शयानाञ्जीवतोऽपरान्। संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत्॥ 10-8-135 (64406) ब्रह्ममाना हुताशेन वध्यमानाश्च तेन ते। परस्परं तदा योधाननयद्यमसादनम्॥ 10-8-136 (64407) तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम्। गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम्॥ 10-8-137 (64408) निशाचराणां सत्वानां रात्रिः सा हर्षवर्धिनी। आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम्॥ 10-8-138 (64409) तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः। खादन्तो नरमांसानि पिबन्तः शोणितानि च॥ 10-8-139 (64410) करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः। जटिला भीमवक्त्राश्च पञ्चपादा महोदराः॥ 10-8-140 (64411) पञ्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः। गजाननाश्च हस्वाश्च नीलवर्णा बिभीषणाः॥ 10-8-141 (64412) सपुत्रदाराः सुक्रूराः सुदुर्दर्शाः सुनिर्घृणाः। विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम्॥ 10-8-142 (64413) पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे। इदं परमिदं मेध्यमिदं स्वाद्विति चाब्रुवन्॥ 10-8-143 (64414) मेदोमज्जास्थिरक्तानां मांसानां च भृशाशिताः। परे मांसानि खादन्तः क्रव्यादा मांसजीविनः॥ 10-8-144 (64415) वसाश्चैवापरे पीत्वा पर्यधावन्विकुक्षिकाः। नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः॥ 10-8-145 (64416) अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च। रक्षसां घोररूपाणां महतां क्रुरकर्मणाम्॥ 10-8-146 (64417) मुदितानां वितृप्तानां तस्मिन्महति वैशसे। समेतानि बहून्यासन्भूतानि च जनाधिप। 10-8-147 (64418) एवंविधा हि सा रात्रिः सोमकानां जनक्षये। प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा॥ 10-8-148 (64419) असंशयं हि कालस्य पर्यायो दुरतिक्रमः। तादृशा निहता यत्र कृत्वाऽस्माकं जनक्षयम्॥ 10-8-149 (64420) धृतराष्ट्र उवाच। 10-8-150x (5277) प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः। नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः॥ 10-8-150 (64421) अथ कस्माद्वते क्षत्रे कर्मेदं कृतवानसौ। द्रोणपुत्रो महात्मा स तन्मे शंसितुमर्हसि॥ 10-8-151 (64422) सञ्जय उवाच। 10-8-152x (5278) तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन। असान्निध्याद्धि पार्थानां केशवस्य च धीमतः। सात्यकेश्चापि कर्मेदं द्रोमपुत्रेण साधितम्॥ 10-8-152 (64423) को हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः। एतदीदृशकं वृत्तं राजन्सुप्तजने विभो॥ 10-8-153 (64424) ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम्। प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः॥ 10-8-154 (64425) नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः। पाणिना सह संश्लिष्ट एकीभूत इव प्रभो॥ 10-8-155 (64426) स निःशेषानरीन्कृत्वा विरराम निशाक्षये। युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः॥ 10-8-156 (64427) यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो। दुर्गमां पदवीं गच्छन्पितुरासीद्गतज्वरः॥ 10-8-157 (64428) यथैव संसुप्तजने शिबिरे प्राविशन्निशि। तथैव हत्वा निःशब्दो निश्चक्राम नरर्षभः॥ 10-8-158 (64429) निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान्। आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो॥ 10-8-159 (64430) तावथाचख्यतुस्तस्मै प्रियं प्रियकरौ तदा। पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः॥ 10-8-160 (64431) प्रीत्या चोच्चैरुद्रक्रोशंस्तथैवास्फोटयंस्तलान्। दिष्ट्यादिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः॥ 10-8-161 (64432) पर्यष्वजत्ततो द्रौणिस्ताभ्यां सम्प्रतिनन्दितः। इदं हर्षात्तु सुमहदाददे वाक्यमुत्तमम्॥ 10-8-162 (64433) पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः। सोमका मत्स्यशेषाश्च सर्वे विनिहता मया॥ 10-8-163 (64434) इदानीं कृतकृत्याः स्म याम तत्रैव मा चिरम्। यदि जीवति नो राजा तस्मै शंसामहे प्रियम्॥ ॥ 10-8-164 (64435) इति श्रीमन्महाभारते सौप्तिकपर्वणि अष्टमोऽध्यायः॥ 8 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-8-7 पाञ्चालैः पूर्वं निहतौ सन्तौ स्वपतां कच्चित् कोपात् स्वपतां पाञ्चालानां कर्म वधाख्यं ताभ्यां कच्चित्कृतमिति सम्बन्धः॥ 10-8-8 शिबिरद्वार्यतिष्ठतामिति झ.पाठः॥ 10-8-11 वां युवां प्राप्येति शेषः॥ 10-8-13 उद्देशज्ञः धृष्टद्युम्नस्थलज्ञः॥ 10-8-30 पादाष्ठीलैरिति झ.पाठः। तत्र पादाष्ठीलैः पादग्रन्थिभिः। पार्ष्णिघातैरित्यर्थः॥ 10-8-50 तैश्छिन्नगात्रैर्विस्फुरद्भिस्तेषां शरीरादुच्चलद्भी रक्तबिन्दुभिरित्यर्थः॥ 10-8-87 पाण्डुसृञ्जयान् पाण़्डवसम्बन्धिनः सृञ्जयान्। पाण्डोर्गोत्रापत्यानि सृञ्जयाश्च तान्वा॥ 10-8-105 अभञ्जन् गात्राण्यनमयन्। अमृद्रन् परस्परं मर्दितवन्तः॥ 10-8-106 अपिषन् अपिंषन्॥ 10-8-144 भृशाशिताः भृशं संन्तर्पिताः॥ 10-8-145 विकुक्षिकाः विपुलकुक्षयः॥ 10-8-8 अष्टमोऽध्यायः॥
सौप्तिकपर्व - अध्याय 009

॥ श्रीः ॥

10.9. अध्यायः 009

Mahabharata - Sauptika Parva - Chapter Topics

द्रौणिकृपकृतवर्मभिर्दुर्योधनमेत्य शोचनम्॥ 1 ॥ दुर्योधनम्प्रति द्रौणिना सुप्तजवधकथनम्॥ 2 ॥ दुर्योधनेन प्राणत्यागः॥ 3 ॥ द्रौण्यादीनां नगरगमनम्॥ 4 ॥ सञ्जयस्य व्यासानुग्रहप्राप्तदिव्यज्ञाननाशः॥ 5 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-9-0 (64436) सञ्जय उवाच। 10-9-0x (5279) ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः। आगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः॥ 10-9-1 (64437) गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम्। ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम्॥ 10-9-2 (64438) तं भग्रसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्। वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले॥ 10-9-3 (64439) वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः। सालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात्॥ 10-9-4 (64440) निरायन्तं कृच्छ्रात्ताञ्श्वापदांश्च चिखादिषून्। विवेष्टमानमुरुभ्यां सुभृशं गाढवेदनम्॥ 10-9-5 (64441) तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम्। हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यदेवयन्। अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः॥ 10-9-6 (64442) तैस्त्रिभिः शोणितादिग्धौर्निः श्वसद्भिर्महारथैः। शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः॥ 10-9-7 (64443) ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम्। अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः॥ 10-9-8 (64444) ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि। रणे राज्ञः शयानस्य कृपः सम्पर्यदेवयत्॥ 10-9-9 (64445) कृप उवाच। 10-9-10x (5280) न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः। एकादशचमूभर्ता शेते दुर्योधनो हतः॥ 10-9-10 (64446) पश्य चामीकराभस्य चामीकरविभूषिताम्। गदां गदाप्रियस्येमां समीपे पतितां भुवि॥ 10-9-11 (64447) इयमेनं गदा शूरं न जहाति रणेरणे। स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम्॥ 10-9-12 (64448) पश्येमां सह वीरेण जाम्बूनदविभूषिताम्। शयानां शयने हर्म्ये भार्यां प्रीतिमतीमिव॥ 10-9-13 (64449) योऽयं मूर्धाभिषिक्तानामग्रे याति परन्तपः। स हतो ग्रसते पांसून्पश्य कालसय पर्ययम्॥ 10-9-14 (64450) येनाजौ निहता भूमौ शेरते क्षत्रियर्षभाः। स भूमौ निहतः शेते कुरुराजः परैरयम्॥ 10-9-15 (64451) भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः। स वीरशयने शेते क्रव्याद्भिः परिवारितः॥ 10-9-16 (64452) यमुपासन्नृपाः पूर्वमर्थहेतोर्महीपतिम्। उपात्पते च तं ह्यद्य क्रव्यादा मांसगृद्धिनः॥ 10-9-17 (64453) सञ्जय उवाच। 10-9-18x (5281) तं शयानं कुरुश्रेष्ठं ततो भरतसत्तमम्। अश्वत्थामा समालिङ्ग्य करुणं पर्यदेवयत्॥ 10-9-18 (64454) आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्। धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च॥ 10-9-19 (64455) कथं विवरमद्राक्षीद्भीमसेनस्तवानघ। बलिनं कृतिनो नित्यं सूदः पापात्मवान्नृप॥ 10-9-20 (64456) कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः। पश्यामो निहतं त्वां च भीमसेनेन संयुगे॥ 10-9-21 (64457) कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः। निकृत्या हतवान्मन्दो नून कालो दुरत्ययः॥ 10-9-22 (64458) द्वन्द्वयुद्धे ह्यधर्मेण समाहूयौजसा मृधे। गदया भीमसेनेन निर्भग्ने सक्थिनी तव॥ 10-9-23 (64459) अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः। य उपेक्षितवान्क्षुद्रं धिक्तमस्तु--युधिष्ठिरम्॥ 10-9-24 (64460) युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्। यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः॥ 10-9-25 (64461) ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः। दुर्योधनसमो नास्ति गदायामिति वीर्यवान्॥ 10-9-26 (64462) श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत। स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो॥ 10-9-27 (64463) यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः। हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्॥ 10-9-28 (64464) दुर्योधन न शोचामि त्वामहं पुरुषर्षभ। हतपुत्रौ तु शोचामि गान्धारीं पिरं च ते॥ 10-9-29 (64465) द्वावनाथौ कृतौ वीर त्वया नाथेन वर्धितौ। भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्॥ 10-9-30 (64466) घिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्। धर्मज्ञमानिमौ यौ त्वां वध्यमानमुपेक्षताम्॥ 10-9-31 (64467) पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप। कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः॥ 10-9-32 (64468) धन्यस्त्वमसि गान्धारे यस्वमायोधने हतः। प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ॥ 10-9-33 (64469) हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा। प्रज्ञाचक्षुश्च दुर्धर्षः कां दशां प्रतिपत्स्यते॥ 10-9-34 (64470) धिगस्तु कृतवर्माणं मां कृपं च महारथम्। ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम्॥ 10-9-35 (64471) दातारं सर्वकामानां रक्षितारं प्रजाहितम्। यद्वयं नानुगच्छाम त्वां धिगस्मान्नराधमान्॥ 10-9-36 (64472) कृपस्य तव वीर्येण मम चैव पितुश्च मे। सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च॥ 10-9-37 (64473) तव प्रसादादस्माभिः समित्रैः सह बान्धवैः। अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः॥ 10-9-38 (64474) कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम्। यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान्॥ 10-9-39 (64475) वयमेव त्रयो राजन्गच्छन्तं परमां गतिम्। यद्वै त्वां नानुगच्छाभस्तेन तप्स्यामहे वयम्। 10-9-40 (64476) तत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते। किं नाम तद्भवेत्कर्म येन त्वां न व्रजाम वै॥ 10-9-41 (64477) दुःखं नून कुरुश्रेष्ठ चरिष्याम महीमिमाम्। हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखं॥ 10-9-42 (64478) गत्वैव तु महाराज समेत्य च महारथान्। यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम॥ 10-9-43 (64479) आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्। हतं मयाऽद्य शंशेथा दृष्टद्युम्नं नराधिप॥ 10-9-44 (64480) परिष्वजेथा राजानं बाह्लिकं सुमहारथम्। सैन्धवं सोमदत्तं च भूरिश्रवसमेव च॥ 10-9-45 (64481) तथा पूर्वगतानन्यान्स्वर्गे पार्थिवसत्मान्। अस्मद्वाक्यात्परिष्वज्य सम्पृच्छेस्वमनामयम्॥ 10-9-46 (64482) सञ्जय उवाच। 10-9-47x (5282) इत्येवमुक्वा राजानं भग्नसक्थमचेतसम्। अश्वत्थामा लघुप्राणं पुनर्वचनमब्रवीत्॥ 10-9-47 (64483) दुर्योधन जीवसि चेद्वाक्यं श्रोत्रमुखं शृणु। सप् पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयो वयम्॥ 10-9-48 (64484) ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः। अहं च कृतवर्मा च कृपः शारद्वतस्तथा॥ 10-9-49 (64485) द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः। पञ्चाला निहताः सर्वे मत्स्यशेषं च भारत॥ 10-9-50 (64486) कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः। सौप्तिके शिबिरं तेषां हतं सनरवाहनम्॥ 10-9-51 (64487) मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते। प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः॥ 10-9-52 (64488) दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्। प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्॥ 10-9-53 (64489) न मेऽकरोत्द्गाङ्गेयो न कर्णो न च ते पिता। यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्॥ 10-9-54 (64490) स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना। तेन मन्ये मघवता सममात्मानमद्य वै॥ 10-9-55 (64491) स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः। इत्येवमुक्त्वा पुत्रस्ते कुरुराजो महामनाः॥ 10-9-56 (64492) प्राणानुपासृजद्वीरः सुहृदां दुःखमादधत्। अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत्॥ 10-9-57 (64493) एवं ते निधनं यातः पुत्रो दुर्योधनो नृप। अग्रे यात्वा रणे शूरः पश्राद्विनिहतः परैः॥ 10-9-58 (64494) तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम्। पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्॥ 10-9-59 (64495) इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम्। प्रत्यूषकाले शोकार्ताः प्राद्रवन्नगरं प्रति॥ 10-9-60 (64496) एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः। घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव॥ 10-9-61 (64497) तव पुत्रे गते स्वर्गं शोकार्स्य ममानघ। ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै॥ 10-9-62 (64498) वैशम्पायन उवाच। 10-9-63x (5283) इति श्रुत्वा स नृपतिर्ज्ञातिपुत्रवधं तदा। निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्॥ ॥ 10-9-63 (64499) इति श्रीमन्महाभारते सौप्तिकपर्वणि नवमोऽध्यायः॥ 9 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-9-17 उपासत द्विजाः पूर्वमर्थहेतोर्यमीश्वरमिति झ.पाठः॥ 10-9-23 धर्मयुद्धे ह्यधर्मेणेति झ.पाठः॥ 10-9-9 नवमोऽध्यायः॥
सौप्तिकपर्व - अध्याय 010

॥ श्रीः ॥

10.10. अध्यायः 010

Mahabharata - Sauptika Parva - Chapter Topics

दैवादुर्वरितेन दृष्टद्युम्नसारथिना युधिष्ठिराय रात्रौ वृत्तशिबिरवृत्तान्तविनेदनम्॥ 1 ॥ तच्छ्रवणेन द्रौपद्यानयनाय नकुलभादिश्य शिबिरभुवमुपागतवता युधिष्ठिरेण गृतनिजजनावलोकनेन परिदेवनम्॥ 2 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-10-0 (64500) वैशम्पायन उवाच। 10-10-0x (5284) तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः। गत्वा शशंस पाण्डुभ्यः सौप्तिके कदनं कृतम्॥ 10-10-1 (64501) सूत उवाच। 10-10-2x (5285) द्रौपदेया हता राजन्द्रुपदस्वात्मजैः सह। प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके॥ 10-10-2 (64502) गौतमेन नृशंसेन भोजेन कृतवर्मणा। अश्वत्थान्ना च पापेन हतं वः शिबिरं निशि॥ 10-10-3 (64503) एतैर्नरगजाश्वानां प्रासशक्तिपरश्वयैः। सहस्रामि विकृन्द्भिर्निः शेषं शिबिरं कृतम्॥ 10-10-4 (64504) `xxxxxxविहगफलभारनतस्य ह।' xxxxxxxमहतो वनस्येव परश्वथैः। xxxxxxxx सुमहाञ्शब्दो बलस्य तव भारत॥ 10-10-5 (64505) महमेकोऽबशिष्टस्तु तस्मात्सैन्यामहीपते। मुक्तः कथञ्चिद्धर्मात्मन्व्यग्राच्च कृतवर्मणः॥ 10-10-6 (64506) तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः। पपात मह्यां धर्मात्मा पुत्रशोकसमन्वितः॥ 10-10-7 (64507) पतन्तं तमतिक्रम्य परिजग्राह सात्यकिः। भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ॥ 10-10-8 (64508) लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा। जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदार्तवत्॥ 10-10-9 (64509) `अगम्या गतिरर्थानां कर्मणामीश्वरस्य च'। दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः। जीयमाना जयन्त्यन्ये जयमाना वयं जिताः॥ 10-10-10 (64510) हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान्। बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम्॥ 10-10-11 (64511) अनर्थो ह्यर्थसङ्काशस्तथाऽनर्थोऽर्थदर्शनः। जयोऽयमजयाकारो जयस्तस्मात्पराजयः॥ 10-10-12 (64512) यज्जित्वा तप्यते पश्चादापन्न इव दुर्मतिः। कथं मन्येत विजयं ततो जिततरः परैः॥ 10-10-13 (64513) येषामर्थाय पापं स्याद्विजयस्य सुहृद्वधैः। निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः॥ 10-10-14 (64514) कर्णिनालीकदंष्ट्रस्य स्वङ्गजिह्वस्य संयुगे। चापव्यात्तास्यरौद्रस्य ज्यातलस्वननादिनः॥ 10-10-15 (64515) क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः। ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः॥ 10-10-16 (64516) रथहदं शरवर्षोर्मिमन्तं रत्नाचितं वाहनयोधबृन्दम्। शक्त्यृष्टिमीनध्वजनागनक्रं शरासनावर्तमहेषुफेनम्॥ 10-10-17 (64517) सङ्ग्रामचन्द्रोदयवेगवेलं द्रोणार्णवं ज्यातलनेमिघोषम्। ये तेरुरुच्चावचशस्त्रनौभि-- स्ते राजपुत्रा निहताः प्रमादात्॥ 10-10-18 (64518) न हि प्रमादात्परमस्ति कश्च-- द्वधो नराणामिह जीवलोके। प्रमत्तमर्था हि नरं समन्ता-- त्त्यजन्त्यनर्थाश्च समाविशन्ति॥ 10-10-19 (64519) ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं शरार्चिषं दीप्तमहापताकम्। महाधनुर्ज्यातलनेमिघोषं तनुत्रनानाविधशस्त्रहोमम्॥ 10-10-20 (64520) महाचमूकक्षदवाभिपन्नं महाहवे भीष्ममहादवाग्निम्। ये तेरुरुच्चावचशस्त्रवेगै-- स्ते राजपुत्रा निहताः प्रमादात्॥ 10-10-21 (64521) न हि प्रमत्तेन नरेण शक्य-- माप्तुं वसु श्रीर्विपुलं यशो वा। पश्याप्रमादेन निहत्य शत्रू-- न्सर्वान्महेन्द्रं सुखमेधमानम्॥ 10-10-22 (64522) इन्द्रोपमान्पार्थिवपुत्रपौत्रा-- न्पश्याविशेषेण हतान्प्रमादात्। तीर्त्वा समुद्रं जणिजः समृद्वा। मग्नाः कुनद्यामिव सीदमानाः॥ 10-10-23 (64523) अमर्षितैर्ये निहता नरेन्द्रा निःसंशयं ते त्रिदिवं प्रपन्नाः। कृष्णां तु शोचामि कथं नु साध्वी शोकार्णवं सा विषहिष्यतीति॥ 10-10-24 (64524) भातृंश्च पुत्रांश्च हतान्निशम्य पाञ्चालसराजं पितरं च वृद्वम्। ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां सा शोष्यते शोककृशाङ्गयष्टिः॥ 10-10-25 (64525) तच्छोकजं दुःखमपारयन्ती कथं भविष्यत्युचिता सुखानाम्। रोरूयते ज्ञातिवधाभितप्ता प्रदह्वमानेव हुताशनेन॥ 10-10-26 (64526) इत्येवमार्तः परिदेवयन्स राजाज कुरूणां नकुलं बभाषे। गच्छान्यैनामिह मन्दभाग्यां समातृपक्षामिति राजपुत्रीम्॥ 10-10-27 (64527) माद्रीसुतस्तत्परिगृह्य वाक्यं धर्मेण धर्मप्रथमस्य राज्ञः। ययौ रथेनालयमाशुदेव्याः पाञ्चालराजस्य च यत्र दाराः॥ 10-10-28 (64528) प्रस्थाप्य माद्रीसुतमाजमीढः शोकार्दितस्तैः सहितः सुहृद्भिः। रोरूयमाणः प्रययौ सुताना-- मायोधनं भूतगणानुकीर्णम्॥ 10-10-29 (64529) स तत्प्रविश्याशिवमुग्ररूपं ददर्श पुत्रान्सुहृदः सखींश्च। भूमौ शयानान्रुधिरार्द्रगात्रा-- न्विभिन्नदेहान्प्रहृतोत्तमाङ्गान्॥ 10-10-30 (64530) स तांस्तु दृष्ट्वा भृशमार्तरूपो युधिष्ठिरो धर्मभृतां वरिष्ठः। उच्चैः प्रचुक्रोश च कौरवाग्र्यः पपात चोर्व्यां सगणो विसंज्ञः॥ ॥ 10-10-31 (64531) इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि दशमोऽध्यायः॥ 10 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-10-8 xxxxxxxxत्यक्त्वा पतन्तम्॥ 10-10-10 अन्ये शत्रवः। जयमानाः जयन्तः। जितानां जयो जयतां पराजयः फलतोऽभूदिति महदाश्चर्यमित्यर्थः॥ 10-10-13 पश्चात्स पाप इव दुर्मतिरिति क.पाठः॥ 10-10-16 व्यमुञ्चन्त मुक्ताः। कर्णस्य कर्णात्। प्रमादादस्मत्कृतादसान्निध्यात्॥ 10-10-17 वाहनवाजियुक्तमिति झ.पाठः॥ 10-10-20 तनुत्राणि नानाषिधानि शस्कराणि च तेषां होमः प्रक्षेपो यत्र तं तनुत्रनानाविधशस्त्रहोमम्॥ 10-10-21 भीष्ममयं भीष्मप्रधानं अग्निदाहम्। भीष्मरूपेण अग्निना दाहमित्यर्थः॥ 10-10-24 निहताः शयाना इति झ.पाठः॥ 10-10-10 दशमोऽध्यायः॥
सौप्तिकपर्व - अध्याय 011

॥ श्रीः ॥

10.11. अध्यायः 011

Mahabharata - Sauptika Parva - Chapter Topics

मकुलेन युधिष्ठिरसमोषं प्रति द्रौपथानयनम्॥ 1 ॥ द्रौपद्या द्रौणिमस्तकमणिहरणचोदितेन भीमेन नकुलसारथिना रथेन द्रौणिवभ्राय प्रस्थानम्॥ 2 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-11-0 (64532) वैशम्पायन उवाच। 10-11-0x (5286) स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्पात्रौन्सखींस्तथा। महादुःखपरीतात्मा बभूव जनमेजय॥ 10-11-1 (64533) ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः। स्मरतः पुत्रपौत्रांस्तान्भ्रातॄन्सुहृद एव च॥ 10-11-2 (64534) तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्। सुहृदो भृशसंविग्नाः सांत्वयाञ्चक्रिरे तदा॥ 10-11-3 (64535) `कृत्वा तु विधिवत्तेषां पुत्राणाममितौजसाम्। प्रेतकार्याणि सर्वेषां बभूव भृशदुःखितः'॥ 10-11-4 (64536) तस्मिन्मुहूर्ते जवनैर्वाजिभिर्हेममालिभिः। नकुलः कृष्णया सार्धमुपायात्परमार्तया॥ 10-11-5 (64537) उपप्लाव्यं गता सा तु श्रुत्वा सुमहदप्रियम्। तदा विनाशं सर्वेषां पुत्राणां व्यथितेन्द्रिया॥ 10-11-6 (64538) कम्पमानेव कदली वातेनाभिसमीरिता। कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि॥ 10-11-7 (64539) न बभौ वदनं तस्या रुदन्त्याः शोककर्शितम्। फुल्लपद्मपलाशाक्ष्या मेघावृत इवोडुराट्॥ 10-11-8 (64540) ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः। वाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः॥ 10-11-9 (64541) सा समाश्वासिता तेन भीमसेनेन भामिनी। रुदती पाण्डवज्येष्ठमिदं वचनमब्रवीत्॥ 10-11-10 (64542) दिष्ट्या राजन्नवाप्येमामखिलां भोक्ष्यसे महीम्। आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै॥ 10-11-11 (64543) दिष्ट्या सर्वास्त्रकुशलं मत्तमातङ्गामिनम्। अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि॥ 10-11-12 (64544) आत्मजान्क्षत्रधर्मेण श्रुत्वा शूरान्निपातितान्। स्थितो राज्ये मया सार्धं विहरन्न स्मरिष्यसि॥ 10-11-13 (64545) प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा। शोको मां दहते गाढो हुताशन इवाश्रयम्॥ 10-11-14 (64546) तस्य पापकृतो द्रौणेर्न चेदद्य दुरात्मनः। हियते सानुबन्धस्य युधि विक्रम्य जीवितम्॥ 10-11-15 (64547) इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः। न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः॥ 10-11-16 (64548) एवमक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्। युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी॥ 10-11-17 (64549) दृष्ट्वोपविष्टां राजा तु पाण्डवो महिषीं प्रियाम्। प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम्॥ 10-11-18 (64550) क्षत्रधर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे। पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि॥ 10-11-19 (64551) स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः। तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने॥ 10-11-20 (64552) द्रौपद्युवाच। 10-11-21x (5287) द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः। निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम्। द्रौणेः शिरस उत्कृत्य जीवेयमिति मे मतिः॥ 10-11-21 (64553) इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना। भीमसेनकरे स्पृष्ट्वा कुपिता वाक्यमब्रवीत्॥ 10-11-22 (64554) त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्। जहि तं पापकर्माणं शम्बरं सघवानिव॥ 10-11-23 (64555) न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन। श्रुतं तत्सर्वलोकेषु परमव्यसने तथा॥ 10-11-24 (64556) द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते। हिडिम्बदर्शने चैव तथां त्वमभवो गतिः॥ 10-11-25 (64557) तथा विराटनगरे कीचकेन भृशार्दिताम्। मामप्युद्वृतवान्कृच्छ्रात्पौलोमीं मघवानिव॥ 10-11-26 (64558) यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा। तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव॥ 10-11-27 (64559) वैशम्पायन उवाच। 10-11-28x (5288) तस्या बहुविधं दुःखं निशम्य परिदेवितम्। न चामर्षत कौन्तेयो भीमसेनो महाबलः॥ 10-11-28 (64560) स काञ्चनविचित्राङ्गमारुरोह महारथम्। आदाय रुचिरं चित्रं समार्गणगुणं धनुः॥ 10-11-29 (64561) नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः। विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्॥ 10-11-30 (64562) ते हयाः पुरुषव्याघ्र दीप्यमानाः स्वतेजसा। वहन्तः सहसा जग्मुर्हरयः शीघ्रगामिनः॥ 10-11-31 (64563) शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः। `द्रोणपुत्रगतेनाशु ययौ मार्गेण भारत'॥ ॥ 10-11-32 (64564) इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि एकादशोऽध्यायः॥ 11 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-11-11 दिष्ठ्येति। पुत्रनाशापेक्षया राज्यप्राप्तिसुखं तव महदित्यधिक्षेपः॥ 10-11-11 एकादशोऽध्यायः॥
सौप्तिकपर्व - अध्याय 012

॥ श्रीः ॥

10.12. अध्यायः 012

Mahabharata - Sauptika Parva - Chapter Topics

द्रौणिजिघांसया भीमे प्रतिगते कृष्णेन युधिष्ठिरम्प्रति द्रौणिदौश्शील्यादिकथनपूर्वकं भीमस्य ततो रक्षणीयत्वकथनम्॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-12-0 (64565) वैशम्पायन उवाच। 10-12-0x (5289) तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः। अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्॥ 10-12-1 (64566) एष पाण़्डवे ते भ्राता पुत्रशोकपरायणः। जिघांसुर्द्रौणिमाक्रन्दे एक एवाभिधावति॥ 10-12-2 (64567) भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ। तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्युपपद्यसे॥ 10-12-3 (64568) यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः। अस्त्रं ब्रह्मशिरो नाम दहेत पृथिवीमपि॥ 10-12-4 (64569) तन्महात्मा महाभागः केतुः सर्वधनुष्मताम्। प्रत्यपायदाचार्यः प्रीयमाणो धनञ्जयम्॥ 10-12-5 (64570) तं पुत्रोऽप्येक एवैनमन्वयाचदमर्षणः। ततः प्रोवाच पुत्राय नातिहृष्टमना इव॥ 10-12-6 (64571) विदितं चापलं ह्यासीदात्मजस्य दुरात्मनः। सर्वधर्मविदाचार्यः सोऽन्वशासत्सुतं ततः॥ 10-12-7 (64572) परमापद्गतेनापि न स्म तात त्वया रणे। इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः॥ 10-12-8 (64573) इत्युक्त्वान्गुरुः पुत्रं द्रोणः पश्चाथोक्तवान्। न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ॥ 10-12-9 (64574) स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम्। निराशः सर्वकल्याणैः शोकात्पर्यचरन्महीम्॥ 10-12-10 (64575) ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत। अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः॥ 10-12-11 (64576) स कदाचित्समुद्रान्ते वसन्द्वारवतीमनु। एक एकं समागम्य मामुवाच हसन्निव॥ 10-12-12 (64577) यत्तदुग्रं तपः कृष्ण चरन्नमितविक्रमः। अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता॥ 10-12-13 (64578) अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम्। तदद्य मयि दाशार्ह यथा पितरि मे तथा॥ 10-12-14 (64579) अस्मत्तस्दुपादाय दिव्यमस्त्रं यदूत्तम। ममाप्यस्रं प्रयच्छ त्वं चक्रं रिपुहणं रणे॥ 10-12-15 (64580) स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः। याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ॥ 10-12-16 (64581) देवदानवगन्धर्वमनुष्यपतगोरगाः। न समा मम वीर्यस्य शतांशेनापि पिण्डिताः॥ 10-12-17 (64582) इदं धनुरियं शक्तिरिदं चक्रमियं गदा। यद्यदिच्छसि चेदस्रं मत्तस्तत्तद्ददामि ते॥ 10-12-18 (64583) यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे। तद्गृहाण विनाऽस्त्रेण यन्मे दातुमभीप्ससि॥ 10-12-19 (64584) स सुनाभं सहस्रारं वज्रनाभमयस्मयम्। वव्रे चक्रं महाभागो मत्तः स्पर्धन्मया सह॥ 10-12-20 (64585) गृहाण चक्रमित्युक्तो मया तु तदनन्तरम्। जग्राहोत्पत्य सहसा चक्रं सव्येन पाणिना॥ 10-12-21 (64586) न चैनमशकत्स्थानात्सञ्चालयितुमप्युत। अथैनं दक्षिणेनापि ग्रहीतुमुपचक्रमे॥ 10-12-22 (64587) सर्वयत्नेन तेनापि गृह्य नैनमकम्पयत्॥ 10-12-23 (64588) ततः सर्वबलेनापि यदैनं न शशाक ह। उद्यन्तुं वा चालयितुं द्रौणिः परमदुर्मनाः। कृत्वा यत्नं परिश्रान्तः स न्यवर्तत भारत॥ 10-12-24 (64589) निवृत्मनसं तस्मादभिप्रायाद्विचेतसम्। अहमामन्त्र्य संविग्नमश्वत्थामानमब्रुवम्॥ 10-12-25 (64590) यः स दैवमनुष्येषु प्रमाणं परमं गतः। गाण्डीवधन्वा श्वेताश्चः कपिप्रवरकेतनः॥ 10-12-26 (64591) यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम्। द्वन्द्वयुद्धे पुरा जिष्णुस्तोषयामास शङ्करम्॥ 10-12-27 (64592) यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि। नादेयं यस्य मे किञ्चिदपि प्राणान्महात्मनः॥ 10-12-28 (64593) तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा। नोक्पूर्वमिदं वाक्यं यस्त्वं मामभिभाषसे॥ 10-12-29 (64594) ब्रह्मचर्यं महद्धोरं तीर्वा द्वादशवार्षिकम्। हिमवत्पार्श्वमास्थाय यो मया तपसाऽऽर्जितः॥ 10-12-30 (64595) समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत। सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः॥ 10-12-31 (64596) तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं रणे। न प्रार्थितमभून्मूढ तदितं प्रार्थितं त्वया॥ 10-12-32 (64597) रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन। न गदेन साम्बेन यदिदं प्रार्थितं त्वया॥ 10-12-33 (64598) द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः। नोक्तपूर्वमिदं क्षुद्रं तदिदं प्रार्थितं त्वया॥ 10-12-34 (64599) भारताचार्यपुत्रस्त्वं मानितः सर्वयादवैः। चक्रेण रथिनां श्रेष्ठ कं नु तात युयुत्ससे॥ 10-12-35 (64600) एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह। प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वया सह॥ 10-12-36 (64601) प्रार्थितं ते मया चक्रं देवदानवपूजितम्। अजेयः स्यामिति विभो सत्यमेद्ब्रवीमि ते॥ 10-12-37 (64602) सोऽहं तद्दुर्लभं चक्रमनवाप्यैव केशव। प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम्॥ 10-12-38 (64603) एतत्सुनाभं भोजानामृषभेण त्वया धृतम्। चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते॥ 10-12-39 (64604) एतावदुक्त्वा द्रौणिर्मां युग्यानश्वान्धनानि च। आदायोपययौ काले रत्नानि वविधानि च॥ 10-12-40 (64605) स संरम्भी दुरात्मा च चपलः क्रूर एव च। वेद चास्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः॥ ॥ 10-12-41 (64606) इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि द्वाशोऽध्यायः॥ 12 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-12-11 मे मह्यं दातुमिच्छसि तेन विनापि गृहाण। त्वदीयेऽस्त्रे ममेच्छा नास्तीति भावः॥ 10-12-12 द्वादशोऽध्यायः॥
सौप्तिकपर्व - अध्याय 013

॥ श्रीः ॥

10.13. अध्यायः 013

Mahabharata - Sauptika Parva - Chapter Topics

कृष्णादिभिर्भागीरथीतीरे व्याससमीपसमासीनद्रौणिदर्शनम्॥ 1 ॥ तद्दर्शिना द्रौणिना अपाण्डवहेतोर्ब्रह्मशिरोस्त्रप्रयोगः॥ 2 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-13-0 (64607) वैशम्पायन उवाच। 10-13-0x (5290) एवमुक्त्वा कुरुश्रेष्ठं सर्वयादवनन्दनः। सर्वायुधवरोपेतमारुरोह रथोत्तमम्॥ 10-13-1 (64608) युक्तं परमकाम्भोजैस्तुरगैर्हेममालिभिः। उदितादित्यसङ्काशं सर्वरत्नविभूषितम्॥ 10-13-2 (64609) दक्षिणे ह्यावहच्छैब्यः सुग्रीवः सव्यतो धुरम्। णर्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ॥ 10-13-3 (64610) विश्वकर्मकृता दिव्या रत्नधातुविभूषिता। उच्छ्रिता च रथे तस्मिन्ध्वजयष्टिरदृश्यत॥ 10-13-4 (64611) वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान्॥ तस्य सत्यवतः केतुर्भुजगारिरदृश्यत॥ 10-13-5 (64612) अथारोहद्धृषीकेशः केतुः सर्वधनुष्मताम्। अर्जुनः स च धर्मात्मा कुरुराजो युधिष्ठिरः॥ 10-13-6 (64613) अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ। रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम्॥ 10-13-7 (64614) उभावारोप्य दाशार्हः स्यन्दनं लोकपूजितम्। प्रतोदेन जवोपेतान्परमाश्वानचोदयत्॥ 10-13-8 (64615) ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम्। आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च॥ 10-13-9 (64616) वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम्। प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव॥ 10-13-10 (64617) ते समर्था महाबाहुं क्षणेन भरतर्षभ। भीमसेनं महेष्वासमनुसस्रुः सुवेगिताः॥ 10-13-11 (64618) क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम्। नाशक्नुवन्वारयितुं समेत्यापि महारथाः॥ 10-13-12 (64619) स तेषामग्रतः शूरः श्रीमतां दृढधन्विनाम्। ययौ भागीरथीतीरं हरिभिर्भृशवेगितैः। यत्र स श्रूयते द्रौणिः पुत्रहन्ता दुरात्मवान्॥ 10-13-13 (64620) स ददर्श महात्मानमुदकान्ते यशस्विनम्। कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह॥ 10-13-14 (64621) तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम्। रजसा ध्वस्तमासीनं ददर्श द्रौणिमन्तिके॥ 10-13-15 (64622) तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः। भीमसेनो महाबाहुस्तिष्ठतिष्ठेति चाब्रवीत्॥ 10-13-16 (64623) तं दृष्ट्वा भीमकर्माणं प्रगृहीतशरासनम्। भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ। व्यथितात्माऽभवद्द्रौणिः प्राप्तं चेदममन्यत॥ 10-13-17 (64624) स तद्दिव्यमदीनात्मा परमास्रमचिन्तयत्। जग्राह च शरैषीकां द्रौणिः सव्येन पाणिना॥ 10-13-18 (64625) स तामापदमासाद्य दिव्यमस्त्रमुदैरयत्। अमृष्यमाणस्ताञ्छूरान्दिव्यायुधधरान्स्थितान्। अपाण्डवायेति रुषा वाचमुत्सृज्य दारुणम्॥ 10-13-19 (64626) इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान्। सर्वलोकप्रमोहार्थं तदस्रं प्रमुमोच ह॥ 10-13-20 (64627) ततस्तस्यामिषीकायां पावकः समजायत। प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्कयमोपमः॥ ॥ 10-13-21 (64628) इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि त्रयोधशोऽध्यायः॥ 13 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-13-19 अपाण्डवाय पाण़्डवानामभावाय॥ 10-13-13 त्रयोदशोऽध्यायः॥
सौप्तिकपर्व - अध्याय 014

॥ श्रीः ॥

10.14. अध्यायः 014

Mahabharata - Sauptika Parva - Chapter Topics

अर्जुनेन कृष्णाज्ञया द्रौण्यस्त्रप्रत्यस्त्रप्रयोगः॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-14-0 (64629) वैशम्पायन उवाच। 10-14-0x (5291) इङ्गितेनैव दाशार्हस्तस्याभिप्रायमादितः। द्रौणेर्बुद्धा महाबाहुरर्जुनं प्रत्यभाषत॥ 10-14-1 (64630) अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते। द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव॥ 10-14-2 (64631) भ्रातॄणामात्मनश्चैव परित्राणाय भारत। विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम्॥ 10-14-3 (64632) केशवेनैवमुक्तोऽथ पाण्डवः परवीरहा। अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः॥ 10-14-4 (64633) पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने। भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः॥ 10-14-5 (64634) देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः। उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम्॥ 10-14-6 (64635) ततस्तदस्रं सहसा सृष्टं गाण्डीवधन्वना। प्रजज्वाल महार्चिष्मद्युगान्तानलसन्निभम्॥ 10-14-7 (64636) तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः। प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम्॥ 10-14-8 (64637) निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः। महद्भयं च भूतानां सर्वेषां समजायत॥ 10-14-9 (64638) सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम्। चचाल च मही कृत्स्ना सपर्वतवनद्रुमा॥ 10-14-10 (64639) तावस्त्रतेजसा लोकांस्त्रासयन्तौ ततः स्थितौ। महर्षी सहितौ तत्र दर्शयामासतुस्तदा॥ 10-14-11 (64640) नारदः सर्वधर्मात्मा भरतानां पितामहः। उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ॥ 10-14-12 (64641) तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैपिणौ। दीप्तयोरस्रयोर्मध्ये स्थितौ परमतेजसौ॥ 10-14-13 (64642) तदन्तरमनाधृष्यावुपगम्य यशस्विनौ। आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ॥ 10-14-14 (64643) प्राणभृद्भिरनाधृष्यौ देवदानवसम्मतौ। अस्त्रतेजः शमयितुं लोकानां हितकाम्यया॥ 10-14-15 (64644) ऋषी ऊचतुः। 10-14-16x (5292) महास्त्रविदुषः पूर्वे येऽप्यतीता महारथाः। नैतदस्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन। किमिदं साहसं वीरौ कृतवन्तौ महात्ययम्॥ ॥ 10-14-16 (64645) इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वमि चतुर्दशोऽध्यायः॥ 14 ॥
सौप्तिकपर्व - अध्याय 015

॥ श्रीः ॥

10.15. अध्यायः 015

Mahabharata - Sauptika Parva - Chapter Topics

अर्जुनेन व्यासनारदभावानुरोधेन स्वप्रयुक्तब्रह्मशिरोस्त्रप्रतिसंहारः॥ 1 ॥ कृष्णेनाश्वत्थामानं प्रति उत्तरागर्भे ऐषीकास्त्रपातेऽपि मृतशिशोः स्वेन समुज्जीवनप्रतिज्ञा॥ 2 ॥ ब्रह्मचर्याभावादस्रप्रतिसंहारासमर्थेन द्रौणिना व्यासकृष्णावनादृस्य पाण्वगर्भेष्वैषीकास्त्रोत्सर्जनम्॥ 3 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-15-0 (64646) वैशम्पायन उवाच। 10-15-0x (5293) दृष्टैव मुनिशार्दूलौ तावग्निसमतेजसौ। `गाण्डीवधन्वा सञ्चिन्त्य प्राप्तकालं महारथः।' सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः॥ 10-15-1 (64647) उवाच वचनं श्रेष्ठस्तावृषी प्राञ्जलिस्तदा। प्रमुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया॥ 10-15-2 (64648) संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः। पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा॥ 10-15-3 (64649) यदत्र हितमस्माकं लोकानां चैव सर्वथा। भवन्तौ देवसङ्काशौ तथा सम्मन्तुमर्हतः॥ 10-15-4 (64650) इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः। संहारो दुष्करस्स्य देवैरपि हि संयुगे॥ 10-15-5 (64651) विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे। अशक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः॥ 10-15-6 (64652) ब्रह्मतेजोद्भवं तद्धि विसृष्टमकृतात्मना। न शक्यमावर्तयितुं ब्रह्मचर्यव्रतादृते॥ 10-15-7 (64653) अचीर्णब्रह्मचर्यो यः सृष्ट्वाऽऽवर्यते पुनः। तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति॥ 10-15-8 (64654) ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत्। परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत॥ 10-15-9 (64655) सत्यव्रतधरः शूरो ब्रह्मचारी च पाण़्डवः। गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः॥ 10-15-10 (64656) द्रौणिरप्यथ सम्प्रेभ्य सोऽन्तरा तावृषी स्थितौ। न शशाक पुनर्घोरमस्त्रं संहर्तुमोजसा॥ 10-15-11 (64657) अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे। द्रौणिर्दीनमना राजन्द्वैपायनमभाषत॥ 10-15-12 (64658) उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना। मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने॥ 10-15-13 (64659) अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता। मिथ्याचारेण भगवन्भीमसेनेन संयुगे॥ 10-15-14 (64660) अतः सृष्टमिदं ब्रह्मन्मयाऽस्त्रमकृतात्मना। तस्य भूयोऽपि संहारं कर्तुं नाहमिहोत्सहे॥ 10-15-15 (64661) निसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम्। अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै॥ 10-15-16 (64662) तदिदं पाण्डवेयानामन्तायैवाभिसंहितम्। अद्य पाण्डुसुतान्सर्वाञ्जीविताद्वंशयिष्यति॥ 10-15-17 (64663) कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा। वधमाशास्य पार्थानां मयास्त्रं सृजता रणे॥ 10-15-18 (64664) व्यास उवाच। 10-15-19 (64665) अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः। उत्सृष्टवानहिंसार्थं न रोषेण तवाहवे॥ 10-15-19 (64666) अस्त्रमस्त्रेण तु रमे तव संशमयिष्यता। विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम्॥ 10-15-20 (64667) ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव। क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः॥ 10-15-21 (64668) एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः। सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि॥ 10-15-22 (64669) अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते। समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति॥ 10-15-23 (64670) एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः। न विहन्यात्तदस्त्रं तु प्रजाहितचिकीर्षया॥ 10-15-24 (64671) पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः। तस्मात्संहर दिव्यं त्वमस्त्रमेन्महाभुज॥ 10-15-25 (64672) अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः। न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति। 10-15-26 (64673) मणिं चैव प्रयच्छाद्य यस्ते शिरसि तिष्ठति। एतदादाय ते प्रामान्प्रतिदास्यन्ति पाण्डवाः॥ 10-15-27 (64674) द्रौणिरुवाच। 10-15-28x (5294) पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम्। अवाप्तमिह तेभ्योऽयं मणिर्मम विशिष्यते॥ 10-15-28 (64675) यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम्। देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन॥ 10-15-29 (64676) न च रक्षोगणभयं न तस्करभयं तथा। एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन॥ 10-15-30 (64677) यत्तु मे भगवानाह तन्मे कार्यमनन्तरम्। अयं मणिरयं चाहमिषीका तु पतिष्यति। गर्भेषु पाण्डुपुत्राणामुत्रायास्तथोदरे॥ 10-15-31 (64678) वैशम्पायन उवाच। 10-15-32x (5295) प्राह द्रोणसुतं तत्र व्यासः परमदुर्मनाः॥ 10-15-32 (64679) एवं कुरु न चान्यत्र बुद्धिः कार्या कथञ्चन। गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम॥ 10-15-33 (64680) `तमुवाच हृषीकेशः पाण्डवानां हिते मतः। भविष्यमेकमुत्सृज्य गर्भेष्वस्त्रं निपात्यताम्॥ 10-15-34 (64681) अहमेनं ददाम्येषां पिण्डदं कीर्तिवर्धनम्। राजर्षिं पुण्यकर्माणमनेकक्रतुयाजिनम्॥ 10-15-35 (64682) एवं कुरु न चान्या ते बुद्धिः कार्या कथञ्चन। आगर्भात्पाण्डवेयानां कृत्वा पातं विनङ्क्ष्यति'॥ 10-15-36 (64683) एवं ब्रुवाणं गोविन्दं वृषभं सर्वसात्वताम्। द्रौणिः परमसङ्क्रुद्धः प्रत्युवाचेदमुत्तरम्॥ 10-15-37 (64684) नैतदेवं यदात्थ त्वं पक्षपातेन केशव। वचनात्पुण्डरीकाक्ष तव मद्वाक्यमन्यथा॥ 10-15-38 (64685) पतिष्यत्येतदस्त्रं वै गर्भे तस्या मयोद्यतम्। विराटदुहितुः कृष्ण यं त्वं रक्षितुमर्हसि॥ 10-15-39 (64686) वासुदेव उवाच। 10-15-40x (5296) अमोघः परमास्त्रस्य पातस्त्वद्य भविष्यति। `अभिमन्योः सृजैषीकां गर्भस्थः शाम्यतां शिशुः॥ 10-15-40 (64687) अहमेनं मृतं जातं जीवयिष्यामि बालकम्'। स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति॥ 10-15-41 (64688) `इत्युक्तः प्रत्युवाचैनं द्रोणपुत्रः स्मयन्निव। यद्यस्त्रदग्धं गोविन्द जीवयस्येवमस्त्विति'॥ 10-15-42 (64689) ततः परममस्त्रं तु द्रौणिरुद्यतमाहवे। द्वैपायनमनादृत्य गर्भेषु प्रमुमोच ह॥ ॥ 10-15-43 (64690) इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि पञ्चदशोऽध्यायः॥ 15 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-15-8 आवर्तयते उपसंहरति॥ 10-15-27 एवं जीवितमादाय तव यास्यन्ति पाण्डवाः। इति क.पाठः॥ 10-15-29 मम वध्यमयं नास्तीति क.पाठः॥ 10-15-15 पञ्चदशोऽध्यायः॥
सौप्तिकपर्व - अध्याय 016

॥ श्रीः ॥

10.16. अध्यायः 016

Mahabharata - Sauptika Parva - Chapter Topics

कृष्णेन स्ववचनोल्लङ्घनेनास्त्रप्रयोक्तुरश्वत्थाम्नः शापदानां व्यासेन तदनुमोदनं च॥ 1 ॥ भीमेन द्रौणिमस्तकमणिदा नेन द्रौपदीसमाश्वासनम्॥ 2 ॥ युधिष्ठिरेण द्रौपदीवचनात्स्वमस्तके तन्मणिधारणम्॥ 3 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-16-0 (64691) वैशम्पायन उवाच। 10-16-0x (5297) तदाज्ञाय हृषीकेशो विकृष्टं पापकर्मणा। हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा॥ 10-16-1 (64692) विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः। उपप्लाव्यगतां दृष्ट्वा ऋतवाग्ब्रह्मणोऽब्रवीत्॥ 10-16-2 (64693) परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति। एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति॥ 10-16-3 (64694) तस्य तद्वचनं साधोः सत्यमेद्भविष्यति। परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः॥ 10-16-4 (64695) त्वां तु कापुरुषं पापं विंदुः सर्वे मनीषिणः। असकृत्पापकर्माणं बालजीवितघातकम्॥ 10-16-5 (64696) तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि। त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम्॥ 10-16-6 (64697) अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित्। निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि॥ 10-16-7 (64698) भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः। पूयशोणिगन्धी च दुर्गकान्तारसंश्रयः। 10-16-8 (64699) विचरिष्यसि पापात्मंश्चिरमेको वसुन्धराम्॥ वयः प्राप्य परिक्षित्तुं देवव्रतमवाप्य च। 10-16-9 (64700) कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते॥ विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः। 10-16-10 (64701) षष्टिं वर्षामि धर्मात्मा वसुधां पालयिष्यति॥ इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति। 10-16-11 (64702) परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते॥ [अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा]। 10-16-12 (64703) पश्य मे तपसो वीर्यं सत्यस्य च नराधम॥ 10-16-13 (64704) व्यास उवाच। यस्मादनादृत्य कृतं त्वयाऽस्मान्कर्म दारुणम्। ब्राह्मणस्य सतश्चेदं वृत्तमन्यायवर्तिनः॥ 10-16-13x (5298) तस्माद्यद्देवकीपुत्र उक्वानुत्तमं वचः। आलोकात्तव तद्भावि क्षुद्रकर्मन्व्रजेति ह॥ 10-16-14 (64705) अश्वत्थामोवाच। 10-16-15x (5299) सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्विह। सत्यवागस्तु भगवानयं च पुरुषोत्तमः॥ 10-16-15 (64706) वैशम्पायन उवाच। 10-16-16x (5300) प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम्। जगाम विमनास्तेषां सर्वेषां पश्यतां वनम्॥ 10-16-16 (64707) पाण्डवाश्च सदाशार्हास्तानृषीनभिवाद्य च। कृष्णद्वैपायनं चैव नारदं चैव पर्वतम्॥ 10-16-17 (64708) द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः। द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम्॥ 10-16-18 (64709) वैशम्पयन उवाच। 10-16-19x (5301) ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः। अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव हि॥ 10-16-19 (64710) अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः। ददृशुर्द्रौपदीं हृष्टामार्तामार्ततराः स्वयम्॥ 10-16-20 (64711) तामुपेत्य निरानन्दां दुःखशोकसमन्विताम्। परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः॥ 10-16-21 (64712) ततो राज्ञाऽभ्यनुज्ञातो भीमसेनो महाबलः। प्रददौ तं मणिं दिव्यं वचनं चेदमब्रवीत्॥ 10-16-22 (64713) अयं भद्रे तव मणिः पुत्रहन्ता जितश्च ते। उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर॥ 10-16-23 (64714) प्रयाणे वासुदेवस्य शमार्थवसितेक्षणे। यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि॥ 10-16-24 (64715) नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च। न वै त्वमिति गोविन्द शममिच्छति राजनि॥ 10-16-25 (64716) उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम्। क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि॥ 10-16-26 (64717) हतो दुर्योधनः पापो राज्यस्य परिपन्थिकः। दुःशासनस्य रुधिरं पीतं विस्फुरतो मया॥ 10-16-27 (64718) वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम्। जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च॥ 10-16-28 (64719) यशोऽस्य पतितं देवि शरीरं त्ववशेषितम्। वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि॥ 10-16-29 (64720) द्रौपद्युवाच। 10-16-30x (5302) केवलानृण्यमाप्ताऽस्मि गुरुपुत्रो गुरुर्मम। शिरस्येतं मणिं राजा ग्रहीतुमनघोऽर्हति॥ 10-16-30 (64721) तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा। गुरोरुच्छेषमित्येव द्रौपद्या वचनादपि॥ 10-16-31 (64722) ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः। शुशुभे स तदा राजा सचन्द्र इव पर्वतः॥ 10-16-32 (64723) उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी। कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट्॥ ॥ 10-16-33 (64724) इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि षोडशोऽध्यायः॥ 16 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-16-7 संविदं संलापम्॥ 10-16-18 प्रायोपेतां मरणार्थं यो नियमस्तेनोपेताम्॥ 10-16-20 हृष्टामश्वत्थाम्नः पराभवेन। आर्तां पुत्रादेः शोकेन॥ 10-16-24 मधुघातिनि मधुदैत्यहन्तरी॥ 10-16-28 विवक्षतां वक्तुमिच्छतां वाच्याः निन्द्याः नैव स्म॥ 10-16-16 षोडशोऽध्यायः॥
सौप्तिकपर्व - अध्याय 017

॥ श्रीः ॥

10.17. अध्यायः 017

Mahabharata - Sauptika Parva - Chapter Topics

युधिष्ठिरेण द्रौणेरेकस्य बहुमारणशक्तिप्रश्ने कृष्णेन रुद्रप्रसादादित्युक्त्वा रुद्रमहिमकथनम्॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-17-0 (64725) वैशम्पायन उवाच। 10-17-0x (5303) हतेषु सर्वसैन्येषु सौप्तिकै तै रथैस्त्रिभिः। शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत्॥ 10-17-1 (64726) कथं नु कृष्ण पापेन क्षुद्रेण शठबुद्धिना। द्रौणिना निहताः सर्वे मम पुत्रा महारथाः॥ 10-17-2 (64727) तथा कृतास्रविक्रान्ताः सङ्ग्रामेष्वपलायिनः। द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः॥ 10-17-3 (64728) यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्। निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः॥ 10-17-4 (64729) किन्नु तेन कृतं कर्म तथायुक्तं नरर्षभ। यदेकः समरे सर्वानवधीन्नो गुरोः सुतः॥ 10-17-5 (64730) श्रीभगवानुवाच। 10-17-6x (5304) नूनं स देवदेवानामीश्वरेश्वरमव्ययम्। जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्॥ 10-17-6 (64731) प्रसन्नो हि महादेवो दद्यादमरतामपि। वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्॥ 10-17-7 (64732) वेदाहं हि महादेवं तत्त्वेन भरतर्षभ। यानि चास्यपुराणानि कर्माणि विविधानि च॥ 10-17-8 (64733) आदिरेष हि भूतानां मध्यमन्तश्च भारत। विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा॥ 10-17-9 (64734) एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः। पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम्॥ 10-17-10 (64735) हरिकेशस्तथेत्युक्वा दीर्घदर्शी तदा प्रभुः। दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः॥ 10-17-11 (64736) सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः। स्रष्टारं सर्वभूतानां ससर्ज मनसाऽपरम्॥ 10-17-12 (64737) सोऽब्रवीद्वातरं दृष्ट्वा गिरिशं सुप्तमम्भसि। यदि मे नाग्रजोऽस्त्यन्यस्ततः स्रक्ष्याम्यहं प्रजाः॥ 10-17-13 (64738) तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः। स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै प्रजाः॥ 10-17-14 (64739) भूतान्यन्वसृजत्सप्त दक्षः क्षिप्रं प्रजापतिः। यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्॥ 10-17-15 (64740) ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्। बिभक्षयिवो राजन्सहसा प्राद्रवंस्तदा॥ 10-17-16 (64741) स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्। आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम्॥ 10-17-17 (64742) ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च। जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्॥ 10-17-18 (64743) विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम्। ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु॥ 10-17-19 (64744) भूतग्रामे विवृद्वे तु सृष्टे देवासुरे तदा। उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः॥ 10-17-20 (64745) बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा। चुक्रोध बलवद्दृष्ट्वा लिङ्गं स्वं चाप्यविध्यत॥ 10-17-21 (64746) तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत। तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव॥ 10-17-22 (64747) किं कृतं सलिले शर्व चिरकालस्थितेन ते। किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्॥ 10-17-23 (64748) सोऽब्रवीज्जातसंरम्भस्तथा लोकगुरुर्गुरुम्। प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै॥ 10-17-24 (64749) प्रजाः सृष्टाः परेणेमाः प्रजार्थं मे पितामह। ओषध्यः परिवर्तेरन्यथैवं सततं प्रजाः॥ 10-17-25 (64750) एवमुक्त्वा स सक्रोधो जगाम विमना भवः। गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः॥ ॥ 10-17-26 (64751) इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि सप्तदशोऽध्यायः॥ 17 ॥
सौप्तिकपर्व - अध्याय 018

॥ श्रीः ॥

10.18. अध्यायः 018

Mahabharata - Sauptika Parva - Chapter Topics

कृष्णेन युधिष्ठिरम्प्रति रुद्रस्य कोपप्रसादाक्ष्यां देवानां यज्ञनाशतत्प्रवृत्तिकथनपूर्वकं तत एवाश्वत्थामद्वारा पुत्रादिवध सम्भवकथनम्॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text

10-18-0 (64752) कश्रीभगवानुवाच। 10-18-0x (5305) ततो देवयुगेऽतीते देवा वै समकल्पयन्। यज्ञवेदप्रमाणेन विधिवद्यष्टुमीप्सवः॥ 10-18-1 (64753) कल्पयामासुरथ ते साधनानि हवींषि च। भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च॥ 10-18-2 (64754) ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः। नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप॥ 10-18-3 (64755) सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः। तपसा यज्ञमन्विच्छन्धनुरादौ ससर्ज ह॥ 10-18-4 (64756) लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः। पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत्॥ 10-18-5 (64757) लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः। धनुः सृष्टमभूत्तस्य षष्टिकिष्कुप्रमाणतः॥ 10-18-6 (64758) वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत। यज्ञाङ्गानि च चत्वारि तस्य सन्नहनेऽभवन्॥ 10-18-7 (64759) ततः क्रुद्धो महादेवस्दुपादाय कार्मुकम्। आजगामाथ तत्रैव यत्र देवाः समीजिरे॥ 10-18-8 (64760) तमात्कार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्। विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे॥ 10-18-9 (64761) न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः। व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्॥ 10-18-10 (64762) न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः। तिमिरेणाकुलं सर्वमाकाशं चाभवृद्वृतम्॥ 10-18-11 (64763) अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे। न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा॥ 10-18-12 (64764) ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा। अपक्रान्स्ततो यज्ञो मृगो भूत्वा सपावकः॥ 10-18-13 (64765) स तु तेनैव रूपेण दिविस्थो वै व्यराजत। अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले॥ 10-18-14 (64766) अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान्। नष्टसंज्ञेषु देवेषु न प्राज्ञायत किञ्चन॥ 10-18-15 (64767) त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा। पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्॥ 10-18-16 (64768) प्राद्रवन् ततो देवा यज्ञाङ्गानि च सर्वशः। केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्॥ 10-18-17 (64769) स तु विद्राव्य तत्सर्वं शितिकम्ठोऽवहस्य च। अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः॥ 10-18-18 (64770) ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्। अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः॥ 10-18-19 (64771) ततो विधनुषं देवा देवश्रेष्ठमुपागमन्। शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः॥ 10-18-20 (64772) ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये। स जलं पावको भूत्वा शोषयत्यनिशं प्रभो॥ 10-18-21 (64773) भगस्य नयने चैव बाहू च सवितुस्तथा। प्रादात्पूष्णश्च दशनान्पुनर्यज्ञांश्च पाण्डव॥ 10-18-22 (64774) ततः सुस्थमिदं सर्वं बभूव पुनरेव हि। सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्॥ 10-18-23 (64775) तस्मिन्क्रुद्धेऽभवत्सर्वमसुस्थं भुवनं प्रभो। प्रसन्ने च पुनः सुस्थं जगद्भवति भारत॥ 10-18-24 (64776) ततस्ते निहताः सर्वे तव पुत्रा महारथाः। अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः॥ 10-18-25 (64777) न तन्मनसि कर्व्यं न च तद्द्रौणिना कृतम्। महादेवप्रसादः स कुरुकार्यमनन्तरम्॥ ॥ 10-18-26 (64778)

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां सौप्तिकपर्वणि ऐषीकपर्वणि अष्टादशोऽध्यायः॥ 18 ॥ समाप्तं ऐषीकपर्व ॥ 2 ॥ सौप्तिकपर्व च समाप्तम्॥ 10 ॥

अस्यानन्रं स्त्रीपर्व भविष्यति तस्यायमाद्यः श्लोकः। 10-18-1 (64779) 10-18-1x (5306) जनमेजय उवाच। हते दुर्योधने चैव हते सैन्ये च सर्वशः। धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने॥

Mahabharata - Sauptika Parva - Chapter Footnotes

10-18-5 लोकयज्ञो लोकेषणा सर्वो मां साधुमेव जानात्विति वासनारूपः। क्रियायज्ञः गर्भाधानादिसंस्काररूपः। गृहयज्ञः पत्नीसाध्याग्निहोत्रादिः। पञ्चभूतनृयज्ञः पञ्चभूतानां गुणैः शब्दादिभिर्या नृणां प्रीतिस्तद्रूपः। विषयजं सुखमित्यर्थः। एतैरेव चतुर्भिर्यज्ञैः सर्वं जगत्सृष्टम्॥ 10-18-6 तत्र मध्यमयोः शास्त्रोक्तयोर्यज्ञयोर्नाशार्थं प्रथमचरमयज्ञाभ्यामीश्वरो धनुः कृतवान् किष्कुर्हस्तः॥ 10-18-18 अष्टादशोऽध्यायः॥


AUM shantiH