Mahabharata - महाभारतम्
Sanskrit Documents | Critical Edition | Southern Recension | Mahabharata Resources

Kumbhaghonam Edition

14. आश्वमेधिकपर्व

आश्वमेधिकपर्व - अध्याय 001

॥ श्रीः ॥

14.1. अध्यायः 001

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

गङ्गायां भीष्मायोदकदानानन्तरं बन्धुशोकविषण्णं युधिष्ठिरंप्रति धृतराष्ट्रेण समाश्वासनम्॥ 1 ॥ तथा विदुरवचनानादरेण स्वस्यैतादृशानर्थप्राप्तिकथनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

श्रीवेदव्यासाय नमः। नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 14-1-1 (92367) वैशम्पायन उवाच। 14-1-2x (7730) कृतोदकस्तु राजानं धृतराष्ट्रं युधिष्ठिरः। पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः॥ 14-1-2 (92368) उत्तीर्य तु महाबाहुर्बाष्पव्याकुललोचनः। पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः॥ 14-1-3 (92369) तं सीदमानं जग्राह भीमः कृष्णेन चोदितः। मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः॥ 14-1-4 (92370) तमार्तं पतितं भूमौ श्वसन्तं च पुनः पुनः। तदृशुः पार्थिवा राजन्धर्मपुत्रं युधिष्ठिरम्॥ 14-1-5 (92371) त दृष्ट्वा दीनमनसं गतसत्वं नरेश्वरम्। भूयः शोकसमाविष्टाः पाण्डवाःक समुपाविशन्॥ 14-1-6 (92372) राजा तु धृतराष्ट्रस्तं तथा दीनो महाभुजम्। वाक्यमाह महाबुद्धिः प्रज्ञाचक्षुर्नरेश्वरम्॥ 14-1-7 (92373) उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम्। क्षत्रधर्मेण कौन्तेय जितेयमवनी त्वया॥ 14-1-8 (92374) भुङ्क्ष सार्धं भ्रातृभिस्तां सुहृद्भिश्च जनेश्वर। शोचितव्यं न पश्यामि त्वया धर्मभृतांवर॥ 14-1-9 (92375) शोचितव्यं मया चैव गान्धार्या च महीपते। ययोः पुत्रशतं नष्टं स्वप्नलब्धं यथा धनम्॥ 14-1-10 (92376) अश्रुत्वा हितकामस्य विदुरस्य महात्मनः। वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः॥ 14-1-11 (92377) उक्तवान्विदुरो यन्मां धर्मात्मा दिव्यदर्शनः। दुर्योधनापराधेन कुलं ते विनशिष्यति॥ 14-1-12 (92378) स्वस्ति चेदिच्छसे राजन्कुलस्य कुरु मे वचः। वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः॥ 14-1-13 (92379) कर्णश्च शकुनिश्चैव नैनं पश्यतु कर्हिचित्। द्यूतसङ्घातमप्येषामप्रमादेन वारय॥ 14-1-14 (92380) अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम्। स पालयिष्यति वशी धर्मेण पृथिवीमिमाम्॥ 14-1-15 (92381) अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम्। `विनाशमुपयास्तन्ति तव पुत्रा न संशयः।' मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव॥ 14-1-16 (92382) समं सर्वेषु भूतेषु वर्तमानं नराधिप। अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धंन॥ 14-1-17 (92383) एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि। दुर्योधनमहं पापमन्ववर्तं वृथामतिः॥ 14-1-18 (92384) अश्रुत्वा तस्य धीरस्य वाक्यानि मधुराण्यहम्। फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे॥ 14-1-19 (92385) वृद्धौ हि तेऽद्य पितरौ पश्य नौ दुःखितौ नृप। न शोचितव्यं भवता पश्यामीह जनाधिप॥ ॥ 14-1-20 (92386) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि प्रथमोऽध्यायः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-1-1 कृतोदकं त्विति झ.पाठः॥ 7-1-2 उत्ततार गङ्गात इति शेषः॥
आश्वमेधिकपर्व - अध्याय 002

॥ श्रीः ॥

14.2. अध्यायः 002

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

धृतराष्ट्रेण समाश्वासनेपि तूष्णीं तिष्ठन्तो युधिष्ठिरस्य कृष्णेन परिसान्त्वनम्॥ 1 ॥ पुनर्भीष्मद्रोणकर्णमारणानुस्मरण विषादेनारण्यगमनाय कृष्णानुज्ञानमाकाङ्क्षमाणस्य युधिष्ठिरस्य व्यासेनि परिसान्त्वनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। एवमुक्तस्तु राजाऽसौ धृतराष्ट्रेण धीमता। तूष्णींबभूव मेधावी तमुवाचाथ केशवः॥ 14-2-1 (92387) अतीव मनसा शोकः क्रियमाणो जनाधिप। सन्तपयति चैतस्य पूर्वप्रेतान्पितामहान्॥ 14-2-2 (92388) यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः। देवांस्तर्पय सोमेन स्वधया च पितॄनपि॥ 14-2-3 (92389) अतिथीनन्नपानेन कामैरन्यैरकिञ्चनान्। `त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते।' विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम्॥ 14-2-4 (92390) श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात्। कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा॥ 14-2-5 (92391) नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम्। पितृपैतामहं वृत्तमास्थाय धुरमुद्वह॥ 14-2-6 (92392) युक्तं हि यशसा क्षात्रं स्वर्गं प्राप्तुमसंशयम्। नहि कश्चिद्धि शूरणां निहतोऽत्र पराङ्मुखः॥ 14-2-7 (92393) त्यज शोकं महाराज भवितव्यं हि तत्तथा। न शक्यास्ते पुनर्द्रष्टुं त्वया येऽस्मिन्रणे हताः॥ 14-2-8 (92394) एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम्। विरराम महातेजास्तमुवाच युधिष्ठिरः॥ 14-2-9 (92395) गोविन्द मयि या प्रीतिस्तव सा विदिता मम। सौहृदेन तथा प्रेम्णा सदा मय्यनुकम्पसे॥ 14-2-10 (92396) प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर। श्रीमन्प्रीतेन मनसाक सर्वं यादवनन्दन॥ 14-2-11 (92397) यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम्। `कृतकृत्यो भविष्यामि इति मे निश्चिता मतिः'॥ 14-2-12 (92398) न हि शान्तिं प्रपश्यामि पातयित्वा पितामहम्। `नृशंसः पुरुषव्याघ्रं गुरुं वीर्यबलान्वितम्।' कर्णं च पुरुषव्याघ्नं सङ्ग्रामेष्वपलायिनम्॥ 14-2-13 (92399) कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम। कर्मणा तद्विधत्स्वेह येन शुध्यति मे मनः॥ 14-2-14 (92400) तमेवंवादिनं पार्थं व्यासः प्रोवाच धर्मवित्। सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत्॥ 14-2-15 (92401) सुकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे। किमाकाशे वयं सर्वे प्रलपामो मुहुर्मुहुः॥ 14-2-16 (92402) विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका। तथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यसे॥ 14-2-17 (92403) मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः। `यथा वै कामजां मायां परित्युक्तं त्वमर्हसि॥' 14-2-18 (92404) असकृच्चापि सन्देहाश्छिन्नास्ते कामजा मया। अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम्॥ 14-2-19 (92405) मैवं भव न ते युक्तमिदमज्ञानमीदृशम्॥ 14-2-20 (92406) प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ। राजधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः॥ 14-2-21 (92407) स कथं सर्वधर्मज्ञः सर्वागमविशारदः। परिमुह्यसि भूयस्त्वमज्ञानादिव भारत॥ ॥ 14-2-22 (92408) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि द्वितीयोऽध्यायः॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-2-16 पुनर्बाह्मेन मुह्यसे इति क.ट.पाठः॥ 16 ॥
आश्वमेधिकपर्व - अध्याय 003

॥ श्रीः ॥

14.3. अध्यायः 003

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

व्यासेन युधिष्ठिरंप्रति पुरुषकर्मणामीश्वरप्रेरणायत्ततया दोषानापादकत्वकथनपूर्वकं तदभ्युपगमेनापि पापापनोदायाश्वमेधादिविधानम्॥ 1 ॥ युधिष्ठिरेण स्वस्य तावद्द्रव्याभावनिवेदने व्यासेन तंप्रति हिमवति गिरौ विद्यमानमरुत्तयागावशिष्टद्रव्यानयनेनाश्वमेधकरणचोदना॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

व्यास उवाच। युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः। न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम्॥ 14-3-1 (92409) ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः। करोत्यसुकरं कर्म तत्रका परिदेवना॥ 14-3-2 (92410) आत्मानं मन्यसे चाथ पापकर्माणमन्ततः। शृणु तत्र यथा पापमपकृत्येत भारत॥ 14-3-3 (92411) तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर। तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते॥ 14-3-4 (92412) यज्ञेन तपसा चैव दानेन च नराधिप। पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः॥ 14-3-5 (92413) असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्। प्रवर्तन्ते महात्मानस्तस्माद्यज्ञः परायणम्॥ 14-3-6 (92414) यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः। ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्॥ 14-3-7 (92415) राजसूयाश्वमेधौ च सर्वमेधं च भारत। नरमेधं च नृपते त्वमाहर युधिष्ठिर॥ 14-3-8 (92416) यजस्व वाजिमेधेन विधिवद्दक्षिणावता। बहुकामान्नवित्तेन रामो दाशरथिर्यथा॥ 14-3-9 (92417) यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः। शाकुन्तलो महावीर्यस्तव पूर्वपितामहः॥ 14-3-10 (92418) युधिष्ठिर उवाच। 14-3-11x (7731) असंशयं वाजिमेधः पारयेत्पृथिवीमपि। अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि॥ 14-3-11 (92419) इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम। `अहमाराधयिष्यामि कथं शोकपरायणः।' दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे॥ 14-3-12 (92420) न तु बालानिमान्दीनानुत्सहे वसु याचितुम्। तथैवाद्रविणान्कृच्छ्रे वर्तमानान्नृपात्मजान्॥ 14-3-13 (92421) स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम। करमाहारयिष्यामि कथं शोकपरायणः॥ 14-3-14 (92422) दुर्योधनापराधेनि वसुधायां नराधिपाः। प्रनष्टा योजयित्वाऽस्मानकीर्त्या मुनिसत्तम॥ 14-3-15 (92423) दुर्योधनेन पृथिवी क्षपिता जयकारणात्। कोशश्चापि विशीर्णोसौ धार्तराष्ट्रस्य दुर्मतेः॥ 14-3-16 (92424) पृथिवी दक्षिणा चात्र वाजिमेधे महाक्रतौ। विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः॥ 14-3-17 (92425) न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन। अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि॥ 14-3-18 (92426) एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा। मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत्॥ 14-3-19 (92427) कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति। विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्॥ 14-3-20 (92428) उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपते। तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति॥ 14-3-21 (92429) युधिष्ठिर उवाच। 14-3-22x (7732) कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम्। कस्मिंश्च काले स नृपो बभूव ददतांवर॥ 14-3-22 (92430) व्यास उवाच। 14-3-23x (7733) यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम्। यस्मिन्काले महावीर्यः स राजाऽऽसीन्महाधनः॥ ॥ 14-3-23 (92431) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि तृतीयोऽध्यायः॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-3-18 प्रतिनिधिमनुकल्पम्॥
आश्वमेधिकपर्व - अध्याय 004

॥ श्रीः ॥

14.4. अध्यायः 004

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

व्यासेन युधिष्ठिरंप्रति संवर्तमरुत्तीयोपाख्यानकथनारम्भः॥ 1 ॥ मरुत्तेन राज्ञा हिमवदुत्तरपार्श्वे सौवणैंरेव कुण्डभाडाद्युपकरणैर्यज्ञारम्भः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम्। द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ॥ 14-4-1 (92432) व्यास उवाच। 14-4-2x (7734) आसीत्कृतयुगे तात मनुर्दण्डिधरः प्रभुः। तस्य पुत्रो महोष्वासः प्रजातिरभवन्नृपः॥ 14-4-2 (92433) प्रजातेरभवत्पुत्रः क्षुत इत्यभिविश्रुतः। क्षुतस्य पुत्र इक्ष्वाकुर्महीपालोऽभवत्प्रभुः॥ 14-4-3 (92434) तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम्। तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः॥ 14-4-4 (92435) तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम्। विंशस्य पुत्रः कल्याणो विविंशो नाम भारत॥ 14-4-5 (92436) विविंशस्य सुता राजन्बभूवुर्दश पञ्च च। सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः॥ 14-4-6 (92437) दानधर्मरताः शान्ताः सततं प्रियवादिनः। तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत्॥ 14-4-7 (92438) खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम्। नाशकद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः॥ 14-4-8 (92439) तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम्। अभ्यषिञ्चन्त राजेन्द्र मुदिता ह्यभवंस्तदा॥ 14-4-9 (92440) स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं च तत्। नियतो वर्तयामास प्रजाहितचिकीर्षया॥ 14-4-10 (92441) ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः। प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम्॥ 14-4-11 (92442) तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम्। तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन्॥ 14-4-12 (92443) स पीड्यमानो बहुभिः क्षीणकोशाश्ववाहनः। आर्तिमार्च्छत्परां राजा सह भृत्यैः पुरेण च॥ 14-4-13 (92444) न चैनमभिहन्तुं ते शक्नुवन्ति बलक्षये। सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर॥ 14-4-14 (92445) यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः। ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम्॥ 14-4-15 (92446) ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान्। एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः॥ 14-4-16 (92447) आवीक्षित्तस्य पुत्रोऽभूत्त्रेतायुगमुखे पुरा। इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः॥ 14-4-17 (92448) `कारंधम इति ख्यातो बभूव जगतीपतिः।' तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा। स हि सम्राडभूत्तेषां वृत्तेन च बलेन च॥ 14-4-18 (92449) अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत्। यज्ञशीलो धर्मरतिर्धृतिमान्संयतेन्द्रियः॥ 14-4-19 (92450) तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः॥ 14-4-20 (92451) कर्मणा मनसा वाचा दमेन प्रशमेन च। मनांस्याराधयामास प्रजानां स महीपतिः॥ 14-4-21 (92452) य ईजे हयमेधानां शतेन विधिवत्प्रभुः। याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः॥ 14-4-22 (92453) तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया। मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः। नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः॥ 14-4-23 (92454) स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत। कारयामास शुभ्राणि भाजनानि सहस्रशः॥ 14-4-24 (92455) मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे। काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः॥ 14-4-25 (92456) ततः कुण्डानि पात्रीश्च पिठराण्यासंनानि च। चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते॥ 14-4-26 (92457) तस्यैव च समीपे तु यज्ञवाटो बभूव ह। ईजे तत्र स धर्मात्मा विदिवत्पृथिवीपतिः। मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः॥ ॥ 14-4-27 (92458) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि चतुर्थाऽध्यायः॥ 4 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-4-1 शुश्रूषे श्रोतुमिच्छामि॥ 7-4-21 पूर्वजानां महीपतिरिति क.थ.पाठः॥ 7-4-25 दैवं तत्र समासाद्येति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 005

॥ श्रीः ॥

14.5. अध्यायः 005

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

अङ्गीरसः पुत्रेण संवर्तेनाकारणवैरिणः स्वाग्रजन्मनो बृहस्पतेरुपद्रवासहनेन सर्वस्वत्यागपूर्वकमरण्यप्रवेशः॥ 1 ॥ इन्द्रेण स्वातिशायिनि मरुत्ते राजनि स्पर्धया बृहस्पतिसाचिव्येन ततोप्यतिशयलिप्सया मरुत्तपुरोहितस्य बृहस्पतेर्भेदोपायेन वशीकरणम्॥ 2 ॥ बृहस्पतिनेन्द्रंप्रति मरुत्तस्य स्वेनायाजनप्रतिज्ञानम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। पथंवीर्यः समभवत्स राजा ददतांवरः। कथं च जातरूपेण समयुज्यत वै नृपः॥ 14-5-1 (92459) क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते। कथं च शक्यमस्माभिस्तदवाप्नुं तचपोधन॥ 14-5-2 (92460) व्यास उवाच। 14-5-3x (7735) असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः। अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम्॥ 14-5-3 (92461) तथैवाङ्गिरसः पुत्रौ पितृतुल्यौ बभूवतुः। बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः॥ 14-5-4 (92462) तावति स्पर्धिनौ राजन्पृथगास्तां परस्परम्। बृहस्पतिः स संवर्तं बाधते स्म पुनःपुनः॥ 14-5-5 (92463) स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत। अर्थानुत्सृज्य दिग्वासा वने वासमरोचयत्॥ 14-5-6 (92464) वासवोऽप्यसुरान्सर्वान्विजित्य च निपात्य च। इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम्॥ 14-5-7 (92465) पुत्रमङ्गिरसो ज्येष्ठं विप्रज्येष्ठं बृहस्पतिम्। याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः॥ 14-5-8 (92466) वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च। शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः। 14-5-9 (92467) वाहनं यस्य योधाश्च मित्राणि विविधानि च। शयनानि च मुख्यानि महार्हाणि च सर्वशः॥ 14-5-10 (92468) ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः। स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः॥ 14-5-11 (92469) संजीव्य कालमिष्टं च सशरीरो दिवं गतः। बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्॥ 14-5-12 (92470) अविक्षिन्नाम शत्रुंजित्स वशे कृतवान्महीम्। विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः॥ 14-5-13 (92471) तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्। पुत्रस्तमनुरक्ताऽभूत्पृथिवी सागराम्बरा॥ 14-5-14 (92472) स्पर्धते स स्म सततं देवराजेन नित्यदा। वासवोऽपि मरुत्तेनि स्पर्धते पाण्डुनन्दन॥ 14-5-15 (92473) शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः। यतमानोपि यं शक्रो न विशेषयति स्म ह॥ 14-5-16 (92474) सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम्। उवाचेदं वचो देवैः सहितो हरिवाहनः॥ 14-5-17 (92475) बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन। दैवं कर्माथ पित्र्यं वा कर्तासि मम चेत्प्रियम्॥ 14-5-18 (92476) अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते। इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः॥ 14-5-19 (92477) कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्। याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया॥ 14-5-20 (92478) मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्। परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम्॥ 14-5-21 (92479) एवमुक्तः स करकव्य देवराज्ञा बृहस्पतिः। मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत्॥ 14-5-22 (92480) त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः। नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च॥ 14-5-23 (92481) त्वमाजहर्थ् देवानामेको वीरश्रियं पराम्। त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन॥ 14-5-24 (92482) परोहित्यं कथं कृत्वा तव देवगणेश्वर। याजयेयमहं मर्त्यं मरुत्तं पाकशासन॥ 14-5-25 (92483) समाश्वसिहि देवेन्द्र नाहं मर्त्यस्य कर्हिचित्। ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम॥ 14-5-26 (92484) हिरण्यरेता नोष्णः स्यात्परिवर्तेत मेदिनी। भासं तु न रविः कुर्यान्न तु सत्यं चलेन्मयि॥ 14-5-27 (92485) व्यास उवाच। 14-5-28x (7736) बृहस्पतिवचःक श्रुत्वा शक्रो विगतमत्सरः। प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा॥ ॥ 14-5-28 (92486) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि पञ्चमोऽध्यायः॥ 5 ॥
आश्वमेधिकपर्व - अध्याय 006

॥ श्रीः ॥

14.6. अध्यायः 006

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

बृहस्पतिना इन्द्रे स्वेन मरुत्तस्यायाजनप्रतिज्ञानश्रवणामर्षिणा मरुत्तेनि स्वयाजनप्रार्थेन तत्प्रत्याख्यानम्॥ 1 ॥ ततः प्रतिनिवृत्तस्य मरुत्तस्य मध्येमार्गं नारदसमागमः॥ 2 ॥ नारदचोदनया मरुत्तेन वाराणसीद्वारे स्वेन स्थापितकुणपावलोकनेन प्रलायमानं संवर्तं प्रत्यनुगमनम्॥ 3 ॥ संवर्तेन तत्प्रतिनिवर्तनाय पांसुकदमप्रक्षेपेप्यनिवर्तमानं तमवलोक्यं विजने न्यग्रोधमूले समुपवेशः॥ 4 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

व्यास उवाच। अत्राप्युदाहरन्तीमममितिहासं पुरातनम्। बृहस्पतेश्च संवादं मरुत्तस्य च धीमतः॥ 14-6-1 (92487) देवराजस्य समयं कृतमाङ्गिरसेन ह। श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्परम्॥ 14-6-2 (92488) सङ्कल्प्य मनसा यज्ञं करंधमसुतात्मजः। बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत्॥ 14-6-3 (92489) भगवन्यन्मया पूर्वमभिगम्य तपोधन। कृतोऽभिसन्धिर्यज्ञस्य भवतो वचनाद्गुरो॥ 14-6-4 (92490) तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे। याज्योस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च॥ 14-6-5 (92491) बृहस्पतिरुवाच। 14-6-6x (7737) न कामये याजयितुं त्वामहं पृथिवीपते। वृतोस्मि देवराजेन प्रतिज्ञातं च तस्य मे॥ 14-6-6 (92492) मरुत्त उवाच। 14-6-7x (7738) पित्र्यमस्मि तव क्षेत्रं बहुमन्ये च ते भृशम्। तवास्मि याज्यातां प्राप्तो भजमानं भजस्व माम्॥ 14-6-7 (92493) बृहस्पतिरुवाच। 14-6-8x (7739) अमर्त्यं याजयित्वाऽहं याजयिष्ये कथं नरम्। मरुत्त गच्छ वा मा वा निवृत्तोस्म्यद्य याजनात्॥ 14-6-8 (92494) न त्वां याजयितास्म्यद्य वृणु यं त्वमिहेच्छसि। उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति॥ 14-6-9 (92495) व्यास उवाच। 14-6-10x (7740) एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत्। प्रत्यागच्छन्सुसंविग्नो ददर्श पथि नारदम्॥ 14-6-10 (92496) देवर्षिणा समागम्य नारदेनि स पार्थिवः। विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत्॥ 14-6-11 (92497) राजर्षे नातिहृष्टोसि कच्चित्क्षेमं तवानघ। क्व गतोसि कुतश्चेदमप्रीतिस्थानमागतम्॥ 14-6-12 (92498) श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ। व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप॥ 14-6-13 (92499) एवमुक्तो मरुत्तः स नारदेन महर्षिणा। विप्रलम्भमुपाध्यायात्सर्वज्ञे तं न्यवेदयत्॥ 14-6-14 (92500) मरुत्त उवाच। 14-6-15x (7741) गतोस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम्। यज्ञार्थमृत्विजं प्रष्टुं स च मां नाभ्यनन्दत॥ 14-6-15 (92501) प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये। परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद॥ 14-6-16 (92502) व्यास उवाच। 14-6-17x (7742) एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह। आविक्षितं महाराज वाचा संजीवयन्निव॥ 14-6-17 (92503) राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः। चङ्कमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः॥ 14-6-18 (92504) तं गच्च यदि याज्यं त्वां न वाञ्छति बृहस्पतिः। प्रसन्नस्त्वां महातेजाः संवर्तो याजयिष्यति॥ 14-6-19 (92505) मरुत्त उवाच। 14-6-20x (7743) संजीवितोऽहं भवता वाक्येनानेन नारद। पश्येयं क्व नु संवर्तं शंस मे वदतांवर॥ 14-6-20 (92506) कथं च तस्मै वर्तेयं कथं मां न परित्यजेत्। प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे॥ 14-6-21 (92507) नारद उवाच। 14-6-22x (7744) उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम्। वाराणसीं तु नगरीमभीक्ष्णमुपसेवते॥ 14-6-22 (92508) तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित्। तं दृष्ट्वा यो निवर्तेत संवर्तः स महीपते॥ 14-6-23 (92509) तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान्। तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः॥ 14-6-24 (92510) पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह। ब्रूयास्त्वं नारदेनेति स कुत्र इति शत्रुहन्॥ 14-6-25 (92511) स चेत्त्वामनुयुञ्जीत ममानुगमनेप्सया। शंसेथा वह्निमारूढं मामपि त्वमशङ्कया॥ 14-6-26 (92512) व्यास उवाच। 14-6-27x (7745) स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम्। अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम्॥ 14-6-27 (92513) तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः। कुणपं स्थापयामास नारदस्य वचः स्मरन्॥ 14-6-28 (92514) यौगपद्येनि विप्रश्च पुरीद्वारमथाविशत्। ततः स कुणपं दृष्ट्वा सहसा संन्यवर्तत॥ 14-6-29 (92515) स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात्। आविक्षितो महीपालः संवर्तमुपशिक्षितुम्॥ 14-6-30 (92516) स च तं विजने दृष्ट्वा पांसुभिः कदेमेन च। श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत्॥ 14-6-31 (92517) स तथा बाध्यमानो वै संवर्तेन महीपतिः। अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन्॥ 14-6-32 (92518) ततो निवर्त्य संवर्तः परिश्रान्त उपाविशत्। शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम्॥ ॥ 14-6-33 (92519) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि षष्ठोऽध्यायः॥ 6 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-6-13 मन्युं दैन्यम्॥
आश्वमेधिकपर्व - अध्याय 007

॥ श्रीः ॥

14.7. अध्यायः 007

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

संवर्तमरुत्तसंवादः॥ 1 ॥ संवर्तेन समयबन्धनपूर्वकं मरुत्तंप्रति याजनप्रतिज्ञानम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

संवर्त उवाच। कथमस्मि त्वया ज्ञातः केन वा कथितोस्मि ते। एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम्॥ 14-7-1 (92520) सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः। मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति॥ 14-7-2 (92521) मरुत्त उवाच। 14-7-3x (7746) नारदेन भवान्मह्यमाख्यातो ह्यटता पथि। गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा॥ 14-7-3 (92522) संवर्त उवाच। 14-7-4x (7747) सत्यमेतद्भवानाह स मां जानाति सत्रिणम्। कथयस्व तदेतन्मे क्वनु सम्प्रति नारदः॥ 14-7-4 (92523) मरुत उवाच। 14-7-5x (7748) भवन्तं कथयित्वा तु मम देवर्षिसत्तमः। ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम्॥ 14-7-5 (92524) व्यास उवाच। 14-7-6x (7749) श्रुत्वा तु पार्थिवस्यैत्संवर्तः प्रमुदं गतः। एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत्॥ 14-7-6 (92525) ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव। रूक्षया ब्राह्मणि राजन्पुनः पुनरथाब्रवीत्॥ 14-7-7 (92526) वातप्रधानेन मया स्वचित्तवशवर्तिना। एवं विकृतरूपेण कथं याजितुमिच्छसि॥ 14-7-8 (92527) भ्राता मम समर्थश्च वासवेन च सङ्गतः। वर्तते याजने चैव तेन कर्माणि कारय॥ 14-7-9 (92528) गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः। पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम्॥ 14-7-10 (92529) नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित्। याजयेयं कथंचिद्वै स हि पूज्यतमो मम॥ 14-7-11 (92530) स त्वं बृहस्पतिं गच्च तमनुज्ञाप्य चाव्रज। ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि॥ 14-7-12 (92531) मरुत्त उवाच। 14-7-13x (7750) बृहस्पतिं गतः पूर्वमहं संवर्ते तच्छृणु। न मां कामयते याज्यं मुनिर्वासववारितः॥ 14-7-13 (92532) अमरं याज्यमासाद्य याजयिष्ये न मानुषम्। शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजये॥ 14-7-14 (92533) स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः। एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः॥ 14-7-15 (92534) स मामधिगतं प्रेम्णा याज्यत्वे न बुभूषति। देवराजं समाश्रित्य तद्विद्धि मुनिपुङ्गव॥ 14-7-16 (92535) सोहमिच्छामि भवता सर्वस्वेनापि याजितुम्। कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः॥ 14-7-17 (92536) न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम्। प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति॥ 14-7-18 (92537) संवर्त उवाच। 14-7-19x (7751) चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम्। यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव॥ 14-7-19 (92538) याज्यमानं मया हि त्वां बृहस्पतिपुंरदरौ। द्विषेतां समभिक्रुद्धावेतदेकं समर्थये॥ 14-7-20 (92539) स्थैर्यमत्र कथं मे स्यात्स त्वं निःसंशयं कुरु। कुपितस्त्वां न हीदानीं भस्म कुर्या सवान्धवम्॥ 14-7-21 (92540) मरुत्त उवाच। 14-7-22x (7752) यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः। तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि॥ 14-7-22 (92541) मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित्। विषयैः सङ्गतं चास्तु त्यजेयं सङ्गतं यदि॥ 14-7-23 (92542) संवर्त उवाच। 14-7-24x (7753) आविक्षित शुभा बुद्धिर्वर्ततां तव कर्मसु। याजनं हि ममाप्येव वर्तते हृदि पार्थिव॥ 14-7-24 (92543) अभिधास्ते च ते राजन्नक्षयं द्रव्यमुत्तमम्। येन देवान्सग्धर्वाञ्शक्रं चाभिभविष्यसि॥ 14-7-25 (92544) न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः। विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयो॥ 14-7-26 (92545) गमयिष्यामि शक्रेण समतामपि ते ध्रुवम्। प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते॥ ॥ 14-7-27 (92546) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि सप्तमोऽध्यायः॥ 7 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-7-1 मे सत्यं जीवितं चेत्प्रियंतवेति क.थ.पाठः॥ 7-7-4 सत्रिणं कपटवेषच्छन्नम्॥ 7-7-6 अहमप्येनं कुर्यामिति तमब्रवीदिति क.थ.पाठः॥ 7-7-8 मधुप्रयोगदानेन स्वचित्तपरिवर्तिनेति क.थ.पाठः॥ 7-7-23 भोगेषु सम्यग्भोगांश्च त्यजेयमिति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 008

॥ श्रीः ॥

14.8. अध्यायः 008

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

संवर्तेन मरुत्तंप्रति हिमवत्संनिहिते मुञ्जवतिगिरौ महादेवस्य निवासकथनपूर्वकं स्वोक्तनामशतकेन स्तुत्या तत्प्रसादनेन यागाय तन्नत्यबहुसुवर्णहरणचोदना॥ 1 ॥ संवर्तेनि तदाहरणेन शिल्पिभिर्यागोपयोगिभाण्डनिर्मापणम्॥ 2 ॥ इन्द्रेण तच्छ्रवणनिर्विण्णस्य बृहस्पतेः समीपं प्रत्यागमनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

संवर्त उवाच। गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः। तप्यते यत्र भगवांस्तपो नित्यमुपापतिः॥ 14-8-1 (92547) वनस्पतीनां मूलेषु शृङ्गेषु विषमेषु च। गुहासु शैलराजस्य यथाकामं यथासुखम्॥ 14-8-2 (92548) उमासहायो भगवान्यत्र नित्यं महेश्वरः। आस्ते शूली महातेजा नानाभूतगणावृतः॥ 14-8-3 (92549) तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा। यमश्च वरुणश्चैव कुबेरश्च सहानुगः॥ 14-8-4 (92550) भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ। गन्धऱ्वाप्सरसश्चैव यक्षा देवर्षयस्तथा॥ 14-8-5 (92551) आदित्या मरुतश्चैव यातुधानाश्च सर्वशः। उपासन्ते महात्मानं बहुरूपमुपापतिम्॥ 14-8-6 (92552) रमते भगवांस्तत्र कुबेरानुचरैः सह। विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते॥ 14-8-7 (92553) श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः। न रूपं शक्यते तस्य संस्थानं वा कदाचन। निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः॥ 14-8-8 (92554) नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः। न जारा क्षुत्पिपासे वा न मृत्युर्न भयं नृप॥ 14-8-9 (92555) तस्य शैलस्य पार्श्वेषु सर्वेषु जयतांवर। धातवो जातरूपस्य रश्मयः सवितुर्यथा॥ 14-8-10 (92556) रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः। चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः॥ 14-8-11 (92557) `तत्र गत्वा समन्वास्य महायोगेश्वरं शिवम्। कुरु प्रणामं राजर्षे भक्त्या परमया यतुः॥' 14-8-12 (92558) तस्मै भगवते कृत्वा नमः शर्वाय वेधसे। `एभिस्तं नामभिर्देवं सर्वविद्याधरं स्तुहि॥' 14-8-13 (92559) रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे। कपर्दिने करालाय हर्यक्ष्णे वरदाय च॥ 14-8-14 (92560) त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च। याम्यायाव्यक्तरूपाय सद्वृत्ते शङ्कराय च॥ 14-8-15 (92561) क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च। हरिनेत्राय मुण्डाय क्रुद्धायोत्तरणाय च॥ 14-8-16 (92562) भास्वराय सुतीर्थाय देवदेवाय रंहसे। उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥ 14-8-17 (92563) गिरिशाय प्राशान्ताय यतये चीरवाससे। बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च॥ 14-8-18 (92564) मृगव्याधाय महते धन्विनेऽथ भवाय च। वराय सोमवक्त्राय सिद्धमन्त्राय चक्षुषे॥ 14-8-19 (92565) हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्। लेलिहानाय गोष्ठाय सिद्धमन्त्राय वृष्णये॥ 14-8-20 (92566) पशूनां पतये चैव भूतानां पतये नमः। वृषाय मातृभक्ताय सेनान्ये मध्यमाय च॥ 14-8-21 (92567) `अभिवक्त्राय पतये सर्वदेवमयाय च।' स्रुवहस्ताय पतये धन्विने भार्गवाय च। अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह॥ 14-8-22 (92568) तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च। महात्मने चानङ्गाय सर्वाय पतये विशाम्॥ 14-8-23 (92569) `तथा रुद्राय पतये पृथवे कृत्तिवाससे।' विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे। वसुरेतःसुवपुषे पृथवे कृत्तिवाससे॥ 14-8-24 (92570) कपालमालिने चैव सुवर्णमुकुटाय च। महादेवाय कृष्णाय त्र्यम्बकायानघाय च॥ 14-8-25 (92571) क्रोधनायानृशंसाय मृदवे बाहुशालिने। दण्डिने तप्ततपसे तथैवाक्रूरकर्मणे॥ 14-8-26 (92572) सहस्रशिरसे चैव सहस्रचरणाय च। नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे॥ 14-8-27 (92573) पिनाकिनं महादेवं महाभोगिनमव्ययम्। त्रिशूलहस्तं वरदं त्र्यम्बकं भुवनेश्वरम्॥ 14-8-28 (92574) त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्। प्रभवं सर्वभूतानां दातारं धरणीधरम्॥ 14-8-29 (92575) ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम्। उमापतिं पशुपतिं विश्वरूपं महेश्वरम्॥ 14-8-30 (92576) विरूपाक्षं दशभुजं विष्यन्दं गोवृषध्वजम्। उग्रं स्थाणुं शिवं रौद्रं शर्वं गौरीशमीश्वरम्॥ 14-8-31 (92577) शितिकण्ठमजं शुक्रं पृथुं पृथुहरं वरम्। विश्वरूपं विरूपाक्षं बहुरूपमुपापतिम्॥ 14-8-32 (92578) प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्। शरण्यं शरणं याहि महादेवं चतुर्मुखम्॥ 14-8-33 (92579) `विरोचमानं वपुषा दिव्याभरणभूषितम्। अनाद्यन्तमजं शंभुं सर्वव्यापिनमीश्वरम्॥ 14-8-34 (92580) निस्त्रैगुण्यं निरुद्वेगं निर्मलं निधिमोजसाम्। प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम्॥ 14-8-35 (92581) सम्मान्यं निश्चलं नित्यमकारुण्यमलेपनम्। अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः॥ 14-8-36 (92582) यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः। योगीशं तत्वमार्गस्थाः कैवल्यं पदमक्षरम्॥ 14-8-37 (92583) यं विदुः सङ्गिनं मुक्ताः सामान्यं समदर्शिनः। तं प्रपद्ये जगद्योनिमयोनिं निर्गुणात्मकम्॥ 14-8-38 (92584) असृजद्यस्तु भूतादीन्सप्त लोकान्सनातनान्। स्थितः सत्योपरि स्थाणुस्तं प्रपद्ये सनातनम्॥ 14-8-39 (92585) भक्तानां सुलभं तं हि दुर्लभं दूरपातिनाम्। अदूरस्थममुं देवं प्रकृतेः परतः स्थितम्॥ 14-8-40 (92586) नमामि सर्वलोकस्थं व्रजामि शरणं शिवम्।' एवं कृत्वा नमस्तस्मै महादेवाय रंहसे। महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि॥ 14-8-41 (92587) `लभन्ते गाणपत्यं च तदेकाग्रा हि मानवाः। किं पुनः स्वर्णिभाण्डानि तस्मात्त्वं गच्छ मा चिरं॥ 14-8-42 (92588) महत्तरं हि ते लाभं हस्त्यश्वोष्ट्रादिभिः सह।' सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः॥ 14-8-43 (92589) व्यास उवाच। 14-8-44x (7754) इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः। `गङ्गाधरं नमस्कृत्य लब्धवान्धनमुत्तमम्॥ 14-8-44 (92590) कुबेर इव तत्प्राप्य महादेवप्रसादतः।' ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम्॥ 14-8-45 (92591) सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः। `शालाश्च सर्वसम्भारांस्तत्र संवर्तशासनात्॥' 14-8-46 (92592) बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः। समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम्॥ 14-8-47 (92593) सन्तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम्। भविष्यति हि मे शत्रुः संवर्तो वसुमानिति॥ 14-8-48 (92594) तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम्। अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा॥ ॥ 14-8-49 (92595) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि अष्टमोऽध्यायः॥ 8 ॥
आश्वमेधिकपर्व - अध्याय 009

॥ श्रीः ॥

14.9. अध्यायः 009

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

बृहस्पतिना इन्द्रंप्रति स्वानुजेन संवर्तेन मरुत्तस्य याजनकथनपूर्वकं तद्विघटनचोदना॥ 1 ॥ अग्निना मरुत्तमेत्य याजनाय बृहस्पतिस्वीकरणरूपेन्द्रसन्देशकथनम्॥ 2 ॥ तथा पुनरिन्द्रमेत्य मरुत्तेन स्वसंदेशापरिग्रहणनिवेदनम्॥ 3 ॥ तथा इन्द्रेण पुनर्मरुत्ते स्वसन्देशनिवेदनचोदने संवर्ततपोभयात्तदनङ्गीकरणम्॥ 4 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

इन्द्र उवाच। कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते। कच्चिद्देवानां सुखकामोसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति॥ 14-9-1 (92596) बृहस्पतिरुवाच। 14-9-2x (7755) सुखं शये शयने देवराज तथा मनोज्ञाः परिचारका मे। तथा देवानां सुखकामोस्मि नित्यं देवाश्च मां सुभृशं पालयन्ति॥ 14-9-2 (92597) इन्द्र उवाच। 14-9-3x (7756) कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य। आचक्ष्व मे ब्राह्मण यावदेता- न्निहन्मि सर्वांस्तव दुःखकर्तॄन्॥ 14-9-3 (92598) बृहस्पतिरुवाच। 14-9-4x (7757) मरुत्तमाहुर्मघवन्यक्ष्यमाणं महायज्ञेनोत्तमदक्षिणेन। संवर्तो याजयतीति मे श्रुतं तदिच्छामि न स तं याजयेत्॥ 14-9-4 (92599) इन्द्र उवाच। 14-9-5x (7758) सर्वान्कामाननुयातोसि विप्र त्वं देवानां मन्त्रयसे पुरोधाः। उभौ च ते जरामृत्यू व्यतीतौ किं संवर्तस्तव कर्ताऽद्य विप्र॥ 14-9-5 (92600) बृहस्पतिरुवाच। 14-9-6x (7759) देवैः सह त्वमसुरान्सम्प्रणुद्य जिघांससे चाप्युत सानुबन्धान्। यंयं समृद्धं पश्यसि तत्रतत्र दुःखं सपत्नेषु समृद्धिभावः॥ 14-9-6 (92601) अतोस्मि देवेन्द्र विवर्णरूपः सपत्नो मे वर्धते तन्निशम्य। सर्वोपायैर्मघवन्संनियच्छ संवर्तं वा पार्थिवं वा मरुत्तम्॥ 14-9-7 (92602) इन्द्र उवाच। 14-9-8x (7760) एहि गच्छ प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते। अयं वै त्वां याजयिता बृहस्पति- स्तथाऽमरं चैव करिष्यतीति॥ 14-9-8 (92603) अग्निरुवाच। 14-9-9x (7761) अहं गच्छामि तव शक्राद्य दूतो बृहस्पतिं परिदातुं मरुत्ते। वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः॥ 14-9-9 (92604) व्यास उवाच। 14-9-10x (7762) ततः प्रायाद्धूमकेतुर्महात्मा वनस्पतीन्वीरुधश्चावमृद्गन्। कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन्॥ 14-9-10 (92605) मरुत उवाच। 14-9-11x (7763) आश्वर्यमद्य पश्यामि रूपिणं वह्निमागतम्। आसनं सलिलं पाद्यं गां चोपानय वै मुने॥ 14-9-11 (92606) अग्निरुवाच। 14-9-12x (7764) आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ। इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम्॥ 14-9-12 (92607) मरुत उवाच। 14-9-13x (7765) कच्चिच्छ्रीमान्देवराजः सुखी च कच्चिच्चास्मान्प्रीयते धूमकेतो। कच्चिद्देवा अस्य वशे यथाव- त्प्रब्रूहि त्वं मम कार्त्स्न्येन देव॥ 14-9-13 (92608) अग्निरुवाच। 14-9-14x (7766) शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रातिं चेच्छत्यजरां वै त्वया सः। देवाश्च सर्वे वशगास्तस्य राज- न्संदेशं त्वं शृणु मे देवराज्ञः॥ 14-9-14 (92609) यदर्थं मां प्राहिणोत्त्वत्सकाशं बृहस्पतिं परिदातुं मरुत्ते। अयं गुरुर्याजयतां नृप त्वां मर्त्यं सन्तममरं त्वां करोतु॥ 14-9-15 (92610) मरुत उवाच। 14-9-16x (7767) संवर्तोऽयं याजयिता द्विजो मां बृहस्पतेरञ्जलिरेष तस्य। न चैवासौ याजयित्वा महेन्द्रं मर्त्यं सन्तं याजयन्नद्य शोभेत्॥ 14-9-16 (92611) अग्निरुवाच। 14-9-17x (7768) ये वै लोका देवलोके महान्तः सम्प्राप्स्यसे तान्देवराजप्रसादात्। त्वां चेदसौ याजयेद्वै बृहस्पति- र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः॥ 14-9-17 (92612) तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः। तेते जिता देवराज्यं च कृत्स्नं बृहस्पतिर्याजयेच्चेन्नरेन्द्र॥ 14-9-18 (92613) संवर्त उवाच। 14-9-19x (7769) मा स्मैव त्वं पुनरागाः कथंचि- द्बृहस्पतिं परिदातुं मरुत्ते। मा त्वां धक्ष्ये चक्षुषा दारुणेन संक्रुद्धोऽहं पावक त्वं निबोधः॥ 14-9-19 (92614) व्यास उवाच। 14-9-20x (7770) ततो देवानगमद्धूमकेतु- दीहाद्भीतो व्यथितोऽश्वत्थपर्णवत्। तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः सन्निधौ हव्यवाहम्॥ 14-9-20 (92615) यस्त्वं गतः प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते। तत्किं प्राह स नृपो यक्ष्यमाणः कच्चिद्वचः प्रतिगृह्णाति तच्च। 14-9-21 (92616) अग्निरुवाच। 14-9-22x (7771) न ते वाचं रोचयते मरुत्तो बृहस्पतेरञ्जलिं प्राहिणोत्सः। संवर्तो मां याजयितेत्युवाच पुनः पुनः स मया याच्यमानः॥ 14-9-22 (92617) उवाचेदं मानुषा ये च दिव्या। प्रजापतेर्ये च लोका महान्तः। तांश्चेल्लभेयं संविदं तेन कृत्वा तथापि नेच्छेयमिति प्रतीतः॥ 14-9-23 (92618) इन्द्र उवाच। 14-9-24x (7772) पुनर्गत्वा पार्थिवं त्वं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम्। पुनर्यद्युक्तो न करिष्यते वच- स्त्वत्तो वज्रं सम्प्रहर्तास्मि तस्मै॥ 14-9-24 (92619) अग्निरुवाच। 14-9-25x (7773) गन्धर्वराड्यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम्। संरब्धो मामब्रवीत्तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः॥ 14-9-25 (92620) यद्यागच्छेः पुनरेवं कथंचि- द्बृहस्पतिं परिदातुं मरुत्ते। दहेयं त्वां चक्षुषा दारुणेन संक्रुद्ध इत्येतदवैहि शक्र॥ 14-9-26 (92621) शक्र उवाच। 14-9-27x (7774) त्वमेवान्यान्दहसे जातवेदो न हि त्वदन्यो विद्यते भस्मकर्ता। त्वत्संस्पर्शात्सर्वलोको बिभेति अश्रद्धेयं वदसे हव्यवाह॥ 14-9-27 (92622) अग्निरुवाच। 14-9-28x (7775) दिवं देवेन्द्र पृथिवीं च सर्वां संवेष्टयेस्त्वं स्वबलेनैव शक्र। एवंविधस्येह सतस्तवासौ कथं वृत्रस्त्रिदिवं प्राग्जहार॥ 14-9-28 (92623) इन्द्र उवाच। 14-9-29x (7776) नगण्डिकाकारयोगं करेऽणुं न चारिसोमं प्रपिबामि वह्ने। न क्षीणशक्तौ प्रहारामि वज्रं को मे सुखाय प्रहरेत मर्त्यः॥ 14-9-29 (92624) प्रव्रजयेयं कालकेयान्पृथिव्या- मपाकर्षन्दानवानन्तरिक्षात्। दिवः प्रह्लादमवसानमानयं को मेऽसुखाय प्रहरेत मानवः॥ 14-9-30 (92625) अग्निरुवाच। 14-9-31x (7777) यत्र शर्यातिं च्यवनो याजयिष्य- न्सहाश्विभ्यां सोममगृह्णदेकः। तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता- च्छर्यातियज्ञं स्म तं महेन्द्र॥ 14-9-31 (92626) वज्रं गृहीत्वा च पुरन्दर त्वं सम्प्राहार्षीश्च्यवनस्यातिघोरम्। स ते विप्रः सह वज्रेणि बाहु- मपागृह्णात्तपसा जातमन्युः॥ 14-9-32 (92627) ततो रोषात्सर्वतो घोररूपं सपत्नं ते जनयामास भूयः। मदं नाम्ना चासुरं विश्वरूपं यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः॥ 14-9-33 (92628) हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य। सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव॥ 14-9-34 (92629) वृत्ताः स्थूला रजतस्तम्भवर्णा दंष्ट्राश्चतस्रो द्वे शते योजनानाम्। स त्वां दन्तान्विदशन्नभ्यधाव- ज्जिघांसया शूलमुद्यम्य घोरम्॥ 14-9-35 (92630) तं नापश्यस्त्वं तदा घोररूपं सर्वे वै त्वां ददृशुर्दर्शनीयम्। यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि- मागच्छेथाः शरणं दानवघ्न॥ 14-9-36 (92631) क्षात्राद्बलाद्ब्रह्मबलं गरीयो न ब्रह्मतः किञ्चिदन्यद्गरीयः। सोहं जानन्ब्रह्मतेजो यथाव- न्न संवर्त गन्तुमिच्छामि शक्र॥ ॥ 14-9-37 (92632) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि नवमोऽध्यायः॥ 9 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-9-29 नाहं दौर्बल्याद्वृत्रेण जित इति वक्तं स्वसामर्थ्यमिन्द्रो वह्निप्रति वदति नगण्डिकाकारयोगं करेणुम्। नगं पर्वतं डीयते विहायसा गच्छतीति डीः पक्षी अल्पो डीर्डिका मक्षिकामशकादिस्तस्या आकारेण योगोस्यास्तीत्येवंरूपं अणुं सूक्ष्मं करेकुर्वे। कृञश्छान्दसं भौवादिकत्वम्। करेणेतिपाठे करोमीत्यध्याहारः। पार्थोधिं करे कर्तुमगस्त्य इवाहं पर्वतमपि मशकीकर्तुं समर्थोस्मीत्यर्थः। कुतस्तर्हि वृत्रस्त्वां नाराधितवानित्यत आह न चारिसोमं प्रपिबामि वह्ने। अरिसोमं शत्रुदत्तं सोमम्। त्वयैव स कुती न निर्जित इत्यत आह न क्षीणशक्तौ प्रहरामि वज्रमित्यादिना न दण्डकान्नारकान्नो कलिङ्गान्न करूशान्सोमं प्रपिबामि वह्ने। न दुर्बलायावसृजामि वज्रं को मे सुखी यः प्रहरेन्मनुष्यः इति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 010

॥ श्रीः ॥

14.10. अध्यायः 010

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

इन्द्रण गन्धर्वमुखात्स्वेन याजनाय बृहस्पतिवरणं चोदितेनापि मरुत्तेन तदनङ्गीकारे यज्ञविघाताय साटोपं यज्ञवाटं प्रत्यागमनम्॥ 1 ॥ संवर्तेन मरुत्तप्रार्थनया विद्याबलेनेन्द्रादीनां संस्तम्भनम्॥ 2 ॥ ततः संवर्तानुवर्तिनेन्द्रेण सभानिर्मापणादिना यज्ञनिर्वर्तनपूर्वकं देवेः सह हविर्ग्रहणम्॥ 3 ॥ व्यासेनैव युधिष्ठिरंप्रति मरुत्तयज्ञप्रवृत्तिप्रकारकथनपूर्वकं तच्छिष्टद्रव्याहरमएनाश्वमेधकरणविधानम्॥ 4 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

इन्द्र उवाच। एवमेतद्ब्रह्मबलं गरीयो न ब्राह्मणात्किञ्चिदन्यद्ररीयः। आविक्षितस्य तु बलं न मृष्ये वज्रमस्मै प्रहरिष्यामि घोरम्॥ 14-10-1 (92633) धृतराष्ट्र गच्छ प्रहितो मरुत्तं संवर्तेन सङ्गतं तं वदस्व बृहस्पतिं त्वमुपशिक्षस्व राज- न्वज्रं वा ते प्रहरिष्यामि घोरम्॥ 14-10-2 (92634) व्यास उवाच। 14-10-3x (7778) ततो गत्वा धृतराष्ट्रो नरेन्द्रं प्रोवाचेदं वचनं वासवस्य॥ 14-10-3 (92635) गन्धर्वं मां धृतराष्ट्रं निबोध त्वामागतं वक्तुकामं नरेन्द्र। ऐन्द्रं वाक्यं शृणु मे राजसिंह यत्प्राह लोकाधिपतिर्महात्मा॥ 14-10-4 (92636) बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम्। वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यकर्मा॥ 14-10-5 (92637) मरुत्त उवाच। 14-10-6x (7779) त्वं चैवैतद्वेत्थ पुरन्दरश्च विश्वेदेवा वसवश्चाश्विनौ च। मित्रद्रोहे निष्कृतिर्नास्ति लोके महत्पापं ब्रह्महत्यासमं तत्॥ 14-10-6 (92638) बृहस्पतिर्याजयतां महेन्द्रं देवश्रेष्ठं वज्रभृतां वरिष्ठम्। संवर्तो मां याजयिताऽद्य राज- न्न ते वाक्यं तस्य वा रोचयामि॥ 14-10-7 (92639) गन्धर्व उवाच। 14-10-8x (7780) घोरो नादः श्रूयतां वासवस्य नभस्तले गर्जतो राजसिंह। व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः क्षेमं राजंश्चिन्त्यतामेष कालः॥ 14-10-8 (92640) व्यास उवाच। 14-10-9x (7781) इत्येवमुक्तो धृतराष्ट्रेण राज- ञ्श्रुत्वा नादं नदतो वासवस्य। तपोनित्यं धर्मविदां वरिष्ठं संवर्तं तं ज्ञापयामास कार्यम्॥ 14-10-9 (92641) मरुत्त उवाच। 14-10-10x (7782) पश्यात्मानं प्लवमानं त्वमारा- दध्वा दूरं तेन न दृश्यतेऽद्य। प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः प्रयच्छ तस्मादभयं विप्रमुख्य॥ 14-10-10 (92642) अयमायाति वे वज्री दिशो विद्योतयन्दस। अमानुषेण घोरेणि सदस्यास्त्रासिता हि नः॥ 14-10-11 (92643) संवर्त उवाच। 14-10-12x (7783) भयं शक्राद्व्येतु ते राजसिंह प्रणोत्स्येऽहं भयमेतत्सुघोरम्। संस्तम्भिन्या विद्यया क्षिप्रमेव मा भैस्त्वमस्याभिभवात्प्रतीतः॥ 14-10-12 (92644) अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप। यर्वेषामेव देवानां क्षयितान्यायुधानि मे॥ 14-10-13 (92645) दिशो वज्रं व्रजतां वायुरेतु वर्षं भूत्वा वर्षतां काननेषु। आपः प्लवन्त्वन्तरिक्षे वृथा च सौदामनी दृश्यते माऽपि भैस्त्वम्॥ 14-10-14 (92646) वह्निर्देवस्त्रातु वा सर्वतस्ते कामान्सर्वान्वर्षतु वासवो वा। वज्रं तथा स्थापयतां वधाय महाघोरं पुवमानं जलौघैः॥ 14-10-15 (92647) मरुत्त उवाच। 14-10-16x (7784) घोरः शब्दः श्रूयते वै महास्वनो वज्रस्यैष सहितो मारुतेन। आत्मा हि मे प्रव्यथते मुहुर्मुहु- र्न मे स्वास्थ्यं जायते चाद्य विप्र॥ 14-10-16 (92648) संवर्त उवाच। 14-10-17x (7785) वज्रादुग्राद्व्येतु भयं तवाद्य वातो भूत्वा व्रजतु नरेन्द्र वज्रम्। भयं त्वक्त्वा वरमन्यं वृणीष्व कं ते कामं तपसा साधयामि॥ 14-10-17 (92649) मरुत्त उवाच। 14-10-18x (7786) इन्द्रः साक्षात्सहसाऽभ्येतु विप्र हविर्यज्ञे प्रतिगृह्णातु चैव। स्वंस्वं हविश्चैव जुषन्तु देवा हुतं सोमं प्रतिगृह्णन्तु चैव॥ 14-10-18 (92650) संवर्त उवाच। 14-10-19x (7787) अयमिन्द्रो हरिभिरायाति राज- न्देवैः सर्वैस्त्वरितैः स्तूयमानः। मन्त्राहूतो यज्ञमिमं मयाऽद्य पश्यश्वैनं मन्त्रविस्रस्तकायम्॥ 14-10-19 (92651) व्यास उवाच। 14-10-20x (7788) ततो देवैः सहितो देवराजो रथे युङ्क्त्वा तान्हरीन्वाजिमुख्यान्। आयाद्यज्ञमथ राज्ञः पिपासु- राविक्षितस्याप्रमेयस्य सोमम्॥ 14-10-20 (92652) तमायान्तं सहितं देवसङ्घैः प्रत्युद्ययौ सपुरोधा मरुत्तः। चक्रे पूजां देवराजाय चाग्र्यां यथाशास्त्रं विधिवत्प्रीयमाणः॥ 14-10-21 (92653) संवर्त उवाच। 14-10-22x (7789) सुस्वागतं ते पुरुहूतेह विद्व- न्यज्ञोऽप्ययं सन्निहिते त्वयीन्द्र। शोशुभ्यते बलवृत्रघ्न भूयः पिबस्व सोमं सुतमुद्यतं मया॥ 14-10-22 (92654) मरुत्त उवाच। 14-10-23x (7790) शिवेन मां पश्य नमश्च तेऽस्तु प्राप्तो यज्ञः सफलं जीवितं मे। अयं यज्ञं कुरुते मे सुरेन्द्र बृहस्पतेरवरो जन्मना च। 14-10-23 (92655) इन्द्र उवाच। 14-10-24x (7791) जानामि ते गुरुमेनं तपोधनं बृहस्पतेरनुजं तिग्मतेजसम् यस्याह्वानादागतोऽहं नरेन्द्र प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः॥ 14-10-24 (92656) संवर्त उवाच। 14-10-25x (7792) यदि प्रीतस्त्वमसि वै देवराज तस्मात्स्वयं शाधि यज्ञे विधानम्। स्वयं सर्वान्कुरु भागान्सुरेन्द्र जानात्वयं सर्वलोकश्च देव॥ 14-10-25 (92657) व्यास उवाच। 14-10-26x (7793) एवमुक्तस्त्वाङ्गिरसेन शक्रः समादिदेश स्वयमेव देवान्। सभाः क्रियन्तामावसथाश्च मुख्याः सहस्रशश्चित्रभूताः समृद्धाः॥ 14-10-26 (92658) क्लृप्ताः स्थूणाः कुरुतारोहणानि गन्धर्वाणामप्सरसां च शीघ्रम्। यत्र नृत्येरन्नप्सरसः समस्ताः स्वर्गोपमः क्रियतां यज्ञवाटः॥ 14-10-27 (92659) इत्युक्तास्ते चक्रुराशु प्रतीता दिवौकसः शक्रवाक्यान्नरेन्द्र। ततो वाक्यं प्राह राजानमिन्द्रः प्रीतो राजन्पूज्यमानो मरुत्तम्॥ 14-10-28 (92660) एष त्वयाऽहमिह राजन्समेत्य ये चाप्यन्ते तव पूर्वे नरेन्द्र। सर्वाश्चान्या देवताः प्रीयमाणा हविस्तुभ्यं प्रतिगृह्णन्तु राजन्॥ 14-10-29 (92661) आग्नेयं वै लोहितमालभन्तां वैश्वदेवं बहुरूपं हि राजन्। निलं चोक्षाणं मेद्यमप्यालभन्तां चलच्छिश्नं सम्प्रदिष्टं द्विजाग्र्याः॥ 14-10-30 (92662) ततो यज्ञो ववृधे तस्य राज- न्यत्र देवाः स्वयमन्नानि जह्रुः। यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः सदस्योऽभूद्धरिमान्देवराजः॥ 14-10-31 (92663) ततः संवर्तश्चैत्यगतो माहात्मा यथा वह्निः प्रज्वलितो द्वितीयः। हवींष्युच्चैराह्वयन्देवसङ्घा- ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः॥ 14-10-32 (92664) ततः पीत्वा बलभित्सोममग्र्यं ये चाप्यन्ते सोमपा देवसङ्घाः। सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः॥ 14-10-33 (92665) ततो राजा जातरूपस्य राशी- न्पदेपदे कारयामास हृष्टः। द्विजातिभ्यो विसृजन्भूरि वित्तं रराज वित्तेश इवारिहन्ता॥ 14-10-34 (92666) ततो वित्तं विविधं सन्निधाय यथोत्साहं कारयित्वा च कोशम्। अनुज्ञातो गुरुणां संनिवृत्त्य शशास गामखिलां सागरान्ताम्॥ 14-10-35 (92667) एवंगुणः सम्बभूवेह राजा यस्य क्रतौ तत्सुवर्णं प्रभूतम्। तत्त्वं समादाय नरेन्द्र वित्तं यजस्व देवांस्तपनीयैर्विधानैः॥ 14-10-36 (92668) वैशम्पायन उवाच। 14-10-37x (7794) ततो राजा पाण्डवो हृष्टरूपः श्रुत्वा वाक्यं सत्यवत्याः सुतस्य। मनश्चक्रे तेन वित्तेन यष्टुं ततोऽमात्यैर्मन्त्रयामास भूयः॥ ॥ 14-10-37 (92669) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि दशमोऽध्यायः॥ 10 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-10-6 मित्रद्रोहे निष्कृतिर्वै यथेह नास्तीति सदैववाद इति क.ट.थ.पाठः॥ 7-10-8 क्षमं राजन्निति क.ट.थ.पाठः॥ 7-10-10 विलोभ्यि च्छित्त्वा मत्प्रतिष्ठा द्विनेन्द्राः इति क.ट.थ.॥
आश्वमेधिकपर्व - अध्याय 011

॥ श्रीः ॥

14.11. अध्यायः 011

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति इन्द्रवृत्रासुरयुद्धप्रकारकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा। वासुदेवो महातेजास्ततो वचनमाददे॥ 14-11-1 (92670) तं नृपं दीनमनसं निहतज्ञातिबान्धवम्। उपप्लुतमिवादित्यं सधूममिव पावकम्॥ 14-11-2 (92671) निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः। आश्वासनन्धर्मसुतं प्रवक्तुमुपचक्रमे॥ 14-11-3 (92672) वासुदेव उवाच। 14-11-4x (7795) सर्वं जिह्मं मृत्युपदमजिह्मं ब्रह्मणः पदम्। एतावान्ज्ञानविषयः किं प्रलापः करिष्यति॥ 14-11-4 (92673) नैव तेऽनुष्ठितं कर्म नैव ते शत्रवो जिताः। कथं शत्रुं शरीरस्तमात्मनो नावबुध्यसे॥ 14-11-5 (92674) अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम्। इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत॥ 14-11-6 (92675) वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप। दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते। धराहरणदुर्गन्धो विषयः समपद्यत॥ 14-11-7 (92676) शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते। वृत्रस्य सततः क्रुद्धो घोरं वज्रमवासृजत्॥ 14-11-8 (92677) स वध्यमानो वज्रेण सुभृशं भूरितेजसा। विवेश सहसा तोयं जग्राह विषयं ततः॥ 14-11-9 (92678) अप्सु वृत्रगृहीतासु रसे च विषये हृते। शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्॥ 14-11-10 (92679) स वध्यमानो वज्रेण तस्मिन्नमिततेजसा। विवेश सहसा ज्योतिर्जग्राह विषयं ततः॥ 14-11-11 (92680) व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते। शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्॥ 14-11-12 (92681) स वद्यमानो वज्रेण तस्मिन्नमिततेजसा। विवेश सहसा वायुं जग्राह विषयं ततः॥ 14-11-13 (92682) व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते। शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्॥ 14-11-14 (92683) स वध्यगानो वज्रेण तस्मिन्नमिततेजसा। आकाशमभिदुद्राव जग्राह विषयं ततः॥ 14-11-15 (92684) आकाशे वृत्रभूतेऽथ शब्दे च विषये हृते। शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्॥ 14-11-16 (92685) स वध्यमानो वज्रेण तस्मिन्नमिततेजसा। विवेश सहसा शक्रं जग्राह विषयं ततः॥ 14-11-17 (92686) तस्य वृत्रगृहीतस्य मोहः समभवन्महान्। रथन्तरेण तं साम्ना वसिष्ठः प्रत्यबोधयत्॥ 14-11-18 (92687) ततो वृत्रं शरीरस्थं जघान भरतर्षभ। शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम्॥ 14-11-19 (92688) इदं धर्म्यं रहस्यं वै शक्रेणोक्तं महर्षिषु। ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप॥ ॥ 14-11-20 (92689) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि एकादशोऽध्यायः॥ 11 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-11-2 उपप्लुतं राहुग्रस्तम्॥ 7-11-4 जिह्मं कामादि। मृत्युपदं संसारप्रापकम्। अजिह्मं शमादि। ब्रह्मणः पदं मोक्षस्य प्रापकम्। ज्ञानविषयो हेयोपादेयतया ज्ञातव्योर्थः। आर्जवं ब्रह्मणः पदमिति झ.ध.पाठः॥ 7-11-7 धराहरणनिस्सार इति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 012

॥ श्रीः ॥

14.12. अध्यायः 012

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति शारीरमानसभेदनेन व्याधेर्द्वैविध्याभिधानपूर्वकं तत्परिहारोपायकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वासुदेव उवाच। द्विवोधो जायते व्याधिः शारीरो मानसस्तथा। परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते॥ 14-12-1 (92690) शरीरे जायते व्याधिः शरीरः स निगद्यते। मानसे जायते व्याधिर्मानसस्तु निगद्यते॥ 14-12-2 (92691) शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः। तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम्॥ 14-12-3 (92692) उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते॥ 14-12-4 (92693) सत्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः। तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम्॥ 14-12-5 (92694) तेषामन्यतमोत्सेके विधानमुपदिश्यते। हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते॥ 14-12-6 (92695) कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति। कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति॥ 14-12-7 (92696) स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा। स्मर्तुमिच्छसि कौन्तेय दैवं हि बलवत्तरम्। अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे॥ 14-12-8 (92697) दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्। मिषतां पाण्डवेयानां न तस्य स्मर्तुमिच्छसि॥ 14-12-9 (92698) प्रव्राजनं च नगरादजिनैश्च विवासनम्। महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि॥ 14-12-10 (92699) जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः। सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि॥ 14-12-11 (92700) पुनरज्ञातचर्यायां कीचकेन पदा वधः। याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि॥ 14-12-12 (92701) यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम। मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्॥ 14-12-13 (92702) तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ। परमव्यक्तरूपस्य पारं युक्त्या स्वकर्मभिः॥ 14-12-14 (92703) यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः। आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्॥ 14-12-15 (92704) तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि। एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि॥ 14-12-16 (92705) एथां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्। पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्॥ ॥ 14-12-17 (92706) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि द्वादशोऽध्यायः॥ 12 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-12-3 शीतोष्णे कफपित्ते वायुर्वातः तेषां साम्ये स्वास्थ्यं वैषम्ये व्याधिर्भवतीत्यर्थः॥ 7-12-4 शीतोष्णयोरन्यतराविक्यजं दोष मितरवर्धकेनौषधादिनापनयेदित्यर्थः॥ 7-12-12 कीचकेन पराभव इति क.पाठः॥ 7-12-15 आत्मना मनसा॥
आश्वमेधिकपर्व - अध्याय 013

॥ श्रीः ॥

14.13. अध्यायः 013

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

कामस्य शक्तिकथनेन दुर्जयत्वकथनपूर्वकं तज्जयोपायकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वासुदेव उवाच। न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत। शारीरं द्रव्यमुत्सृज्य सिद्धिर्बवति वा न वा॥ 14-13-1 (92707) बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृह्यतः। यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तव॥ 14-13-2 (92708) द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्। ममेति द्व्यक्षरो मृत्युर्नममेति च शाश्वतम्॥ 14-13-3 (92709) ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ। अदृश्यमानौ भूतानि योधयेतामसंशयम्॥ 14-13-4 (92710) अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत। भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते॥ 14-13-5 (92711) लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्। ममत्वं यस्य नैव स्यात्किं तया स करिष्यति॥ 14-13-6 (92712) अथवा वसतः पार्थ वने वन्येन जीवतः। ममता यस्य वित्तेषु मृत्योरांस्ये स वर्तते॥ 14-13-7 (92713) ब्राह्यान्तराणां शत्रूणां स्वभावं पश्य भारत। यन्न पश्यति तद्भूतं मुच्यते स महाभयात्॥ 14-13-8 (92714) कामात्मानं न प्रशंसन्ति लोके नेहाकामा काचिदस्ति प्रवृत्तिः। सर्वे कामा मनसोऽङ्ग प्रभूता यान्पण्डितः संहरते विचिन्त्य। भूयोभूयो जन्मनोऽभ्यासयोगा- द्योगी योगं सारमार्गं विचिन्त्य॥ 14-13-9 (92715) दानं च वेदाध्ययनं तपश्च काम्यानि कर्माणि च वैदिकानि। व्रतं यज्ञान्नियमान्ध्यानयोगा- न्कामेन यो नारभते विदित्वा। यद्यच्चायं कामयते स धमो नयो धर्मो नियमस्तस्य मूलम्॥ 14-13-10 (92716) अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः। शृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर॥ 14-13-11 (92717) काम उवाच। 14-13-12x (7796) नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्॥ 14-13-12 (92718) यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्। तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम्॥ 14-13-13 (92719) यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः। जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम्॥ 14-13-14 (92720) यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः। स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम्॥ 14-13-15 (92721) यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः। भावो भवामि तस्याहं स च मां नावबुध्यते॥ 14-13-16 (92722) यो मां प्रयतते हन्तुं तपसा संशितव्रतः। ततस्पपसि तस्यथ पुनः प्रादुर्भवाम्यहम्॥ 14-13-17 (92723) यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः। तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च। अवध्यः सर्वभूतानामहमेकः सनातनः॥ 14-13-18 (92724) तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः। धर्मे कुरु महाराज तत्र ते स भविष्यति॥ 14-13-19 (92725) मा ते व्यथाऽस्तु निहतान्बन्धून्वीक्ष्य पुनःपुनः। न शक्यास्ते पुनर्द्रष्ट्रं येऽहतास्मिन्रणाजिरे॥ 14-13-20 (92726) स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः। कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि॥ ॥ 14-13-21 (92727) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि त्रयोदशोऽध्यायः॥ 13 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-13-1 न बाह्यस्य राज्यादेरर्थस्य त्यागात्त्यग्गी भवति किन्तु शरीरं कामादिकं त्यक्त्वैव सिद्धिर्मोक्षः नवेति शुष्कवैराग्यवतो विवेकशून्यस्य सिद्ध्यभावं सूचयति। उत्सृज्य सिद्धिर्भवति भारतेतिक.ध.पाठः॥ 7-13-2 गृद्ध्य सक्तस्य यो धर्मः सः अधर्मएव यत्सुखं तद्दुःखमेव॥ 7-13-3 मम त्वं संसारहेतुः तदभावो ब्रह्मप्राप्तिहेतुरित्यर्थः॥
आश्वमेधिकपर्व - अध्याय 014

॥ श्रीः ॥

14.14. अध्यायः 014

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

व्यासनारदकृष्णादिभिर्बन्धुनिधनपरिशोचिनो युधिष्ठिरस्य समाश्वासनेन तत्रान्तर्धानम्॥ 1 ॥ युधिष्ठिरेण भीष्मिदीनामौर्ध्वदेहिकदानेन हास्तिननगरप्रवेशः॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः। समाश्वस्त राजर्षिर्हितबन्धुर्युधिष्ठिरः॥ 14-14-1 (92728) सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम्। द्वैपायनेन कृष्णेनि देवस्थानेन चाभिभूः॥ 14-14-2 (92729) नारदेनाथ भीमेन नकुलेन च पार्थिव। कृष्णया सहदेवेन विजयेन च धीमता॥ 14-14-3 (92730) अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः। व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम्॥ 14-14-4 (92731) अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः। कृत्वाऽथ प्रेतकार्याणि सर्वेषां कुरुनन्दनः। अन्वशासच्च धर्मात्मा पृथिवीं सागराम्बराम्॥ 14-14-5 (92732) प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम्। व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः॥ 14-14-6 (92733) आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः। न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते॥ 14-14-7 (92734) अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः। पुरस्कृत्याद्य भवतः समानेष्यामहे मखम्॥ 14-14-8 (92735) हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह। बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम॥ 14-14-9 (92736) तथा भगवता चित्रं कल्याणं बहु भाषितम्। देवर्षिणा नारदेन देवस्थानेन चैव ह॥ 14-14-10 (92737) नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून्। लभते व्यसनं प्राप्य सुहृदः साधुसम्मतान्॥ 14-14-11 (92738) वैशम्पायन उवाच। 14-14-12x (7797) एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः। अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ॥ 14-14-12 (92739) पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः। ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः॥ 14-14-13 (92740) एवं नातिमहान्कालः स तेषां संन्यवर्तत। कुर्वतां शौचकार्याणि भीष्मस्य निधने तदा। महादानानि विप्रेभ्यो ददतामौर्ध्वदेहिकम्॥ 14-14-14 (92741) भीष्मकर्णपुरोगाणां कुरूणां कुरुसत्तम। सहितो धृतराष्ट्रेण स ददावौर्ध्वदेहिकम्॥ 14-14-15 (92742) ततो दत्त्वा बहुधनं विप्रेभ्यः पाण्डवर्षभः। धृताराष्ट्रं पुरुस्कृत्य विवेश गजसाह्वयम्॥ ॥ 14-14-16 (92743) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि चतुर्दशोऽध्यायः॥ 14 ॥
आश्वमेधिकपर्व - अध्याय 015

॥ श्रीः ॥

14.15. अध्यायः 015

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

वैशंपायेन जनमेजयंप्रति युधिष्ठिरस्य प्रजापालनकाले प्रजादीनामभ्युदयप्रकारवर्णनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

`वैशम्पायन उवाच। स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्। अन्वशासत धर्मात्मा पृथिवीं भ्रातृभिः सह॥ 14-15-1 (92744) यथा मनुर्महाराजो रामो दाशरथिर्यथा। तथा भरतसिंहोऽपि पालयामास मेदिनीम्॥ 14-15-2 (92745) नाधर्म्यमभवत्तत्र सर्वो धर्मरुचिर्जनः। बभूव नरशार्दूल यथा कृतयुगे तथा॥ 14-15-3 (92746) कलिमासन्नमाविष्टं निवार्य नृपनन्दनः। भ्रातृभिः सहितो धीमान्बभौ धर्मबलोद्धतः॥ 14-15-4 (92747) ववर्ष भगवान्देवः काले देशे यथेप्सितम्। निरामयं जगदभूत्क्षुत्पिपासे न किञ्चन॥ 14-15-5 (92748) आधिर्नास्ति मनुष्याणां व्यसने नाभवन्मतिः। ब्राह्म्णप्रमुखा वर्णास्ते स्वधर्मोत्तराः शुभाः॥ 14-15-6 (92749) धर्मसत्यप्रधानाश्च सत्यं सद्विषयान्वितम्। धर्मासनस्थः सद्भिः स स्त्रीबालातुरवृद्धकान्। वर्णक्रमान्पूर्णभृतान्साकल्याद्रक्षणोद्यतः॥ 14-15-7 (92750) अवृत्तिवृत्तिदानाद्यैर्यज्ञाद्यैर्व्याधितैरपि। आमुष्मिकं भयं नास्ति लौकिकं कृतमेव॥ 14-15-8 (92751) स्वर्गलोकोपमो लोकस्तदा तस्मिन्प्रशासति। बभूव सुखमेवाग्रं तद्विशिष्टतरं परम्॥ 14-15-9 (92752) नार्यः पतिव्रताः सर्वा रूपवत्यः स्वलंकृताः। यथोक्तवृत्ताः स्वगुणैर्बभूवुः प्रीतिहेतवः॥ 14-15-10 (92753) पुमांसः पुण्यशीलाढ्याः स्वंस्वं धर्ममनुव्रताः। सुखिनः सूक्ष्ममप्येनो न कुर्वन्ति कदाचन॥ 14-15-11 (92754) सर्वे नरांश्च नार्यश्च सततं प्रियवादिनः। अजिह्ममनसः शुक्ला बभूवुः श्रमवर्जिताः॥ 14-15-12 (92755) भूषिताः कुण्डलैर्हारैः कटकैः कटिसूत्रकैः। सुवाससः सुगन्धाढ्याः प्रायशः पृथिवीतले॥ 14-15-13 (92756) सर्वे ब्रह्मविदो विप्राः सर्वत्र परिनिष्ठिताः। वलीपलितहीनास्तु सुखिनो दीर्घदर्शिनः॥ 14-15-14 (92757) इच्छा न जायतेऽन्यत्र वर्णेषु न च सङ्करः। मनुष्याणां महाराज मर्यादा सुव्यवस्थिता॥ 14-15-15 (92758) तस्मिञ्शासति राजेन्द्रे मृगव्यालसरीसृपाः। अन्योन्यमपि चान्येषु न बाधन्ते कदाचन॥ 14-15-16 (92759) गावः सुक्षीरभूयिष्ठाः सुस्ववालमुखोदराः। अपीडिताः कर्षकाद्यैर्हृतव्याधिकवत्सकाः॥ 14-15-17 (92760) अवन्ध्यकाला मनुजाः पुरुषार्थेषु च क्रमात्। विषयेष्वनिषिद्धेषु वेदशास्त्रेषु चोद्यताः॥ 14-15-18 (92761) सुवृत्ता वृषभाः पुष्टा रसनाभाः सुखोदयाः॥ 14-15-19 (92762) अतीव मधुरः शब्दः स्पर्शश्चातिसुखं रसम्। करूपं दृष्टिक्षमं रम्यं मनोज्ञं गन्धवद्बभौ॥ 14-15-20 (92763) धर्मार्थकामसंयुक्तं मोक्षाभ्युदयसाधनम्। प्रह्लादजननं पुण्यं सम्बभूवाथ मानसम्॥ 14-15-21 (92764) स्थावरा बहुपुष्पाढ्याः फलच्छायावहास्तथा। सुस्पर्शा विषहीनाश्च सुपत्रत्वक्प्ररोहिणः॥ 14-15-22 (92765) मनोनुकूलाः सर्वेषां चेष्टाभूतापवर्जिताः। तथा बभूव राजर्षिस्तद्वृत्तमभवद्भुवि॥ 14-15-23 (92766) सर्वलक्षणसम्पन्नाः पाण्डवा धर्मचारिणः। ज्येष्ठानुवर्तिनः सर्वे बभूवुः प्रियदर्शनाः॥ 14-15-24 (92767) सिंहोरस्का जितक्रोधास्तेजोबलसमन्विताः। आजानुबाहवः सर्वे दानशीला जितेन्द्रियाः॥ 14-15-25 (92768) तेषु शासत्सु धरणीमृतवः स्वगुणैर्बभुः। सुखोदयाय वर्तन्ते ग्रहास्तारागणैः सह॥ 14-15-26 (92769) मही च सस्यबहुला सर्वरत्नगुणोदया। कामधुग्धेनुवद्भोगान्फलन्ति स्म सहस्रधा॥ 14-15-27 (92770) मन्वादिभिः कृताः पूर्वं मर्यादा मानवेषु याः। अनतिक्रम्य ताः सर्वाः कुलेषु समयानि च। अन्वशासत राजानो धर्मपुत्रप्रियंकराः॥ 14-15-28 (92771) महाकुलानि धर्मिष्ठा वर्धयन्तो विशेषतः। मनुप्रणीतया वृत्त्या तेऽन्वशासनसुन्धराम्॥ 14-15-29 (92772) राजवृत्तिर्हि सा शश्वद्धर्मिष्ठाऽभून्महीतले। प्रायो लोकमतिस्तान राजवृत्तानुगामिनी॥ 14-15-30 (92773) एवं भारतवर्षं स्वं राजा स्वर्गं सुरेन्द्रवत्। शशास जिष्णुना सार्धं गोत्रां गाण्डीवधन्वन'॥ ॥ 14-15-31 (92774) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि पञ्चदशोऽध्यायः॥ 15 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-15-31 शशास विष्णुना सार्धं गुप्तो गाण्डीवधन्वनेति थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 016

॥ श्रीः ॥

14.16. अध्यायः 016

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

वैशम्पायनेन कुरुविजयानन्तरं हास्तिनपुरे कृष्णार्जुनविहारप्रकारवर्णनम्॥ 1 ॥ कृष्णेनार्जुनंप्रति युधिष्ठिरे स्वस्य निजनगरजिगमिषानिवेदनचोदना॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

जनमेजय उवाच। विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम। राष्ट्रे ते चत्रतुर्वीरौ वासुदेवधनंजयौ॥ 14-16-1 (92775) वैशम्पायन उवाच। 14-16-2x (7798) विजिते पाण्डवै राजन्प्रशान्ते च विशाम्पतौ। राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ॥ 14-16-2 (92776) विजह्राते मुदा युक्तौ दिवि देवश्वराविव। तौ वनेषु विचित्रेषु पर्वतेषु ससानुषुः॥ 14-16-3 (92777) तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च। चंक्रम्यमाणौ संहृष्टावश्विनाविव नन्दने॥ 14-16-4 (92778) इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ। प्रविश्य तां सभां रम्यां विजह्राते च भारत॥ 14-16-5 (92779) तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव। कथायोगे कथायोगे कथयामासतुः सदा॥ 14-16-6 (92780) ऋषीणां देवतानां च वंशांस्तावाहतुः सदा। प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ॥ 14-16-7 (92781) मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः। निश्चयज्ञः स पार्थाय कथयामास केशवः॥ 14-16-8 (92782) पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः। कथाभिः शमयामास पार्तं शौरिर्जनार्दनः॥ 14-16-9 (92783) स तमाश्वास्य विधिवद्विधानज्ञो महातपाः। अपहृत्यात्मनो भारं विशश्रामेव सात्वतः॥ 14-16-10 (92784) ततः कथान्ते गोविन्दो गुडाखेशमुवाच ह। सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः॥ 14-16-11 (92785) विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप। त्वद्बाहुबलामाश्रित्य राज्ञा धर्मसुतेन ह॥ 14-16-12 (92786) असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः। भीमसेनानुभावेन यमयोश्च नरोत्तम॥ 14-16-13 (92787) धर्मेणि राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्। धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः॥ 14-16-14 (92788) अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः। धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः॥ 14-16-15 (92789) प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः। भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह॥ 14-16-16 (92790) रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव। किमु यत्र जनोऽयं वै पृथा चामित्रकर्मन॥ 14-16-17 (92791) यत्र धर्मसुतो राजा यत्र यत्र भीमो महाबलः। यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम॥ 14-16-18 (92792) तथैव स्वर्गलोकेषु सभोद्देशेषु कौरव। रमणीयेषु पुष्णेषु सहितस्य त्वयाऽनध॥ 14-16-19 (92793) कालो महांस्त्वतीतो मे शूरसूनुमपश्यतः। बलदेवं च कौरव्यं तथाऽन्यान्वृष्णिपुङ्गवान्॥ 14-16-20 (92794) सोहं गन्तुमभीप्सामि पुरीं द्वारावतीं प्रति। रोचतां गमनं तुभ्यं ममापि पुरुषर्षभ॥ 14-16-21 (92795) उक्तो बहुविधं राजा तत्रतत्र युधिष्ठिरः। सह भीष्मेण यद्युक्तमस्माभिः शोकर्शितः॥ 14-16-22 (92796) शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः। तेन तत्तु वचः सम्यग्गृहीतं सुमहात्मना॥ 14-16-23 (92797) धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि। सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा॥ 14-16-24 (92798) तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन। अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्॥ 14-16-25 (92799) न हि तस्याप्रियं कुर्यां प्राणत्योगेऽप्युपस्थिते। कुतो गन्तुं महाबाहो पुरीं द्वारावतीं प्रति॥ 14-16-26 (92800) सर्वं त्विदमहं पार्त त्वत्प्रीतिहितकाम्यया। ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन॥ 14-16-27 (92801) प्रयोजनं च निर्वृत्तमिह वासेन मेऽर्जुन। धार्तराष्ट्रो हतो राजा सबलः सपदानुगः॥ 14-16-28 (92802) पृथिवी च वशे तात धर्मपुत्रस्य धीमतः। स्थिता समुद्रवसना सशैलवनकानना॥ 14-16-29 (92803) चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव। धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम्॥ 14-16-30 (92804) उपास्यमानो मुनिभिः सिद्धैश्चापि महात्मभिः। स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ॥ 14-16-31 (92805) तं मया सह गत्वाऽद्य राजानं कुरुवर्धनम्। आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति॥ 14-16-32 (92806) इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे। प्रियश्च मान्यश्च हि मे युधिष्ठिरः सदा कुरूणामधिपो महामतिः॥ 14-16-33 (92807) प्रयोजनं चापि निवासकारणे न विद्यते मे त्वदृते नृपात्मज। स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सुवृत्तस्य युधिष्ठिरस्य च॥ 14-16-34 (92808) इतीदमुक्तः स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः। तथेति दुःखादिव वाक्यमैरय- ज्जनार्दनं सम्प्रतिपूज्य पार्थिव॥ ॥ 14-16-35 (92809) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि षोडशोऽध्यायः॥ 16 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-16-4 शैलेषु गह्वरारण्ये पल्वलेष्विति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 017

॥ श्रीः ॥

14.17. अध्यायः 017

अथानुगीतापर्व ॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

अर्जुनेन कृष्णंप्रति पूर्वोपदिष्टगीतार्थस्य विस्मरणोक्त्या पुनस्तदुपदेशप्रार्थना॥ 1 ॥ कृष्णेनार्जुनंप्रति स्वस्मै ब्राह्मणोक्तसिद्धकाश्यपसंवादानुवादः॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

जनमेजय उवाच। सभायां वसतोस्तत्र निहत्यारीन्महात्मनोः। केशवार्जुनयोः का नु कथा समभवद्द्विज॥ 14-17-1 (92810) वैशम्पायन उवाच। 14-17-2x (7799) कृष्णेन सहितः पार्थः स्वं राज्यं प्राप्य केवलम्। तस्यां सभायां दिव्यायां विजहार मुदा युतः॥ 14-17-2 (92811) तत्र कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप। यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ॥ 14-17-3 (92812) ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः। निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत्॥ 14-17-4 (92813) विदितं मे महाबाहो सङ्ग्रामे समुपस्थिते। महात्म्यं देवकीपुत्र तच्च ते रूपमैश्वरम्॥ 14-17-5 (92814) यत्तु तद्भवता प्रोक्तं पुरा केशव सौहृदात्। तत्सर्वं पुरुषव्याघ्र नष्टं मे व्यग्रचेतसः॥ 14-17-6 (92815) मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः पुनः। भवांस्तु द्वारकां गन्ता नचिरादिव माधव॥ 14-17-7 (92816) वैशम्पायन उवाच। 14-17-8x (7800) एवमुक्तस्तु तं कृष्णः फाल्गुनं प्रत्यभाषत। परिष्वज्य महातेजा वचनं वदतांवरः॥ 14-17-8 (92817) वासुदेव उवाच। 14-17-9x (7801) श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्। धर्मं स्वरूपिणं पार्त सर्वलोकांश्च शाश्वतान्॥ 14-17-9 (92818) अबुद्ध्या यन्न गृह्णीतास्तन्मे सुमहदप्रियम्। न च साऽद्य पुनर्भूयः स्मृतिर्मे सम्भविष्यति॥ 14-17-10 (92819) नूनमश्रद्दधानोऽसि दुर्मेधा ह्यसि पाण्डव। न च शक्यं पुनर्वक्तुमशेषेण धनंजय॥ 14-17-11 (92820) स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने। न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः॥ 14-17-12 (92821) परं हि ब्रह्म कथितं योगयुक्तेन तन्मया। इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम्॥ 14-17-13 (92822) यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि। शृणु धर्मभृतांश्रेष्ठ गदतः सर्वमेव मे॥ 14-17-14 (92823) आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम। ब्रह्मलोकाच्च दुर्धर्षः सोस्माभिः पूजितोऽभवत्॥ 14-17-15 (92824) अस्माभिः परिपृष्ठश्च यदाह भरतर्षभ। दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन्॥ 14-17-16 (92825) ब्राह्मण उवाच। 14-17-17x (7802) मोक्षधर्मं समाश्रित्य कृष्ण यन्माऽनुपृच्छसि। भूतानामनुकम्पार्थं मन्मोहच्छेदनं विभो॥ 14-17-17 (92826) तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन। शृणुष्वावहितो भूत्वा गदतो मम माधव॥ 14-17-18 (92827) कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः। आससाद द्विजं कंचिद्धर्माणामागतागमम्॥ 14-17-19 (92828) गतागमं सुबहुशो ज्ञानविज्ञानपारगम्। लोकतत्त्वार्थकुशलं ज्ञातरं सुखदुःखयोः॥ 14-17-20 (92829) जातिस्मरणतत्त्वज्ञं कोविदं पापपुण्ययोः। द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम्॥ 14-17-21 (92830) चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम्। दीप्यमानं श्रिया ब्राह्मया क्रममाणं च सर्वशः॥ 14-17-22 (92831) अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः। तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह॥ 14-17-23 (92832) सम्भाषमाणमेकान्ते समासीनं च तैः सह। यदृच्छया च गच्छन्तमसक्तं पवनं यथा॥ 14-17-24 (92833) तं समासाद्य मेधावी स तदा द्विजसत्तमः। चरणौ धर्मकामो वै स तस्य सुसमाहितः। प्रतिपदे यथान्यायं भक्त्या परमया युतः॥ 14-17-25 (92834) विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम्। परिचारेण महता गुरुं तं पर्यतोषयत्॥ 14-17-26 (92835) उपपन्नं च तत्सर्वं श्रुतचारित्रसंयुतम्। भौमेनातोषयच्चैनं गुरुवृत्तिं समास्थितः॥ 14-17-27 (92836) तस्मै तुष्टः स शिष्याय यत्प्रसन्नोऽब्रवीद्गुरुः। सिद्धिं परामभिप्रेक्ष्य शृणु मत्तो जनार्दन॥ 14-17-28 (92837) सिद्ध उवाच। 14-17-29x (7803) विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः। गच्छन्तीह गतिं मर्त्या देवलोके च वा स्थितिम्॥ 14-17-29 (92838) न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः। स्थानाच्च महतो भ्रंशो दुःखलब्दात्पुनः पुनः॥ 14-17-30 (92839) अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात्। काममन्युपरीतेन तृष्णया मोहितेन च॥ 14-17-31 (92840) पुनः पुनश्च मरणं जन्म चैव पुनः पुनः। आहारा विविधा भुक्ताःपीता नानाविधाःस्तनाः॥ 14-17-32 (92841) मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः। सुखानि च विचित्राणि दुःखानि च मयाऽनघ॥ 14-17-33 (92842) प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह। धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम्॥ 14-17-34 (92843) अवमानाः सुकष्टाश्च परतः स्वजनात्तथा। शारीरा मानसा वाऽपि वेदना भृशदारुणाः॥ 14-17-35 (92844) प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः। पतनं निरये चैव यातनाश्च यमक्षये॥ 14-17-36 (92845) जरारोगाश्च सततं व्यसनानि च भूरिशः। लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया॥ 14-17-37 (92846) ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च। लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया॥ 14-17-38 (92847) लोकेऽस्मिन्ननुभूयाहमिमं मार्गमनुष्ठितः। ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया। नाहं पुनरिहागन्ता लोकानालोकयाम्यहम्॥ 14-17-39 (92848) आसिद्धेराप्रजासर्गादात्मनोपि गतीः शुभाः। उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा॥ 14-17-40 (92849) इतः परं गमिष्यामि ततः परतरं पुनः। ब्रह्मणः पदमव्यक्तं मा तेऽभूतत्र संशयः॥ 14-17-41 (92850) नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप। प्रीतोस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते॥ 14-17-42 (92851) यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः। अभिजाने च तदहं यदर्थं मामुपागतः॥ 14-17-43 (92852) अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम्। भृशं प्रीतोस्मि भवतश्चारित्रेण विचक्षण॥ 14-17-44 (92853) परिपृच्छ यावद्भवतो भाषे यद्यत्तवेप्सितम्॥ 14-17-45 (92854) बहुमन्ये च ते बुद्धिं भृशं सम्पूजयामि च। येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप॥ ॥ 14-17-46 (92855) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तदशोऽध्यायः॥ 17 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-17-19 आगतागमं प्राप्तशास्त्ररहस्यमूहापोहकुशलमित्यर्थः॥ 7-17-43 बहुमन्ये भृशं पूजये। अहमन्तर्धानगतोऽपि यतस्त्वया ज्ञातः॥
आश्वमेधिकपर्व - अध्याय 018

॥ श्रीः ॥

14.18. अध्यायः 018

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्राह्मणेन कृष्णंप्रति प्राणिनां जननमरणादिप्रतिपादकसिद्धकश्यपसंवादनुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वासुदेव उवाच। ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान्। पप्रच्छ तांश्च धर्मान्स प्राह धर्मभृतांवरः॥ 14-18-1 (92856) काश्यप उवाच। 14-18-2x (7804) कथं शरीराच्च्यवते कथं चैवोपपद्यते। कथं कष्टाच्च संसारात्संसरन्परिमुच्यते॥ 14-18-2 (92857) आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति। शरीरे च विनिर्मुक्तो कथमन्यत्प्रपद्यते॥ 14-18-3 (92858) कथं शुभाशुभे चायं कर्मणी स्वकृते नरः। उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठते॥ 14-18-4 (92859) ब्राह्मण उवाच। 14-18-5x (7805) एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत। आनुपूर्व्येण वार्ष्णेय तन्मे निगदतः शृणुः॥ 14-18-5 (92860) सिद्ध उवाच। 14-18-6x (7806) `अस्मिन्नेवाशु फलदा आयुष्यास्तु क्रियाःस्मृताः। आयुःकीर्तिकराणीह यानि कृत्यानि सेवते। शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः॥ 14-18-6 (92861) आयुःक्षयपरीतात्मा विपरीतानि सेवते। बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते॥ 14-18-7 (92862) सत्त्वं बलं च कालं चाविदित्वा चात्मनस्तथा। अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवान्॥ 14-18-8 (92863) यदाऽयमतिकष्टानि सर्वाण्युपनिषेवते। अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन॥ 14-18-9 (92864) दुष्टान्नामिषपानं च यदन्योन्यविरोधि च। गुरु चाप्यमितं भुङ्क्ते नातिजीर्णे दिवा पुनः॥ 14-18-10 (92865) व्यायाममतिमात्रं च व्यावाय चोपसेवते। सततं कर्मलोभाद्वा प्राप्तं वेगं विधारयेत्॥ 14-18-11 (92866) रसाभियुक्तमन्नं वा दिवास्वप्नं च सेवते। अपक्वानागते काले स्वयं दोषान्प्रकोपयेत्॥ 14-18-12 (92867) स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्। अपि वोद्बन्धनादीनि परीतानि व्यवस्यति॥ 14-18-13 (92868) तस्य तैः कारणैर्जन्तोः शरीरं च्यवते तदा। जीवितं प्रोच्यमानं तद्यथावदुपधारय॥ 14-18-14 (92869) ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः। शरीरमनुपर्येत्य सर्वान्प्राणान्रुणद्धि वै॥ 14-18-15 (92870) अत्यर्थं बलवानूष्मा शरीरे परिकोपितः। भिनत्ति जीवस्थानानि तानि कर्मणि विद्धि च॥ 14-18-16 (92871) ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन्। शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु। वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम॥ 14-18-17 (92872) जनीमरणसंविग्राः सततं सर्वजन्तवः। दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ॥ गर्भसंक्रमणे चापि गर्भाणापुपसर्पणे। तादृशीमेव लभते वेदनां मानवः पुनः॥ 14-18-18 (92873) भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः॥ 14-18-20 (92874) यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति। शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः॥ 14-18-21 (92875) यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः। स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणः। शरीरं च जहात्येवं निरुच्छ्वासश्च दृश्यते॥ 14-18-22 (92876) स निरूष्मा निरुच्छ्वासो निःश्रीको गतचेतनः। कर्मणा सम्परित्यक्तो मृत इत्युच्यते नरः॥ 14-18-23 (92877) स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत्। तैरेव न विजानाति प्राणानाहारसम्भवान्॥ 14-18-24 (92878) तत्रैव कुरुते काये यः स जीवः सनातनः॥ 14-18-25 (92879) तथा यद्यद्भवेन्मुक्तं सन्निपाते क्वचित्क्वचित्। तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा॥ 14-18-26 (92880) तेषु मर्मसु भिन्नेषु ततः स समुदीरयन्। आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै॥ 14-18-27 (92881) ततः सचेतनो जन्तुर्नाभिजानाति किञ्चन। तमसा संवृतज्ञानः संवृतेष्वेव मर्मसु। स जीवो निरदिष्ठानश्चाल्यते मातरिश्वना॥ 14-18-28 (92882) ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम्। निष्क्रमन्कम्पयत्याशु तच्छरीरमचेतनम्॥ 14-18-29 (92883) स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः। अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाऽप्युपपद्यते॥ 14-18-30 (92884) ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः। इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः॥ 14-18-31 (92885) यथान्धकारे खद्येतं दीप्यमानं ततस्ततः। चक्षुष्मन्तः प्रपश्यन्ति तथा च ज्ञानचक्षुषः॥ 14-18-32 (92886) पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा। च्यवन्तं जायमानं च योनिं चानुप्रवेशितम्॥ 14-18-33 (92887) तस्य स्थानानि दृष्टानि विविधानीह शास्त्रतः। कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः॥ 14-18-34 (92888) ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः। इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः॥ 14-18-35 (92889) इहैवाशुभकर्माणः कर्मभिर्निरयं गताः। अवाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः। तस्मात्सुदुर्लभो मोक्षो रक्ष्यश्चात्मा ततो भृशम्॥ 14-18-36 (92890) ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः। कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे॥ 14-18-37 (92891) तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुद्ध्येथाः कर्मनिश्चयम्। तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम्॥ 14-18-38 (92892) यत्र विभ्राजते लोके स्वभासा सूर्यमण्डलम्। स्थानान्येतानि जानीहि जनानां पुण्यकर्मणाम्॥ 14-18-39 (92893) कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः। तत्रापि च विशेषोस्ति दिवि नीचोच्चमध्यमः॥ 14-18-40 (92894) न च तत्रापि संतोषो दृष्ट्वा दीप्ततरां श्रियम्। इत्येता गतयः सर्वाः पृथक्ते समुदीरिताः॥ 14-18-41 (92895) उपपत्तिं तु वक्ष्यामि गर्भस्याहमतः परम्। तथावत्तां निगदतः शृणुष्वावहितो द्विज॥ ॥ 14-18-42 (92896) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टादशोऽध्यायः॥ 18 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-18-10 दुष्टान्नं विषमान्नं विते क.ट.पाठः॥ 7-18-12 अपक्वाशं गते काले स्वयं दोषप्रकोपनमिति क.ठ.थ.पाठः॥ 7-18-19 गर्भसङ्क्रमणे गर्भस्थदेहप्रवेशे॥ 7-18-21 श्लेष्मा प्रकुपित इति क.थ.पाठः॥ 7-18-24 स्नोतोभिरिन्द्रियैः॥
आश्वमेधिकपर्व - अध्याय 019

॥ श्रीः ॥

14.19. अध्यायः 019

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्राह्मणेन कृष्णंप्रति जीवस्य गर्भप्रवेशादिप्रतिपादककाश्यपसिद्धसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। शुभानामशुभानां च नेह नाशोस्ति कर्मणाम्। प्राप्यप्राप्यानुपच्यन्ते क्षेत्रेक्षेत्रे तथातथा॥ 14-19-1 (92897) यथा प्रसूयमानस्तु फली दद्यात्फलं बहु। तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम्॥ 14-19-2 (92898) पापं चापि तथैव स्यात्पापेन मनसा कृतम्। पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते॥ 14-19-3 (92899) यथा कर्मसमाविष्टः काममन्युसमावृतः। नरो गर्भं प्रविशति तत्रापि शृणु चोत्तरम्॥ 14-19-4 (92900) शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्। क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाऽशुभम्॥ 14-19-5 (92901) सौक्ष्म्यादव्यक्तयावाच्च न च क्वचन सज्जति। सम्प्राप्य ब्राह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम्॥ 14-19-6 (92902) तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः॥ 14-19-7 (92903) स जीवः सर्वभूतानां गर्भमाविश्य भागशः। दधाति चेतना सद्यः प्राणस्थानेष्ववस्थितः। ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः॥ 14-19-8 (92904) यथा लोहस्य विष्यन्दो निषिक्तो बिम्बविग्रहम्। उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम्॥ 14-19-9 (92905) लोहपिण्डं यथा वह्निः प्रविश्य ह्यतितापयेत्। तथा त्वमपि जानीहि गर्भे जीवोपपादनम्। 14-19-10 (92906) यथा च दीपः शरणं दीप्यमानः प्रकाशयेत्। एवमेव शरीराणि प्रकाशयति चेतनः॥ 14-19-11 (92907) यद्यच्च कुरुते कर्म शुभं वा यदि वाऽशुभम्। पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते॥ 14-19-12 (92908) ततस्तु क्षीयते चैव पुनश्चान्यत्प्रचीयते। यावत्तु मोक्षयोगस्थं धर्मं नैवावबुध्यते॥ 14-19-13 (92909) तत्ते धर्मं प्रवक्ष्यामि सुखी भवति येन वै। आवर्तमानो जातीषु यथाऽन्योन्यासु सत्तम॥ 14-19-14 (92910) दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम्। दमः प्रशान्तता चैव भूतानां चानुकम्पनम्॥ 14-19-15 (92911) संयमश्चानृशंस्य च परस्वादानवर्जनम्। व्यलीकानामकरणं भूताना मनसा भुवि॥ 14-19-16 (92912) मातापित्रोश्च शुश्रूषा देवतातितिपूजनम्। गुरुपूजा घृणा शौचं नित्यमिन्द्रयसंयमः॥ 14-19-17 (92913) प्रवर्तनं शुभानां च तत्सतां व्रतमुच्यते। ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः॥ 14-19-18 (92914) `सद्भिराचरितो धर्मः सदाचारे प्रतिष्ठितः। उभयार्थो भवत्येव स्वर्गार्थो मोक्षतस्तथा॥'॥ 14-19-19 (92915) एवं सत्सु सदा पश्येत्तत्रछाप्येषा ध्रुवा स्थितिः। आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः॥ 14-19-20 (92916) तेषु तत्कर्म निक्षिप्तं यः स धर्मः सनातनः। यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्॥ 14-19-21 (92917) अतो नियम्यते लोकः प्रच्यवन्धर्मवर्त्मसु। यश्च योगी च मुक्तश्च स ऐतेभ्यो विशिष्यते॥ 14-19-22 (92918) वर्तमानस्य धर्मेण पुरुषस्य यथा तथा। संसारतारणं ह्यस्य कालेन महता भवेत्॥ 14-19-23 (92919) एवं पूर्वकृतं कर्म सर्वो जन्तुः प्रपद्यते। सर्वं तत्कारणं येन निकृतोऽप्यमिहागतः॥ 14-19-24 (92920) शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्। इत्येवं संशये लोके तच्च वक्ष्याम्यतः परम्॥ 14-19-25 (92921) शरीरमात्मनः कृत्वा सर्वलोकपितामहः। त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम्॥ 14-19-26 (92922) ततः प्रधानमसृजच्चेतनां तु शरीरिणाम्। यया सर्वमिदं व्याप्तं यां लोके परमां विदुः॥ 14-19-27 (92923) इदं तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्। त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक्॥ 14-19-28 (92924) असृजत्सर्वभूतानि पूर्वदृष्टः प्रजापतिः। स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः॥ 14-19-29 (92925) तस्य कालपरीमाणमकरोत्स पितामहः। भूतेषु परिवृत्तिं च पनरावृत्तिमेव च॥ 14-19-30 (92926) यथा तु कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि। यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते॥ 14-19-31 (92927) सुखदुःखे यथा सम्यगनित्ये यः प्रपश्यति। कायं चामेध्यसंस्थानं विनाशं कर्मसंहितम्॥ 14-19-32 (92928) यच्च किञ्चित्सुखं तच्च दुःखं दृष्टमिति स्मरन्। संसारसागरं घोरं तरिष्यति सुदुस्तरम्॥ 14-19-33 (92929) जनीमरणरोगैश्च समाविष्टः प्रधानवित्। चेतनाव्तसु चैतन्यं समं भूतेषु पश्यति॥ 14-19-34 (92930) निर्विद्यते ततः कश्चिन्मार्गमाणः परं पदम्। तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम॥ 14-19-35 (92931) शाश्वतस्याव्ययस्याथ् यदस्य ज्ञानमुत्तमम्। प्रोच्यमानं मया विप्र निबोधदमशेषतः॥ ॥ 14-19-36 (92932) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोविंशोऽध्यायः॥ 19 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-19-2 फली वृक्षः। 7-19-8 तथापि तेजसा सम्यक्प्राणस्थाने इति थ. पाठः॥ 7-19-9 यथा स्वर्णद्रवः स्वल्पोति कृत्स्नां ताम्रप्रतिमां स्वर्णमयीमिव करोत्येवं गर्भे जीवप्रवेशनं। शरीरे सूक्ष्मस्यापि चैतन्यस्य व्याप्तिरित्याद्यस्य परिहारः॥ 7-19-28 क्षरं जडम्॥
आश्वमेधिकपर्व - अध्याय 020

॥ श्रीः ॥

14.20. अध्यायः 020

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनार्जुनंप्रति मोक्षसाधनादिप्रतिपादकसिद्धकाश्यपसंवादरूपानुगीतोपदेशः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। यः स्यादेकान्त आसीनस्तूष्णीं किञ्चिदचिन्तयन्। पूर्वंपूर्वं परित्यज्य स निरारम्भको भवेत्॥ 14-20-1 (92933) सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः। व्यपेतभयमन्युश्च कामहा मुच्यते नरः॥ 14-20-2 (92934) आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः। `नित्यमेव यथान्यायं यश्चरेन्नियतेन्द्रियः।' अमानी निरभीमानः सर्वतो मुक्त एव सः॥ 14-20-3 (92935) जीवितं मरणं चोभे सुखदुःखे तथैव च। लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते॥ 14-20-4 (92936) न कस्यचित्स्पृहयते नावजानाति किचन। निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः॥ 14-20-5 (92937) अनमित्रश्च निर्बन्धुरनपत्यश्च यः क्वचित्। त्यक्तधर्मार्थकामश्च निराराङ्क्षी च मुच्यते॥ 14-20-6 (92938) नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः। क्षीणधातुः प्रशान्तात्मा निर्द्वंद्वः स विमुच्यते॥ 14-20-7 (92939) अकर्मा चाविकाङ्क्षश्च पश्येज्जगदशाश्वतम्। अस्वस्तमवशं नित्यं जन्ममृत्युजरायुतम्॥ 14-20-8 (92940) वैराग्यबुद्धिः सततं तावद्दोषव्यपेक्षकः। आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव॥ 14-20-9 (92941) अगन्धमरसस्पर्शमशब्दमपरिग्रहम्। अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते॥ 14-20-10 (92942) पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम्। अगुणं गुणभोक्तारं यः पश्यति स मुच्यते॥ 14-20-11 (92943) विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान्। शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः॥ 14-20-12 (92944) सर्वसंस्कारनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः। तपसा इन्द्रियग्रामं यश्चरेन्मुक्त एव सः॥ 14-20-13 (92945) विमुक्तः सर्वसंस्कारैस्ततो ब्रह्मि सनातनम्। परमाप्नोति संशान्तमचलं नित्यमक्षरम्॥ 14-20-14 (92946) अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्। यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः॥ 14-20-15 (92947) तस्योपदेशं वक्ष्यामि यथावत्तन्निबोध मे। यैर्योगैर्भावयन्नित्यं पश्यत्यात्मानमात्मनि॥ 14-20-16 (92948) इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्। तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत्॥ 14-20-17 (92949) तपस्वी नित्यसङ्कल्पो दम्भाहङ्कारवर्जितः। मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि॥ 14-20-18 (92950) स चेच्छक्रोत्ययं साधुर्योक्तुमात्मानमात्मनि। तत एकान्तशीलः स पश्यत्यात्मानमात्मनि॥ 14-20-19 (92951) संयतः सततं युक्त आत्मवान्विजितेन्द्रियः। यथा य आत्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति॥ 14-20-20 (92952) यथाहि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति। तथारूपमिवात्मानं साधुयुक्तः प्रपश्यति॥ 14-20-21 (92953) इषीकां च यथा मुञ्जात्कश्चिन्निष्कृष्य दर्शयेत्। योगी निष्कृष्य चात्मानं तथा पश्यति देहतः॥ 14-20-22 (92954) मुञ्जं शरीरमित्याहुरिषीकामात्मनि श्रिताम्। एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्॥ 14-20-23 (92955) यदा हि युक्तमात्मानं सम्यक् पश्यति देहभूत्। न तस्येहेश्वरः कश्चित्त्रैलोक्यस्यापि यः प्रभुः॥ 14-20-24 (92956) अन्यान्याश्चैव तनवो यथेष्टं प्रतिपद्यते। विनिर्भिद्य जरां मृत्युं न शोचति न हृष्यति॥ 14-20-25 (92957) देवानामपि देवत्वं युक्तः कारयते वशी। ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्॥ 14-20-26 (92958) विनश्यत्सु च लोकेषु न भयं तस्य जायते। क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित्॥ 14-20-27 (92959) दुःखशोकमलैर्घोरैः सङ्गस्नेहसमुद्भवैः। न विचाल्यति युक्तात्मा निस्पृहः शान्तमानसः॥ 14-20-28 (92960) नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते। नातः सुखतरं किञ्चिल्लोके क्वचन दृश्यते॥ 14-20-29 (92961) सम्यग्युक्त्वा स आत्मानमात्मन्येव प्रतिष्ठिते। विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः॥ 14-20-30 (92962) देहान्यथेष्टमभ्येति हित्वेमां मानुषीं तनुम्। निर्वेदस्तु न कर्तव्यो भुञ्जानेन कथञ्चन॥ 14-20-31 (92963) सम्यग्युक्तो यदात्मानमात्मन्येव प्रपश्यति। तदैव न स्पृहयते साक्षादपि शतक्रतोः॥ 14-20-32 (92964) योगमेकान्तशीलस्तु यथा विन्दति तच्छृणु। दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्परे॥ 14-20-33 (92965) पुरस्याभ्यन्तरे तस्य मनः स्थाप्यं न बाह्यतः। पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत। तस्मिन्नावसथे धार्यं सबाद्याभ्यन्तरं मनः॥ 14-20-34 (92966) प्रचिन्त्यावसथे कृत्स्नं यस्मिन्काये स पश्यति। तस्मिन्काये मनश्चास्य न च किञ्चन बाह्यतः॥ 14-20-35 (92967) सन्नियम्येन्द्रियग्रामं निर्घोषं निर्जने वने। कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत्॥ 14-20-36 (92968) इन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च। हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्॥ 14-20-37 (92969) इत्युक्तः स मया शिष्यो मेधावी मधुसूदन। पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्॥ 14-20-38 (92970) भुक्तं भुक्तमिदं कोष्ठे कथमन्नं विपच्यते। कथं रसत्वं व्रजति शोणितत्वं कथं पुनः॥ 14-20-39 (92971) तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषयेत्। कथमेतानि सर्वाणि शरीराणि शरीरिणाम्॥ 14-20-40 (92972) वर्धन्ते वर्धमानस्य वर्धते च कथं बलम्। निरासनं निष्कसनं मलानां च पृथक् पृथक्॥ 14-20-41 (92973) कुतो वाऽयं प्रश्वसिति उच्छ्वसित्यपि वा पुनः। कं च देशमधिष्ठाय तिष्ठत्यात्माऽयमात्मनि॥ 14-20-42 (92974) जीवः कथं वहति च चेष्टमानः कलेवरम्। किंवर्णं कीदृशं चैव निवेशयति वै मनः॥ 14-20-43 (92975) याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ। इति सम्परिपृष्टोऽहं तेन विप्रेणि माधव॥ 14-20-44 (92976) प्रत्यब्रवं महाबाहो यथाश्रुतमरिंदम। यथा स्वकोष्ठे प्रक्षिप्य भाण्डं भाण्डमना भवेत्॥ 14-20-45 (92977) तथा स्वकाये प्रक्षिप्य मनोद्वारैरनिश्चलैः। आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्॥ 14-20-46 (92978) एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव। आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित्॥ 14-20-47 (92979) न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः। मनसैव प्रदीपेन महानात्मा प्रदृश्यते॥ 14-20-48 (92980) सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः। सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति॥ 14-20-49 (92981) जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति। स तमुत्सृज्य देहं स्वं पारयेद्ब्रह्म केवलम्॥ 14-20-50 (92982) आत्मानमालोकयति मनसा प्रहसन्निव। तदेवमाश्रयं कृत्वा मोक्षं याति ततो मयि॥ 14-20-51 (92983) इदं सर्वरहस्यं ते मया प्रोक्तं द्विजोत्तम। आपृच्छे साधयिष्यामि गच्छ विप्र यथासुखम्॥ 14-20-52 (92984) इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः। अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः॥ 14-20-53 (92985) वासुदेव उवाच। 14-20-54x (7807) इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजसत्तमः। मोक्षधर्माश्रितं सम्यक् तत्रैवान्तरधीयत॥ 14-20-54 (92986) कच्चिदेतत्त्वया पार्थ श्रुत्मेकाग्रचेतसा। तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि॥ 14-20-55 (92987) नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः। नरेणाकृतसङ्गेन विशुद्धेनान्तरात्मना॥ 14-20-56 (92988) सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ। कच्चित्त्विदं श्रुतं पार्थ मनुष्येणेह कर्हिचित्॥ 14-20-57 (92989) न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ। नैतदन्येनि विज्ञेयं व्यामिश्रेणान्तरात्मना॥ 14-20-58 (92990) क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः। न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम्॥ 14-20-59 (92991) परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम्। यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी॥ 14-20-60 (92992) इमं धर्मं समास्थाय येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥ 14-20-61 (92993) किं पुनर्ब्रह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः। स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणः॥ 14-20-62 (92994) हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने। सिद्धिं फलं च मोक्षश्च दुःखस्य च विनिर्णियः॥ 14-20-63 (92995) नातः परं सुखं त्वन्यत्किंचित्स्याद्भरतर्षभ। श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव॥ 14-20-64 (92996) यः परित्यज्यते मर्त्यो लोकसारमसरवत्। एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुते॥ 14-20-65 (92997) एतावदेव वक्तव्यं नान्तो भूयोस्ति किञ्चन। षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते॥ ॥ 14-20-66 (92998) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि विंशोऽध्यायः॥ 20 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-20-2 सर्वमित्रोऽद्रोही। सर्वसहः क्षमी॥ 7-20-6 अनमित्रः शत्रुहीनः॥ 7-20-11 अमूर्तिमदहेतुकमिति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 021

॥ श्रीः ॥

14.21. अध्यायः 021

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनार्जुनंप्रति भूतप्राणादिसृष्ट्यादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वासुदेव उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्। दंपत्योः पार्थ संवादो योऽभकवद्भरतर्षभ॥ 14-21-1 (92999) ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम्। दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत्॥ 14-21-2 (93000) कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता। न्यस्तकर्माणमासीनं कीनाशमविचक्षणम्॥ 14-21-3 (93001) भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम्। त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम्॥ 14-21-4 (93002) एवमुक्तः स शान्तात्मा तामुवाच हसन्निव। सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे॥ 14-21-5 (93003) ग्राह्यं दृश्यं तथा श्राव्यं यदिदं कर्म विद्यते। एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः॥ 14-21-6 (93004) मोहमेव निगच्छन्ति कर्मिणो ज्ञानवर्जिताः। नैष्कर्म्य न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते॥ 14-21-7 (93005) कर्मणा मनसा वाचा शुभं वा यदि वाऽशुभम्। जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते॥ 14-21-8 (93006) रक्षोभिर्वध्यमानेषु दृश्यश्राव्येषु कर्मसु। आत्मस्थमात्मना तेन दृष्टमायतनं मया॥ 14-21-9 (93007) यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना। व्यवायं कुरुते नित्यं धीरो भूतानि धारयन्॥ 14-21-10 (93008) यत्रि ब्रह्मादयो युक्तास्तदक्षरमुपासते। विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः॥ 14-21-11 (93009) घ्राणेन न तदाघ्रेयं नास्वाद्यं चैव जिह्वया। स्पर्शनेन तदस्पृश्यं मनसा त्ववगम्यते॥ 14-21-12 (93010) चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम्। अगन्धमरसस्पर्शमरूपं शब्दवर्जितम्। यतः प्रवर्तते तन्त्रं यत्र चैतत्प्रतिष्ठितम्॥ 14-21-13 (93011) प्राणोऽपानः समानश्च व्यानश्चोदान एव च। तत एव प्रवर्न्तते तदेव प्रविशन्ति च॥ 14-21-14 (93012) समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः। तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च॥ 14-21-15 (93013) अपनाप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति। तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः॥ 14-21-16 (93014) प्राणोनोपहते यत्तु तमुदानं प्रचक्षते। तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः॥ 14-21-17 (93015) तेषामन्योन्यसक्तानां सर्वेषां देहचारिणाम्। अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा॥ 14-21-18 (93016) घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्। मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः॥ 14-21-19 (93017) घ्रेयं दृश्यं च पेयं च स्पृश्यं श्राव्यं तथैव च। मन्तव्यमवबोद्धव्यं ताः सप्त समिधो मताः॥ 14-21-20 (93018) घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः। मन्ता बोद्धा च स्प्तैते भवन्ति परमर्त्विजः॥ 14-21-21 (93019) घ्रेये पेये च दृश्ये च स्पृश्ये श्राव्ये तथैव च। मन्तव्येऽप्यथ बोद्धव्ये सुभगे पश्य सर्वदा॥ 14-21-22 (93020) हवींष्याग्निषु होतारः सप्तधा सप्तसप्तसु। सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु॥ 14-21-23 (93021) पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। मनो बुद्धिश्च सप्तैता योनिरित्येव शब्दिताः॥ 14-21-24 (93022) हविर्भूतगुणाः सर्वे प्रविशन्त्यग्नियं मुखम्। अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु॥ 14-21-25 (93023) तत्रैव च निरुध्यन्ते प्रलये भूतभावने। ततः संजायते गन्धस्ततः संजायते रसः॥ 14-21-26 (93024) ततः संजायते रूपं ततः स्पर्शोऽभिजायते। ततः संजायते शब्दः संशयस्तत्र जायते। ततः संजायते निष्ठा जन्मैतत्सप्तधा विदुः॥ 14-21-27 (93025) अनेनैव प्रकारेण प्रगृहीतं पुरातनैः। पूर्णाहुतिभिरापूर्णास्ते पूर्यन्ते हि तेजसा॥ ॥ 14-21-28 (93026) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकविंशोऽध्यायः॥ 21 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-21-3 कर्म अग्निहोत्रादिकं न्यस्तं चेन तम्। कीनाशं कर्कशं मयि निरनुक्रोशम्। अविचक्षणं मम अनन्यगतिकत्वमजानन्तम्॥ 7-21-7 मौख्यमित्युपलभ्यते इति थ.द.पाठः॥ 7-21-17 तत्परं ब्रह्मवादिन इति द.पाठः॥
आश्वमेधिकपर्व - अध्याय 022

॥ श्रीः ॥

14.22. अध्यायः 022

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनार्जुनंप्रति दशेन्द्रियगुणादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्। निबोध दशहोतृणां विधानमिह यादृशम्॥ 14-22-1 (93027) श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चरणौ करौ। उपस्थं पायुरिति वाग्घोतृणि दश भामिनि॥ 14-22-2 (93028) शब्दस्पर्शौ रूपरसौ गन्धो वाक्यं क्रिया गतिः। रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च॥ 14-22-3 (93029) दिशो वायू रविश्चन्द्रः पृथ्व्यग्नी विष्णुरेव च। इन्द्रः प्रजापतिर्मित्रमग्नयो दश भामिनि॥ 14-22-4 (93030) दशेन्द्रियाणि होतृणि हवींषि दश भामिनि। विषया नाम समिधो हूयन्ते तु दशाग्निषु॥ 14-22-5 (93031) चित्तं स्रुवश्च वित्तं च पवित्रं ज्ञानमुत्तमम्। सुविभक्तमिदं पूर्वं जगदासीदिति श्रुतम्॥ 14-22-6 (93032) `ततो विविक्ता वित्तासीत्सा वित्तं पर्यवेक्षते।' सर्वमेवात्र विज्ञेयं चित्ते ज्ञानमवेक्षता। रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत्॥ 14-22-7 (93033) शरीरभृद्गार्हपत्यस्तस्मादग्निः प्रणीयते। मनश्चाहवनीयस्तु तस्मिन्प्रक्षिप्यते हविः॥ 14-22-8 (93034) ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते। रूपं भवति वै वक्त्रं तदनुद्रवते मनः॥ 14-22-9 (93035) ब्राह्मण्युवाच। 14-22-10x (7808) कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत्। मनसा चिन्तितं पूर्वं वाक्यं समभिपद्यते॥ 14-22-10 (93036) केन विज्ञानयोगेन मतिश्चित्तं समास्थिता। समुन्नीता नाध्यगच्छत्को वै तां प्रतिबाधते॥ 14-22-11 (93037) ब्राह्मण उवाच। 14-22-12x (7809) तन्मनस्थः पतिर्भूत्वा तस्मात्प्रेहन्निवायति। तां मतिं मनसः प्राहुर्मनस्तस्मादपेक्षते॥ 14-22-12 (93038) प्रश्नं तु वाङ्मनसयोर्यस्मात्त्वमनुपृच्छसि। तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम्॥ 14-22-13 (93039) उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम्। आवयोः श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो॥ 14-22-14 (93040) मन इत्येवि भगवांस्तदा प्राह सरस्वतीम्। अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ॥ 14-22-15 (93041) ब्राह्मण उवाच। 14-22-16x (7810) स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम। स्थावरं मत्सकाशे वै जङ्गमं विषये तव॥ 14-22-16 (93042) यस्तु ते विषये गच्छन्मन्त्रो वर्णः स्वरोपि वा। तन्मनो जङ्गमं नाम तस्मादसि गरीयसी॥ 14-22-17 (93043) तस्माद्भवितुमर्हामि स्वयमभ्येत्य शोभने। तस्मादुच्छ्वासमासाद्य प्रवक्ष्यामि सरस्वति॥ 14-22-18 (93044) प्राणापानावन्तरे यद्वाग्वै नित्यं स्म तिष्ठति। प्रीयमाणा महाभागे विना प्राणांश्च मामपि। प्रजापतिमुपाधावत्प्रसीद भगवन्निति॥ 14-22-19 (93045) ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः। तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित्॥ 14-22-20 (93046) घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते। तयोरपि च घोषिण्या निर्घोर्षैव गरीयसी॥ 14-22-21 (93047) गौरिव प्रस्रवत्यर्थान्रसमुत्तमशालिनी। सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी॥ 14-22-22 (93048) दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते। एतयोरन्तरं पश्य सूक्ष्मयोर्यतमानयोः॥ 14-22-23 (93049) ब्राह्मण्युवाच। 14-22-24x (7811) अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया। किंन्नु पूर्वं तदा देवी व्याजहार सरस्वती॥ 14-22-24 (93050) ब्राह्मण उवाच। 14-22-25x (7812) प्राणेन य सम्भवते शरीरे प्राणादपानं प्रतिपद्यते च। उदानभूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति॥ 14-22-25 (93051) ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प वागपि। तस्मान्मनः स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टाः॥ ॥ 14-22-26 (93052) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्वाविंशोऽध्यायः॥ 22 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-22-22 मासमुत्तमशालिनीति क.ट.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 023

॥ श्रीः ॥

14.23. अध्यायः 023

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनार्जुनंप्रति पृथग्घ्राणादीन्द्रियगुणप्रतिपादनपूर्वकं तेषां मनसा सह विवादप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्। सुभगे सप्तहोतॄणां विधानमिह यादृशम्॥ 14-23-1 (93053) घ्राणश्चक्षुश्च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम्। मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः॥ 14-23-2 (93054) सूक्ष्माकाशे समं प्राप्ते न पश्यन्तीतरेतरम्। एतद्वै सप्तहोतृत्वं स्वभावाद्विद्धि शोभने॥ 14-23-3 (93055) ब्राह्मण्युवाच। 14-23-4x (7813) सूक्ष्मे तु काशे सम्प्राप्ते कथं नान्योन्यदर्शिनः। कथं स्वभावाद्भगवन्नेतदाचक्ष्व मे प्रभो॥ 14-23-4 (93056) ब्राह्मण उवाच। 14-23-5x (7814) गुणज्ञानेषु विज्ञानं गुणज्ञानामभिज्ञता। परस्परं गुणानेते नाभिजानन्ति कर्हिचित्॥ 14-23-5 (93057) जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च। न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति॥ 14-23-6 (93058) घ्राणं चक्षुस्तथा क्षोत्रं त्वङ्मनो बुद्धिरेव च। न रसानधिगच्छन्ति जिह्वा तानधिगच्छति॥ 14-23-7 (93059) घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च। न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति॥ 14-23-8 (93060) घ्राणं जिह्वा ततश्चक्षुः श्रोत्रं बुद्धिर्मनस्तथा। न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति॥ 14-23-9 (93061) घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च। न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति॥ 14-23-10 (93062) घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं बुद्धिरेव च। सङ्कल्पान्नाधिगच्छन्ति मनस्तानधिगच्छति॥ 14-23-11 (93063) घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च। न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति॥ 14-23-12 (93064) अत्राप्युदाहरन्तीममितिहासं पुरातनम्। इन्द्रियाणां च संवादं मनसश्चैव भामिनि॥ 14-23-13 (93065) मन उवाच। 14-23-14x (7815) नाघ्राति मामृते घ्राणं रसं जिह्वा न वेत्ति च। रूपं चक्षुर्न गृह्णाति त्वक् स्पर्सं नावबुध्यते॥ 14-23-14 (93066) न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन। प्रवरं सर्वबूतानामहमस्मि सनातनम्॥ 14-23-15 (93067) अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः। इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः॥ 14-23-16 (93068) काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः। गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः॥ 14-23-17 (93069) इन्द्रियाण्यूचुः। 14-23-18x (7816) एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान्। ऋतेऽस्मानस्मदर्थांस्त्वं भोगान्भुङ्क्ते भवान्यदि॥ 14-23-18 (93070) यद्यस्मासु प्रलीनेषु तप्रणं प्राणधारणम्। भोगान्भुङ्क्ते भवान्सत्यं यथैतन्मन्यते तथा॥ 14-23-19 (93071) अथवाऽस्मासु लीनेषु तिष्ठत्सु विषयेषु च। यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत्॥ 14-23-20 (93072) अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा। घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा॥ 14-23-21 (93073) श्रोत्रेण गन्धानादत्स्व स्पर्शानादत्स्व जिह्वया। त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च॥ 14-23-22 (93074) बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम्। भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हति॥ 14-23-23 (93075) यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति। ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति॥ 14-23-24 (93076) विषयानेवमस्माभिर्दर्शितानभिमन्यसे। अनुभूतानतीतांश्च स्वप्ने जागरणे तथा॥ 14-23-25 (93077) वैमनस्यं गतानां च जन्तूनामल्पचेतसाम्। अस्मदर्थे कृते दृश्यते प्राणधारणम्॥ 14-23-26 (93078) बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च। बुभुक्षया पीड्यमानो विषयानेन धावति॥ 14-23-27 (93079) अगारमद्वारमिव प्रविश्य सङ्कल्पभोगान्विषयानविन्दन्। प्राणक्षये शान्तिमुपैति नित्यं दारुक्षयेऽग्निर्ज्वलितो यथैव॥ 14-23-28 (93080) कामं तु नष्टेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः। अस्मान्विना नास्ति तपोपलब्धि- स्तामप्यृते त्वां न भजेत्प्रहर्षः॥ ॥ 14-23-29 (93081) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रयोविंशोऽध्यायः॥ 23 ॥
आश्वमेधिकपर्व - अध्याय 024

॥ श्रीः ॥

14.24. अध्यायः 024

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनार्जुनंप्रति प्राणापानादीनां स्वस्वश्रैष्ठ्यप्रकारकविवादादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्। सुभगे पञ्चहोतॄणां विधानमिह यादृशम्॥ 14-24-1 (93082) प्राणापानवुदानश्च समानो व्यान एव च। पञ्चहोतॄंस्तथैतान्वै परं भावं विदुर्बुधाः॥ 14-24-2 (93083) ब्राह्मण्युवाच। 14-24-3x (7817) स्वबावात्सप्तहोतार इति मे पूर्विका मतिः। यथा वै पञ्च होतारः परो भावस्तदुच्यताम्॥ 14-24-3 (93084) ब्राह्मण उवाच। 14-24-4x (7818) प्राणेन सम्भृतो वायुरपानो जायते ततः। अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते॥ 14-24-4 (93085) व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते। उदाने सम्भृतो वायुः समानो नाम जायते॥ 14-24-5 (93086) तेऽपृच्छन्त पुरो गत्वा पूर्वजातं पितामहम्। यो नः श्रेष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति॥ 14-24-6 (93087) ब्रह्मोवाच। 14-24-7x (7819) यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। यस्मिन्प्रवृत्ते च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः॥ 14-24-7 (93088) प्राण उवाच। 14-24-8x (7820) मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ 14-24-8 (93089) ब्राह्मण उवाच। 14-24-9x (7821) प्रामः प्रालीयत ततः पुनश्च प्रचचार ह। समानश्चाप्युदानश्च वचो ब्रूतां पुनः शुभे॥ 14-24-9 (93090) न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम्। न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव। प्रचचार पुनः प्राणस्ततोऽपानोऽभ्यभाषत॥ 14-24-10 (93091) उपान उवाच। 14-24-11x (7822) मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ 14-24-11 (93092) ब्राह्मण उवाच। 14-24-12x (7823) व्यानश्च तमुदानश्चि भाषमाणमथोचतुः। अपान न त्वं श्रेष्ठोसि प्राणो हि वशगस्तव॥ 14-24-12 (93093) अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत्। श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥ 14-24-13 (93094) मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ 14-24-14 (93095) ब्राह्मण उवाच। 14-24-15x (7824) प्रालीयत ततो व्यानः पुनश्च प्रचचार ह। प्राणापानावुदानस्च समानश्च तमब्रुवन्॥ 14-24-15 (93096) न त्वं श्रेष्ठोसि नो व्यान समानस्तु वशे तव। प्रचचार पुनर्व्यानः समानः पुनरब्रवीत्। श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥ 14-24-16 (93097) मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ 14-24-17 (93098) `ततः समानः प्रालिल्ये पुनश्च प्रचचार ह। प्राणापानावुदानस्च व्यानश्चैव तमब्रवीत्। न त्वं समान श्रेष्ठोसि व्यान एव वशे तव॥' 14-24-18 (93099) समानः प्रचचाराथ उदानस्तमुवाच ह। श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥ 14-24-19 (93100) मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ 14-24-20 (93101) ततः प्रालीयतोदानः पुनश्च प्रचचार ह। प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन्। उदानि न त्वं श्रेष्ठोसि व्यानि एव वशे तव॥ 14-24-21 (93102) ब्राह्मण उवाच। 14-24-22x (7825) ततस्तानब्रवीत्सर्वान्स्मयमानः प्रजापतिः। सर्वे श्रेष्ठा न च श्रेष्ठाः सर्वे चान्योन्यकाङ्क्षिणः॥ 14-24-22 (93103) सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यधर्मिणः। इति तानब्रवीत्सर्वान्समवेतान्प्रजापतिः॥ 14-24-23 (93104) एकः स्थिरश्चराश्चान्ये विशेषात्पञ्च वायवः। एक एव च सर्वात्मा बहुधाऽप्युपचीयते॥ 14-24-24 (93105) परस्परस्य सुहृदो भावयन्तः परस्परम्। स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम्॥ ॥ 14-24-25 (93106) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुर्विशोऽध्यायः॥ 24 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-24-24 बहुधाप्युपलीयते इति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 025

॥ श्रीः ॥

14.25. अध्यायः 025

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनार्जुनंप्रति ब्राह्ममेन ब्राह्मणींप्रत्युक्तसृष्ट्यादिप्रतिपादकनारददेवमतसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादमृषेर्देवमतस्य च॥ 14-25-1 (93107) देवमत उवाच। 14-25-2x (7826) जन्तोः संजायमानस्य किंनु पूर्वं प्रवर्तते। प्राणोऽपानः समानो वा व्यानो वोदान एव च॥ 14-25-2 (93108) नारद उवाच। 14-25-3x (7827) येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम्। प्राणद्वन्द्वं हि विज्ञेयं तिर्यगूर्ध्वमधश्च यत्॥ 14-25-3 (93109) देवमत उवाच। 14-25-4x (7828) केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम्। प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वमधश्च यत्॥ 14-25-4 (93110) नारद उवाच। 14-25-5x (7829) सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते। रसात्संजायते चापि रूपादपि च जायते॥ 14-25-5 (93111) `स्पर्शात्संजायते चापि गन्धादपि च जायते।' शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते। प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते॥ 14-25-6 (93112) शुक्रात्संजायते चापि रसादपि च जायते। एतद्रूपमुदानस्य हर्षो मिथुनमन्तरा॥ 14-25-7 (93113) कामात्संजायते शुक्रं शुक्रात्संजायते रजः। समानव्यानजनिते सामान्ये शुक्रशोणिते॥ 14-25-8 (93114) प्राणापानाविदं द्वन्द्वमवाक् चोर्ध्वं च गच्छतः। व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते॥ 14-25-9 (93115) अग्निर्वै देवताः सर्वा इति देवस्य शासनात्। संजायते हि प्राणेषु ज्ञानं बुद्धिसमन्वितम्॥ 14-25-10 (93116) तस्य धूमस्तमोरूपं रजो भस्म सुतेजसः। सर्वं संजायते तस्य यत्र प्रक्षिप्यते हविः॥ 14-25-11 (93117) हविः समानो व्यानश्च इति यज्ञविदो विदुः। प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः॥ 14-25-12 (93118) एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः। निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणुः॥ 14-25-13 (93119) अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥ 14-25-14 (93120) `उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥' 14-25-15 (93121) सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥ 14-25-16 (93122) `उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥' 14-25-17 (93123) ऊर्ध्वं समानो व्यानश्च व्यस्यते कर्म तेन तत्। द्वितीयं तु समानेन पुनरेव व्यवस्यते॥ 14-25-18 (93124) शान्त्यर्थं वामदेव्यं च शान्तिर्ब्रह्म सनातनम्। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥ ॥ 14-25-19 (93125) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चविशोऽध्यायः॥ 25 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-25-18 पूर्वंसमानो व्यानोऽथ व्यस्यते तेन कर्मकृत् इति क.ट.पाठः॥
आश्वमेधिकपर्व - अध्याय 026

॥ श्रीः ॥

14.26. अध्यायः 026

अथानुगीतापर्व 2

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति कर्तृकर्मादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्। चातुर्होत्रविधानस्य विदानमिह यादृशम्॥ 14-26-1 (93126) तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते। शृणु मे गदतो भद्रे रहस्यमिदमुद्भुतम्॥ 14-26-2 (93127) करणं कर्म कर्ता च मोक्ष इत्येव भामिनि। चत्वार एते होतारो यैरिदं जगदावृतम्॥ 14-26-3 (93128) होतॄणां साधनं चैव शृणु सर्वमशेषतः। घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्। मनो बुद्धिश्च सप्तैते ज्ञेयाः कारणहेतवः॥ 14-26-4 (93129) गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः। मन्तव्यमवबोद्धव्यं सप्तैते कर्महेतवः॥ 14-26-5 (93130) घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः। मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः॥ 14-26-6 (93131) स्वगुणान्भक्षयन्त्येते गुणवन्तः शुभाशुभान्। असन्तो निर्गुणाश्चैते सप्तैते मोक्षहेतवः॥ 14-26-7 (93132) विदुषां बुध्यमानानां स्वंस्वं स्थानं यथाविधि। गुणास्ते देवता भूत्वा सततं भुञ्जते हविः॥ 14-26-8 (93133) `अदन्हवींषि चान्नानि ममत्वेन विहन्यते।' आत्मार्थे पाचयन्नन्नं ममत्वेनोपहन्यते॥ 14-26-9 (93134) अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम्। स चान्नं हन्ति तं चान्नं स हत्वा हन्यते पुनः॥ 14-26-10 (93135) हन्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः। न चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः॥ 14-26-11 (93136) मनसा मन्यते यच्च यच्च वाचा निगद्यते। श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते॥ 14-26-12 (93137) स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत्। मनस्येतानि संयम्य हवींष्येतानि सर्वशः॥ 14-26-13 (93138) गुणवत्पावको मह्यं दीप्यतेऽन्तःशरीरगः। योगयज्ञः प्रवृत्तो मे ज्ञानं ब्रह्ममयो हविः। प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः॥ 14-26-14 (93139) कर्ताऽनुमन्ता ब्रह्मात्मा होताऽध्वर्युः कृतस्तुतिः ऋतं प्रशास्ता तच्छस्त्रमपवर्गोऽस्य दक्षिणा॥ 14-26-15 (93140) ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः। नारायणाय देवाययदविन्दन्पशून्पुरा॥ 14-26-16 (93141) तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम्। देवं नारायणं भीरु सर्वात्मानं निबोध तम्॥ ॥ 14-26-17 (93142) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षडिंशोऽध्यायः॥ 26 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-26-11 अद्यमन्नमदन्नह्नि पुनरिति क.पाठः॥ 7-26-14 दीप्यते हव्यवाहन इति क.ट.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 027

॥ श्रीः ॥

14.27. अध्यायः 027

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति प्रजापतिना एकेनैव शब्देन परब्रह्मोपदेशे देवर्ष्यादीनां स्वस्वयोग्यतानुसारेण नानार्थावगमप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। एकः शास्ता न द्वितीयोस्ति शास्ता यो हृच्छयस्तमहमनु ब्रवीमि। तेनैव युक्तः प्रवणादिवोदकं यथा नियुक्तोस्मि तथा वहामि॥ 14-27-1 (93143) एको गुरुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि। तेनानुशिष्टा गुरुणा सदैव पुरा हता दानवाः सर्व एव॥ 14-27-2 (93144) एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि। तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयः पार्थ दिवि प्रभान्ति॥ 14-27-3 (93145) एकः श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि। तस्मिन्गुरौ गुरुवासं निरुष्यट शक्रो गतः सर्वलोकामरत्वम्॥ 14-27-4 (93146) एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि। तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगाः सर्व एव॥ 14-27-5 (93147) अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रजापतौ पन्नगानां देवर्षीणां च संविदम्॥ 14-27-6 (93148) देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम्। पर्यपृच्छन्नुपासीनं श्रेयोः नः प्रोच्यतामिति॥ 14-27-7 (93149) तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम्। ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः॥ 14-27-8 (93150) तेषां प्रद्रवमाणानामुपदेशं च शृण्वताम्। सर्पाणां दंशने भावः प्रवृत्तः पूर्वमे तु॥ 14-27-9 (93151) असुराणां प्रवृत्तस्तु दंभभावः स्वभावजः। दानं देवा व्यवसिता दममेव महर्षयः॥ 14-27-10 (93152) एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः। नानाव्यवसिताः सर्वे सर्पदेवर्षिदानवाः॥ 14-27-11 (93153) शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम्। पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते॥ 14-27-12 (93154) तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते। गुरुर्बन्धुश्च शास्ता च द्वेष्टा च हृदि संश्रिताः॥ 14-27-13 (93155) पापेन विचरँल्लोके पापचारी भवत्ययम्। शुभेन विचरँल्लोके शुभचारी भवत्युत॥ 14-27-14 (93156) कामचारी तु कामेन य हन्द्रियसुखे रतः। ब्रह्मचारी सदैवैष य इन्द्रियजये रतः॥ 14-27-15 (93157) अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः। ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम्॥ 14-27-16 (93158) ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः। आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः॥ 14-27-17 (93159) एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः। विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः॥ ॥ 14-27-18 (93160) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तविंशोऽध्यायः॥ 27 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-27-1 एकः शास्ता न द्वितीयोस्ति कश्चिद्यथा नियुक्तोऽस्मि तथा चरामि। हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता तेनानुयुक्तः प्रवणादिवोदकमिति क.ट.द.पाठः॥ 7-27-7 देवाश्च ऋषयश्चेति द्वन्द्वः॥ 7-27-8 प्राद्रवन्प्रतिपेदिरे। दिशो बहून्मार्गान्॥ 7-27-13 गुरुर्बोद्धा च श्रोता च द्वेष्टा च हृदि निःसृत इति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 028

॥ श्रीः ॥

14.28. अध्यायः 028

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णने युधिष्ठिरंप्रति विद्याब्रह्मणोररण्यत्वरूपणपरब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। संकल्पदंशमशकं शोकहर्षहिमातपम्। मोहान्धकारतिमिरं लोभव्याधिसरीसृपम्॥ 14-28-1 (93161) विषयैकात्ययाध्वानं कामक्रोधकिरातकम्। तदतीत्य महादुर्गं प्रविष्टोस्मि महद्वनम्॥ 14-28-2 (93162) ब्राह्मण्युवाच। 14-28-3x (7830) क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः। कियन्तः पर्वताश्चैव कियत्यध्यनि तद्वनम्॥ 14-28-3 (93163) ब्राह्मण उवाच। 14-28-4x (7831) नैतदस्ति पृथग्भावः किञ्चिनद्यत्ततः सुखम्। नैतदस्त्यपृथग्भावः किञ्चिद्दुःखतरं ततः॥ 14-28-4 (93164) तस्माद्ध्रस्वतरं नास्ति न ततोस्ति महत्तरम्। नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम्॥ 14-28-5 (93165) न तत्राविश्यि शोचन्ति न प्रहृष्यन्ति च द्विजाः। न च बिभ्यति केभ्यश्चिन्नैभ्यो बिभ्यति केचन॥ 14-28-6 (93166) तस्मिन्वने सप्त महाद्रुमाश्च फलानि सप्तातिथयश्च सप्त। सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम्॥ 14-28-7 (93167) पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वन्म्॥ 14-28-8 (93168) सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्॥ 14-28-9 (93169) `शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्' 14-28-10 (93170) सुरभीणि द्विवर्णानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्॥ 14-28-11 (93171) सुरभीण्येकवर्णानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्॥ 14-28-12 (93172) बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च। विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः॥ 14-28-13 (93173) एको वह्निः सुमना ब्राह्मणोत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति। तेभ्यो वृक्षाःक सप्त फलन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः॥ 14-28-14 (93174) आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः। अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम्॥ 14-28-15 (93175) प्रज्ञावृक्षं मोक्षफलं शान्तिच्छायासमन्वितम्। ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम्॥ 14-28-16 (93176) येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति पुनर्भवः। ऊर्ध्वं चाधश्च तिर्यक्च तस्य नान्तोऽधिगम्यते॥ 14-28-17 (93177) सप्त स्त्रियस्तत्र चरन्ति सत्या- स्त्ववाङ्मुखा भानुमत्यो जनित्र्यः। ऊर्ध्वं रसानाददते प्रजाभ्यः सर्वान्यथा नित्यमनित्यता च॥ 14-28-18 (93178) तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च। सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखैः सह॥ 14-28-19 (93179) यशो वर्चो भगश्चैव विजयः सिद्धतेजसः। एतमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम्॥ 14-28-20 (93180) ऋषयः पर्वताश्चैव सन्ति तत्र समासतः। नद्यश्च परितो वारि वहन्त्यो ब्रह्मिसम्भवम्॥ 14-28-21 (93181) नदीनां सङ्गमश्चैव वैताने समुपहरे। स्वात्मतृप्ता यतो यान्ति साक्षादेव पितामहम्॥ 14-28-22 (93182) कृशाशाः सुव्रताः शान्तास्तपसा दग्धकिल्बिषाः। आत्मन्यात्मानमावेश्य ब्राह्मणास्तमुपासते॥ 14-28-23 (93183) शमिमप्यत्र शंसन्ति विद्यारण्यविदो जनाः। तदरण्यमभिप्रेत्य यथातत्वमजायत॥ 14-28-24 (93184) एतदेवेदृशं पुण्यमरण्यं ब्राह्मणा विदुः। विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना॥ ॥ 14-28-25 (93185) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टाविंशोऽध्यायः॥ 28 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-28-7 सप्तर्षयः सप्त तथेन्धनानि इति क.थ.पाठः॥ 7-28-9 चतुर्वर्णानि दिव्यानीति क.थ.पाठः॥ 7-28-13 सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनमिति क.ट.थ.पाठः॥ 7-28-19 तत्रोपयन्ति चेति झ.पाठः। तेच सप्तर्षयः सिद्धा इति क.थ.पाठः॥ 7-28-20 भगश्चोजो विजयः सिद्धितेजसी इति क.थ.पाठः॥ 7-28-24 ऋचमप्यत्र पश्यन्ति विद्यारण्येति क.थ.पाठः॥ 7-28-25 विदित्वा नानुपश्यन्ति क्षेत्रज्ञा नानुदर्शनमिति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 029

॥ श्रीः ॥

14.29. अध्यायः 029

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनार्जुनंप्रति यागीयहिंसाया अधर्म्यत्वाभावप्रतिपादकाध्वर्युयतिसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। गन्धान्न जिघ्रामि रासान्न वेद्मि रूपं न पश्यामि न च स्पृशामि। न चापि शब्दान्विविधाञ्शृणोमि न चापि सङ्कल्पमुपैमि कञ्चित्॥ 14-29-1 (93186) अर्थानिष्टान्कामयते स्वभावः सर्वान्द्वेष्यान्प्रद्विषते स्वभावः। कामद्वेषानुद्भवतः स्वभावा- त्प्राणापानौ जन्तुदेहान्निवेश्य॥ 14-29-2 (93187) तेभ्यश्चान्यांस्तेषु नित्यांश्च भावा- न्भूतात्मानं अक्षयेऽहं शरीरे। तस्मिंस्तिष्ठन्नास्मि सक्तः कथंचि- त्कामक्रोधाभ्यां जरया मृत्युना च॥ 14-29-3 (93188) अकामयानस्य च सर्वकामा- नविद्विषाणस्य च सर्वदोषान्। न मे स्वभावेषु भवन्ति लेपा- स्तोयस्य बिन्दोरिव पुष्करेषु॥ 14-29-4 (93189) नित्यस्य चैतस्य भवन्ति नित्या निरीक्ष्यमाणस्य बहून्स्वभावान्। न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्॥ 14-29-5 (93190) अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अध्वर्युयतिसंवादं तं निबोध यशस्विनि॥ 14-29-6 (93191) प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत्। यतिरध्वर्युमासीनो हिंसोयमिति कुत्सयन्॥ 14-29-7 (93192) तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति। श्रेयसा योक्ष्यते जन्तुर्यज्ञाच्छ्रुतिरियं तथा॥ 14-29-8 (93193) यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति। यदस्य वारिजं किञ्चिदपस्तत्सम्प्रवेक्ष्यति॥ 14-29-9 (93194) सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च। आगमे वर्तमानस्य नमे दोषोस्ति कश्चन॥ 14-29-10 (93195) यतिरुवाच। 14-29-11x (7832) प्राणैर्वियोगे च्छागस्य यदि श्रेयः प्रपश्यसि। छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम्॥ 14-29-11 (93196) अनु त्वां मन्यते माता अनु त्वां मन्यते पिता। मन्त्रविज्ञानमुन्नीय परिवर्ते विशेषतः॥ 14-29-12 (93197) एवमेवानुमन्येरंस्तान्भवान्द्रष्टुमर्हति। तेषामनुमतिं श्रुत्वा शक्या कर्तुं विचारणा॥ 14-29-13 (93198) अध्वर्युरुवाच। 14-29-14x (7833) प्राणा अप्यस्य च्छागस्य प्रापितास्ते स्वयोनिषु। शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः॥ 14-29-14 (93199) इन्धनस्य तु तुल्येन शरीरेणि विचेतसा। हिंसा हि यष्टुकामानामिन्धनं पशुसंज्ञितम्॥ 14-29-15 (93200) अहिंसा सर्वधर्माणामिति वृद्धानुशासनम्। यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे॥ 14-29-16 (93201) अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम्। शक्यं बहुविधं वक्तुं भवता कार्यदूषणम्॥ 14-29-17 (93202) अहिंसा सर्वभूतानां नित्यमस्मासु रोचते। प्रत्यक्षतः साधयामो न परोक्षमुपास्महे॥ 14-29-18 (93203) अध्वर्यरुवाच। 14-29-19x (7834) भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान्। ज्योतिषां पश्यते रूपं स्पृशस्यनिलजान्गुणान्॥ 14-29-19 (93204) शृणोष्याकाशजाञ्शब्दान्मनसा मन्यसे मतिम्। सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे॥ 14-29-20 (93205) प्राणादाने निवृत्तोसि हिंसायां वर्तते भवान्। नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज॥ 14-29-21 (93206) यतिरुवाच। 14-29-22x (7835) अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः। अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते॥ 14-29-22 (93207) प्राणो जिह्वा मनः सत्त्वं सद्भावो रजसा सह। भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः॥ 14-29-23 (93208) समस्य सर्वभूतेषु निर्ममस्य जितात्मनः। समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित्॥ 14-29-24 (93209) अध्वर्युरुवाच। 14-29-25x (7836) सद्भिरेवेह संवादः कार्यो मतिमतांवर। भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम॥ 14-29-25 (93210) भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम्। व्रतं मन्त्रकृतं कर्तुर्नापराधोस्ति मे द्विज॥ 14-29-26 (93211) ब्राह्मण उवाच। 14-29-27x (7837) उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम्। अध्वर्युरपि निर्मोहः प्रचचार महामखे॥ 14-29-27 (93212) एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः। विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनार्थदर्शिना॥ ॥ 14-29-28 (93213) इति श्रीमन्महाभारते आश्वमेदिकपर्वणि अनुगीतापर्वणि एकोनत्रिंशोऽध्यायः॥ 29 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-29-2 सर्वानेतान्द्वेष्टि चैव स्वभाव इति क.ट.पाठः। जन्तुदेहानिहैत्येति क.ट.पाठः॥ 7-29-3 नास्ति शक्यः कथंचिदिति क.ट.थ.पाठः॥ 7-29-12 अत्र त्वां मन्यतां भ्राता पिता माता सखेति च। मन्त्रयस्वैनमुन्नीय परवन्तं विशेषत इति झ.द.पाठः॥ 7-29-19 भूमेरिति नानुपहत्य भूतानि भोगः सम्भवतीति न्यायाज्जीवतोऽपरिहार्यैव हिंसेत्यर्थः॥ 7-29-21 किं कथं त्वं मन्यसेऽहिंसामिति शेषः॥ 7-29-26 मतं मन्तुं क्रतुं कर्तुमिति थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 030

॥ श्रीः ॥

14.30. अध्यायः 030

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्राह्मणेन स्वभार्यांप्रति हिंसाया अकर्तव्यत्वे महर्षिवचसां प्रमाणीकरणोपयोगितया परशुरामचरित्रकथनारम्भः॥ 1 ॥ रामेण कार्तवीर्ये निहते तदनुयायिभिर्जमदग्नेर्हनम्॥ 2 ॥ ततः क्रुद्धेन रामेण त्रिःसप्तकृत्वः सर्वक्षत्रियहनने तत्पितृभी रामस्य परिसान्त्वप्रयतनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्। कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि॥ 14-30-1 (93214) कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्। येन सागरपर्यन्ता धनुषा निर्जिता मही॥ 14-30-2 (93215) स कदाचित्समुद्रान्ते विचरन्बलदर्पितः। अवीकिरच्छरशतैः समुद्रमिति नः श्रुतम्॥ 14-30-3 (93216) तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाचह। मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते॥ 14-30-4 (93217) मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः। वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो॥ 14-30-5 (93218) अर्जुन उवाच। 14-30-6x (7838) मत्समो यदि संग्रामे शरासनधरः क्वचित्। विद्यते तं समाचक्ष्व यः समो मे महामृधे॥ 14-30-6 (93219) समुद्र उवाच। 14-30-7x (7839) महर्षिर्जमदग्निस्ते यदि राजन्पुरा श्रुतः। तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति॥ 14-30-7 (93220) ततः स राजा प्रययौ क्रोधेन महता वृतः। स तमाश्रममागम्य राममेवान्वपद्यत॥ 14-30-8 (93221) स रामप्रतिकूलानि चकार सह बन्धुभिः। आयासं जनयामास रामस्य च महात्मनः॥ 14-30-9 (93222) ततस्तेजः प्रजज्वाल रामस्यामिततेजसः। प्रदहन्रिपुसैन्यानि तदा कमललोचने॥ 14-30-10 (93223) ततः परशुमादाय स तं बाहुसहस्रिणम्। चिन्छेद सहसा रामो बहुशाखमिव द्रुमम्॥ 14-30-11 (93224) तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः। असीनादाय शक्तीर्श्च भार्गवं पर्यधावयन्॥ 14-30-12 (93225) रामोऽपि धनुरादाय रथमारुह्य सत्वरः। विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम्॥ 14-30-13 (93226) ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च। विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव॥ 14-30-14 (93227) तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम्। प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात्॥ 14-30-15 (93228) एवं ते द्रविडाऽभीराः पुण्ड्राश्च शबरैः सह। वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः॥ 14-30-16 (93229) ततश्च हतवीरासु क्षत्रियासु पुनः पुनः। द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत॥ 14-30-17 (93230) एकविंशतिमे याते रामं वागशरीरिणी। दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता॥ 14-30-18 (93231) रामराम निवर्तस्व कं गुणं तात पश्यसि। क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः॥ 14-30-19 (93232) तथैव तं महात्मानमृचीकप्रमुखास्तदा। पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन्॥ 14-30-20 (93233) पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन्। नार्हन्तीह भवन्तो मां निवारयितुमित्युत॥ 14-30-21 (93234) पितर ऊचुः। 14-30-22x (7840) नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतांवर। नेह युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान्॥ ॥ 14-30-22 (93235) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिंशोऽध्यायः॥ 30 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-30-15 तेषामुपरतं कर्मेति ट.पाठः॥ 7-30-16 व्युत्थानात्क्षत्रधर्मिण इति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 031

॥ श्रीः ॥

14.31. अध्यायः 031

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

परशुरामंप्रति तत्पितृभिः क्षत्रियवधान्निवर्तनायालर्कोपाख्यानकथनम्॥ 1 ॥ रामेण तच्छ्रवणाद्धिंसातो निवर्त्य तपश्चरणम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

name="Azvamedhika-14-31-1x">पितर ऊचुः। अत्राप्युदाहरन्तीममितिहासं पुरातनम्। श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम॥ 14-31-1 (93236) अलर्को नाम राजर्षिरभवत्सुमहातपाः। धर्मज्ञः सत्यवादी च महात्मा सुदृढव्रतः॥ 14-31-2 (93237) स सागरान्तां धनुषा विनिर्जित्य महीमिमाम्। कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे॥ 14-31-3 (93238) स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह। उत्सृय सुमहद्राज्यं सूक्ष्मं प्रति महामते॥ 14-31-4 (93239) अलर्क उवाच। 14-31-5x (7841) मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः। अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः॥ 14-31-5 (93240) यदिदं चापलात्कर्म सर्वान्मर्त्यांश्चिकीर्षति। मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान्॥ 14-31-6 (93241) मन उवाच। 14-31-7x (7842) नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ 14-31-7 (93242) अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तत्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-8 (93243) आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति। तस्माद्ध्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्॥ 14-31-9 (93244) घ्राण उवाच। 14-31-10x (7843) नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ 14-31-10 (93245) अन्यान्याणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-11 (93246) इयं स्वादून्रसान्भुक्त्वा तानेव प्रति गृध्यति। तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्॥ 14-31-12 (93247) जिह्वोवाच। 14-31-13x (7844) नेमे वाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम्॥ 14-31-13 (93248) अन्यान्वाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-14 (93249) स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति। तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः॥ 14-31-15 (93250) त्वगुवाच। 14-31-16x (7845) नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ 14-31-16 (93251) अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-17 (93252) श्रुत्वा तु विविधाञ्शब्दांस्तानेव प्रतिगृध्यति। तस्माच्छ्रोत्रं प्रति शरान्प्रति मुञ्चाम्यहं शितान्॥ 14-31-18 (93253) श्रोत्रमुवाच। 14-31-19x (7846) नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति ततो हास्यति जीवितम्॥ 14-31-19 (93254) अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-20 (93255) दृष्ट्वा रूपाणि बहुशस्तान्येव प्रतिगृध्यति। तस्माच्चक्षुर्हनिष्यामि निशितैः सायकैरहम्॥ 14-31-21 (93256) चक्षुरुवाच। 14-31-22x (7847) नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ 14-31-22 (93257) अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-23 (93258) इयं निष्ठा बहुविधा प्रज्ञया त्वद्यवस्यति। तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्॥ 14-31-24 (93259) बुद्धिरुवाच। 14-31-25x (7848) नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि। अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि॥ 14-31-25 (93260) पितर ऊचुः। 14-31-26x (7849) ततोऽलर्कस्तपो घोरं तत्रैवास्थाय दुष्करम्। नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु॥ 14-31-26 (93261) सुसमाहितचेतास्तु स ततोऽचिन्तयत्प्रभुः। स विचिन्त्य चिरं कालमलर्को द्विजसत्तम। नाध्यगच्छत्परं श्रेयो योगान्मतिमतांवरः॥ 14-31-27 (93262) स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः। इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान्॥ 14-31-28 (93263) योगेनात्मानमाविश्य सिद्धिं परमिकां गतः। विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह॥ 14-31-29 (93264) अहो कष्टं यदस्माभिः सर्वं बाह्यमनुष्ठितम्। भोगतृष्णासमायुक्तैः पूर्वं राज्यमुपासितम्। इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम्॥ 14-31-30 (93265) इति त्वमनुजानीहि राम मा क्षत्रियान्वधीः। तषो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे॥ 14-31-31 (93266) इत्युक्तः पितृभिः सोथ तपो घोरं समास्थितः। जामदग्न्यो महाभागे सिद्धिं च परमां गतः॥ ॥ 14-31-32 (93267) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकत्रिंशोऽध्यायः॥ 31 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-31-1 अत्र हिंसाया अकार्यत्वे। 1 ॥ 7-31-5 अन्यत्र बाह्यशत्रुभ्य इति शेषः। शत्रुभिरिन्द्रियाख्यवैरिभिः॥ 5 ॥
आश्वमेधिकपर्व - अध्याय 032

॥ श्रीः ॥

14.32. अध्यायः 032

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्राह्मणेन स्वभार्यांप्रति कामक्रोधादिपरित्यागपूर्वकं भगवदवबोधस्य परमपुरुषार्थसाधनतावबोधकाम्बरीषगीतगाथाकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः। हर्षः स्तंभोतिमानश्च त्रयस्ते सात्विका गुणाः॥ 14-32-1 (93268) शोकः क्रोधाभिसंरम्भो राजसास्ते गुणाः स्मृताः। स्वप्नस्तन्द्रा च मोहश्च त्रयस्ते तामसा गुणाः॥ 14-32-2 (93269) एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः। जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः॥ 14-32-3 (93270) अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः। अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता॥ 14-32-4 (93271) समुदीर्णेषु दोषेषु बाध्यमानेषु साधुषु। जग्राह तरसा राज्यमम्बरीष इति श्रुतिः॥ 14-32-5 (93272) स निगृह्यात्मनो दोषान्साधून्समभिपूज्य च। जगाम महतीं सिद्धिं गाथाश्चेमा जगाद ह॥ 14-32-6 (93273) भूयिष्ठं विजिता दोषा निहताः सर्वशत्रवः। एको दोषो वरिष्ठश्च वध्यः स न हतो मया॥ 14-32-7 (93274) यत्प्रयुक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति। तृष्णार्त इव निम्नानि धावमानो न बुध्यते॥ 14-32-8 (93275) अकार्यमपि येनेह प्रयुक्तः सेवते नरः। तं लोभमसिभिस्तीक्ष्णैर्निकृत्य सुखमेधते॥ 14-32-9 (93276) लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते। स लिप्समानो लभते भूयिष्ठं राजसान्गुणान्। तदवाप्तौ तु लभते भूयिष्ठं तामसान्गुणान्॥ 14-32-10 (93277) स तैर्गुणैः संहतदेहबन्धनः। पुनःपनर्जायति कर्म चेहते। जन्मक्षये भिन्नविकीर्मदेहो मृत्युं पुनर्गच्छति जन्मनैव॥ 14-32-11 (93278) तस्मादेतं सम्यगवेक्ष्य लोभं निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत्। एतद्राज्यं नान्यदस्तीह राज्य- मात्मैव राजा विदितो यथावत्॥ 14-32-12 (93279) इति राज्ञाऽम्बरीषेण गाथा गीता यशस्विना। आधिराज्य पुरस्कृत्य लोभमेकं निकृन्तता॥ ॥ 14-32-13 (93280) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्वात्रिंशोऽध्यायः॥ 32 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-32-1 गुणतः वृत्तिभेदात्॥ 7-32-2 अभिसंरम्भो द्वेषाभिनिवेशः॥ 7-32-3 निकृत्य च्छित्त्वा। बाणसंघैः शमादिभिः॥ 7-32-11 पुनर्जायति चेह तत्फलम्। फलक्षये भिन्नविदीर्णदेहः पुनर्मृत्यु गच्छति चैव जन्मनीति क.थ.पाठः॥ 7-32-12 नान्यदस्तीति विद्या यैश्चैव राजा विजितो मयैक इति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 033

॥ श्रीः ॥

14.33. अध्यायः 033

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्राह्मणेन स्वभार्यांप्रति ममतावर्जनस्य पुरुषार्थसाधनतायां दृष्टान्ततया ब्राह्मणजनकसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मणि उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ब्राह्मणस्य च संवादं जनकस्य च भामिनि॥ 14-33-1 (93281) ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि। विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्॥ 14-33-2 (93282) इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्। आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः॥ 14-33-3 (93283) सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो। वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते॥ 14-33-4 (93284) इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना। मुहुरुष्णं विनिःस्वस्य न किञ्चित्प्रत्यभाषत॥ 14-33-5 (93285) तमासीनं ध्यायमानं राजानममितौजसम्। कश्मलं सहसाऽगच्छद्भानुमन्तमिव ग्रहः॥ 14-33-6 (93286) समाश्वास्य ततो राजा विगते कश्यमे तदा। ततो मूहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्॥ 14-33-7 (93287) पितृपैतामहे राज्ये वश्ये जनपदे सति। विषयं नाधिगच्छामि विचिन्वन्पृथिवीमहम्॥ 14-33-8 (93288) नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया। नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया॥ 14-33-9 (93289) नाध्यगच्छं यदा तस्यां तदा मे कश्मलोऽभवत्। ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता॥ 14-33-10 (93290) तदा न विषयं मन्ये सर्वो वा विषयो मम। आत्माऽपि चायं न मम सर्वा वा पृथिवी मम॥ 14-33-11 (93291) यथा मम तथाऽन्येषामिति मन्ये द्विजोत्तम। उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते॥ 14-33-12 (93292) ब्राह्मण उवाच। 14-33-13x (7850) पितृपैतामहे राज्ये वश्ये जनपदे सति। ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया॥ 14-33-13 (93293) कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव। नावैषि विषयं येन सर्वो वा विषयस्तव॥ 14-33-14 (93294) जनक उवाच। 14-33-15x (7851) अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु। नाध्यगच्छमहं तस्मान्ममेदमिति यद्भवेत्॥ 14-33-15 (93295) कस्येदमिति कस्य स्वमिति वेदवचस्तथा। नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत्॥ 14-33-16 (93296) एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया। शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम॥ 14-33-17 (93297) नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि। तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा॥ 14-33-18 (93298) नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः। आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा॥ 14-33-19 (93299) नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः। तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा॥ 14-33-20 (93300) नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये। तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा॥ 14-33-21 (93301) नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि। आकाशं मे जितं तस्माद्वशे तिष्ठति नित्यदा॥ 14-33-22 (93302) नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे। मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा॥ 14-33-23 (93303) देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह। इत्यर्थं सर्व एवेति समारम्भा भवन्ति वै॥ 14-33-24 (93304) ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्। त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्॥ 14-33-25 (93305) त्वमस्य ब्रह्मिनाभस्य दुर्वारस्यानिवर्तिनः। सत्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः॥ ॥ 14-33-26 (93306) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्र्यस्त्रिंशोऽध्यायः॥ 33 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-33-1 अत्र लोभे निकृन्तनीये॥ 7-33-2 क्लान्तं कस्मिंश्चिदागमे इति द.पाठः॥ क्षान्तं कस्मिंश्चिदागमे इति क.ठ.थ.पाठः। शिष्यार्थमब्रवीदिति पाठान्तरम्॥
आश्वमेधिकपर्व - अध्याय 034

॥ श्रीः ॥

14.34. अध्यायः 034

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्राह्मणेन ब्राह्मणींप्रति स्वमाहात्म्यप्रकाशनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। नाहं तथा भूरु चरामि लोके यथा त्वं मां तर्जयसे स्वबुद्ध्या। विप्रोस्मिं मुक्तोस्मि वनेचरोस्मि गृहस्थधर्मा व्रतवांस्तथाऽस्मि॥ 14-34-1 (93307) नाहमस्मि यता मां त्वं पश्यसे च शुभाशुभे। मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम्॥ 14-34-2 (93308) ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह। तेषां मामन्तकं विद्धि दारुणामिव पावकम्॥ 14-34-3 (93309) राज्ये पृथिव्यां सर्वस्यामथवापि त्रिविष्टपे। तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम॥ 14-34-4 (93310) एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः। गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु॥ 14-34-5 (93311) लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते। नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका॥ 14-34-6 (93312) ते भावमेकमायान्ति सरितः सागरं यथा। बुद्ध्याऽयं गम्यते मार्गः शरीरेणि न गम्यते। आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम्॥ 14-34-7 (93313) तस्मान्मे सुभगे नास्ति परलोककृतं भयम्। तद्भावभावनिरता ममैवात्मानमेष्यसि॥ ॥ 14-34-8 (93314) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुस्त्रिंशोऽध्यायः॥ 34 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-34-3 तेषामन्तर्गतं विद्धि इति क.ध.पाठः॥ 7-34-7 विद्ध्यान्तवन्ति कर्माणीति क.थ.पाठः॥ 7-34-8 तस्मात्ते सुभगे इति झ.पाठः। मद्भावभावनिरता मामेवैष्यस्यथात्मनेति क.पाठः॥
आश्वमेधिकपर्व - अध्याय 035

॥ श्रीः ॥

14.35. अध्यायः 035

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनार्जुनंप्रति ब्राह्मणीब्राह्मणशब्दनिर्दिष्टयोः क्रमेणि बुद्धिमनस्त्वकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्राह्मण उवाच। नेदमल्पात्मना शक्यं वेदितुं वाऽकृतात्मना। बहु चाल्पं च संक्षिप्तं विस्तृतं च मतं मम॥ 14-35-1 (93315) उपायं तं मम ब्रूहि येनैषा लभ्यते मतिः। तन्मन्ये कारणं कर्म यत एषा प्रवर्तते॥ 14-35-2 (93316) ब्राह्मण उवाच। 14-35-3x (7852) अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः। तपःश्रुतेभिमथिनी ज्ञानाग्निर्जायते ततः॥ 14-35-3 (93317) ब्राह्मणयुवाच। 14-35-4x (7853) यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति संज्ञितम्। ग्रहीतुं येन यच्छक्यं लक्षणं तस्य तद्वद॥ 14-35-4 (93318) ब्राह्मण उवाच। 14-35-5x (7854) अलिङ्गो निर्गुणश्चैव कारणं नास्य विग्रहे। उपायमेव वक्ष्यामि येन गृह्येत भावना॥ 14-35-5 (93319) सम्यगप्युपदिष्टस्य ह्यमृतस्येव तृप्यसे। कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गान्निपातितः। 14-35-6 (93320) इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते। पश्यतः शृण्वतो बुद्धिरात्मनैवोपजायते॥ 14-35-7 (93321) यावन्त इह शक्येरंस्तावतोंऽसान्प्रकल्पयेत्। अव्यक्तान्व्यक्तरूपांश्च शतशोऽथ सहस्रशः॥ 14-35-8 (93322) सर्वानुमानयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान्। यतः परं न विद्येत ततोऽभ्यासे भविष्यति॥ 14-35-9 (93323) श्रीभगवानुवाच। 14-35-10x (7855) ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंशये। क्षेत्रज्ञानेन परतः क्षेत्रज्ञोऽन्यः प्रवर्तते॥ 14-35-10 (93324) अर्जुन उवाच। 14-35-11x (7856) क्व नु सा ब्राह्मणि कृष्ण क्व चासौ ब्राह्मणर्षभः। याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत॥ 14-35-11 (93325) श्रीभगवानुवाच। 14-35-12x (7857) मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम्। क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय॥ ॥ 14-35-12 (93326) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चत्रिंशोऽध्यायः॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-35-6 सम्यगुपायो दृष्टश्च भ्रमरैरिव लक्ष्यत इति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 036

॥ श्रीः ॥

14.36. अध्यायः 036

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनार्जुनंप्रति परब्रह्मस्वरूपतत्प्राप्तिसाधनादिप्रतिपादकगुरुशिष्यसंवादानुवादः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

अर्जुन उवाच। ब्रह्म यत्परमं ज्ञेयं तन्मे व्याख्यातुमर्हसि। भतो हि प्रसादेन सूक्ष्मे मे रमते मतिः॥ 14-36-1 (93327) वासुदेव उवाच। 14-36-2x (7858) अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह॥ 14-36-2 (93328) कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम्। शिष्यः पप्रच्छ मेधावी किंस्विच्छ्रेयः परंतप॥ 14-36-3 (93329) भगवन्तं प्रपन्नोऽहं निःश्रेयसपराणः। याचे त्वां शिरसा विप्र यद्ब्रूयां ब्रूहि तन्मम॥ 14-36-4 (93330) तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह। कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज॥ 14-36-5 (93331) इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः। प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते॥ 14-36-6 (93332) शिष्य उवाच। 14-36-7x (7859) कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम्। कुतो जातानि भूतानि स्थावराणि चराणि च॥ 14-36-7 (93333) केन जीवन्ति भूतानि तेषामायुश्च किं परम्। किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः॥ 14-36-8 (93334) के पन्थानः शिवाश्च स्युः किं सुखं कि च दुष्कृतम्। एतान्मे भगवन्प्रश्नान्याथातथ्येन सुव्रत॥ 14-36-9 (93335) वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः। त्वदन्यः कश्च न प्रश्नानेतान्वक्तुमिहार्हति॥ 14-36-10 (93336) ब्रूहि धर्मविदां श्रेष्ठ परं कौतूहलं मम। मोक्षधर्मार्थकुशलो भवाँल्लोकषु गीयते॥ 14-36-11 (93337) सर्वसंशयसंच्छेत्ता त्वदन्यो न च विद्यते। संसारभीरवश्चैव मोक्षकामास्तथा वयम्॥ 14-36-12 (93338) वासुदेव उवाच। 14-36-13x (7860) तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते। शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने॥ 14-36-13 (93339) छायाभूताय दान्ताय यतते ब्रह्माचारिणे। तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः। गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम॥ 14-36-14 (93340) गुरुरुवाच। 14-36-15x (7861) ब्रह्मणोक्तमिदं धर्ममृषिप्रवरसेवितम्। वेदविद्यासमावाप्तं तत्त्वभूतार्थभावनम्॥ 14-36-15 (93341) ज्ञानं त्वेव परं विद्यः संन्यासं तप उत्तमम्। यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात्। सर्वबूतस्थमात्मानं स सर्वगतिरिष्यते॥ 14-36-16 (93342) ये विद्वान्सहसंवासं विवासं चैव पश्यति। तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते॥ 14-36-17 (93343) यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते। इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते॥ 14-36-18 (93344) प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित्। निर्ममो निरहङ्कारो मुच्यते नात्र संशयः॥ 14-36-19 (93345) अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान्। महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः॥ 14-36-20 (93346) महाभूतविशेषश्च विशेषप्रतिशाखवान्। सदापर्णः सदापुष्पः शुभाशुभफलोदयः॥ 14-36-21 (93347) आजीवः सर्वभूतानां ब्रह्मबीजः सनातनः। एतज्ज्ञात्वा च तत्त्वानि ज्ञानेन परमासिना। छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी॥ 14-36-22 (93348) भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम्। सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम्॥ 14-36-23 (93349) प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते। बुद्ध्वा यदिहं संसिद्धा भवन्तीह मनीषिणः॥ 14-36-24 (93350) उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम्। प्रजापतिभरद्वाजौ गौतमो भार्गवस्तथा॥ 14-36-25 (93351) वसिष्ठः कश्यपश्चैव विश्वामित्रोऽत्रिरेव च। मार्गान्सर्वान्परिक्रम्य परिश्रान्तः स्वकर्मभिः॥ 14-36-26 (93352) ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः। ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम्॥ 14-36-27 (93353) तं प्रणम्य महात्मानं सुखासीनं महर्षयः। पप्रच्छुर्विनयोपेता नैःश्रेयसमिदं परम्॥ 14-36-28 (93354) कथं कर्म कृतं साधु कथं मुच्येत किल्बिषात्। के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतं॥ 14-36-29 (93355) कौ चोभौ कर्मणां मार्गौ प्राप्नुयुर्दक्षिणोत्तरौ। निरयं चापवर्गं च भूतानां प्रभवाप्ययौ॥ 14-36-30 (93356) इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः। तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम्॥ 14-36-31 (93357) ब्रह्मोवाच। 14-36-32x (7862) सत्याद्भूतानि जातानि स्थावराणि चराणि च। तपसा तानि जीवन्ति जीवितं तद्धि सुव्रतम्। स्वां योनिं पुनरागम्य वर्तते स्वेन कर्मणा॥ 14-36-32 (93358) सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम्॥ 14-36-33 (93359) ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः। सत्याद्भूतानि जातानि सत्यं भूतमयं जगत्॥ 14-36-34 (93360) तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः। अतीक्रोधसंतापा नियता धर्मसेतवः॥ 14-36-35 (93361) अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान्। तानहं सम्प्रवक्ष्यामि शाश्वताँल्लोकभावनान्॥ 14-36-36 (93362) चातुर्विद्यं तथा वर्णांश्चातुराश्रमिकान्पृथक्। धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः॥ 14-36-37 (93363) पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः। नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः॥ 14-36-38 (93364) गदन्तस्तु ममाद्येह पन्थानं दुर्विदं परैः। निबोधत महाभागा निखिलेन परं पदम्॥ 14-36-39 (93365) ब्रह्मचर्यमिहैवाहुराश्रमं प्रथमं पदम्। गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम्। ततः परं तु विज्ञेयमध्यात्मं परमं पदम्॥ 14-36-40 (93366) ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः। नोपैति यावदध्यात्मं तावदेतान्न पश्यति॥ 14-36-41 (93367) तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत। फलमूलानिलभुजां मुनीनां वसतां वने॥ 14-36-42 (93368) वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते। सर्वेषामेव वर्णानां गृहस्थोऽयं विशिष्यते॥ 14-36-43 (93369) श्रद्धालक्षणमित्येकं धर्मं धीराः प्रचक्षते। `नैष्ठिकोऽथ यतिर्वाऽपि विरक्तो ब्रह्मदर्शनः॥' 14-36-44 (93370) इत्येवं देवयाना वः पन्थानः परिकीर्तिताः। सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः॥ 14-36-45 (93371) एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः। कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ॥ 14-36-46 (93372) अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना। विषयस्थानि सर्वाणि वर्तमानानि भागशः॥ 14-36-47 (93373) महानात्मा तथाऽव्यक्तमहंकारस्तथैव च। इन्द्रियाणि दशैकं च महाभूतानि पञ्च च॥ 14-36-48 (93374) विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः। चतुर्विंशतिरेषा वस्तत्वानां परिकीर्तिता॥ 14-36-49 (93375) तत्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ। स धीरः सर्वभूतेषु न मोऽहमधिगच्छति॥ 14-36-50 (93376) तत्त्वानि यो वेदयते यथातथं गुणांश्च सर्वानखिलाश्च देवताः। विधूतपाप्मा प्रविमुच्य बन्धनं स सर्वलोकानमलान्समश्नुते॥ ॥ 14-36-51 (93377) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्त्रिंशोऽध्यायः॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-36-10 कश्च कोऽपि॥ 7-36-29 कथं कर्म क्रियात्साद्यु इति झ. झ.पाठः। क्रियात्कुर्वीत। के। नोऽस्माकम्॥ 7-36-43 गार्हस्थ्यं तद्विधीयते इति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 037

॥ श्रीः ॥

14.37. अध्यायः 037

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा कश्यपादिमहर्षीन्प्रति तमोगुणकार्यनिरूपणम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्। नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम्॥ 14-37-1 (93378) एकादशपरिक्षेपं मनोव्याकरणात्मकम्। बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत्॥ 14-37-2 (93379) त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनःपुनः। प्रनाड्यस्तिस्र एवैताः प्रवर्न्तते गुणात्मिकाः॥ 14-37-3 (93380) तमो रजस्तथा सत्वं गुणानेतान्प्रचक्षते। अन्योन्यमिथुनाः सर्वे तथाऽन्योन्यानुजीविनः॥ 14-37-4 (93381) अन्योन्यापाश्रयाश्चापि तथाऽन्योन्यानुवर्तिनः। अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्चधातवः॥ 14-37-5 (93382) तमसो मिथुनं सत्वं सत्वस्य मिथुनं रजः। रजसश्चापि सत्वं स्यात्सत्वस्य मिथुनं तमः॥ 14-37-6 (93383) नियम्यते तमो यत्र रजस्तत्र निवर्तते। नियम्यते रजो यत्र सत्वं तत्र प्रवर्तते॥ 14-37-7 (93384) नैशात्मकं तमो विद्यात्त्रिगुणं मोहसंज्ञितम्। अधर्मलक्षणं चैव नियतं पापकर्मसु। तामसं रूपमेतत्तु दृश्यते चापि सङ्गतम्॥ 14-37-8 (93385) प्रकृत्यात्मकमेवाहू रजः पर्यायकारकम्। सत्त्वे तु सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम्॥ 14-37-9 (93386) प्रकाशं सर्वभूतेषु लाघवं श्रद्धधानता। सात्विकं रूपमेवं तु लाघवं साधुसंमितम्॥ 14-37-10 (93387) एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः। समासव्यासयुक्तानि तत्त्वतस्तानि बोधत॥ 14-37-11 (93388) सम्मोहो ज्ञानमत्यागः कर्मणामविनिर्णयः। स्वप्नः स्तंभो भयं लोभः शोकः सुकृतदूषणम्॥ 14-37-12 (93389) अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता। निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता॥ 14-37-13 (93390) अकृते कृतमानित्वमज्ञाने ज्ञानमानिता। अमैत्री विकृतो भावो ह्यश्रद्धा मूढभावना॥ 14-37-14 (93391) अनार्जवमसंज्ञत्वं कर्म पापमचेतना। गुरुत्वं सन्नभावत्वमवशित्वमवाग्गतिः॥ 14-37-15 (93392) सर्व एते गुणा वृत्तास्तामसाः सम्प्रकीर्तिताः। ये चान्ये विहिता भावा लोकेऽस्मिन्भावसंज्ञिताः॥ 14-37-16 (93393) तत्रतत्र नियम्यन्ते सर्वे ते तामसा गुणाः। परिवादकथा नित्यं मेवब्राह्मणवैरिता॥ 14-37-17 (93394) अत्यागश्चातिमानश्च मोहो मन्युस्तथाऽक्षमा। मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते॥ 14-37-18 (93395) वृथारम्भा हि ये केचिद्वृथा दानानि यानि च। वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते॥ 14-37-19 (93396) अतिवादोऽतितिक्षा च मात्सर्यमभिमानिता। अश्रद्दधानता चैव तामसं वृत्तमिष्यते॥ 14-37-20 (93397) एवंविधाश्च ये केचिल्लोकेऽस्मिन्पापकर्मिणः। मनुष्या भिन्नमर्यादास्ते सर्वे तामसाः स्मृताः॥ 14-37-21 (93398) तेषां योनीः प्रवक्ष्यामि नियताः पापकर्मिणाम्। अवाङ्निरयभावा ये तिर्यङ्निरयगामिनः। 14-37-22 (93399) स्थावराणि च भूतानि पशवो वाहनानि च। क्रव्यादा दंदशूकाश्च कृमिकीटविहङ्गमाः॥ 14-37-23 (93400) अब्जाता जन्तवश्चैव सर्वे चापि चतुष्पदाः। उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः॥ 14-37-24 (93401) मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः। अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः॥ 14-37-25 (93402) तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम्। यथा ते सुकृतां लोकाँल्लभन्ते पुण्यकर्मिणः॥ 14-37-26 (93403) अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु। स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम्॥ 14-37-27 (93404) संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम्। स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः॥ 14-37-28 (93405) अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेषु कर्मसु। पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः॥ 14-37-29 (93406) पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः॥ वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम्॥ 14-37-30 (93407) शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः। स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे॥ 14-37-31 (93408) अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः। ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः॥ 14-37-32 (93409) तमोमोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः। मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध उच्यते॥ 14-37-33 (93410) वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः। सर्वमेततमो विप्राः कीर्तितं वो यथाविधि॥ 14-37-34 (93411) को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति। अतत्त्वे तत्त्वदर्शी यस्तमसस्तच्च लक्षणम्॥ 14-37-35 (93412) तमोगुणा बहुविधाः प्रकीर्तिता यथावदुक्तं च तमः परावरम्। नरो हि यो वेद गुणानिमान्सदा स तामसैः सर्वगुणैः प्रमुच्यते॥ ॥ 14-37-36 (93413) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तत्रिंशोऽध्यायः॥ 37 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-37-24 अण्डजा जन्तव इति झ.पाठः॥ 7-37-30 चूचुकाः स्खलद्गिरः। पुष्पचूचुका इति क.पाठः॥ 7-37-32 कामेषु स्त्र्याद्यर्थेषु। अभिष्वङ्ग आसक्तिः॥
आश्वमेधिकपर्व - अध्याय 038

॥ श्रीः ॥

14.38. अध्यायः 038

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मण महर्षीन्प्रति रजोगुणकार्यनिरूपणम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः। निबोधत महाभागा गुणवृत्तं च राजसम्॥ 14-38-1 (93414) संतापो रूपमायासः सुखदुःखे हिमातपौ। ऐश्वर्यं विग्रहः सिद्धिर्हेतुवादोऽरतिः क्षमा॥ 14-38-2 (93415) बलं शौर्यं मदो रोषो व्यायामकलहावपि। ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम्॥ 14-38-3 (93416) वधबन्धपरिक्लेशाः क्रयो विक्रय एव च। निकृन्त च्छिन्धि भिन्धीति परवर्मावकर्तनम्॥ 14-38-4 (93417) उग्रं दारुणमाक्रोशः परवित्तानुरागिता। लोकचिन्ताऽनुचिन्ता च मत्सरः परिभाषणम्॥ 14-38-5 (93418) वृथाशास्त्रं मृषावादो विकल्पपरिभाषणम्। निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम्॥ 14-38-6 (93419) परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः॥ व्यूहो नयः प्रमादश्च परिवादः परिग्रहः॥ 14-38-7 (93420) संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक्। नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च॥ 14-38-8 (93421) संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये। प्रधानमाशीर्युक्तं च सततं मे भवत्विति॥ 14-38-9 (93422) स्वाहाकारो नमस्कारः स्वधाकारो वषट्क्रिया। याजनाध्यापने चोभे यजनाध्ययने अपि॥ 14-38-10 (93423) दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम्। इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः॥ 14-38-11 (93424) अभिद्रोहस्तथा माया निकृतिर्मान एव च। स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः॥ 14-38-12 (93425) दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम्। द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये॥ 14-38-13 (93426) नृत्यवादित्रगीतानां प्रसङ्गा ये च केचन। सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः॥ 14-38-14 (93427) भूतभव्यभविष्याणां भावानां भुवि भावनाः। त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि॥ 14-38-15 (93428) कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः। अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः॥ 14-38-16 (93429) अस्मिँलोके प्रमोदन्ते जायमानाः पुनःपनः। प्रेत्यभाविकमीहन्ते हलौकिकमेव च। ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति॥ 14-38-17 (93430) रजोगुणा वो बहुधानुकीर्तिता यथावदुक्तं गुणवृत्तमेव च। नरोपि यो वेद गुणानिमान्सदा स राजसैः सर्वगुणैर्विमुच्यते॥ ॥ 14-38-18 (93431) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टत्रिंशोऽध्यायः॥ 38 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-38-2 संघातो रूपमायास इति क.ट.थ.पाठः॥ 7-38-5 उग्रं निष्टुरं दारुणं हिंस्रत्वम्॥ 7-38-6 परिभाषणं धिक्कृत्य भाषणम्॥ 7-38-7 व्यूहः व्यवहाररचनाकौशलम्॥ 7-38-8 शरणेषु रक्षितृषु॥ 7-38-9 अप्रत्ययः अविश्वासः॥ 7-38-12 परितापः स्वजनकैवल्यनिमित्तो दाहः। पाठान्तरे परिवादः सर्वनिन्दा॥ 7-38-14 प्रसङ्गा येन केनचिदिति क.थ.पाठः॥ 7-38-16 अर्वाक् स्वर्गादधः भूमेरुपरि स्रोतः प्रवाहो येषां ते तथा॥ 7-38-17 प्रेत्यभाविकं जन्मान्तरीयं कुशलम्॥
आश्वमेधिकपर्व - अध्याय 039

॥ श्रीः ॥

14.39. अध्यायः 039

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षीन्प्रति सत्वगुणकार्यनिरूपणम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम्। सर्वभूतहितं लोके सतां धर्ममनिन्दितम्॥ 14-39-1 (93432) आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च। अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता॥ 14-39-2 (93433) क्षमा धृतिरहिंसा च समता सत्यमार्जवम्। अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः॥ 14-39-3 (93434) मुधाज्ञानं मुधावृत्तं मुधासेवा मुदाश्रमः। एवं यो युक्तधर्मः स्यात्सोमुत्रात्यन्तमश्नुते॥ 14-39-4 (93435) निर्ममो निरहङ्कारो निराशीः सर्वतः समः। अकामहत इत्येव सतां धर्मः सनातनः॥ 14-39-5 (93436) विश्रंभो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता। आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम्॥ 14-39-6 (93437) हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तिता। शान्तिकर्मविशुद्धिश्च भावशुद्धिर्विमोचनम्॥ 14-39-7 (93438) उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः। निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता॥ 14-39-8 (93439) मुधादानं मुधायज्ञो मुधाधीतं मुधाव्रतम्। मुधाप्रतिग्रहश्चैव मधाध्रमो मुधातपः॥ 14-39-9 (93440) एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्वसंश्रयाः। ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः॥ 14-39-10 (93441) हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः। दिव्यं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः॥ 14-39-11 (93442) ईशित्वं च वशित्वं च लघुत्वं चाणुता तथा। विकुर्वते महात्मानो देवास्त्रिदिवगा इव॥ 14-39-12 (93443) ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः। विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः॥ 14-39-13 (93444) यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च। इत्येतत्सात्विकं वृत्तं कथितं वो द्विजर्षभाः। एतद्विज्ञाय लभते विधिवद्यद्यदिच्छति॥ 14-39-14 (93445) प्रकीर्तिताः सत्त्वगुणा विशेषतो यथावदुक्तं गुणवृत्तमेव च। नरस्तु यो वेद गुणानिमान्सदा गुणान्स भुङ्क्ते न गुणैः स युज्यते॥ ॥ 14-39-15 (93446) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनचत्वारिंशोऽध्यायः॥ 39 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-39-7 हर्षः पुत्रजन्मादिजं सुखम्। तुष्टिरलबुद्धिः। शान्तिकर्मणि मुक्त्युपाये शुद्धिः आर्जवेन प्रवृत्तिः॥ 7-39-8 उपेक्षा औदासीन्यम्॥
आश्वमेधिकपर्व - अध्याय 040

॥ श्रीः ॥

14.40. अध्यायः 040

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षीन्प्रति सत्वादिगुणत्रयनिरूपणम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। नैव शक्या गुणा वक्तुं पृथक्त्वेनैव सर्वशः। अविच्छिन्नानि दृश्यन्ते रजः सत्वं तमस्तथा॥ 14-40-1 (93447) अन्योन्यमनुरज्यन्ते ह्यन्योन्येनानुजीविनः। अन्योन्यापाश्रयाः सर्वे तथाऽन्योन्यानुवर्तिनः॥ 14-40-2 (93448) यावत्सत्वं रजस्तावद्वर्तते नात्र संशयः। यावत्तमश्च सत्वं च रजस्तावदिहोच्यते॥ 14-40-3 (93449) संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः। सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः॥ 14-40-4 (93450) उद्रेकव्यतिरिक्तानां तेषामन्योन्यवर्तिनाम्। वक्ष्यते तद्यथाऽन्यूनं व्यतिरिक्तं च सर्वशः॥ 14-40-5 (93451) व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत्। अल्पं तत्रथ रजो ज्ञेयं सत्वमल्पतरं तथा॥ 14-40-6 (93452) उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत्। अल्पं तत्र तमो ज्ञेयं सत्वमल्पतरं तथा॥ 14-40-7 (93453) उद्रिक्तं च यदा सत्वमूर्ध्वस्रोतोगतं भवेत्। अल्पं तत्र तमो ज्ञेयं रजश्चाल्पतरं तथा॥ 14-40-8 (93454) सत्वं वैकारिकी योनिरिन्द्रियाणां प्रकाशिका। न हि सत्वात्परो भावः कश्चिदन्यो विधीयते॥ 14-40-9 (93455) ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः॥ 14-40-10 (93456) तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्वमुत्तमम्। इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः॥ 14-40-11 (93457) दूरादपि हि दृश्यनते सहिताः सङ्घचारिणः। तमः सत्वं रजश्चैव पृथक्त्वेनानुशुश्रुम॥ 14-40-12 (93458) दृष्ट्वा त्वादित्यमुद्यन्तं कुचोराणां भयं भवेत्। अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः॥ 14-40-13 (93459) आदित्यः सत्वमुद्दिष्टः कुचोरास्तु तथा तमः। परितापोऽध्वगानां च रजसो गुण उच्यते॥ 14-40-14 (93460) प्राकाश्यं सत्वमादित्यः संतापो रजसो गुणः। उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु॥ 14-40-15 (93461) एवं ज्योतिष्षु सर्वेषु प्रवर्तन्ते गुणास्त्रयः॥ पर्यायेण च वर्न्तते तत्रतत्र तथातथा॥ 14-40-16 (93462) स्थावरेषु तु भावेषु तिर्यग्भावगतं तमः। राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्विकैः॥ 14-40-17 (93463) अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते। मासार्दमासवर्षाणि ऋतवः सन्धयस्तथा॥ 14-40-18 (93464) त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते। त्रिधा लोकास्त्रिधा देवास्त्रिधा विद्यास्त्रिधा गतिः॥ 14-40-19 (93465) भूतं भव्यं भविष्यं च धर्मोऽर्थः काम एव च। प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः॥ 14-40-20 (93466) पर्यायेण प्रवर्तन्ते तत्रतत्र तथातथा। यत्किञ्चिदिह लोकेऽस्मिन्सर्वमेते त्रयो गुणाः॥ 14-40-21 (93467) त्रयो गुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु। सत्वं रजस्तमश्चैव गुणसर्गः सनातनः॥ 14-40-22 (93468) तमोऽव्यक्तं शिवं धाम रजो योनिः सनातनः। प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ॥ 14-40-23 (93469) अनुद्रिक्तमनूनं वाऽप्यकम्पमचलं ध्रुवम्। सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम्। ज्ञेयानि नामधेयानि नरैरद्यात्मचिन्तकैः॥ 14-40-24 (93470) अव्यक्तनामानि गुणांश्च तत्त्वतो यो वेद सर्वाणि गतीश्च केवलाः। विमुक्तदेहः प्रविभागतत्त्ववि- त्स मुच्यते सर्वगुणैर्निरामयः॥ ॥ 14-40-25 (93471) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चत्वारिंशोऽध्यायः॥ 40 ॥
आश्वमेधिकपर्व - अध्याय 041

॥ श्रीः ॥

14.41. अध्यायः 041

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षीन्प्रति महदहङ्कारतत्वनिरूपणम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः। आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते॥ 14-41-1 (93472) महानात्मा मतिर्विष्णुर्जिष्णुः शंभुश्च वीर्यवान्। बुद्धिः प्रज्ञोपलब्धिश्च तता ख्यातिर्धृतिःस्मृतिः। 14-41-2 (93473) पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते। तं जानन्ब्राह्मणो विद्वान्प्रमोहं नाधिगच्छति॥ 14-41-3 (93474) सर्वतःपाणिपादं च सर्वतोक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वं व्याप्यवतिष्ठति॥ 14-41-4 (93475) महाप्रभावः पुरुषः सर्वस्य हृदि निष्ठितः। अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः॥ 14-41-5 (93476) तत्र बुद्धिमतां लोके सद्भावनिरताश्च ये। ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः॥ 14-41-6 (93477) ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः। प्रसन्नमनसो धीरा निर्ममा निरहंक्रियाः॥ 14-41-7 (93478) विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत। आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम्॥ 14-41-8 (93479) अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥ 14-41-9 (93480) तेषु भूतानि युज्यन्ते महाभूतेषु पञ्चसु। ते शब्दस्पर्शरूपेषु रसगन्धक्रियासु च॥ 14-41-10 (93481) महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते। सर्वप्राणभृतां धीरा महदुत्पद्यते भयम्॥ 14-41-11 (93482) स धीरः सर्वलोकेषु न मोहमधिगच्छति। विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः॥ 14-41-12 (93483) एवं हि यो वेद गुहाशयं प्रभुं परं पुराणं पुरुषं विश्वरूपम्। हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति॥ 14-41-13 (93484) य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते। अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते॥ 14-41-14 (93485) अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः। तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः॥ 14-41-15 (93486) देवानां प्रभवो देवो मनसश्च त्रिलोककृत्। अहमित्येव तत्सर्वमभिमानः स उच्यते॥ 14-41-16 (93487) अध्यात्मज्ञानतृप्तानां मुनीनां भावितात्मनाम्। स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः॥ 14-41-17 (93488) अहङ्कारेणाहरतो गुणानिमा- न्भूतादिरेवं सृजते स भूतकृत्। वैकारिकः सर्वमिदं विचेष्टते स्वतेजसा रञ्जयते जगत्तथा॥ ॥ 14-41-18 (93489) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकचत्वारिंशोऽध्यायः॥ 41 ॥
आश्वमेधिकपर्व - अध्याय 042

॥ श्रीः ॥

14.42. अध्यायः 042

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षीन्प्रत्यहङ्कारतत्वाद्भूतादिसृष्टिप्रकारकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥ 14-42-1 (93490) तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु। शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च॥ 14-42-2 (93491) महाभूतविकारान्ते प्रलये प्रत्युपस्थिते। सर्वप्राणभूतां धीरा महदुत्पद्यते भयम्॥ 14-42-3 (93492) यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते। लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्॥ 14-42-4 (93493) ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे। स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन॥ 14-42-5 (93494) शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः। क्रियाः करणयुक्ताः स्युरनित्या मोहसंज्ञिताः॥ 14-42-6 (93495) लोभप्रजनसम्भूता निर्विशेषा ह्यकिञ्चनाः। मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः॥ 14-42-7 (93496) बहिरात्मान इत्येते दीनाः कृपणजीविनः। प्राणापानावुदानश्च समानो व्यान एव च॥ 14-42-8 (93497) अन्तरात्मनि चाप्येते नियताः पञ्च वायवः। वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत्॥ 14-42-9 (93498) त्वग्घ्राणश्रोत्रचक्षूंषि रसना वाक्च संयताः। विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी॥ 14-42-10 (93499) अष्टौ यस्याग्नयो ह्येते दहन्तेऽहङ्क्रियाः सदा। स तद्ब्रह्म शुभं याति तस्माद्भूयो न विद्यते॥ 14-42-11 (93500) एकादश च यान्याहुरिन्द्रियाणि विशेषतः। अहङ्कारात्प्रसूतानि तानि वक्ष्यामि नामतः॥ 14-42-12 (93501) श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी। पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत्॥ 14-42-13 (93502) इन्द्रियग्राम इत्येष मन एकादशं भवेत्। एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते॥ 14-42-14 (93503) बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च। श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः॥ 14-42-15 (93504) अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु। उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत्॥ 14-42-16 (93505) इत्युक्तानीन्द्रियाण्येतान्येकादश यथाक्रमम्। मन्यन्ते कृतमित्येवं विदित्वा तानि पण्डिताः॥ 14-42-17 (93506) `त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते।' स्थलमापस्तथाऽऽकाशं जन्म चापि चतुर्विधम्॥ 14-42-18 (93507) अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च। चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते॥ 14-42-19 (93508) अपराण्यथ भूतानि खेचराणि तथैव च। अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान्॥ 14-42-20 (93509) स्वेदजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम्। जन्मद्वितीयमित्येतज्जघन्यतरमुच्यते॥ 14-42-21 (93510) भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्। उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः॥ 14-42-22 (93511) द्विपादबहुपादानि तिर्यग्गतिमतीनि च। जरायुजानि भूतानि विकृतान्यपि सत्तमाः॥ 14-42-23 (93512) द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातना। तपः कर्म च यत्पुण्यमित्येष विदुषां नयः॥ 14-42-24 (93513) विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे। वेदस्याध्ययनं पुण्यमिति वृद्धानुशासनम्॥ 14-42-25 (93514) एतद्यो वेत्ति विधिवत्स मुक्तः स्याद्द्विजर्षभाः। विमुक्तः सर्वपापेभ्य इति चैव निबोधत॥ 14-42-26 (93515) `अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्॥' 14-42-27 (93516) आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते। अधिभूतं तथा शब्दो दिशश्चात्राधिदैवतम्॥ 14-42-28 (93517) द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम्। स्प्रष्टव्यमधिभूतं तु विद्युत्तत्राधिदैवतम्॥ 14-42-29 (93518) तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममिष्यते। अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्॥ 14-42-30 (93519) चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते। अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्॥ 14-42-31 (93520) पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते। अधिभूतं तथा गन्धो वायुस्तत्रादिदैवतम्॥ 14-42-32 (93521) एषु पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः। अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम्॥ 14-42-33 (93522) पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्वदर्शिनः। अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम्॥ 14-42-34 (93523) अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते। अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम्॥ 14-42-35 (93524) प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते। अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः॥ 14-42-36 (93525) हस्तावध्यात्ममित्याहुरद्यात्मविदुषो जनाः। अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम्॥ 14-42-37 (93526) वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते। वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम्॥ 14-42-38 (93527) अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम्। अधिभूतं च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम्॥ 14-42-39 (93528) अहङ्कारस्तथाऽध्यात्मं सर्वसंसारकारणम्। अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम्॥ 14-42-40 (93529) अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी। अधिभूतं तु विज्ञेयमहस्तत्राधिदैवतम्॥ 14-42-41 (93530) यथावदध्यात्मविधिरेष वः कीर्तितो मया। ज्ञानमस्य हि धर्मज्ञाः प्राप्तं ज्ञानवतामिह॥ 14-42-42 (93531) इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च। सर्वाण्येतानि संधाय मनसा सम्प्रधारयेत्॥ 14-42-43 (93532) क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते। ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम्॥ 14-42-44 (93533) अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम्। निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा॥ 14-42-45 (93534) गुणागुणमनासङ्गमेकचर्यमनन्तरम्। एतद्ब्राह्मणजं वृत्तमाहुरेकपदं सुखम्॥ 14-42-46 (93535) विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः। विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा॥ 14-42-47 (93536) कामानात्मनि संयम्य क्षीणतृष्णः समाहितः। सर्वभूतसुहृन्मैत्रो ब्रह्मभूयाय कल्पते॥ 14-42-48 (93537) इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम्। मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते॥ 14-42-49 (93538) यथाऽग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते। तथेन्द्रियनिरोधेन महानात्मा प्रकाशतदे॥ 14-42-50 (93539) यदा पश्यति भूतानि प्रसन्नात्माऽत्मनो हृदि। स्वयंज्योतिस्तदासूक्ष्मात्सूक्ष्मं प्राप्नोत्यनुत्तमम्॥ 14-42-51 (93540) अग्नी रूपं रसं स्रोतो वायुः स्पर्शनमेव च। मही गन्धधरा घ्राणमाकाशः श्रवणं तथा। `दृश्यमादित्यमेवाहुरध्यात्मविदुषो जनाः॥' 14-42-52 (93541) रोगशोकसमाविष्टं पञ्चस्रोतःसमावृतम्। पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम्॥ 14-42-53 (93542) रजस्वलमथादृश्यं त्रिगुणं सप्तधातुकम्। संसर्गाभिरतं मूढं शरीरमिति धारणा॥ 14-42-54 (93543) दुश्चरं जीवलोकेऽस्मिन्सत्वं प्रति समाश्रितम्। एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते॥ 14-42-55 (93544) एतन्महार्णवं घोरमगाधं मोहसंझितम्। विसृजन्संक्षिपेच्चैव मोहयन्स्वापयञ्जगत्॥ 14-42-56 (93545) कामं क्रोधं भयं लोभमभिद्रोहमथानृतम्। इन्द्रियाणां निरोधेन सतस्त्यजति दुस्त्यजान्॥ 14-42-57 (93546) यस्यैते निर्जिता लोके त्रिगुणाः पञ्चधातवः। व्योम्नि तस्य परं स्थानमानन्तमथ लक्ष्यते॥ 14-42-58 (93547) पञ्चेन्द्रियमहाकूलां मनःस्रोतोभयावहाम्। नदीं मोहह्रदां तीर्त्वा कामक्रोधावुभौ जयेत्॥ 14-42-59 (93548) स सर्वदोषनिर्मुक्तस्ततः पश्यति तत्परम्। मनो मनसि सन्धाय पश्यन्नात्मानमात्मनि॥ 14-42-60 (93549) सर्ववित्सर्वभूतेषु द्रक्ष्यत्यात्मानमात्मनि। एकधा बहुधा चैव विकुर्वाणस्ततस्ततः॥ 14-42-61 (93550) ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा। स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः॥ 14-42-62 (93551) स हि धाता विधाता च स प्रभुः सर्वतोमुखः। हृदयं सर्वभूतानां महानात्मा प्रकाशते॥ 14-42-63 (93552) तं विप्रसङ्घाश्च सुरासुराश्च यक्षाः पिशाचाः पितरो वयांसि। रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव सदा स्तुवन्ति॥ ॥ 14-42-64 (93553) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विचत्वारिंशोऽध्यायः॥ 42 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-42-7 लोकप्रजनसंयुक्ता इति क.ट.पाठः॥ 7-42-9 इत्युक्ता इति क.पाठः॥ 7-42-25 जातस्याध्ययनं पुण्यमिति झ.पाठः॥ 7-42-64 पितरश्च सिद्धा इति क.पाठः॥
आश्वमेधिकपर्व - अध्याय 043

॥ श्रीः ॥

14.43. अध्यायः 043

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षीन्प्रति मनुष्येषु क्षत्रियाणां रजोगुणकार्यबलप्रधानतया तेषां सत्वप्रधानब्राह्मणरक्षणस्य कर्तव्यत्वकथनप्रसङ्गेन तत्तज्जातिश्रेष्ठवस्तुकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। मनुष्याणां तु राज्यः क्षत्रियो मध्यमो गुणः। कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम्॥ 14-43-1 (93554) अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम्। गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च॥ 14-43-2 (93555) न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा। शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः॥ 14-43-3 (93556) एते द्रुमाणां राजानो गणानां मरुतस्तथा। हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्॥ 14-43-4 (93557) श्वेतो नीलश्च भासश्च राष्ट्रवांश्चैव पर्वतः। भृशस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा॥ 14-43-5 (93558) एते पर्वतराजानो गणानां मरुतस्तथा। सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः॥ 14-43-6 (93559) यमः पितॄणामधिपः सरितामथ सागरः। अंभसां वरुणो राजा मरुतामिन्द्र उच्यते॥ 14-43-7 (93560) अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते। अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः॥ 14-43-8 (93561) ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः। त्वष्टाऽधिनां पतिः सोमो विष्णुर्बलवतां वरः। 14-43-9 (93562) दक्षिणानां तथा यज्ञो वेदानामृच एव च। दिशामुदीची विप्राणां सोमो राजा प्रतापवान्॥ 14-43-10 (93563) कुबेरः सर्वरत्नानां देवतानां पुरंदरः। एष भूताधिपः सर्गः प्रजानां च प्रजापतिः॥ 14-43-11 (93564) सर्वेषामेव भूतानामहं ब्रह्ममयो महान्। भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते॥ 14-43-12 (93565) राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान्। ईश्वरं तं विजानीमः स विभुः स प्रजापतिः॥ 14-43-13 (93566) नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम्। देवदानवनागानां सर्वेषामीश्वरो हि सः॥ 14-43-14 (93567) भगदेवानुयातानां सर्वासां वामलोचना। माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा॥ 14-43-15 (93568) उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम्। रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा॥ 14-43-16 (93569) धर्मिकामाश्च राजानो ब्राह्मणा धर्मसेतवः। तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे॥ 14-43-17 (93570) राज्ञां हि विषये येषामवसीदन्ति साधवः। हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः॥ 14-43-18 (93571) राज्ञां हि विषये येषां साधवः परिरक्षिताः। तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्दमेव च॥ 14-43-19 (93572) प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः। अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम्॥ 14-43-20 (93573) अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा। प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः॥ 14-43-21 (93574) शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः। ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः॥ 14-43-22 (93575) धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा। स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा॥ 14-43-23 (93576) मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात्। मनसा चिन्तितानर्थान्बुद्ध्या चेह व्यवस्यति॥ 14-43-24 (93577) बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः। लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम्॥ 14-43-25 (93578) प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्। तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्॥ 14-43-26 (93579) संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्। अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः॥ 14-43-27 (93580) धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया। गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम्॥ 14-43-28 (93581) पार्तिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते। प्राणस्यश्च तथा वायुर्गन्धज्ञाने विधीयते॥ 14-43-29 (93582) अपां धातू रसो नित्यं जिह्वया स तु गृह्यते। जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते॥ 14-43-30 (93583) तेजसस्तु गुणो रूपं चक्षुषा तच्च गृह्यते। चक्षुःस्थश्च ततादित्यो रूपज्ञाने विधीयते॥ 14-43-31 (93584) वायव्यस्तु सदा स्पर्शस्त्वचा प्रज्ञायते च सः। त्वक्स्थश्चैव सदा वायुः स्पर्सने स विधीयते॥ 14-43-32 (93585) आकाशस्य गुणो घोषः श्रोत्रेण च स गृह्यते। श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः॥ 14-43-33 (93586) मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते। हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते॥ 14-43-34 (93587) बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा। निश्चित्य ग्रहणाद्व्यक्तमव्यक्तं नात्र संशयः॥ 14-43-35 (93588) अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः। तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः॥ 14-43-36 (93589) अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्। सदा पश्याम्यहं लीनं विजानामि शृणोमि च॥ 14-43-37 (93590) पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते। गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति॥ 14-43-38 (93591) आदिमद्यावसानं तत्सृज्यमानमचेतनम्। न गुणा विदुरात्मानं सृज्यमानाः पुनःपुनः॥ 14-43-39 (93592) न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति। गुणानां गुणभूतानां यत्परं परतो महत्॥ 14-43-40 (93593) तस्माद्गुणांश्च तत्वं च परित्यज्येह तत्ववित्। क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ॥ 14-43-41 (93594) निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च। अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विधिः॥ ॥ 14-43-42 (93595) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिचत्वारिंशोऽध्यायः॥ 43 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-43-2 आखुश्च बिलवासिनामिति क.थ.पाठः॥ 7-43-7 राजासत्त्वानां मित्र उच्यत इति क.ट.थ.॥ 7-43-8 उष्णानां देवानामिन्द्र उच्यत इति क.ट.थ.पाठः॥ 7-43-15 भगदेवाः कामुकास्तैरनुयातानामनुसृतानां स्त्रीणां सर्वासां मध्ये माहेश्वरी वामलोचनेति सम्बन्धः॥ भद्रादेवाभिजातानां सर्वेषां वारिजेक्षणेति क.ट.पाठः॥ 7-43-16 रतीनां प्रीतिसुखानाम्। वसुमत्यः धनवत्यः। धनलाभगर्वितं यत्प्रीतिसुखं तदेव महदित्यर्थः॥ 7-43-17 वर्णक्रमाश्च राजान इति क.ट.थ.पाठः॥ 7-43-25 लक्षणं महतो ध्यानमिति क.पाठः॥
आश्वमेधिकपर्व - अध्याय 044

॥ श्रीः ॥

14.44. अध्यायः 044

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षीन्प्रति स्वस्वजातिषु श्रेष्ठवस्तु प्रतिपादनपूर्वकं ज्ञानस्याविनाशित्वकथनेन तस्यैव श्रेयःसाधनत्वोक्तिः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। यदादिमध्यपर्यन्तं ग्रहणोपायमेव च। नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः॥ 14-44-1 (93596) अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः। श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः॥ 14-44-2 (93597) भूमिरादिस्तु गन्धानां रसानामाप एव च। रूपाणामादिरग्निस्तु स्पर्शादिर्वायुरुच्यते॥ 14-44-3 (93598) शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः। अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्॥ 14-44-4 (93599) आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते। सावित्री सर्वविद्यानां देवतानां प्रजापतिः॥ 14-44-5 (93600) ओङ्कारः सर्ववेदानां वचसां प्राण एव च। यदस्मिन्नियतं लोके सर्वं सावित्रमुच्यते॥ 14-44-6 (93601) गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते। गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः॥ 14-44-7 (93602) श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्। प्रसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः॥ 14-44-8 (93603) कृतमादिर्युगानां च सर्वेषां नात्र संशयः। हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा॥ 14-44-9 (93604) सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते। द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः॥ 14-44-10 (93605) स्थावराणां तु भूतानां सर्वेषामविशेषतः। ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रवरजः स्मृतः॥ 14-44-11 (93606) अहं प्रजापतीनां च सर्वेषां नात्र संशयः। मम विष्णुरचिन्त्यात्मा स्वयंभूरिति संस्मृतः॥ 14-44-12 (93607) पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः। दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा॥ 14-44-13 (93608) तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता। तथा सरोदपाननां सर्वेषां सागरोऽग्रजः॥ 14-44-14 (93609) देवदानवभूतानां पिशाचोरगरक्षसाम्। नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः॥ 14-44-15 (93610) आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्। ततः परतरं यस्मात्त्रैलोक्ये नेह विद्यते॥ 14-44-16 (93611) आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः। लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च॥ 14-44-17 (93612) अहान्यस्तमयान्तानि उदयान्ता च शर्वरी। सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम॥ 14-44-18 (93613) सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। संयोगाश्च वियोगान्ता मरणान्तं च जीवितम्॥ 14-44-19 (93614) सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्। अशाश्वतं हि लोकेऽस्मिन्सदा स्थावरजङ्गमम्॥ 14-44-20 (93615) इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये। सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते॥ 14-44-21 (93616) तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः। निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः॥ ॥ 14-44-22 (93617) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुश्चत्वारिशोऽध्यायः॥ 44 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-44-2 श्रविष्ठादीनि सर्वाणिति क.ट.थ.पाठः॥ 7-44-3 रूपाणां ज्योतिरादित्य इति झ.पाठः॥ 7-44-8 हुतं अग्नौ ब्राह्मणे वा देवतोद्देशेन दत्तम्॥ 7-44-11 ब्रह्मवृक्षः सदा पुण्यः इति क.थ.पाठः॥ 7-44-14 सरोदपाननां सरसां कूपादीनां च। संधिरार्षः। तथाचाश्वो वाहनानां सर्वेषां सागरोग्रज इति क.पाठः॥ 7-44-15 ईश्वरः रुद्रः॥
आश्वमेधिकपर्व - अध्याय 045

॥ श्रीः ॥

14.45. अध्यायः 045

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षीन्प्रति शरीरस्य कालचक्रवत्सर्वनाशकत्वोक्तिपूर्वकं गृहस्थध्रमानुष्ठानस्य श्रेयःसाधनत्वोक्तिः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम्। महाभूतारविष्कम्भं निमेषपरिवेष्टनम्॥ 14-45-1 (93618) जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम्। देशकालविचारीदं श्रमव्यायामनिःस्वनम्॥ 14-45-2 (93619) अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्। सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम्॥ 14-45-3 (93620) छायातपविलेखं च निमेषोन्मेषविह्वलम्। शोकमोहजराकीर्णं वर्तमानमचेतनम्॥ 14-45-4 (93621) मासार्धमासगुणितं विषमं लोकसञ्चरम्। तमोनिचयपङ्कं च रजोवेगप्रवर्तकम्॥ 14-45-5 (93622) सत्त्वालङ्कारदीप्तं च गुणसंघातमण्डलम्। विरतिग्रहणाभीकं शोकसंहारवर्तनम्॥ 14-45-6 (93623) क्रियाकारणसंयुक्तं रागविस्तारमायतम्। लोभेप्सापरिविक्षोभं विविक्तज्ञानसम्भवम्॥ 14-45-7 (93624) भयमोहपरीवारं भूतसंमोहकारकम्। आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम्॥ 14-45-8 (93625) महदादिविशेषान्तमव्यक्तं प्रभवाप्ययम्। मनोजवनमश्रान्तं कालचक्रं प्रवर्तते॥ 14-45-9 (93626) एतद्द्वन्द्वसमायुक्तं कालचक्रमचेतनम्। विसृजेत्संक्षिपेच्चापि बोधयेत्स्वापयेज्जगम्॥ 14-45-10 (93627) कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः। यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति॥ 14-45-11 (93628) विमुक्तः सर्वसङ्क्लेशैः सर्वद्वन्द्वातिगो मुनिः। विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्॥ 14-45-12 (93629) गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः। चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः॥ 14-45-13 (93630) यः कश्चिदिह लोकेऽस्मिन्नाश्रमः परिकीर्तितः। तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी॥ 14-45-14 (93631) संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः। जातौ गुणविशिष्टायां समावर्तेत वेदवित्॥ 14-45-15 (93632) स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः। पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह॥ 14-45-16 (93633) देवतातिथिशिष्टाशी निरतो वेदकर्मसु। इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि॥ 14-45-17 (93634) न पाणिपादचपलो न नेत्रचपलो मुनिः। न च वागङ्गचपल इति शिष्टस्य गोचरः॥ 14-45-18 (93635) नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः। नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत्॥ 14-45-19 (93636) जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः। वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्॥ 14-45-20 (93637) `त्रीणि धारयते नित्यं कमण्डलुमतन्द्रितः। एकमाचमनार्थाय एकं वै पादधावनम्। एकं शौचविधानार्थमित्येतत्त्रितयं तथा॥' 14-45-21 (93638) अधीत्याध्यापनं कुर्यात्तथा यजनयाजने। दानं प्रतिग्रहं वाऽपि षङ्गुणां वृत्तिमाचरेत्॥ 14-45-22 (93639) त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविकाः। याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः॥ 14-45-23 (93640) अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु। दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु॥ 14-45-24 (93641) तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्। दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः॥ 14-45-25 (93642) सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः। एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः॥ ॥ 14-45-26 (93643) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चचत्वारिंशोऽध्यायः॥ 45 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-45-1 इन्द्रियग्रामवर्धनमिति क.ट.थ.पाठः॥ 7-45-8 अनन्तप्रतिसारं चेति ट.पाठः॥ 7-45-10 मोहयेत्सामरं जगदिति क.ट.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 046

॥ श्रीः ॥

14.46. अध्यायः 046

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षीन्प्रति ब्रह्मचारिवनस्थधर्मनिरूपणपूर्वकं तदनुष्ठानस्य श्रेयःसाधनत्वोक्तिः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि। अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान्॥ 14-46-1 (93644) स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः। गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः॥ 14-46-2 (93645) गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन्। हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान्॥ 14-46-3 (93646) द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः। धारयीत सदा दण्डं बैल्वं पालाशमेव वा॥ 14-46-4 (93647) क्षौमं कार्पासिकं वाऽपि मृगाजिनमथापि वा। सर्वं काषायरक्तं वा वासो वाऽपि द्विजस्य ह॥ 14-46-5 (93648) मेखला च भवेन्मौञ्जी जटो नित्योदकस्तथा। यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः॥ 14-46-6 (93649) पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम्। भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते॥ 14-46-7 (93650) एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः। न संसरति जातीषु परमं स्थानमाश्रितः॥ 14-46-8 (93651) संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान्। ग्रामान्निष्क्रम्य चारण्ये मुनिः प्रव्रजितो वसेत्॥ 14-46-9 (93652) चर्मवल्कलसंवासी सायं प्रातरुपस्पृशेत्। अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः॥ 14-46-10 (93653) अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम्। फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन्॥ 14-46-11 (93654) स नित्यमुदकं वायुं सर्वं वानेयमाश्रयेत्। प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः॥ 14-46-12 (93655) समूलफलशाकाद्यैरर्चेदतिथिमागतम्। यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः॥ 14-46-13 (93656) देवतातिथिपूर्वं च सदा प्राश्नीत वाग्यतः। अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः॥ 14-46-14 (93657) दान्तो मैत्रः क्षमायुक्तः कशाञ्शमश्रु च धारयन्। जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः॥ 14-46-15 (93658) न्यस्तदेहः सदा दक्षो वननित्यः समाहितः। एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः॥ 14-46-16 (93659) गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथवा पुनः। य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत्॥ 14-46-17 (93660) अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्। सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः॥ 14-46-18 (93661) अयाचितमसंक्लृप्तमुपपन्नं यदृच्छया। कृत्वा प्राह्णे चरेद्भैक्ष्यं विधूमे भुक्तवज्जने॥ 14-46-19 (93662) वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित्। लाभेन च न हृष्येत नालाभे विमना भवेत्। न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः॥ 14-46-20 (93663) यात्रार्थी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः। लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः॥ 14-46-21 (93664) अभिपूजितलाभाद्वि विजुगुप्सेत भिक्षुकः। भुक्तान्यन्नानि तिक्तानि कषायकटुकानि च॥ 14-46-22 (93665) नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा। यात्रामात्रं च भुञ्जीत केवलं प्राणधारणम्॥ 14-46-23 (93666) असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित्। न चान्यमन्नं लिप्सेत भिक्षमाणः कथञ्चन॥ 14-46-24 (93667) न सन्निकाशयेद्धर्मं विविक्ते चारजाश्चरेत्। शून्यागारमण्यं वा वृक्षमूलं नदीं तथा॥ 14-46-25 (93668) प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम्। ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत्॥ 14-46-26 (93669) अध्वा सूर्येणि निर्दिष्टः कीटवच्च चरेन्महीम्। दयार्तं चैव भूतानां समीक्ष्य पृथिवीं चरेत्॥ 14-46-27 (93670) सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत्। पूताभिरद्भिर्नित्यं वै कार्यं कुर्वीत मोक्षवित्॥ 14-46-28 (93671) उपस्पृशेदुद्दृताभिरद्भिश्च पुरुषः सदा। अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च॥ 14-46-29 (93672) अक्रोधश्चानसूया च दमो नित्यमपैशुनम्। अष्टस्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः॥ 14-46-30 (93673) अपापमशठं वृत्तमजिह्मं नित्यमाचरेत्। जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः॥ 14-46-31 (93674) यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्। धर्मलब्धमथाश्नीयान्न काममनुवर्तयेत्॥ 14-46-32 (93675) ग्रासादाच्छादनादन्यन्न गृह्णीयात्कथञ्चन। यावदाहारयेत्तावत्प्रतिगृह्णीत नाधिकम्॥ 14-46-33 (93676) परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन। दैन्यभावाच्च भूतानां संविभज्य सदा बुधः॥ 14-46-34 (93677) नाददीत परस्वानि न गृह्णीयान्न याचयेत्। न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः॥ 14-46-35 (93678) मृदमापस्तथाऽन्नानि पत्रपुष्पफलानि च। असंवृतानि गृह्णीयात्प्रवृत्तानि च कार्यवान्॥ 14-46-36 (93679) न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत्। न द्वेष्टा नोपदेष्टा च भवेच्च निरुपस्कृतः॥ 14-46-37 (93680) श्रद्धापूतानि भुञ्जीत निमित्तानि च वर्जयेत्। मुधावृत्तिरसक्तश्च सर्वभूतैरसंधितः॥ 14-46-38 (93681) आशीर्युक्तानि सर्वाणि हिंसायुक्तानि यानि च। लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत्॥ 14-46-39 (93682) सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत्। समः सर्वेषु भूतेषु स्थावरेषु चरेषु च॥ 14-46-40 (93683) परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत्। विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते॥ 14-46-41 (93684) अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत्। वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः॥ 14-46-42 (93685) न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित्। न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत्॥ 14-46-43 (93686) इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः। क्षीणेन्द्रियमनोबुद्धिर्निरीहः सर्वतत्त्ववित्॥ 14-46-44 (93687) निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च। निर्ममो निरहङ्कारो निर्योगक्षेम आत्मवान्॥ 14-46-45 (93688) निराशीर्निर्गुणः शान्तो निरासक्तो निराश्रयः। आत्मसङ्गी च तत्त्वज्ञो मुच्यते नात्र संशयः॥ 14-46-46 (93689) अपादपाणिपृष्ठं तदशिरस्कमनूदरम्। अभिन्नगुणकर्माणं केवलं विमलं स्थिरम्॥ 14-46-47 (93690) अगन्धमरसस्पर्शमरूपाशब्दमेव च। अनुगम्यमनासक्तममांसमपि चैव यत्॥ 14-46-48 (93691) निशअचिन्तमव्ययं दिव्यं गृहस्थमपि सर्वदा। सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः॥ 14-46-49 (93692) न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः। वेदा यज्ञाश्च लोकाश्च न तपो न व्रतानि च॥ 14-46-50 (93693) यत्र ज्ञानवतां प्राप्तिलिङ्गग्रहणा स्मृता। तस्मादलिङ्गधर्मज्ञो धर्मतत्त्वमुपाचरेत्॥ 14-46-51 (93694) गूढधर्माश्रितो विद्वान्विज्ञानचरितं चरेत्। अमूढो मूढरूपेण चरेद्धर्ममदूषयन्॥ 14-46-52 (93695) यथैनमवमन्येरन्परे सततमेव हि। तथावृत्तश्चरेच्छान्तः सतां धर्मानकुत्सयन्॥ 14-46-53 (93696) य एवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते। इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च॥ 14-46-54 (93697) मनो बुद्धिरहङ्कारमव्यक्तं पुरुषं तथा। एतत्सर्वं प्रसङ्ख्याय यथावत्तत्त्वनिश्चयात्॥ 14-46-55 (93698) ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः। एतावदन्तवेलायां परिसङ्ख्याय तत्त्ववित्॥ 14-46-56 (93699) ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः। निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा॥ 14-46-57 (93700) क्षीणकोशो निरातङ्कस्तथेदं प्राप्नुयात्परम्॥ ॥ 14-46-58 (93701) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्चत्वारिंशोऽध्यायः॥ 46 ॥
आश्वमेधिकपर्व - अध्याय 047

॥ श्रीः ॥

14.47. अध्यायः 047

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षीन्प्रति संन्यासज्ञानतपसां परमपुरुषार्थसाधनत्वोक्तिः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। संन्यासं तप इत्याहुर्वृद्धा निश्चितवादिनः। ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः॥ 14-47-1 (93702) अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम्। निर्द्वन्द्वं निर्गुणं नित्यमचिन्त्यगुणमुत्तमम्॥ 14-47-2 (93703) ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्परम्। निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमलाः॥ 14-47-3 (93704) तपसा क्षेममध्वानं गच्छन्ति परमेश्वरम्। संन्यासनिरता नित्यं ये च ब्रह्मविदो जनाः॥ 14-47-4 (93705) तपः प्रदीप इत्याहुराचारो धर्मसाधकः। ज्ञानं वै परमं विद्यात्संन्यासं तप उत्तमम्॥ 14-47-5 (93706) यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात्। सर्वभूतस्थमात्मानं स सर्वविदिहोच्यते॥ 14-47-6 (93707) यो विद्वान्सहवासं च विवासं चैव पश्यति। तथैवेकत्वनानात्वे स दुःखात्प्रतिमुच्यते॥ 14-47-7 (93708) यो न कामयते किञ्चिन्न किञ्चिदवमन्यते। इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते॥ 14-47-8 (93709) प्रधानगुणतत्त्वज्ञः सर्व भूतविधानवित्। निर्ममो निरहङ्कारो मुच्यते नात्र संशयः॥ 14-47-9 (93710) निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च। निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति॥ 14-47-10 (93711) हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम्। उभे सत्यानृते हित्वा मुच्यते नात्र संशयः॥ 14-47-11 (93712) अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान्। महाहङ्कारविटप इन्द्रियान्तरकोटरः॥ 14-47-12 (93713) महाभूतविशाखश्च विशेषप्रतिशाखवान्। सदापत्रः सदापुष्पः शुभाशुभफलोदयः॥ 14-47-13 (93714) आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः। एनं छित्त्वा च भित्त्वा च तत्त्वज्ञानासिना बुधः॥ 14-47-14 (93715) हित्वा सङ्गमयान्पाशान्मृत्युजन्मजरोदयान्। निर्ममो निरहङ्कारो मुच्यते नात्र संशयः॥ 14-47-15 (93716) द्वाविमौ पक्षिणौ नित्यौ संक्षेपौ चाप्यचेतनौ। एताभ्यां तु परो योन्यश्चेतनावान्स उच्यते॥ 14-47-16 (93717) अचेतनः सत्वसङ्ख्याविमुक्तः सत्त्वात्परं चेतयतेऽन्तरात्मा। स क्षेत्रवित्सर्वसङ्ख्यातबुद्धि- र्गुणातिगो मुच्यते सर्वपापैः॥ ॥ 14-47-17 (93718) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तचत्वारिंशोऽध्यायः॥ 47 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-47-15 हित्वा चामरतां प्राप्य जह्याद्यो मृत्युजन्मनीति क.ठ.थ. पाठः॥ 7-47-16 पक्षिणौ जीवेश्वरौ॥ 7-47-17 अचेतनस्तत्वसंघातयुक्तस्तत्वात्परं चेतयतेन्तरात्मा। स क्षेत्रज्ञस्तत्वसंघातबुद्धिर्गुणातिगो मुच्यते मृत्युपाशादिति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 048

॥ श्रीः ॥

14.48. अध्यायः 048

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षीन्प्रति योगिनां चातुर्विध्यादिकथनपूर्वकं मुमुक्षुवेद्यनानार्थकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं वनम्। केचित्परममव्यक्तं केचित्परमनामयम्। मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम्॥ 14-48-1 (93719) उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत्। आत्मानमुपसङ्म्य सोमृतत्वाय कल्पते॥ 14-48-2 (93720) निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि। गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्॥ 14-48-3 (93721) प्राणायामैरथ प्राणान्संयम्य स पुनःपुनः। दशद्वादशभिर्वापि चतुर्विंशात्समन्ततः॥ 14-48-4 (93722) एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति। अव्यक्तात्सत्वमुद्रिक्तममृतत्वाय कल्पते॥ 14-48-5 (93723) सत्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः। अनुमानाद्विजानीमः पुरुषं सत्वसंश्रयम्। न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः॥ 14-48-6 (93724) क्षमा धृतिरहिंसा च समता सत्यमार्जवम्। ज्ञानं त्यागोथ संन्यासः सात्विकं वृत्तमिष्यते॥ 14-48-7 (93725) एतेनैवानुमानेन मन्यन्ते वै मनीषिणः। सत्वं च पुरुषश्चैव तत्र नास्ति विचारणा॥ 14-48-8 (93726) आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः। क्षेत्रज्ञसत्वयोरैक्यमित्येतन्नोपपद्यते॥ 14-48-9 (93727) पृथग्भूतस्तथा नित्यमित्येतदविचारितम्। पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः॥ 14-48-10 (93728) तथैवैकत्वनानात्वमिष्यते विदुषां नयः। मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते॥ 14-48-11 (93729) मत्स्यो यथाऽन्यः स्यादप्सु सम्प्रयोगस्तथा तयोः। सम्बन्धस्तोयबिन्दूनां पर्णैः कोकनदस्य च॥ 14-48-12 (93730) गुरुरुवाच। 14-48-13x (7863) इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम्। पुनः संशयमापन्नाः पप्रच्छुर्मुनिसत्तमाः॥ ॥ 14-48-13 (93731) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टचत्वारिंशोऽध्यायः॥ 48 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-48-2 भोक्तुः कालेन वै भवेदिति ट.पाठः॥ 7-48-13 उक्तं विद्यते येषु ते उक्तवन्तः उक्तमर्थं सम्यगवधृतवन्त इत्यर्थः॥
आश्वमेधिकपर्व - अध्याय 049

॥ श्रीः ॥

14.49. अध्यायः 049

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

महर्षिभिर्ब्रह्मणंप्रति धर्मविषये नानाविधवादिविप्रतिपत्तिप्रदर्शनपूर्वकं तत्प्रयुक्तस्वीयसंशयनिवर्तनप्रार्थना॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

name="Azvamedhika-14-49-1x">ऋषय ऊचुः। को वा स्विदिह धर्माणामनुष्ठेयतमो मतः। व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्॥ 14-49-1 (93732) ऊर्द्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे। केचित्संशयितं सर्वं निःसंशयमथापरे॥ 14-49-2 (93733) अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे। त्रिधेत्येके द्विधेत्येके व्याकीर्णमिति चापरे॥ 14-49-3 (93734) मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः। एकमेके पृथक्चान्ये बहुत्वमिति चापरे॥ 14-49-4 (93735) देशकालावुभौ केचिन्नैतदस्तीति चापरे। जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः॥ 14-49-5 (93736) अश्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः। मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः॥ 14-49-6 (93737) आहारं केचिदिच्छन्ति केचिच्चानशने रताः। कर्म केचित्प्रशंसन्ति प्रशान्ति चापरे जनाः॥ 14-49-7 (93738) केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान्। धनानि केचिदिच्छन्ति निर्धनत्वमथापरे। उपास्य साधनं त्वेके नैतदस्तीति चापरे॥ 14-49-8 (93739) अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः। पुण्येन यशसा चान्ये नैतदस्तीति चापरे॥ 14-49-9 (93740) सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः। दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः॥ 14-49-10 (93741) यज्ञ इत्यपरे विप्राः प्रदानमिति चापरे। तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः॥ 14-49-11 (93742) ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः। सर्वमेके प्रशंसन्ति न सर्वमिति चापरे॥ 14-49-12 (93743) एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते। निश्चयं नाधिगच्छामः श्रेयः किमिति सत्तम॥ 14-49-13 (93744) इदं श्रेय इदं श्रेय इत्येवं व्युस्थितो जनः। यो हि यस्मिन्रतो धर्म स तं पूजयते सदा॥ 14-49-14 (93745) तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम्। एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम॥ 14-49-15 (93746) अतः परं तु यद्गुह्यं तद्भवान्वक्तुमर्हति। सत्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना॥ 14-49-16 (93747) एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः। तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान्॥ ॥ 14-49-17 (93748) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनपञ्चशोऽध्यायः॥ 49 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-49-1 न कर्मणेति कुर्वन्नेवेह कर्माणीत्युभयविधश्रुतिदर्शनान्मुह्यामहे इति भावः॥ 7-49-2 ऊर्ध्वं देहात् देहनाशादूर्ध्वमपि आत्मास्तीत्येके वदन्तीति सम्बन्धः। नैतदिति लोकायताः। सर्वं संशयितमिति स्याद्वादिनः सप्तभङ्गीनयज्ञाः। निःसंशयमिति प्रातिस्विकं सर्वं तैर्तिकाः॥ 7-49-3 अनित्यं सर्वं सृष्टिप्रलययुक्तमिति तार्किकादयः। नित्यं प्रवाहनित्यमिति मीमांसकाः। नास्तीति शून्यवादिनः। अस्ति परंतु क्षणिकमिति सौगताः॥ 7-49-6 अस्नानं नैष्ठिकब्रह्मचर्यम्। स्नानं गार्हस्थ्यम्॥ 7-49-8 साधनं ध्यानादिकमुपास्य कृत्वापि नैतदस्तीति पश्चात्सर्वमपवदन्ति॥ 7-49-9 पुण्येन पुण्यार्थमेव यतेतेत्यन्ये। एतत्पुण्यं नास्त्येवेत्यन्ये लोकायताः॥ 7-49-10 संशयिते कृतमस्ति नवेति संदिग्धे पथि। दुःखात् दुःखनिवृत्त्यर्थं सुखात्सुखप्राप्त्यर्थं ध्यानं कर्तव्यम्। निष्काममेवेत्यपरे॥ 7-49-11 सत्यमेके प्रशंसन्ति असत्यमिति चापरे इति थ.पाठः॥ 7-49-12 ज्ञानं संन्यासं संन्यासैकप्राप्यम्। भूतचिन्तकाः वस्तुतत्त्वविचारकाः। स्वभावं साधनपौष्कल्यम्। साधनपौष्कल्यस्वाभाव्यादेव ज्ञानमुत्पद्यते आश्रमान्तरेपि न संन्यासमात्रेणेत्याहुः॥ 7-49-15 अविहिता अशिक्षिता। आख्यातं त्वयेति शेषः॥
आश्वमेधिकपर्व - अध्याय 050

॥ श्रीः ॥

14.50. अध्यायः 050

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

ब्रह्मणा महर्षिन्प्रति धर्मप्रदर्शनपूर्वकं तदनुष्ठानसहकृतज्ञानस्यैव दृष्टान्तप्रदर्शनेन परमपुरुषार्थसाधनत्वोक्तिः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। हन्त वः सम्प्रक्ष्यामि यन्मां पृच्छथ सत्तमाः। गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत॥ 14-50-1 (93749) समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्। अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम्॥ 14-50-2 (93750) एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्। ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चितदर्शिनः। तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्बिषैः॥ 14-50-3 (93751) हिंसापराश्च ये केचिद्ये च नास्तिकवृत्तयः। लोभमोहसमायुक्तास्ते वै निरयगामिनः॥ 14-50-4 (93752) आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः। तेऽस्मिन्लोके प्रमोदन्ते जायमानाः पुनः पुनः॥ 14-50-5 (93753) कुर्वते ये तु कर्माणि श्रद्धधाना विपश्चितः। अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः॥ 14-50-6 (93754) अतः परं प्रवक्ष्यामि सत्वक्षेत्रज्ञयोर्यथा। संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः॥ 14-50-7 (93755) विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते। विषयी पुरुषो नित्यं सत्वं च विषयः स्मृतः॥ 14-50-8 (93756) व्याख्यातं पूर्वकल्पेनि मशकोदुम्बरं यथा। भुज्यमानं न जानीते नित्यं सत्वमचेतनम्। यस्त्वेवं तं विजानीते यो भुङ्क्ते यश्च भुज्यते॥ 14-50-9 (93757) अनित्यं द्वन्द्वसंयुक्तं सत्वमाहुर्मनीषिणः। निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः॥ 14-50-10 (93758) समः संज्ञानुगश्चैव स सर्वत्र व्यवस्थितः। न सज्जते सदा सत्वमापः पुष्करपर्णवत्॥ 14-50-11 (93759) सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते। जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः॥ 14-50-12 (93760) एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः। द्रव्यमात्रमभूत्सत्वं पुरुषस्येति निश्चयः॥ 14-50-13 (93761) यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा। यथा प्रदीपमादाय कश्चित्तमसि गच्छति। तथा सत्त्वप्रदीपेन गच्छन्ति परमर्षयः॥ 14-50-14 (93762) यावद्द्रव्यं गुणस्तावत्प्रदीपः सम्प्रकाशते। क्षीणे द्रव्ये गुणे ज्योतिरन्तर्धानाय गच्छति॥ 14-50-15 (93763) व्यक्तः सत्वगुणस्त्वेवं पुरुषो द्रव्यमुच्यते। एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः॥ 14-50-16 (93764) सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति। चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते॥ 14-50-17 (93765) एवं धर्मस्य विज्ञेयं संसाधनमुपायतः। उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते॥ 14-50-18 (93766) यथाऽध्वानमपाथेयः प्रपन्नो मनुजः क्वचित्। क्लेशेन याति महता विनश्यत्यन्तराऽपि च॥ 14-50-19 (93767) तथा कर्मसु विज्ञेयं फलं भवति वा न वा। पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम्॥ 14-50-20 (93768) यथा च दीर्घमध्वानं पद्म्यामेव प्रपद्यते। अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः॥ 14-50-21 (93769) तमेव च यथाऽध्वानं रथेनेहाशुगामिना। गच्छत्यश्वप्रयुक्तेन तथा बुद्धिमतां गतिः॥ 14-50-22 (93770) ऊर्ध्वं पर्वतमारुह्य नान्ववेक्षेत भूतलम्। रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम्॥ 14-50-23 (93771) यावद्रथपथस्तावद्रथेन स तु गच्छति। क्षीणे रथपदे विद्वान्रथमुत्सृज्य गच्छति॥ 14-50-24 (93772) एवं गच्छति मेधावी तत्त्वयोगविधानवित्। परिज्ञाय गुणज्ञश्च उत्तरादुत्तरोत्तरम्॥ 14-50-25 (93773) यथाऽर्णवं महाघोरमप्लवः सम्प्रगाहते। बाहुभ्यामेव सम्मोहाद्वधं वाञ्छत्यसंशयम्॥ 14-50-26 (93774) नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया। अश्रान्तः सलिलं गहाच्छीध्रं संतरते ह्रदम्॥ 14-50-27 (93775) तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः। व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः॥ 14-50-28 (93776) स्नेहात्सम्मोहमापन्नो नावि दाशो यथा तथा। ममत्वेनाभिभूतः संस्तत्रैव परिवर्तते॥ 14-50-29 (93777) नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्। तथैव रथमारुह्य नाप्सु चर्या विधीयते॥ 14-50-30 (93778) एवं कर्म कृतं वित्त विषयस्थं पृथक्पृथक्। यथा कर्म कृतं लोके तथा तदुपपद्यते॥ 14-50-31 (93779) यन्नैव गन्धि नो रस्यं न रूपस्पर्सशब्दवत्। मन्यते न मनो बुद्ध्या तत्प्रधानं प्रचक्षते॥ 14-50-32 (93780) तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्। महप्रधानभूतस्य गुणोऽहङ्कार एव च॥ 14-50-33 (93781) अहङ्कारात्तु सम्भूतो महाभूतकृतो गुणः। पृथक्त्वेन हि भूतानां विषया वै गुणाःस्मृताः॥ 14-50-34 (93782) बीजधर्मं यथाऽव्यक्तं तथैव प्रसवात्मकम्। बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम्॥ 14-50-35 (93783) बीजधर्मात्साहङ्कारात्प्रसवश्च पुनःपुनः। बीजप्रसवधर्माणि महाभूतानि पञ्च वै॥ 14-50-36 (93784) बीजधर्मिण इत्याहुः प्रसवं च प्रकुर्वते। विशेषाः पञ्चभूतानां तेषां वित्त विशेषणम्॥ 14-50-37 (93785) तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते। त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः॥ 14-50-38 (93786) पृथ्वी पञ्चगुणा ज्ञेया चरस्थावरसङ्कुला। सर्वभूतकरी देवी शुभाशुभनिदर्शिनी॥ 14-50-39 (93787) शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः। एते पञ्चगुणा भूमेर्विज्ञेया द्विजसत्तमाः॥ 14-50-40 (93788) पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः। तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान्॥ 14-50-41 (93789) इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा। निर्हारी संहतः स्निग्धो रूक्षो विशद एव च॥ 14-50-42 (93790) एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत। शब्दः स्पर्शस्तथा रूपं द्रवश्चापां गुणाः स्मृताः॥ 14-50-43 (93791) रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः। मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा॥ 14-50-44 (93792) एवं षड्विधविस्तारो रसो वारिमयः स्मृतः। शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते॥ 14-50-45 (93793) ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्। शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा॥ 14-50-46 (93794) ह्रस्वं दीर्घं कृशं स्थूलं चतुरश्राणुवृत्तकम्। एवं द्वादशविस्तारं तेजसो रूपमुच्यते॥ 14-50-47 (93795) विज्ञेयं ब्राह्मणैर्वृद्धैर्धर्मज्ञैः सत्यवादिभिः। शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते॥ 14-50-48 (93796) वायोश्चापि गुणः स्पर्शः स्पर्सश्च बहुधा स्मृतः। उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च॥ 14-50-49 (93797) कठिनश्चिक्वणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः। एवं द्वादशविस्तारो वायव्यो गुण उच्यते॥ 14-50-50 (93798) विधिवद्ब्राह्मणैः सिद्धैर्मन्त्रज्ञैस्तत्त्वदार्शिभिः॥ 14-50-51 (93799) तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः। तस्य शब्दस्यि वक्ष्यामि विस्तरेण बहून्गुणान्॥ 14-50-52 (93800) षड्जर्षभः सगान्धारो मध्यमः पञ्चमस्तथा। अतः परं तु विज्ञेयो निषादो धैवतस्तथा। इष्टश्चानिष्टशब्दश्च संहतः प्रतिभानवान्॥ 14-50-53 (93801) एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः। आकाशमुत्तमं भूतमहङ्कारस्ततः परः॥ 14-50-54 (93802) अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः। तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः॥ 14-50-55 (93803) परावरज्ञो भूतानां विधिज्ञः सर्वकर्मणाम्। सर्वभूतात्मभूतात्मा यं प्राप्यानन्त्यमश्नुते॥ ॥ 14-50-56 (93804) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चाशोऽध्यायः॥ 50 ॥
आश्वमेधिकपर्व - अध्याय 051

॥ श्रीः ॥

14.51. अध्यायः 051

अथानुगीतापर्व-2

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनार्जुनंप्रति मुक्त्युपायप्रतिपादकगुरुशिष्यसंवादानुवादसमापनपूर्वकं स्वस्य निजनगरजिगमिषानिवेदनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

ब्रह्मोवाच। भूतानामथ पञ्चानामथेषामीश्वरं मनः। नियमे च विसर्गे च भूतानां मन एव च॥ 14-51-1 (93805) अधिष्ठातृमनो नित्यं भूतानां महतां तथा। बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञश्च स उच्यते॥ 14-51-2 (93806) इनद्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः। इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा॥ 14-51-3 (93807) महदश्वसमायुक्तं बुद्धिसंयमनं रथम्। समारुह्य स भूतात्मा समन्तात्परिधावति॥ 14-51-4 (93808) इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च। बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः॥ 14-51-5 (93809) एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम्। स धीरः सर्वलोकेषु न मोहमधिगच्छति॥ 14-51-6 (93810) अव्यक्तादिविशेषान्तं सहस्थावरजङ्गमम्॥ सूर्यचन्द्रप्रभालोकं ग्रहनक्षत्रमण्डितम्॥ 14-51-7 (93811) नदीपर्वतजालैश्च सर्वतः परिभूषितम्। विविधाभिस्तथा चाद्भिः सततं समलंकृतम्॥ 14-51-8 (93812) अजितं सर्वभूतानां सर्वप्राणभृतां गतिः। एतद्ब्रह्मवनं नित्यं तस्मिंश्चरति क्षेत्रवित्॥ 14-51-9 (93813) लोकेऽस्मिन्यानि सत्वानि त्रसानि स्थावराणि च। तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः। गुणेभ्यः पञ्च भूतानि एष भूतसमुच्छ्रयः॥ 14-51-10 (93814) देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः। सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात्॥ 14-51-11 (93815) एते विश्वसृजो विप्रा जायन्तीह पुनः पुनः। तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु। प्रलीयन्ते यथाकालमूर्मयः सागरे यथा॥ 14-51-12 (93816) विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतास्तु सर्वशः। भूतेब्यश्चापि पञ्चभ्यो भुक्तो गच्छेत्परां गतिम्॥ 14-51-13 (93817) प्रजापतिरिदं सर्वं मनसैवासृजत्प्रभुः। तथैव देवानृषयस्तपसा प्रतिपेदिरे॥ 14-51-14 (93818) तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा। त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः॥ 14-51-15 (93819) औषधान्यगदादीनि नानाविद्याश्च सर्वशः। तपसैव प्रसिद्ध्यन्ति तपोमूलं हि साधनम्॥ 14-51-16 (93820) यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम्। तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥ 14-51-17 (93821) सुरापो ब्रह्महा स्तेनो भ्रूणहागुरुतल्पगः। तपसैव सुतप्तेन मुच्यते किल्बिषात्ततः॥ 14-51-18 (93822) मनुष्याः पितरो देवाः पशवो मृगपक्षिणः। यानि चान्यानि भूतानि चराणि स्थावराणि च॥ 14-51-19 (93823) तपःपरायणा नित्यं सिद्ध्यन्ते तपसा सदा। तथैव तपसा देवा महाभागा दिवं गताः॥ 14-51-20 (93824) आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः। अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः॥ 14-51-21 (93825) ध्यानयोगेन शुद्वेन निर्ममा निरहंकृताः। आप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम्॥ 14-51-22 (93826) ध्यानयोगमुपागम्य प्रसन्नमतयः सदा। सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः॥ 14-51-23 (93827) ध्यानयोगादुपागम्य निर्ममा निरहंकृताः। अव्यक्तं प्रविशन्तीह महतां लोकमुत्तमम्॥ 14-51-24 (93828) अव्यक्तादेव सम्भूताः समयज्ञा गताः पुनः। तमोरजोभ्यां निर्मुक्ताः सत्वमास्थाय केवलम्॥ 14-51-25 (93829) निर्मुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः। क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित्॥ 14-51-26 (93830) चित्तं चित्तादुपागम्य मुनिरासीत संयतः। यच्चित्तस्तन्मना भूत्वा ग्राह्यमेतत्सनातनम्॥ 14-51-27 (93831) अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम्। निबोधत तथा ज्ञानं गुणैर्लक्षणमित्युत॥ 14-51-28 (93832) द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्। ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्॥ 14-51-29 (93833) कर्म केचित्प्रशंसन्ति मन्दबुद्धितया नराः। ये तु वृद्धा महात्मानो न प्रशंसन्ति कर्म ते॥ 14-51-30 (93834) कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः। पुरुषं ग्रसते विद्या तद्ग्राह्यममृताशिनम्॥ 14-51-31 (93835) तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः। विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः॥ 14-51-32 (93836) य एवममृतं नित्यमग्राह्यं शश्वदक्षरम्॥ वश्यात्मानमसंश्लिष्टं यो वेद न मृतो भवेत्॥ 14-51-33 (93837) अपूर्वमकृतं नित्यं य एनमविचारिणम्। य एवं विन्देदात्मानमग्राह्यममृताशनम्। अग्राह्यो ह्यमृतो भवति स एभिः कारणैर्ध्रुवः॥ 14-51-34 (93838) आयोज्य सर्वसंस्कारान्संयम्यात्मानमात्मनि। स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते॥ 14-51-35 (93839) प्रसादे चैव सत्वस्य प्रसादं समवाप्नुयात्। लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम्॥ 14-51-36 (93840) गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः। प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः॥ 14-51-37 (93841) एषा गतिर्विरक्तानामेष धर्मः सनातनः। एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम्॥ 14-51-38 (93842) समेन सर्वभूतेषु निस्पृहेण निराशिषा। शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना॥ 14-51-39 (93843) एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः। एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ॥ 14-51-40 (93844) गुरुरुवाच। 14-51-41x (7864) इत्युक्तास्ते तु मुनयो गुरुणा ब्रह्मणा तथा। कृतवन्तो महात्मानस्ततो लोकमवाप्नुवन्॥ 14-51-41 (93845) त्वमप्येतन्महाभाग मयोक्तं ब्रह्मणो वचः। सम्यगाचर शुद्धात्भंस्ततः सिद्धिमवाप्स्यसि॥ 14-51-42 (93846) वासुदेव उवाच। 14-51-43x (7865) इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम्। चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान्॥ 14-51-43 (93847) कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह। तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति॥ 14-51-44 (93848) अर्जुन उवाच। 14-51-45x (7866) को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन। श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो॥ 14-51-45 (93849) वासुदेव उवाच। 14-51-46x (7867) अहं गुरुर्महाबाहो मनः शिष्य च विद्धि मे। त्वत्प्रीत्या गुह्यमेतच्च कथितं ते धनंजय॥ 14-51-46 (93850) मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह। अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत॥ 14-51-47 (93851) ततस्त्वं सम्यगाचीर्णो धर्मेऽस्मिन्नरिकर्शन। सर्वपापविनिर्मुक्तो मोक्षं प्राप्स्यसि केवलम्॥ 14-51-48 (93852) पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते। मया तव महाबाहो तस्मादत्र मनः कुरु॥ 14-51-49 (93853) मया तु भरतश्रेष्ठ चिरदृष्टः पिता प्रभुः। तमहं द्रष्टमिच्छामि सम्मते तव फल्गुन॥ 14-51-50 (93854) वैशम्पायन उवाच। 14-51-51x (7868) इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः। `यदिष्टं कुरु सर्वेषामीश्वरोऽस्मान्प्रपालय॥ 14-51-51 (93855) नमस्ते सर्वलोकात्मन्नारायण परात्पर। मनोमलात्तपोशक्यं कर्म चाविद्यया हतम्। दानमप्यर्थदोषेणि नाम तस्मात्कलौ स्मरेत्॥ 14-51-52 (93856) यदि गन्तुं कृता बुद्धिर्वासुदेव नमोस्तु ते।' गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै॥ 14-51-53 (93857) समेत्य तत्रि राजानं धर्मात्मानं युधिष्ठिरम्। समनुज्ञाप्य राजानं स्वां पुरीं यातुमर्हसि॥ ॥ 14-51-54 (93858) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकपञ्चाशोऽध्यायः॥ 51 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-51-13 महाभूतानि गच्छतीति क.ट.थ.पाठः॥ 7-51-31 विममो यः स पुरुष इति क.पाठः॥ 7-51-35 अपोह्य सर्वान्संकल्पान्संयतात्मानमात्मनीति थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 052

॥ श्रीः ॥

14.52. अध्यायः 052

Mahabharata - Ashvamedhika Parva - Chapter Topics

अनुगीतोपदेशानन्तरं कृष्णार्जुनाभ्यां हास्तिनपुरंप्रति प्रस्थानम्॥ 1 ॥ तत्र मध्येमार्गमर्जुनेन कृष्णंप्रति स्तुतिपूर्वकं व्यासनारदादिभ्यः स्वस्य कृष्णयाथात्म्यावगतिनिवेदनम्॥ 2 ॥ ततः कृष्णेन सहार्जुनेन हास्तिनपुरमेत्य धृतराष्ट्रादिभ्यः पादाभिवादनम्॥ 3 ॥ ततो युधिष्ठिराद्यनुमत्या सुभद्रामानीय सहसात्यकिना द्वारकांप्रति प्रस्थानम्॥ 4 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। ततोऽभ्यनोदयत्कृष्णो युज्यतामिति दारुकम्। मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः॥ 14-52-1 (93859) तथैव चानुयात्राणि चोदयामास पाण्डवः। सन्नह्यध्वं प्रयास्यामो नगर गजसाह्वयम्॥ 14-52-2 (93860) इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशाम्पते। आचख्युः सज्जमित्येवं पार्थायामिततेजसे॥ 14-52-3 (93861) ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ। विकुर्वाणौ कताश्चित्राः प्रीयमाणौ विशाम्पते॥ 14-52-4 (93862) रथस्थं तु महातेजा वासुदेवं धनञ्जयः। पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम॥ 14-52-5 (93863) त्वत्प्रसादाज्ज्यः प्राप्तो राज्ञा वृष्णिकुलोद्वह। निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम्॥ 14-52-6 (93864) नाथवन्तश्च भवता पाण्डवा मधुसूदन। भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम्। `भक्तांस्त्वमाश्रितानस्मान्पालयामुत्र चेह च।' 14-52-7 (93865) विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसत्तम। तथा त्वामभिजानामि तथा चाहं भवान्मतः॥ 14-52-8 (93866) त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन। रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो॥ 14-52-9 (93867) त्वयि सर्वमिदं विश्वं यदिदं स्थाणु जङ्गमम्। त्वं हि सर्वं विकुरुषे भूतग्रामं चतुर्विधम्॥ 14-52-10 (93868) पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम्। हसिंतं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियाणि ते॥ 14-52-11 (93869) प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः। प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते॥ 14-52-12 (93870) रतिस्तुष्टिर्धृतिः क्षान्तिर्मतिः कान्तिश्चराचरम्। त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनध॥ 14-52-13 (93871) सुदीर्घेणापि कालेन न ते शक्या गुणा मया। आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण॥ 14-52-14 (93872) विदितो मे सुदुर्धर्ष नारदाद्देवलात्तथा। कृष्णद्वैपायनाच्चेव तथा कुरुपितामहात्॥ 14-52-15 (93873) त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः। यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयाऽनघ॥ 14-52-16 (93874) एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन। इदं चाद्भुतमत्यन्तं कृतमस्मत्प्रियेप्सया॥ 14-52-17 (93875) यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः। त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे॥ 14-52-18 (93876) भवता तत्कृतं कर्म येनावाप्तो जयो मया। दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः॥ 14-52-19 (93877) कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः। सैन्धवस्य च पापस्य भूरिश्रवस एव च॥ 14-52-20 (93878) `तस्मात्त्वमेव सञ्चिन्त्य हितं कुरु यथा तथा।' अहं च प्रीयमाणेन त्वया देवकिनन्दन। यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा॥ 14-52-21 (93879) राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम्। चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ॥ 14-52-22 (93880) आहृतं हि ममैतत्ते द्वारकागमनं प्रभो। अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन। बलदेवं च दुर्धर्षं तथाऽन्यान्वृष्णिपुङ्गवान्॥ 14-52-23 (93881) एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम्। तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम्॥ 14-52-24 (93882) तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्। 14-52-25 (93883) ददृशाते महाराज धृतराष्ट्रं जनेश्वरम्॥ 14-52-25 (93884) विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम्। भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ॥ 14-52-26 (93885) धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम्। गान्धारीं च महाप्रज्ञां पृथा कृष्णां च भामिनीम्॥ 14-52-27 (93886) सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा। ददृशाते स्त्रियः सर्वा गान्धारीपरिचारिकाः॥ 14-52-28 (93887) ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ। निवेद्य नामधेये स्वे तस्य पादावगृह्णताम्॥ 14-52-29 (93888) गान्धार्याश्च पृथायाश्च धर्मराजस्य चैव हि। भीमस्य च महात्मानौ तथा पादावगृह्णताम्॥ 14-52-30 (93889) क्षत्तारं चापि सङ्गृह्य पृष्ट्वा कुशलमव्ययम्। `परिष्वज्य महात्मानं वेश्यापुत्रं महारथम्।' तैः सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम्॥ 14-52-31 (93890) ततो निशि महाराजो धृतराष्ट्रः कुरूद्वहान्। जनार्दनं च मेधावी व्यसर्जयत वै गृहान्॥ 14-52-32 (93891) तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम्। धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान्॥ 14-52-33 (93892) तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः। कृष्णः सुष्वाप मेधावी धनंजयसहायवान्॥ 14-52-34 (93893) प्रभातायां तु शर्वर्यां कृत्वा पौर्वाह्णिकीं क्रियाम्। धर्मराजस्य भनं जग्मतुः परमार्चितौ। यत्रास्ते स सहामात्यो धर्मराजो महाबलः॥ 14-52-35 (93894) तौ प्रविश्य महात्मानौ तद्गृहं परमार्चितम्। धर्मराजं ददृशतुर्देवराजमिवाश्विनौ॥ 14-52-36 (93895) समासाद्य तु राजानं वार्ष्णेयकुरुपुङ्गवौ। निषीदतुरनुज्ञातौ प्रीयमाणेन तेन तौ॥ 14-52-37 (93896) ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ। प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः॥ 14-52-38 (93897) विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ। ब्रूतं कर्तास्मि सर्वं वां नचिरान्मा विचार्यताम्॥ 14-52-39 (93898) इत्युक्तः फल्गुनस्तत्र धर्मराजानमब्रवीत्। विनीतवदुपागम्य वाक्यं वाक्यविशारदः॥ 14-52-40 (93899) अयं चिरोषितो राजन्वासुदेवः प्रतापवान्। भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति॥ 14-52-41 (93900) स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे। आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि॥ 14-52-42 (93901) युधिष्ठिर उवाच। 14-52-43x (7869) पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मदुसूदन। पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभो॥ 14-52-43 (93902) रोचते मे महाबाहो गमनं तव केशव। मातुलश्चिरदृष्टो मे त्वया देवी च देवकी॥ 14-52-44 (93903) समेत्यि मातुलं गत्वा बलदेवं च मानद। पूजयेथा महाप्राज्ञ मद्वाक्येन यथाऽर्हतः॥ 14-52-45 (93904) स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम्। फाल्गुनं सहदेवं च नकुलं चैव मानद॥ 14-52-46 (93905) आनर्तानवलोक्य त्वं पितरं च महाभुजः। वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ॥ 14-52-47 (93906) स गच्छ रत्नान्यादाय विविधानि वसूनि च। यच्चप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत॥ 14-52-48 (93907) इयं च वसुधा कृत्स्ना प्रसादात्तव केशव। अस्मानुपागता वीर निहताश्चापि शत्रवः॥ 14-52-49 (93908) स्वर्गापवर्गविषयं त्वद्भक्तानां न दुर्लभम्। संसारगहने चेद्धपापाग्निप्रशमाम्बुद॥' 14-52-50 (93909) एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे। वासुदेवो वरः पुंसामिदं वचनमब्रवीत्॥ 14-52-51 (93910) तवैव रत्नानि धनं च केवलं धरा तु कृत्स्ना तु महाभुजाद्य वै। यदस्ति चान्यद्द्रविणं गृहे मम त्वमेव तस्येश्वर नित्यमीश्वरः॥ 14-52-52 (93911) तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान्। पितृष्वसारं त्ववदद्यथाविधि सम्पूजितश्चाप्यगमत्प्रदक्षिणम्॥ 14-52-53 (93912) तया स सम्यक् प्रतिनन्दितस्तत- स्तथैव सर्वैर्विदुरादिभिस्तथा। विनिर्ययौ नागपुराद्गदाग्रजो रथेन दिव्येन चतुर्भुजः स्वयम्॥ 14-52-54 (93913) रथे सुभद्रामधिरोप्य भामिनीं युधिष्ठिरस्यानुमते जनार्दनः। पितृष्वसुश्चापि तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः॥ 14-52-55 (93914) तमन्वयाद्वानरवर्यकेतनः ससात्यकिर्माद्रवतीसुतावपि। अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः॥ 14-52-56 (93915) निवर्तयित्वा कुरुराष्ट्रवर्धनां- स्ततः स सर्वान्विदुरं च वीर्यवान्। जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिं तथा॥ 14-52-57 (93916) ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः। यथा निहत्यारिगणं शतकतु- र्दिवं तथाऽऽनर्तपुरीं प्रतापवान्॥ ॥ 14-52-58 (93917) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विपञ्चसोऽध्यायः॥ 52 ॥
आश्वमेधिकपर्व - अध्याय 053

॥ श्रीः ॥

14.53. अध्यायः 053

Mahabharata - Ashvamedhika Parva - Chapter Topics

कुरुपुराद्द्वारकां गच्छता कृष्णेन मध्येमार्गं दृष्टेनोदङ्केन सह संवादः॥1 ॥ तथा कौरवादिविनाशे स्वोपेक्ष्याया हेतुत्वधिया स्वंप्रति शापदानोद्यतोदङ्कपरिसान्त्वनाय तंप्रति तत्वकथनोपक्रमः॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः। परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः॥ 14-53-1 (93918) पुनःपुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः। आचक्षुर्विषयाच्चैनं स ददर्श पुनःपुनः॥ 14-53-2 (93919) कृच्छ्रेणैव तु तां पार्तो गोविन्दे विनिवेशिताम्। संजहार ततो दृष्टिं कृष्णश्चाप्यपराजितः॥ 14-53-3 (93920) तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः। बहून्यद्भुतरूपाणि तानि मे गदतः शृणु॥ 14-53-4 (93921) वायुर्वेगेन महता रथस्य पुरतो ववौ। कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम्॥ 14-53-5 (93922) ववर्ष वासवश्चैव तोयं शुचि सुगन्धि च। दिव्यानि चैव पुष्पाणि पुरतः शाङ्गधन्वनः॥ 14-53-6 (93923) स प्रयातो महाबाहुः समेषु मरुधन्वसु। ददर्शाथ मुनिश्रेष्ठमुदङ्कममितौजसम्॥ 14-53-7 (93924) `महर्षिं सिद्धतपसं सर्वलोकान्तविश्रुतम्।' स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः। पूजितस्तेन च तदा पर्यपृच्छदनामयम्॥ 14-53-8 (93925) स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम्। उदङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम्॥ 14-53-9 (93926) कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्। कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि॥ 14-53-10 (93927) अपि सन्धाय तान्वीरानुपावृत्तोसि केशव। सम्बन्दिनःक स्वदयितान्सततं वृष्णिपुङ्गव॥ 14-53-11 (93928) कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः। लोकेषु विहरिष्यन्ति त्वया सह परंतप॥ 14-53-12 (93929) स्वराष्ट्रे ते च राजानः कच्चित्प्राप्स्यन्ति वै सुखम्। कौरवेषु प्रशान्तेषु त्वया नाथेन केशव॥ 14-53-13 (93930) या मे सम्भावना तात त्वयि नित्यमवर्तत। अपि सा सफला तात कृता ते भरतान्प्रति॥ 14-53-14 (93931) श्रीभगवानुवाच। 14-53-15x (7870) कृतो यत्नो मया पूर्वं सौशाम्ये कौरवान्प्रति। नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा। 14-53-15 (93932) न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा। महर्षे विदितं भूयः सर्वमेतत्तवानघ॥ 14-53-16 (93933) तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च। ततो यमक्षयं जग्मुः समासाद्येतरेतरम्॥ 14-53-17 (93934) पञ्चैव पाण्डवाः शिष्टा इतमित्रा हतात्मजाः। धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः॥ 14-53-18 (93935) इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः। उदङ्क इत्युवाचैनं रोषादुत्फुल्ललोचनः॥ 14-53-19 (93936) यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपुङ्गवाः। सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम्॥ 14-53-20 (93937) न च ते प्रसभं यस्मात्ते निगृह्य निवारिताः। तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन॥ 14-53-21 (93938) त्वया शक्तेन हि सता मिथ्याचारेणि माधव। ते परीताः कुरुश्रेष्ठा नश्यन्तः स्म ह्युपेक्षिताः॥ 14-53-22 (93939) वासुदेव उवाच। 14-53-23x (7871) शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन। गृहाणानुनयं चापि तपस्वी ह्यसि भार्गवम्॥ 14-53-23 (93940) श्रुत्वा च मे तदध्यात्मं मुञ्चेथाः शापमद्य वै। न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान्॥ 14-53-24 (93941) न च ते तपसो नाशमिच्छामि तपतां वर। तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः॥ 14-53-25 (93942) कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम। दुःखार्जितस्य तपसस्तस्मान्नेच्चामि तेऽव्ययम्॥ ॥ 14-53-26 (93943) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिपञ्चाशोऽध्यायः॥ 53 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-53-15 सौशाम्ये सौरस्ये॥ 7-53-22 परीताः परितः प्राप्ताः॥ 7-53-23 अनुनयं शिक्षाम्॥ 7-53-24 मे मत्तः॥
आश्वमेधिकपर्व - अध्याय 054

॥ श्रीः ॥

14.54. अध्यायः 054

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनोदङ्कंप्रति स्वमाहात्म्यप्रकाशनपूर्वकं कुरूणां स्ववचनातिक्रमणादिरूपस्वापराधेनैव निधनोक्तिः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

उदङ्क उवाच। ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम्। श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन॥ 14-54-1 (93944) वासुदेव उवाच। 14-54-2x (7872) तमो रजश्च सत्वं च विद्धि भावान्मदाश्रयान्। `स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसंज्ञितः॥ 14-54-2 (93945) कदाचित्तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः। रजस्यपि तथा ब्रह्मा स्वगुणान्यगुणानुभौ॥ 14-54-3 (93946) प्रणवात्मा च शब्दादींस्त्रिगुणात्मा चराचरम्।' तथा रुद्रान्वसून्वाऽपि विद्धि मत्प्रभवान्द्विज॥ 14-54-4 (93947) मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम्। स्थित इत्यभिजानीहि मा ते भूदत्र संशयः॥ 14-54-5 (93948) तथा दैत्यगणान्सर्वान्यक्षगन्धर्वराक्षसान्। नागानप्सरसश्चैव विद्धि मत्प्रभवान्द्विज॥ 14-54-6 (93949) सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च। अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम्॥ 14-54-7 (93950) ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने। वैदिकानि च कर्माणि विद्धि सर्वं मदात्मकम्॥ 14-54-8 (93951) असच्च सच्चैव च यद्विश्वं सदसतः परम्। ततः परतरं नास्ति देवदेवात्सनातनात्॥ 14-54-9 (93952) ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह। यूपं सोमं चरुं होमं त्रिदशाप्यायनं मखे॥ 14-54-10 (93953) होतारमपि हव्यं च विद्धिं मां भृगुनन्दन। अध्वर्युः कल्पकृच्चापि हविः परमसंस्कृतम्॥ 14-54-11 (93954) उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे। प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः॥ 14-54-12 (93955) स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तम। मम विद्धि सुतं धर्ममग्रजं द्विजसत्तम॥ 14-54-13 (93956) मानसं दयितं विप्र सर्वभूतदयात्मकम्। तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः॥ 14-54-14 (93957) बह्वीः संसरमाणो वै योनीर्वर्तामि सत्तम। लोकसरंक्षणार्थाय धर्मसंस्थापनाय च॥ 14-54-15 (93958) तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव। अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः॥ 14-54-16 (93959) भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च। अधर्मे वर्तमानानां सर्वेषामहमच्युतः॥ 14-54-17 (93960) धर्मस्य सेतुं बध्नामि चलिते चलिते युगे। तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया॥ 14-54-18 (93961) यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन। तदाऽहं देववत्सर्वमाचरामि न संशयः॥ 14-54-19 (93962) यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन। तदा गन्धर्ववच्चेष्टा सर्वाश्चेष्टामि भार्गव॥ 14-54-20 (93963) नागयोनौ यदा चैव तदा वर्तामि नागवत्। यक्षराक्षसयोन्योस्तु यथावद्विचराम्यहम्॥ 14-54-21 (93964) मानुष्ये वर्तमाने तु कृपणं याचिता मया। न च ते जातसम्मोहा वचोऽगृह्णन्त मोहिताः॥ 14-54-22 (93965) भयं च महदुद्दिश्य त्रासिताः कुरवो मया। क्रुद्धेन भूत्वा तु पुर्यथावदनुदर्शिताः॥ 14-54-23 (93966) तेऽधर्मेणेह संयुक्ताः परीताःक कालधर्मणा। धर्मेण निहता युद्धे गताः स्वर्गं न संशयः॥ 14-54-24 (93967) लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम। एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥ ॥ 14-54-25 (93968) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःपञ्चाशोऽध्यायः॥ 54 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-54-8 दैवतानि च कर्माणि विद्धि सर्वान्गुणान्ममेति ट.थ.पाठः॥ 7-54-10 ओंकारप्रमुखानिति झ.पाठः॥ 7-54-11 अध्वर्युः कल्पन इति ट.थ.पाठः॥ 7-54-12 गतमोक्षे महाध्वरे इति ट.थ.पाठः॥ 7-54-14 सर्वभूतगुणात्मकमिति क.ट.थ. पाठः॥ 7-54-19 पुनस्त्वहं देवयोनाविति ट.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 055

॥ श्रीः ॥

14.55. अध्यायः 055

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनोदङ्काय विश्वरूपप्रदर्शनपूर्वकं पिपासाकाले जललाभरूपवरदानम्॥ 1 ॥ कृष्णेनोदङ्कायामृतदानं चोदितेनेन्द्रेण कदाचिद्वनमध्ये पिपासुमुदङ्कंप्रति चण्डालवेषेण जलस्वीकारप्रार्थने उदङ्केन चण्डालत्वबुद्ध्या तदधिक्षेपः॥ 2 ॥ पश्चात्तस्य तिरोधानेन परितप्यन्तमुदङ्कंप्रति तत्र संनिहितेन कृष्णेनेन्द्रकृतवञ्चनानिवेदनपूर्वकं मरुप्रदेशे जललाभरूपवरदानम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

उदङ्क उवाच। अभिजानामि जगतः कर्तारं त्वां जनार्दन। नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः॥ 14-55-1 (93969) चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत। विनिवृत्तश्च मे कोप इति विद्धि परंतप॥ 14-55-2 (93970) यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्हामि जनार्दन। द्रष्टुमिच्छामि ते रूपं वैष्णवं तन्निदर्शय॥ 14-55-3 (93971) वैशम्पायन उवाच। 14-55-4x (7873) ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः। शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः॥ 14-55-4 (93972) स ददर्श महात्मानं विश्वरूपं महाभुजम्। सहस्रसूर्यप्रतिमं दीप्तिमत्पावकोपमम्। सर्वमाकाशमावृत्य तिष्ठन्तं सर्वतोमुखम्॥ 14-55-5 (93973) तद्दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम्। विस्मयं च ययौ विप्रस्तं दृष्ट्वा परमेश्वरम्॥ 14-55-6 (93974) उदङ्क उवाच। 14-55-7x (7874) `नमोनमस्ते सर्वात्मन्नारायण परात्मक। परमात्मन्पद्मनाभ पुण्डरीकाक्ष माधव॥ 14-55-7 (93975) हिरण्यगर्भरूपाय संसारोत्तारणाय च। पुरुषाय पुराणाय शान्तश्यामाय ते नमः॥ 14-55-8 (93976) अविद्यातिमिरादित्यं भवव्याधिमहौषधिम्। संसारार्णवसारं त्वां प्रणमामि गतिर्भव॥ 14-55-9 (93977) सर्ववेदैकवेद्याय सर्ववेदमयाय च। वासुदेवाय नित्याय नमो भक्तप्रियाय ते॥ 14-55-10 (93978) दयया दुःखमोहान्मां सुमुद्धर्तुमिहार्हसि। कर्मभिर्बहुभिः पापैर्बद्धं पाहि जनार्दन॥' 14-55-11 (93979) विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वकसम्भव। पद्म्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः॥ 14-55-12 (93980) द्यावापृथिव्योर्यन्मध्यं जठरेण तवावृतम्। भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत॥ 14-55-13 (93981) संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम्। पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम्॥ 14-55-14 (93982) वैशम्पायन उवाच। 14-55-15x (7875) तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय। वरं वृणीष्वेति तदा तमुदङ्कोऽब्रवीदिदम्। 14-55-15 (93983) पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते। यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम्॥ 14-55-16 (93984) तमब्रकवीत्पुनः कृष्णो मा त्वमत्र विचारय। अवश्यमेतत्कर्तव्यममोघं दर्शनं मम॥ 14-55-17 (93985) उदङ्कक उवाच। 14-55-18x (7876) अवश्यं करणीयं च यद्येतन्मन्यसे विभो। तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम्॥ 14-55-18 (93986) ततः संहृत्य तत्तेजः प्रोवाचोदङ्कमीश्वरः। एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ॥ 14-55-19 (93987) ततः कदाचिद्भगवानुदङ्कस्तोयकाङ्क्षया। तृषितः परिचक्राम मरौ सस्मार चाच्युतम्॥ 14-55-20 (93988) ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम्। अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम्॥ 14-55-21 (93989) भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम्। तस्याधःस्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः॥ 14-55-22 (93990) स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव। एह्युदङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह। कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्॥ 14-55-23 (93991) इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दन। चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम्। 14-55-24 (93992) पुनःपुनश्च मातङ्ग पिबस्वेति तमब्रवीत्। न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना॥ 14-55-25 (93993) स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना। श्वभिः सह महाराज तत्रैवान्तरधीयत॥ 14-55-26 (93994) उदङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः। मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना॥ 14-55-27 (93995) अथ तेनैव मार्गेण शङ्कचक्रगदाधरः। आजगाम महाबाहुरुदङ्कश्चैनमब्रवीत्॥ 14-55-28 (93996) न युक्तं तादृशं दातुं त्वया पुरुषसत्तम। सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो॥ 14-55-29 (93997) इत्युक्तवचनं तं तु महाबुद्धिर्जनार्दनः। उदङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत्॥ 14-55-30 (93998) यादृशेनेह रूपेण योग्यं दातुं धृतेन वै। तादृशं खलु ते दत्तं यच्च त्वं नावबुध्यथाः॥ 14-55-31 (93999) मया त्वदर्थमुक्तो वै वज्रपाणिः पुरंदरः। उदङ्कायामृतं देहि तोयरूपमिति प्रभुः॥ 14-55-32 (94000) स मामुवाच देवेन्द्र न मर्त्योऽमर्त्यतां व्रजेत्। अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन॥ 14-55-33 (94001) अमृतं देयमित्येव मयोक्तः स शचीपतिः। स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत्॥ 14-55-34 (94002) यदि देयमवश्यं वै मातङ्गोऽहं महामते। भूत्वाऽमृतं प्रदास्यामि भार्गवाय महात्मने॥ 14-55-35 (94003) यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै। प्रदातुमेष गच्छामि भार्गवस्यामृतं विभो। प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन॥ 14-55-36 (94004) स तथा समयं कृत्वा तेन रूपेण वासवः। उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत्। चाण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः॥ 14-55-37 (94005) यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम्। तोयेप्सां तव दुर्धर्षां करिष्ये सफलामहम्॥ 14-55-38 (94006) येष्वहःसु च ते ब्रह्मन्सलिलेप्सा भविष्यति। तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः॥ 14-55-39 (94007) रसवच्च प्रदास्यन्ति तोयं ते भृगुनन्दन। उदङ्गमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते॥ 14-55-40 (94008) इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह। अद्याप्युदङ्कमेघाश्च मरौ वर्षन्ति भारत॥ ॥ 14-55-41 (94009) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चपश्चाशोऽध्यायः॥ 55 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-55-3 ते रूपमैश्वरमिति झ.पाठः॥ 7-55-19 एष्टव्ये जलेऽपेक्षिते सति॥ 7-55-21 मातङ्गं चण्डालविशेषम्॥ 7-55-22 अधः पाददेशे स्रोतसो दृतेर्वारीति संबन्धः। ततः शङ्कितमानस इति क.ट.थ.पाठः॥ 7-55-24 चिक्षेप निन्दितवान्॥ 7-55-27 प्रलब्धं वञ्चितम्॥
आश्वमेधिकपर्व - अध्याय 056

॥ श्रीः ॥

14.56. अध्यायः 056

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

वैशम्पायनेन जनमेजयंप्रत्युदङ्कोपाख्यानकथनारम्भः॥ 1 ॥ उदङ्ककृतपरिचर्याविशेषतुष्टेन गौतमेन तस्मै प्रीत्यतिशयेन चिरादपि गृहगमनायाभ्यननुज्ञानम्॥ 2 ॥ कदाचन गुरुशासनेन काष्ठमारमाहृतवतोदङ्केन काष्ठलग्नजरापलितनिजकेशावलोकनेन परिदेवनम्॥ 3 ॥ ततस्तदबोधितनिजरोदनहेतुना गुरुणा तस्मै निजतनयाप्रतिपादनम्॥ 4 ॥ ततस्तेन गुरुपत्नीनिदेशेन कुण्डलयाचनाय सौदासंप्रति गमनम्॥ 5 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

जनमेजय उवाच। उदङ्कः केन तपसा संयुक्तो वै महामनाः। यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्ववे॥ 14-56-1 (94010) वैशम्पायन उवाच। 14-56-2x (7877) उदङ्को महता युक्तस्तपसा जनमेजय। गुरभक्तः स तेजस्वी नान्यत्किञ्चिदपूजयत्॥ 14-56-2 (94011) सर्वेषामृषिपुत्राणामेष आसीन्मनोरथः। औदङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत॥ 14-56-3 (94012) गौतमस्य तु शिष्याणां बहूनां जनमेजय। उदङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा॥ 14-56-4 (94013) स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा। सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत्॥ 14-56-5 (94014) अथ शिष्यसहस्राणि समनुज्ञाय गौतमः। उदङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत॥ 14-56-6 (94015) तं क्रमेण जरा तात प्रतिपेदे महामुनिम्। न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः॥ 14-56-7 (94016) ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ। उदङ्कः काष्ठभारं च महान्तं समुपानयत्॥ 14-56-8 (94017) स तद्भाराभिभूतात्मा काष्ठभारमरिंदम। निचिक्षेप क्षितौ राजन्परिश्रान्तो बुभुक्षितः॥ 14-56-9 (94018) तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा। ततः काष्ठैः सह तदा पपात धरणीतलम्॥ 14-56-10 (94019) ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत। दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा॥ 14-56-11 (94020) ततो गुरुसुता तस्य पद्मपत्रनिभानना। जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना। पितुर्नियोगाद्भावज्ञा शिरसाऽवनता तदा॥ 14-56-12 (94021) तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः। न हि तानश्रुपातांस्तु शक्ता धारयितुं मही। गौतमस्त्वब्रवीद्विप्रमुदङ्कं प्रीतमानसः॥ 14-56-13 (94022) कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः। स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः॥ 14-56-14 (94023) उदङ्क उवाच। 14-56-15x (7878) भवद्गतेन मनसा भवत्प्रियचिकीर्षया। भवद्भक्तिगतेनेह भवद्भावानुगेन च॥ 14-56-15 (94024) जरेयं नाघबुद्धा मे नाभिज्ञातं सुखं च मे। शतवर्षोषितं मां हि न त्वमन्यनुजानिथाः॥ 14-56-16 (94025) भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम। उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः॥ 14-56-17 (94026) गौतम उवाच। 14-56-18x (7879) त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव। व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ॥ 14-56-18 (94027) किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव। अनुज्ञां प्रतिगृह्य त्वं स्वगृहान्गच्छ माचिरम्॥ 14-56-19 (94028) उदङ्क उवाच। 14-56-20x (7880) गुर्वर्तं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम। तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो॥ 14-56-20 (94029) गौतम उवाच। 14-56-21x (7881) दक्षिणापरितोषो वै गुरूणां सद्भिरुच्यते। तवि ह्याचरतो धर्मं तुष्टोऽहं वै न संशयः। इत्थं च परितुष्टं मां विजानीहि भृगूद्वह॥ 14-56-21 (94030) युवा षोडशवर्षो हि यद्यद्य भविता भवान्। ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज। एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति सेवितुम्॥ 14-56-22 (94031) ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्। गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत्॥ 14-56-23 (94032) किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष माम्। प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि॥ 14-56-24 (94033) यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं महत्। तदानयेयं तपसा न हि मेऽत्रास्ति संशयः॥ 14-56-25 (94034) अहल्योवाच। 14-56-26x (7882) परितुष्टाऽस्मि ते विप्र नित्यं भक्त्या तवानघ। पर्याप्तमेतद्भद्रं ते गच्छ तात यथेप्सितम्॥ 14-56-26 (94035) वैशम्पायन उवाच। 14-56-27x (7883) उदङ्कस्तु महाराज पुनरेवाब्रवीद्वचः। आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम्॥ 14-56-27 (94036) अहल्योवाच। 14-56-28x (7884) सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले। ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत्॥ 14-56-28 (94037) वैशम्पायन उवाच। 14-56-29x (7885) स तथेति प्रतिश्रुत्य जगाम जनमेजय। गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा॥ 14-56-29 (94038) स जगाम ततः शीघ्रमुदङ्को ब्राह्मणर्षभः। सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले॥ 14-56-30 (94039) गौतमस्त्वब्रवीत्पत्नीमुदङ्को नात्र दृश्यते। इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा॥ 14-56-31 (94040) ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम्। शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति॥ 14-56-32 (94041) अहल्योवाच। 14-56-33x (7886) अजानन्त्या नियुक्तः स भगवन्ब्राह्मणो मया। भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति॥ 14-56-33 (94042) इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः। उदङ्कोऽपि वने शून्ये राजानं तं ददर्श ह॥ ॥ 14-56-34 (94043) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्पञ्चाशोऽध्यायः॥ 56 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-56-11 निष्पिष्टः चूर्णीभूत इव। कवेरार्तस्य धीमत इति क.ट.थ.पाठः॥ 7-56-16 अभ्यनुजानिथाः अभ्यन्वजानीथा अभ्यनुज्ञातवानसि॥ 7-56-26 नित्यं भगवता सहेति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 057

॥ श्रीः ॥

14.57. अध्यायः 057

Mahabharata - Ashvamedhika Parva - Chapter Topics

शापाद्राक्षसत्वं गतेन सौदासेनोदङ्कभक्षणोद्यमे उदङ्केन पुनः प्रत्यागमनप्रतिज्ञापूर्वकं तम्प्रति कुण्डलयाचनम्॥ 1 ॥ उदङ्केन सौदासवचसा तत्पत्नींप्रति कुण्डलयाचने तया तम्प्रति मणिकुण्डलमहिमादिकथनपूर्वकं राजाभिज्ञानानयनचोदना॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्। दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम्॥ 14-57-1 (94044) चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्। प्रत्युत्थाय महातेजा भयकर्ता यमोपमः॥ 14-57-2 (94045) दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम्। भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम॥ 14-57-3 (94046) उदङ्ग उवाच। 14-57-4x (7887) राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम्। न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः॥ 14-57-4 (94047) राजोवाच। 14-57-5x (7888) षष्ठे काले ममाहारो विहितो द्विजसत्तम। न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाऽद्य वै॥ 14-57-5 (94048) उदङ्क उवाच। 14-57-6x (7889) एवमस्तु महाराजि समयः क्रियतां तु मे। गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम्॥ 14-57-6 (94049) संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम। त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर॥ 14-57-7 (94050) ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा। दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह। पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम॥ 14-57-8 (94051) उपाहृत्य गुरोरर्थं त्वदायत्तमरिंदम। समयेनेह राजेन्द्र पुनरेष्यामि ते वशम्॥ 14-57-9 (94052) सत्यं ते प्रतिजानामि नात्र मिथ्या कथञ्चन। अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा॥ 14-57-10 (94053) सौदास उवाच। 14-57-11x (7890) यदि मत्तस्तवायत्तो गुर्वर्थः कृत एव सः। यदि चास्ति प्रतिग्राह्यं साम्प्रतं तद्वदस्व मे॥ 14-57-11 (94054) उदङ्क उवाच। 14-57-12x (7891) प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ। सोहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले॥ 14-57-12 (94055) सौदास उवाच। 14-57-13x (7892) पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले। वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत॥ 14-57-13 (94056) उदङ्ग उवाच। 14-57-14x (7893) अलं ते व्यपदेशेन प्रमाणं यदि ते वयम्। प्रयच्छ कुण्डले मह्यं सत्यवाग्भव पार्थिव॥ 14-57-14 (94057) वैशम्पायन उवाच। 14-57-15x (7894) इत्युक्तस्त्वब्रवीद्राजा तमुदङ्कं पुनर्वचः। गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम॥ 14-57-15 (94058) सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता। प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः॥ 14-57-16 (94059) उदङ्क उवाच। 14-57-17x (7895) क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर। स्वयं वाऽपि भवान्पत्नीं किमर्थं नोपसर्पति॥ 14-57-17 (94060) सौदास उवाच। 14-57-18x (7896) तां द्रक्ष्यति भवानद्य कास्मिंश्चिद्वननिर्झरे। षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै॥ 14-57-18 (94061) वैशम्पायन उवाच। 14-57-19x (7897) उदङ्कस्तु तथोक्तः स जगाम भरतर्षभ। मदयन्तीं च दृष्ट्वा स ज्ञापयत्स्वप्रयोजनम्॥ 14-57-19 (94062) सौदासवचनं श्रुत्वा ततः सा पृथुलोचना। प्रत्युवाच महावुद्धिमुदङ्कं जनमेजय॥ 14-57-20 (94063) एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ। अभिज्ञानं तु किञ्चित्त्वं समानयितुमर्हसि॥ 14-57-21 (94064) इमे हि दिव्ये मणिकुण्डले मे देवाश्च यक्षाश्च महर्षयश्च। तैस्तैरुपायैरपहर्तुकामा- श्छिद्रेषु नित्यं परितर्कयन्ति॥ 14-57-22 (94065) निक्षिप्तमेतद्भुवि पन्नगास्तु रत्नं समासाद्य परामृशेयुः। यक्षास्तथोच्छिष्टधृतं सुराश्च निद्रावशाद्वा परिधर्षयेयुः॥ 14-57-23 (94066) छिद्रेष्वेतेष्विमे नित्यं ह्रियते द्विजसत्तम। देवराक्षसनागानामप्रमत्तेनि धार्यते॥ 14-57-24 (94067) एते दिवापि भासेते रात्रौ च द्विजसत्तम। नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः॥ 14-57-25 (94068) एते ह्यामुच्य भगन्क्षुत्पिपासाभयं कुतः। विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते॥ 14-57-26 (94069) ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा। अनुरूपेण चामुक्ते जायेते तत्प्रमाणके॥ 14-57-27 (94070) एवंविधे ममैते वै कुण्डले परमार्चिते। त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय॥ ॥ 14-57-28 (94071) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तपञ्चाशोऽध्यायः॥ 57 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-57-24 छिद्रेष्वेतेष्विमे इति पूर्वान्वयि। नागानां नागैः ह्रियेत इति सम्बन्धः॥
आश्वमेधिकपर्व - अध्याय 058

॥ श्रीः ॥

14.58. अध्यायः 058

Mahabharata - Ashvamedhika Parva - Chapter Topics

उदङ्केनाभिज्ञाननिवेदनेनि मदयन्तीतः कुण्डलग्रहणपूर्वकं प्रतिनिवर्तनम्॥ 1 ॥ मध्येमार्गं क्षुधाविष्टेन तेन बिल्वतरुमारुह्य शाखायां कुण्डलासञ्जनपूर्वकं फलपातनाय शाखाचालनम्॥ 2 ॥ तत्र पतत्फलघट्टनेन कुण्डलयोरधःपतने केनचिदुरगवरेण तदपहृत्य नागलोकगमनम्॥ 3 ॥ तत इन्द्रसाहाय्याद्भूविदारणेन नागलोकंगतेनोदङ्केन तत्राश्ववचसा तदपानदेशधमने तन्निर्गतधूमपटलनिरुद्धैः सर्पैरुदङ्काय कुण्डलप्रत्यर्पणम्॥ 4 ॥ तत उदङ्केन गुरुपत्न्यै कुण्डलप्रदानम्॥ 5 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। स मित्रसहमासाद्य अभिज्ञानमयाचत। तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा॥ 14-58-1 (94072) सौदास उवाच। 14-58-2x (7898) न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः। एतन्मे तत्वमाज्ञाय प्रयच्छ मणिकुण्डले॥ 14-58-2 (94073) इत्युक्तस्तामुदङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्। श्रुत्वा च सा तदा प्रादात्ततस्ते मणिकुण्डले॥ 14-58-3 (94074) अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्। किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव॥ 14-58-4 (94075) सौदास उवाच। 14-58-5x (7899) प्रजाविसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह। विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः॥ 14-58-5 (94076) सोहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान्। गतिमन्यां न पश्यामि मदयन्तीसहायवान्॥ 14-58-6 (94077) न चान्यामपि पश्यामि गतिं गतिमतांवर। स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम॥ 14-58-7 (94078) न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः। शक्यं हि लोके स्थातुं वै प्रेत्य वा सुखमेधितुम्॥ 14-58-8 (94079) तदिष्टे ते मया दत्ते एते स्वे मणिकुण्डले। यः कृतस्तेऽद्य समयः सफलं तं कुरुष्य मे॥ 14-58-9 (94080) उदङ्क उवाच। 14-58-10x (7900) राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम्। प्रश्नं च कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परंतप॥ 14-58-10 (94081) सौदास उवाच। 14-58-11x (7901) ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः। छेत्तास्मि संशयं तेऽद्य न मेऽत्राश्ति विचारणा॥ 14-58-11 (94082) उदङ्क उवाच। 14-58-12x (7902) प्राहुर्वाक्संयतं विप्रं धर्मनैपुणदर्शिनः। मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः॥ 14-58-12 (94083) स बवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव। स मे बुद्धिं प्रयच्छस्व सम्मतां पुरुषर्षभ॥ 14-58-13 (94084) अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः। भवत्सकाशमागन्तुं क्षमं मम न वेति वै॥ 14-58-14 (94085) सौदास उवाच। 14-58-15x (7903) क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम। मत्समीपं द्विजश्रेष्ट नागन्तव्यं कथञ्चन॥ 14-58-15 (94086) एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह। आगच्छतो हि ते विप्रि भवेन्मृर्त्युन संशयः॥ 14-58-16 (94087) वैशम्पायन उवाच। 14-58-17x (7904) इत्युक्तः स तदा राजा क्षमं बुद्धिमता हितम्। अनुज्ञाप्य स राजानमहल्यां प्रति जग्मिवान्॥ 14-58-17 (94088) गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः। जवेन महता प्रायाद्गौतमस्याश्रमं प्रति॥ 14-58-18 (94089) यथा तयो रक्षणं च मदयन्त्याऽभिभाषितम्। तथा ते कुण्डले बध्वा तदा कृष्णाजिनेऽनयत्॥ 14-58-19 (94090) स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम्। बिल्वं ददर्श विप्रर्षिरारुरोह च तं ततः॥ 14-58-20 (94091) शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम। पातयामास बिल्वानि तदा स द्विजपुङ्गवः॥ 14-58-21 (94092) अथ पातयमानस्य बिल्वापहृतचक्षुषः। न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने विभो॥ 14-58-22 (94093) यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै। बिल्वप्रहारैस्तस्याथ व्यशीर्यद्बन्धनं ततः॥ 14-58-23 (94094) सकुण्डलं तदजिनं पपात सहसा तरोः। विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम्॥ 14-58-24 (94095) अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले। ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः॥ 14-58-25 (94096) विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले। ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह॥ 14-58-26 (94097) पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः। स दण्डकाष्ठमादाय वल्मीकमखनत्तदा॥ 14-58-27 (94098) [अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत।] क्रोधामर्षाभिसंतप्तस्तदा ब्राह्मणिसत्तमः॥ 14-58-28 (94099) तस्य वेगमसह्यं तमसहन्ती वसुन्धरा। दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला। ततः खनत एवाथ विप्रर्षेर्धरणीतलम् नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात्॥ 14-58-29 (94100) रथेन हरियुक्तेन तं देशमुपजग्मिवान्। वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम्॥ 14-58-30 (94101) वैशम्पायन उवाच। 14-58-31x (7905) स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः। उदङ्कमब्रवीद्वाक्यं नैतच्छक्यं त्वयेति वै॥ 14-58-31 (94102) इतो हि नागलोको वै योजनानि सहस्रशः। न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव॥ 14-58-32 (94103) उदङ्क उवाच। 14-58-33x (7906) नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया। प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम॥ 14-58-33 (94104) वैशम्पायन उवाच। 14-58-34x (7907) यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा। वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह॥ 14-58-34 (94105) ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धर। नागलोकस्य पन्थानमकरोज्जनमेजय॥ 14-58-35 (94106) स तेन मार्गेण तदा नागलोकं विवेश ह। ददर्श नागलोकं च योजनानि सहस्रशः॥ 14-58-36 (94107) प्रकारनिचयैर्दिव्यैर्मणिमुक्तास्वलङ्कृतैः। उपपन्नं महाभाग शातकुम्भमयैस्तथा॥ 14-58-37 (94108) वापीः स्फटिकसोपाना नदीस्च विमलोदकाः। ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान्॥ 14-58-38 (94109) तस्य लोकस्य च द्वारं स ददर्श भृगूद्वहः। पञ्चयोजनविस्तारमायतं शतयोजनम्॥ 14-58-39 (94110) नागलोकमुदङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा। निराशश्चाभवत्तत्र कुण्डलाहरणे पुनः॥ 14-58-40 (94111) तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः। ताम्रास्यनेत्रः कौरव्यः प्रज्वलन्निव तेजसा॥ 14-58-41 (94112) धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे। ऐरावतसुतेनेहि तव्रानीते हि कुण्डले॥ 14-58-42 (94113) मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन॥ त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा॥ 14-58-43 (94114) उदङ्ग उवाच। 14-58-44x (7908) कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति। यन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तद्ध्यहम्॥ 14-58-44 (94115) अश्व उवाच। 14-58-45x (7909) गुरोर्गुरु मां जानीहि ज्वलन्तं जातवेदसम्। त्वया ह्यहं सदा विप्र गुरोरर्थेऽभिपूजितः॥ 14-58-45 (94116) विधिवत्सततं विप्र शुचिना भृगुनन्दन। तस्माच्छ्रेयो विधास्यामि तवैवं कुरु माचिरम्॥ 14-58-46 (94117) इत्युक्तस्तु तथाऽकार्षीदुदङ्कश्चित्रभानुना। ताम्रार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया॥ 14-58-47 (94118) ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत। घनः प्रादुरभूद्धूमो नागलोकभयावहः॥ 14-58-48 (94119) तेन धूमेन महता वर्धमानेन भारत। नागलोके महाराज न प्राज्ञायत किञ्चन॥ 14-58-49 (94120) हाहाकृतमभूत्सर्वमैरावतिनिवेशनम्। वासुकिप्रमुखानां च नागानां जनमेजय॥ 14-58-50 (94121) न प्राकाशन्त वेश्मानि धूमरुद्धानि भारत। नीहारसंवृतानीव वनानि गिरयस्तथा॥ 14-58-51 (94122) ते धूमरक्तनयना वह्नितेजोभितापिताः। आजग्मुर्निश्चयं ज्ञातुं भार्गवस्य महात्मनः॥ 14-58-52 (94123) श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः। सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि॥ 14-58-53 (94124) सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः। शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति॥ 14-58-54 (94125) प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च। प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते॥ 14-58-55 (94126) ततः स पूजितो नागैस्तदोदङ्कः प्रतापवान्। अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत्॥ 14-58-56 (94127) स गत्वा त्वरितो राजन्गौतमस्य निवेशनम्। प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यास्तदाऽनघ॥ 14-58-57 (94128) वासुकिप्रमुकानां च नागानां जनमेजय। सर्वं शशंस गुरेव यथावद्द्विजसत्तमः॥ 14-58-58 (94129) एवं महात्मना तेन त्रींलोकाञ्जनमेजय। परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले॥ 14-58-59 (94130) एवंप्रभावः स मुनिरुदङ्को भरतर्षभ। परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि। ॥ 14-58-60 (94131) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टपञ्चासोऽध्यायः॥ 58 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-58-1 मित्रसहः सौदासः अभिज्ञानं श्लोकरूपं ज्ञापकम्। 7-58-2 एषा रक्षोयोनिरूपा। अन्या इतो मुक्तिरूपा॥ 7-58-10 ततोदंकाय वै प्रादात्तस्मै ते मणिकुण्डले इति क.ट.थ.पाठः॥ 7-58-12 निवृत्तिस्मि परं तपेति झ.पाठः॥ 7-58-16 प्राप्तवान्सङ्गतिं मित्रं धर्मनैपुण्यदर्शनादिति क.ट.थ.पाठः॥ 7-58-16 तत्रैव तु प्रवक्ष्यामि श्रेयो भृगुकुलोद्वहेति क.ट.थ.पाठः॥ 7-58-26 आस्येन कुण्डले विदश्य धृत्वा वल्मीकं विवेशेति सम्बन्धः॥
आश्वमेधिकपर्व - अध्याय 059

॥ श्रीः ॥

14.59. अध्यायः 059

Mahabharata - Ashvamedhika Parva - Chapter Topics

उदङ्काय वरदानात्परं द्वारकामागच्छता कृष्णेन मध्ये रैवतकप्रवेशः॥ 1 ॥ रैवतकोत्सववर्णनम्॥ 2 ॥ ततः कृष्णेन स्वभवनमेत्य मातापितृभ्यामभिवादनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

जनमेजय उवाच। उदङ्कस्य वरं दत्त्वा गोविन्दो द्विजत्तम। अत ऊर्ध्वं महाबाहुः किं चकार महायशाः॥ 14-59-1 (94132) वैशम्पायन उवाच। 14-59-2x (7910) उदङ्काय वरं दत्त्वा प्रायात्सात्यकिना सह। द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः॥ 14-59-2 (94133) सरांसि सरितश्चैव वनानि च गिरींस्तथा। अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम्॥ 14-59-3 (94134) वर्तमाने महाराज महे रैवतकस्य च। उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा॥ 14-59-4 (94135) अलङ्कृतस्तु स गिरिर्नानारूपैर्विचित्रितैः। बभौ रत्नमयैः कोशैः संवृतः पुरुर्षर्षभ॥ 14-59-5 (94136) काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च। वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च॥ 14-59-6 (94137) दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः। गुहानिर्झरदेशेषु दिवाभूतो बभूव ह॥ 14-59-7 (94138) एताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः। पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत्। अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव॥ 14-59-8 (94139) मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत। गायतां पर्वतेन्द्रस्य दिविस्पृगिव निःस्वनः॥ 14-59-9 (94140) प्रमत्तमत्तसम्मत्तक्ष्वेडितोद्धुष्टसंकुलः। तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः॥ 14-59-10 (94141) विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान्। वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्॥ 14-59-11 (94142) सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह। दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्। बभौ परमकल्याणो महस्तस्य महागिरेः॥ 14-59-12 (94143) पुण्यावसथवान्वीरैः पुण्यकृद्भिर्निषेवितः। विहारो वृष्णिवीराणां महे रैवतस्य ह॥ 14-59-13 (94144) स नानावेश्मसंकीर्णो देवलोक इवाबभौ। तदा च कृष्णसान्निध्यान्मुदा देवगणैर्युतः॥ 14-59-14 (94145) `स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः। साधकः सर्वधर्माणामसुराणां विनाशकः॥ 14-59-15 (94146) त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित्। त्वया सत्क्रियते देव ज जानीमोऽत्र मायया॥ 14-59-16 (94147) केवलं त्वाऽभिजानीमः शरणं परमेश्वरम्। ब्रह्मादीनां च गोविन्द सान्निध्वं शरणं नमः॥ 14-59-17 (94148) इति स्तुते मानुषैश्च पूजिते देवकीसुते।' शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्॥ 14-59-18 (94149) ततः सम्पूज्यमानः स विवेश भवनं शुभम्। गोविन्दः सात्यकिश्चैव जग्मतुर्भवनं स्वकम्॥ 14-59-19 (94150) विवेश च प्रहृष्टात्मा चिरकालप्रवासतः। कृत्वा नसुकरं कर्म दानवेष्विव वासवः॥ 14-59-20 (94151) उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा। अभ्यगच्चन्महात्मानं देवा इव शतक्रतुम्॥ 14-59-21 (94152) स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा। अभ्यवादयत प्रीतः पितरं मातरं तदा॥ 14-59-22 (94153) ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः। उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः॥ 14-59-23 (94154) स विश्रान्तो महातेजाः कृतपादावनेजनः। कथयामास तत्सर्वं पृष्टः पित्रा महाहवम्॥ ॥ 14-59-24 (94155) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनषष्टितमोऽध्यायः॥ 59 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-59-4 महे उत्सवे॥ 7-59-7 दीपभूतो बभूवहेति क.थ.पाठः॥ 7-59-10 प्रमत्ताः क्रीडाद्यासत्तयानवहिताः। मत्ताः मद्यादिना। सम्मता हृष्टाः॥ 7-59-23 सात्यकिश्च महाभुज इति क.पाठः॥
आश्वमेधिकपर्व - अध्याय 060

॥ श्रीः ॥

14.60. अध्यायः 060

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन वसुदेवादीन्प्रति कुरुपाण्डवयुद्धप्रकारकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वसुदेव उवाच। श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम्। नराणां वदतां पुत्र कथोद्धातेषु नित्यशः॥ 14-60-1 (94156) त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुजः। तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ॥ 14-60-2 (94157) यथा तदभवद्युद्धं पाण्डवानां महात्मनाम्। भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम्॥ 14-60-3 (94158) अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः। नानावेषाकृतिमतां नानादेशनिवासिनाम्॥ 14-60-4 (94159) वैशम्पायन उवाच। 14-60-5x (7911) इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदाऽन्तिके। शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा॥ 14-60-5 (94160) वासुदेव उवाच। 14-60-6x (7912) अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम्। बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि॥ 14-60-6 (94161) प्राधान्यतस्तु गदतः समासेनैव मे शृणु। कर्माणि पृथिवीशानां यथावदमरद्युते॥ 14-60-7 (94162) भीष्मः सेनापतिरभूदेकादशचमूपतिः। कौरव्यः कौरवेन्द्राणां देवानामिव पावकिः॥ 14-60-8 (94163) शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः। बभूव रक्षितो धीमाञ्श्रीमता सव्यसाचिना॥ 14-60-9 (94164) तेषां तदभवद्युद्धं दशाहानि महात्मनाम्। कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम्॥ 14-60-10 (94165) अयुध्यमानं गाङ्गेयं शिखण्डी तं महाद्युतिम्। जघान बहुभिर्बाणैः सह गाण्डीवधन्वना॥ 14-60-11 (94166) अकरोत्स ततः कालं शरतल्पगतो मुनिः। अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे॥ 14-60-12 (94167) ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषांवरः। प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव॥ 14-60-13 (94168) अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः। संवृतः समरश्लाघी गुप्तः कृपसुतादिभिः॥ 14-60-14 (94169) धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित्। गुप्तो भीमेन मेधावी मित्रेण वरुणो यथा॥ 14-60-15 (94170) स च सेनापरिवृतो द्रोणप्रेप्सुर्महामनाः। पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत्॥ 14-60-16 (94171) तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे। नानादिगागता वीराः प्रायशो निधनं गताः॥ 14-60-17 (94172) दिनानि पञ्च तद्युद्धमभूत्परमदारुणम्। ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः॥ 14-60-18 (94173) ततः सेनापतिरभूत्कर्णो दौर्योधने बले। अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे॥ 14-60-19 (94174) तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः। हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः॥ 14-60-20 (94175) ततः पार्थं समासाद्य पतङ्ग इव पावकम्। पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणः॥ 14-60-21 (94176) हते कर्णे तु कौरव्या निरुत्साहा हतौजसः। अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन्॥ 14-60-22 (94177) हतिवाहनभूयिष्ठाः पाण्डिवास्तु युधिष्ठिरम्। अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन्॥ 14-60-23 (94178) अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः। तस्मिंस्तदाऽर्धदिवसे कृत्वा कर्म सुदुष्करम्॥ 14-60-24 (94179) हते शल्ये तु शकुनिं सहदेवो महामनाः। आहर्तारं कलेस्तस्य जगानामितविक्रमः॥ 14-60-25 (94180) निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः। अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः॥ 14-60-26 (94181) तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान्। ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम्॥ 14-60-27 (94182) इतशिष्टेन सैन्येन समन्तात्पर्यवार्य तम्। अथोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः॥ 14-60-28 (94183) विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः। उत्थाय स गदापाणिर्युद्धाय समुपस्थितः॥ 14-60-29 (94184) ततः स निहतो राजा धार्तराष्ट्रो महारणे। भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम्॥ 14-60-30 (94185) ततस्तत्पाण्डवं सैन्यं प्रसुप्तं शिबिरे निशि। निहतं द्रोणपुत्रेण पितुर्वधममृष्यता॥ 14-60-31 (94186) हतपुत्रा हतबला हतमित्रा मया सह। युयुधानसहायेन पञ्च शिष्टास्तु पाण्डवाः॥ 14-60-32 (94187) सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत। युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात्॥ 14-60-33 (94188) निहते कौरवेन्द्रे तु सानुबन्धे सुयोधने। विदुरः संजयश्चैव धर्मराजमुपस्थितौ॥ 14-60-34 (94189) एवं तदभवद्युद्दमहान्यष्टादश प्रभो। यत्र ते पृथिवीपाला निहताः स्वर्गमावसन्॥ 14-60-35 (94190) वैशम्पायन उवाच। 14-60-36x (7913) शृण्वतां तु महाराज कथां तां रोमहर्षणीम्। दुःखशोकपरिक्लेशा वृष्णीनामभवंस्तदा॥ ॥ 14-60-36 (94191) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षष्टितमोऽध्यायः॥ 60 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-60-11 ततः शिखण्डी गाङ्गेयं युध्यमानं महाहवे। इति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 061

॥ श्रीः ॥

14.61. अध्यायः 061

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन सभायां वसुदेवंप्रति अभिमन्युनिधनाकथने सुभद्रया तंप्रति तत्कथनचोदनापूर्वकं शोकान्मोहावेशेन भुवि निपतनम्॥ 1 ॥ ततः कृष्णेन वसुदेवपरिसान्त्वनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। कथयन्नेव तु तदा वासुदेवः प्रतापवान्। महाभारतयुद्धं तत्कथान्ते पितुरग्रतः॥ 14-61-1 (94192) अभिमन्योर्वधं वीरः सोत्यक्रामन्महामतिः। अप्रियं वसुदेवस्य माभूदिति महामनाः॥ 14-61-2 (94193) मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम्। दुःखशोकाभिसंतप्तो भवेदिति महामतिः॥ 14-61-3 (94194) सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे। आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि॥ 14-61-4 (94195) तामपश्यन्निपतितां वसुदेवः क्षितौ तदा। दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः॥ 14-61-5 (94196) तषः स दौहित्रवदाद्दुःखशोकसमाहतः। वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत्॥ 14-61-6 (94197) ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः। यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन्॥ 14-61-7 (94198) तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे प्रभो। सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे। 14-61-8 (94199) दुर्भरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सह। यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते॥ 14-61-9 (94200) किमब्रवीत्त्वां सङ्ग्रामे सुभद्रां मातरं प्रति। मां चापि पुण्डरीकाक्षि चपलाक्षः प्रियो मम॥ 14-61-10 (94201) आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः। कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम्॥ 14-61-11 (94202) स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः। बालभावेन विजयमात्मनोऽकथयत्प्रभुः। 14-61-12 (94203) कच्चिन्न निकृतो बालो द्रोणकर्णाकृपादिभिः। धरण्यां निहतः शेते तन्ममाचक्ष्वि केशव॥ 14-61-13 (94204) स हि द्रोणं च भीष्मं च कर्णं च बलीनां वरम्। स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम॥ 14-61-14 (94205) एवंविधं बहु तदा विलपन्तं सुदुःखितम्। पितरं दुःखिततरं गोविन्दो वाक्यमब्रवीत्॥ 14-61-15 (94206) न तेनि विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि। न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः॥ 14-61-16 (94207) निहत्य पृथिवीपालान्सहस्रशतसङ्घशः। खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः॥ 14-61-17 (94208) एको ह्येकेन सततं युध्यमानो यदि प्रभो। न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा॥ 14-61-18 (94209) समाहूते च सङ्ग्रामे पार्थे संशप्तकैस्तदा। पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे॥ 14-61-19 (94210) ततः शत्रुवधं कृत्वा सुमहान्तं रेणे पितः। दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः॥ 14-61-20 (94211) नूनं च स गतः स्वर्गं जहि शोकं महामते। न हि व्यसनमासाद्य सीदन्ति कृतबुद्धयः॥ 14-61-21 (94212) द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः। रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम्॥ 14-61-22 (94213) स शोकं जहि जुर्धर्ष मा च मन्युवशं गमः। शस्त्रपूतां हि स गतिं गतः परपुरंजयः॥ 14-61-23 (94214) तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम। दुःखार्ताऽथो सुतं प्राप्य कुररीव ननाद ह॥ 14-61-24 (94215) द्रौपदीं च समासाद्य पर्यतप्यत दुःखिता। आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम्॥ 14-61-25 (94216) अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः। भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत्॥ 14-61-26 (94217) उत्तरां चाब्रवीद्भद्रे भर्ता स क्व नु ते गतः। क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह॥ 14-61-27 (94218) ननु नामाद्य वैराटि श्रुत्वा मम गिरं सदा। भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः॥ 14-61-28 (94219) अभिमन्योऽनुशयिनो मातुलास्ते महारथाः। कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम्॥ 14-61-29 (94220) आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिन्दम। कस्मादेवं विलपतीं नाद्येह प्रतिभाषसे। 14-61-30 (94221) एवमादि तु वार्ष्णेय्यास्तस्यास्तत्परिदेवितम्। श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत्॥ 14-61-31 (94222) सुभद्रे वासुदेवेन तथा सात्यकिना रणे। पित्रा च लालितो बालः स हतः कालधर्मणा॥ 14-61-32 (94223) ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि। पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम्॥ 14-61-33 (94224) कुले महति जातासि क्षत्रियाणां महात्मनाम्। मा शुचश्चपलाक्षं त्वं पद्मपत्रनिभेक्षणे॥ 14-61-34 (94225) उत्तरां त्वमवेक्षस्व गुर्विणीं मा शुचः शुभे। पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी॥ 14-61-35 (94226) एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह। विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत्॥ 14-61-36 (94227) समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च। यमौ यमोपमौ चैव ददौ दानान्यनेकशः॥ 14-61-37 (94228) ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह। समाहृष्य तु वार्ष्णेयी वैराटीमब्रवीदिदम्॥ 14-61-38 (94229) वैराटि नेह संतापस्त्वया कार्यो ह्यनिन्दिते। भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष वै शिशुम्॥ 14-61-39 (94230) एवमुक्त्वा ततः कुन्ती विरराम महाद्युते। तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम्॥ 14-61-40 (94231) एवं स निधनं प्राप्तो दौहित्रस्तव मानद। संतापं त्यज दुर्धर्ष मा च शोके मनः कृथाः॥ ॥ 14-61-41 (94232) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकषष्टितमोऽध्यायः॥ 61 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-61-11 कच्चिद्दुःखेन गोविन्दि तत्राजौ विमुखीकृतः इति थ.पाठः॥ 7-61-19 समाहृते च सङ्ग्रामादिति झ.पाठः। पर्यवार्यत सतुष्टैरिति थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 062

॥ श्रीः ॥

14.62. अध्यायः 062

Mahabharata - Ashvamedhika Parva - Chapter Topics

वसुदेवादिभिरभिमन्यवे श्राद्धदानम्॥ 1 ॥ व्यासेन हास्तिनपुरमेत्य उत्तरादिपरिसान्त्वपूर्वकं युधिष्ठिरंप्रत्यश्वमेधसंचोदनेनि पुनरन्तर्धानम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा। विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम्॥ 14-62-1 (94233) तथैव वासुदेवश्च स्वस्त्रीयस्य महात्मनः। दयितस्यि पितुर्नित्यमकरोदौर्ध्वदेहिकम्॥ 14-62-2 (94234) षष्टिं शतसहस्राणि ब्राह्मणानां महौजसाम्। विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम्॥ 14-62-3 (94235) आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत्। ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम्॥ 14-62-4 (94236) सुवर्णं चैव गाश्चैव शयनाच्छादनानि च। दीयमानं तदा विप्रः प्रभूतमिति चाब्रुवन्॥ 14-62-5 (94237) वासुदेवोऽथ दाशार्हो बलेदेवः ससात्यकिः। अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा। अतीव दुःखसंतप्ता न शमं चोपलेभिरे॥ 14-62-6 (94238) तथैव पाण्डवा वीरा नगरे नागसह्वये। नोपागच्छन्त वै शान्तिमभिमन्युविनाकृताः॥ 14-62-7 (94239) सुबहूनि च राजेन्द्र दिवसानि विराटजा। नाभुङ्क्त पतिदुःखार्ता तदभूत्करुणं महत्॥ 14-62-8 (94240) धियमाणे तु तस्मिंस्तु गर्भे कुक्षिस्थ एव च। आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा॥ 14-62-9 (94241) समागम्याब्रवीमान्पृथां पृथुललोचनाम्। उत्तरां च महातेजाःइ शोकः संत्यज्यतामयम्॥ 14-62-10 (94242) जनिष्यते महातेजाः पुत्रस्तव यशस्विनि। प्रभावाद्वासुदेवस्य मम व्याहरणादपि। पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम्॥ 14-62-11 (94243) धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य शृण्वतः। व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत॥ 14-62-12 (94244) पौत्रस्तव महाभागो जनिष्यति महामनाः। पृथ्वीं सागरपर्यन्तां पालयिष्यति धर्मतः॥ 14-62-13 (94245) तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन। विचार्यमत्र न हि ते सत्यमेतद्भविष्यति॥ 14-62-14 (94246) यच्चापि वृष्णिवीरेणि कृष्णेन कुरुनन्दन। पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा॥ 14-62-15 (94247) विबुधानां गतो लोकानक्षयानात्मनिर्जितान्। न स शोच्यस्त्वया वीरो न चान्यैः कुरुभिस्तथा॥ 14-62-16 (94248) एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः। त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा॥ 14-62-17 (94249) पिताऽपि तव धर्मेज्ञ गर्भे तस्मिन्महामते। अवर्धत यथाकामं शुक्लपक्षे यथा शसी॥ 14-62-18 (94250) ततः संचोदयामास व्यासो धर्मात्मजं नृपम्। अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत्॥ 14-62-19 (94251) धर्मराजोपि मेधावी श्रुत्वा व्यासस्य तद्वचः। वित्तोपनयने तात चकार गमने मतिम्॥ ॥ 14-62-20 (94252) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विषष्टितमोऽध्यायः॥ 62 ॥
आश्वमेधिकपर्व - अध्याय 063

॥ श्रीः ॥

14.63. अध्यायः 063

Mahabharata - Ashvamedhika Parva - Chapter Topics

युधिष्ठिरेण व्यासाज्ञया भीमादिभिः सहालोच्य यज्ञार्थं धनाहरणाय सहभ्रात्रादिभिर्हिमवत्पार्श्वप्रति प्रस्थानम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

जनमेजय उवाच। श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना। अश्वमेधं प्रति तदा किं भूयः प्रचकार ह॥ 14-63-1 (94253) रत्नं च यन्मरुत्तेनि निहितं वसुधातले। तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम॥ 14-63-2 (94254) वैशम्पायन उवाच। 14-63-3x (7914) श्रुत्वा द्वैपायनवचो धर्मिराजो युधिष्ठिरः। भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत्॥ 14-63-3 (94255) अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि। श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना॥ 14-63-4 (94256) कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता। तपोवृद्धेनि महता सुहृदां भूतिमिच्छता॥ 14-63-5 (94257) गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा। भीष्मेण च महाप्राज्ञ गोविन्देनि च धीमता॥ 14-63-6 (94258) संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः। आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम्॥ 14-63-7 (94259) अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः। इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः॥ 14-63-8 (94260) तच्चाचष्ट तदा व्यासो मरुत्तस्य धनं नृपाः। यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि। तदानयामहे सर्वे कतं वा भीम मन्यसे॥ 14-63-9 (94261) इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह। भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत्॥ 14-63-10 (94262) रोचते मे महाबाहो यदिदं भाषितं त्वया। व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति॥ 14-63-11 (94263) तत्प्राप्नुयामहे धर्माद्यद्धनं काङ्क्षितं प्रभो। कृतमेव महाराज भवेदिति मतिर्मम॥ 14-63-12 (94264) ते वयं प्रणिपातेन गिरीशस्य महात्मनः। तदानयामि भद्रं ते समभ्यर्च्य कपर्दिनम्॥ 14-63-13 (94265) `तं विभुं देवदेवेशं शूलपाणिं त्रिलोचनम्। अनादिनिधनं शंभुं नमस्यामि महेश्वरम्॥' 14-63-14 (94266) लोकनाथं गणाध्यक्षं तस्यैवानुचरांश्चि तान्। प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः॥ 14-63-15 (94267) रक्षन्ते ये च तद्द्रव्यं किन्नरा रौद्रदर्शनाः। ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे॥ 14-63-16 (94268) `स हि देवः प्रसन्नात्मा भक्तानां परमेश्वरः। ददात्यमरतां चापि किं पुनः काञ्चनं प्रभुः॥ 14-63-17 (94269) वनस्थास्य पुरा जिष्णोरस्त्रं पाशुपतं महत्। रौद्रं ब्रह्मसिरश्चादात्प्रसन्नः किं पुनर्धनम्॥ 14-63-18 (94270) वयं सर्वे हि तद्भक्ताः स चास्माकं प्रसीदति। तत्प्रसादादिदं राज्यं प्राप्तं कौरवनन्दन॥ 14-63-19 (94271) अभिमन्योर्वधे वृत्ते प्रतिज्ञाते धनञ्जये। जयद्रथवधार्थाय स्वप्ने लोकगुरुर्निशि। प्रसाद्य लब्धवानस्त्रमर्जुनः सहकेशवः॥ 14-63-20 (94272) तत्र प्रभातां रजनीं फल्गुनस्याग्रतः प्रभुः। जघान सैन्यं शूलेन प्रत्यक्षं सव्यसाचिनः॥ 14-63-21 (94273) कस्तां सेनां महाराज मनसाऽपि प्रधर्षयेत्। द्रोणिकर्णबलैर्युक्तां महेष्वासैः प्रहारिभिः। ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात्॥ 14-63-22 (94274) तस्यैव च प्रसादेव निहतास्तव शत्रवः। अश्वमेधस्य संसिद्धिं तव सम्पादयिष्यति।' 14-63-23 (94275) श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत। प्रीतो धर्मात्मजो राजा बभूवातीव भारत। अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्वचः॥ 14-63-24 (94276) कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम्। सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे॥ 14-63-25 (94277) ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च। अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम्॥ 14-63-26 (94278) मोदकैः पायसेनाथ मांसापूपैस्तथैव च। आशास्य च महात्मानं प्रययुर्मुदिता भृशम्॥ 14-63-27 (94279) तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ। प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते॥ 14-63-28 (94280) ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च। ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः॥ 14-63-29 (94281) समनुज्ञाप्य राजानं पुत्रशोकसमाहतम्। धृतराष्ट्रं सभार्यं वै पृथां च पृथुलोचनाम्॥ 14-63-30 (94282) मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम्। सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः। `प्रययुः पाण्डवा वीरा नियमस्थाः शुचिव्रताः' ॥ 14-63-31 (94283) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिषष्टितमोऽध्यायः॥ 63 ॥
आश्वमेधिकपर्व - अध्याय 064

॥ श्रीः ॥

14.64. अध्यायः 064

Mahabharata - Ashvamedhika Parva - Chapter Topics

युधिष्ठिरेण हिमवद्गिरिमेत्य सेनानिवेशनम्॥ 1 ॥ तत्र ब्राह्मणचोदनया तैः सहोपवासादिव्रताचरणपूर्वकं निशायापनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः। रथघोषेण महता पूरयन्तो वसुन्धराम्॥ 14-64-1 (94284) संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः। स्वेन सैन्येन संवीता यथाऽऽदित्याः स्वरश्मिभिः॥ 14-64-2 (94285) पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट्॥ 14-64-3 (94286) जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः। प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः॥ 14-64-4 (94287) तथैव सैनिका राजन्राजानमनुयान्ति ये। तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत॥ 14-64-5 (94288) सरांसि सरितश्चैव वनान्युपवनानि च। अत्यक्रामन्महाराजो गिरिं चाप्यन्वपद्यत॥ 14-64-6 (94289) स्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम्। चक्रे निवेशनं राजा पाण्डवः सहसैनिकैः। शिवे देशे समे चैव तदा भरतसत्तम॥ 14-64-7 (94290) अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान्। पुरोहितं च कौरव्य वेदवेदाङ्गपारगम्॥ 14-64-8 (94291) आग्निवेश्यं च राजानो ब्राह्मणाः सपुरोधसः। कृत्वा शान्तिं यथान्यायं सर्वशः पर्यवारयन्॥ 14-64-9 (94292) कृत्वा तु मध्ये राजानममात्यांश्च यथाविधि। षट्पदं नवसङ्ख्यानं निवेशं चक्रिरे जनाः॥ 14-64-10 (94293) मत्तानां वारणेन्द्राणां निवेशं च यथाविधि। कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत्॥ 14-64-11 (94294) अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे। यथा भवन्तो मन्यन्ते कर्तुमर्हन्ति तत्तथा॥ 14-64-12 (94295) न नः कालात्ययो वै स्यादिहैव परिलम्बताम्। इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम्॥ 14-64-13 (94296) श्रुत्वैतद्व********* ब्राह्मणाः सपुरोधसः। इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः॥ 14-64-14 (94297) अद्यैव नक्षत्रिमहश्च पुण्यं यतामहे श्रेष्ठतमक्रियासु। तपोभिरद्येह वसाम राज- न्नुपोष्यतां चापि भवद्भिरद्य॥ 14-64-15 (94298) श्रुत्वा तु तेषां द्विजसत्तमानां कृतोपवासा रजनीं नरेन्द्राः। 14-64-16 (94299) ऊषुः प्रतीताः कुशसंस्तरेषु यथाऽध्वरे प्रज्वलिता हुताशाः॥ 14-64-17 (94300) ततो निशा सा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः। ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन्धर्मसुतं नराधिपम्॥ ॥ 14-64-18 (94301) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःषष्टितमोऽध्यायः॥ 64 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-64-25 ध्रुवे नक्षत्रे रोहिण्यामुत्तरात्रये च। अहनि वारे ध्रुवे रविवारे।क उत्तरार्केऽमृतसिद्धयोगे इत्यर्थः॥ 7-64-31 मूले वंशस्याद्ये। कुन्तीधृतराष्ट्रसमीपे इत्यर्थः॥ 7-64-63 त्रिषष्टितमोऽध्यायः॥
आश्वमेधिकपर्व - अध्याय 065

॥ श्रीः ॥

14.65. अध्यायः 065

Mahabharata - Ashvamedhika Parva - Chapter Topics

युधिष्ठिरेण विधिवन्नानाषलिहरणादिना सपरिचरमहेश्वरपतितोषणेन विविधकनकभाण्डाहरणेन पुनर्नगरंप्रत्यागमनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

name="Azvamedhika-14-65-1x">ब्राह्मणा ऊचुः। क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः। दत्त्वोपहारं नृपते ततः स्वार्थं यतामहे॥ 14-65-1 (94302) वैशम्पायन उवाच। 14-65-2x (7915) श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः। गिरीशस्य यथान्यायमुपहारमुपाहरत्॥ 14-65-2 (94303) आज्येन तर्पयित्वाऽग्निं विधिवत्संस्कृतेन च। मन्त्रसिद्धं चरुं कृत्वा पुरोधाः स ययै तदा॥ 14-65-3 (94304) स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप। मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिंम्॥ 14-65-4 (94305) सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि। सर्वं स्विष्टकृतं हुत्वा विधिवद्वेदपारगः। किंकराणां ततः पश्चाच्चकार बलिमुत्तमम्॥ 14-65-5 (94306) यक्षेन्द्राय कुबेराय माणिभद्राय चैव ह। तथाऽन्येषां च यक्षाणां भूतानां पतयश्च ये॥ 14-65-6 (94307) कृसरेण च मांसेन निवापैस्तिलसंयुतैः। ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत्॥ 14-65-7 (94308) ब्राह्मणेभ्यः सहस्राणि गवां दत्वा तु भूमिपः। नक्तंचराणां भूतानां व्यादिदेश बलि तदा॥ 14-65-8 (94309) धूपगन्धनिरुद्धं तत्सुमनोभिश्च संवृतम्। शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिवः॥ 14-65-9 (94310) कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः। ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति॥ 14-65-10 (94311) पूजयित्वा धनाध्वक्षं प्रणिपत्याभिवाद्य च। सुमनोभिर्विचित्राभिरपूपैः कृसरेण च॥ 14-65-11 (94312) शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः। अर्चयित्वा द्विजाग्र्या स्वस्ति वाच्य च वीर्यवान् 14-65-12 (94313) तेषां पुण्याहघोषेण तेजसा समवस्थितः। प्रीतिमान्स कुरुश्रेष्ठः खानयामासं तं निधिम्॥ 14-65-13 (94314) ततः पात्री सकरका बहुरूपा मनोरमाः। भृङ्गाराणि कटाहानि कलशान्वर्धमानकान्॥ 14-65-14 (94315) बहूनि च विचित्राणि भाजनानि सहस्रशः। उद्धारयामास तदा धर्मराजो युधिष्ठिरः॥ 14-65-15 (94316) तेषां रक्षणमप्यासीन्महान्करपुटस्तथा। नद्धं च भाजनं राजंस्तुलार्धमभवन्नृप॥ 14-65-16 (94317) वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशांपते। षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः॥ 14-65-17 (94318) वारणाश्च महाराज सहस्रशतसंमिताः। शकटानि रथाश्चैव तावदेव करेणवः। स्वराणां पुरुषाणां च परिसङ्ख्या न विद्यते॥ 14-65-18 (94319) एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः। षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम्॥ 14-65-19 (94320) एतेष्वादाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः। महादेवं प्रति ययौ पुरं नागाहयं प्रति॥ 14-65-20 (94321) द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम्। गोरुते गोरुते चैव न्यवसत्पुरुषर्षभः॥ 14-65-21 (94322) सा पुराऽभिमुखा राजन्नुवाह महती चमूः। कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान्॥ ॥ 14-65-22 (94323) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चषष्टितमोऽध्यायः॥ 65 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-65-14 पात्रीः महान्ति ओदनोद्धरणपात्राणि। करका अल्पघटाः। भृङ्गाराणि गडुकान्। वर्धमानकान् शरावाणि॥ 7-65-16 करपटः करसंपुटाकारं द्विजलभाजनं उष्ट्रादिवाह्यम् संदूख इति प्रसिद्धम्॥
आश्वमेधिकपर्व - अध्याय 066

॥ श्रीः ॥

14.66. अध्यायः 066

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन बलभद्द्रसुमद्रादिभिः सह यज्ञार्थं हास्तिनपुरं प्रत्यागमनम्॥ 1 ॥ तत उत्तरायां परिक्षितो परिक्षितो जननम्॥ 2 ॥ भश्वत्थामास्त्रेण जननकालएव शवभूतस्य तस्योज्जीवनाय कुन्त्यादिभिः श्रीकृष्णंप्रति प्रार्थना॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्। उपायाद्वृष्णिभिः सार्दं पुरं वारणसाह्वयम्॥ 14-66-1 (94324) समयं वाजिमेधस्य विदित्वा पुरुषर्षभः। यथोक्तो धर्मपुत्रेण प्रव्रजन्स्वपुरीं प्रति॥ 14-66-2 (94325) रौक्मिणेयेन सहितो युयुधानेन चैव ह। चारुदेष्णेन सांबेनि गदेन कृतवर्मणा॥ 14-66-3 (94326) सारणेन च वीरेण निशठेनोन्मुखेन च। बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा॥ 14-66-4 (94327) द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः। समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः॥ 14-66-5 (94328) तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः। प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः॥ 14-66-6 (94329) तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषोत्तमः। विदुरेणि महातेजास्तथैव च युयुत्सुना॥ 14-66-7 (94330) वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय। जज्ञे तव पिता राजन्परिक्षित्परवीरहा॥ 14-66-8 (94331) स तु राजा महाराज ब्रह्मास्त्रेणावपीडितः। शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः॥ 14-66-9 (94332) हृष्टानां सिंहनादेन जनानां तत्र निःस्वनः। आविवश दिशःसर्वाः पुनरेवाभ्युपागमत्॥ 14-66-10 (94333) ततः सोतित्वरः कृष्णो विवेशान्तःपुरं तदा। युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः॥ 14-66-11 (94334) ततस्त्वरितमायान्तीं ददर्शं स्वां पितृष्वसाम्। क्रोशन्तीमभिधावेति वासुदेवं पुनःपुनः॥ 14-66-12 (94335) पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम्। विक्रोशन्त्यश्च करुणं पाण्डवानां स्त्रियो नृप॥ 14-66-13 (94336) ततः कृष्णं समासाद्य कुन्ती भोजसुता तदा। प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा॥ 14-66-14 (94337) वासुदेव महाबाहो सुप्रजा देवकी त्वया। त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम्॥ 14-66-15 (94338) यदुप्रवीर योऽयं ते स्वस्त्रीयस्यात्मजः प्रभो। अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव॥ 14-66-16 (94339) त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन। अहं संजीवयिष्यामि मृतं जातमिति प्रभो॥ 14-66-17 (94340) सोयं जातो मृतस्तात पश्यैनं पुरुषर्षभ। उत्तरां च सुभद्रां च द्रौपदीं मां च माधव॥ 14-66-18 (94341) धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा। सहदेवं च दुर्धर्षं सर्वान्नस्त्रातुमर्हसि॥ 14-66-19 (94342) अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च। पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे॥ 14-66-20 (94343) अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च। प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन॥ 14-66-21 (94344) उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन। अभिमन्योर्वचः कृष्ण प्रियत्वात्तन्न संशयः॥ 14-66-22 (94345) अब्रवीत्किल दाशार्ह वैराटीमार्जुनिस्तदा। मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति॥ 14-66-23 (94346) गत्वा वृष्णयन्धककुलं धनुर्वेदं ग्रहीष्यति। अस्त्राणि च विचित्राणि नितीशास्त्रं च केवलं॥ 14-66-24 (94347) इत्येतत्प्रणयात्तात सौभद्रः परवीरहा। कथयामास दुर्धर्षस्तथा चैतन्न संशयः॥ 14-66-25 (94348) तास्त्वां वयं प्रणम्येह याचामो मधुसूदन। कुलस्यास्य हितार्तं च कुरु कल्याणमुत्तमम्॥ 14-66-26 (94349) एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना। उद्धृत्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि॥ 14-66-27 (94350) अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः। स्वस्त्रीयो वासुदेवस्य मृतो जात इति प्रभो॥ 14-66-28 (94351) एवं गते ततः कुन्तीं पर्यगृह्णाज्जनार्दनः। भूमौ निपतितां चैनां सान्त्वयामास भारत॥ ॥ 14-66-29 (94352) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्षष्टितमोऽध्यायः॥ 66 ॥
आश्वमेधिकपर्व - अध्याय 067

॥ श्रीः ॥

14.67. अध्यायः 067

Mahabharata - Ashvamedhika Parva - Chapter Topics

सुभद्रया श्रीकृष्णंप्रति तन्महिमसंस्तवनपूर्वकं परिक्षिदुज्जीवनप्रार्थना॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा। दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत्॥ 14-67-1 (94353) पुण्डरीकाक्ष पश्य त्वं पौत्रं पार्थस्य धीमतः। परिक्षीणेषु कुरुषु परिक्षीणां गतायुषम्॥ 14-67-2 (94354) इषीका द्रोणपुत्रेणि भीमसेनार्थमुद्यता। सोत्तरायां निपतिता विजये मयि चैव ह॥ 14-67-3 (94355) सेयं ज्वलन्ती हृदये मयि तिष्टति केशव। यन्न पश्यामि दुर्धर्ष सहपुत्रं तु तं प्रभो॥ 14-67-4 (94356) किंनु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः। भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ॥ 14-67-5 (94357) श्रुत्वाऽभिमन्योस्तनयं जातं च मृतमेव च। मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः॥ 14-67-6 (94358) अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः। ते श्रुत्वा किंनु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः॥ 14-67-7 (94359) भविता नः परं दुःखं किंनु मन्ये जनार्दन। अभिमन्योः सुतं कृष्ण मृतं जातमरिंदम॥ 14-67-8 (94360) साऽहं प्रसादये कृष्ण त्वामद्य शिरसा नता। पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम॥ 14-67-9 (94361) यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव। तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन॥ 14-67-10 (94362) अकामं त्वां करिष्यामि ब्रह्मबन्धो नराधम। अहं संजीवयिष्यामि किरीटितनयात्मजम्॥ 14-67-11 (94363) इत्येद्वचनं श्रुत्वा जानानाऽहं बलं तव। प्रसादये त्वां दुर्धर्ष जीवतामभिमन्युजः॥ 14-67-12 (94364) यद्येतत्त्वं प्रतिश्रुत्य न करोषि वच शुभम्। सकलं वृष्णिशार्दूल मृतां मामवधारय॥ 14-67-13 (94365) अभिमन्योः सुतो वीर न संजीवति यद्ययम्। जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया॥ 14-67-14 (94366) संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम्। सदृशाक्षसुतं वीर सस्यं वर्षन्निवांम्बुदः॥ 14-67-15 (94367) त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः। स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम॥ 14-67-16 (94368) इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान्। किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम्॥ 14-67-17 (94369) प्रभावज्ञाऽस्मि ते कृष्ण तस्मात्त्वां याचयाम्यहम्। कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम्॥ 14-67-18 (94370) स्वसेति वा महाबाहो हतपुत्रेति वा पुनः। प्रपन्ना मामियं चेति दयां कर्तुमिहार्हसि॥ ॥ 14-67-19 (94371) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वि सप्तषष्टितमोऽध्यायः॥ 67 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-67-4 घृतेन सिक्तैरिति शेषः॥
आश्वमेधिकपर्व - अध्याय 068

॥ श्रीः ॥

14.68. अध्यायः 068

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन परिक्षित्सूतिकागृहप्रवेशनम्॥ 1 ॥ तत्रोत्तरया कृष्णसमीपे बहुधा विलापपूर्वकं पुत्रोज्जीवनप्रार्थना॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। एवमुक्तस्तु राजेन्द्र केशिहा दुःखमुर्च्छितः। तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम्॥ 14-68-1 (94372) वाक्येनैतेन हि तदा तं जनं पुरुषर्षभः। ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव॥ 14-68-2 (94373) ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव। अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि॥ 14-68-3 (94374) अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम्। घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज॥ 14-68-4 (94375) अस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः। वृद्धाभिश्चापि रामाभिः परिवारार्थमावृतः। दक्षैश्च परितो धीर भिषग्भिः कुशलैस्तथा॥ 14-68-5 (94376) ददर्श च स तेजस्वी रक्षोघ्रान्यपि सर्वशः। द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः॥ 14-68-6 (94377) तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव। हृष्टोऽभवद्धृषीकेशः साधुसाध्विति चाब्रवीत्॥ 14-68-7 (94378) तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा। द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत्॥ 14-68-8 (94379) अयमायाति ते भर्तुर्मातुलो मधुसूदनः। पुराणर्षिरचिन्त्यात्मा समीपमपराजितः॥ 14-68-9 (94380) साऽपि बाष्पकलां वाचं निगृह्याश्रूपि चैव ह। असंवीताऽभवद्देवी देववत्कृष्णमीयुषी॥ 14-68-10 (94381) सा तथा दूयमानेन हृदयेन तपस्विनी। दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्॥ 14-68-11 (94382) पुण्डरीकाक्ष पश्यावां बालेन हि विनाकृतौ। अभिमन्युं च मां चैव हठात्तुल्यं जनार्दन॥ 14-68-12 (94383) वार्ष्णेयमधुहन्वीर शिरसा त्वां प्रसादये। द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम्॥ 14-68-13 (94384) यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः। त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्॥ 14-68-14 (94385) अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो। अहमेव विनष्टा स्यां नायमेवं गतो भवेत्॥ 14-68-15 (94386) गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम्। कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते॥ 14-68-16 (94387) सा त्वां प्रसाद्य शिरसा याचे शत्रुनिबर्हण। प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि॥ 14-68-17 (94388) अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः। ते द्रोणपुत्रेण हताः किंनु जीवामि केशव॥ 14-68-18 (94389) आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन। अभिवादयिष्ये हृष्टेति तदिदं वितथीकृतम्॥ 14-68-19 (94390) चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ। विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः॥ 14-68-20 (94391) चपलाक्षः किलातीव प्रियस्ते मधुसूदन। सुतं पश्य त्वमस्यैनं ब्रह्मास्त्रेण निपातितम्॥ 14-68-21 (94392) कृतघ्नोऽयं नृशंसोऽयं यथाऽस्य जनकस्तथा। यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनं॥ 14-68-22 (94393) मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव। अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति॥ 14-68-23 (94394) तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया। इदानीं मां गतां तत्र किंनु वक्ष्यति फाल्गुनिः॥ ॥ 14-68-24 (94395) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टषष्टितमोऽध्यायः॥ 68 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-68-19 पुत्रोत्सङ्गा जनार्दनेति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 069

॥ श्रीः ॥

14.69. अध्यायः 069

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन सशपथं संस्पर्शनेन परिक्षितः समुज्जीवनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। सैवं विलप्य करुणं सोन्मादेव तपस्विनी। उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी॥ 14-69-1 (94396) तां तु दृष्ट्वा निपतितां हतपुत्रपरिच्छदाम्। चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतास्त्रियः॥ 14-69-2 (94397) मुहूर्तमिव राजेन्द्र पाण्डवानां निवेशनम्। अप्रेक्षणीयमभवदार्तस्वनविनादितम्॥ 14-69-3 (94398) सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता। कश्मलाभिहता वीर वैराटी त्वभवत्तदा॥ 14-69-4 (94399) प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ। अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत्॥ 14-69-5 (94400) धर्मज्ञस्य सुतः संस्त्वं न धर्ममवबुध्यसे। यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम्॥ 14-69-6 (94401) पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं त्विदम्। दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन॥ 14-69-7 (94402) याऽहं त्वया विनाऽद्येह पत्या पुत्रेण चैव ह। मरणं नाभिगच्छामि हतस्वस्तिरकिञ्चना॥ 14-69-8 (94403) अथवा धर्मराज्ञाऽहमनुज्ञाता महाभुजः। भक्षयिष्ये विषं घोरं प्रवेक्ष्ये वा हुताशनम्॥ 14-69-9 (94404) अथवा दुर्भरं तात यदिदं मे सहस्रधा। पतिपुत्रविहीनाया हृदयं न विदीर्यते॥ 14-69-10 (94405) उत्तिष्ठ पुत्र पस्येमां दुःखितां प्रपितामहीम्। आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे॥ 14-69-11 (94406) आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम्। मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव॥ 14-69-12 (94407) उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः। पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणः॥ 14-69-13 (94408) एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः। उत्तरां तां स्त्रियः सर्वाः पुनरुत्थापयन्त्युत॥ 14-69-14 (94409) उत्थाय च पुनर्धैर्यात्तदा मत्स्यपतेः सुता। प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत्॥ 14-69-15 (94410) श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः। उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं प्रत्यसंहरत्॥ 14-69-16 (94411) प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः। अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयज्जगत्॥ 14-69-17 (94412) न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति। एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम्॥ 14-69-18 (94413) नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन। न च युद्धात्परावृत्तस्तथा संजीवतामयम्॥ 14-69-19 (94414) यथा मे दयितो धर्मो ब्राह्मणश्च विशेषतः। अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा॥ 14-69-20 (94415) यथाऽहं नाभिजानामि विजये तु कदाचन। विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः॥ 14-69-21 (94416) यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ। तथा मृतः शिशुरयं जीवतादभिमन्युजः॥ 14-69-22 (94417) यथा कंसश्च केशी च धर्मेण निहतौ मया। तेन सत्येन बालोऽयं पुनः संजीवतामिह॥ 14-69-23 (94418) इत्युक्त्वा वासुदेवोऽथ तं बालं भरतर्षभ। `पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च। पस्पर्श पुण्डरीकाक्ष आपादतलमस्तकम्॥ 14-69-24 (94419) स्पृष्टमात्रस्तु कृष्णेन स बालो भरतर्षभ। शनैःशनैर्महाराज प्रापद्यत स चेतनाम्॥' 14-69-25 (94420) शनैःशनैर्महाराज प्रास्पन्दत सचेतनः॥ ॥ 14-69-26 (94421) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनसप्ततितमोऽध्यायः॥ 69 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-69-6 धर्मजस्य सुत इति क.थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 070

॥ श्रीः ॥

14.70. अध्यायः 070

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेनाभिमन्युसुतस्य पदप्रवृत्तिनिमित्तकथनपूर्वकं नामकरणम्॥ 1 ॥ अत्रान्तरे युधिष्ठिरादीनां स्वर्णभारानयनेन हस्तिनपुरंप्रत्यागमनश्रवणेन कृष्णादिभिस्तत्प्रत्युद्यानम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम्। तदा तद्वेश्म ते पित्रा तेजसाऽभिविदीपितम्॥ 14-70-1 (94422) ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत्। अन्तरिक्षे च वागासीत्साधु केशव साध्विति॥ 14-70-2 (94423) तदस्त्रं ज्वलितं चापि पितामहमगात्तदा। ततः प्राणान्पुनर्लेभे पिता तव नरेश्वर॥ 14-70-3 (94424) व्यचेष्टत च बालोसौ यथोत्साहं यताबलम्। बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः॥ 14-70-4 (94425) ब्राह्मणा वाचयामासुर्गोविन्दस्यैव शासनात्। ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम्॥ 14-70-5 (94426) स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः। कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा। स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः॥ 14-70-6 (94427) तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः। सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्दनम्॥ 14-70-7 (94428) कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ। `सभाजयत संहृष्टो महाराज महाजनः॥' 14-70-8 (94429) उत्थाय तु यथाकालमुत्तरा यदुनन्दनम्। अभ्यवादयत प्रीता सह पुत्रेण भारत॥ 14-70-9 (94430) ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः। तथैव वृष्णिशार्दूलो नाम चास्याकरोत्प्रभुः। पितुस्तव महाराज सत्यसन्धो जनार्दनः॥ 14-70-10 (94431) परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः। परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा॥ 14-70-11 (94432) सोऽवर्धत यथाकालं पिता तव जनाधिप। मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत॥ 14-70-12 (94433) मासजातस्तु ते वीर पिता भवति भारत। अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः॥ 14-70-13 (94434) `मेरुकूटनिभान्भाण्डान्कलशान्भाजनानि च। कृताकृतं महद्भीममादाय पुरुषोत्तमाः॥ 14-70-14 (94435) भारतैर्वाहनैस्तत्र गोरुते गोरुते पथि। निवसन्तो ययुर्देवं स्मरन्तः परमेष्ठिनः॥ 14-70-15 (94436) नासीत्तत्र नृपः कश्चिदभारार्तो नृपं विना। भीमादयोऽपि यज्ञार्थं वहन्ते किं पुनर्जनाः॥' 14-70-16 (94437) तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः। अलञ्चक्रुश्च माल्यौघैर्नगरं नागसाह्वयम्॥ 14-70-17 (94438) पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि। वेश्मानि समलञ्चक्रुः पौराश्चापि जनेश्वरः॥ 14-70-18 (94439) देवतायतनानां च पूजाः सुविविधास्तथा। संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया॥ 14-70-19 (94440) राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः। शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम्॥ 14-70-20 (94441) नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः। आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा॥ 14-70-21 (94442) बन्दिभिश्च नरै राजन्स्त्रीसहायैश्च सर्वशः। तत्रतत्र विविक्तेषु समन्तादुपशोभितम्॥ 14-70-22 (94443) पताका धूयमानाश्च समन्तान्मातरिश्वना। अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान्॥ 14-70-23 (94444) अघोषयंस्तदा चाप पुरुषा राजमार्गतः। सर्वरात्रविहारोऽद्य रत्नाभरणलक्षणः॥ ॥ 14-70-24 (94445) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्ततितमोऽध्यायः॥ 70 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-70-5 वाचयामासुः स्वस्तीति शेषः॥ 7-70-7 ग्रम्थिकाः दैवज्ञाः सुखावहं सौख्यं शयनं इति पृच्छन्ति ते सौख्यशायिकाः॥ 7-70-8 कुरुवंशस्य स्तवं आचक्षते ताभिः कुरुवंशस्तवाख्याभिः॥ 7-70-9 उत्थाय तु यथाकाममिति क.ट.थ.पाठः॥ 7-70-10 तस्य कृष्णो ददौ हृष्टो बहुरत्नं विशेषतः। तथान्ये वृष्णिशार्दूला इति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 071

॥ श्रीः ॥

14.71. अध्यायः 071

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णादिभिः प्रत्युद्गम्यमानैर्युधिष्ठिरादिभिः स्वर्णभारपुरस्कारेण हास्तिनपुरप्रवेशः॥ 1 ॥ ततस्तत्रोपागतेन व्यासेन युधिष्ठिरंप्रत्यश्वमेधप्रशंसनपूर्वकं तत्करणविधानम्॥ 2 ॥ युधिष्ठिरेणाश्वमेधे स्वयं दीक्षास्वीकारं प्रार्थितेन कृष्णेन सहेतुकथनं तम्प्रत्येव दीक्षास्वीकारविधानम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः। वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः। ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया॥ 14-71-1 (94446) ते समेत्य तथाधर्मं पाण्डवा वृष्णिभिः सह। विविशुः सहिता राजन्पुरं वारणसाह्वयम्॥ 14-71-2 (94447) विशतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह। द्यावापृथिव्यौ खं चैव सर्वमासीत्समावृतम्॥ 14-71-3 (94448) ते कोशानग्रतः कृत्वा विविशुः स्वं पुरं तदा। पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः॥ 14-71-4 (94449) ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम्। कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे॥ 14-71-5 (94450) धृतराष्ट्राभ्यनुज्ञाता गान्धारीं सुबलात्मजाम्। कुन्तीं च राजशार्दूल तदा भरतसत्तम॥ 14-71-6 (94451) विदुरं यूजयित्वा च वैश्यापुत्रं समेत्य च। पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते॥ 14-71-7 (94452) ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम्। शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत॥ 14-71-8 (94453) तदुपश्रुत्य तत्कर्म वासुदेवस्य धीमतः। पूजार्हं पूजयामासुः कृष्णं देवकीनन्दनम्॥ 14-71-9 (94454) ततः कतिपयाहस्य व्यासः सत्यवतीसुतः। आजगाम महातेजा नगरं नागसाह्वयम्॥ 14-71-10 (94455) तस्य सर्वे यथान्यायं पूजा चक्रुः कुरूद्वहाः। सह वृष्ण्यन्धकव्याघ्रैरुपासांचक्रिरे तदा॥ 14-71-11 (94456) तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै। युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत्॥ 14-71-12 (94457) भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम्। उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ॥ 14-71-13 (94458) तमनुज्ञातुमिच्छामि भवता मुनिसत्तम। त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः॥ 14-71-14 (94459) व्यास उवाच। 14-71-15x (7916) अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम्। यजस्व वाजिमेधेन विधिवद्दक्षिणावता॥ 14-71-15 (94460) अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्। तेनेष्ट्वा त्वं विपात्मा वै भविता नात्र संशयः॥ 14-71-16 (94461) इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः। अश्वमेधस्य कौरव्य चकाराहरणे मतिम्॥ 14-71-17 (94462) समनुज्ञाप्य तत्सर्वं कृष्मद्वैपायनं नृपः। वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत्॥ 14-71-18 (94463) देवकी सुप्रजा देवी त्वया पुरुषसत्तम। यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत॥ 14-71-19 (94464) त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन। पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही॥ 14-71-20 (94465) दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः। त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्॥ 14-71-21 (94466) त्वं हि यज्ञो गुरुश्च त्वं धर्मज्ञस्त्वं प्रजापतिः। त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः॥ 14-71-22 (94467) वासुदेव उवाच। 14-71-23x (7917) त्वमेवैतन्महाबाहो कर्तुमर्हस्यरिंदम। त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः॥ 14-71-23 (94468) त्वं चाद्यि कुरुवीराणां धर्मेण हि विराजसे। गुणीभूताः स्म ते राजंस्त्वं नो राजन्गुरुर्मतः। यजस्व मदनुज्ञातः प्राप्य एष क्रतुस्त्वया॥ 14-71-24 (94469) युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत। सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ॥ 14-71-25 (94470) भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ। इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे॥ ॥ 14-71-26 (94471) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकसप्ततितमोऽध्यायः॥ 71 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-71-7 वैश्यापुत्रं युयुत्सुम्॥ 7-71-16 पावनः नाशकः॥
आश्वमेधिकपर्व - अध्याय 072

॥ श्रीः ॥

14.72. अध्यायः 072

Mahabharata - Ashvamedhika Parva - Chapter Topics

व्यासेन युधिष्ठिरंप्रति पृथिवीसंचाराय मेध्याश्वोत्सर्जनचोदना॥ 1 ॥ तथाऽश्वरक्षणेऽर्जुनस्य नियोजनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः। व्यासमामन्त्र्य् मेधावी ततो वाचनमब्रवीत्॥ 14-72-1 (94472) यदा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः। दीक्षयस्व तदा मां त्वं त्वय्यायत्तो हि मे क्रुतुः॥ 14-72-2 (94473) व्यास उवाच। 14-72-3x (7918) अयं पैलोथ कौन्तेय याज्ञवल्क्यस्तथैव च। विधानं यद्यथा कालं तत्कर्तारौ न संशयः॥ 14-72-3 (94474) चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति। सम्भाराः सम्भ्रियन्तां च यज्ञार्थं पुरुषर्षभ॥ 14-72-4 (94475) अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः। मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये॥ 14-72-5 (94476) तमुत्सृज यथाशास्त्रं पृथिवीं सागराम्बराम्। सपर्येतु यशो नाम्ना तव पार्थिव वर्धयन्॥ 14-72-6 (94477) इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः। चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना॥ 14-72-7 (94478) सम्भारश्चैव राजेन्द्र सर्वे सङ्कल्पितास्तता॥ 14-72-8 (94479) स सम्भारान्समाहृत्य नृपो धर्मसुतस्तदा। न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै॥ 14-72-9 (94480) ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम्। यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे॥ 14-72-10 (94481) स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव। यत्तु योग्यं भवेत्किञ्चिद्रौक्मं तत्क्रियतामिति॥ 14-72-11 (94482) अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम्। सुगुप्तं चरतां चापि यथाशास्त्रं यथाविधि॥ 14-72-12 (94483) युधिष्ठिर उवाच। 14-72-13x (7919) अयमश्वो यता ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम्। चरिष्यति यथाकामं तत्र वै संविदीयताम्॥ 14-72-13 (94484) पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम्। कः पालयेदिति मुने तद्भवान्वक्तुमर्हति॥ 14-72-14 (94485) इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत्। भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम्। जिष्णुः सहिष्णुर्धृष्णुस्च स एनं पालयिष्यति॥ 14-72-15 (94486) शक्तः स हि महीं जेतुं निवातकवचान्तकः। तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा। दिव्यं धनश्चेषुधी च स एनमनुयास्यति॥ 14-72-16 (94487) स हि धर्मार्थकुशलः सर्वविद्याविशारदः। यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम्॥ 14-72-17 (94488) राजपुत्रो महाबाहुः श्यामो राजीवलोचनः। अभिमन्योः पिता वीरः स एनमनुयास्यति॥ 14-72-18 (94489) भीमसेनोपि तेजस्वी कौन्तेयोऽमितविक्रमः। समर्थो रक्षितुं राष्ट्रं नकुलश्च विशाम्पते॥ 14-72-19 (94490) सहदेवस्तु कौरव्य समायास्यति बुद्धिमान्। कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः॥ 14-72-20 (94491) स तु सर्वं यथान्यायमुक्त कुरुकुलोद्वहः। चकार फल्गुनं चापि संदिदेश हयं प्रति॥ 14-72-21 (94492) युधिष्ठिर उवाच। 14-72-22x (7920) एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम्। त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः॥ 14-72-22 (94493) ये चापि त्वां महाबाहो प्रत्युद्यान्ति नराधिपाः। तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयाऽनघ॥ 14-72-23 (94494) आख्यातव्यश्च भता यज्ञोऽयं मम सर्वशः। पार्थिवेभ्यो महाबाहो समये गम्यतामिति ॥ 14-72-24 (94495) वैशम्पायन उवाच। 14-72-25x (7921) एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम्। भीमं च नकुलं चैव पुरगुप्तौ समादधत्॥ 14-72-25 (94496) कुटुम्बतन्त्रे च तदा सहदेवं युधांपतिम्। अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः॥ ॥ 14-72-26 (94497) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विसप्ततितमोऽध्यायः॥ 72 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-72-11 स्फ्यः काष्ठखङ्गः स चात्र सौवर्णः। कूर्च आसनार्थं कुशमुष्टिः सोऽप्यत्र सौवर्णः॥ 7-72-12 सुगुप्तं सुरक्षितं यथा स्यात्तथा॥
आश्वमेधिकपर्व - अध्याय 073

॥ श्रीः ॥

14.73. अध्यायः 073

Mahabharata - Ashvamedhika Parva - Chapter Topics

अर्जुनेन युधिष्ठिरनियोगाद्ब्राह्मणैः क्षत्रियैश्च सह प्रथममुत्तरदिश्यश्वसञ्चारणेन रक्षणाय तदनुसरणम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः। विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम्॥ 14-73-1 (94498) कृत्वा स पशुमेधांश्च दीक्षितः पाण्डुनन्दनः। धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत॥ 14-73-2 (94499) हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना। उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा॥ 14-73-3 (94500) स राजा राजधर्मेण दीक्षितो विबभौ तदा। हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः॥ 14-73-4 (94501) कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः। विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे॥ 14-73-5 (94502) तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशांपते। बभूवुरर्जुनश्चापि प्रदीप्त इव पावकः॥ 14-73-6 (94503) श्वेताश्वः कपिकेतुश्च ससाराश्वं धनञ्जयः। विधिवत्पृथिवीपाल धर्मराजस्य शासनात्॥ 14-73-7 (94504) **क्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान्। तमश्वं पृथिवीपाल मुदा युक्तः ससार च॥ 14-73-8 (94505) अनुमार्गं तदा राजन्नागमत्तत्पुरं विभो। द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यनतं धनञ्जयम्॥ 14-73-9 (94506) तेषामन्योन्यसम्मर्दादूष्मेव समाजायत। दिदृक्षूणां हयं तं च तं चैव हयसारिणम्॥ 14-73-10 (94507) ततः शब्दो महाराज दिशः खं प्रतिपूरयन्। बभूव प्रेक्षतां नॄमां कुन्तीपुत्रं धनंजयम्॥ 14-73-11 (94508) एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान्। समन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम्॥ 14-73-12 (94509) एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः। स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत॥ 14-73-13 (94510) अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन्। नैनं पश्याम सम्मर्दे धनुरेतत्प्रदृश्यते॥ 14-73-14 (94511) एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः। स्वस्ति गच्छत्वरिष्टो वै पन्थानमकुतोभयम्। निवृत्तमेनं द्रक्ष्यामः पुनरेष्यति च ध्रुवम्॥ 14-73-15 (94512) एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ। शुश्राव मधुरा वाचः पुनःपुनरुदारधीः॥ 14-73-16 (94513) याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि। प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः॥ 14-73-17 (94514) ब्राह्मणाश्च महीपाल बहवो वेदपारगाः। अनुजग्मुर्महात्मानं क्षत्रियाश्च विशाम्पते। विधिवत्पृथिवीपाल धर्मराजस्य शासनात्॥ 14-73-18 (94515) पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा। चचार स महाराज यथादेशं च सत्तम॥ 14-73-19 (94516) तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह। तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च॥ 14-73-20 (94517) स हयः पृथिवीं राजन्प्रदक्षिणमवर्तत। ससारेत्तरतः पूर्वं तन्निबोध महीपते॥ 14-73-21 (94518) अवमृद्रन्स राष्ट्राणि पार्थिवानां हयोत्तमः। शनैस्तदा परिययौ श्वेताश्वश्च महारथः॥ 14-73-22 (94519) तत्र सङ्गणना नास्ति राज्ञामयुतशस्तदा। येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः॥ 14-73-23 (94520) किराता यवना राजन्बहवोऽसिधनुर्धराः। म्लेच्छाश्चान्ये बहुविधाः पूर्वं ये निकृता रणे॥ 14-73-24 (94521) आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः। समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः॥ 14-73-25 (94522) एवं वृत्तानि युद्धानि तत्रतत्र महीपते। अर्जुनस्य महीपालैर्नानादेशसमागतैः॥ 14-73-26 (94523) यान्यत्र हयतो राजन्प्रवृत्तानि महान्ति च। तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ॥ ॥ 14-73-27 (94524) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिसप्ततितमोऽध्यायः॥ 73 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-73-9 आकुमारं तदा राजन् इति झ.पाठः॥ 7-73-17 शिष्यः सोमश्रवाः॥
आश्वमेधिकपर्व - अध्याय 074

॥ श्रीः ॥

14.74. अध्यायः 074

Mahabharata - Ashvamedhika Parva - Chapter Topics

अर्जुनेन त्रैगर्तानां पराजयः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः। महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः॥ 14-74-1 (94525) ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तम***** विषयान्तं ततो वीरा दंशिताः पर्यवारयन्॥ 14-74-2 (94526) रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः। परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः॥ 14-74-3 (94527) ततः किरीटी सञ्चिन्त्य तेषां तत्र चिकीर्षितम्। वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः॥ 14-74-4 (94528) तदनादृत्य ते सर्वे शरैरभ्यहनंस्तदा। तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत्॥ 14-74-5 (94529) तानव्रवीत्ततो जिष्णुः प्रहसन्निव भारत। निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च॥ 14-74-6 (94530) स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः। हतबान्धवा न ते पार्त हन्तव्याः पार्थिवा इति॥ 14-74-7 (94531) स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः। तान्निवर्तध्वमित्याह न न्यवर्तन्ति चापि ते॥ 14-74-8 (94532) ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे। विनद्य शरजालेनि प्रजहास धनंजयः॥ 14-74-9 (94533) ततस्ते रथघोपेण रथनेमिस्वनेन च। पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन्॥ 14-74-10 (94534) सूर्यवर्मा ततः पार्ते शराणां नतपर्वणाम्। शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन्॥ 14-74-11 (94535) तथैवान्ये महेष्वासा ये च तस्यानुयायिनः। मुमुचुः शरवर्षाणि धनंजयवधैषिणः॥ 14-74-12 (94536) स ताञ्ज्यामुखनिर्मुक्तैर्बहुभिः सुबहूञ्शरान्। चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा॥ 14-74-13 (94537) केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा। युयुधे भ्रातुरर्थाय पाण्डवेन यशस्विना॥ 14-74-14 (94538) तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे। अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा॥ 14-74-15 (94539) केतुवर्मण्यभिहते धृतवर्मा महारथः। रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत्॥ 14-74-16 (94540) तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्। गुडाकेशो महादेजा बालस्य धृतवर्मणः॥ 14-74-17 (94541) न संदधानं ददृशे नाददानं च तं तदा। किरन्तमेवं स शरान्ददृशे पाकशासनिः॥ 14-74-18 (94542) स तु तं पूजयामास धृतवर्माणमाहवे। मनसा तु मुहूर्तं वै रणे समभिहर्षयन्॥ 14-74-19 (94543) `न विव्याध रणे क्रुद्धः कुन्तीपुत्रो हसन्निव। सौभद्रस्येव तत्कर्म दृष्ट्वा बालस्य विस्मितः॥ 14-74-20 (94544) तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव। प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत्॥ 14-74-21 (94545) स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा। धृतवर्मा शरं दीप्तं मुमोच विजये तदा॥ 14-74-22 (94546) स तेन विजयस्तूर्णमासीद्विद्धः करे भृशम्। मुमोच गाण्डिवं मोहात्तत्पपाताथ भूतले॥ 14-74-23 (94547) धनुषः पततस्तस्य सव्यसाचिकराद्विभो। बभूव सदृशं रूपं शक्रचापस्य भारत॥ 14-74-24 (94548) तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिवः। चकार सस्वनं हासं धृतवर्मा महाहवे॥ 14-74-25 (94549) ततो रोषार्दितो जिष्णुः प्रमृज्य रुधिरं करात्। धनुरादत्त तद्दिव्यं शरवर्षैर्ववर्ष च॥ 14-74-26 (94550) ततो हलहलाशब्दो दिवस्पृगभवत्तदा। नानाविधानां भूतानां तत्कर्माणि प्रशंसताम्॥ 14-74-27 (94551) ततः सम्प्रेक्ष्य संक्रुद्धं कालान्तकयमोपमम्। जिष्णुं त्रैगर्तका योधाः परीताः पर्यवारयन्॥ 14-74-28 (94552) अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः। परिवव्रुर्गुडाकेशं तत्राक्रुद्ध्यद्धनंजयः॥ 14-74-29 (94553) ततो योधाञ्जघानाशु तेषां स दश चाष्ट च। महेन्द्रवज्रप्रतिमैरायसैर्बहुभिः शरैः॥ 14-74-30 (94554) तान्सम्प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनंजयः। शरैराशीविषाकारैर्जघान स्वनवद्धसन्॥ 14-74-31 (94555) ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः। दिशोऽभिदुद्रुवू राजन्धनंजयशरार्दिताः॥ 14-74-32 (94556) `हतावशिष्टा हि पराः पार्थं दृष्टपराक्रमाः।' तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्॥ 14-74-33 (94557) तवास्म किंकराः सर्वे सर्वे वै वशगास्तव। आज्ञापयस्वः नः पार्थ प्रह्वान्प्रेष्यानवस्थितान्। करिष्यामः प्रियं सर्वं तव कौरवनन्दन॥ 14-74-34 (94558) एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा। जीवितं रक्षत नृपाः शासनं प्रतिगृह्यताम्॥ ॥ 14-74-35 (94559) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःसप्ततितमोऽध्यायः॥ 74 ॥
आश्वमेधिकपर्व - अध्याय 075

॥ श्रीः ॥

14.75. अध्यायः 075

Mahabharata - Ashvamedhika Parva - Chapter Topics

अर्जुनेन प्राग्ज्योतिषपुरमेत्याश्वरक्षणाय भगदत्तसुतेन यज्ञदत्तेन सहायोधनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः। भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः॥ 14-75-1 (94560) सहयं पाण्डुपुत्रं तु विषयान्तमुपागतम्। युयुधे भरतश्रेष्ठ यज्ञदत्तो महीपतिः॥ 14-75-2 (94561) सोभिनिर्याय नगराद्भगदत्तसुतो नृपः। अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ॥ 14-75-3 (94562) तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा। गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत्॥ 14-75-4 (94563) ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः। हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत्॥ 14-75-5 (94564) पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः। आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया॥ 14-75-6 (94565) पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। दोधूयता चामरेण श्वेतेन च महारथः॥ 14-75-7 (94566) ततः पार्थं समासाद्य पाण्डवानां महारथम्। आह्वयामास बीभत्सुं बाल्यान्मोहाच्च संयुगे॥ 14-75-8 (94567) स वारणं नगप्रख्यं प्रभिन्नकरटामुखम्। प्रेषयामास संक्रुद्धः श्वेताश्वं प्रति पार्थिवः॥ 14-75-9 (94568) विक्षरन्तं महामेघं परवारणवारणम्। शस्त्रवत्कल्पितं सङ्ख्ये विवशं युद्धदुर्मदम्॥ 14-75-10 (94569) प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः। तदाऽङ्कशेन विबभावुत्पतिष्यन्निवाम्बरम्॥ 14-75-11 (94570) तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनंजयः। भूमिष्ठो वारणगतं योधयामास भारत॥ 14-75-12 (94571) यज्ञदत्तस्ततः क्रुद्धो मुमोचाशु धनंजये। तोमरानग्निसङ्काशाञ्शलभानिव वेगितान्॥ 14-75-13 (94572) अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रभवैः शरैः। द्विधा त्रिधा च चिच्छेद खगमान्खगमैस्तदा॥ 14-75-14 (94573) स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः। इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति॥ 14-75-15 (94574) ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान्। प्रेषयामास संक्रुद्धो भगदत्तात्मजं प्रति॥ 14-75-16 (94575) स तैर्विद्धो महातेजा यज्ञदत्तो महामृधे। भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः॥ 14-75-17 (94576) ततः स पुनरारुह्य वारणप्रवरं रणे। अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति॥ 14-75-18 (94577) तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान्। प्रेषयामास संक्रुद्धो ज्वलितज्वलनोपमान्॥ 14-75-19 (94578) स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ। हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा॥ ॥ 14-75-20 (94579) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चसप्ततितमोऽध्यायः॥ 75 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-75-2 वज्रदत्तो महीपतिरिति झ.पाठः॥ 7-75-20 गैरिकाक्तमिवाम्भोद्रिर्बहुप्रस्रवणं तदा इति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 076

॥ श्रीः ॥

14.76. अध्यायः 076

Mahabharata - Ashvamedhika Parva - Chapter Topics

अर्जुनेन भगदत्तात्मजपराजयः॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ। अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः॥ 14-76-1 (94580) ततश्चतुर्थे दिवसे यज्ञदत्तो महाबलः। जहास सस्वनं हासं वाक्यं चेदमताब्रवीत्॥ 14-76-2 (94581) अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे। त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि॥ 14-76-3 (94582) त्वया वृद्धो मम पिता भगदत्तः पितुः सखा। हतो वृद्धोऽपि बाधित्वा शिशुं मामद्य योधय॥ 14-76-4 (94583) इत्येवमुक्त्वा संक्रुद्धो यज्ञदत्तो नराधिपः। प्रेषयामास कौरव्य वारणं पाण्डवं प्रति॥ 14-76-5 (94584) सम्प्रेष्यमाणो नागेन्द्रो यज्ञदत्तेन धीमता। उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम्॥ 14-76-6 (94585) अग्रहस्तसुमुक्तेन शीकरेण स नागराट्। समौक्षति गुडाकेशं शैलं नील इवाम्बुदः॥ 14-76-7 (94586) स तेन प्रेषितो राज्ञा मेघवद्विनदन्मुहुः। मुखाडम्बरसंह्रादैरभ्यद्रवत फल्गुनम्॥ 14-76-8 (94587) स नृत्यन्निव नागेन्द्रो यज्ञदत्तप्रचोदितः। आससाद द्रुतं राजन्कौरवाणां महारथम्॥ 14-76-9 (94588) तमायान्तमथालक्ष्य यज्ञदत्तस्य वारणम्। गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा॥ 14-76-10 (94589) चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः। कार्यविघ्नमनुस्मृत्यि पूर्ववैरं च भारत॥ 14-76-11 (94590) ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः। निवारयामास तदा वेलेव मकरालयम्॥ 14-76-12 (94591) स नागप्रवरः श्रीमानर्जुनेन निवारितः। तस्थौ शरैर्विनुन्नाङ्गः श्वाविच्छललितो यथा॥ 14-76-13 (94592) निवारितं गजं दृष्ट्वा भगदत्तसुतो नृपः। उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः॥ 14-76-14 (94593) अर्जुनस्तु महाबाहुः शरैररिनिघातिभिः। वारयामास तान्बाणांस्तदद्भुतमिवाभवत्॥ 14-76-15 (94594) ततः पुनरभिक्रुद्धो राजा प्राग्ज्योतिषाधिपः। प्रेषयामास नागेन्द्रं बलवत्पर्वतोपमम्॥ 14-76-16 (94595) तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः। नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति॥ 14-76-17 (94596) स तेन वारणो राजन्मर्मस्वभिहतो भृशम्। पपात सहसा भूमौ वज्ररुग्ण इवाचलः॥ 14-76-18 (94597) स पतञ्शुशुभे नागो धनंजयशराहतः। विशन्निव महाशैलो महीं वज्रप्रपीडितः॥ 14-76-19 (94598) तस्मिन्निपतिते नागे यज्ञदत्तस्य पाण्डवः। तं न भेतव्यमित्याह ततो भूमिगतं नृपम्॥ 14-76-20 (94599) अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः। राजानस्ते न हन्तव्या धनंजय कथञ्चन॥ 14-76-21 (94600) सर्वमेतन्नरव्याघ्र भवत्येतावता कृतम्। योधाश्चापि न हन्तव्या धनंजय रणे त्वया॥ 14-76-22 (94601) वक्तव्याश्चापि राजानः सर्वे सह सुहृज्जनैः। युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम्॥ 14-76-23 (94602) इति भ्रातृवचः श्रुत्वा न हन्मि त्वां नराधिप। उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव॥ 14-76-24 (94603) आगच्छेथा महाराज परां चैत्रीमुपस्थिताम्। तदाऽश्वमेधो भविता धर्मिराजस्य धीमतः॥ 14-76-25 (94604) एवमुक्तः स राजा तु भगदत्तात्मजस्तदा। तथेत्वेवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः॥ ॥ 14-76-26 (94605) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्सप्ततितमोऽध्यायः॥ 76 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-76-13 शललितः शलाकाप्रोतः॥
आश्वमेधिकपर्व - अध्याय 077

॥ श्रीः ॥

14.77. अध्यायः 077

Mahabharata - Ashvamedhika Parva - Chapter Topics

अश्वानुसरणवशास्सिन्धुदेशं गतेनार्जुनेन सैन्धवैःसह महाऽऽयोधनम्॥ 1 ॥ बाणगणावकीर्णस्यार्जुनस्य कराद्गाण्डीवस्या धःपतने देवर्ष्यादिभिर्जपादिना तस्य तेजोदीपनम्॥ 2 ॥ ततः पुनरर्जुनेन तैः स***योधनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। `जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा। विसृज्य याते तुरगे सैन्धवान्प्रति भारत॥' 14-77-1 (94606) सैन्धवैरभवगद्युद्धं ततस्तस्य किरीटिनः। हतशेषैर्महाराज हतानां च सुतैरपि॥ 14-77-2 (94607) तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम्। प्रत्युद्ययुरमृष्यन्ते राजानः पाण्डवर्षभम्॥ 14-77-3 (94608) अश्वं च तं परामृश्य विषयान्ते विषोपमात्। न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात्॥ 14-77-4 (94609) तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च। बीभत्सुं प्रत्यपद्यन्त् पदातिनमवस्थितम्॥ 14-77-5 (94610) ततस्ते तं महावीर्या राजानः पर्यवारयन्। जिगीषन्तो नरव्याघ्रं पूर्वं विनिकृता युधि॥ 14-77-6 (94611) ते नामान्यपि गोत्राणि कर्मणि विविधानि च। कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन्॥ 14-77-7 (94612) ते किरन्तः शरव्रातान्वारणप्रतिवारणान्। रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन्॥ 14-77-8 (94613) ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे। सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम्॥ 14-77-9 (94614) ते तमाजघ्निरे वीरं निवातकवचान्तकम्। संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च॥ 14-77-10 (94615) ततो रथसहस्रेण गजानामयुतेन च। ***ष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन्॥ 14-77-11 (94616) ** स्मरन्तो वधं वीराः सिन्धुराजस्य चाहवे। जयद्रथस्य कौरव्य समरे सव्यसाचिना॥ 14-77-12 (94617) ततः पर्जन्यवत्सर्वे शरवृष्टीरवासृजन्। तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा॥ 14-77-13 (94618) स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः। पञ्चरान्तरसञ्चारी शकुन्त इव भारत॥ 14-77-14 (94619) ततो हाहाकृतं सर्वं कौन्तेय शरपीडिते। त्रैलोक्यमभवद्राजन्रविरासीद्रजोरुणः॥ 14-77-15 (94620) ततो ववौ महाराज मारुतो रोमहर्षणः। राहुरग्रसदादित्यं पर्वणीव विशाम्पते॥ 14-77-16 (94621) उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः। वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः॥ 14-77-17 (94622) मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः। सप्तर्षयो जातभयास्तथा देवर्षयोपि च॥ 14-77-18 (94623) शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतन्। विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा॥ 14-77-19 (94624) रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः। आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम्॥ 14-77-20 (94625) एवमासीत्तदा वीरे शरवर्षेण संवृते। फल्गुने भरतश्रेष्ठ तदद्भुतमिवाभवत्॥ 14-77-21 (94626) तस्य तेनावकीर्णस्य शरजालेन सर्वतः। मोहात्पपात गाण्डीवमावापश्च करादपि॥ 14-77-22 (94627) तस्मिन्मोहमनुप्राप्ते शरजालं महत्तदा। सैन्धवा मुमुचुस्तूर्णं गतसत्वे महारथे॥ 14-77-23 (94628) ततो मोहं समापन्नं ज्ञात्वा पार्थं द्विवौकसः। सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन्॥ 14-77-24 (94629) ततो देवर्षयः सर्वे तथा सप्तर्षयोपि च। ब्रह्मर्षचस्च विजयं जेपुः पार्थस्य धीमतः॥ 14-77-25 (94630) ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव। तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित्॥ 14-77-26 (94631) विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः। यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः॥ 14-77-27 (94632) ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः। ववर्ष धनुषा पार्थो वर्षाणीव पुरंदरः॥ 14-77-28 (94633) ततस्ते सैन्धवा योधाः सर्व एव सराजकाः। नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः॥ 14-77-29 (94634) तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः। मुमुचुस्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः॥ 14-77-30 (94635) तांस्तु सर्वान्नरव्याघ्रः सैन्धवान्व्यचरद्बली। अलातचक्रवद्राजञ्शरजालैः समार्पयत्॥ 14-77-31 (94636) तदिन्द्रजालप्रतिमं बाणजालममित्रहा। विसृज्य दिक्षु सर्वासु महेन्द्रि इव वज्रभृत्॥ 14-77-32 (94637) मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः। विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः॥ ॥ 14-77-33 (94638) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तसप्ततितमोऽध्यायः॥ 77 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-77-19 उत्काः शशं चन्द्रस्थं विनिर्भिद्य शशिनो मण्डलं प्रति अपतन्निति अनुवृत्त्या सम्बन्धः॥ 7-77-20 रासभारुणे वर्णविशेषः॥ 7-77-22 आवापो हस्तावापः॥
आश्वमेधिकपर्व - अध्याय 078

॥ श्रीः ॥

14.78. अध्यायः 078

Mahabharata - Ashvamedhika Parva - Chapter Topics

अर्जुनसमागमनश्रवणमात्रेण जयद्रथसुते मृते दुश्शलया तत्सुतमानीयार्जुनंप्रत्यभियानम्॥ 1 ॥ ततोऽर्जुनेन दुश्शलाप्रार्थनया तस्यां बहुमानेन च युद्धादुपरमः॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः। विबभौ युधि दुर्धर्षो हिमवानचलो यथा॥ 14-78-1 (94639) ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः। व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत॥ 14-78-2 (94640) तान्प्रहस्य महाबाहुः पुनरेव व्यवस्थितान्। ततः प्रोवाच कौन्तेयो मुमूर्षञ्श्लक्ष्णया गिरा॥ 14-78-3 (94641) युध्यध्वं परया शक्त्या यतध्वं विजये मम। कुरुध्वं सर्वकार्याणि महद्वो भयमागतम्॥ 14-78-4 (94642) एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम्। तिष्ठध्वं युद्धमनसो दर्पं शमयितास्मि वः॥ 14-78-5 (94643) एतावदुक्त्वा कौरव्यो रोषाद्गाण्डीवभृत्तदा। ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत॥ 14-78-6 (94644) न हन्तव्या रणे तात क्षत्रिया विजिगीषवः। जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना। चिन्तयामास स तदा फल्गुनः पुरुषर्षभः॥ 14-78-7 (94645) इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति। कथितं न मृषेदं स्याद्धर्मराजवचः शुभम्॥ 14-78-8 (94646) न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत्। इति सञ्चिन्त्य स तदा फल्गुनः पुरुषर्षभः॥ 14-78-9 (94647) प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान्। बालांस्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान्॥ 14-78-10 (94648) यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः। एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः॥ 14-78-11 (94649) ततोऽन्यथा कृच्छ्रगता भविष्यथ मयाऽर्दिताः। एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः॥ 14-78-12 (94650) अत्वरावानसम्भ्रान्तः संक्रुद्धैर्विजिगीषुभिः। शतं शतसहस्राणि शराणां नतपर्वणाम्॥ 14-78-13 (94651) मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि। शरानापततः क्रूरानाशीविषविषोपमान्। चिच्छेद निशितैर्बाणैरन्तरा स धनंजयः॥ 14-78-14 (94652) छित्त्वा तु तानाशु चैव कङ्कपत्राञ्शिलाशितान्। एकैकमेषां समरे बिभेद निशितैः शरैः॥ 14-78-15 (94653) ततः प्रास्रांश्च शक्तीस्च पुनरेव धनंजये। जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः॥ 14-78-16 (94654) तेषां किरीटी सङ्कल्पं मोघं चक्रे महाबलः। सर्वांस्तानन्तरा च्छित्त्वा तदा चुक्रोश पाण्डवः। तथैवापततां तेषां योधानां जयगृद्धिनाम्। 14-78-17 (94655) तथैवापततां तेषां योधानां यजगृद्धिनाम्। शिरांसि पातयामास भल्लैः सन्नतपर्वभिः॥ 14-78-18 (94656) तेषां प्रद्रवतां चापि पुनरेवाभिधावताम्। निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः॥ 14-78-19 (94657) ते वध्यमानास्तु तदा पार्थेनामिततेजसा। यथाप्राणं यथोत्साहं योधयामासुरर्जुनम्॥ 14-78-20 (94658) ततस्ते फल्गुनेनाजौ शरैः सन्नतपर्वभिः। कृता विसंज्ञा भूयिष्ठा क्लान्तवाहनसैनिकाः॥ 14-78-21 (94659) तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा। दुःशला बालमादाय नप्तारं प्रययौ तदा॥ 14-78-22 (94660) सुरथस्य सुतं वीरं रथेनाथागमत्तदा। शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम्॥ 14-78-23 (94661) सा धनंजयमासाद्य रुरोदार्तस्वरं तदा। धनंजयोपि तां दृष्ट्वा धनुर्विससृजे प्रभुः॥ 14-78-24 (94662) समुत्सृज्य धनुः पार्थो विधिवद्भगिनी तदा। प्राह किं करवाणीति सा च तं प्रत्युवाच ह॥ 14-78-25 (94663) एष ते भरतश्रेष्ठ स्वस्त्रीयस्यात्मजः शिशुः। अभिवादयते पार्थ तं पश्य पुरुषर्षभ॥ 14-78-26 (94664) इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा। क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत्॥ 14-78-27 (94665) पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता। पञ्चत्वमगमद्वीरो यथा तन्मे निशामय॥ 14-78-28 (94666) स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ। त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्। पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय॥ 14-78-29 (94667) प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ। विषादार्तः पपातोर्व्यां ममार च ममात्मजः॥ 14-78-30 (94668) तं दृष्ट्वा पतितं तत्र ततस्तस्यात्मजं प्रभो। गृहीत्वा समनुप्राप्ता त्वामद्य शरणैपिणी॥ 14-78-31 (94669) इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा। दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम्॥ 14-78-32 (94670) स्वसारं समवेक्षस्व स्वस्रीयात्मजमेव च। कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह। विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम्॥ 14-78-33 (94671) अभिमन्योर्यथा जातः परिक्षित्परवीरहा। तथाऽयं सुरथाज्जातो मम पौत्रो महाभुज॥ 14-78-34 (94672) तमादाय नरव्याघ्र सम्प्रप्तास्मि तवान्तिकम्। शमार्थं सर्वयोधानां शृणु चेदं वचो मम॥ 14-78-35 (94673) आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रकः। प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि॥ 14-78-36 (94674) एष प्रसाद्य शिरसा प्रशमार्थमरिंदम। याचते त्वां महाबाहो शमं गच्छ धनंजय॥ 14-78-37 (94675) बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः। प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः॥ 14-78-38 (94676) तमनार्थं नृशंसं च विस्मृत्यास्य पितामहम्। आगस्कारिणमत्यर्तं प्रसादं कर्तुमर्हसि॥ 14-78-39 (94677) एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः। संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम्। उवाच दुःखशोकार्तः क्षत्रधर्मं व्यगर्हयत्॥ 14-78-40 (94678) `धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम्।' यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम्॥ 14-78-41 (94679) इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः। परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति॥ 14-78-42 (94680) दुःशला चापि तान्योधान्निवार्य महतो रणात्। सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना॥ 14-78-43 (94681) एवं निर्जित्य तान्वीरान्सैन्धवान्स धनंजयः। अन्वधावत धावन्तं हयं कामविचारिणम्॥ 14-78-44 (94682) ततो मृगमिवाकाशे यथा देवः पिनाकधृक्। ससार तं तथा वीरो विधिवद्यज्ञियं हयम्॥ 14-78-45 (94683) स च वाजी यथेष्टेन तांस्तान्देशान्यथाक्रमम्। विचचार यथाकामं कर्म पार्थस्य वर्धयन्॥ 14-78-46 (94684) क्रमेण स हयस्त्वेवं विचरन्पुरुषर्षभ। मणलूरपतेर्देशमुपायात्सहपाण्डवः॥ ॥ 14-78-47 (94685) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टसप्ततितमोऽध्यायः॥ 78 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-78-47 भणिपूरपतेरिति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 079

॥ श्रीः ॥

14.79. अध्यायः 079

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

अर्जुनेन मणलूरपुरं प्रति गमनम्॥ 1 ॥ तथा पितृभक्त्या विनयेनागतं चित्राङ्गदायां जातं स्वात्मजं बभ्रुवाहनंप्रति क्षत्रधर्मपरित्यागजरोषादुपालम्भः॥ 2 ॥ तमसहमानया उलूप्या नागलोकादेत्य बभ्रुवाहनस्यार्जुनेन सह युद्धप्रोत्साहनम्॥ 3 ॥ बभ्रुवाहनेन स्वशरागाढाभिधातेन निपतिते पार्थे पितृमारणशोकेन मोहाधिगमः॥ 4 ॥ ततश्चित्राङ्गदया रणाङ्गणमेत्य बहुधा विलापः॥ 5 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः। निर्ययौ विनयेनाथ ब्राह्मणार्यपुरःसरः॥ 14-79-1 (94686) मणलूरेश्वरं त्वेवमुपयातं धनंजयः। नाभ्यनन्दत्स मेधावी क्षत्रधर्ममनुस्मरन्॥ 14-79-2 (94687) उवाच च स धर्मात्मा समन्युः फल्गुनस्तदा। प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः॥ 14-79-3 (94688) संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम्। यज्ञियं विषयान्ते मां नायोत्सीः किंनु पुत्रक॥ 14-79-4 (94689) धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम्। यो मां युद्धाय सम्प्राप्तं साम्नैव प्रत्यगृह्णथाः॥ 14-79-5 (94690) न त्वया पुरुषार्थो हि कश्चिदस्तीह जीवता। यस्त्वं स्त्रीवद्युधा प्राप्तं मां साम्ना प्रत्यगृह्णथाः॥ 14-79-6 (94691) यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते। प्रक्रियेयं भवेद्युक्ता तावतव नराधम॥ 14-79-7 (94692) तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा। अमृष्यमाणा भित्त्वोर्वीमुलूपी समुपागमत्॥ 14-79-8 (94693) सा ददर्श तत पुत्रं विमृशन्तमधोमुखम्। संतर्ज्यमानमसकृत्पित्रा युद्धार्थिना विभो॥ 14-79-9 (94694) ततः सा चारुसर्वाङ्गी समुपेत्योरगात्मजा। उलूपी प्राह वचनं क्षत्रधर्मविशारद॥ 14-79-10 (94695) उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम्। कुरुष्व वचनं पुत्र धर्मस्ते भविता परः॥ 14-79-11 (94696) युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिन्दमम्॥ एवमेष हि ते प्रीतो भविष्यति न संशयः॥ 14-79-12 (94697) एवमुद्धार्षितो राजा स मात्रा बभ्रुवाहनः। मनश्चक्रे महातेजा युद्धाय भरतर्षभ॥ 14-79-13 (94698) सन्नह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत्। तूणीरशतसंबाधमारुरोह रथोत्तमम्॥ 14-79-14 (94699) सर्वोपकरणोपेतं युक्तमश्वैर्मनोजवैः। सचक्रोपस्करं श्रीमान्हेमभाण्डपरिष्कृतम्॥ 14-79-15 (94700) परमार्चितमुच्छ्रित्य ध्वजं हंसं हिरण्मयम्। प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः॥ 14-79-16 (94701) ततोऽभ्योत्य हयं वीरो यज्ञियं पार्थरक्षितम्। ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः॥ 14-79-17 (94702) गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः। पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे॥ 14-79-18 (94703) स तत्र राजा तं वीरं शरसङ्घैरनेकशः। अर्दयामास निशितैराशीविषविषोपमैः॥ 14-79-19 (94704) तयोः समभवद्युद्धं पितुः पुत्रस्यक चातुलम्। देवासुररणप्रख्यमुभयोः प्रीयमाणयोः॥ 14-79-20 (94705) किरीटिनं प्रविव्याघ शरेणानतपर्वणा। जत्रुदेशे नरव्याघ्रं प्रहसन्बभ्रुवाहनः॥ 14-79-21 (94706) सोभ्यगात्सहपुङ्खेन वल्मीकमिव पन्नगः। विनिर्भद्य च कौन्तेयं प्रविवेशि महीतलम्॥ 14-79-22 (94707) स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम्। दिव्यं तेजः समाविश्य प्रमीत इव सोभवत्॥ 14-79-23 (94708) स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः। पुत्रं शक्रात्मजो वाक्यमिदमाह महाद्युतिः॥ 14-79-24 (94709) साधुसाधु महाबाहो वत्स चित्राङ्गदात्मज। सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक॥ 14-79-25 (94710) विमुञ्चाम्येष ते बाणान्पुत्र युद्धे स्थिरो भव। इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा॥ 14-79-26 (94711) तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान्। नाराचानच्छिनद्राज भल्लैः सर्वांस्त्रिधा द्विधा॥ 14-79-27 (94712) तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम्। सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात्॥ 14-79-28 (94713) हयांश्चास्य महाकायान्महावेगानरिंदम। चकार राजन्निर्जावान्प्रहसन्निव पाण्डवः॥ 14-79-29 (94714) स रथादवतीर्याथ राजा परमकोपनः। पदातिः पितरं क्रुद्धो योधयामास पाण्डवम्॥ 14-79-30 (94715) सम्प्रीयमाणः पार्थानामृषभः पुत्रविक्रमात्। नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः॥ 14-79-31 (94716) स हन्यमानोऽभिमुखं पितरं बभ्रुवाहनः। शरैराशीविषाकारैः पुनरेवार्दयद्बली॥ 14-79-32 (94717) ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा। निशेतेन सुपुङ्खेन बलवद्बभ्रुवाहनः॥ 14-79-33 (94718) स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः। विवेश पाण्डवं राजन्मर्म भित्त्वाऽतिदुःखकृत्॥ 14-79-34 (94719) स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः। महीं जगाम मोहार्तस्ततो राजन्धनंजयः॥ 14-79-35 (94720) तस्मिन्निपतिते वीरे कौरवाणां धुरंधरे। सोपि मोहं जगामाथ ततश्चित्राङ्गदासुतः।ष 14-79-36 (94721) व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम्। पूर्वमेव स बाणौर्घर्गाढविद्धोऽर्जुनेन ह। पपात सोपि धरणीमालिङ्ग्य रणमूर्धनि॥ 14-79-37 (94722) भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि। चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरे॥ 14-79-38 (94723) शोकसंतप्तहृदया रुदती वेपती भृशम्। 14-79-39 (94724) मणलूरपतेर्माता ददर्श निहतं पतिम्॥ ॥ 14-79-40 (94725) इति श्रीमन्महाभारते आश्वमेधकपर्वणि अनुगीतापर्वणि एकोनाशीतितमोऽध्यायः॥ 79 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-79-23 प्रमीतइव मृतइव॥ 7-79-25 पुत्रं प्रशस्येति संबन्धः॥ 7-79-39 पतिमर्जुनम्॥
आश्वमेधिकपर्व - अध्याय 080

॥ श्रीः ॥

14.80. अध्यायः 080

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

चित्राङ्गदया रणाङ्गणनिपतितपतिपुत्रदर्शनजशोकातिरेकेण मोहाधिगमः॥ 1 ॥ तथा संज्ञोपलम्भे उलूपींप्रत्युपालम्भ गर्भवचनम्॥ 2 ॥ ततश्चिराल्लुब्धसंज्ञेन बभ्रुवाहनेनात्मोपालम्भनपूर्वकं प्रायोपवेशनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। ततो बहुतरं भीरर्विलप्य कमलेक्षणा। मुमोह दुःखसंतप्ता पपात च महीतले॥ 14-80-1 (94726) प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा। उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत्॥ 14-80-2 (94727) उलूपि पश्य भर्तारं शयानं नितं रणे। त्वत्कृते मम पुत्रेण बाणेन समितिंजयम्॥ 14-80-3 (94728) ननु त्वमार्यधर्मज्ञा ननु चासि पतिव्रता। यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे॥ 14-80-4 (94729) किंनु मन्देऽपकराद्धोऽयं यदि तेऽद्य धनंजयः। क्षमस्व याच्यमाना वै जीवयस्व धनंजयम्॥ 14-80-5 (94730) ननु त्वमार्ये धर्मज्ञे त्रैलोक्यविदिता शुभे। यद्धातयित्वा पुत्रेण भर्तारं नानुशोचसि॥ 14-80-6 (94731) नाहं शोचामि तनयं हतं पन्नगनन्दिनि। पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम्॥ 14-80-7 (94732) इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम्। भर्तारमभिगम्येदमित्युवाच यशस्विनी॥ 14-80-8 (94733) उत्तिष्ठ कुरुमुख्यस्य प्रियमुख्य मम प्रिय। अयमश्वो महाबाहो मयो ते परिमोक्षितः॥ 14-80-9 (94734) ननु त्वया नाम विभो धर्मराजस्य यज्ञियः। अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले॥ 14-80-10 (94735) त्वयि प्राणा ममायत्ताः कुरूणां कुरुनन्दन। स कस्मात्प्राणदोऽन्येषां प्राणान्संत्यक्तवानसि॥ 14-80-11 (94736) उलूपि साधु पश्येमं पतिं निपतितं भुवि। पुत्रं चेमं समुत्साद्य घातयित्वा न शोचसि॥ 14-80-12 (94737) कामं स्वपितु बालोऽयं भूमौ मृत्युवशं गतः। लोहिताक्षो गुडाकेशो विजयः साधु जीवतु॥ 14-80-13 (94738) नापराधोऽस्ति सुभगे नराणां बहुभार्यता। प्रमदानां भवत्येष मा ते भूद्बुद्धिरीदृशी॥ 14-80-14 (94739) सख्यं चैतत्कृतं धात्रा शश्वदव्ययमेव तु। सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते॥ 14-80-15 (94740) पुत्रेम घातयित्वैनं पतिं यदि न मेऽद्य वै। जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम्॥ 14-80-16 (94741) साऽहं दुःखान्विता देवि पतिपुत्रविनाकृता। इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः॥ 14-80-17 (94742) इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी। ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप॥ 14-80-18 (94743) ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा। उपविष्टा भवद्दीना सोच्छ्वासं पुत्रमीक्षती॥ 14-80-19 (94744) ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः। मातरं तामथालोक्य रणभूमावथाब्रवीत्॥ 14-80-20 (94745) इतो दुःखतरं किंनु यन्मे माता सुखैधिता। भूमौ निपतितं वीरमनुशेते मृतं पतिम्॥ 14-80-21 (94746) निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्। मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत॥ 14-80-22 (94747) अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते। व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम्॥ 14-80-23 (94748) दुर्मरं पुरुषेणेह मन्ये काले ह्यनागते। यत्र नाहं न मे माता न वियुक्तौ स्वजीवितात्॥ 14-80-24 (94749) हाहा धिक्कुरुवीरस्य किरीटं काञ्चनं भुवि। अपविद्धं हतस्येह मया पुत्रेम पश्यत॥ 14-80-25 (94750) भोभो पश्यत मे वीरं पितरं ब्राह्मणा भुवि। शयानं वीरशयने मया पुत्रेण पातितम्॥ 14-80-26 (94751) ब्राह्मणाः कुरुमुख्यस्य ये मुक्ता हयसारिणः। कुर्वन्ति शान्तिं कामस्य रणे योऽयं मया हतः॥ 14-80-27 (94752) व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे। आनृशंसस्य पापस्य पितृहन्तू रणाजिरे॥ 14-80-28 (94753) दुश्चरा द्वादश समा हत्वा पितरमद्य वै। ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा॥ 14-80-29 (94754) शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे। प्रायश्चित्तं हि नास्त्यन्यद्धत्वाऽद्य पितरं मम॥ 14-80-30 (94755) पश्य नागोत्तमसुते भर्तारं निहतं मया। कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम्॥ 14-80-31 (94756) सोऽहमद्य गमिष्यामि गतिं पितृनिषेविताम्। न शक्नोम्यात्मनाऽऽत्मानमहं दारयितुं शुभे॥ 14-80-32 (94757) सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि। भव प्रीतिमती देवि सत्येनात्मानमालभे॥ 14-80-33 (94758) इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः। उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत्॥ 14-80-34 (94759) शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च। त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे॥ 14-80-35 (94760) यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः। अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम्॥ 14-80-36 (94761) नहि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्। नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः॥ 14-80-37 (94762) वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते। पितरं तु निहत्यैवं दुर्लभा निष्कृतिर्मम॥ 14-80-38 (94763) एत एको महातेजाः पाण्डुपुत्रो धनंजयः। पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः॥ 14-80-39 (94764) इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः। उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः॥ ॥ 14-80-40 (94765) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अशीतितमोऽध्यायः॥ 80 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-80-27 कामस्यति कां अस्येति च्छेदः॥
आश्वमेधिकपर्व - अध्याय 081

॥ श्रीः ॥

14.81. अध्यायः 081

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

बभ्रुवाहने प्रायोपविष्टे उलूप्या स्मरणमात्रसंनिहितसंजीवनमणिनार्जुनस्य समुद्धोधनम्॥ 1 ॥ ततः सुप्तोत्थितेनेव तेन बभ्रुवाहनंप्रति चित्राङ्गदादीनां रणाङ्गणागमने कारणप्रश्ने तेनोलूपींप्रति प्रश्नचोदना॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। प्रायोपविष्टे नृपतौ मणलूरेश्वरे तदा। पितृशोकसमाविष्टे सह मात्रा परंतप॥ 14-81-1 (94766) उलूपी चिन्तयामास तदा संजीवनं मणिम्। स चोपातिष्ठत तदा पन्नगानां परायणम्॥ 14-81-2 (94767) तं गृहीत्वा तु कौरव्य नागराजपतेः सुता। मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत्॥ 14-81-3 (94768) उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया हतः। अजेयः पुरुषैरेष तथा देवैः सवासवैः॥ 14-81-4 (94769) मया तु मोहनी नाम मायैषा सम्प्रदर्शिता। प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः॥ 14-81-5 (94770) जिज्ञासुर्ह्येष पुत्रस्य बलस्य तव कौरव। सङ्ग्रामे युद्ध्यतो राजन्नागतः परवीरहा॥ 14-81-6 (94771) तस्मादसि मया पुत्र युद्धाय परिचोदितः। मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो॥ 14-81-7 (94772) ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः। नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक॥ 14-81-8 (94773) अयं तु मे मणिर्दिव्यः समानीतो विशांपते। मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा॥ 14-81-9 (94774) एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो। संजीवितं तदा पार्थं स त्वं द्रष्टासि पाण्डवम्॥ 14-81-10 (94775) इत्युक्तः स्थापयामास तस्योरसि मणिं तदा। पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्॥ 14-81-11 (94776) तस्मिन्न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः। चिरसुप्त हवोत्तस्थौ मृष्टलोहितलोचनः॥ 14-81-12 (94777) तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम्। समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः॥ 14-81-13 (94778) उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो। दिव्याः सुमनसः पुण्या ववृषे पाकशासनः॥ 14-81-14 (94779) अनाहता दुन्दुभयो विनेदुर्मघनिःस्वनाः। साधुसाध्विति चाकाशे बभूव सुमहान्स्वनः॥ 14-81-15 (94780) उत्थाय च महाबाहुः पर्याश्वस्तो धनंजयः॥ बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि॥ 14-81-16 (94781) ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम्। उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः॥ 14-81-17 (94782) किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत्। रणाजिरममित्रघ्न यदि जानासि शंस मे॥ 14-81-18 (94783) जननी च किमर्थं ते रणभूमिमुपागता। नागेन्द्रदुहिता चेयमुलूपी किमिहागता॥ 14-81-19 (94784) जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम्। स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्॥ 14-81-20 (94785) तमुवाच तथा पृष्टो मणलूरपतिस्तदा। प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति॥ ॥ 14-81-21 (94786) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकाशीतितमोऽध्यायः॥ 81 ॥
आश्वमेधिकपर्व - अध्याय 082

॥ श्रीः ॥

14.82. अध्यायः 082

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

उलूप्यार्जुनंप्रति चित्राङ्गदादीनां समराङ्गणागमने कारणाभिधानम्॥ 1 ॥ तथा बभ्रुवाहनेन तस्य पराजये विस्तरेण हेतुकथनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

अर्जुन उवाच। किमागमनकृत्यं ते कौरव्यकुलनन्दिनि। मणलूरपतेर्मातुस्तथैव च रणाजिरे॥ 14-82-1 (94787) कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे। मम वा चपलापाङ्गि कच्चित्वं शुभमिच्छसि॥ 14-82-2 (94788) कच्चित्ते पृथुलश्रोणि नाप्रियं प्रियदर्शने। अकार्षमहमज्ञानादयं वा बभ्रुवाहनः॥ 14-82-3 (94789) कच्चिन्नु राजपूत्री ते सपत्नी चैत्रवाहनी। चित्राङ्गदा वरारोहा नापराध्यति किञ्चन॥ 14-82-4 (94790) तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ। न मे त्वमपराद्धोसि न हि मे बभ्रुवाहनः। न जनित्री तथाऽस्येयं मम यो प्रेष्यवत्थिता॥ 14-82-5 (94791) श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम्। न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये॥ 14-82-6 (94792) त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मया विभो। यत्तच्छृणु महाबाहो निखिलेन धनंजय॥ 14-82-7 (94793) महाभारतयुद्धे यत्त्वया शान्तनवो नृपः। अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता॥ 14-82-8 (94794) न हि भीष्मस्त्वया वीर युद्ध्यमानो हि पातितः। शिखण्डिना तु संयुक्तस्तमाश्रित्य हतस्त्वया॥ 14-82-9 (94795) तस्य शान्तिमकृत्वा त्वं त्यजेथा यदि जीवितम्। कर्मणा तेन पापेन पतेथा निरये ध्रुवम्। एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि॥ 14-82-10 (94796) वसुभिर्वसुधापाल गङ्गया च महामते। पुरा हि श्रुतमेतत्ते वसुभिः कथितं मया॥ 14-82-11 (94797) गङ्गायास्तीरमाश्रित्य हते शान्तनवे नृप। आप्लुत्य देवा वसवः समेत्य च महानदीम्। इदमूचुर्वचो घोरं भागीरथ्या मते तदा॥ 14-82-12 (94798) एष शान्तनवो भीष्मो निहतः सव्यसाचिना। अयुद्ध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि॥ 14-82-13 (94799) तदनेनानुषङ्गेण वयमद्य धनञ्जयम्। शापेन योजयामेति तथाऽस्त्विति च साऽब्रवीत्॥ 14-82-14 (94800) तदहं पितुरावेद्य प्रविश्य व्यथितेन्द्रिया। अभवं स च तच्छ्रुत्वा विषादमगमत्परम्॥ 14-82-15 (94801) पिता तु मे वसून्गत्वा त्वदर्थे समयाचत। पुनः पुनः प्रसाद्यैतांस्त एनमिदमब्रुवन्॥ 14-82-16 (94802) पुत्रस्तस्य महाभाग मणलूरेश्वरो युवा। स एनं रणमध्यस्थः शरैः पातयिता भुवि॥ 14-82-17 (94803) एवं कृते स नागेन्द्र मुक्तशापो भविष्यति। गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः॥ 14-82-18 (94804) तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः। न हि त्वां देवराजोऽपि समरेषु पराजयेत्॥ 14-82-19 (94805) आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः। न हि दोषो मम मतः कथं वा मन्यसे विभो॥ 14-82-20 (94806) इत्येवमुक्तो विजयः प्रसन्नात्माऽब्रवीदिदम्। सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि॥ 14-82-21 (94807) इत्युक्त्वा सोऽब्रवीत्पुत्रं मणलूरपतिं जयः। चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तदा॥ 14-82-22 (94808) युधिष्ठिरस्याश्वमेधः परिचैत्रीं भविष्यति। तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप॥ 14-82-23 (94809) इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः। उवाच पितरं धीमानिदमस्राविलेक्षणः॥ 14-82-24 (94810) उपयास्यामि धर्मज्ञ भवतः सासनादहम्। अश्वमेधे महायज्ञे द्विजातिपरिवेषकः॥ 14-82-25 (94811) मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम्। भार्याभ्यां सह धर्मज्ञ माभूत्तेऽत्र विचारणा॥ 14-82-26 (94812) उषित्वेह निशामेकां सुखं स्वभवने प्रभो। पुनरश्वानुगमनं कर्तासि जयतांवर॥ 14-82-27 (94813) इत्युक्ताः स तु प्रत्रेण तदा वानरकेतनः। स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम्॥ 14-82-28 (94814) विदितं ते महाबाहो यथा दीक्षां चराम्यहम्। न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन॥ 14-82-29 (94815) यथाकामं व्रजत्येष यज्ञियाश्वो नरर्षभ। स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम॥ 14-82-30 (94816) वैशम्पायन उवाच। 14-82-31x (7922) स तत्र विधिवत्तेन पूजितः पाकशासनिः। 14-82-31 (94817) भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः॥ ॥ 14-82-32 (94818) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्व्यशीतितमोऽध्यायः॥ 82 ॥
आश्वमेधिकपर्व - अध्याय 083

॥ श्रीः ॥

14.83. अध्यायः 083

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

अर्जुनेनास्वानुसरणवशान्मगधदेशगमनम्॥ 1 ॥ तत्र जरासंधपौत्रस्य मेघसंधेः पराजयपूर्वकं तत्रतत्र म्लेच्छादिपराजयः॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम्। निवृत्तोऽभिमुखो राजन्येन वारणसाह्वयम्॥ 14-83-1 (94819) अनुगच्छंश्च तुरगं निवृत्तोऽथ किरीटभृत्। यदृच्छया समापेदे पुरं राजगृहं तदा॥ 14-83-2 (94820) तमभ्याशगतं दृष्ट्वा सहदेवात्मजः प्रभो। क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह॥ 14-83-3 (94821) ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली। मेघसन्धिः पदातिं तं धनंजयमुपाद्रवत्॥ 14-83-4 (94822) आसाद्य च महातेजा मेघसन्धिर्धनंजयम्। बालभावान्महाराज प्रोवाचेदं न कौशलात्॥ 14-83-5 (94823) किमयं चार्यते वाजी स्इत्रीमध्य इव भारत। हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे॥ 14-83-6 (94824) अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम। करिष्यामि तवातिथ्यं प्रहर प्रहरामि च॥ 14-83-7 (94825) इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः। विघ्नकर्ता मया वार्य इति मे व्रतमाहितम्॥ 14-83-8 (94826) भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम्। प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम॥ 14-83-9 (94827) इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेस्वरः। किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक्॥ 14-83-10 (94828) ततो गाण्डीवभृच्छूरो गाण्डीवप्रहितैः शरैः। चकार मोघांस्तान्बाणान्सयत्नान्भरतर्षभ॥ 14-83-11 (94829) स मोघं तस्य बाणौघं कृत्वा वानरकेतनः। शरात्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान्॥ 14-83-12 (94830) ध्वजे पताकादण्डेषु रथे यन्त्रे हयेषु च। अन्येषु च रथाङ्गेषु न शरीरे न सारथौ॥ 14-83-13 (94831) संरक्ष्यमाणः पार्थेन शरीरे सव्यसाचिना। मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान्॥ 14-83-14 (94832) ततो गाण्डीवधन्वा तु मागधेन भृशाहतः। बभौ वसन्तसमये पलासः पुष्पितो यथा॥ 14-83-15 (94833) अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम्। तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने॥ 14-83-16 (94834) सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः। हयांश्चकार निर्जीवान्सारथेश्च शिरोऽहरत्॥ 14-83-17 (94835) धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह। हस्तावापं पताकां च ध्वजं चास्यन्यपातयत्॥ 14-83-18 (94836) स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः। गदामादाय कौन्तेयमभिद्रद्राव वेगवान्॥ 14-83-19 (94837) तस्यापतत एवाशु गदां हेमपरिष्कृताम्। शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः॥ 14-83-20 (94838) सा गदा शकलीभूता विशीर्णिमणिबन्धना। व्याली विमुच्यमानेन पपात धरणीतले॥ 14-83-21 (94839) विरथं विधनुष्कं च गदया परिवर्जितम्। `नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः॥ 14-83-22 (94840) तत एनं विमनसं क्षत्रधर्मे व्यवस्थितम्॥' सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः॥ 14-83-23 (94841) पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम्। बह्वेतत्समरे कर्म तव बालस्य पार्थिव॥ 14-83-24 (94842) युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति। तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे॥ 14-83-25 (94843) इति मत्वा तदाऽऽत्मानं प्रत्यादिष्टं स्म मागधः। तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत्॥ 14-83-26 (94844) परिजितोस्मि भद्रं ते नाहं योद्धुमिहोत्सहे। यद्यत्कृत्यं मया तेऽद्य तद्ब्रूहि कृतमेव तु॥ 14-83-27 (94845) तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत्। आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः॥ 14-83-28 (94846) इत्युक्तः स तथेत्युक्त्वा पूजयमास तं हयम्। फल्गुनं च युधिश्रेष्ठं विदिवत्सहदेवजः॥ 14-83-29 (94847) ततो यथेष्टमगमत्पुनरेव स कौरवः। ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान्॥ 14-83-30 (94848) तत्रतत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः। विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः॥ ॥ 14-83-31 (94849) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्र्यशीतितमोऽध्यायः॥ 83 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-83-7 अदत्तानुनयः अशिक्षितः॥ 7-83-20 गृध्रवाजितैः गृध्रपक्षयुतैः॥
आश्वमेधिकपर्व - अध्याय 084

॥ श्रीः ॥

14.84. अध्यायः 084

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

दक्षिणां दिशमुपागतेनार्जुनेन चेदीशितुः शिशुपालात्मजस्य पूजापरिग्रहणम्॥ 1 ॥ तथा काशिकोसलादिदेशाधिपतिपराजयपूर्वकं गान्धारदेशगमनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः। दक्षिणां दिशमास्थाय चारयामास तं हयम्॥ 14-84-1 (94850) ततः स पुनरावर्त्य हयः कामचरो बली। आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम्॥ 14-84-2 (94851) शरभेणार्चितस्तत्र शिशुपालसुतेन सः। युद्धपूर्वं तदा तेन पूजया च महाबलः॥ 14-84-3 (94852) ततोऽर्चितो ययौ राजंस्तदा स तुरगोत्तमः। काशीनङ्गान्कोसलांश्च किरातानाथ तङ्गणात्॥ 14-84-4 (94853) पूजां तत्र यथान्यायं प्रतिगृह्य धनंजयः। पुनरावृत्त्य कौन्तेयो दशार्णानगमत्तदा॥ 14-84-5 (94854) तत्र चित्राङ्गदो नाम बलवानरिमर्दनः। तेन युद्धमभूत्तस्य विजयस्यातिभैरवम्॥ 14-84-6 (94855) तं चापि वशमानीय किरीटी पुरुषर्षभः। निषादराज्ञो विषयमेकलव्यस्य जग्मिवान्॥ 14-84-7 (94856) एकलव्यसुतश्चैनं युद्धेनि जगृहे तदा। तत्र चक्रे निषादैः स सग्रामं रोमहर्षणम्॥ 14-84-8 (94857) ततस्तमपि कौन्तेयः समरेष्वपराजितः॥ जिगाय युधि दुर्धर्षो यज्ञविघ्नार्थमागतम्॥ 14-84-9 (94858) स तं जित्वा महाराज नैषादिं पाकशासनिः। अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम्॥ 14-84-10 (94859) तत्रापि द्रवीडैरान्ध्रै रौद्रैर्माहिषकैरपि। तथा कोल्लगिरेयैश्च युद्धमासीन्किरीटिनः॥ 14-84-11 (94860) तांश्चापि विजयो जित्वा नातितीव्रेण कर्मणा। तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ। गोकर्णमथ चासाद्य प्रभासमपि जग्मिवान्॥ 14-84-12 (94861) ततो द्वारवतीं रम्यां वृष्णिवीराभिपालिताम्। आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः॥ 14-84-13 (94862) तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः। प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत्॥ 14-84-14 (94863) ततः पुराद्विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा। सहितो वासुदेवेन मातुलेन किरीटिनः॥ 14-84-15 (94864) तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम्। परया भारतश्रेष्ठं पूजया समवस्थितौ। ततस्ताभ्यामनुज्ञातो यतयौ येन हयो गतः॥ 14-84-16 (94865) ततः स पश्चिमं देशं समुद्रस्य तदा हयः। क्रमेणि व्यचरत्स्फीतं ततः पञ्चनदं ययौ॥ 14-84-17 (94866) तस्मादपि स कौरव्य गन्धारविषयं हयः। विचचार यथाकामं कौन्तेयानुगतस्तदा॥ 14-84-18 (94867) ततो गान्धारराजेन युद्धमासीत्किरीटिनः। घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा॥ ॥ 14-84-19 (94868) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुरशीतितमोऽध्यायः॥ 84 ॥
आश्वमेधिकपर्व - अध्याय 085

॥ श्रीः ॥

14.85. अध्यायः 085

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

अर्जुनेन शकुनितनयपराजयपूर्वकं तत्सेनावमर्दनम्॥ 1 ॥ ततः शकुनिभार्यया तेन स्वसुतवधसंभावनया रणाङ्गणमेत्यार्जुनस्य प्रसादनम्॥ 2 ॥ अर्जुनेन गान्धारीगौरवात्तत्संमाननपूर्वकं तत्तनयसमाश्वासनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। शकुनस्तनयो वीरो गान्धाराणां महारथः। प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः। हस्त्यश्वरथयुक्तेन पताकाध्वजमालिना॥ 14-85-1 (94869) अमृष्यमाणास्ते योधा नृपस्य शकुनेर्वधम्। अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः॥ 14-85-2 (94870) स तानुवाच धर्मात्मा बीभत्सुरपराजितः। युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम्॥ 14-85-3 (94871) वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः। परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः॥ 14-85-4 (94872) ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः। क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः॥ 14-85-5 (94873) ते वध्यमानाः पार्थेनि हयमुत्सृज्य संप्रमात्। न्यवर्तन्त महाराज शरवर्षार्दिता भृशम्॥ 14-85-6 (94874) वितुद्यमानस्तैश्चापि गान्धारैः पाण्डुनन्दनः। आदिस्यादिश्य तेजस्वी परानेतानवारयत्॥ 14-85-7 (94875) वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः। स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत्॥ 14-85-8 (94876) तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम्। पार्थोऽब्रवीन्न मे वध्या राजानो राजसासनात्॥ 14-85-9 (94877) अलं युद्धेन ते वीर न तेऽस्त्वद्य पराजयः। इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः। स शक्रसमकर्माणं समावाकिरदाशुगैः॥ 14-85-10 (94878) तस्य् पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा। अपाहरदमेयात्मा जयद्रथशिरो यथा॥ 14-85-11 (94879) तं दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते। इच्छता तेन न हतो राजेत्यपि च ते विदुः॥ 14-85-12 (94880) गान्धारराजपुत्रस्तु पलायनकृतक्षणः। ययौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव। 14-85-13 (94881) तेषां तु तरसा पार्थस्तत्रैव परिदावताम्। प्रजहारोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः॥ 14-85-14 (94882) उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान्। शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः॥ 14-85-15 (94883) सम्भ्रान्तनरनागाश्वमपतद्विद्रुतं बलम्। हतविद्रुतभूयिष्ठमावर्तत मुहुर्मुहुः॥ 14-85-16 (94884) नाभ्यदृस्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः। रिपवः पात्यमाना वै ये सहेरन्महाशरान्॥ 14-85-17 (94885) ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा। जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम्॥ 14-85-18 (94886) सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम्। प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम्॥ 14-85-19 (94887) तां पूजयित्वा बीभत्सुः प्रसादमकरोत्प्रभुः। शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत्॥ 14-85-20 (94888) न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता। प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ॥ 14-85-21 (94889) गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च। तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव॥ 14-85-22 (94890) मैवं भूः शाम्यतां वैरं मा तेऽभूद्बुद्धिरीदृशी आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः॥ 14-85-23 (94891) इत्युक्त्वाऽनुययौ पार्थो हयं तं कामचारिणम्। ते न्यवर्तन्त गान्धारा हतशिष्टाः स्वकं पुरम्॥ ॥ 14-85-24 (94892) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चाशीतितमोऽध्यायः॥ 85 ॥
आश्वमेधिकपर्व - अध्याय 086

॥ श्रीः ॥

14.86. अध्यायः 086

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

चारमुखादर्जुनस्य तुरगसंचारणात्पुनर्नगरं प्रत्यागमनश्रवणहृष्टस्य युधिष्ठिरस्य निदेशाद्भीमेन यज्ञशालादिनिर्मापणम्॥ 1 ॥ तथा नानादेशेभ्यो ब्राह्मणाद्यानयनपूर्वकं तेषामन्नदानादिव्यवस्थाकरणम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। न्यवर्तत ततो वाजी येन नागाह्वयं पुरम्। तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः। श्रुत्वाऽर्जुनं कुशलिनं स च हृष्टमनाऽभवत्॥ 14-86-1 (94893) विजयस्य च तत्कर्म गान्धारविषये तदा। श्रुत्वा चान्येषु देशेषु स सुप्रीतोऽभवत्तदा॥ 14-86-2 (94894) एतस्मिन्नेव काले तु द्वादशीं माघमासिकीम्। इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः॥ 14-86-3 (94895) समानीय महातेजाः सर्वान्भ्रातॄन्महीपतिः। भीमं च नकुलं चैव सहदेवं च कौरव॥ 14-86-4 (94896) प्रोवाचेदं वचः काले तदा धर्मभृतांवरः। आमन्त्र्य वदतां श्रेष्ठो भीमं प्रहरतां वरम्॥ 14-86-5 (94897) आयाति भीमसेनासौ सहाश्वेन तवानुजः। यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः॥ 14-86-6 (94898) उपस्थितश्च कालोऽयमभितो वर्तते हयः। माघी च पौर्णमासीयं मासः शेषो वृकोदर॥ 14-86-7 (94899) तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः। वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम्॥ 14-86-8 (94900) इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम्। हृष्टः श्रुत्वा गुडोकेशमायान्तं पुरुषर्षभम्॥ 14-86-9 (94901) ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह। ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि॥ 14-86-10 (94902) तं ससालचयं श्रीमत्सप्रतोलीसुघट्टितम्। मापयामास कौरव्यो यज्ञवाटं यताविधि॥ 14-86-11 (94903) प्रासादशतसम्बन्धं मणिप्रवरकुट्टिमम्। `सदः स पत्नीसदनं साग्नीध्रमपि चोत्तरम्।' कारयामास विदिवद्धेमरत्नविभूषितम्॥ 14-86-12 (94904) स्तंभान्कनकचित्रांश्च तोरणानि बृहन्ति च। यज्ञायतनदेशेशु दत्त्वा शुद्धं च काञ्चनम्॥ 14-86-13 (94905) अन्तःपुराणां राज्ञां च नानादेशसमीयुषाम्। कारयामास धर्मात्मा तत्रतत्र यथाविधि॥ 14-86-14 (94906) ब्राह्मणानां न वेश्मानि नानादेशसमीयुषाम्। कारयामास कौन्तेयो विधिवत्तान्यनेकशः॥ 14-86-15 (94907) तथा सम्प्रेषयामास दूतान्नृपतिशासनात्। भीमसेनो महाबाहो राज्ञामक्लिष्टकर्मणाम्॥ 14-86-16 (94908) ते प्रियार्थं कुरुपतेराययुर्नृपसत्तम। रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च॥ 14-86-17 (94909) तेषां निर्विशतां तेषु शिबिरेषु महात्मनाम्। नर्दतः सागरस्येव दिवस्पृगभवत्स्वनः॥ 14-86-18 (94910) `प्रत्युद्गम्य नमस्कृत्य ब्राह्मणांश्च न्यवेदयत्॥' 14-86-19 (94911) तेषामभ्यागतानां च स राजा कुरुवर्धनः। व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः॥ 14-86-20 (94912) वाहनानां च विविधाः शालाः शालीक्षुगोरसैः। उपेता भरतश्रेष्ठो व्यादिदेश स धर्मराट्॥ 14-86-21 (94913) `वर्णाः पृथक्सन्निविष्टा ह्युत्तरोत्तरपूजिताः'। तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः। समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः॥ 14-86-22 (94914) ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते। समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः॥ 14-86-23 (94915) सर्वांश्च ताननुययौ यावदावसथान्प्रति। स्वयमेव महातेजा दंभं त्यक्त्वा युधिष्ठिरः॥ 14-86-24 (94916) ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा। कृत्स्नं यज्ञविधिं राजन्धर्मराजे न्यवेदयन॥ 14-86-25 (94917) तच्छ्रुत्वा धर्मराजस्तु कृतं सर्वमतन्द्रितः। हृष्टरूपोऽभवद्राजन्सह भ्रातृभिरादृतः॥ 14-86-26 (94918) तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः। हेतुवादान्बहूनाहुः परस्परजिगीषवः॥ 14-86-27 (94919) ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्। देवेन्द्रस्येव विहितं भीमसेनेन भारत॥ 14-86-28 (94920) ददृशुस्तोरणान्यत्र शातकुंभमयानि ते। शय्यासनविहारांश्च सुबहून्रत्नसंचयान्॥ 14-86-29 (94921) घटान्पात्रीः कटाहानि कलशान्वर्धमानकान्। न हि किञ्चिदसौवर्णमपश्यन्वसुधाधिपाः॥ 14-86-30 (94922) यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान्। उपक्लृप्तान्यथाकालं विधिवद्भूरिवर्चसः॥ 14-86-31 (94923) स्थलजाक जलजा ये च पशवः केचन प्रभो। सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः॥ 14-86-32 (94924) गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोपि च। औदकानि च सत्वानि श्वापदानि वयांसि च॥ 14-86-33 (94925) जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च। पर्वतानूपजातानि भूतानि ददृशुश्च ते॥ 14-86-34 (94926) एवं प्रमुदितं सर्वं पशुगोधनधान्यतः। यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागताः॥ 14-86-35 (94927) `अनिशं दीयते च स्म तत्र भोज्यं पृथग्विधम्॥' ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत्॥ 14-86-36 (94928) पूर्णे शतसहस्रे तु विप्राणां तत्रि भुञ्जताम्। दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत। विननादासकृच्चापि दिवसेदिवसे गते॥ 14-86-37 (94929) एवं स ववृते यज्ञो धर्मराजस्य धीमतः। अन्नस्य सुबहून्राजन्नुत्सर्गान्पर्वतोपमान्। दधिकुल्याशअच ददृशुः सर्पिषश्च ह्रदाञ्जनाः॥ 14-86-38 (94930) जंबूद्वीपो हि सकलो नानजनपदायुतः। राजन्नदृस्यतैकस्थो राज्ञस्तस्य महामखे॥ 14-86-39 (94931) तत्र जातिसहस्राणि पुरुषाणां ततस्ततः। गृहीत्वा धमाजग्मुर्बहूनि भरतर्षभ॥ 14-86-40 (94932) स्रग्विणश्तापि ते सर्वे सुमुष्टमणिकुण्डलाः। पर्यवेषन्द्विजातींस्ताञ्शतशोऽथ सहस्रशः॥ 14-86-41 (94933) विविधान्यन्नपानानि पुरुषा येऽनुयायिनः। ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह॥ ॥ 14-86-42 (94934) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षडशीतितमोऽध्यायः॥ 86 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-86-3 इष्टं नक्षत्रं पुष्यम्॥ 7-86-8 प्रस्थाप्यन्तु प्रस्थापयन्तु। स्वार्थे णिच्। प्रतिष्ठन्त्वित्यर्थः॥
आश्वमेधिकपर्व - अध्याय 087

॥ श्रीः ॥

14.87. अध्यायः 087

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन बलरामादिभिः सह युधिष्ठिराश्वमेधाय हास्तिनपुरंप्रत्यागमनम्॥ 1 ॥ तथा युधिष्ठिरंप्रति नानादेशेभ्य आगमिष्यतां राज्ञामप्रमादेन यथोचितपूजाया मणलूरादागमिष्यतो बभ्रुवाहनस्य संमाननस्य च कर्तव्यताप्रतिपादकार्जुनसंदेशनिवेदनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान्। दृष्ट्वा युधिष्ठिरो राजा भीमसेनमभाषत॥ 14-87-1 (94935) उपयाता नरव्याघ्रा य एते पृथिवीश्वराः। एतेषां क्रियतां पूजा पूजार्हा हि नराधिपाः॥ 14-87-2 (94936) इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना। भीमसेनो महातेजा यमाभ्यां सह पाण्डवः॥ 14-87-3 (94937) अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम्। बलदेवं पुरस्कृत्य सर्वप्राणभूतां वरः॥ 14-87-4 (94938) युयुधानेन सहितः प्रद्युम्नेन गदेन च। निशठेनाथ सांबेन तथैव कृतवर्मणा॥ 14-87-5 (94939) तेषामपि परां पूजां चक्रे भीमो महारथः। विविशुस्ते च वेश्मानि रत्नवन्ति च सर्वशः॥ 14-87-6 (94940) युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः। अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम्॥ 14-87-7 (94941) स तं प्रपच्छ कौन्तेयः पुनःपुनररिंदमम्। धर्मजः शक्रजं जिष्णुं समाचष्ट जगत्पतिः॥ 14-87-8 (94942) आगमद्द्वारकावासी समाप्तः पुरुषो नृप। योऽद्राक्षीत्पाण्डवश्रेष्ठ बहुसङ्ग्रामकर्शितम्॥ 14-87-9 (94943) समीपे च महाबाहुमाचष्ट च मम प्रभो। कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये॥ 14-87-10 (94944) इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः। दिष्ट्या स कुशली जिष्णुरुपायाति च माधव॥ 14-87-11 (94945) यदिदं संदिदेशास्मिन्पाण्डवानां बलाग्रणीः। तदाख्यातमिहेच्छामि भवता यदुनन्दन॥ 14-87-12 (94946) इत्युक्तो धर्मराजेन वृष्ण्यन्धकपतिस्तदा। प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम्॥ 14-87-13 (94947) इदमाह महाराज पार्थवाक्यं नरेश्वरः। वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम॥ 14-87-14 (94948) आगमिष्यन्ति राजानः सर्वे वै कौरवर्षभ। प्राप्तानां महतां पूजा कार्या ह्येतत्क्षमं हि नः॥ 14-87-15 (94949) इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद। तथा चात्ययिकं न स्याद्यदर्घाहरणेऽभवत्॥ 14-87-16 (94950) कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम्। राजद्वेषान्न नश्येयुरिमा राजन्पुनः प्रजाः॥ 14-87-17 (94951) इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत्। धनंजयस्य नृपते तन्मे निगदतः शृणु॥ 14-87-18 (94952) उपयास्यति यज्ञं नो मणलूरपतिर्नृपः। पुत्रो मम महातेजा दयितो बभ्रुवाहनः॥ 14-87-19 (94953) तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत्। स तु भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो॥ 14-87-20 (94954) इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः। अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत्॥ ॥ 14-87-21 (94955) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्ताशीतितमोऽध्यायः॥ 87 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-87-7 भोजराजन्यानां वर्धनः॥ 7-87-8 जानुनोरधस्थः पश्चाद्भागीयो मांसलः प्रदेशः पिण्डिका। ते उभे अस्याधिके स्वदेशादधोभागपर्यन्तं बहुलमालम्बमाने॥
आश्वमेधिकपर्व - अध्याय 088

॥ श्रीः ॥

14.88. अध्यायः 088

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

युधिष्ठिरेणि पाण्डवेषु चतुर्भ्योऽर्जुनस्यैव विशेषतोऽध्वसंचारादिपरिक्लेशसूचकशारीरालक्षणप्रश्ने कृष्णेन तंप्रति तत्कथनम्॥ 1 ॥ मेध्याश्वस्य पृथ्वीसंचारणाय गतेनार्जुनेन सहाश्वेन पुनर्नगरं प्रत्यागमनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम्। तन्मेऽमृतरसं पुण्यं मनो ह्लादयति प्रभो॥ 14-88-1 (94956) बहूनि किल युद्धानि विजयस्य नराधिपैः। पुनरासन्हृषीकेश तत्रतत्रेति न श्रुतम्॥ 14-88-2 (94957) किंनिमित्तं स नित्यं हि पार्थः सुखविवर्जितः। अतीव विजयो धीमानिति मे दूयते मनः॥ 14-88-3 (94958) संचिन्तयामि कौन्तेयं रहो जिष्णुं जनार्दन। अतीव दुःखभागी स सततं पाण्डुनन्दनः॥ 14-88-4 (94959) किंनु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते। अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते॥ 14-88-5 (94960) अतीवासुखभोगी स सततं कुन्तिनन्दनः। न हि पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन। श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि॥ 14-88-6 (94961) इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम्। राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत्॥ 14-88-7 (94962) न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये। ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः॥ 14-88-8 (94963) स ताभ्यां पुरुषव्याघ्रो नित्यमध्वसु वर्तते। न चान्यदनुपश्यामि येनासौ दुःखभाजनम्॥ 14-88-9 (94964) इत्युक्तः पुरुषश्रेष्ठस्तदा कृष्णेन धीमता। प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो॥ 14-88-10 (94965) कृष्णा तु द्रौप्दी कृष्णं तिर्यक्सासूयमैक्षत प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा। प्रख्युः सखा हृषीकेशः साक्षादिव धनंजयः॥ 14-88-11 (94966) तत्र भीमादयस्ते तु करवो याजकाश्च ये। रेमुः श्रुत्वा विचित्रां तां धनंजयकथां शुभाम्॥ 14-88-12 (94967) तेषां कथयतामेव पुरुषोऽर्जुनसंकथाः। उपायाद्वचनाद्दूतो विजयस्य महात्मनः॥ 14-88-13 (94968) सोभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान्। उपायातं नरव्याघ्रं फल्गुनं प्रत्यवेदयत्॥ 14-88-14 (94969) तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः। प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा॥ 14-88-15 (94970) ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत। आगच्छति नरव्याघ्रे कौरवाणां धुरंधरे॥ 14-88-16 (94971) ततो रेणुः समुद्भुतो विबभौ तस्य वाजिनः। अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा॥ 14-88-17 (94972) तत्र हर्षकरीर्वाचो नराणां शुश्रुवेऽर्जुनः। दिष्ट्याऽसि पार्थ कुशली धन्यो राजा युधिष्ठिरः॥ 14-88-18 (94973) कोन्योहि पृथिवीं कृत्स्नां जित्वाहि युधि पार्थिवान् चारयित्वा हयश्रेष्ठमुपागच्छेदृतेऽर्जुनात्॥ 14-88-19 (94974) ये व्यतीता महात्मानो राजानः सगरादयः। तेषामपीदृशं कर्म न कदाचन शुश्रुम॥ 14-88-20 (94975) नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः। यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि॥ 14-88-21 (94976) इत्येवं वदतां तेषां पुंसां कर्णसुखा गिरः। शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम्॥ 14-88-22 (94977) ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः। धृतराष्ट्रं पुरस्कृत्य तं प्रत्युद्ययतुस्तदा॥ 14-88-23 (94978) सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः। भीमादींश्चापि संपूज्य पर्यष्वजत केशवम्॥ 14-88-24 (94979) तैः समेत्यार्चितस्तांश्च प्रत्यर्च्याथ यथाविधि। विशश्राम महाबाहुस्तीरं लब्ध्वेव पारगः॥ ॥ 14-88-25 (94980) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टाशीतितमोऽध्यायः॥ 88 ॥
आश्वमेधिकपर्व - अध्याय 089

॥ श्रीः ॥

14.89. अध्यायः 089

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

बभ्रुवाहनेनोलूपीचित्राङ्गदाभ्यां सह यागदिदृक्ष्या हास्तिनपुरं प्रत्यागमनम्॥ 1 ॥ ततः स्वयं समागतव्यासाज्ञय युधिष्ठिरेण ऋत्विग्भिः सहाश्वमेधोपक्रमः॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः। मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह॥ 14-89-1 (94981) तत्र वृद्धान्यथावत्स कुरूनन्यांश्च पार्थिवान्। अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः। प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम्॥ 14-89-2 (94982) स प्रविश्य महाबाहुः पाण्डवानां निवेशनम्। पितामहीमभ्यवन्दत्साम्ना परमवल्गुना॥ 14-89-3 (94983) तथा चित्राङ्गदा देवी कौरवस्यात्मजाऽपि च। पृथां कृष्णां च सहिते विनयेनोपजग्मतुः। सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः॥ 14-89-4 (94984) ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च। द्रौपदी च सुभद्रा च याश्चाप्यन्या यदुस्त्रियः॥ 14-89-5 (94985) ऊषतुस्तत्र ते देव्यौ महार्ङशयनासने। सुपूजिते स्वयं कुन्त्या पार्थस्य हितकाम्यया॥ 14-89-6 (94986) स च राजा महातेजाः पूजितो बभ्रुवाहनः। धूतराष्ट्रं महीपालमुपतस्थे यताविधि॥ 14-89-7 (94987) युधिष्ठिरं च राजानं भीमदींश्चापि पाण्डवान्। उपागम्य महातेजा विनयेनाभ्यवादयत्॥ 14-89-8 (94988) स तैः प्रेम्या परिष्वक्तः पूजितश्च यथाविधि। धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः॥ 14-89-9 (94989) तथैव च महीपालः कृष्णं चक्रगदाधरम्। प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान्॥ 14-89-10 (94990) तस्मै कृष्णो ददौ राज्ञे महार्हमतिपूजितम्। रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम्॥ 14-89-11 (94991) धर्मराजश्च भीमश्च फल्गुनश्च यमौ तथा। पृथक्पृथक् च ते चैनं मानार्थाभ्यामयोजयन्॥ 14-89-12 (94992) ततस्तृतीये दिवसे सत्यवत्यात्मजो मुनिः। युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत्॥ 14-89-13 (94993) अद्यप्रभृति कौन्तेय यज्ञस्य समयो हि ते। मुहूर्तो यज्ञियः प्राप्तश्चोदयन्तीह याजकाः॥ 14-89-14 (94994) अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान्। बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः॥ 14-89-15 (94995) एवमत्र महाराज दक्षिणाभिर्गुणीकुर। श्रीस्त्वां व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम्॥ 14-89-16 (94996) त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान्। ज्ञातिवध्याकृतं पापं प्रहास्यति नराधिप॥ 14-89-17 (94997) पवित्रं परमं चैतत्पावनानां च पावनम्। यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन॥ 14-89-18 (94998) इत्युक्तः स तु तेजस्वी व्यासेनामितबुद्धिना। दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये ततः॥ 14-89-19 (94999) ततो यज्ञं महाबाहुर्वाजिमेधं महाक्रतुम्। बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम्॥ 14-89-20 (95000) तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः। परिक्रामन्ति शास्त्रज्ञा यतावद्द्विजसत्तमाः॥ 14-89-21 (95001) न तेषां स्खलितं किञ्चिदासीदपहुतं तथा। क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः॥ 14-89-22 (95002) कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः। चक्रस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः॥ 14-89-23 (95003) अभिषूय ततो राजन्सोमं सोमपसत्तमाः। सवनान्यानुपूर्व्येण चक्रुः सास्त्रानुसारिणः॥ 14-89-24 (95004) न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह। क्षुधितो दुःखितो वाऽपि प्राकृतो वाऽपि मानवः॥ 14-89-25 (95005) भोजनं भोजनार्थिभ्यो दापयामास शत्रुहा। भीमसेनो महातेजाः सततं राजशासनात्॥ 14-89-26 (95006) संस्तरे कुशलाश्चापि सर्वकार्याणि याजकाः। दिवसेदिवसे चक्रुर्यथाशास्त्रानुदर्शात्॥ 14-89-27 (95007) नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः। नाव्रतो नानुपाध्यायो न च वादाविचक्षणः॥ 14-89-28 (95008) ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान्भरतर्षभ। खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः॥ 14-89-29 (95009) देवदारुमयौ द्वौ तु यूपौ कुरुपतेर्मखे। श्लेष्मातकमयं चैकं याजकाः समकल्पयन्॥ 14-89-30 (95010) `सर्वानेतान्यथाशास्त्रं याजकाः समकारयन्।' शोभार्थं चापरान्यूपान्काञ्चनान्भरतर्षभ। स भीमः कारयामास धर्मराजस्य शासनात्॥ 14-89-31 (95011) ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः। महेन्द्रानुगता देवा यथा सप्तर्षिभिर्दिवि॥ 14-89-32 (95012) इष्टकाः काञ्चनीश्चात्र चयनार्तं कृता विभो। शुशुभे चयनं तच्च दक्षस्येव प्रजापतेः॥ 14-89-33 (95013) चतुश्चित्यश्च तस्यासीदष्टादशकरात्मकः। स रुक्मपक्षो निचितस्त्रिकोणो गरुडाकृतिः॥ 14-89-34 (95014) ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः। तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये॥ 14-89-35 (95015) ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये। सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि॥ 14-89-36 (95016) यूपेषु नियता चासीत्पशूनां त्रिशती तथा। अश्वरत्नोत्तरा यज्ञे कौन्तेयस्य महात्मनः॥ 14-89-37 (95017) स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकुलः। गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः॥ 14-89-38 (95018) स किंपुरुषसंकीर्णः किंनरैश्चोपशोभितः। सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः॥ 14-89-39 (95019) तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजर्षभाः। सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु॥ 14-89-40 (95020) नारदश्च बभूवात्र तुंबुरुश्च महाद्युतिः। विश्वावसुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः॥ 14-89-41 (95021) गन्धर्वा गीतकुशला नृत्येषु च विशारदाः। रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेषु वै॥ ॥ 14-89-42 (95022) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोननवतितमोऽध्यायः॥ 89 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-89-15 अहीनः अह्नां सोमयागानां बहूनां समूहोऽहीनः। न हीनः द्रव्यादिना इति वा॥ 7-89-23 अभिषव सोमवल्ल्याः कण्डनम्॥ 7-89-24 सोमं सोमवल्लीरसम्। सवनानि प्रातःसवनादीनि॥ 7-89-27 संस्तरे इष्टकानां चयनाख्ये स्थण्डिलरचने॥ 7-89-29 वर्णिनः पलाशकाष्ठमयाः॥
आश्वमेधिकपर्व - अध्याय 090

॥ श्रीः ॥

14.90. अध्यायः 090

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

युधिष्ठिरेणाश्वमेधसमापनानन्तरं राज्ञां यथोचितं संमानपूर्वकं स्वस्वदेशान्प्रति प्रस्थापनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। श्रपयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः। तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः॥ 14-90-1 (95023) ततः संज्ञप्य तुरगंक विधिवद्याजकर्षभाः। उपसंवेशयांचक्रुस्ततस्तां द्रुपदात्मजाम्। कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम्॥ 14-90-2 (95024) उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजातयः। श्रपयामासुरव्यग्रा विधिवद्भरतर्षभ॥ 14-90-3 (95025) तं वपाधूमगन्धं तु धर्मराजः सहानुजैः। उपाजिघ्रद्यथासास्त्रं सर्वपापापहं तदा॥ 14-90-4 (95026) शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप। तान्यग्रौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः॥ 14-90-5 (95027) संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः। व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम्॥ 14-90-6 (95028) ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि। कोटीः सहस्रं निष्काणां व्यासाय तु वसुंधराम्॥ 14-90-7 (95029) प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः। अब्रवीद्भरतश्रेष्ठं धर्मराजं युधिष्ठिरम्॥ 14-90-8 (95030) वसुधा भवतस्त्वेषां संन्यस्ता राजसत्तम। निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिना॥ 14-90-9 (95031) युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः। भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम्॥ 14-90-10 (95032) अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता। अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया॥ 14-90-11 (95033) वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम्। चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः॥ 14-90-12 (95034) नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः॥ इदं नित्यं मनो विप्रा भ्रातॄणां चैव मे सदा॥ 14-90-13 (95035) इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा। एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम्॥ 14-90-14 (95036) ततोऽन्तरिक्षे वागासीत्साधुसाध्विति भारत। तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः॥ 14-90-15 (95037) द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम्। प्रोवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः॥ 14-90-16 (95038) दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम्। हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धराऽस्तु ते॥ 14-90-17 (95039) ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम्। यथाऽऽह भगवान्व्यासस्तथा त्वं कर्तुमर्हसि॥ 14-90-18 (95040) इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह। कोटिं कोटिं गवां प्रादाद्दक्षिणां त्रिगुणीकृताम्॥ 14-90-19 (95041) न करिष्यति तल्लोके कश्चिदन्यो नराधिपः। यत्कृतं कुरुराजेन मरुत्तस्यानुकुर्वता॥ 14-90-20 (95042) प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनो मुनिः। ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते॥ 14-90-21 (95043) धरण्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः। दूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह॥ 14-90-22 (95044) ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा। व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम्॥ 14-90-23 (95045) यज्ञवाटे च यत्किञ्चिद्धिरण्यं सवि भूषणम्। तोरणानि च यूपांश्च घटान्पात्रीस्तथेष्टकाः। युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः॥ 14-90-24 (95046) अनन्तरं द्विजातिभ्यः क्षत्रिया जह्रिरे वसु। तथा विट्शूद्रसङ्घाश्च तथाऽन्ये म्लेच्छजातयः। `कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः॥' 14-90-25 (95047) ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान्। तर्पिता वसुना तेन धर्मिराजेन धीमिता॥ 14-90-26 (95048) स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादितः। प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः॥ 14-90-27 (95049) श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा। चकार पुण्यकं तेन सुमहत्सङ्घशः पृथा॥ 14-90-28 (95050) गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह। सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव॥ 14-90-29 (95051) पाण़्डवाश्च महीपालैः समेतैरभिसंवृताः। अशोभन्त महाराज ग्रहस्तारागणैरिव॥ 14-90-30 (95052) राजभ्योपि ततः प्रादाद्रत्नानि विविधानि च। गजानश्वानलङ्कारान्त्रियो वासांसि काञ्चनम्॥ 14-90-31 (95053) तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले। विसृजञ्शुशुभे राजन्यथा वैश्रवणस्तथा॥ 14-90-32 (95054) आनीय च तथा वीरं राजानं बभ्रुवाहनम्। प्रदाय विपुलं वित्तं गृहात्प्रास्थापयनत्तदा॥ 14-90-33 (95055) दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ। स्वराज्येऽथ पितुर्धामान्स्वसुः प्रीत्या न्वयेशयत्॥ 14-90-34 (95056) नृपतींश्चैव तान्सर्वान्सुविभक्तान्सुपूजितान्। प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः॥ 14-90-35 (95057) गोविन्दं च महात्मानं बलदेवं महाबलम्। तथाऽन्यान्वृष्णिवीरांश्च प्रद्युम्नाद्यान्सहस्रशः॥ 14-90-36 (95058) पूजयित्वा महाराज यथाविधि महाद्युतिः। भ्रातृभिः सहितो राजा प्रास्थापरयदरिंदमः॥ 14-90-37 (95059) एवं बभूव यज्ञः स धर्मिराजस्य धीमतः। बह्वन्नधनरत्नौघः सुरामैरेयसागरः॥ 14-90-38 (95060) सर्पिःपङ्का ह्रदा यत्र बभूवुश्चान्नपर्वताः। रसालकर्दमा नद्यो बभूवुर्भरतर्षभ॥ 14-90-39 (95061) भक्ष्यखाण्डवरागाणां क्रियतां भुज्यतां तथा। पशूनां वध्यतां चैव नान्तं ददृशिरे जनाः॥ 14-90-40 (95062) मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम्। मृदङ्गशङ्खनादैस्च मनोरममभूत्तदा। 14-90-41 (95063) दीयतां भुज्यतां चापि तत्र शब्दो महानभूत्। दीयतां दीयतां चेति दिवारात्रमवारितम्॥ 14-90-42 (95064) तं महोत्सवसंकाशं हृष्टपुष्टजनाकुलम्। कथयन्ति स्म पुरुषा नानादेशनिवासिनः॥ 14-90-43 (95065) वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा। विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम्॥ ॥ 14-90-44 (95066) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि नवतितमोऽध्यायः॥ 90 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-90-2 संज्ञप्य हिंसित्वा तुरगम्। तस्य समीपे तिसृभिः कलाभिः कलनाभिः मन्त्रद्रव्यश्रद्दाख्याभिरुपेतां द्रौपदीं उपसंवेशयां चक्रुः॥ 7-90-5 अङ्गानि हृदयजिह्वावक्षआदीनी॥ 7-90-6 संस्थाप्य समाप्य॥ 7-90-7 तुशब्दश्चार्थे। तेन सर्वेभ्यो वसुधरां ददावित्यर्थः॥ 7-90-25 अनन्तरं द्विजातिभ्यः विप्रेषु गृहीत्वा निवृत्तेषु शिष्टात् क्षत्रियादयो गहीतवन्त इत्यर्थः॥ 7-90-38 मैरेयं वृक्षजं मद्यम्॥ 7-90-40 पिप्पलीशुण्ठीयुक्तो मुद्गयूषः खाण्डवः स एव शर्कारयुक्तो रागः
आश्वमेधिकपर्व - अध्याय 091

॥ श्रीः ॥

14.91. अध्यायः 091

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

वैशम्पायनेन जनमेजयंप्रति नकुलाख्यानकथनारम्भः॥ 1 ॥ अश्वमेधावसाने बिलान्निस्सृतेन कनकपार्श्वेन केनचिन्नकुलेन सदस्यान्प्रति उञ्छवृत्तिब्राह्मणस्य सक्तुप्रस्थदानप्रशंसनपूर्वकं युधिष्ठिराश्वमेधगार्हणम्॥ 2 ॥। तथा सदस्यचोदनया तत्कथनोपक्रमः॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

जनमेजय उवाच। पितामहस्य मे यज्ञे धर्मराजस्य धीमतः। यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति॥ 14-91-1 (95067) वैशम्पायन उवाच। 14-91-2x (7923) श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम्। अश्वमेधे महायज्ञे निवृत्ते यदभूत्प्रभो॥ 14-91-2 (95068) तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु। दीनान्धकृपणे वाऽपि तदा भरतसत्तम॥ 14-91-3 (95069) घुष्यमाणे महादाने दिक्षु सर्वासु भारत। पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि॥ 14-91-4 (95070) बिलान्निस्सृत्य नकुलो रुक्मपार्श्वस्तदाऽनघः। वज्राशनिसमं नादममुञ्चद्वसुधाधिप॥ 14-91-5 (95071) सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान्। मानुपं वचनं प्राह पुष्पोपरिशयो महान्॥ 14-91-6 (95072) सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः। उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः॥ 14-91-7 (95073) तस्य तद्वचनं श्रुत्वा नकुलस्य विशांपते। विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः॥ 14-91-8 (95074) ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः॥ कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम्॥ 14-91-9 (95075) किं बलं परमं तुभ्यं श्रुतं किं परायणम्। कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे॥ 14-91-10 (95076) अविलुप्यागमं कृत्स्नं विविधैर्यज्ञियैः कृतम्। यथागमं यथान्यायं कर्तव्यं च तथा कृतम्॥ 14-91-11 (95077) पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रदर्शात्। मन्त्राहुतिहुतश्चाग्निर्दत्तं देयममत्सरम्॥ 14-91-12 (95078) तुष्टा द्विजातयश्चात्र दानैर्बहुविधैरपि। क्षत्रियाश्चि सुयुद्धेन श्राद्धैश्चापि पितामहाः॥ 14-91-13 (95079) पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः। अनुक्रोशैस्तता शूद्रा दानशेषैः पृथग्जनाः॥ 14-91-14 (95080) ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः। देवा हविर्भिः पुण्यैस्च रक्षणैः शरणागताः॥ 14-91-15 (95081) यदत्र तथ्यं तद्ब्रूहि सत्यंसत्यं द्विजातिषु। यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया॥ 14-91-16 (95082) श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च। समागतश्च विप्रैस्त्वं तद्भवान्वक्तुमर्हति॥ 14-91-17 (95083) इति पृष्टो द्विजैस्तैः स प्रहसन्नकुलोऽब्रवीत्। नैषा मृषामया वाणी प्रोक्ता दर्पेण वा द्विजाः॥ 14-91-18 (95084) यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम्। सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः॥ 14-91-19 (95085) इत्यवश्यं मयैतद्वो वक्तव्यं द्विजसत्तमाः। शृणुताव्यग्रमनसः शंसतो मे यथातथम्॥ 14-91-20 (95086) अनुभूतं च दृष्टं च यन्मयाऽद्भुतमुत्तमम्। उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः॥ 14-91-21 (95087) स्वर्गं येन द्विजाः प्राप्तः सभार्यः ससुतस्नुषः। यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम्॥ ॥ 14-91-22 (95088) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकनवतितमोऽध्यायः॥ 91 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-91-5 नीलाक्षस्तत्र नकुल इति झ.पाठः॥ 7-91-6 धृष्टो बिलशयो महान् इति झ.पाठः॥ 7-91-22 ममेदं यत्रेति शेषः॥
आश्वमेधिकपर्व - अध्याय 092

॥ श्रीः ॥

14.92. अध्यायः 092

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

नकुलेन युधिष्ठिरादीन्प्रति सकुटुम्बस्योञ्छवृत्तेर्ब्राह्मणस्य धर्मपुरुषाय सक्तुप्रस्तदानमहिमवर्णनपूर्वकंपुनस्तत्रैवान्तर्धानम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

नकुल उवाच। हन्त वः कथयिष्यामि दानस्य फलमुत्तमम्। न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः॥ 14-92-1 (95089) धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते। उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा॥ 14-92-2 (95090) सभार्यः सहपुत्रेण सस्नुषस्तपसि स्थितः। बभूव शुक्लवृत्तः स धर्मात्मा नियतेन्द्रियः॥ 14-92-3 (95091) षष्ठे काले सदा विप्रो भुङ्क्ते तैः सह संवृतः॥ 14-92-4 (95092) षष्ठे काले कदाचित्तु तस्याहारो न विद्यते। भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः॥ 14-92-5 (95093) कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे। नाविद्यत तदा विप्राः संचयस्तन्निबोधत॥ 14-92-6 (95094) क्षीणाषैदिसमावापो द्रव्यहीनोऽभवत्तदा। कालेकालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम्॥ 14-92-7 (95095) क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते। उञ्छं तदा शुक्लपक्षे मध्यं तपति भास्करे॥ 14-92-8 (95096) उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः। उञ्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः॥ 14-92-9 (95097) स तथैव क्षुधाविष्टः सार्धं परिजनेन ह। क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः॥ 14-92-10 (95098) अथ षष्ठे गते काले यवप्रस्थमुपार्जयन्। यवप्रस्थं तु तं सक्तूनकुर्वन्त तपस्विनः॥ 14-92-11 (95099) कृतजप्याह्निकास्ते तु हुत्वा चाग्निं यथाविधि। कुडवंकुडवं सर्वे व्यभजन्त तपस्विनः॥ 14-92-12 (95100) अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा। ते तं दृष्ट्वाऽतिथिं प्राप्तं प्रहृष्टमनसोऽभवन्॥ 14-92-13 (95101) तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा। विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः॥ 14-92-14 (95102) अनसूया गतक्रोधाः साधवो वीतमत्सराः। त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः॥ 14-92-15 (95103) सब्रह्यचर्यं गोत्रं ते तस्य ख्यात्वा परस्परम्। कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा॥ 14-92-16 (95104) इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ। शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो। प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजर्षभ॥ 14-92-17 (95105) इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः। भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः॥ 14-92-18 (95106) स उञ्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम्। आहारं चिन्तयामास कथं तुष्टो भवेदिति॥ 14-92-19 (95107) तस्य भार्याऽब्रवीद्वाक्यं मद्भागो दीयतामिति। गच्छत्वेष यथाकामं परितुष्टो द्विजोत्तमः॥ 14-92-20 (95108) इति ब्रुवन्तीं तां साध्वीं भार्यां स द्विजसत्तमः। क्षउधापरिगतां ज्ञात्वा तान्सक्तून्नाभ्यनन्दत॥ 14-92-21 (95109) आत्मानुमानतो विद्वान्स तु विप्रर्षभस्तदा। जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम्। त्वगस्थिभूता वेपन्तीं ततो भार्यामुवाच ह॥ 14-92-22 (95110) अपि कीटपतङ्गानां मृगाणां चैव शोभने। स्त्रियो रक्ष्याश्च पोष्पाश्च न त्वेवं वक्तुमर्हसि॥ 14-92-23 (95111) अनुकंप्यो नरः पत्न्या पुष्टो रक्षित एव च। प्रपतेद्यशसो दीप्तात्स च लोकान्न चाप्नुयात्॥ 14-92-24 (95112) धर्मकामार्थकार्याणि शुश्रूषाकुलसंततिः। दारेष्वदीनो धर्मस्च पितॄणामात्मनस्तथा॥ 14-92-25 (95113) न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान्। अयशो महदाप्नोति नारकांश्चैव गच्छति॥ 14-92-26 (95114) इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज। सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे॥ 14-92-27 (95115) सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः। स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजर्षभ॥ 14-92-28 (95116) ऋतुर्मातु पितुर्बीजं दैवतं परमं पतिः। भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा॥ 14-92-29 (95117) पालनाद्धि पतिस्त्वं मे भर्ताऽसि भरणाच्च मे। पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्प्रयच्छ मे॥ 14-92-30 (95118) जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम्। उपवासपरिश्रान्तो यदा त्वमपि कर्शितः॥ 14-92-31 (95119) इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत्। द्विजि सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम॥ 14-92-32 (95120) स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः। तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत्॥ 14-92-33 (95121) पुत्र उवाच। 14-92-34x (7924) सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम। इत्येव सुकृतं मन्ये तस्मादेतत्करोम्यहम्॥ 14-92-34 (95122) भवान्हि परिपाल्यो मे सर्वदैव प्रयत्नतः। साधूनां काङ्क्षितं यस्मात्पितुर्वृद्धस्य पालनम्॥ 14-92-35 (95123) पुत्रार्थो विहितो ह्येष वार्धके परिपालनम्॥ श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती॥ 14-92-36 (95124) प्राणाधारणमात्रेण शक्यं कर्तुं तपस्त्वया। प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्॥ 14-92-37 (95125) पितोवाच। 14-92-38x (7925) अपि वर्षसहस्री त्वं बाल एव मतो मम। उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत्सुतात्॥ 14-92-38 (95126) बालानां क्षुद्बलवती जानाम्येतदहं प्रभो। वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक॥ 14-92-39 (95127) जीर्णेन वयसा पुत्र न मां क्षुद्बाधतेऽपि च। दीर्घकालं तपस्तप्तं न मे मरणतो भयम्॥ 14-92-40 (95128) पुत्र उवाच। 14-92-41x (7926) अपत्यमस्मि ते पुंसस्त्राणात्पुत्र इति स्मृतः। आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना॥ 14-92-41 (95129) पितोवाच। 14-92-42x (7927) रूपेण सदृशस्त्वं मे शीलेन च दमेन च। परीक्षितश्च बहुधा सक्तूनादद्मि ते सुत॥ 14-92-42 (95130) इत्युक्त्वाऽऽदाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः। प्रहसन्निव विप्राय स तस्मै प्रददौ तदा॥ 14-92-43 (95131) भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह। उच्छवृत्तिस्तु धर्मात्मा व्रीडामनुजगाम ह॥ 14-92-44 (95132) तं वै वधूः स्थिता साध्वी ब्राह्मणिप्रियकाम्यया। सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत्॥ 14-92-45 (95133) संतानात्तव संतानं मम विप्र भविष्यति। सक्तूनिमानतिथये गृहीत्वा सम्प्रयच्छ मे॥ 14-92-46 (95134) तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः। पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति॥ 14-92-47 (95135) धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च। तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः॥ 14-92-48 (95136) पितॄणात्तारयति पुत्र इत्यनुशुश्रुम। पुत्रपौत्रैश्च नियतं सादुलोकानुपाश्नुते॥ 14-92-49 (95137) श्वशुर उवाच। 14-92-50x (7928) वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै। कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम्॥ 14-92-50 (95138) कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः। कल्याणवृत्ते कल्याणि नैव त्वं वक्तुमर्हसि॥ 14-92-51 (95139) षष्ठे काले व्रतवतीं शौचशीलतपोन्विताम्। कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे॥ 14-92-52 (95140) बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया। उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी॥ 14-92-53 (95141) स्नुषोवाच। 14-92-54x (7929) गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम्। देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे प्रभो॥ 14-92-54 (95142) देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः। तव विप्र प्रसादेन लोकान्प्राप्स्यामहे शुभान्॥ 14-92-55 (95143) अवेक्ष्या इति कृत्वाऽहं दृढभक्तेति वा द्विज। चिन्त्या ममेयमिति वा सक्तूनादानुमर्हसि॥ 14-92-56 (95144) श्वशुर उवाच। 14-92-57x (7930) अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे। या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे॥ 14-92-57 (95145) तस्मात्सक्तून्ग्रहीष्यामि वधु नार्हसि वञ्चनाम्। गणयित्वा महाभागे त्वां हि धर्मभृतां वरे॥ 14-92-58 (95146) इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये। ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः॥ 14-92-59 (95147) प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम्। वाग्मी तदा द्विजश्रेष्टो धर्मः पुरुषविग्रहः॥ 14-92-60 (95148) शुद्धेनि तव दानेन न्यायोपात्तेन धर्मतः। यथाशक्ति विसृष्टेन प्रीतोस्मि द्विजसत्तम॥ 14-92-61 (95149) अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः। गगनात्पुष्पवर्षं च पश्येदं पतितं भुवि॥ 14-92-62 (95150) सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः। स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः॥ 14-92-63 (95151) ब्रह्मर्षयो विमानस्था ब्रह्मलोकचरश्च ये। काङ्क्षन्ते दर्शनं तुभ्यं दिवं व्रज द्विजर्षभ॥ 14-92-64 (95152) पितृलोकगताः सर्वे तारिताः पितरस्त्वया। अनागताश्च बहवः सुबहूनि युगान्युत॥ 14-92-65 (95153) ब्रह्मचर्येण दानेन यज्ञेनि तपसा तथा। अगह्वरेण धर्मेण तस्माद्गच्च दिवं द्विज॥ 14-92-66 (95154) श्रद्धया परया यरत्वं तपश्चरसि सुव्रत। तस्माद्देवास्तवानेन प्रीता ब्राह्मणसत्तम॥ 14-92-67 (95155) सर्वमेतद्धि यस्मात्ते दत्तं शुद्धेन चेतसा। कृच्छ्रकाले ततः स्वर्गो विजितः कर्मणा त्वया॥ 14-92-68 (95156) क्षुधा निर्णुदति प्रज्ञां धर्मबुद्धिं व्यपोहति। क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह॥ 14-92-69 (95157) बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम्। यदा दानरुचिः स्याद्वै तदा धर्मो न सीदति॥ 14-92-70 (95158) अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च। धर्ममेव गुरं ज्ञात्वा तृष्णा न गणिता त्वया॥ 14-92-71 (95159) द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम्। कालः परतरो दानाच्छ्रद्धा चैव ततः परा॥ 14-92-72 (95160) स्वर्गद्वारं सुसूक्ष्मं हि नरैर्माहान्नि दृश्यते। सङ्गर्गलं लोभकीलं रागगुप्तं दुरासदम्॥ 14-92-73 (95161) तं तु पश्यन्ति पुरुषा जितदक्रोधा जितेन्द्रियाः। ब्राह्मणास्तपसा युक्ता यथाशक्ति प्रदायिनः॥ 14-92-74 (95162) सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च। दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः॥ 14-92-75 (95163) रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः। शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः॥ 14-92-76 (95164) न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः। न्यायलब्धैर्यथा सूक्ष्मैः श्रुद्धापूतैः स तुष्यति॥ 14-92-77 (95165) गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः। एकां दत्त्वा स पारक्यां नरकं समपद्यत॥ 14-92-78 (95166) आत्ममांसप्रदानेन शिबोरौशीनरो नृपः। प्राप्य पुण्यकृताँल्लोकान्मोदत दिवि सुव्रतः॥ 14-92-79 (95167) विभवेन नृणां पुण्यं यच्छत्त्या स्वार्जितं न तत्। न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः॥ 14-92-80 (95168) क्रोधाद्दानफलं हन्ति लोभात्स्वर्गं न गच्छति। न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते॥ 14-92-81 (95169) न राजसूयैर्बहुभिरिष्टा विपुलदक्षिणैः॥ न चाश्वमेधैर्बहुभिः फलं सममिदं तव॥ 14-92-82 (95170) सक्तुप्रस्थेन विजितो ब्रह्मलोकस्त्वयाऽक्षयः। विरजो ब्रह्मसदनं गच्छ विप्र यतासुखम्॥ 14-92-83 (95171) सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम्। आरोहत यथाकामं धर्मोस्मि द्विज पश्य माम्॥ 14-92-84 (95172) बाधितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते। सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज॥ 14-92-85 (95173) इत्युक्तवाक्ये धर्मे तु यानमारुद्य स द्विजः। सदारः ससुतश्चैव सस्नुषश्च दिवं गतः॥ 14-92-86 (95174) तस्मिन्विपरे गते स्वर्गं ससुते सस्नुषे तदा। भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात्॥ 14-92-87 (95175) ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च। दिव्यपुष्पविमर्दाच्च साधोर्दानलवैश्च तैः॥ 14-92-88 (95176) विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्। तस्य सत्याभिसन्धस्य सक्तुदानेन चैव ह॥ 14-92-89 (95177) शरीरार्धं च मे विप्राः शातकुंभमयं कृतम्। पश्यतेमं सुविपुलं तपसा तस्य धीमतः॥ 14-92-90 (95178) कथमेवंविधं स्याद्वै पार्श्वमन्यदिति द्विजाः। तपोवनानि यज्ञांश्च हृष्टोऽभ्योमि पुनः पुनः। 14-92-91 (95179) यज्ञं त्वहमिमं श्रुत्वा रुरुराजस्य धीमतः। आशया परया प्राप्तो न चाहं काञ्चनीकृतः॥ 14-92-92 (95180) ततो मयोक्तं तद्वाक्यं प्रहस्य ब्राह्मणर्षभाः। सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा॥ 14-92-93 (95181) सक्तुप्रस्थलवैस्तैर्हि तदाऽहं काञ्चनीकृतः। न हि यज्ञो महानेष सदृशस्तैर्मतो मम॥ 14-92-94 (95182) इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा। जगामादर्सनं तेषां विप्रास्ते च ययुर्गृहान्॥ 14-92-95 (95183) एतत्ते सर्वमाख्यातं मया परपुरंजय। यदाश्चर्यमभूत्तत्र वाचिमेधे महाक्रतौ॥ 14-92-96 (95184) न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन। ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः॥ 14-92-97 (95185) अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम्। तपो दमश्च सत्यं च प्रदानं चेति संमितम्॥ ॥ 14-92-98 (95186) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विनवतितमोऽध्यायः॥ 92 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-92-2 कपोतवदेकैकं कणमादत्ते स कापोतिः॥ 7-92-8 उंछं कणश आदानं कर्तुमिति शेषः। शुक्लस्य ज्येष्ठस्य पक्षे॥ 7-92-56 अवेक्ष्या पालनीया। चिन्त्या परीक्षणीया॥ 7-92-58 हे वरे श्रेष्ठे महाभागे त्वां धर्मभृतां मध्ये गणयित्वा सक्तून् ग्रहीष्यामीत्यन्वयः॥ 7-92-84 तारितो हि त्वयेति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 093

॥ श्रीः ॥

14.93. अध्यायः 093

Mahabharata - Ashvamedhika Parva - Chapter Topics

जनमेजयेन नकुलेन यज्ञनिन्दाकारणं पृष्टेन वैशम्पायनेन तंप्रति सत्यदानतपोभिरेव स्वर्गादिसिद्धौ पशुहिंसाहेतुयज्ञस्य नातिप्रशस्ततरत्वमिति नकुलाभिप्रायवर्णनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

जनमेजय उवाच। यज्ञे सक्ता नृपतयस्तपःसका महर्षयः। शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो॥ 14-93-1 (95187) तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह दृश्यते। इति मे वर्तते बुद्धिस्तथा चैतदसंशयम्॥ 14-93-2 (95188) यज्ञैरिष्ट्वा तु बहवो राजानो द्विजसत्तमाः। इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमितो गताः॥ 14-93-3 (95189) देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः। देवराज्यं महातेजाःक प्राप्तवानखिलं विभुः॥ 14-93-4 (95190) अतो युधिष्ठिरो राजा भीमार्जुनपुरःसरः। सदृशो देवराजेन समृद्ध्या विक्रमेण च॥ 14-93-5 (95191) अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम्। अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः॥ 14-93-6 (95192) वैशम्पायन उवाच। 14-93-7x (7931) यज्ञस्य विधिमग्र्यं वै फलं चापि नराधिप। गदतः शृणु मे राजन्यथावदिह भारत॥ 14-93-7 (95193) पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः। ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि॥ 14-93-8 (95194) हूयमाने तथा वह्नौ होत्रा गुणसमन्विते। देवष्वाहूयमानेषु स्थितेषु परमर्षिषु॥ 14-93-9 (95195) सुप्रतीतैस्तथा विप्रैः स्वागमैः सुस्वरैर्नृप। अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा॥ 14-93-10 (95196) आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ। महर्षयो महाराज बभूवुः कृपयाऽन्विताः॥ 14-93-11 (95197) ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः। ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः॥ 14-93-12 (95198) अपरिज्ञानमेतत्ते महान्तं धर्ममिच्छतः। सन्ति यज्ञे बहुगुणा विधिदृष्टाः पुरंदर॥ 14-93-13 (95199) धर्मोपघातकस्त्वेष समारंभस्तव प्रभो। नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते॥ 14-93-14 (95200) आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि। विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत्॥ 14-93-15 (95201) यज्ञं बीजैः सहस्राक्ष त्रिवर्षपरमोषितेः। एष धर्मो महाञ्शक्र चिन्तयानोसि गम्यते॥ 14-93-16 (95202) शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः। उक्तं न प्रतिजग्राह मानमोहवशं गतः॥ 14-93-17 (95203) तेषां विवादः सुमहाञ्शक्रयज्ञे तपस्विनाम्। जङ्गमैः स्थावरैर्वाऽपि यष्टव्यमिति भारत॥ 14-93-18 (95204) ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः। अभिसंधाय शक्रेण पप्रच्छुर्नृपतिं वसुम्॥ 14-93-19 (95205) धर्मसंशयमापन्नान्सत्यं ब्रूहि महामते। महाभाग कथं यज्ञेष्वागमो नृपसत्तम। यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरिति॥ 14-93-20 (95206) तच्छ्रुत्वा तु वसुस्तेषामविचार्य बलाबलम्। यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः॥ 14-93-21 (95207) एवमुक्त्वा स नृपतिः प्रविवेश रसातलम्। उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः॥ 14-93-22 (95208) तस्मान्नि वाच्यं ह्येकेन बहुज्ञेनापि संशये। प्रजापतिमपाहाय स्वयंभुवमृते प्रभुम्॥ 14-93-23 (95209) तेन दत्तानि दानानि पापेनाशुद्धबुद्धिना। तानि सर्वाण्यनादृत्य नश्यन्ति विपुलान्यपि॥ 14-93-24 (95210) तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः। दानेन कीर्तिर्भवति न प्रेत्येह च दुर्मतेः॥ 14-93-25 (95211) अन्यायोपगतं द्रव्यमभीक्ष्णं यो ह्यपण्डितः। धर्माभिकाङ्क्षी त्यजति न स धर्मफलं लभेत्॥ 14-93-26 (95212) धर्मवैतंसिको यस्तु पापात्मा पुरुषाधमः। ददाति दानं विप्रेभ्यो लोकविश्वासकारणम्॥ 14-93-27 (95213) पापेन कर्मणा विप्रो धनं प्राप्य निरङ्कुशः। रागमोहान्वितः सोन्ते कलुषां गतिमश्नुते॥ 14-93-28 (95214) अपि संचयबुद्धिर्हि लोभमोहवशं गतः। यज्ञं करोति भूतानि पापेनाशुद्धबुद्धिना॥ 14-93-29 (95215) एवं लब्ध्वा धनं मोहाद्यो हि दद्याद्यजेत वा। न तस्य स फलं प्रेत्य भुंक्ते पापधनागमात्॥ 14-93-30 (95216) उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः। दानं विभवतो दत्त्वा नराः स्वर्यान्ति धार्मिकाः॥ 14-93-31 (95217) एष धर्मो महायोगो दानं भूतदया तथा। ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा॥ 14-93-32 (95218) सनातनस्य धर्मस्य फलमेतत्सनातनम्। श्रूयन्ते हि पुरावृत्ता विश्वामित्रादयो नृपाः॥ 14-93-33 (95219) विश्वामित्रोसितश्चैवं जनसश्च महीपतिः। कक्षसेनार्ष्टिसेनौ च सिन्धुद्वीपश्च पार्थिवः॥ 14-93-34 (95220) एते चान्ये च बहवः सिद्धिं परमिकां गताः। नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः॥ 14-93-35 (95221) ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः। दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत॥ 14-93-36 (95222) ॥ इती श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिनवतितमोऽध्यायः॥ 93 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-93-13 नहि यज्ञे पशुगणाः इति झ.पाठः॥ 7-93-16 त्रिवर्षपरमोषितैः पुराणैः॥ 7-93-20 बीजै रसैरिति झ. पाठः॥
आश्वमेधिकपर्व - अध्याय 094

॥ श्रीः ॥

14.94. अध्यायः 094

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

वैशम्पायनेन जनमेजयंप्रति पशुहिंसां विनैव ध्यानदानादिभिरेव यज्ञफलसंसिद्धौ दृष्टान्ततयाऽगस्त्ययज्ञप्रकारकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

जनमेजय उवाच। धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत्। एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम्॥ 14-94-1 (95223) तस्योञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत्। कथितं तु मम ब्रह्मंस्तथ्यमेतदसंशयम्॥ 14-94-2 (95224) कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत्। एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ॥ 14-94-3 (95225) वैशम्पायन उवाच। 14-94-4x (7932) अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम॥ 14-94-4 (95226) पुराऽगस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम्। प्रविवेश महाराज सर्वभूतहिते रतः॥ 14-94-5 (95227) तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः। मूलाहाराः फलाहाराश्चाश्मकुट्टा मरीचिपाः॥ 14-94-6 (95228) परिपृष्टिका वैघसिकाः प्रसङ्ख्यानास्तथैव च। यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः॥ 14-94-7 (95229) सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः। दमे स्थिताश्च सर्वे ते हिंसादंभविवर्जिताः॥ 14-94-8 (95230) वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः। उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः॥ 14-94-9 (95231) यथाशक्त्या भगवता तदन्नं समुपार्जितम्। तस्मिन्सत्रे तु यद्वृत्तं यद्योग्यं च तदाऽभवत्॥ 14-94-10 (95232) तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः। एवंविधे त्वगस्त्यस्य वर्तमाने तथाऽध्वरे। न ववर्ष सहस्राक्षस्तदा भरतसत्तम॥ 14-94-11 (95233) ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः। कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम्॥ 14-94-12 (95234) अगस्त्यो यजमानोसौ ददात्यन्नं विमत्सरः। न च वर्षति पर्जन्यः कथमन्नं भविष्यति॥ 14-94-13 (95235) सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम्। न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश॥ 14-94-14 (95236) एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः। अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम्॥ 14-94-15 (95237) इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्। प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन्॥ 14-94-16 (95238) यदि द्वादशवर्षाणि न वर्षिष्यति वासवः। चिन्तायज्ञं करिष्यामि विधिरेष सनातनः॥ 14-94-17 (95239) यदि द्वादशवर्षाणि न वर्षिष्यति वासवः। स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः॥ 14-94-18 (95240) यदि द्वादशवर्षाणि न वर्षिष्यति वासवः। व्यायामेनाहरिष्यामि यज्ञानेतान्यतव्रतः॥ 14-94-19 (95241) बीजयज्ञो मयाऽयं वै बहुवर्षसमाचितः। बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति॥ 14-94-20 (95242) नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन। वर्षिष्यतीह वा देवो नवा वर्षं भविष्यति॥ 14-94-21 (95243) अथवाऽभ्यर्थनामिन्द्रो न करिष्यति कामतः। स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः॥ 14-94-22 (95244) यो यदाहारजातश्च स तथैव भविष्यति। विशेषं चैव कर्तास्मि पुनः पुनरतीव हि॥ 14-94-23 (95245) अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम्। त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम्॥ 14-94-24 (95246) दिव्याश्चाप्सरसां सङ्घा गन्धर्वाश्च सकिन्नराः। विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम्॥ 14-94-25 (95247) उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते। सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु॥ 14-94-26 (95248) स्वर्गः स्वर्गसदश्चैवक धर्मश्च स्वयमेव तु। इत्युक्ते सर्वमेवैतदभवत्तपसा मुनेः। तस्य दीप्ताग्निमहसस्त्वगस्त्यस्यातितेजसः॥ 14-94-27 (95249) ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम्। विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत्॥ 14-94-28 (95250) प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोवनम्। तैरेव यज्ञैस्तुष्टाः स्य न्यायेनेच्छामहे वयम्॥ 14-94-29 (95251) यज्ञं दीक्षां तथा होमान्यच्चान्यन्मृगयामहे। `तयोस्संधर्षितैर्यज्ञैर्नान्यतो मृगयामहे॥' 14-94-30 (95252) न्यायेनोपार्जिताहाराः स्वकर्माभिरता वयम्। वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे॥ 14-94-31 (95253) न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्। धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम्॥ 14-94-32 (95254) भवतः सम्यगिष्टा तु बुद्धिर्हिसाविवर्जिता। एतामहिंसा यज्ञेषु ब्रूयास्त्वं सततं प्रभो॥ 14-94-33 (95255) प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम। विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे॥ 14-94-34 (95256) तथा कथयतां तेषां देवराजः पुरंदरः। ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम्॥ 14-94-35 (95257) आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः। निकामवर्षी पर्जन्यो बभूव जनमेजय॥ 14-94-36 (95258) प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः। स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम्॥ 14-94-37 (95259) ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन्। अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि॥ ॥ 14-94-38 (95260) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वि चतुर्नवतितमोऽध्यायः॥ 94 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-94-6 मरीचिपाश्चन्द्रमरीचिपानमातृप्ताः॥ 7-94-7 परिपृष्टं चेदेव गृह्णन्ति नान्यथा मे परिपृष्टिकाः। प्रसंख्यानास्तत्कालमात्रसंग्रहाः॥ 7-94-17 चिन्तायज्ञं मानसं यज्ञम्। संकल्पमात्रेणैव देवानृषीश्च तर्पयिष्यामीत्यर्थ॥ 7-94-18 स्पर्शयज्ञं उपाहृतद्रव्यस्य व्ययमकृत्वा तत्स्पर्शेनैव तांस्तर्पयिष्यामि। एवं दृष्टियज्ञोपि ज्ञेयः॥ 7-94-19 व्यायामेन शरीरक्लेशेन। ध्येयात्मना हरिष्यामि हति झ.पाठः॥ 7-94-29 न त्विच्छामस्तपोव्ययमिति झ.पाठः॥
आश्वमेधिकपर्व - अध्याय 095

॥ श्रीः ॥

14.95. अध्यायः 095

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

वैशम्पायनेन जनमेजयंप्रति नकुलस्य निजस्वरूपकथनपूर्वकं तस्य नकुलत्वप्राप्तिविमोक्षकारणाभिधानम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

नमेजय उवाच। कोसौ नकुलरूपेण शिरसा काञ्चनेन वै। प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे॥ 14-95-1 (95261) वैशम्पायन उवाच। 14-95-2x (7933) एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम्। श्रूयतां नकुलो योसौ यथा वाक्तस्य मानुषी॥ 14-95-2 (95262) श्राद्धं संकल्पयामास जमदग्निः पुरा किल। होमधेनुस्तमागाच्च स्वयमेव दुदोह ताम्॥ 14-95-3 (95263) तत्पयः स्थपयामास नवे भाण्डे दृढे शुचौ। क्रोधो नकुलरूपेण पिठरं पर्यकर्षयत्॥ 14-95-4 (95264) जिज्ञासुस्तमृषिश्रेष्टं किं कुर्याद्विप्रिये कृते। इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः॥ 14-95-5 (95265) तमाज्ञाय मुनिः क्रोधं नैवास्य स चुकोप ह। स तु क्रोधस्ततो राजन्ब्राह्मणीं मूर्तिमास्थितः॥ 14-95-6 (95266) जितोस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः। लोके मिथ्याप्रवादोयं यत्त्वयाऽस्मि विनिर्जितः॥ 14-95-7 (95267) वशे स्थितोऽहं त्वय्यह्य क्षमावति महात्मनि। बिभेमि तपसः साधो प्रसादं कुरु मे प्रभो॥ 14-95-8 (95268) जमदग्निरुवाच। 14-95-9x (7934) साक्षाद्दृष्टोसि मे क्रध गच्छ त्वं विगतज्वरः। न त्वयापकृतं मेऽद्य न च मे मन्युरस्ति वै॥ 14-95-9 (95269) यान्समुद्दिश्य संकल्पः पयसोस्य कृतो मया। पितरस्ते महाभागास्तेभ्यो बुद्ध्यस्व गम्यताम्॥ 14-95-10 (95270) इत्युक्तो जातसंत्रासस्तत्रैवान्तरधीयत। पितॄणामभिषङ्गाच्च नकुलत्वमुपागतः॥ 14-95-11 (95271) स तान्प्रसादयामास शापस्यान्तो भवेदिति। तैश्चाप्युक्तः क्षिपन्धर्मं सापस्यान्तमवाप्स्यति॥ 14-95-12 (95272) तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यं तथैव च। जुगुप्समानो धावन्स तं यज्ञं समुपासदत्॥ 14-95-13 (95273) धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः। मुक्तः सापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः॥ 14-95-14 (95274) एवमेतत्तदा वृत्तं यज्ञे तस्य महात्मनः। पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा। ॥ 14-95-15 (95275) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चनवतितमोऽध्यायः॥ 95 ॥ समाप्तमनुगीतापर्व। -------

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-95-4 पिठरं पात्रं। तत्पयः पीतवानित्यर्थः। तच्च क्रोधस्वरूपेण पिठरं धर्म आविशदिति झ. पाठः॥
आश्वमेधिकपर्व - अध्याय 096

॥ श्रीः ॥

14.96. अध्यायः 096

अथ वैष्णवधर्मपर्व ॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

युधिष्ठिरेण कृष्णंप्रति वैष्णवधर्मप्रशंसनपूर्वकं तत्कथनप्रार्थना॥ 1 ॥ वसिष्ठादिभिस्तच्छुश्रूषया तत्समीपोपसर्पणम्॥ 2 ॥ कृष्णेन युधिष्ठिरादीन्प्रति वैष्णवधर्मप्रशंसनपूर्वकं स्वमहिमानुबोधनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

जनमेजय उवाच। अश्वमेधे पुरावृत्ते केशवं केशिसूदनम्। धर्मसंशयमुद्दिश्य किमपृच्छत्पितामहः॥ 14-96-1 (95276) वैशम्पायन उवाच। 14-96-2x (7935) पश्चिमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः। तदा राजा नमस्कृत्य केशवं पुनरब्रवीत्॥ 14-96-2 (95277) भववन्वैष्णवा धर्माः किंफलाः किंपरायणाः। किं धर्ममधिकृत्याथ भवतोत्पादिताः पुरा॥ 14-96-3 (95278) यदि तेहमनुग्राह्यः प्रियोस्मि मधुसूदन। श्रोतव्या यदि मे कृष्ण तन्मे कथय सुव्रत॥ 14-96-4 (95279) पवित्रा किल ते धर्माः सर्वपापप्रणाशनाः। सर्वधर्मोत्तमाः पुण्या भगवंस्त्वन्मुखोद्गताः॥ 14-96-5 (95280) याञ्श्रुत्वा ब्रह्महा गोघ्नो मातृहा गुरुतल्पगः। पाकर्भेदी कृतघ्नश्च सुरापो ब्रह्मविक्रयी॥ 14-96-6 (95281) मित्रविश्वासघाती च वीरहा भ्रूणहा तथा। तपोविक्रयिणश्चैव दानविक्रयिणस्तथा॥ 14-96-7 (95282) आत्मविक्रमयिणो मूढा जीवेद्यश्च विकर्मभिः। पापाः शठा नैकृतिका डांभिका दूषकास्तथा॥ 14-96-8 (95283) रसभेदकरा ये च ये च स्युर्ब्रह्मघातकाः। शूद्रप्रेष्यकराश्चोरा विप्रा ये च पुरोहिताः॥ 14-96-9 (95284) निक्षेपहारिणः स्त्रीघ्नास्तथा ये पारदारिकाः। एते चान्ये च पापा ये मुच्यन्तेतेऽपि किल्बिषात्॥ 14-96-10 (95285) तानाचक्ष्व सुरश्रेष्ठ त्वद्भक्तस्य ममाच्युत॥ 14-96-11 (95286) वैशम्पायन उवाच। 14-96-12x (7936) इत्येवं कथिते देवे धर्मपुत्रेण संसदि। वसिष्ठाद्यास्तपोयुक्ता मुनयस्तत्वदर्शिनः॥ 14-96-12 (95287) श्रोतुकामाः परं गुह्यं वैष्णवं धर्ममुत्तमम्। तथा भागवताश्चैव ततस्तं पर्यवारयन्॥ 14-96-13 (95288) युधिष्ठिर उवाच। 14-96-14x (7937) तत्वतस्तव भावेन पादमूलमुपागतम्। यदि जानासि मां भक्तं स्निग्धं वा भक्तवत्सल॥ 14-96-14 (95289) धर्मगुह्यानि सर्वाणि वेत्तुमिच्छामि तत्वतः। धर्मान्कथय मे देव यद्यनुग्रहभागहम्॥ 14-96-15 (95290) श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास्तथा। गार्गीया गौतमीयाश्च तथा गोपालकस्य च॥ 14-96-16 (95291) पराशरकृताः पूर्वा मैत्रेयस्य च धीमतः। औमा माहेश्वराश्चैव नन्दिधर्माश्च पावनाः॥ 14-96-17 (95292) ब्रह्मणा कथिता ये च कौमाराश्च श्रुता मया। धूमायनकृता धर्माः काण्डवैश्वानरा अपि॥ 14-96-18 (95293) भार्गवा याज्ञवल्क्याश्च मार्कण्डेयकृता अपि। भारद्वाजकृता ये च बृहस्पतिकृताश्च ये॥ 14-96-19 (95294) कुणेश्च कुणिबाहोश्च विश्वामित्रकृताश्च ये। सुमन्तुजैमिनिकृताः शाकुनेयास्तथैव च॥ 14-96-20 (95295) पुलस्त्यपुलहोद्गीताः पावकीयास्तथैव च। अगस्त्यगीता मौद्गल्याः शाण्डिल्याः शलभायनाः॥ 14-96-21 (95296) वालखिल्यकृता ये च ये च सप्तर्षिभिस्तथा। आपस्तंबकृता धर्माः शङ्खस्य लिखितस्य च॥ 14-96-22 (95297) प्राजापत्यास्तथा याम्या माहेन्द्राश्च श्रुता मया। वैयाघ्रव्यासकीयाश्च विभण्डककृताश्च ये॥ 14-96-23 (95298) नारदीयाः श्रुता धर्माः कापोताश्च श्रुता मया। तथा विदुरवाक्यानि भृगोरङ्गिरसस्तथा॥ 14-96-24 (95299) क्रौञ्चा मृदङ्गगीताश्च सौर्या हारीतकाश्च ये। ये पिशङ्गकृताश्चापि कातपायाः सुवालकाः॥ 14-96-25 (95300) उद्दालककृता धर्मा औशनस्यास्तथैव च। वैशम्पायनगीताश्च ये चान्येऽप्येवमादितः॥ 14-96-26 (95301) एतेभ्यः सर्वधर्मेभ्यो देव त्वन्मुखनिस्सृताः। पावनात्वात्पवित्रत्वाद्विशिष्टा इति मे मतिः॥ 14-96-27 (95302) तस्माद्धि त्वां प्रपन्नस्य त्वद्भक्तस्य च केशव। युष्मदीयान्वरान्धर्मान्पुण्यान्कथय मेच्युत॥ 14-96-28 (95303) वैशम्पायन उवाच। 14-96-29x (7938) एवं पृष्टस्तु धर्मज्ञो धर्मपुत्रेण केशवः। उवाच धर्मान्सूक्ष्मार्थान्धर्मपुत्रस्य हर्षितः॥ 14-96-29 (95304) एवं ते यस्य कौन्तेय यत्नो धर्मेषु सुव्रत। तस्य ते दुर्लभो लोके न कश्चिदपि विद्येत॥ 14-96-30 (95305) धर्मः श्रुतो वा दृष्टो वा कथितो वा कृतोपि वा। अनुमोदितो वा राजेन्द्र नयतीन्द्रपदं नरम्॥ 14-96-31 (95306) धर्मः पिता च माता च धर्मो नाथः सुहृत्तथा। धर्मो भ्राता सखा चैव धर्मः स्वामी परंतप॥ 14-96-32 (95307) धर्मादर्थश्च कामश्च धर्माद्भोगाः सुखानि च। धर्मार्दैश्वर्यमेवाग्र्यं धर्मात्स्वर्गगतिः परा॥ 14-96-33 (95308) धर्मोयं सेवितः शुद्धस्त्रायते महतो भयात्। धर्माद्द्विजत्वं देवत्वं धर्मः पावयते नरम्॥ 14-96-34 (95309) यदा च क्षीयते पापं कालेन पुरुषस्य तु। तदा संजायते बुद्धिर्धर्मं कर्तुं युधिष्ठिर॥ 14-96-35 (95310) जन्मान्तरसहस्रैस्तु मनुष्यत्वं हि दुर्लभम्। तद्गत्वापीह यो धर्मं न करोति स्ववञ्चितः॥ 14-96-36 (95311) कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा। परद्वेष्याश्च मूर्खाश्च न तैर्धर्मः कृतः पुरा॥ 14-96-37 (95312) ये च दीर्घायुषः शूराः पण्डिता भोगिनस्तथा॥ नीरोगा रूपसंपन्नास्तैर्धर्मः सुकृतः पुरा॥ 14-96-38 (95313) एवं धर्मः कृतः शुद्धो नयते गतिमुत्तमाम्। अधर्मं सेवते यस्तु तिर्यग्योन्यां पतत्यसौ॥ 14-96-39 (95314) इदं रहस्यं कौन्तेय शृणु धर्ममनुत्तमम्। कथयिष्ये परं धर्मं तव भक्तस्य पाण्डव॥ 14-96-40 (95315) इष्टस्त्वमसि मेऽत्यर्थं प्रपन्नश्चापि मां सदा। परमार्थमपि ब्रूयां किं पुनर्धर्मसंहिताम्॥ 14-96-41 (95316) इदं मे मानुषं जन्म कृतमात्मनि मायया। धर्मसंस्थापनार्थाय दुष्टानां नाशनाय च॥ 14-96-42 (95317) मानुष्यं भावमापन्नं ये मां गृह्णन्त्यवज्ञया। संसारान्तर्हि ते मूढास्तिर्यग्योनिष्वनेकशः॥ 14-96-43 (95318) ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषा। मद्भक्तांस्तान्सदा युक्तान्मत्समीपं नयाम्यहम्॥ 14-96-44 (95319) मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः। मद्भाक्तानां तु मानुष्ये सफल जन्म पाण्डवा॥ 14-96-45 (95320) अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन। मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवांभसा॥ 14-96-46 (95321) जन्मान्तरसहस्रेषु तपसा भावितात्मनाम्। भक्तिरुत्पद्यते तात मनुष्याणां न संशयः॥ 14-96-47 (95322) यच्च रूपं परं गुह्यं कूटस्तमचलं ध्रुवम्। न दृश्यते तता देवैर्मद्भक्तैर्दृश्यते यथा॥ 14-96-48 (95323) अपरं यच्च मे रूपं पर्रादुर्भावेषु दृश्यते। तदर्चयन्ति सर्वार्थैः सर्वभूतानि पाण्डव॥ 14-96-49 (95324) कल्पकोटिसहस्रेषु व्यतीतेष्वागते च। दर्शयामीह तद्रूपं यच्च पश्यन्ति मे सुराः॥ 14-96-50 (95325) स्तित्युत्पत्त्यव्ययकरं यो मां ज्ञात्वा प्रपद्यते। अनुगृह्णाम्यहं तं वै संसारान्मोचयामि च॥ 14-96-51 (95326) अहमादिर्हि देवानां सृष्टा ब्रह्मादयो मया। प्रकृतिं स्वामवष्टभ्य जगत्सर्वं सृजाम्यहम्॥ 14-96-52 (95327) तमोमूलोहमव्यक्तो रजोमध्ये प्रतिष्ठितः। ऊर्ध्वं सत्त्वं विना लोभं ब्रह्मादिस्तंबपर्यतः॥ 14-96-53 (95328) मूर्धानं मे विद्धि दिवं चन्द्रादित्यौ च लोचने। गावोग्निर्बाह्मणो वक्त्रं मारुतः श्वसनं च मे॥ 14-96-54 (95329) दिशो मे बाहवश्चाष्टौ नक्षत्राणि च भूषणम्। अन्तरिक्षमुरो विद्धि सर्वभूतावकाशकम्। मार्गो मेघानिलाभ्यां तु यन्ममोदरमव्ययम्॥ 14-96-55 (95330) पृथिवीमण्डलं यद्वै द्वीपार्णवनगैर्युतम्। सर्वसंधारणोपेतं पादौ मम युधिष्ठिर॥ 14-96-56 (95331) स्थितो ह्येकगुणः खेऽहं द्विगुणश्चास्मि मारुते। त्रिगुणोग्नौ स्थितोहं वै सलिले च चतुर्गुणः॥ 14-96-57 (95332) शब्दाद्या ये गुणाः पञ्च महाभूतेषु पञ्चसु। तन्मात्रासंस्थितः सोहं पृथिव्यां पञ्चधास्थितः॥ 14-96-58 (95333) अहं सहस्रसीर्षस्तु सहस्रवदनेक्षणः। सहस्रबाहूदरधृक्सहस्रोरुः सहस्रपात्॥ 14-96-59 (95334) धृत्वोर्वीं सर्वतः सम्यगत्यतिष्ठं दशांगुलम्। सर्वभूतात्मभूतस्थः सर्वव्यापी ततोस्म्यहम्॥ 14-96-60 (95335) अचिन्त्योहमनन्तोहमजरोहमजो ह्यहम्। अनाद्योऽहमवध्योहमप्रमेयोहमव्ययः॥ 14-96-61 (95336) निर्गुणोहं निगूढात्मा निर्द्वन्द्वो निर्ममो नृप। निष्कलो निर्विकारोहं निदानममृतस्य तु॥ 14-96-62 (95337) सुधा चाहं स्वधा चाहं स्वाहा चाहं नराधिप। तेजसा तपसा चाहं भूतग्रामं चतुर्विधम्॥ 14-96-63 (95338) स्नेहपाशैर्गुणबद्ध्वा धारयाम्यात्ममायया। चातुराश्रमधर्मेहं चातुर्होत्रफलाशनः। चतुर्मूर्तिश्चतुर्यज्ञश्चतुराश्रमभावनः॥ 14-96-64 (95339) संहृत्याहं जगत्सर्वं कृत्वा वै गर्भमात्मनः। शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर॥ 14-96-65 (95340) सहस्रयुगपर्यन्तां ब्राह्मीं रात्रिं महार्णवे। स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च॥ 14-96-66 (95341) कल्पे कल्पे च भूतानि संहरामि सृजामि च। न च मां तानि जानन्ति मायया मोहितानि मे॥ 14-96-67 (95342) मम चैवान्धकारस्य मार्गितव्यस्य नित्यशः। प्रशान्तस्येव दीपस्य गतिर्नैपोपलभ्यते॥ 14-96-68 (95343) न तदस्ति क्वचिद्राजन्यत्राहं न प्रतिष्ठितः। न च तद्विद्यते भूतं मयि यन्न प्रतिष्ठितम्॥ 14-96-69 (95344) यावन्मित्रं भवेद्भूतं स्थूलं सूक्ष्ममिदं जगत्। दीवभूतो ह्यहं तस्मिंस्तावन्मात्रं प्रतिष्ठितः॥ 14-96-70 (95345) किंचात्र बहुनोक्तेन सत्यमेतद्ब्रवीमि ते। यद्भूतं यद्भविष्यच्च तत्सर्वमहमेव तु॥ 14-96-71 (95346) मया सृष्टानि भूतानि मन्मयानि च भारत। मामेव न विजानन्ति मायया मोहितानि वै॥ 14-96-72 (95347) एवं सर्वं जगदिदं सदेवासुरमानुषम्। मत्तः प्रभवते राजन्मय्येव प्रविलीयते॥ ॥ 14-96-73 (95348) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षण्णवतितमोऽध्यायः॥ 96 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-96-1x एतदारभ्यापर्वसमाप्ति विद्यमानास्त्रयोविंशत्यध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते नत्वौत्तराहपाठे। 7-96-2 पञ्चमेनाश्वमेधेनेति ट.पाठः॥ 7-96-18 शूद्रायनकृता धर्मा इति क.पाठः॥ 7-96-23 वैभीतककृताश्च ये इति ट.पाठः॥ 7-96-31 राजेन्द्र पुनाति ह नरं सदेति ट.पाठः॥
आश्वमेधिकपर्व - अध्याय 097

॥ श्रीः ॥

14.97. अध्यायः 097

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति चातुर्वर्ण्यधर्मनिरूपणम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। एवमात्मोद्भवं सर्वं यगदुद्दिश्य केशवः। धर्मान्धर्मात्मजस्याथ पुण्यानकथयत्प्रभुः॥ 14-97-1 (95349) शृणु पाण्डव तत्वेन पवित्रं पापनाशनम्। कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत्॥ 14-97-2 (95350) यः शृणोति शुचिर्भूत्वा एकचित्तस्तपोयुतः। स्वर्ग्यं यशस्यामायुष्यं धर्मं ज्ञेयं युधिष्ठिर॥ 14-97-3 (95351) श्रद्दधानस्य तस्येह यत्पापं पूर्वसंचितम्। विनश्यत्याशु तत्सर्वं मद्भक्तस्य विशेषतः॥ 14-97-4 (95352) वैशम्पायन उवाच। 14-97-5x (7939) एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम्। प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुतं परम्॥ 14-97-5 (95353) देवब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस्तथा। भूता यक्षग्रहाश्चैव गुह्यका भुजगास्तथा॥ 14-97-6 (95354) वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः। तथा भागवताश्चापि पञ्चकालमुपासकाः॥ 14-97-7 (95355) कौतूहलसमाविष्टाः प्रहृष्टैन्द्रियमानसाः। श्रोतुकामाः परं धर्मं वैष्णवं धर्मशासनम्। हृदि कर्तुं च तद्वाक्यं प्रणेमुः शिरसा नताः॥ 14-97-8 (95356) ततस्तान्वासुदेवेन दृष्टान्दिव्येन चक्षुषा। विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम्। पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान्॥ 14-97-9 (95357) युधिष्ठिर उवाच। 14-97-10x (7940) कीदृशी ब्राह्मणस्याथ क्षत्रियस्यापि कीदृशी। वैश्यस्य कीदृशी देव गतिः शूद्रस्य कीदृशी॥ 14-97-10 (95358) कथं बध्येत पाशेन ब्राह्मणस्तु यमालये। क्षत्रियो वाथ वैश्यो वा शूद्रो वा बध्यते कथम्। एतत्कर्मफलं ब्रूहि लोकनाथ नमोस्तु ते॥ 14-97-11 (95359) वैशम्पायन उवाच। 14-97-12x (7941) पृष्टोऽथ केशवो ह्येवं धर्मपुत्रेण धीमता। उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम्॥ 14-97-12 (95360) भगवानुवाच। 14-97-13x (7942) शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर। नास्ति किंचिन्नरश्रेष्ठ ब्राह्मणस्य तु दुष्कृतम्॥ 14-97-13 (95361) शिखांयज्ञोपवीता ये सन्ध्यां ये चाप्युपासते। यैश्च पूर्णाहुतिः प्राप्ता विधिवज्जुह्वते च ये॥ 14-97-14 (95362) वैश्वदेवं च ये चक्रुः पूजयन्त्यतिथींश्च ये। नित्यं स्वाध्यायशीलाश्च जपयज्ञपराश्च ये॥ 14-97-15 (95363) सायंप्रातर्हुताशाश्च शूद्रभोजनवर्जिताः। डंभानृतविमुक्ताश्च स्वदारनिरताश्च ये। पञ्चयज्ञपरा ये च येऽग्निहोत्रमुपासते॥ 14-97-16 (95364) दहन्ति दुष्कृतं येषां हूयमानास्त्रयोऽग्नयः। नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते॥ 14-97-17 (95365) ब्रह्मलोके पुनः कामं गन्धर्वैर्ब्रह्मगायकैः। उद्गीयमानाः प्रयतैः पूज्यमानाः स्वयंभुवा। ब्रह्मिलोके प्रमोदन्ते यावदाभूतसंप्लुवम्॥ 14-97-18 (95366) क्षत्रियोपि स्थितो राज्ये स्वधर्मपरिपालकः। सम्यक्प्रजाः पालयिता षड्भागनिरतः सदा॥ 14-97-19 (95367) यज्ञदानरतो धीरः स्वदारनिरतः सदा। शास्त्रानुसारी तत्वज्ञः प्रजाकार्यपरायणः॥ 14-97-20 (95368) विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः। सत्यसन्धः शुचिर्नित्यं लोभडंभविवर्जितः। क्षत्रियोप्युत्तमां याति गतिं देवनिषेविताम्॥ 14-97-21 (95369) तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च विशेषतः। सेव्यमानो महातेजाः क्रीडते शक्रपूजितः॥ 14-97-22 (95370) चतुर्थगानि वै त्रिंशत्क्रीडित्वा तत्र देववत्। इह मानुष्यलोके तु चतुर्वेदी द्विजो भवेत्॥ 14-97-23 (95371) कृषिगोपालनिरतो धर्मानवेषणतत्परः। 14-97-24 (95372) दानधर्मेपि निरतो विप्रशुश्रूषकस्तथा॥ 14-97-24 (95373) सत्यसन्धः शुचिर्नित्यं लोभडंभविवर्जितः। ऋजुः स्वदारनिरतो हिंसाद्रोहविवर्जितः॥ 14-97-25 (95374) वणिग्धर्मान्नमुञ्चन्वै देवब्राह्मणपूजकः। वैश्यः स्वर्गतिमाप्नोति पूज्यमानोप्सरोगणैः॥ 14-97-26 (95375) चतुर्युगानि वै त्रिंशत्क्रीडित्वा दश पञ्च च। इह मानुष्यलोके च राजा भवति वीर्यवान्॥ 14-97-27 (95376) सुवर्णकोट्यः पञ्चाशद्रत्नानां च शतं तथा। हस्त्यश्वरश्वसंयुक्तो महाभोगांश्च सेवते॥ 14-97-28 (95377) त्रयाणामपि वर्णानां शुश्रूषानिरतः सदा। विशेषतस्तु विप्राणां दासवद्यस्तु तिष्टति॥ 14-97-29 (95378) अयाचितप्रदाता च सत्यशौचसमन्वितः। गुरुदेवार्चनरतः परदारविवर्जितः॥ 14-97-30 (95379) परपीडामकृत्वैव भत्यवर्गं बिभर्ति यः। शूद्रोपि स्वर्गमाप्नोति जीवानामभयप्रदः॥ 14-97-31 (95380) स स्वर्गकलोके क्रीडित्वा वर्षकोटिं महातपाः। इह मानुषलोके तु वैश्यो धनपतिर्भवेत्॥ 14-97-32 (95381) एवं धर्मात्परं नास्ति महत्संसारमोक्षणम्। न च धर्मात्पर किंचित्पापकर्मव्यपोहनम्॥ 14-97-33 (95382) तस्माद्धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम्। न हि धर्मानुरक्तानां लोके किंचन दुर्लभम्॥ 14-97-34 (95383) स्वयंभुविहितो धर्मो यो यस्येह नरेश्वर। स तेन क्षपयेत्पापं सम्यगाचरितेन च ॥ 14-97-35 (95384) सहजं यद्भदेत्कर्म न तत्त्याज्यं हि केनचित्। स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति॥ 14-97-36 (95385) विगुणोपि स्वधर्मस्तु पापकर्म व्यपोहति। एवमेव तु धर्मोपि क्षीयते पापवर्धनात्॥ 14-97-37 (95386) युधिष्ठिर उवाच। 14-97-38x (7943) भगवन्देवदेवेश श्रोतुं कौतूहलं हि मे। शुभस्याप्यशुभस्यापि क्षयवृद्धी यथाक्रमम्॥ 14-97-38 (95387) भगवानुवाच। 14-97-39x (7944) शृणु पार्थिव तत्सर्वं धर्मसूक्ष्मं सनातनम्। दुर्विज्ञेयतमं नित्यं यत्र मग्ना महाजनाः॥ 14-97-39 (95388) यथैव शीतमुदकमुष्णेन बहुना वृतम्। भवेत्तु तत्क्षणादुष्णं शीतत्वं च विनश्यति॥ 14-97-40 (95389) यथोष्णं वा भवेदल्पं शीतेन बहुना वृतम्। शीतलं च भवेत्सर्वमुष्णत्वं च विनश्यति॥ 14-97-41 (95390) एवं च यद्भवेद्भूरि सुकृतं वाऽपि दुष्कृतम्। तदल्पं क्षपयेच्छीघ्रं नात्र कार्या विचारणा॥ 14-97-42 (95391) समत्वे सति राजेन्द्र तयोः सुकृतपापयोः। गूहितस्य भवेद्वृद्धिः कीर्तितस्य भवेत्क्षयः॥ 14-97-43 (95392) ख्यापनेनानुतापेन प्रायः पापं विनश्यति। तथा कृतस्तु राजेन्द्र धर्मो नश्यति मानद॥ 14-97-44 (95393) तावुभौ गूहितौ सम्यग्वृद्धिं यातो न संशयः। तस्मात्सर्वप्रयत्नेन न पापं गूहयेद्बुधः॥ 14-97-45 (95394) तस्मादेतत्प्रयत्नेनि कीर्तयेत्क्षयकारणात्। तस्मात्संकीर्तयेत्पापं नित्यं धर्मं च गूहयेत्॥ ॥ 14-97-46 (95395) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि सप्तनवतितमोऽध्यायः॥ 97 ॥
आश्वमेधिकपर्व - अध्याय 098

॥ श्रीः ॥

14.98. अध्यायः 098

अश्वमेधपर्व ॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति जन्मदानजीवितानां वैयर्थ्यापादकाधर्मकथनम्॥ 1 ॥ तथा दानानां सात्विकत्वादिकथनपूर्व तत्तत्फलानां त्रैविध्यादिप्रतिपादनम्॥ 2 ॥ तथा दानपात्रलक्षणनिरूपणम् ब्राह्मणमहिमानुवर्णनं च॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु। पप्रच्छ पुनरप्यन्यं धर्मं धर्मात्मजो हरिम्॥ 14-98-1 (95396) वृथा च कति जन्मानि वृथा दानानि कानि च। वृथा च जीवितं केषां नराणां पुरुषोत्तम॥ 14-98-2 (95397) कीदृशासु ह्यवस्थासु दानं दत्तं जनार्दन। इह लोकेऽनुभवति पुरुषः पुरुषोत्तम॥ 14-98-3 (95398) गर्भस्थः किं समश्नाति किं बाल्ये वाऽपि केशव। यौवनस्थेऽपि किं कृष्ण वार्धके वाऽपि किं भवेत्॥ 14-98-4 (95399) सात्विकं कीदृशं दानं राजसं कीदृशं भवेत्। तामसं कीदृशं देव तर्पयिष्यति किं प्रभो॥ 14-98-5 (95400) उत्तमं कीदृशं दानं तेषां वा किं फलं भवेत्। किं दानं नयति ह्यूर्ध्वं किं गतिं मध्यमां नयेत्। गतिं जघन्यामथवा देवदेव ब्रवीहि मे॥ 14-98-6 (95401) एतदिच्छामि विज्ञातुं परं कौतूहलं हि मे। त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन॥ 14-98-7 (95402) वैशम्पायन उवाच। 14-98-8x (7945) एवं धर्मं प्रयत्नेन पृष्टः पाण्डुसुतेन वै। उवाच वासुदेवोऽथ धर्मान्धर्मात्मजस्य तु॥ 14-98-8 (95403) भगवानुवाच। 14-98-9x (7946) शृणु राजन्यथान्यायं वचनं तथ्यमुत्तमम्। कथ्यमानं मया पुण्यं सर्वपापव्यपोहनम्॥ 14-98-9 (95404) वृथा च दश जन्मानि चत्वारि च नराधिप। वृथा दानानि पञ्चाशत्पञ्चैव च यथाक्रमम्॥ 14-98-10 (95405) वृथा च जीवितं येषां ते च षट् परिकीर्तिताः। अनुक्रमेण वक्ष्यामि तानि सर्वाणि पार्थिव॥ 14-98-11 (95406) धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा। वृथा पाकं च येऽश्नन्ति परदाररताश्च ये। पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः॥ 14-98-12 (95407) मृष्टमश्नाति यश्चैकः क्लिस्यमानैस्तु बान्धवैः। पितरं मातरं चैव उपाध्यायं गुरुं तथा। मातुलं मातुलानीं च यो निहन्याच्छपेत वा॥ 14-98-13 (95408) ब्राह्मणश्चैव यो भूत्वा सन्ध्योपासनवर्जितः। निस्स्वाहो निस्स्वधश्चैव शूद्राणामन्नभुग्द्विजः॥ 14-98-14 (95409) मम वा शंकरस्याथ ब्रह्मणो वा युधिष्ठिर। अथवा ब्राह्मणानां तु ये न भक्ता नराधमाः। वृथाजन्मान्यथैतेषां पापिनां विद्धि डव॥ 14-98-15 (95410) अश्रद्धयाऽपि यद्दत्तमवामानेन वाऽपि यत्। डंभार्थमपि यद्दत्तं यत्पाषण्डिहृतं नृप॥ 14-98-16 (95411) शूद्राचाराय यद्दत्तं यद्दत्त्वा चानुकीर्तितम्। रोषयुक्तं तु यद्दत्तं यद्दत्तमनुशोचितम्॥ 14-98-17 (95412) डंभार्जितं च यद्दत्तं यच्च वाऽप्यनृतार्जितम्। ब्राह्मणस्वं च यद्दत्तं चौर्येणाप्यार्जितं च यत्॥ 14-98-18 (95413) अभिशास्ताहृतं यत्तु यद्दत्तं पतिते द्विजे। निर्ब्रह्माभिहृतं यत्तु यद्दत्तं सर्वयाचकैः॥ 14-98-19 (95414) व्राप्यैस्तु यद्धृतं दानमारूढपतितैश्च यत्। यद्दत्तं स्वैरिणीभर्तुः श्वशुराननुवर्तिने॥ 14-98-20 (95415) यद्ग्रामयाचकहृतं यत्कृतघ्नहृतं तथा। उपपातकिने दत्तं देवविक्रयिणे च यत्॥ 14-98-21 (95416) स्त्रीजिताय च यद्दत्तं यद्दत्तं राजसेविने। गणकाय च यद्दत्तं यच्च कारणिकाय च॥ 14-98-22 (95417) वृषलीपतये दत्तं यद्दत्तं शस्त्रजीविने। भृतकाय च यद्दत्तं व्यालग्राहिहृतं च यत्॥ 14-98-23 (95418) पुरोहिताय यद्दत्तं चिकित्सकहृतं च यत्। यद्वणिंक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने॥ 14-98-24 (95419) यच्छूद्रजीविने दत्तं यच्च देवलकाय च। देवद्रव्याशिने यच्च यद्दत्तं चित्रकर्मिणे॥ 14-98-25 (95420) रङ्गोपजीविने दत्तं यच्च मांसोपजीविने। सेवकाय च यद्दत्तं यद्दत्तं ब्राह्मणब्रुवे॥ 14-98-26 (95421) अदेशिने च यद्दत्तं दत्तं वार्धुषिकाय च। यदनाचारिणे दत्तं यत्तु दत्तमनग्रये॥ 14-98-27 (95422) असन्ध्योपासिने दत्तं यच्छूद्रग्रामवासिने। यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत्॥ 14-98-28 (95423) नास्तिकाया च यद्दत्तं धर्मविक्रयिणे च यत्। वराकाय च यद्दत्तं यद्दत्तं कूटसाक्षिणे॥ 14-98-29 (95424) ग्रामकूटाय यद्दत्तं दानं पार्तिवपुङ्गव। वृथा भवति तत्सर्वं नात्र कार्या विचारणा॥ 14-98-30 (95425) विप्राणामधरा एते लोलुपा ब्राह्मणाधमाः। नात्मानं तारयन्त्येते न दातारं युधिष्ठिर॥ 14-98-31 (95426) एतेभ्यो दत्तमात्राणि दानानि सुबहून्यपि। वृथा भवन्ति राजेन्द्र भस्मन्याज्याहुतिर्यथा॥ 14-98-32 (95427) एतेषु यत्फलं किंचिद्भविष्यति कथंचन। राक्षसाश्च पिशाचाश्च तद्विलुंपन्ति हर्षिताः॥ 14-98-33 (95428) वृथा ह्येतानि दत्तानि कथितानि समासतः। जीवितं तु वृथा येषां चच्छृणुष्व युधिष्ठिर॥ 14-98-34 (95429) ये मां न प्रतिपद्यन्ते शङ्करं वा नराधमाः। ब्रैह्मणान्वा महीदेवान्वृथा जीवन्ति ते नराः॥ 14-98-35 (95430) हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथमाश्रिताः। देवान्निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः॥ 14-98-36 (95431) कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः। विप्रान्निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः॥ 14-98-37 (95432) ये दुर्गां वा कुमारं वा वायुमग्निं जलं रविम्। पितरं मातरं चैव गुरुमिन्द्रं निशाकरम्। मूढा निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः॥ 14-98-38 (95433) विद्यमाने धने यस्तु दानधर्मविवर्जितः। मृष्टमश्नाति यश्चैको वृथा जीवति सोपि च॥ 14-98-39 (95434) वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते॥ 14-98-40 (95435) तमोनिविष्टचित्तेन दत्तं दानं तु यद्भवेत्। तदस्य फलमश्नाति नरो गर्भगतो नृप॥ 14-98-41 (95436) ईर्ष्यामत्सरसंयुक्तो डंभार्थं चार्थकारणात्। ददाति दानं यो मर्त्यो बालभावे तदश्नुते॥ 14-98-42 (95437) भोक्तं भोगमशक्तस्तु व्याधिभिः पीडितो भृशम्। ददाति दानं यो मर्त्यो वृद्धभावे तदश्नुते॥ 14-98-43 (95438) श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः। ददाति दानं यो मर्त्यो यौवने स तदश्नुते॥ 14-98-44 (95439) स्वयं नीत्वा तु यद्दानं भक्त्या पात्रे प्रदीयते। तत्सार्वकालिकं विद्धि दानमामरणान्तिकम्॥ 14-98-45 (95440) राजसं सात्विकं चापि तामसं च युधिष्ठिर। दानं दानफलं चैव गतिं च त्रिविधां शृणु॥ 14-98-46 (95441) दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै। उपकारवियुक्ताय यद्दत्तं तद्धि सात्विकम्॥ 14-98-47 (95442) श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव। दीयते यत्प्रहृष्टेन तत्सात्विकमुदाहृतम्॥ 14-98-48 (95443) वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे। समृद्धाय च यद्दत्तं तद्दानं राजसं स्मृतम्॥ 14-98-49 (95444) संबन्धिने च यद्दत्तं प्रमत्ताय च पाण्डव। फलार्थिभिरपात्राय तद्दानं राजसं स्मृतम्॥ 14-98-50 (95445) वैश्वदेवविहीनाय दानमश्रोत्रियाय च। दीयते तस्करायापि तद्दानं तामसं स्मृतम्॥ 14-98-51 (95446) सरोषमवधूतं च क्लेशयुक्तमवज्ञया। सेवकाय च यद्दतं तत्तामसमुदाहृतम्॥ 14-98-52 (95447) देवाः पितृगणाश्चैव मुनयश्चाग्नयस्तथा। सात्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर॥ 14-98-53 (95448) दानवा दैत्यसङ्गाश्च ग्रहा यक्षाः सराक्षसाः। राजसं दानमश्नन्ति वर्जितं पितृदैवतैः॥ 14-98-54 (95449) पिशाचाः प्रेतसङ्घाश्च कश्मला ये मलीमसाः। तामसं दानमश्नन्ति गतिं च त्रिविधां शृणु॥ 14-98-55 (95450) सात्विकानां तु दानानामुत्तमं फलमश्नुते। मध्यमं राजसानां तु तामसानां तु पश्चिमम्॥ 14-98-56 (95451) अभिगम्योपनीतानां दानानामुत्तमं फलम्। मध्यमं तु समाहूय जघन्यं याचते फलम्॥ 14-98-57 (95452) अयाचितप्रदाता यः स याति गतिमुत्तमाम्। समाहूय तु यो दद्यान्मध्यमां स गतिं व्रजेत्। याचितो यश्च वै दद्याज्जघन्यां स गतिं व्रजेत्॥ 14-98-58 (95453) उत्तमा दैविकी ज्ञेया मध्यमा मानुषी गतिः। गतिर्जघन्या तिर्यक्षु गतिरेषा त्रिधा स्मृता॥ 14-98-59 (95454) पात्रभूतेषु विप्रेषु संस्थितेष्वाहिताग्निषु। यत्तु निक्षिप्यते दानमक्षयं संप्रकीर्तितम्॥ 14-98-60 (95455) श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव। समृद्धानां द्विजातीनां कुर्यास्तेषां तु रक्षणम्॥ 14-98-61 (95456) दरिद्रान्वित्तहीनांश्च प्रदानैः सुष्ठु पूजय। आतुरस्यैषधैः कार्यं नीरुजस्य किमौषधैः॥ 14-98-62 (95457) पापं प्रतिग्रहीतारं प्रदातुरपगच्छति। प्रतिग्रहीतुर्यत्पुण्यं प्रदातारमुपैति तत्। तस्माद्दानं सदा कार्यं परत्र हितमिच्छता॥ 14-98-63 (95458) वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु। प्रयत्नेन विधातव्यो महादानमयो निधिः॥ 14-98-64 (95459) येषां दाराः प्रतीक्षन्ते सहस्रस्येव लम्भनम्। भुक्तशेषस्य भक्तस्य तान्निमन्त्रय पाण्डव॥ 14-98-65 (95460) आमन्त्र्य तु निराशानि न कर्तव्यानि भारत। कुलानि सुदरिद्राणि तेषामाशा हता भवेत्॥ 14-98-66 (95461) मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः। मद्याजिनो मन्नियमास्तान्प्रयत्नेन पूजयेत्॥ 14-98-67 (95462) तेषां तु पावनायाहं नित्यमेव युधिष्ठिर। उभे सन्ध्येऽधितिष्ठामि ह्यस्कन्नं तद्व्रतं मम॥ 14-98-68 (95463) तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः। सन्ध्याकाले तु जप्तव्यं सततं चात्मशुद्धये॥ 14-98-69 (95464) अन्येषामपि विप्राणां किल्बिषं हि विनश्यति। उभे सन्ध्येप्युपासीत तस्माद्विप्रो विशुद्धये। 14-98-70 (95465) दैवे श्राद्धेपि विप्रः स नियोक्तव्योऽजुगुप्सया। जुगुप्सितस्तु यः श्राद्धं दहत्यग्निरिवेन्धनम्॥ 14-98-71 (95466) भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम्। आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥ 14-98-72 (95467) न ब्राह्मणान्परीक्षेत दैवे कर्मणि धर्मवित्। महान्भवेत्परीवादो ब्राह्मणानां परीक्षणे॥ 14-98-73 (95468) ब्राह्मणानां परीवादं यः कुर्यात्स नराधमः। रासभानां शुनां योनिं गच्छेत्पुरुषदूषकः॥ 14-98-74 (95469) श्वत्वं प्राप्नोति निन्दित्वा परीवादात्खरो भवेत्। कृमिर्भवत्यभिभवात्कीटो भवति मत्सरात्॥ 14-98-75 (95470) दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः। ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः॥ 14-98-76 (95471) क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्। नावमन्येत मेधावी कृशानपि कदाचन॥ 14-98-77 (95472) एतत्त्रयं हि पुरुषं निर्दहेदवमानितम्। तस्मादेतत्प्रयत्नेन नावमन्येत बुद्धिमान्॥ 14-98-78 (95473) यथा सर्वास्ववस्थासु पावको दैवतं महत्। तथा सर्वास्ववस्थासु ब्राह्मणो दैवतं महत्॥ 14-98-79 (95474) व्यङ्गाः काणाश्च कुब्जाश्च वामनाङ्गास्तथैव च। सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः॥ 14-98-80 (95475) मन्युं नोत्पादयेत्तेषां न चारिष्टं समाचरेत्। मन्युप्रहरणा विप्रा न विप्राः शश्त्रपाणयः॥ 14-98-81 (95476) मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान्। ब्राह्मणो हि महद्दैवं जातिमात्रेण जायते॥ 14-98-82 (95477) ब्राह्मणः सर्वभूतानां धर्मकोशस्य गुप्तये। किं पुनर्ये च कौन्तेय सन्ध्यां नित्यमुपासते॥ 14-98-83 (95478) यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः। कव्यानि चैव पितरः किं भूतमधिकं ततः॥ 14-98-84 (95479) उत्पत्तिरेव विप्रस्य मूर्तिधर्मस्य शाश्वती। स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते॥ 14-98-85 (95480) स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च। आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः। तस्मात्ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा॥ 14-98-86 (95481) आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः। निगूढं निष्कलावस्थं तान्प्रयत्नेन पूजय॥ 14-98-87 (95482) स्वगृहे वा प्रवासे वा दिवारात्रमथापि वा। श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव॥ 14-98-88 (95483) नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः। नास्ति विप्रात्परो बन्धुर्नास्ति विप्रात्परो निधिः। नास्ति विप्रात्परं तीर्थं न पुण्यं ब्राह्मणात्परम्। 14-98-89 (95484) न पवित्रं परं विप्रान्न द्विजात्पावनं परम्। नास्ति विप्राप्तरो धर्मो नास्ति विप्रात्परा गतिः॥ 14-98-90 (95485) पापकर्मसमाक्षिप्तं पतन्तं नरके नरम्। त्रायते पात्रमप्येकं पात्रभूते तु तद्द्विजे॥ 14-98-91 (95486) बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः। मामर्चयन्ति तद्भक्तास्तेभ्यो दत्तमिहाक्षयम्॥ 14-98-92 (95487) प्रदानैः पूजितो विप्रो वन्दितो वापि संस्कृतः। सम्भाषितो वा दृष्टो वा मद्भक्तो दिवमुन्नयेत्॥ 14-98-93 (95488) ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तु माम्। स तान्स्पृष्ट्वा च दृष्ट्वा च नरः पापैः प्रमुच्यते॥ 14-98-94 (95489) मद्भक्ता मद्गतप्राणा मद्गीता मत्परायणाः। बीजयोनिविशुद्धा यै श्रोत्रियाः संयतेन्द्रियाः। शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात्॥ 14-98-95 (95490) स्वंय नीत्वा विशेषेण दानं तेषां गृहेष्वथ। निवापयेत्तु यद्भक्त्या तद्दानं कोटिसंमितम्॥ 14-98-96 (95491) जाग्रतः स्वपतो वापि प्रवासेषु गृहेष्वथ। हृदये न प्रणश्यामि यस्य विप्रस्य भावतः॥ 14-98-97 (95492) स पूजितो वा दृष्टो वा स्पृष्टो वापि द्विजोत्तमः। सम्भाषितो वा राजेन्द्र पुनात्येव नरं सदा॥ 14-98-98 (95493) एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव। मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै॥ ॥ 14-98-99 (95494) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि अष्टनवतितमोऽध्यायः॥ 98 ॥
आश्वमेधिकपर्व - अध्याय 099

॥ श्रीः ॥

14.99. अध्यायः 099

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति बीजयोन्योः शुद्ध्यशुद्धिनिरूपणम्॥ 1 ॥ तथा गायत्रीमहिमानुवर्णनम्॥ 2 ॥ ब्राह्मणमहिमप्रशंसनम्। ब्राह्मणावमन्तॄणां नारकयातनानुवर्णनं च ॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। श्रुत्वैवं सात्विकं दानं राजसं तामसं तथा। पृथक्पृथक्त्वेन गतिं फलं चापि पृथक्पृथक्॥ 14-99-1 (95495) अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः। युधिष्ठिरो धर्मरतः केशवं पुनरब्रवीत्॥ 14-99-2 (95496) बीजयोनिविशुद्धानां लक्षणानि वदस्व मे। बीजदोषेण लोकेश जायन्ते च कथं नराः॥ 14-99-3 (95497) आचारदोषं देवेशं वक्तुगर्हस्यशेषतः॥ ब्राह्मणानां विशेषं च गुणदोषौ च केशव॥ 14-99-4 (95498) चातुर्वर्ण्यस्य कुत्स्नस्य वर्तमानाः प्रतिग्रहे। केन विप्रा विशेषेण तरन्ते तारयन्ति च। एतान्कथय देवेश त्वद्भक्तस्य नमोस्तु ते॥ 14-99-5 (95499) भगवानुवाच। 14-99-6x (7947) शृणु राजन्यथावृत्तं बीजयोनिं शुभाशुभम्। येन तिष्ठति लोकोयं विनश्यति च पाण्डव॥ 14-99-6 (95500) अविप्लुतब्रह्मचर्यो यस्तु विप्रो यथाविधि। स बीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत्॥ 14-99-7 (95501) कन्या चाक्षतयोनिः स्यात्कुलीना पितृमातृतः। ब्राह्मणादिषु विवाहेषु परिणीता यथाविधि। सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते॥ 14-99-8 (95502) मनसा कर्मणा वाचा या गच्छेत्परपूरुषम्। योनिस्तस्या नरश्रेष्ठ गर्भाधानं न चार्हति॥ 14-99-9 (95503) स्वैरिण्या यस्तु पापात्मा संतानार्थमिहेच्छति। स कुलान्पातयत्याशु दशपूर्वान्दशापरान्॥ 14-99-10 (95504) दुष्टयोनौ तु यो मोहाद्रेतः सिञ्चति मूढधीः। तद्रेतसा समुत्पन्नः षडङ्गविदपि द्विजः। साधुभिः स बहिष्कार्यः श्वापाक इव पार्थिवा॥ 14-99-11 (95505) कर्मणा मनसा वाचा या भवेत्स्वैरचारिणी। सा कुलघ्रीति विज्ञेया तस्यां जातः श्वपाचकः॥ 14-99-12 (95506) दैवे पित्र्ये तथा दाने भोजने सहभाषणे। शयने सहसंबन्धे न योग्या दृष्टयोनिजाः॥ 14-99-13 (95507) न तस्माद्दुष्टयोन्यां तु गर्भमुत्पादयेद्बुधः। मोहेन कुरुते यस्तु कुलं हन्ति त्रिपूरुषम्॥ 14-99-14 (95508) कानीकनश्च सहोञश्च तथोभौ कुण्डगोलकै। आरूढपतिताज्जातः परितस्यापि यः सुतः। षडेते विप्रचण्डाला निकृष्टाः श्वपचादपि॥ 14-99-15 (95509) यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत्। कामचारी स पापात्मा बीजं तस्याशुभं भवेत्॥ 14-99-16 (95510) अशुद्धं तद्भवेद्बीजं शुद्धां योनि न चार्हति। दूषयत्यपि तां योनिं शुना लीढं हविर्यथा॥ 14-99-17 (95511) शूद्रयोनौ पतेद्बीजं हाहाशब्दं द्विजन्मनः। कुर्यात्पुरीषगर्तेषु पतितोऽस्मीति दुःखितः॥ 14-99-18 (95512) मामधःपातयन्नेष पापात्मा काममोहितः। अधोगतिं प्रजोत्क्षिप्रमिति शप्त्वा पतेत्तु तत्॥ 14-99-19 (95513) आत्मा हि शुक्लमुद्दिष्टं दैवतं परमं महत्। तस्मात्सर्वप्रयत्नेन निरुन्ध्याच्छुक्लमात्मनः॥ 14-99-20 (95514) आयुस्तेजो बलं वीर्यं प्रज्ञा श्रीश्च महद्यशः। पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया॥ 14-99-21 (95515) अविप्लुतब्रह्मचर्यैर्गृहस्थश्रममाश्रितैः। पञ्चयज्ञपरैर्धर्मः स्थाप्यते पृथिवीतले॥ 14-99-22 (95516) सायंप्रातस्तु ये सन्ध्यां सम्यङ्नित्यमुपासते। नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च॥ 14-99-23 (95517) यो जपेत्पावनीं देवीं गायत्रीं वेदमातरम्। न सीदेत्प्रतिगृह्णानः पृथिवीं च ससागराम्॥ 14-99-24 (95518) ये चास्य दुःस्थिताः केचिद्ग्रहाः सूर्यादयो दिवि। ते चास्य सौम्या जायन्ते शिवाः शुभकरास्तथा॥ 14-99-25 (95519) यत्र यत्र स्थिताश्चैव दारुणाः पिशिताशनाः। घोररूपा महाकाया धर्षयन्ति न तं द्विजम्॥ 14-99-26 (95520) पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः। चतुर्णामपि वेदानां सा हि राजन्गरीयसी॥ 14-99-27 (95521) अचीर्णिव्रतवेदा ये विकर्मफलमाश्रिताः। ब्राह्ममा नाममात्रेण तेऽपि पूज्या युधिष्ठिर। किं पुनर्यस्तु सन्ध्ये द्वे नित्यमेवोपतिष्ठते॥ 14-99-28 (95522) शीलमध्ययनं दानं शौचं मार्दवमार्जवम्। तस्माद्वेदाद्विशिष्टानि मनुराह प्रजापतिः॥ 14-99-29 (95523) भूर्भुवस्स्वरिति ब्रह्म यो वेदनिरतो द्विजः। स्वदारनिरतो दान्तः स विद्वान्स च भूसुरः॥ 14-99-30 (95524) सन्ध्यामुपासते ये वै नित्यमेव द्विजोत्तमाः। ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः॥ 14-99-31 (95525) सावित्रीमात्रसारोपि वरो विप्रः सुयन्त्रितः। नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी॥ 14-99-32 (95526) सावित्रीं चैव वेदांश्च तुलयाऽतोलयन्पुरा। सदेवर्षिगणाश्चैव सर्वे ब्रह्मपुरस्सराः। चतुर्णामपि वेदानां सा हि राजन्गरीयसी॥ 14-99-33 (95527) यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः। एवं गृहीता सावित्री सर्ववेदे च पाण्डवः॥ 14-99-34 (95528) तस्मात्तु सर्ववेदानां सावित्री प्राण उच्यते। निर्जीवा हीतरे वेदा विना सावित्रिया नृपः॥ 14-99-35 (95529) नायन्त्रितश्चतुर्वेदी शीलभ्रष्टः स कुत्सितः। शीलवृत्तसमायुक्तः सावित्रीपाठको वरः॥ 14-99-36 (95530) सहस्रपरमां देवीं शतमध्यां दशावराम्। सावित्रीं जप कौतेय सर्वपापप्रणाशिनीम्॥ 14-99-37 (95531) युधिष्ठिर उवाच। 14-99-38x (7948) त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्यसि। नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा॥ 14-99-38 (95532) भागवानुवाच। 14-99-39x (7949) यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत्। करोति चेन्नमस्कारमुपहारं च कारयेत्॥ 14-99-39 (95533) स्तौति यः स्तुतिभिर्मां च ऋग्यजुस्सामभिः सदा। न तोषयति चेद्धिप्रान्नाहं तुष्यामि भारत॥ 14-99-40 (95534) ब्राह्मणे पूजिते नित्यं पूजितोस्मि न संशयः। आक्रुष्टे चाहमाक्रुष्टो भवामि भरतर्षभ॥ 14-99-41 (95535) परा मयि गतिस्तेषां पूजयन्ति द्विजं हि ये। यदहं द्विजरूपेण वसामि वसुधातले॥ 14-99-42 (95536) यस्तान्पूजयति प्राज्ञो मद्गतेनान्तरात्मना। तमहं स्वेन रूपेण पश्यामि नरपुङ्गव॥ 14-99-43 (95537) कुब्जाः काणा वामनाश्च दरिद्रा व्याधितास्तथा। नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः॥ 14-99-44 (95538) ये केचित्सागरान्तायां पृथिव्यां द्विजसत्तमाः। मम रूपं हि तेष्वेवमर्चितेष्वर्चितोऽस्म्यहम्॥ 14-99-45 (95539) बहवस्तु न जानन्ति नरा ज्ञानबहिष्कृताः। यदहं द्विजरूपेण वसामि वसुधातले॥ 14-99-46 (95540) अवमन्यन्ति ये विप्रान्स्वधर्मान्पातयन्ति ते। प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च॥ 14-99-47 (95541) मृतांश्चात्र परत्रेमान्यमदूता महाबलाः। निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः॥ 14-99-48 (95542) आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु। तान्मृतान्यमलोकस्थान्निपात्य पृथिवीतले॥ 14-99-49 (95543) आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः। अग्निवर्णैस्तु संदंशैर्यमो जिह्वां समुद्धरेत्॥ 14-99-50 (95544) ये च विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा। अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः॥ 14-99-51 (95545) तेषां घोरा महाकाया वक्रतुण्डा महाबलाः। उद्धरन्ति मुहूर्तेन स्वगाश्चक्षुर्यमाज्ञया॥ 14-99-52 (95546) यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच्च शोणितम्। अस्थिभङ्गं च यः कुर्यात्प्राणैर्वा विप्रयोजयेत्। सोनुपूर्व्येण यातीमान्नरकानेकविंशतिम्॥ 14-99-53 (95547) शूलमारोप्यते पश्चाज्ज्वलने परिपच्यते। बहुवर्षसहस्राणि पच्यमानस्त्ववाक्छिराः। नावमुच्येत दुर्मेदा न तस्य क्षीयते गतिः॥ 14-99-54 (95548) ब्राह्मणान्वा विचार्यैव व्रजन्तै वधकाङ्क्षया। शतर्वषसहस्राणि तामिस्रे परिपच्यते॥ 14-99-55 (95549) उत्पाद्य शोणितं गात्रात्संरंभमतिपूर्वकम्। सपर्ययेण यातीमान्नरकानेकविंशतिम्॥ 14-99-56 (95550) तस्मान्नाकुशलं ब्रूयान्न शुष्कां गतिमीरयेत्। न ब्रूयात्परुषां वाणीं न चैवैनानतिक्रमेत्॥ 14-99-57 (95551) ये विप्राञ्श्लक्ष्णया वाचा पूजयन्ति नरोत्तमाः। अर्चितश्च स्तुतश्चैव तैर्भवामि न संशयः॥ 14-99-58 (95552) तर्जयन्ति च ये विप्रान्क्रोशयन्ति च भारत। आक्रुष्टस्तर्जितश्चाहं तैर्भवामि न संशयः॥ 14-99-59 (95553) यश्चन्दनैश्चागरुधूपदीपै- रभ्यर्चयेत्काष्ठमयीं ममार्चाम्। तेनार्चितो नैव भवामि सम्य- ग्विप्रार्चनादस्मि समर्चितोऽहम्॥ 14-99-60 (95554) विप्रप्रसादाद्धरणीधरोऽहं विप्रप्रसादादसुराञ्जयामि। विप्रप्रसादाच्च सदक्षिणोऽहं विप्रप्रसादादजितोऽहमस्मि॥ ॥ 14-99-61 (95555) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकोनशततमोऽध्यायः॥ 99 ॥
आश्वमेधिकपर्व - अध्याय 100

॥ श्रीः ॥

14.100. अध्यायः 100

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति सुकृतिदुष्कृतिजनप्राप्यवैवस्वतपुरमार्गादिप्रतिपादनपूर्वकं तेषां तद्गमनप्रकारानुवर्णनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। देवदेवेश दैत्यघ्नि परं कौतूहलं हि मे। एतत्कथय सर्वज्ञ त्वद्भक्तस्य च केशव। मानुषस्य च लोकस्य धर्मलोकस्य चान्तरम्॥ 14-100-1 (95556) कीदृशं किंप्रमाणं वा किमधिष्ठानमेव च। तरन्ति मानुषा देव केनोपायेन माधव॥ 14-100-2 (95557) त्वगस्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते। कथयस्व महादेव सुखदुःखमशेषतः॥ 14-100-3 (95558) जीवस्य कर्मलोकेषु कर्मभिस्तु शुभाशुभैः। अनुबद्धस्य तैः पाशैर्नीयमानस्य दारुणैः॥ 14-100-4 (95559) मृत्युदूतैर्दुराधर्षैर्घोरैर्घोरपरक्रमैः। वध्यस्याक्षिप्यमाणस्य विद्रुतस्य यमाज्ञया॥ 14-100-5 (95560) पुण्यपापकृदातिष्ठेत्सुखदुःखमशेषतः। यमदूतैर्द्रुराधर्षैर्नीयते वा कथं पुनः। किं वा तत्र गता देव कर्म कुर्वन्ति मानवाः॥ 14-100-6 (95561) कथं धर्मपरा यान्ति देवताद्विजपूजकाः। कतं वा पापकर्माणो यान्ति प्रेतपुरं नराः॥ 14-100-7 (95562) किं रूपं किं प्रमाणं वा वर्णः को वाऽस्य केशव। जीवस्य गच्छतो नित्यं यमलोकं ब्रवीहि मे॥ 14-100-8 (95563) भगवानुवाच। 14-100-9x (7950) शृणु राजन्यथावृतं यन्मां त्वं परिपृच्छसि। तत्तेऽहं कथयिष्यामि मद्भक्तस्य नरेश्वर॥ 14-100-9 (95564) षडशीतिसहस्राणि योजनानां युधिष्ठिर। मानुष्यस्य च लोकस्य यमलोकस्य चान्तरम्॥ 14-100-10 (95565) न तत्र वृक्षच्छाया वा न तटाकं सरोपि वा। न वाप्यो दीर्घिका वाऽपि न कूपो वा युधिष्ठिर॥ 14-100-11 (95566) न मण्टपं सभा वाऽपि न प्रपा न निकेतनम्। न पर्वतो नदी वाऽपि न भूमेर्विवरं क्वचित्॥ 14-100-12 (95567) न ग्रामो नाश्रमो वाऽपि नोद्यानं वा वनानि च। न किंचिदाश्रयस्थानं पथि तस्मिन्युधिष्ठिर॥ 14-100-13 (95568) जन्तोर्हि प्राप्तकालस्य वेदनार्तस्य वै भृशम्। कारणैस्त्यक्तदेहस्य प्राणैः कण्ठगतैः पुनः॥ 14-100-14 (95569) शरीराच्चाल्यते जीवो ह्यवशो मातरिश्वना। निर्गतो वायुभूतस्तु षट्कोशात्तु कलेवरात्॥ 14-100-15 (95570) शरीरमन्यत्तद्रूपं तद्वर्णं तत्प्रमाणतः। अदृश्यं तत्प्रविष्टस्तु सोप्यदृष्टोऽथ केनचित्॥ 14-100-16 (95571) सोन्तरात्मा देहवतामष्टाङ्गो यस्तु संचरेत्। छेदनाद्भेदनाद्दाहात्ताडनाद्वा न नश्यति। 14-100-17 (95572) नाना रूपधरैर्घौरैः प्रचण्डेश्चण्डसाधनैः। नीयमानो दुराधर्षैर्यमदूतैर्यमाज्ञया॥ 14-100-18 (95573) पुत्रदारमयैः पाशैः संनिरूद्धोऽवशो बलात्। स्वकर्मभिश्चानुगतः कृतैः सुकृतदुष्कृतैः॥ 14-100-19 (95574) आक्रन्दमानः करुणं बन्धुभिर्दुःखपीडितैः। त्यक्त्वा बन्धुजनं सर्वं निरपेक्षस्तु गच्छति॥ 14-100-20 (95575) मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा। दारैः पुत्रैर्वयस्यैश्च रुदद्भिस्त्यज्यते पुनः॥ 14-100-21 (95576) अदृश्यमानस्तैर्दीनैरश्रुपूर्णमुखेक्षणैः। स्वशरीरं परित्यज्य वायुभूतस्तु गच्छति॥ 14-100-22 (95577) अन्धकारमपारं तं महाघेरं तमोवृतम्। दुःखान्तं दुष्प्रतारं च दुर्गमं पापकर्मणाम्॥ 14-100-23 (95578) दुःसहायं दुरन्तं च दुर्निरीक्षं दुरासदम्। दुरापमतिदुःखं च पापिष्ठानां नरोत्तम॥ 14-100-24 (95579) ऋषिभिः कथ्यमानं तत्पारंपर्येण पार्थिव। त्रासं जनचति प्रायः श्रूयमाणं कथास्वपि॥ 14-100-25 (95580) अवश्यं चैव गन्तव्यं तदध्वानं युधिष्ठिर। प्राप्तकालेन संत्यज्य बन्धून्भोगान्धनानि च॥ 14-100-26 (95581) जरायुजैरण्डजैश्च स्वेदजैरुद्भिदैस्तथा। जङ्गमैः स्थिरसंज्ञैश्च गन्तव्यं यमसादनम्॥ 14-100-27 (95582) देवासुरैर्मनुष्याद्यैर्वैवस्वतवशानुगैः। स्त्रीपुंनपुंसकैश्चापि पृथिव्यां जीवसंज्ञितैः॥ 14-100-28 (95583) मध्यमैर्युवभिर्वाऽपि बालैर्वृद्धैस्तथैव च। जातमात्रैश्च गर्भस्थैर्गन्तव्यः स महापथः॥ 14-100-29 (95584) पूर्वाह्णे वाऽपराह्णे वा सन्ध्याकालेऽथवा पुनः। प्रदोषे वाऽर्धरात्रे वा प्रत्युषे वाऽप्युपस्थिते॥ 14-100-30 (95585) प्रवासस्थैर्वनस्थैर्वा पर्वतस्थैर्जले स्थितैः। क्षेत्रस्थैर्वा नभःस्थेर्वा गृहमध्यगतैरपि॥ 14-100-31 (95586) भुञ्जद्भिर्वा पिबद्भिर्वा खादद्भिर्वा नरोत्तम। आसीनैर्वा स्थितैर्वापि शयनीयगतैरपि। जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः॥ 14-100-32 (95587) मृत्युदूतैर्दुराधर्षैः प्रचण्डैश्चण्डसासनैः। आक्षिप्यमाणा ह्यवशाः प्रयान्ति यमसादनम्॥ 14-100-33 (95588) क्वचिद्भीतैः क्वचिन्मत्तैः प्रस्खलद्भिः क्वचित्क्वचित्। क्रन्दद्भिर्वेदनार्तैस्तु गन्तव्यं यमसादनम्॥ 14-100-34 (95589) निर्भर्त्स्यमानैरुद्विग्रैर्विधूतैर्भयविह्वलैः। तुद्यमानशरीरैश्च गन्तव्यं तर्जितैस्तथा॥ 14-100-35 (95590) कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना। दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः॥ 14-100-36 (95591) काष्ठोपलशिलाघातैर्दण्डोल्मुककशाङ्कुशैः। हन्यमानैर्यमपुरं गन्तव्यं धर्मवर्जितैः॥ 14-100-37 (95592) मेदःशोणितपूयाद्यैर्वक्त्रैर्गात्रैश्च सव्रणैः। दग्धक्षतजकीर्णैश्च गन्तव्यं जीवघातकैः॥ 14-100-38 (95593) वेदनार्तैस्च कूजद्भिर्विक्रोशद्भिश्च विस्वरम्। वेदनार्तैः पतद्भिश्च गन्तव्यं जीवघातकैः॥ 14-100-39 (95594) भग्रपादोरुहस्तङ्गैर्भग्रजङ्घाशिरोधरैः। छिन्नकर्णोष्ठनासैश्च गन्तव्यं जीवघातकैः॥ 14-100-40 (95595) शक्तिभिर्भिण्डिपालैश्च शङ्कुतोमरसायकैः। तुद्यमानैस्तु शूलाग्रैर्गन्तव्यं जीवघातकैः॥ 14-100-41 (95596) श्वभिर्व्याघ्रैर्वृकैः काकैर्भक्ष्यमाणाः समन्ततः। तुद्यमानाश्च गच्छन्ति राक्षसैर्मांसघातिभिः॥ 14-100-42 (95597) महिषैश्च मृगैश्चापि सूकरैः पृषतैस्तथा। भक्ष्यमाणैस्तदध्वानं गन्तव्यं मांसखादिभिः॥ 14-100-43 (95598) सूचीसुतीक्ष्णतुण्डाभिर्मक्षिकाभिः समन्ततः। तुद्यमानैश्च गन्तव्यं पापिष्ठैर्बालघातकैः॥ 14-100-44 (95599) विस्रब्धं स्वामिनं मित्रं स्त्रियं वा घ्रन्ति ये नराः। शस्त्रैर्निर्भिद्यमानैश्च गन्तव्यं यमसादनम्॥ 14-100-45 (95600) खादयन्ति च ये जीवान्दुःखमापादयन्ति च। राक्षसैश्च श्वभिश्चैव भक्ष्यमाणा व्रजन्ति च॥ 14-100-46 (95601) ये हरन्ति च वस्त्राणि शय्यां प्रावरणानि च। ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथं॥ 14-100-47 (95602) गाश्च धान्यं हिरण्यं वा बलात्क्षेत्रं गृहं तथा। ये हरन्ति दुरात्मानः परस्वं पापकारिणः॥ 14-100-48 (95603) पाषाणैरुल्मुकैर्दण्डैः काष्ठघातैश्च चर्झरैः। हन्यमानैः क्षताकीर्णैर्नन्तव्यं तैर्यमालयम्॥ 14-100-49 (95604) ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः। आक्रोशन्तीह ये नित्यं प्रहरन्ति च ये द्विजान्॥ 14-100-50 (95605) शुष्ककण्ठा निबद्धास्ते छिन्नजिह्वाक्षिनासिकाः। पूयशोणितदुर्गन्धा भक्ष्यमाणाश्च जंबुकैः॥ 14-100-51 (95606) चण्डालैर्भीषणैश्चण्डैस्तुद्यमानाः समन्ततः। क्रोशन्तः करुणं घोरं गच्छन्ति यमासादनम्॥ 14-100-52 (95607) तत्र चापि गताः पापा विष्ठाकूपेष्वनेकशः। जीवन्तो वर्षकोटीस्तु क्लिश्यन्ते वेदनात्ततः॥ 14-100-53 (95608) ततश्च मुक्ताः कालेन लोके चास्मिन्नराधमाः। विष्ठाक्रिमित्वं गच्छन्ति जन्मकोटिशतं नृप॥ 14-100-54 (95609) विद्यमानधनैर्यैस्तु लोभडंभानृतान्वितैः। श्रोत्रियेभ्यो न दत्तानि दानानि कुरुपुङ्गव॥ 14-100-55 (95610) ग्रीवापाशनिबद्धास्ते हन्यमानाश्च राक्षसैः। क्षुत्पिपासाश्रमार्तास्तु यान्ति प्रेतपुरं नराः॥ 14-100-56 (95611) अदत्तदाना गच्छन्ति शुष्ककण्ठास्यतालुकाः। अन्नं पानीयसहितं प्रार्थयन्तः पुनःपुनः॥ 14-100-57 (95612) स्वामिन्बुभक्षातृष्णार्ता गन्तुं नैवाद्य शक्नुमः। ममान्नं दीयतां स्वामिन्पानीयं दीयतां मम। इति ब्रुवन्तस्तैर्दूतैः प्राप्यन्ते वै यमालयम्॥ 14-100-58 (95613) वैशम्पायन उवाच। 14-100-59x (7951) तच्छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः। निस्संज्ञो भयसंत्रस्तो मूर्छया समभिप्लुतः॥ 14-100-59 (95614) ततो लब्ध्वा शनैः संज्ञां समाश्वस्तोच्युतेन सः। नेत्रे प्रक्षाल्य तोयेन भूयः केशवमब्रवीत्॥ 14-100-60 (95615) भीतोस्म्यहं महादेव श्रुत्वा मार्गस्य विस्तरम्। केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम्॥ 14-100-61 (95616) भगवानुवाच। 14-100-62x (7952) इह ये धार्मिका लोके जीवगातविवर्जिताः। गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः॥ 14-100-62 (95617) अस्मान्मानुष्यलोकात्ते समार्याः सहबान्धवाः। यमध्वानं तु गच्छन्ति यथावत्तं निबोध मे॥ 14-100-63 (95618) ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पाण्डव। ये प्रयच्छन्ति विप्रेभ्यस्ते सुखं यान्ति तत्फलम्॥ 14-100-64 (95619) अन्नं ये च प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम्। क्षोत्रियेभ्यो विशेषेण प्रीत्या परमया युताः॥ 14-100-65 (95620) ते विमानैर्महात्मानो यान्ति चित्रैर्यमालयम्। सेव्यमाना वरस्त्रीभिरप्सरोभिर्महापथम्॥ 14-100-66 (95621) ये च नित्यं प्रभाषन्ते सत्यं निष्कल्मषं वचः। ते च यान्त्यमलाभ्राभैर्विमानैर्वृषयोजितैः॥ 14-100-67 (95622) कपिलाद्यानि पुण्यानि गोप्रदानानि ये नराः। ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः॥ 14-100-68 (95623) ते यान्त्यमलवर्णाभैर्विमानैर्वृषयोजितैः। वैवस्वतपुरं प्राप्य ह्यप्सरोभिर्निषेविताः॥ 14-100-69 (95624) उपानहौ च च्छत्रं च शयनान्यासनानि च। विप्रेभ्यो ये प्रयच्छन्ति वस्त्राण्याभरणानि च॥ 14-100-70 (95625) ते यान्त्यश्वैर्वृषैर्वाऽपि कुञ्जरैरप्यलङ्कृताः। धर्मराजपुरं रम्यं सौवर्णच्छत्रशोभिताः॥ 14-100-71 (95626) ये च भक्ष्याणि दास्यन्ति भोज्यं पेयं तथैव च। स्निग्धान्नान्यापि विप्रेभ्यः श्रद्धया परया युताः॥ 14-100-72 (95627) ते यान्ति काञ्चनार्यानैः सुखं वैवस्वतालयम्। वरस्त्रीभिर्यथाकामं सेव्यमानाः सहस्रशः॥ 14-100-73 (95628) ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु। ब्राह्मणेभ्यः प्रयत्नेन श्रद्दधानाः सुसंस्कृताः॥ 14-100-74 (95629) चक्रवाकप्रयुक्तैस्तु यानै रुक्ममयैः शुभैः। यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम्॥ 14-100-75 (95630) ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च। हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः॥ 14-100-76 (95631) ये प्रयच्छन्ति विप्रेभ्यो विचित्रान्नं घृताप्लुतम्। ते व्रजनत्यमलाभ्राभैर्विमानैर्वायुवेगिभिः। पुरं तत्प्रेतनाथस्य नानाजनसमाकुलम्। 14-100-77 (95632) पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम्। ते सुतृप्ताः सुखं यान्ति भवनैर्हंसचोदितैः॥ 14-100-78 (95633) ये तिलं तिलधेनुं वा धृतधेनुमथापि च। श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः॥ 14-100-79 (95634) सूर्यमण्डलसंकाशैर्यानैस्ते यान्ति निर्मलैः। गीयमानैस्तु गन्धर्वैर्वैवस्वतपुरं नृप॥ 14-100-80 (95635) येषां वाप्यश्च कूपाश्च तटाकानि सरांसि च। दीर्घिकाः पुष्करिण्यश्च सजलाश्च जलाशयाः॥ 14-100-81 (95636) यानैस्ते यान्ति चन्द्राभैर्दिव्यघण्टानिनादितैः। चामरैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः। नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम्॥ 14-100-82 (95637) येषां देवगृहाणीह चित्राण्यायतनानि च। मनोहराणि कान्तानि दर्शनीयानि भान्ति च॥ 14-100-83 (95638) ते व्रजन्त्यमलाभ्राभैर्विमानैर्वायुवेगिभिः। पुरं तत्प्रेतनाथस्य नानाजनपदाकुलम्॥ 14-100-84 (95639) वैवस्वतं च पश्यन्ति सुखचित्तं सुखस्थितम्। यमेन पूजिता यान्ति देवसालोक्यतां ततः॥ 14-100-85 (95640) देवानुद्दिश्य लोकेषु प्रपासु करकोद्धृतम्। शीतलं सलिलं रम्यं तृषितेभ्यो दिशन्ति ये। ते तु तृप्ति परां यान्ति प्राप्य सौख्यं महापथम्॥ 14-100-86 (95641) काष्ठपादुकदा यान्ति तदध्वानं सुखं नराः। सौवर्णमणिपीठे तु पादं कृत्वा स्थोत्तमे॥ 14-100-87 (95642) आरामान्वृक्षषण्डांश्च रोपयन्ति च ये नराः। संवर्धयन्ति चाव्यग्रं फलपुष्पोपशोभितम्॥ 14-100-88 (95643) वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः। यान्ति ते वाहनैर्दिव्यैः पूज्यमाना मुहुर्मुहुः। 14-100-89 (95644) सेव्यमानाः सुरूपाभिरुत्तमाभिः प्रयत्नतः। स्त्रीभिः कनकवर्णाभिर्यथाकामं यथासुखम्॥ 14-100-90 (95645) अश्वयानं तु गोयानं हस्तियानमथापि च। ये प्रयच्छन्ति विप्रेभ्यो विमानैः कनकोपमैः॥ 14-100-91 (95646) सुवर्णं रजतं वाऽपि विद्रुमं मौक्तिकं तथा। ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः। ते व्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम्॥ 14-100-92 (95647) भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः। उदितादित्यसंकाशैर्विमानैर्वृषयोजितैः॥ 14-100-93 (95648) कन्यां ये च प्रयच्छन्ति विप्राय श्रोत्रियाय च। दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम्॥ 14-100-94 (95649) सुगन्धान्गन्धसंयोगान्पुष्पाणि सुरभीणि च। प्रयच्छन्ति द्विजाग्रेभ्यो भक्तया परमया युताः॥ 14-100-95 (95650) सुगन्धाः धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः॥ यान्ति धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः॥ 14-100-96 (95651) दीपया यान्ति यानैश्च द्योतयन्तो दिशो दश। आदित्यसदृशाकारैर्दीप्यमाना इवाग्नयः॥ 14-100-97 (95652) गृहावसथदातारो गृहैः काञ्चनवेदिकैः। व्रजन्ति बालसूर्याभैर्धर्मराजपुरं नराः॥ 14-100-98 (95653) जलभाजनदातारः कुण्डिकाकरकप्रदाः। पूज्यमाना वरस्त्रीभिर्यान्ति तृप्ता महागजैः॥ 14-100-99 (95654) पादाभ्यङ्गं शिरोभ्यह्गं पानं पादोदकं तथा। ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम्॥ 14-100-100 (95655) विश्रामायन्ति ये विप्राञ्श्रान्तानध्वनि कर्शितान्। चक्रवाकप्रयुक्तेन यान्ति यानेन तेऽपि च॥ 14-100-101 (95656) स्वागतेन च यो विप्रान्पूजयेदासनेन च। स गच्छति तदध्वानं सुखं परमनिर्वृतः॥ 14-100-102 (95657) नमो ब्रह्मण्यदेवेति यो मां दृष्ट्वाऽभिवादयेत्। व्रतीवं प्रयतो नित्यं स सुखं तत्पदं व्रजेत्॥ 14-100-103 (95658) नमः सर्वसहाभ्यश्चेत्यभिख्याय दिनेदिने। नमस्करोति नित्यं गां स सुखं याति तत्पथं॥ 14-100-104 (95659) नमोस्तु प्रियदत्तायेत्येवंवादी दिनेदिने। भूमिमाक्रमते प्रातः सयनादुत्थितश्च यः॥ 14-100-105 (95660) सर्वकामैः स तृप्तात्मा सर्वभूषणभूषितः। याति यानेन दिव्येन सुकं वैवस्वतालयम्॥ 14-100-106 (95661) अनत्तराशिनो ये तु डंभानृतविवर्जिताः। तेऽपि सारसयुक्तेन यान्ति यानेन वै सुखम्॥ 14-100-107 (95662) ये चाप्येकेन भुक्तेन डंभानृतविवर्जिताः। हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम्॥ 14-100-108 (95663) चतुर्थेन च भुक्तेन वर्तन्ते ये जितेन्द्रियाः। यान्ति ते धर्मनगरं यानैर्बर्हिणयोजितैः॥ 14-100-109 (95664) तृतीयदिवसेनेह भुञ्जते ये जितेन्द्रियाः। तेऽपि हस्तिरथं यान्ति तत्पथं कनकोज्ज्वलैः॥ 14-100-110 (95665) षष्ठान्नकालिको यस्तु वर्षमेकं तु वर्तते। कामक्रोधवनिर्मुक्तः शुचिर्नित्यं जितेन्द्रियः। स याति कुञ्जरस्थैस्तु जयशब्दरवैर्युतः॥ 14-100-111 (95666) पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः। धर्मराजपूरं रम्यं दिव्यस्त्रीगणसेवितम्॥ 14-100-112 (95667) ये च मासोपवासं वै कुर्वते संयतेन्द्रियाः। तेऽपि सूर्यादयप्रख्यैर्यान्ति यानैर्यमालयम्॥ 14-100-113 (95668) अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना। स यात्यग्निप्रकाशेन विमानेन यमालयम्॥ 14-100-114 (95669) गोकृते स्त्रीकृते चैव हत्वा विप्रकृतेऽपि च। ते यान्त्यमरकन्याभिः सेव्यमाना रविप्रभाः॥ 14-100-115 (95670) ये च कुर्वन्ति मद्भक्तास्तीर्थयात्रां जितेन्द्रियाः। ते पन्थानं महात्मानो यानैर्यान्ति सुनिर्वृताः॥ 14-100-116 (95671) ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः। हंससारससंयुक्तैर्यानैस्ते यान्ति तत्पथम्॥ 14-100-117 (95672) परपीडामकृत्वैव भृत्यान्बिभ्रति ये नराः। तत्पथं ससुखं यान्ति विमानैः काञ्चनोज्ज्वलैः॥ 14-100-118 (95673) ये समाः सर्वभूतेषु जीवानामभयप्रदाः। क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास्तथा। 14-100-119 (95674) पूर्णचन्द्रप्रतीकाशैर्विमानैस्ते महाप्रभाः। यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः॥ 14-100-120 (95675) ये मामेकान्तभावेन देवं त्र्यंबकमेव वा। पूजयन्ति नमस्यन्ति स्तुवन्ति च दिनेदिने। धर्मराजपुरं यान्ति यानैस्तेऽर्कसमप्रभैः॥ 14-100-121 (95676) पूजितास्तत्र धर्मेण स्वयं माल्यादिभिः शुभैः। यान्त्येव धर्मलोकं वा रुद्रलोकमथापि वा॥ ॥ 14-100-122 (95677) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि शततमोऽध्यायः॥ 100 ॥
आश्वमेधिकपर्व - अध्याय 101

॥ श्रीः ॥

14.101. अध्यायः 101

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति जलदानान्नदानफलप्रशंसनम्॥ 1 ॥ तथाऽतिथिलक्षणकथनपूर्वकं तत्पूजाफलकथनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा। धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्॥ 14-101-1 (95678) देवदेवेश दैत्यघ्न ऋषिसङ्घैरभिष्टुत। भगवन्भवहञ्श्रीमन्सहस्रादित्यसन्निभ॥ 14-101-2 (95679) सर्वसंभव धर्मज्ञ सर्वधरमप्रवर्तक। सर्वदानफलं सौम्य कथयस्व ममाच्युत॥ 14-101-3 (95680) दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै। कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते॥ 14-101-4 (95681) एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता। उवाच धर्मपुत्राय पुण्यान्धर्मान्महोदयान्॥ 14-101-5 (95682) शृणुष्वावहितो राजन्पूतं पापघ्नमुत्तमम्। सर्वदानफलं सौम्य न श्राव्यं पापकर्मणम्॥ 14-101-6 (95683) यच्छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः। तत्क्षणात्पूततां याति पापकर्मरतोपि वा॥ 14-101-7 (95684) एकाहमपि कौन्तेय भूमावुत्पादितं जलम्। सप्त तारयते पूर्वान्वितृष्णा यत्र गौर्भवेत्॥ 14-101-8 (95685) पानीयं परमं लोके जीवानां जीवनं स्मृतम्। पानीयस्य प्रदानेन तृप्तिर्भवति पाण्डव। पानीयस्य गुणा दिव्याः परलोके गुणावहाः॥ 14-101-9 (95686) तत्र पुष्पोदकी नाम नदी परमपावनी। कामान्ददाति राजेन्द्र तोयदानां यमालये॥ 14-101-10 (95687) शीतलं सलिलं ह्यत्र ह्यक्षय्यममृतोपमम्। शीततोयप्रदादॄणां भवेन्नित्यं सुखावहम्॥ 14-101-11 (95688) ये चाप्यतोयदातारः पूयस्तेषां विधीयते। 14-101-12 (95689) प्रणश्यत्यंबुपानेन बुभुक्षा च युधिष्ठिर। तृपीषस्य न चान्नेन पिपासाऽपि प्रणश्यति। तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता। 14-101-13 (95690) अग्नेर्मूर्तिः क्षितेर्योनिरमृतस्य स संभवः। अतोंभः सर्वभूतानां मूलमित्युच्यते बुधैः॥ 14-101-14 (95691) अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च। तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते॥ 14-101-15 (95692) सर्वदानतपोयज्ञैर्यत्प्राप्यं फलमुत्तमम्। तत्सर्वं तोयदानेन प्राप्यते नात्र संशयः॥ 14-101-16 (95693) ये प्रयच्छन्ति विप्रेभ्यस्त्वन्नदातं सुसंस्कृतम्। तैस्तु दत्ताः स्वयं प्राणा भवन्ति भरतर्षभ॥ 14-101-17 (95694) अन्नाद्रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः। इन्द्रियाणि च बुद्धिश्च पुष्णन्त्यन्नेन नित्यशः। अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव॥ 14-101-18 (95695) तेजो बलं च रूपं च सत्वं वीर्यं धृतिर्द्युतिः। ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम्॥ 14-101-19 (95696) देवमानवर्तिर्यक्षु सर्वलोकेषु सर्वदा। सर्वकालं हि सर्वेषां सर्वमन्ने प्रतिष्ठितम्॥ 14-101-20 (95697) अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम्। सर्वभूतमयं चान्नं जीवश्चान्नमयः स्मृतः॥ 14-101-21 (95698) अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च। उदानश्च समानश्च धारयन्ति शरीरिणम्॥ 14-101-22 (95699) शयनोत्थानगमनग्रहणाकर्षणानि च सर्वसत्वकृतं क्रम चान्नादेव प्रवर्तते॥ 14-101-23 (95700) चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च। अन्नाद्भवन्ति राजेन्द्र सृष्टिरेषा प्रजापतेः॥ 14-101-24 (95701) विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः। अन्नाद्यस्मात्प्रवर्तन्ते तस्मादन्नं परं स्मृतम्॥ 14-101-25 (95702) देवा रुद्रादयः सर्वे पितरोऽप्यग्नयस्तथा। यस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते॥ 14-101-26 (95703) यस्मादन्नात्प्रजाः सर्वाः कल्पेकल्पेऽसृजत्प्रभुः। तस्मादन्नात्परं दानं न भूतं न भविष्यति॥ 14-101-27 (95704) यस्मादन्नात्प्रवर्तन्ते धर्मार्थौ काम एव च। तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव॥ 14-101-28 (95705) यक्षरक्षोग्रहा नागा भूतान्यन्ते च दानवाः। तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परं भवेत्॥ 14-101-29 (95706) परान्नमुपभुञ्जनो यत्कर्म कुरुते शुभम्। तच्छुभस्यैकभागस्तु कर्तुर्भवति भारत॥ 14-101-30 (95707) अन्नदस्य त्रयो भागा भन्ति पुरुषर्षभ। तस्यादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः॥ 14-101-31 (95708) ब्राह्मणाय दरिद्राय योऽन्नं संवत्सरं नृप। श्रोत्रियाय प्रयच्छेद्वै पाकभेदविवर्जितः॥ 14-101-32 (95709) डंभानृतविमुक्तस्तु परां भक्तिमुपागतः। स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु॥ 14-101-33 (95710) शतवर्षसहस्राणि कामगः कामरूपधृत्। मोदतेऽमरलोकस्थः पूज्यमानोप्सरोगणैः। ततश्चापि च्युतः कालान्नरलोके द्विजो भवेत्॥ 14-101-34 (95711) अग्नभिक्षां च यो दद्याद्दरिद्राय द्विजातये। षण्मासान्वार्षिकं श्राद्दं तस्य पुण्यफलं शृणु॥ 14-101-35 (95712) गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम्। तत्प्रण्यफलमाप्नोति नरो वै नात्र संशयः॥ 14-101-36 (95713) अथ संवत्सरं दद्यादग्रभिक्षामयाचते। प्रच्छद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु॥ 14-101-37 (95714) कपिलानां सहस्रैस्तु यद्देयं पुण्यमुच्यते। तत्सर्वमखिलं प्राप्य शक्रलोके महीयते॥ 14-101-38 (95715) स शक्रभवने रम्ये र्षिकोटिशतं नृप। यथाकामं महातेजाः क्रीडत्यप्सरसांगणैः॥ 14-101-39 (95716) अन्नं च यस्तु वै दद्याद्द्विजाय नियतव्रतः। दशवर्षामि राजेन्द्र तस्य पुण्यफलं शृणु॥ 14-101-40 (95717) कपिला शतसहस्रस्य विधिदत्तस्य यत्फलम्। तत्पुण्यफलमासाद्य पुरन्दरपुरं व्रजेत्॥ 14-101-41 (95718) स शक्रभवने रम्ये कामरूपी यथासुखम्। शतकोटिसमा राजन्क्रीडतेऽमरपूजितः॥ 14-101-42 (95719) शक्रलोकावतीर्णश्च इह लोके महाद्युतिः। चतुर्वेदी द्विजः श्रीमाञ्जायते राजपूजितः॥ 14-101-43 (95720) अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे। देशकालाभियाताय दीयते पाण्डुनन्दन॥ 14-101-44 (95721) याचतेऽन्नं न दद्याद्यो विद्यामाने धनागमे। स लुब्धो नरकं याति कृमीणां कालसूत्रकम्॥ 14-101-45 (95722) तत्र नरके घोरे लोभमोहविचेतनः। दशरव्षसहस्राणि क्लिश्यते वेदनार्दितः॥ 14-101-46 (95723) तस्माच्च नरकान्मुक्तः कालेन महता हि सः। दरिद्रो मानुषे लोके चण्डालेष्वपि जायते। 14-101-47 (95724) यस्तु पांसुलपादश्च दूराध्वश्रमकर्शितः। क्षुत्पिपासाश्रमश्रान्त आर्तः खिन्नगतिर्द्विजः॥ 14-101-48 (95725) पृच्छन्वै ह्यन्नदातारं गृहमभ्येत्य याचयेत्। तं पूजयेत्तु यत्नेन सोऽतिथिः स्वर्गसंक्रमः। तस्मिंस्तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः॥ 14-101-49 (95726) न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः। अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिपूजनात्॥ 14-101-50 (95727) कपिलायां तु दत्तायां विधिवज्ज्येष्ठपुष्करे। न तत्फलमवाप्नोति यत्फलं विप्रबोजनान्। 14-101-51 (95728) द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी। तावत्पुष्करपत्रेण पिबन्ति पितरो जलम्॥ 14-101-52 (95729) देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम्। श्रान्तसंवाहनं चैव तथा पादावसेचनम्॥ 14-101-53 (95730) प्रतिश्रयप्रदानं च तथा शय्यासनस्य च। एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते॥ 14-101-54 (95731) पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम्। ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम्॥ 14-101-55 (95732) विप्रातिथ्ये कृते राजन्भक्त्या शुश्रूषितेऽपि च। देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशदरिन्दम॥ 14-101-56 (95733) अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते। तयोः पूजां द्विजः कुर्यादिति पौराणिकी श्रुतिः॥ 14-101-57 (95734) पादाभ्यङ्गन्नपानैस्तु योऽतिर्थिं पूजयेन्नरः। पूजितस्तेन राजेन्द्र भवामीह न संशयः॥ 14-101-58 (95735) शीघ्रं पापाद्विनिर्मुक्तो मया चानुग्रहीकृतः। विमानेनेन्दुकल्पेन मम लोकं स गच्छति॥ 14-101-59 (95736) अभ्यागतं श्रान्तमनुव्रजन्ति देवाश्च सर्वे पितरोऽग्नयश्च। तस्मिन्द्विजे पूजिते पूजिताः स्यु- र्गते निराशाः पितरो व्रजन्ति॥ 14-101-60 (95737) अतिर्थिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते। पितरस्तस्य नाश्नन्ति दशवर्षणि पञ्च च॥ 14-101-61 (95738) वर्जितः पितृभिर्लुब्धः स देवैरग्निभिः सह। निरयं रौरवं गत्वा दशवर्षाणि पञ्च च। ततश्चापि च्युतः कालादिह चोच्छिष्टभुग्भवेत्॥ 14-101-62 (95739) वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत्। चण्डालत्वमवाप्नोति सद्य एव न संशयः॥ 14-101-63 (95740) निर्वासयति यो विप्रं देशकालगतं गृहात्। पतितस्तत्क्षणादेव जायते नात्र संशयः॥ 14-101-64 (95741) नरके रौरवे घोरे वर्षकोटिं स पच्यते। ततश्चापि च्युतः कालादिह लोके नराधमः। श्वा वै द्वादशजन्मानि जायते क्षुत्पिपासितः॥ 14-101-65 (95742) चण्डालोप्यतिथिः प्राप्तो देशकालेऽन्नकाङ्क्षयाः। अभ्युद्गम्यो गृहस्थेन पूजनीयश्च सर्वदा॥ 14-101-66 (95743) अनर्चयित्वा योऽश्नाति लोभमोहविचेतनः। स चण्डालत्वमापन्नो दश जन्मानि पाण्डव॥ 14-101-67 (95744) निराशमतिथिं कृत्वा भुञ्जनो यः प्रहृष्टवान्। न जानाति किलात्मानं विष्ठकूपे निपातितं॥ 14-101-68 (95745) मोघं ध्रुवं प्रोर्णयति मोघमस्य तु पच्यते। मोघमन्नं सदाऽश्नाति योतिथिं न च पूजयेत्॥ 14-101-69 (95746) साङ्गोपाङ्गांस्तु यो वेदान्पठतीह दिनेदिने। न चातिथिं पूजयति वृथा भवति स द्विजः॥ 14-101-70 (95747) पाकयज्ञमहायज्ञैः सोमसंस्थाभिरेव च। ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम्॥ 14-101-71 (95748) तेषां यशोभिकामानां दत्तमिष्टं च यद्भवेत्। वृथा भवति तत्सर्वमाशया हि तया हतम्॥ 14-101-72 (95749) देशं कालं च पात्रं च स्वशक्तिं च निरीक्ष्य च। अल्पं समं महद्वापि कुर्यादातिथ्यमात्मवान्॥ 14-101-73 (95750) सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम्। स्वागतेनासनेनाद्भिरन्नाद्येन च पूजयेत्॥ 14-101-74 (95751) हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा। प्राप्तो यो वैश्वदेवान्ते सोतिथिः स्वर्गसंक्रमः॥ 14-101-75 (95752) क्षुत्पिपासाश्रमार्ताय देशकालगताय च। सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता॥ 14-101-76 (95753) भोजयेदात्मनः श्रेष्ठान्विधइवद्धव्यकव्ययोः। अन्नं प्राणो मनुष्यणामन्नदः प्राणदो भवेत्। तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता॥ 14-101-77 (95754) अन्नदः सर्वकामैस्तु सुतृप्तः सुष्ट्वलङ्कृतः। पूर्णचन्द्रप्रकाशेन विमानेन विराजते॥ 14-101-78 (95755) सेव्यमानो वरस्त्रीभिर्मम लोकं स गच्छति। क्रीडित्वा तु ततस्तस्मिन्वर्षकोटिं यथाऽमरः॥ 14-101-79 (95756) ततस्चापि च्युतः कालादिह लोके महायशाः। वेदशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्॥ 14-101-80 (95757) यथाश्रद्धं तु यः कुर्यान्मनुष्येषु प्रजायते। महाधनपतिः श्रीमान्वेदवेदाङ्गपारगः। सर्वशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्॥ 14-101-81 (95758) सर्वातिथ्यं तु यः कुर्याद्वर्षमेकमकल्मषः। धर्मार्जितधनो भूत्वा पाकभेदविवर्जितः॥ 14-101-82 (95759) देवानिव स्वयं विप्रानर्चयित्वा पितॄनपि। विप्रानग्राशनाशी यस्तस्य पुण्यफलं शृणु॥ 14-101-83 (95760) वर्षेणैकेन यावन्ति पिण्डान्यश्नन्ति ये द्विजाः। तावद्वर्षाणि राजेन्द्र मम लोके महीयते॥ 14-101-84 (95761) ततश्चापि च्युतः कालादिह लोके महायशाः। वेदसास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्॥ 14-101-85 (95762) सर्वातिथ्यं तु यः कुर्याद्यथाश्रद्धं नरेश्वर। अकालनियमेनापि सत्यवादी जितेन्द्रियः॥ 14-101-86 (95763) सत्यसन्धो चितक्रोधः शाखाधर्मविवर्जितः। अधर्मभीरुर्धर्मिष्ठो मायामात्सर्यवर्जितः॥ 14-101-87 (95764) श्रद्दधानः सुचिर्नित्यं पाकबेदविवर्जितः। स विमानेन दिव्येन दिव्यरूपी महायशाः॥ 14-101-88 (95765) पुरन्दरपुरं याति गीयमानोप्सरोगणैः। मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः। मानुष्यलोकमागम्य भोगवान्ब्राह्मणो भवेत्॥ 14-101-89 (95766) दशजन्मानि विप्रत्वमाप्नुयाद्राजपूजितः। जातिस्मरश्च भवति यत्रयत्रोपजायते॥ ॥ 14-101-90 (95767) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकाधिकशततमोऽध्यायः॥ 101 ॥
आश्वमेधिकपर्व - अध्याय 102

॥ श्रीः ॥

14.102. अध्यायः 102

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति भूगोतिलकन्यादानफलप्रतिपादनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

भगवानुवाच। अतः परं प्रवक्ष्यामि भूमिदानमनुत्तमम्॥ 14-102-1 (95768) यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम्। श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव॥ 14-102-2 (95769) स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः। सर्वपापविनिर्मुक्तो दीप्यमानोऽर्कवत्सदा॥ 14-102-3 (95770) बालसूर्यप्रकाशेन विचित्रध्वजशोभिना। याति यानेन दिव्येन मम लोकं महायशाः॥ 14-102-4 (95771) तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम्। कामगः कामरूपी च क्रीडत्यप्सरसांगणैः॥ 14-102-5 (95772) यावद्बिभर्ति लोकान्वै भूमिः कुरुकुलोद्वह। तावद्भूमिप्रदः काले मम लोके महीयते॥ 14-102-6 (95773) न हि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते। न चापि भूमिहरणात्पापमान्यद्विशिष्यते॥ 14-102-7 (95774) दानान्यन्यानि हीयन्ते कालेन कुरुपुङ्गव। भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते॥ 14-102-8 (95775) ब्राह्मणाय दरिद्राय भूमिं दत्तां तु यो नरः। न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु॥ 14-102-9 (95776) सप्तद्वीपसमुद्रान्ता रत्नसंचयसंकुला। सशैलवनदुर्गाढ्या तेन दत्ता मही भवेत्॥ 14-102-10 (95777) भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाग्निहोत्रिणे। सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत्॥ 14-102-11 (95778) सुवर्णमणिरत्नानि धनानि च वसूनि च। सर्वदानानि वै राजन्ददाति वसुधां ददत्॥ 14-102-12 (95779) सागरान्सरितः शैलान्समानि विषमाणि च। सर्वगन्धरसांश्चैव ददाति वसुधां ददत्॥ 14-102-13 (95780) ओषधीः फलसंपन्ना नानापुष्पसमन्विताः। कमलोत्पलषण्डांश्च ददाति वसुधां ददत्॥ 14-102-14 (95781) धर्मं कामं तथा चार्थं वेदान्यज्ञांस्तथैव च। स्वर्गमार्गगतिं चैव ददाति वसुधां ददत्॥ 14-102-15 (95782) अग्निष्टोमादिभिर्यज्ञैर्ये यजन्ते सदक्षिणैः। न तत्फलं लभन्ते ते भूमिदानस्य यत्फलम्॥ 14-102-16 (95783) श्रोत्रिया महीं दत्त्वा यो न हिंसति पाण्डव। तद्दानं कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः। तावत्स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन॥ 14-102-17 (95784) सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति। पितरस्तस्य तृप्ययन्ति यावदाभूतसंप्लुवम्॥ 14-102-18 (95785) मम रुद्रस्य सवितुस्त्रिदशानां तथैव च। प्रीतये विद्धि राजेन्द्र भूमिर्दत्ता द्विजाय वै॥ 14-102-19 (95786) तेन पुण्येन पूतात्मा दाता भूमेर्युधिष्ठिर। मम सालोक्यमाप्नोति नात्र कार्या विचाराणा॥ 14-102-20 (95787) यत्किंचित्कुरुते पापं पुरुषे वृत्तिकर्शितः। स च गोकर्णमात्रेण भूमिदानेन शुध्यति॥ 14-102-21 (95788) मासोपवासे यत्पुण्यं कृच्छ्रे चान्द्रायणेऽपि च। भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते॥ 14-102-22 (95789) सर्वतीर्थाभिषेके च यत्पुण्यं समुदाहृतम्। भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते॥ 14-102-23 (95790) युधिष्ठिर उवाच। 14-102-24x (7953) देवदेव नमस्तेऽस्तदु वासुदेव सुरेश्वर। गोकर्णस्य प्रमाणं वै वक्तुमर्हसि तत्वतः॥ 14-102-24 (95791) भगवानुवाच। 14-102-25x (7954) शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन। त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतो दिशम्॥ 14-102-25 (95792) प्रत्यक्प्रागपि राजेन्द्र तत्तथा दक्षिणोत्तरम्। गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप॥ 14-102-26 (95793) सवृषं गोशतं यत्र सुखं तिष्ठत्ययन्त्रितम्। सवत्सं कुरुशार्दूल तच्च गोकर्णमुच्यते॥ 14-102-27 (95794) किंकरा मृत्युदण्डाश्च कुंभीपाकाश्च दारुणाः। घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम्॥ 14-102-28 (95795) निरया रौरवाद्याश्च तथा वैतरणी नदी। तीव्राश्च यातनाः कृष्टा नोपसर्पन्ति भूमिदम्॥ 14-102-29 (95796) चित्रगुप्ताः कलिः कालः कृतान्तो मृत्युरेव च। यमश्च भगवान्साक्षात्पूजयन्ति महीप्रदम्॥ 14-102-30 (95797) रुद्रः प्रजापतिः शक्रः सुरा ऋषिगणास्तथा। अहं च प्रीतिमान्राजन्पूजयामो महीप्रदम्॥ 14-102-31 (95798) कृशभृत्यस्य कृशगोः कृशाश्वस्य कृतातिथेः। भूमिर्देया नरश्रेष्ठ स निधइः पारलौकिकः॥ 14-102-32 (95799) सीदमानकुटुंबाय श्रोत्रियायाग्निहोत्रिणे। व्रस्थाय दरिद्राय भूमिर्देया नराधिप॥ 14-102-33 (95800) यथा हि धात्री क्षीरेण पुत्रं वर्धयति स्वयम्। दातारमनुगृह्णाति दत्ता ह्येवं वसुंधरा॥ 14-102-34 (95801) यथा बिभर्ति गौर्वत्सं सृजन्ती क्षीरमात्मनः। तथा सर्वगुणोपेता भूमिर्वहति भूमिदम्॥ 14-102-35 (95802) यथा बीजनि रोहन्ति जलसिक्तानि भूपते। तथा कामाः प्ररोहन्ति भूमिदस्य दिनेदिने॥ 14-102-36 (95803) यथा तेजस्तु सूर्यस्य तमः सर्वं व्यपोहति। तथा पापं नरस्येह भूमिदानं व्यपोहति॥ 14-102-37 (95804) दाता दशानुगृह्णाति यो हरेद्दश हन्ति च। अतीतान्यागतानीह कुलानि कुरुपुङ्गव॥ 14-102-38 (95805) आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेन्पुनः। स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते॥ 14-102-39 (95806) स्वदत्तां परदत्तां वा यो हरेत् वसुंधराम्। न तस्य नरकाद्धोराद्विद्यते निष्कृतिः क्वचित्॥ 14-102-40 (95807) ब्राह्म्णस्य हृते क्षेत्रे हन्याद्द्वादश पूर्वजान्। स गच्छेत्कृमियोनिं च न च मुच्येत जातु सः॥ 14-102-41 (95808) दत्त्वा भूमिं द्विजेन्द्राय यस्तामेवोपजीवति। गवां शतसहस्रस्य हन्तुः स लभते फलम्॥ 14-102-42 (95809) सोधश्शिरास्तु पापात्मा कुंभीपाकेषु पच्यते। दिव्यैर्वर्षसहस्रैस्तु कुंभीपाकाद्विजनिस्सृतः। इह लोके भवेत्स श्वा रातजन्मनि पाण्डव॥ 14-102-43 (95810) दत्त्वा भूमि द्विजेन्द्राणां यस्तामेवोपजीवति। स मूढो याति दुष्टात्मा नरकानेकविंशतिम्। नरकेभ्यो विनिर्मुक्तः शुनां योनिं स गच्छति॥ 14-102-44 (95811) हलकृष्टा मही देया सबीजा सस्यमालिनी। अथवा सोदका देया दरिद्राय द्विजातये॥ 14-102-45 (95812) एवं दत्ता मही राजन्प्रहृष्टेनान्तरात्मना। सर्वान्कामानवाप्नोति मनसा चिन्तितानि च॥ 14-102-46 (95813) बहुभिर्वसुधा दत्ता दीयते च नराधिपैः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्॥ 14-102-47 (95814) यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै। स ब्रह्मदेयो राजेन्द्र तस्य पुण्यफलं शृणु॥ 14-102-48 (95815) बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम्। यत्पुण्यं लभते राजन्कन्यादानेन तत्फलम्॥ 14-102-49 (95816) गवां शतसहस्रस्य सम्यग्धत्तस्थ यत्फलम्। तत्फलं समवाप्नोतिः यः प्रयच्छति कन्यकाम्॥ 14-102-50 (95817) यावन्ति चैव रोमाणि कन्यायाः कुरुपुङ्गव। तावद्वर्षसहस्राणि मम लोके महीयते॥ 14-102-51 (95818) ततश्चापि च्युतः कालादिह लोके स जायते। षडङ्गविच्चतुर्वेदी सर्वलोकार्चितो द्विजः॥ 14-102-52 (95819) यः सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति। श्रोत्रियाय सुवृत्ताय बहुपुत्राय पाण्डव॥ 14-102-53 (95820) स मुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः। विमानं दिव्यामारूढः कामगः कामभोगवान्॥ वर्षकोटिं महातेजा मम लोके महीयते॥ 14-102-54 (95821) ततः कालावतीर्णश्च सोस्मिँल्लोके हि जायते। वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत्॥ 14-102-55 (95822) यश्च रूप्यं प्रयच्छेद्वै दरिद्राय द्विजातये। कृशवृत्तेः कृशगवे स मुक्तः सर्वकिल्बिषैः॥ 14-102-56 (95823) पूर्णचन्द्रप्रकाशेन विमानेन विराजता। कामरूपि यथाकामं स्वर्गलोके महीयते॥ 14-102-57 (95824) ततोऽवतीर्णः कालेन लोके चास्मिन्महायशाः। सर्वलोकार्चितः श्रीमान्राजा भवति वीर्यवान्॥ 14-102-58 (95825) तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति। विशेषेण दरिद्राय तस्यापि शृणु यत्फलम्॥ 14-102-59 (95826) पुण्यं वृषायुतोत्सर्गे यत्प्रोक्तं पाण्डुनन्दन। तत्पुण्यं समनुप्राप्य तत्क्षणाद्विरजा भवेत्॥ 14-102-60 (95827) यथा त्वचं भुजङ्गो वै त्यक्त्वा शुद्धतनुर्भवेत्। तता तिलप्रदानाद्वै पापं त्यक्त्वा विसुद्ध्यति॥ 14-102-61 (95828) तिलषण्डं प्रयुञ्जानो जांबूनदविभूषितम्। विमानं दिव्यमारूढः पितृलोके महीयते॥ 14-102-62 (95829) षष्टिं वर्षसहस्राणि कामरूपी महायशाः। तिलप्रदाता रमते पितृलोके यथासुखम्॥ 14-102-63 (95830) यः प्रयच्छति विप्राय तिलधेनुं नराधिप। श्रोत्रियाय दरिद्राय शृणु तस्यापि यत्फलम्॥ 14-102-64 (95831) गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम्। तत्पुण्यफलामाप्नोति तिलधेनुप्रदो नरः॥ 14-102-65 (95832) तिलानां कुडवैर्यस्तु तिलधेनुं प्रयच्छति। तावत्कोटिसमा राजन्स्वर्गलोके महीयते॥ 14-102-66 (95833) अष्टाढकतिलैः कृत्वा तिलधेनु नराधिप। द्वात्रिंशन्निष्कसंयुक्तं विषुवे यः प्रयच्छति। मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु॥ 14-102-67 (95834) कन्यादानसहस्रस्य विधिदत्तस्य यत्फलम्। तत्पुण्यं समनुप्राप्तो मम लोके महीयते॥ 14-102-68 (95835) मम लोकावतीर्णश्च सोस्मिँल्लोकेऽभिजायते। ऋग्यजुस्सामवेदानां पारगो ब्राह्मणर्षभः॥ 14-102-69 (95836) गां तु यस्तु दरिद्राय श्रोत्रियाय प्रयच्छति। प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहिनीं॥ 14-102-70 (95837) यत्किंचिद्दुष्कृतं कर्म तस्य पूर्वकृतं नृपः। तत्सर्वं तत्क्षणादेव विनश्यति न संशयः॥ 14-102-71 (95838) यानं च वृषसंयुक्तं दीप्यमानं स्वलङ्कृतम्। आरूढः कामगं दिव्यं गोलोकमधिगच्छति॥ 14-102-72 (95839) यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप। तावद्वर्षसहस्राणि गवां लोके महीयते॥ 14-102-73 (95840) गोलोकादवतीर्णस्तु लोकेऽस्मिन्ब्राह्मणो भवेत्। सत्रयाजी वदन्यश्च सर्वराजभिरर्चितः॥ 14-102-74 (95841) तिलं गावः सुवर्णं चाप्यन्नं कन्या वसुंधरा। तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज॥ 14-102-75 (95842) ब्राह्मणं वृत्तसंपन्नमाहिताग्निमलोलुपम्। तर्पयेद्विधिवद्राजन्स निधिः पारलौकिकः॥ 14-102-76 (95843) आहिताग्नि दरिद्रं च श्रोत्रियं च जितेन्द्रियम्। शूद्रान्नवर्जितं चैव द्विजं यत्नेन पूजयेत्॥ 14-102-77 (95844) आहिताग्निः सदा पात्रमह्निहोत्री च वेदवित्। पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे॥ 14-102-78 (95845) यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम्। असंकीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति॥ 14-102-79 (95846) नित्यस्वाध्यायनिरतास्त्वसंकीर्णेन्द्रियाश्च ये। पञ्चयज्ञपरा नित्यं पूजितास्तारयन्ति ते॥ 14-102-80 (95847) ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधै निवृत्ताः। प्रतिग्रहे संकुचिता गृहस्था- स्ते ब्राह्मणास्तारयितुं समर्थाः॥ 14-102-81 (95848) नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलान्नवर्जी। क्रतौ गच्छन्विधिवच्चापि जुह्व- त्स ब्राह्मणस्तारयितुं समर्थः॥ 14-102-82 (95849) ब्राह्मणो यस्तु मद्भक्तो मद्रागी मत्परायणः। मयि संन्यस्तकर्मा च स विप्रस्तारयेद्ध्रुवम्॥ 14-102-83 (95850) द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित्। अच्छिद्रपञ्चकालज्ञःक स विप्रस्तारयिष्यति॥ ॥ 14-102-84 (95851) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि द्व्यधिकशततमोऽध्यायः॥ 102 ॥
आश्वमेधिकपर्व - अध्याय 103

॥ श्रीः ॥

14.103. अध्यायः 103

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति वृषभगृहशय्यादिदानप्रशंसनम्॥ 1 ॥ तथा गोब्राह्मणरक्षणादिनानाधर्मकथनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। वासुदेवेन दानेषु कथितेषु यथाक्रमम्। अवितृप्तश्च धर्मेषु केशवं पुनरब्रवीत्॥ 14-103-1 (95852) देव धर्मामृतमिदं शृण्वतोपि परंतप। न विद्यते सुरश्रेष्ठ मम तृप्तिर्हि माधव॥ 14-103-2 (95853) अनडुत्संप्रदानस्य यत्फलं तु विधीयते। तत्फलं कथयस्वेह तव भक्तस्य मेऽच्युत॥ 14-103-3 (95854) यानिचान्यानिदानानित्वया नोक्तानि कानिचित्॥ तान्याचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात्फलम्॥ 14-103-4 (95855) भगवानुवाच। 14-103-5x (7955) पवित्रत्वात्सुपुण्यत्वात्पावनत्वात्तथैव च। शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम्॥ 14-103-5 (95856) दशधेनुसमोऽनड्वानेकोपि कुरुपुङ्गव। मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः॥ 14-103-6 (95857) युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः। धुरं धारयति क्षिप्रं दत्तो विप्राय पाण्डव॥ 14-103-7 (95858) स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर। यथाकामं महादेजा गवां लोके महीयते॥ 14-103-8 (95859) यश्च दद्यादनडुहौ द्वौ युक्तौ च धुरंधरौ। सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः। तस्य यत्पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर॥ 14-103-9 (95860) सहस्रगोप्रदानेन यत्प्रोक्तं फलमुत्तमम्॥ तत्पुण्यफलमाप्नोति याति लोकान्स मामकान्॥ 14-103-10 (95861) यावन्ति चैव रोमाणि तयोरनुडुहोर्नृप। तावद्वर्षसहस्राणि मम लोके महीयते॥ 14-103-11 (95862) दरिद्रायैव दातव्यं न समृद्धाय पाण्डव। वर्षाणां हि तटाकेषु फलं नैव पयोधिषु॥ 14-103-12 (95863) यस्तु दद्यादनडुहं दरिद्राय द्विजातये। स तेन पुण्यदानेन पुतात्मा कुरुपुङ्गव॥ 14-103-13 (95864) विमानं दिव्यमारूढो दिव्यरूपी यथासुखम्। मम लोकेषु रमते यावदाभूतसंप्लुवम्॥ 14-103-14 (95865) गृहं दीपप्रभायुक्तं शय्यासनविभूषितम्। भाजनोपस्करैर्युक्तं धनधान्यैरलङ्कृतम्। दासीगोभूमिसंयुक्तमन्यूनं सर्वसाधनैः॥ 14-103-15 (95866) ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर। दद्यात्सदक्षिणं यस्तु तस्य पुण्यफलं शृणु॥ 14-103-16 (95867) देवाः पितृगणाश्चैव ह्यग्नयो ऋषयस्तथा। प्रयच्छन्ति प्रहृष्टा वै यानमादित्यसन्निभम्॥ 14-103-17 (95868) तेन गच्छेच्छ्रिया युक्तो ब्रह्मलोकमनुत्तमम्। स्त्रीसहस्रावृते रम्ये भवने तत्र काञ्चने। मोदते ब्रह्मलोकस्थो यावदाभूतसप्लवम्॥ 14-103-18 (95869) शय्यं प्रस्तरणोपेतां यः प्रयच्छति पाण्डव। अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः। भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु॥ 14-103-19 (95870) धेनुदानस्य यत्पुण्यं विधिदत्तस्य पाण्डव। तत्पुण्यं तमनुप्राप्य पितृलोके महीयते॥ 14-103-20 (95871) शिल्पमध्ययनं वाऽपि विद्यां मन्त्रौषधानि च। यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु॥ 14-103-21 (95872) आहिताग्निसहस्रस्य पूजितस्यैव यत्फलम्। तत्पुण्यफलमाप्नोति यस्तु शय्यां प्रयच्चति॥ 14-103-22 (95873) छन्दोभिः संप्रयुक्तेन विमानेन विराजता। सप्तर्षिलोकान्व्रजति पूज्यते ब्रह्मवादिभिः॥ 14-103-23 (95874) चतुर्युगानि वै त्रिंशत्क्रीडित्वा तत्र देववत्। इह मानुष्यके लोके विप्रो भवति वेदवित्॥ 14-103-24 (95875) विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम्। कविनश्यति तदा पापं तस्य वर्षकृतं नृप॥ 14-103-25 (95876) अथ प्रक्षालयेत्पादौ तस्य तोयेन भक्तिमान्। दशवर्षकृतं पापं व्यपोहति न संशयः॥ 14-103-26 (95877) घृतेन वाऽथ तैलेन पादौ तस्य तु पूजयेत्। तद्द्वादसमारूढं पापमाशु व्यपोहति॥ 14-103-27 (95878) धेनुकाञ्चनदत्तस्य यत्पुण्यं समुदाहृतम्। तत्पुण्यफलमाप्नोति यस्त्वेनं विप्रमर्चयेत्॥ 14-103-28 (95879) स्वागतेन तु यो विप्रं पूजयेदासनेन च। प्रत्युत्थानेन वा राजन्स देवानां प्रियो भवेत्॥ 14-103-29 (95880) स्वागतेनाग्नयो राजन्नासनेन शतक्रतुः। प्रत्युत्थानेन पितरः प्रीति यान्त्यतिथिप्रियाः॥ 14-103-30 (95881) अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप। संवत्सरकृतं पापं तस्य सद्यो विनश्यति॥ 14-103-31 (95882) यः प्रयच्छति विप्राय आसनं माल्यभूषितम्। स याति मणिचित्रेण रथेनेन्द्रनिकेतनम्॥ 14-103-32 (95883) पुरन्दरासने तत्र दिव्यनारीविभूषितः। षष्टिं वर्षसहस्राणि क्रीडत्यप्सरसां गणैः॥ 14-103-33 (95884) वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर। स याति रत्नचित्रेण वाहनेन सुरालयम्॥ 14-103-34 (95885) स तत्र कामं क्रीडित्वा सेव्यमानोप्सरोगणैः। इह राजा भवेद्राजन्नात्र कार्या विचारणा॥ 14-103-35 (95886) पादपं पल्लवाकीर्णं पुष्पतिं फलितं तथा। गन्धमाल्यैरथाभ्यर्च्य वस्त्राभरणभूषितम्॥ 14-103-36 (95887) यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम्। भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु॥ 14-103-37 (95888) जांबूनदविचित्रेण विमानेन विराजता। पुरन्दरपुरं याति जयशब्दरवैर्युतः॥ 14-103-38 (95889) ततः शक्रपुरे रम्ये तस्य कल्पकपादपः। ददाति चेप्सितं सर्वं मनसा यद्यदिच्छति॥ 14-103-39 (95890) यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च। तावद्वर्षसहस्राणि शक्रलोके महीयते॥ 14-103-40 (95891) शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः। रथाश्वगजसंपूर्णं पुरं राज्यं च वक्ष्यति॥ 14-103-41 (95892) स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृति नरः। आलयं विधिवत्कृत्वा पूजाकर्म च कारयेत्। स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु॥ 14-103-42 (95893) अश्वमेधसहस्रस्य यत्पुण्यं समुदाहृतम्। तत्फलं समवाप्नोति मत्सालोक्यं प्रपद्यते। न जाने निर्गमं तस्य मम लोकाद्युधिष्ठिर॥ 14-103-43 (95894) देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा। प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु॥ 14-103-44 (95895) आरुद्य काञ्चनं यानं द्योतयन्सर्वतो दिशम्। गच्छेदादित्यलोकं स सेव्यमानः सुरोत्तमैः॥छ 14-103-45 (95896) तत्र प्रकामं क्रीडित्वा वर्षकोटिं महातपाः। इह लोके भवेद्विप्रो वेदवेदाङ्गपारगः॥ 14-103-46 (95897) देवालयेषु वा राजन्ब्राह्मणावसथेषु वा। चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा॥ 14-103-47 (95898) नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च। यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना॥ 14-103-48 (95899) तस्य देवा नरश्रेष्ठ पितरश्चापि हर्षिताः। सुप्रीताः संप्रयच्चन्ति विमानं कामगं सुखम्॥ 14-103-49 (95900) स च तेन पिमानेन याति देवपुरं नरः। तत्र दिव्याप्सरोभिस्तु सेव्यमानः प्रमोदते॥ 14-103-50 (95901) देवलोकावतीर्णस्तु सोस्मिँल्लोके नराधिप। वेदवेदाङ्गतत्वज्ञो भोगवान्ब्राह्मणो भवेत्॥ 14-103-51 (95902) चत्वरे वा सभायां वा विस्तीर्णि वा सभाङ्गणे। कृत्वाऽग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर॥ 14-103-52 (95903) तत्राग्निं चतुरो मासाञ्ज्वालयेद्यस्तु भक्तिमाम्। समाप्तेषु च मासेषु पौष्यादिषु ततो द्विजान्॥ 14-103-53 (95904) भोजयेत्पायसं मृष्टं मद्गतेनान्तरात्मना। दक्षिणां च यथाशक्ति ब्राह्म्णेभ्यो निवेदयत्॥ 14-103-54 (95905) एवमग्निं तु यः कुर्यान्नित्यमेवार्चयेत्तु माम्। तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर॥ 14-103-55 (95906) तेनाहं शङ्करश्चैव पितरो ह्यग्नयस्तथा। यास्यामः परमां प्रीतिं नात्र कार्याविचारणा॥ 14-103-56 (95907) षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च। सोस्मत्प्रीतिकरः श्रीमान्मम लोके महीयते॥ 14-103-57 (95908) मम लोकावतीर्णश्च अस्मिँल्लोके महायशाः। वेदवेदाङ्गविद्विप्रो जायते राजपूजितः॥ 14-103-58 (95909) यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु। श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः। तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर॥ 14-103-59 (95910) गवां कोटिप्रदानेन यत्पुण्यं समुदाहृतम्। तत्सर्वफलमाप्नोति वर्षेणैकेन पाण्डव॥ 14-103-60 (95911) काञ्चनेन विचित्रेण विमानेनार्कशोभिना। स याति मामकं लोकं दिव्यस्त्रीगणसेवितः॥ 14-103-61 (95912) गीयमानो वरस्त्रीभिर्वर्षाणां कोटिविंशतिम्। क्रीडित्वा मामके तत्र सर्वदेवैरभिष्टुतः। मानुष्यमवतीर्णस्तु वेदविद्ब्राह्मणो भवेत्॥ 14-103-62 (95913) करकां कर्णिकां वाऽपि महद्वा जलभाजनम्। यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु॥ 14-103-63 (95914) ब्रह्मकूर्चे तु यत्पीते फलं प्रोक्तं नरादिप। तत्पुण्यफलमाप्नोति जलभाजनदो नरः। सुतृप्तः सर्वसौगन्धः प्रहृष्टेन्द्रियमानसः॥ 14-103-64 (95915) हंससारसयुक्तेन विमानेन विराजता। स याति वारुणं लोकं दिव्यगन्धर्वसेवितम्॥ 14-103-65 (95916) पानीयं यः प्रयच्छेद्वै जीवानां जीवनं परम्। ग्रीष्मे च त्रिषु मासेषु तस्य पुण्यफलं शृणु॥ 14-103-66 (95917) कपिलाकोटिनानस्य यत्पुण्यं तु विधीयते। तत्पुण्यफलमाप्नोति पानीयं यः प्रयच्छति॥ 14-103-67 (95918) पूर्णचन्द्रप्रकासेन विमानेन विराजता। स गच्छेच्चन्द्रभवनं सेव्यमानोप्सरोगणैः॥ 14-103-68 (95919) त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः। क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत्॥ 14-103-69 (95920) शिरोभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः। सुभगो रूपवाञ्शूरः पण्डितश्च भवेद्द्विजः॥ 14-103-70 (95921) वस्त्रदायी तु तेजस्वी सर्वत्र प्रियदर्शनः। सुभगो भवति श्रीमान्स्त्रीणां नित्यं मनोरमः॥ 14-103-71 (95922) उपानहौ च च्छत्रं च यो ददाति नरोत्तमः। स याति रथमुख्येन काञ्चनेन विराजता। शक्रलोकं महातेजाः सेव्यमानोप्सरोगणैः॥ 14-103-72 (95923) काष्ठपादुकदा यान्ति विमानैर्वृक्षनिर्मितैः। धर्मराजपुरं रम्यं सेव्यमानाः सुरोत्तमैः॥ 14-103-73 (95924) दन्तकाष्ठप्रादनेन प्रियवाक्यो भवेन्नरः। सुगन्धवदनः श्रीमान्मेदासौभाग्यसंयुतः॥ 14-103-74 (95925) क्षीरं दधि घृतं वाऽपि गुडं मधुरसं तथा। ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिमुपागताः॥ 14-103-75 (95926) ते वृषैरश्वयानैश्च श्वेतस्रग्दामभूषिताः। उपगीयमाना गन्धर्वैर्यान्तीश्वरपुरं नराः॥ 14-103-76 (95927) तत्र दिव्याप्सरोभिस्तु सेव्यमाना यथासुखम्। षष्टिवर्षसहस्राणि मोदन्ते देवसन्निभाः॥ 14-103-77 (95928) ततः कालावतीर्णाश्च जायन्ते त्विह मानवाः॥ प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः॥ 14-103-78 (95929) वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन। वैवस्वतं समुद्दिश्य परां भक्तिमुपागताः॥ 14-103-79 (95930) अभ्यर्च्य विधिवद्विप्रांस्तिलान्गुडसमन्वितान्। ये प्रयच्छन्ति विप्रेभ्यस्तेषां पुण्यफलं शृणु॥ 14-103-80 (95931) गोप्रदानेन यत्पुण्यं विधिवत्पाण्डुनन्दन। तत्पुण्यं समनुप्राप्तो यमलोके महीयते। ततश्चापि च्युतः कालादिह राजा भविष्यति॥ 14-103-81 (95932) तस्मिन्नेव दिने विप्रान्भोजयित्वा सुदक्षिणम्। तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये॥ 14-103-82 (95933) ते यान्त्यादित्यवर्णाभैर्विमानैर्वरुणालयम्। तत्र दिव्याङ्गनाभिस्तु रमन्ते कामकामिनः॥ 14-103-83 (95934) ततोऽवतीर्णाः कालेन ते चास्मिन्मानुषे पुनः। भोगवन्तो द्विजश्रेष्ठ भविष्यन्ति न संशयः॥ 14-103-84 (95935) अनन्तराशी यश्चापि वर्तते व्रतवत्सदा। सत्यवाक्क्रोधरहितः शुचिः स्नानरतः सदा। स विमानेन दिव्येन याति शक्रपुरं नरः॥ 14-103-85 (95936) तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपाः। क्रीडित्वा मानुषे लोके जायते वेदविद्द्विजः॥ 14-103-86 (95937) एकभुक्तेन यश्चापि वर्षमेकं तु वर्तते। ब्रह्मचारी जितक्रोधः सत्यशौचसमन्वितः। स विमानेन दिव्येन याति शक्रपुरं नरः॥ 14-103-87 (95938) दशकोटिसहस्राणि क्रीडित्वाऽप्सरसां गणैः। इह मानुष्यके लोके वेदविद्ब्राह्मणो भवेत्॥ 14-103-88 (95939) चतुर्थकाले यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः। वर्तते चैकवर्षं तु तस्य पुण्यफलं शृणु॥ 14-103-89 (95940) चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना। याति यानेन दिव्येन स महेन्द्रपुरं नरः॥ 14-103-90 (95941) अकृशाभिर्वरस्त्रीभिः सेव्यमानो यथासुखम्। ततो द्वादशकोटिं स समाः सम्यक्प्रमोदते॥ 14-103-91 (95942) शक्रलोकावतीर्णस्तु लोके चास्मिन्नराधिप। भवेद्वै ब्राह्मणो विद्वान्क्षमावान्वेदपारगः॥ 14-103-92 (95943) षष्ठकाले तु योऽश्नाति वर्षमेकमकल्मषः। ब्रह्मचर्यव्रतैर्युक्तः शुचि क्रोधविवर्जितः। तपोयुक्तस्य तस्याथ शृणुष्व फलमुत्तमम्॥ 14-103-93 (95944) अत्यादित्यप्रकाशेन विमानेनार्कसंनिभः। स याति मम लोकान्वै दिव्यनारीनिषेवितः॥ 14-103-94 (95945) तत्र साध्यैर्मरुद्भिस्तु पूज्यमानो यथासुखम्। पश्यन्नेव सदा मां तु क्रीडत्यप्सरसां गणैः॥ 14-103-95 (95946) पक्षोपवासं यश्चापि कुरुते मद्गतात्मना। समाप्ते तु व्रते तस्मिंस्तर्पयेच्छ्रोत्रियान्द्विजान्॥ 14-103-96 (95947) सोपि गच्छति दिव्येन विमानेन महातपाः। द्योतयनप्रभया व्योम मम लोकं प्रपद्यते। स तत्र मोदते कामं कामरूपी यथासुखम्॥ 14-103-97 (95948) त्रिंशत्कोटिसमा राजन्क्रीडित्वा तत्र देववत्। इह मानुष्यके लोके पूजनीयो द्विजो भवेत्। त्रयाणामपि वेदानां साङ्गानां पारगे भवेत्॥ 14-103-98 (95949) यश्च मासोपवासं वै कुरुते मद्गतात्मना। जितेन्द्रियो जितक्रोधोजितधीः स्नानतत्परः॥ 14-103-99 (95950) समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान्। दक्षिणां च ततो दद्यात्प्रहृष्टेनान्तरात्मना॥ 14-103-100 (95951) स गच्छति महातेजा ब्रह्मलोकमनु****म्। सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः॥ 14-103-101 (95952) स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः। शतकोटिसमा राजन्यथाकामं प्रमोदते॥ 14-103-102 (95953) ततः कालावतीर्णश्च सोस्मिँल्लोके द्विजो भवेत्। षडङ्गविच्चतुर्वेदी त्रिंशज्जन्मान्यरोगवान्॥ 14-103-103 (95954) यस्त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः। महाप्रस्तानमेकाग्नो याति मद्गतमानसः॥ 14-103-104 (95955) स गच्छेदिन्द्रसदनं विमानेन महातपाः। महामणिविचित्रेण सौवर्णन विराजता॥ 14-103-105 (95956) शतकोटिसमास्तत्र सुराधिपतिपूजितः। नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः॥ 14-103-106 (95957) शक्रलोकावतीर्णश्च मानुषेषूपजायते। राज्ञां राजा महातेजाः सर्वलोकार्चितः प्रभुः॥ 14-103-107 (95958) प्रायोपवेशं यश्चापि कुरुते मद्गतात्मना। नमो ब्रह्मण्यदेवायेत्युक्त्वा मन्त्रं समाहितः। अन्तःस्वस्थो जितक्रोधस्तस्य पुण्यफलं शृणु॥ 14-103-108 (95959) कामगः कामरूपी च बालसूर्यसमप्रभः। स विमानेन दिव्येन याति लोकाननामयान्॥ 14-103-109 (95960) स्वर्गत्स्वर्गं महातेजा गत्वा चैव यथासुखम्। मम लोकेषु रमते यावदाभूतसंप्लवम्॥ 14-103-110 (95961) अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना। सोपि यानेन दिव्येन मम लोकं प्रपद्यते॥ 14-103-111 (95962) तत्र सर्वगुणोपेतः पश्यन्नेव स मां सदा। त्रिंशत्कोटिसमा राजन्मोदते मम संनिधौ। ततोऽवतीर्णः कालेन वेदविद्ब्राह्मणो भवेत्॥ 14-103-112 (95963) कर्षणं साधयन्यस्तु मां प्रपन्नः शुचिव्रतः। नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रमुदाहरन्॥ 14-103-113 (95964) बालसूर्यप्रकाशेन विमानेन विराजता। मम लोकं समासाद्य वर्षकोटिं प्रमोदते। मम लोकावतीर्णश्च सोस्मिँल्लोके नृपो भवेत्॥ 14-103-114 (95965) निवेशयति मन्मूर्त्यामात्मानं मद्गतः शुचिः। रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः॥ 14-103-115 (95966) सिद्धैर्ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः। गन्धर्वैर्भूतसङ्घैश्च गीयमानो महातपाः॥ 14-103-116 (95967) प्रविशेत्स महातेजा मां वा शङ्करमेव वा। न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा॥ 14-103-117 (95968) गोकृते स्त्रीकृते चैव गुरुविप्रकृतेऽपि वा। हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते॥ 14-103-118 (95969) तत्र जांबूनदमये विमाने कामगामिनि। मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः॥ 14-103-119 (95970) आश्रुतस्याप्रादनेन दत्तस्य हरणेन च। जन्मप्रभृति यद्दत्तं तत्सर्वं तु विनश्यति॥ 14-103-120 (95971) नाऽगोप्रदास्तत्र पयः पिबन्ति नाभूमिदा भूमिमथाश्नुवन्ति। यान्यान्कामान्ब्राह्मणेभ्यो ददाति तांस्तान्कामान्स्वर्गलोके च भुङ्क्ते॥ 14-103-121 (95972) यद्यदिष्टतमं द्रव्यं न्यायनोपार्जितं च यत्। तत्तद्गुणवते देयं तदेवाक्षयमिच्छता॥ 14-103-122 (95973) अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च। अदत्त्वा काञ्चनं गां दरिद्रो नाम जायते॥ 14-103-123 (95974) दानं यत्तत्फलं नैव श्रोत्रियाय न दीयते। श्रोत्रिया यत्र नाश्नन्ति न देवास्तत्र भुञ्जते॥ 14-103-124 (95975) श्रोत्रियेभ्यः परं नास्ति परमं दैवतं महत्। निधानं चापि राजेन्द्र नास्माच्छ्रोत्रियभोजनम्॥ ॥ 14-103-125 (95976) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि त्र्यधिकशततमोऽध्यायः॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes

7-103-64 अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः। पञ्चगव्यं पिबेत्प्रातर्ब्रह्मकूर्चविधिः स्मृतः॥ 7-103-66 ग्रीष्मे चतुर्षु मासेषु इति थ.पाठः॥
आश्वमेधिकपर्व - अध्याय 104

॥ श्रीः ॥

14.104. अध्यायः 104

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति पञ्चमहायज्ञनिरूपणं, स्नानविधिनिरूपणं, वैष्णवलक्षणाभिधानं स्वपूजायोग्ययोग्यपुष्पविवेचनं च॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः। अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी॥ 14-104-1 (95977) भगवानुवाच। 14-104-2x (7956) शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः। न तु सर्वस्य भूतस्य पञ्चत्वं विद्यते नृप॥ 14-104-2 (95978) पञ्चत्वं पाण्डवश्रेष्ठ भूरिभूतिकरं नृणाम्। तेषां पञ्च महायज्ञान्ये कुर्वन्ति द्विजोत्तम॥ 14-104-3 (95979) पञ्चत्वं पञ्चभिर्भूतैर्वियोगं संप्रचक्षते। न जायते न म्रियते पुरुषः शाश्वतः सदा॥ 14-104-4 (95980) प्रायेण मरणं नाम पापिनामेव पाण्डव। येषां तु न गतिः पुण्या तेषां मरणमुच्यते॥ 14-104-5 (95981) प्रायेणाकृतकृत्यस्तु मृत्योरुद्विजते जनः। कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्॥ 14-104-6 (95982) युधिष्ठिर उवाच। 14-104-7x (7957) पञ्च यज्ञाः कथं देव क्रियन्तेऽत्र द्विजातिभिः। तेषां नाम च देवेश वक्तुमर्हस्यशेषतः॥ 14-104-7 (95983) श्रीभगवानुवाच। 14-104-8x (7958) शृणु पञ्च महायज्ञान्कीर्त्यमानान्युधिष्ठिर। यैरेव ब्रह्मसालोक्यं लभ्यते गृहमेधिना॥ 14-104-8 (95984) ऋभुजज्ञं ब्रह्मयज्ञं भूतयज्ञं च पाण्डव। नृयज्ञं पितृयज्ञं च पञ्च यज्ञान्प्रचक्षते॥ 14-104-9 (95985) तर्पणं ऋभुयज्ञः स्यात्स्वाध्यायो ब्रह्मयज्ञकः। भूतयज्ञो बलिर्यज्ञो नृयज्ञोऽतिथिपूजनम्। पितॄनुद्दिश्य यत्कर्म पितृयज्ञः प्रकीर्तितः॥ 14-104-10 (95986) हुतं चाप्यहुतं चैव तथा प्रहुतमेव च। प्राशितं बलिदानं च पाकयज्ञान्प्रचक्षते॥ 14-104-11 (95987) वैश्वदेवादयो होमा हुतमित्युच्यते बुधैः। अहुतं च भवेद्दत्तं प्रहुतं ब्राह्मणाशितम्॥ 14-104-12 (95988) प्राणाग्निहोत्रहोमं च प्राशितं विधिवद्विदुः। बलिकर्म च राजेन्द्र पाकयज्ञाः प्रकीर्तिताः॥ 14-104-13 (95989) केचित्पञ्च महायज्ञान्पाकयज्ञान्प्रचक्षते। अपरे ब्रह्मयज्ञादीन्महायज्ञविदो विदुः॥ 14-104-14 (95990) सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः। बुभुक्षितान्ब्राह्मणांस्तु यथाशक्ति न हापयेत्॥ 14-104-15 (95991) अहन्यहनि ये त्वेतानकृत्वा भुञ्जते स्वयम्। केवलं मलमश्नन्ति ते नार न च संशयः॥ 14-104-16 (95992) तस्मात्स्नात्वा द्विजो विद्वान्कुर्यादेतान्दिनेदिने। अतोऽन्यथा तु भुञ्जन्वै प्रायश्चित्ती भवेद्द्विजः॥ 14-104-17 (95993) युधिष्ठिर उवाच। 14-104-18x (7959) देवदेवेशक दैत्यघ्न त्वद्भक्तस्य जनार्दन। वक्तुमर्हसि देवेश स्नानस्य च विधिं मम॥ 14-104-18 (95994) भगवानुवाच। 14-104-19x (7960) शृणु पाण्डव तत्सर्व पवित्रं पापनाशनम्। स्नात्वा येन विधानेन मुच्यन्ते किल्बिषाद्द्विजाः॥ 14-104-19 (95995) मृदं च गोमयं चैव तिलं दर्भांस्तथैव च। पुष्पाण्यपि यथान्यायमादाय तु जलं व्रजेत्॥ 14-104-20 (95996) नद्यां स्नात्वा न च स्नायदन्यत्र द्विजसत्तम। सति प्रभूते पयसि नाल्पे स्नायात्कदाचन॥ 14-104-21 (95997) गत्वोदकसमीपं तु शुचौ देशे मनोरमे। ततो मृद्गोमयादीनि तत्र विप्रो विनिक्षिपेत्॥ 14-104-22 (95998) बहिः प्रक्षाल्य पादौ च द्विराचम्य प्रयत्नतः। प्रदक्षिणं समावृत्य नमस्कुर्यात्तु तज्जलम्॥ 14-104-23 (95999) न च प्रक्षालयेद्विद्वांस्तीर्थमद्भिः कदाचन। न च पादेन वा हन्याद्धस्तेनान्येन तज्जलम्॥ 14-104-24 (96000) सर्वदेवमया ह्यापो मन्मयाः पाण्डुनन्दन। तस्मात्तास्तु न हन्तव्यास्त्वद्भिः प्रक्षालयेत्स्थलं॥ 14-104-25 (96001) केवलं प्रथमं मज्जेन्नाङ्गानि विमृशेद्बुधः। तत्तु तीर्थं समासाद्य कुर्यादाचमनं पुनः॥ 14-104-26 (96002) गोकर्णाकृतिवत्कृत्वा करं त्रिः प्रपिबेज्जलम्। द्विस्तत्परिमृजेद्वक्त्रं पादावभ्युक्ष्य चात्मनः। शीर्षण्यांस्तु ततः प्राणान्सकृदेवतु संस्पृशेन॥ 14-104-27 (96003) बाहू द्वौ च ततः स्पृष्ट्वा हृदयं नाभिमेव च। प्रत्यङ्गमुदकं स्पृष्ट्वा मूर्धानं तु पुनः स्पृशेत्॥ 14-104-28 (96004) आपः पुनन्त्वित्युक्त्वा च पुनराचमनं चरेत्। सोङ्कारव्याहृतीर्वाऽपि सदसस्पतिमित्यृचम्॥ 14-104-29 (96005) आचम्य मृत्तिकाः पश्चात्त्रिधा कृत्वा समालभेत्। ऋचेदं विष्णुरित्यङ्गमुत्तमाधममध्यमम्। आलभ्य वारुणैः सूक्तैर्नमस्कृत्य जलं ततः॥ 14-104-30 (96006) स्रवन्ती चेत्प्रतिस्रोतः प्रत्यर्कं चान्यवारिषु। मज्जेदोमित्युदाहृत्य न च विक्षोभयेज्जलम्॥ 14-104-31 (96007) गोमयं च त्रिधा कृत्वा जले पूर्वं समालभेत्। सव्याहृतीकां सप्रणवां गायत्रीं च जपेत्पुनः॥ 14-104-32 (96008) पुनराचमनं कृत्वा मद्गतेनान्तरात्मना। आपोहिष्ठेति तिसृभिर्ऋग्भिः पूतेन वारिणा। तथा तरत्समन्दीभिः सिञ्चेच्चतसृभिः क्रमात्॥ 14-104-33 (96009) गोसूक्तेनाश्वसूक्तेन शुद्धवर्गेणि चात्मनः। वैष्णवैर्वारुणैः सूक्तैः सावित्रैरिन्द्रदेवतैः॥ 14-104-34 (96010) वामदैव्येन चात्मानमन्यैर्मन्मयसामभिः। स्थित्वाऽन्तःसलिले सूक्तं जपेद्वाचाऽघमर्षणं॥ 14-104-35 (96011) सव्याहृतीकां सप्रणवां गायत्रीं वा ततो जपेत्। आश्वासमोक्षात्प्रणवं जपेद्वा मामनुस्मरन्॥ 14-104-36 (96012) उत्प्लुत्य तीर्थमासाद्य धौते शुक्ले च वाससी॥ शुद्धे चाच्छादयेत्कक्षे न कुर्यात्परिपाशके॥ 14-104-37 (96013) पाशेन बद्ध्वा कक्षे यत्कुरुते कर्म वैदिकम्। राक्षसा दानवा दैत्यास्तद्विलुंपन्ति हर्षिताः। तस्मत्सर्वप्रयत्नेन कक्ष्यापाशं न धारयेत्॥ 14-104-38 (96014) ततः प्रक्षाल्य पादौ च हस्तौ चैव मृदा शनैः। आचम्य पुनराचामेत्पुनः सावित्रिया द्विजः॥ 14-104-39 (96015) प्राङ्मुखोदङ्मुखो वाऽपि ध्यायन्वेदान्समाहितः। जले जलगतः शुद्धः स्थल एव स्थलस्थितः। उभयत्र स्थितस्तस्मादाचामेदात्मशुद्धये॥ 14-104-40 (96016) दर्भेषु दर्भपाणिः सन्प्राङ्मुखः सुसमाहितः। प्राणायामांस्ततः कुर्यान्मद्गतेनान्तरात्मना॥ 14-104-41 (96017) सहस्रकृत्वः सावित्रीं शतकृत्वस्तु वा जपेत्॥ 14-104-42 (96018) समाहितो जपेत्तस्मात्सावित्र्या चाभिमन्त्र्य च। मन्देहानां विनाशाय रक्षसां विक्षिपेज्जलम्॥ 14-104-43 (96019) उद्वर्गोसीत्यथा चान्तःप्रायश्चित्तजलं क्षिपेत्॥ 14-104-44 (96020) अथादाय सुपुष्पाणि तोयमञ्जलिना द्विजः प्रक्षिप्य प्रतिसूर्यं च व्योममुद्रां प्रकल्पयेत्॥ 14-104-45 (96021) ततो द्वादशकृत्वस्तु सूर्यस्येकाक्षरं जपेत्। ततः षडक्षरादीनि षट्कृत्वः परिवर्तयेत्॥ 14-104-46 (96022) प्रदक्षिणं परामृश्य मुद्रया स्वमुखान्तरे। ऊर्ध्वबाहुस्ततो भूत्वा सूर्यमीक्षेत्समाहितः॥ 14-104-47 (96023) तन्मण्डलस्थं मां ध्यायंस्तोजोमूर्तिं चतुर्भुजम्। उदुत्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि॥ 14-104-48 (96024) सावित्रीं च यथाशत्ति जप्त्वा सूक्तं च मामकम्। मन्मयानि च सामानि पुरुषव्रतमेव च॥ 14-104-49 (96025) ततश्चालोकयेदर्कं हंसः शुचिषदित्यपि। प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम्॥ 14-104-50 (96026) ततस्तु तर्पयेदद्भिर्ब्रह्म्णां मां च शङ्करम्। प्रजापतिं च देवांश्च तथा देवमुनीनपि॥ 14-104-51 (96027) साङ्गानपि तथा वेदानितिहासान्क्रतूनपि। पुराणानि च सर्वाणि कुलान्यप्सरसां तथा॥ 14-104-52 (96028) क्रतून्संवत्सरं चैव कलाकाष्ठात्मकं तथा। भूतग्रामांश्च भूतानि सरितः सागरांस्तथा। शैलाञ्शैलस्थितान्देवानोषधीः सवनस्पतीः॥ 14-104-53 (96029) तर्पयेदुपवीती च प्रत्येकं तृप्यतामिति। अन्वारभ्य च सव्येन पाणिना दक्षिणेन तु॥ 14-104-54 (96030) निवीती तर्पयेद्विद्वानृषीन्मन्त्रकृतस्तथा। मरीच्यादीनृषींश्चैव नारदाद्यान्समाहितः॥ 14-104-55 (96031) प्राचीनावीत्यथैतास्तु तर्पयेद्देवताः पितॄत्। ततस्तु कव्यवाडग्निं सों वैवस्वतं तथा॥ 14-104-56 (96032) ततश्चार्यमणं चापि ह्यग्निष्वात्तांस्तथैव च। सोमपांश्चैव दर्भेषु सतिलैरेव वारिभिः। तृप्यतामिति पश्चात्तु स पितॄंस्तर्पयेत्ततः॥ 14-104-57 (96033) पितॄन्पितामहांश्चैव तथैव प्रपितामहान्। पितामहीस्तता चापि तथैव प्रपितामहीः॥ 14-104-58 (96034) मातरं चात्मनश्चैव गुरुमाचार्यमेव च। पितृमातृष्वसारौ च तथा मातामहीमपि॥ 14-104-59 (96035) उपाध्यायान्सखीन्बन्धूञ्शिष्यर्त्विग्ज्ञातिबांधवान्। प्रमीतानानृशंस्यार्थं तर्पयेत्तानमत्सरः॥ 14-104-60 (96036) तर्पयित्वा तथाऽऽचम्य स्नानवस्त्रं प्रपीडयेत्। वृत्तिं भृत्यजनस्याहुः स्नानं पानं च तद्विदः॥ 14-104-61 (96037) अतर्पयित्वा तान्पूर्वं स्नानवस्त्रं न पीडयेत्। पीडयेच्चेत्पुरा मोहाद्देवाः सर्पिगणास्तथा। पितरस्तु निराशास्ते शप्त्वा यान्ति यथागतं॥ 14-104-62 (96038) प्रक्षाल्य तु मृदा पादावाचम्य प्रयतः पुनः। दर्भेषु दर्भपाणिः सन्स्वाध्यायं तु समारभेत्॥ 14-104-63 (96039) वेदमादौ समारभ्य ततोपर्युपरि क्रमात्। यदधीतेऽन्वहं शक्त्या तत्स्वाध्यायं प्रचक्षते॥ 14-104-64 (96040) ऋचो वाऽपि यजुर्वाऽपि सामगायमथापि च। इतिहासपुराणानि यथाशक्ति न हापयेत्॥ 14-104-65 (96041) उत्थाय तु नमस्कृत्य दिशो दिग्देवता अपि। ब्रह्मणं च ततश्चाग्निं पृथिवीमोषधीस्तथा॥ 14-104-66 (96042) वाचं वाचस्पतिं चैव मां चैव सरितस्तथा। नमस्कृत्य तथाऽद्भिस्तु प्रणवादि च पूर्ववत्॥ 14-104-67 (96043) ततो नमोऽद्भ्य इत्युक्त्वा नमस्कुर्यात्तु तज्जलम्। घृणिः सूर्यस्तथाऽऽदित्यस्तं प्रणम्य स्वमूर्धनि॥ 14-104-68 (96044) ततस्त्वालोकयन्नर्कं प्रणवेन समाहितः। ततो मामर्चयेत्पुष्पैर्मत्प्रियैरेव नित्यशः॥ 14-104-69 (96045) युधिष्ठिर उवाच। 14-104-70x (7961) त्वत्प्रियाणि प्रसूनानि त्वदधिष्ठानि माधव। सर्वाण्याचक्ष्व देवेश त्वद्भक्तस्य ममाच्युत॥ 14-104-70 (96046) भगवानुवाच। 14-104-71x (7962) शृणुष्वावहितो राजन्पुष्पाणि प्रियकृन्ति मे। कुमुदं करवीरं च चणकं चंपकं तथा॥ 14-104-71 (96047) मल्लिकाजातिपुष्पं च नन्द्यावर्तं च नन्दिकम्। पलाशपुष्पपत्राणि दूर्वा भृङ्गकमेव च॥ 14-104-72 (96048) वनमाला च राजेन्द्र मत्प्रियाणि विशेषतः। सर्वेषामपि पुष्पाणां सहस्रगुणमुत्पलम्॥ 14-104-73 (96049) तस्मात्पद्मं तथा राजन्पद्मात्तु सतपत्रकम्। तस्मात्सहस्रपत्रं तु पुण्डरीकं ततः परम्॥ 14-104-74 (96050) पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका। बकपुष्पं ततस्तस्मात्सौवर्णं तु ततोऽधिकम्। सौवर्णात्तु प्रसूनाच्च मत्प्रियं नास्ति पाण्डव॥ 14-104-75 (96051) पुष्पाभावे तुलस्यास्तु पत्रैर्मामर्चयेत्पुनः। पत्रालाभे तु शाखाभिः शाकालाभे शिफालवैः। शिफाभावे मृदा तत्र भक्तिमानर्चयेत माम्॥ 14-104-76 (96052) वर्जनीयानि पुष्पाणि शृणु राजन्समाहितः। किङ्किणी मुनिपुष्पं च धुर्धूरं पाटलं तथा॥ 14-104-77 (96053) तथाऽतिमुक्तकं चैव पुन्नागं नक्तमालिकम्। यौधिकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गुली जपा॥ 14-104-78 (96054) कर्णिकारं तथाऽशोकं शल्मलीपुष्पमेव च। ककुभाः कोविदाराश्च वैभीतकमथापि च॥ 14-104-79 (96055) कुरण्टकप्रसूनं च कल्पकं कालकं तथा। अङ्केलं गिरिकर्णी च नीलान्येव च सर्वशः। एकपर्णानि चान्यानि सर्वाण्येव विवर्जयेत्॥ 14-104-80 (96056) अर्कपुष्पाणि वर्ज्यानि अर्कपत्रस्तितानि च। व्याघृताः पिचुमन्दानि सर्वाण्येव विवर्जयेत्॥ 14-104-81 (96057) अन्यैस्तु शुक्लपत्रैस्तु गन्धवद्भिर्नराधिप। अवर्ज्यैस्तैर्यथालाभं मद्भक्तो मां समर्चयेत्॥ 14-104-82 (96058) युधिष्ठिर उवाच। 14-104-83x (7963) कथं त्वमर्चनीयोसि मूर्तयः कीदृशास्तु ते। वैखानसाः कथं ब्रुयूः कथं वा पाञ्चरात्रिकाः॥ 14-104-83 (96059) भगवानुवाच। 14-104-84x (7964) शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः। स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम्॥ 14-104-84 (96060) अष्टाक्षरविधानेन ह्यथवा द्वादशाक्षरैः। वैदिकैरथ मन्त्रैश्च मम सूक्तेन वा पुनः॥ 14-104-85 (96061) स्थापितं मां ततस्तस्मिन्नर्ययित्वा विचक्षणः। पुरुषं च ततः सत्यमत्युतं च युधिष्ठिर॥ 14-104-86 (96062) अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः। अन्ये त्वेवं विजानन्ति मां राजन्पाञ्चरात्रिकाः। 14-104-87 (96063) वासुदेवं च राजेन्द्र संकर्षणमथापि वा। प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते॥ 14-104-88 (96064) एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः। विद्ध्यार्थान्तरा एवं मामेवं चार्चयेद्भुधः॥ 14-104-89 (96065) युधिष्ठिर उवाच। 14-104-90x (7965) त्वद्भक्ताः कीदृसा देव कानि तेषं व्रतानि च। एतत्कथय देवेश त्वद्भक्तस्य ममाच्युत॥ 14-104-90 (96066) भगवानुवाच। 14-104-91x (7966) अनन्यदेवताभक्ता चे मद्भक्तजनप्रियाः। मामेव शरणं प्राप्ता मद्भक्तास्ते प्रकीर्तिताः॥ 14-104-91 (96067) स्वर्ग्याण्यपि यशस्यानि मत्प्रियाणि विशेषतः। मद्भक्तः पाण्डवश्रेष्ठ व्रतानीमानि धारयेत्॥ 14-104-92 (96068) नान्यदाच्छादयेद्वस्त्रं मद्भक्तो जलतारणे। स्वस्थस्तु न दिवा स्वप्येन्मधुमांसानि वर्जयेत्॥ 14-104-93 (96069) प्रदक्षिणं व्रजेद्विप्रान्गामश्वत्थं हुताशनम्। न धावेत्पतिते वर्षे नाग्नभिक्षां च लोपयेत्॥ 14-104-94 (96070) प्रत्यक्षलवणं नाद्यत्सौभाञ्जनकरञ्जनौ। ग्रासमुष्टिं गवपे दद्याद्धान्याम्लं चैव वर्जयेत्॥ 14-104-95 (96071) तथा पर्युषितं चापि पक्वं परगृहागतम्। अनिवेदितं च यद्द्रव्यं तत्प्रयत्नेन वर्जयेत्॥ 14-104-96 (96072) विभितककरञ्जानां छायां दूरे विवर्जयेत्। पिप्रदेवपरीवादान्न वदेत्पीडितोपि सन्॥ 14-104-97 (96073) सात्विका राजसाश्चापि तामसाश्चापि पाण्डव। मामर्चयन्ति मद्भक्तास्तेषामीदृग्विदा गतिः॥ 14-104-98 (96074) तामसास्तिमिरं यान्ति राजसा रज एव तत्। सात्विकाः सत्वसंपन्नाः सत्वमेव प्रयान्ति ते॥ 14-104-99 (96075) ये सिद्धाः सन्ति साङ्ख्येन योगसत्वबलेन च। नभस्यादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम्॥ 14-104-100 (96076) एकस्तंभे नवद्वारे त्रिस्थूणे पञ्चसाक्षिके। एतस्मिन्देहनगरे राजसस्तु सदा भवेत्॥ 14-104-101 (96077) उदिते सवितर्याप्य क्रियायुक्तस्य धीमतः। चतुर्वेदविदश्चापि देहे षड्वृषलाः स्मृताः॥ 14-104-102 (96078) क्षत्रियाः सप्त विज्ञेया वैश्यास्त्वष्टौ प्रकीर्तिताः। नियताः पाण्डवश्रेष्ठ शूद्राणामेकविंशतिः॥ 14-104-103 (96079) कामः क्रोधश्च लोभश्च मोहश्च मद एव च। महामोहश्च इत्येते देहे षड्वृषलाः स्मृताः॥ 14-104-104 (96080) गर्वः स्तंभो ह्यहङ्कार ईर्ष्या च द्रोह एव च। पारुष्यं क्रूरता चैव सप्तैत क्षत्रियाः स्मृताः॥ 14-104-105 (96081) तीक्ष्णता निकृतिर्माया शाठ्यं डंभो ह्यनार्जवम्। पैशुन्यमनृतं चैव वेश्यास्त्वष्टौ प्रकीर्तिताः॥ 14-104-106 (96082) तृष्णा बुभुक्षा निद्रा च ह्यालस्यं चाघृणादयः। आधिश्चापि विषादश्च प्रमादो हीनसत्वता॥ 14-104-107 (96083) भयं विक्लबता जाड्यं पापकं मन्युरेव च। आशा चाश्रद्दधानत्वमनवस्थाप्यमन्त्रणम्॥ 14-104-108 (96084) आशौचं मलिनत्वं च शूद्रा ह्येते प्रकीर्तिताः। यस्मिन्नेते न दृश्यन्ते स वै ब्राह्मण उच्यते॥ 14-104-109 (96085) येषुयेषु हि भावेषु यत्कालं वर्तते द्विजः। तत्कालं वै स विज्ञेयो ब्राह्मणो ज्ञानदुर्बलः॥ 14-104-110 (96086) प्राणानायम्य यत्कालं येन मां चापि चिन्तयेत्। तत्कालो वै द्विजो ज्ञेयः शेषकालो ह्यथेतरः॥ 14-104-111 (96087) तस्मात्तु सात्विको भूत्वा शुचिः क्रोधविवर्जितः। मामर्चयेत्तु सततं मत्प्रियत्वं यदीच्छति॥ 14-104-112 (96088) अलोलजिह्वः समुपस्थितो धृतिं निधाय चक्षुर्युगमात्रमेव तत। मनश्च वाचं च निगृह्य चञ्चलं भयान्निवृत्तो मम भक्त उच्यते॥ 14-104-113 (96089) ईदृशाध्यात्मिनो ये तु ब्राह्मणा नियतेन्द्रियाः। तेषां श्राद्धेषु तृप्यन्ति तेन तृप्ताः पितामहाः॥ 14-104-114 (96090) धर्मो जयति नाधर्मः सत्यं जयति नानृतम्। क्षमा जयति न क्रोधः क्षमावान्ब्राह्मणो भवेत्॥ ॥ 14-104-115 (96091) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि चतुरधिकशततमोऽध्यायः॥ 104 ॥
आश्वमेधिकपर्व - अध्याय 105

॥ श्रीः ॥

14.105. अध्यायः 105

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति दशधा कपिलाविभागकथनपूर्वकं तद्दानप्रशंसनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। दानपुण्यफलं श्रुत्वा तपःपुण्यफलानि च। धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्॥ 14-105-1 (96092) या चैषा कपिला देव पूर्वमुत्पादिता विभो। होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव॥ 14-105-2 (96093) सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्दिनेऽपि वा। कीदृशाय च विप्राय दातव्या पुण्यलक्षणा॥ 14-105-3 (96094) कथिता कपिला प्रोक्ता स्वयमेव स्वयंभुवा। कैर्वा देयाश्च ता देव श्रोतुमिच्छामि तत्वतः॥ 14-105-4 (96095) वैशम्पायन उवाच। 14-105-5x (7967) एवमुक्तो हृषीकेशो धर्मपुत्रेण संसदि। अब्रवीत्कपिलासङ्क्यां तासां माहात्म्यमेव च॥ 14-105-5 (96096) शृणु पाण्डव तत्वेन पवित्रं पावनं परम्। यच्छ्रुत्वा पापकर्मा पि नरः पापात्प्रमुच्यते॥ 14-105-6 (96097) अग्निमद्योद्भवां दिव्यामग्निज्वालासमप्रभाम्। अग्निज्वालोज्ज्वलच्छृङ्गीं प्रदीप्ताङ्गारलोचनाम्॥ 14-105-7 (96098) अग्निपुच्छामग्निखुरामग्निरोमप्रभान्विताम्। तामग्नेयीमग्निजिह्वामग्निग्रीवां ज्वलत्प्रभाम्॥ 14-105-8 (96099) भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः। पतितांस्तान्विजानीयाच्चण्डालसदृशा हि ते॥ 14-105-9 (96100) न तेषां ब्राह्ममः कश्चिद्गृहे कुर्यात्प्रतिग्रहम्। दूराच्च परिहर्तव्या महापातकिनोपि ते॥ 14-105-10 (96101) सार्वकालं हि ते सर्वैर्वर्जिताः पितृदैवतैः। ते सदा ह्यप्रतिग्राह्या ह्यसंभाष्याश्च पापिनः॥ 14-105-11 (96102) पिबन्ति कपिलां यावत्तावत्तेषां पितामहाः। अमेध्यमुपभुञ्जन्ति भूम्यां वै श्वसृगालवत्॥ 14-105-12 (96103) कपिलाया दधि क्षीरं घृतं तक्रमथापि वा। ये शूद्रा उपभुञ्जन्ति तेषां गतिमिमां शृणु॥ 14-105-13 (96104) कपिलोपजीवी शूद्रस्तु मृतो गच्छति रौरवम्। क्लिश्यते रौरवे घोरे वर्षकोटिशतं वसन्॥ 14-105-14 (96105) ततश्चापि च्युतः कालाच्छ्वानयोनिं स गच्छति। श्वयोन्याश्च परिभ्रष्टो विष्ठायां जायते क्रिमिः॥ 14-105-15 (96106) विष्ठाकूपेषु पापिष्ठो दुर्गन्धेषु सहस्रशः। तत्रतत्रोपजायेत नोत्तारं तत्रथ विन्दति॥ 14-105-16 (96107) ब्राह्मणश्चैव यस्तेषां गृहे कुर्यात्प्रतिग्रहम्। ततः प्रभृति तस्यापि पितरः स्युरमेध्यपाः॥ 14-105-17 (96108) न तेन सार्धं सम्भाषेन्न चाप्येकासनं व्रजेत्। स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणाधमः॥ 14-105-18 (96109) यस्तेन सह सम्भाषेदेकशय्यां व्रजेत् वा। प्राजापत्यं चरेत्कृच्छ्रं स च तेन विसुद्ध्यति॥ 14-105-19 (96110) कपिलोपजीविनः शूद्राद्यः करोति प्रतिग्रहम्। प्रायश्चित्तं भवेत्तस्य विप्रस्यैतन्न संशयः॥ 14-105-20 (96111) ब्रह्मकूर्चं प्रकुर्वीति चान्द्रायणमथापि वा। मुच्यते किल्बिषात्तस्मादेतेन ब्राह्मणो हि सः॥ 14-105-21 (96112) कपिला ह्यग्निहोत्रार्थे विप्रार्थे वा स्वयंभुवा। सर्वं तेजः समुद्धृत्य निर्मिता ब्रह्मणा पुरा॥ 14-105-22 (96113) पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्। पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन॥ 14-105-23 (96114) तपसा तप एवाग्र्यं व्रातनामुत्तमं व्रतम्। दानानां परमं दानं निदानं ह्येतदक्षयम्॥ 14-105-24 (96115) पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च। पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव॥ 14-105-25 (96116) एभ्यस्तेजः समुद्धृत्य ब्रह्मणा लोककर्तृणा॥ लोकनिस्तरणायैव निर्मिताः कपिलाः स्वयम्॥ 14-105-26 (96117) सर्वतेजोमयी ह्येषां कपिला पाण्डुनन्दन। सदाऽमृतमयी मेध्या शुचिः पावनमुत्तमम्॥ 14-105-27 (96118) क्षीरेण कपिलायास्तु दध्ना वा सघृतेन वा। होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः॥ 14-105-28 (96119) कपिलाया घृतेनापि दध्ना क्षीरेण वा पुनः। जुह्वते योऽग्निहोत्राणि ब्राह्मणा विधिवत्प्रभो॥ 14-105-29 (96120) पूजयन्त्यतिथींश्चैव परां भक्तिमुपागताः। शूद्रान्नाद्विरता नित्यं डंभानृतविवर्जिताः॥ 14-105-30 (96121) ते यान्त्यादित्यसङ्काशैर्विमानैर्द्विजसत्तमाः। सूर्यमण्डलमध्येन ब्रह्मलोकमनुत्तमम्॥ 14-105-31 (96122) ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः। ब्रह्मणा पूज्यमानास्तु मोदन्ते कल्पमक्षयम्॥ 14-105-32 (96123) एवं हि कपिला राजन्पुण्या मन्त्रामृतारणिः। आदावेवाग्निमध्ये तु मैत्रेयी ब्रह्मनिर्मिता॥ 14-105-33 (96124) शृङ्गाग्रे कपिलायास्तु सर्वतीर्थानि पाण्डव। ब्रह्मणो हि नियोगेन निवसन्ति दिनेदिने॥ 14-105-34 (96125) प्रातरुत्थाय यो मर्त्यः कपिलाशृङ्गमस्तकात्। यश्च्युतामंबुधारां वै शिरसा प्रयतः शुचिः॥ 14-105-35 (96126) स तेन पुण्यतीर्थेन सहसा हतकिल्विषः। जन्मत्रयकृतं पापं प्रदहत्यग्निवतृणम्॥ 14-105-36 (96127) मूत्रेण कपिलायास्तु यश्च प्राणानुपस्पृशेत्॥ स्नानेन तेन पुण्येन नष्टपापः स मानवः। त्रिंशद्वर्षकृतात्पापान्मुच्यते नात्र संशयः॥ 14-105-37 (96128) प्रातरुत्थाय यो भक्तया प्रयच्छेत्तृणमुष्टिकम्। तस्य नश्यति तत्पापं त्रिंशद्रात्रकृतं नृप॥ 14-105-38 (96129) प्रातरूत्थाय यद्भक्त्या कुर्याद्यस्मात्प्रदक्षिणम्। प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः॥ 14-105-39 (96130) प्रदक्षिणेन चैकेन श्रद्धायुक्तेन पाण्डव। दशरात्रकृतं पापं तस्य तन्नश्यति ध्रुवम्॥ 14-105-40 (96131) कपिलापञ्चगव्येन यः स्नायात्तु शुचिर्नरः। स गङ्गाद्येषु तीर्थेषु स्नातो भवति पाण्डव॥ 14-105-41 (96132) तेन स्नानेन तस्यापि श्रद्दायुक्तस्य पार्थिव। दशरात्रकृतं पापं तत्क्षणादेव नश्यति॥ 14-105-42 (96133) दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हुङ्कारनिस्वनम्। व्यपोहति नरः पापमहोरात्रकृतं नृप॥ 14-105-43 (96134) यत्र वा तत्र वा चाङ्गे कपिलां यः स्पृशेच्छुचिः। संवत्सरकृतं पापं विनाशयति पाण्डव॥ 14-105-44 (96135) गोसहस्रं तु यो दद्यादेकां च कपिलां नरः। समं तस्य फलं प्राह ब्रह्मा लोकपितामहः॥ 14-105-45 (96136) यस्त्वेवं कपिलां हन्यान्नरः कश्चित्प्रमादतः। गोसहस्रं हतं तेन भवेन्नात्र विचारणा॥ 14-105-46 (96137) यश्चैकां कपिलां दद्याच्छ्रोत्रियायाहिताग्नये। गवां शतसहस्रं तु दत्तं भवति पाण्डव॥ 14-105-47 (96138) दश वै कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा। यो दद्याच्छ्रोत्रियेभ्यो वै स्वर्गं गच्छति तच्छृणु॥ 14-105-48 (96139) प्रथमा स्वर्णकपिला द्वितीया गौरपिङ्गला। तृतीया रक्तपिङ्गाक्षी चतुर्थीं गलपिङ्गला॥ 14-105-49 (96140) पञ्चमी बभ्रुवर्णाभा षष्ठी च श्वेतपिङ्गला। सप्तमी रङ्गपिङ्गाक्षी त्वष्टमी खुरपिङ्गला॥ 14-105-50 (96141) नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला। दशैताः कपिलाः प्रोक्तास्तारयन्ति नरान्सदा॥ 14-105-51 (96142) मङ्गल्याश्च पवित्राश्च सर्वपापप्रणाशनाः। एवमेव ह्यनड्वाहो दश प्रोक्ता नरेश्वर॥ 14-105-52 (96143) ब्राह्मणो वाहयेत्तांस्तु नान्यो वर्णः कथंचन। न वाहयेच्च कपिलां क्षेत्रे वाऽध्वनि वा द्विजः॥ 14-105-53 (96144) वाहयेद्धुङ्कृतेनैव शाखया वा सपत्रया। न दण्डेन न वा यष्ट्या न पाशेन न वा पुनः॥ 14-105-54 (96145) न क्षुत्तृष्णाश्रमश्रान्तान्वाहयेद्विकलेन्द्रियान्। अतृप्तेषु न भुञ्जीयात्पिबेत्पीतेषु चोदकम्॥ 14-105-55 (96146) शुश्रूषोर्मातरश्चैताः पितरस्ते प्रकीर्तिताः। अह्नां पूर्वत्र भागे च धुर्याणां वाहनं स्मृतम्॥ 14-105-56 (96147) विश्रामेन्मध्यमे भागे भागे चान्ते यथासुखम्। यत्र च त्वरया कृत्यं संशयो यत्र वाऽध्वनि। 14-105-57 (96148) वाहयेत्तत्र धुर्यांस्तु न स पापेन लिप्यते॥ भ्रूणहत्यासमं पापं तस्य स्यात्पाण्डुनन्दन। 14-105-58 (96149) अन्यथा वाहयन्राजन्निरयं याति रौरवम्॥ रुधिरं पातयेत्तेषां यस्तु मोहान्नराधिप। 14-105-59 (96150) तेन पापेन पापात्मा नरकं यात्यसंशयम्॥ नरकेषु च सर्वेषु समाः स्थित्वा शतंशतम्। 14-105-60 (96151) इह मानुष्यके लोके बलीवर्दो भविष्यति॥ तस्मात्तु मुक्तिमन्विच्छन्दद्यात्तु कपिलां नरः॥ 14-105-61 (96152) कपिलां वाहयेद्यस्तु वृषलो लोभमोहितः। तेन देवास्त्रयस्त्रिंशत्पितरश्चापि वाहिताः॥ 14-105-62 (96153) स देवैः पितृभिर्नित्यं वध्यमानस्तु दुर्मतिः। नरकान्नरकं घोरं गच्छेदाप्रलयं नृप॥ 14-105-63 (96154) ब्रह्मा रुद्रस्तथाऽग्निश्च कपिलानां गतिं गताः। तस्मात्ते न निहन्तव्याः पूज्याश्चैव न संशयः। निःश्वसन्ति यदा श्रान्तास्तदा हन्युस्च तत्कुलं॥ 14-105-64 (96155) यावन्ति तेषां रोमाणि तावद्वर्षशतं नृप। नरकेषूपपच्यन्ते तत्र तद्वाहका नराः॥ 14-105-65 (96156) कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते। तस्मात्तद्दक्षिणा देया यज्ञेष्वेव द्विजातिभिः॥ 14-105-66 (96157) होमार्तं चाग्निहोत्रस्य यां प्रयच्छेत्प्रयत्नतः। श्रोत्रियाय दरिद्राय श्रान्तायामिततेजसे। तेन दानेन पूतात्मा मम लोके महीयते॥ 14-105-67 (96158) यावन्ति चैव रोमाणि कपिलाङ्गे युधिष्ठिर। तावद्वर्षसहस्राणि स्वर्गलोके महीयते॥ 14-105-68 (96159) सुवर्णखुरशृङ्गीं च कपिलां यः प्रयच्छति। विषुवे चायने चापि सोऽश्वमेधफलं लभेत्। तेनाश्वमेधतुल्येन मम लोकं स गच्छति॥ 14-105-69 (96160) स्वर्णशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहिनीम्। वस्त्रैरलङ्कृतां पुष्टां गन्धैर्माल्यैश्च शोभिताम्॥ 14-105-70 (96161) पवित्रं हि पवित्राणां सुरव्णमिति मे मतिः। तस्मात्सुवर्णाभरणा दातव्या साऽग्निहोत्रिणे॥ 14-105-71 (96162) एवं दत्त्वा तु राजेन्द्र सप्तपूर्वान्परानपि। तारयिष्यति राजेन्द्र नात्र कार्या विचारणा॥ 14-105-72 (96163) अग्निष्टोमसहस्रस्य वाजपेयं च तत्समम्। वाजपेयसहस्रस्य अश्वमेधं च तत्समम्। अश्वमेधसहस्रस्य राजसूयं च तत्समम्॥ 14-105-73 (96164) कपिलानां सहस्रेण विदिदत्तेन पाण्डव। राजसूयफलं प्राप्य मम लोके महीयते। न तस्य पुनरावृत्तिर्विद्यते कुरुपुङ्गव॥ 14-105-74 (96165) प्रयच्छते यः कपिलां सवत्सां कांस्यदोहिनीम्। सुवर्णकुरशृङ्गाङ्गीं सर्वालङ्कारशोभिताम्॥ 14-105-75 (96166) तैस्तैर्गुणैः कामदुघा च भूत्वा नरं प्रदातारमुपैति सा गौः। स्वकर्मभिश्चाप्यनुबध्यमानं तीव्रान्धकारे नरके पतन्तम्। महार्णवे नौरिव वायुनीता दत्ता हि गौस्तारयते मनुष्यम्॥ 14-105-76 (96167) पुत्रांश्च पौत्रांश्च कुलं च सर्व- मासप्तमं तारयते यथावत्। यावन्मनुष्यान्पृथिवी बिभर्ति तावत्प्रदातारमृतं परत्र॥ 14-105-77 (96168) यथौषधं मन्त्रकृतं नरस्य प्रयुक्तमात्रं विनिहन्ति रोगान्। तथैव दत्ता कपिला सुपात्रे पापं नरस्याशु निहन्ति सर्वम्॥ 14-105-78 (96169) यथैव दृष्ट्वा भुजगाः सुपर्णं नश्यन्ति दूराद्विवशा भयार्ताः। तथैव दृष्ट्वा कपिलाप्रदाना- न्नस्यन्ति पापानि नरस्य शीघ्रम्॥ 14-105-79 (96170) यथा त्वचं वै भुजगो विहाय पुनर्नवं रूपमुपैति पुण्यम्। तथैव मुक्तः पुरुषः स्वपापै- र्विरज्यते वै कपिलाप्रदानात्॥ 14-105-80 (96171) यथाऽन्धकारं भवने विलग्नं दीप्तो हि निर्यातयति प्रदीपः। तथा नरः पापमपि प्रलीनं निष्क्रामयेद्वै कपिलाप्रदानात्॥ 14-105-81 (96172) यावन्ति रोमाणि भवन्ति तस्या वत्सान्वितायाश्च शरीरजानि। तावत्प्रदाता युगवर्षकोटिं स ब्रह्मलोके रमते मनुष्यः॥ 14-105-82 (96173) यस्याहिताग्नेरतिथिप्रियस्य शूद्रान्नदूरस्य जितेन्द्रियस्य। सत्यव्रतस्याध्ययनान्वितस्य दत्ता हि गौस्तारयते परत्र॥ ॥ 14-105-83 (96174) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः॥ 105 ॥
आश्वमेधिकपर्व - अध्याय 106

॥ श्रीः ॥

14.106. अध्यायः 106

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति कपिलादानप्रशंसनम्॥ 1 ॥ ब्रह्मणाऽग्निकुण्डमध्यात्कपिलासर्जनम्। तधा रुद्रादिदेवैः कपिलायै सर्वपूज्यत्वादिरूपवरदानम्॥ 2 ॥ देवर्ष्यादिभइः स्वनिवासाय कपिलावयवसमाश्रयणम्॥ 3 ॥ कृष्णेन हव्यकव्यदानकालकथनम्। तथा श्राद्धार्हानर्हब्राह्मणविवेचनम्। तथा स्वर्गनरकप्रापकसुकृतदुष्कृतकथनम्॥ 4 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। एवं श्रुत्वा परं पुण्यं कपिलादानमुत्तमम्। धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्॥ 14-106-1 (96175) देवदेवश कपिला यदा विप्राय दीयते। कथं सर्वेषु चाङ्गेषु तस्यास्तिष्ठन्ति देवताः॥ 14-106-2 (96176) याश्चैताः कपिलाः प्रोक्ता दश चैव त्वया मम। तासां कति सुरश्रेष्ठ् कपिलाः पुण्यलक्षणाः॥ 14-106-3 (96177) कथं वाऽनुगृहीतास्ताः सुरैः पितृगणैरपि। केन युक्ताश्च वर्णेन श्रोतुं कौतूहलं मे॥ 14-106-4 (96178) वैशम्पायन उवाच। 14-106-5x (7968) युधिष्ठिरेणैवमुक्तः केशवः सत्यवाक्तदा। गुह्यानां परमं गुह्यं वक्तुमेवोपचक्रमे॥ 14-106-5 (96179) शृणु राजन्पवित्रं वै रहस्यं धर्ममुत्तमम्॥ ग्रहणीयं सत्यमिदं न श्राव्यं हेतुवादिभिः॥ 14-106-6 (96180) यदा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह। दृश्येते दानकालं तत्तमाहुर्मुनिसत्तमाः॥ 14-106-7 (96181) अन्तरिक्षगतो वत्सो यावद्भूमिं न यास्यति। गौस्तावत्पृथिवी ज्ञेया तस्माद्देया तु तादृशी॥ 14-106-8 (96182) यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर। यावत्यः सिकताश्चापि गर्भोदकपरिप्लुताः। तावद्वर्षसहस्राणि दाता स्वर्गे महीयते॥ 14-106-9 (96183) सुवर्णाभरणां कृत्वा सव्तसां कपिलां तिलैः। प्रच्छाद्य तां तु दद्याद्वै सर्वरत्नैरलङ्कृताम्॥ 14-106-10 (96184) ससमुद्रा नदी तेन सशैलवनकानना। चतुरन्ता भवेद्दत्ता नात्र कार्या विचारणा॥ 14-106-11 (96185) पृथिवीदानतुल्येन तेन दानेन मानवः। संसारसागरात्तीर्णो याति लोकं प्रजापतेः॥ 14-106-12 (96186) ब्रह्महा भ्रूणहा गोघ्नो यदि वा गुरुतल्पगः। महापातकयुक्तोपि एतद्दानेन शुद्ध्यति॥ 14-106-13 (96187) इदं पठति यः पुण्यं कपिलादानमुत्तमम्। प्रातरुत्थाय मद्भक्त्या तस्य पुण्यफलं शृणु॥ 14-106-14 (96188) मनसा कर्मणा वाचा मतिपूर्वं युधिष्ठिर। पापं रात्रिकृतं हन्यादस्याध्यायस्य पाठकः॥ 14-106-15 (96189) इदमावर्तमानस्तु श्राद्धे यस्तर्पयेद्द्विजान्। तस्याप्यमृतमश्नन्ति पितरोऽत्यन्तहर्षिताः॥ 14-106-16 (96190) यश्चेदं शृणुयाद्भक्त्या मद्गतेनान्तरात्मना। तस्य रात्रिकृतं सर्वुं पापमाशु प्रणश्यति॥ 14-106-17 (96191) अतः परं विशेषं तु कपिलानां ब्रवीमि ते। याश्चैताः कपिलाः प्रोक्ता दश राजन्मया तव। तासां चतस्रः प्रवराः पुण्याः पापप्रणाशनाः॥ 14-106-18 (96192) सुवर्णकपिला पुण्या तथा रक्ताक्षिपिङ्गला। पिङ्गलाक्षी च या गौश्च या स्यात्पिङ्गलपिङ्गला॥ 14-106-19 (96193) एताश्चतस्रः प्रवराः पवित्राः पापनाशनाः। नमस्कृता वा दृष्टा वा घ्नन्ति पापं नरस्य तु॥ 14-106-20 (96194) यस्यैताः कपिलाः सन्ति गृहे पापप्रणाशनाः। तत्र श्रीर्विजयः कीर्तिः स्फीता नित्यं युधिष्ठिर॥ 14-106-21 (96195) एतासां प्रीतिमायाति क्षीरेण तु वृषध्वजः। दध्ना च त्रिदशाः सर्वे घृतेन तु हुताशनः॥ 14-106-22 (96196) पितरः पितामहाश्चैव तथैव प्रपितामहाः। सकृद्देत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर॥ 14-106-23 (96197) कपिलाया घृतं क्षीरं दधि पायसमेव वा। श्रोत्रियेभ्यः सकृद्दत्वा नरः पापैः प्रमुच्यते॥ 14-106-24 (96198) उपवासं तु यः कृत्वाऽप्यहोरात्रं जितेन्द्रियः। कपिलापञ्चगव्यं तु पीत्वा चान्द्रायणात्परम्॥ 14-106-25 (96199) सौम्ये मुहूर्ते तत्प्रशय शुद्धात्मा शुद्धमानसः। क्रोधानृतविनिर्मुक्तो मद्गतेनान्तरात्मना॥ 14-106-26 (96200) कपिलापञ्चगव्येन सुमन्त्रेण पृथक्पथक्। यो मत्प्रतिकृतिं वाऽपि शङ्कराकृतिमेव वा। स्नापयेद्विषुवे यस्तु सोऽश्वमेधफलं लभेत्॥ 14-106-27 (96201) स मुक्तपापः शुद्धात्मा यानेनांबरशोभिना। मम लोकं व्रजेन्मुक्तो रुद्रलोकमथापि वा॥ 14-106-28 (96202) ब्रह्मणा तु पुरा सृष्टा कपिला काञ्चनप्रभा। अग्निकुण्डात्परैर्मन्त्रैर्होमधेनुर्महाप्रभा॥ 14-106-29 (96203) सृष्टमात्रां तु तां दृष्ट्वा देवा रुद्रादयो दिवि। सिद्धा ब्रह्मर्षयश्चैव वेदाः साङ्गाः सहाध्वरैः॥ 14-106-30 (96204) सागराः सरितश्चैव पर्वताः सबलाहकाः। गन्धर्वाप्सरसो यक्षाः पन्नगाश्चाप्युपस्थिताः॥ 14-106-31 (96205) सर्वे विस्मयमापन्नाः शिखिमध्ये महाप्रभाम्। मन्त्रैशअच विविधैस्तां तु तुष्टुवुस्तामनेकशः॥ 14-106-32 (96206) कृताञ्जलिपुटाः सर्वे नातिशृङ्गीं त्रिलोचनाम्। मूर्ध्ना प्रणम्य तां भूमौ सवत्साममृतारणिम्॥ 14-106-33 (96207) ऊचुः प्राञ्जलयः सर्वे चतुर्वक्त्रं पितामहम्। आज्ञापय महादेव किं ते कुर्मः कथं विभो॥ 14-106-34 (96208) एवमुक्तः सुरैः सर्वैर्ब्रह्मा वचनमब्रवीत्। भवन्तोप्यनुगृह्णन्तु दोग्ध्रीमेनां पयस्विनीम्॥ 14-106-35 (96209) होमधेनुरियं ज्ञेया ह्यग्नीन्संतर्पयिष्यति। अतोऽग्निस्तर्पितः सर्वान्भवतस्तर्पयिष्यति॥ 14-106-36 (96210) प्रीताः क्षीरामृतेनास्या जातवीर्यपराक्रमाः। जयिष्यथ यथाकामं दानवान्सर्व एव तु॥ 14-106-37 (96211) जातवीर्यबलैर्युक्ताः सत्ववन्तो जितेन्द्रियाः। असङ्ख्येयबलाः सर्वे पालयिष्यथ वै प्रजाः॥ 14-106-38 (96212) पालिताश्च प्रजाः सर्वा भवद्भिरिह धर्मतः। पूजयिष्यन्ति वा नित्यं यज्ञैर्विविधदक्षिणैः॥ 14-106-39 (96213) एवमुक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना। ततः संहृष्टवदनाः कपिलायै वरं ददुः॥ 14-106-40 (96214) देवता ऊचुः। 14-106-41x (7969) यस्माल्लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता। तस्मात्पूता पवित्रा च भव पापव्यपोहिनी॥ 14-106-41 (96215) ये त्वां दृष्ट्वा नमस्यन्ति स्पृष्ट्वा चापि करैर्नराः। तेषां वर्षकृतं पापं त्वद्भक्तानां प्रणश्यति॥ 14-106-42 (96216) अकामकृतमज्ञानमदृष्टं यच्च पातकम्। त्वां दृष्ट्वा ये नमस्यन्ति नराः सर्वसहेति च। तेषां तद्विलयं याति तमः सूर्योदये यथा॥ 14-106-43 (96217) भगवानुवाच। 14-106-44x (7970) इत्युक्त्वाऽस्यै वरं दत्त्वा प्रययुस्ते यथागतम्। लोकनिस्तरणार्थाय सा च लोकांश्चचार ह॥ 14-106-44 (96218) तस्यामेव समुद्भूता ह्येताश्च कपिला नव। विचरन्ति महीमेनां लोकानुग्रहकारणात्। तस्मात्तु कपिला देया परत्र हितमिच्छता॥ 14-106-45 (96219) यदा च दीयते राजन्कपिला ह्यग्निहोत्रिणे। तदा च शृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठति॥ 14-106-46 (96220) चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः। शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः॥ 14-106-47 (96221) कर्णयोरश्विनौ देवौ चक्षुषी शशिभास्करौ। दन्तेषु मरुतो देवा जिह्वायां वाक्सरलस्वती॥ 14-106-48 (96222) रोमकूपेषु मुनयश्चर्मण्येव प्रजापतिः। निश्श्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः॥ 14-106-49 (96223) नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च। अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः॥ 14-106-50 (96224) साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता। पृष्ठे च नक्षत्रगणाः ककुद्देशे नभस्स्थलम्॥ 14-106-51 (96225) अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम्। इष्टतुष्टमया लक्ष्मीर्गोमये वसती तदा॥ 14-106-52 (96226) नासिकायां सदा देवी ज्येष्ठा वसति भामिनी। श्रोणीतटस्थाः पितरो रमा लाङ्गूलमाश्रिता॥ 14-106-53 (96227) पार्श्वयोरुभयोः सर्वे विश्वेदेवाः प्रतिष्ठिताः। तिष्ठत्युरसि तासां तु प्रीतः शक्तिधरो गुहः॥ 14-106-54 (96228) जानजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः। खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः॥ 14-106-55 (96229) चत्वारः सागराः पूर्णास्तस्या एव पयोधराः। रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिः स्मृतिः। 14-106-56 (96230) कीर्तिर्दीप्तिः क्रिया कान्तिस्तुष्टिः पुष्टिस्च सन्ततिः। दिशश्च प्रदिशश्चैव सेवन्ते कपिलां सदा॥ 14-106-57 (96231) देवा पितृगणाश्चापि गन्धर्वाप्सरसां गणाः। लोका द्वीपार्णवाश्चैव गङ्गाद्याः सरितस्तथा॥ 14-106-58 (96232) देवाः पितृगणाश्चापि वेदाः साङ्गाः सहाध्वरैः। वेदोक्तैर्विविधैर्मन्त्रैः स्तुवन्ति हृषितास्तथा॥ 14-106-59 (96233) विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा। पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः॥ 14-106-60 (96234) ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा। नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते॥ 14-106-61 (96235) कपिलेऽथ महासत्वे सर्वतीर्थमये शुभे। दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम्॥ 14-106-62 (96236) अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम्। अहो धर्मार्जितं शुद्धमिदमग्र्यं महाधनम्। इत्याकाशस्थितस्ते तु सर्वदेवा जपन्ति च॥ 14-106-63 (96237) तस्याः प्रतिग्रहीता च भुङ्क्ते यावद्द्विजोत्तमः। तावद्देवगणाः सर्वे कपिलामर्चयन्ति च। स्वर्णशृङ्गीं रूप्यखुरां गन्धैः पुष्पैः सुपूजिताम्॥ 14-106-64 (96238) वस्त्राभ्यामहताभ्यां तु यावत्तिष्ठत्यलङ्कृता। तावद्यदिच्छेत्कपिला मन्त्रपूता सुसंस्कृता। भूलोकवासिनः सर्वान्ब्रह्मलोकं नयेत्स्वयम्॥ 14-106-65 (96239) भूरश्वः कनकं गावो रूप्यमश्वं तिला यवाः। दीयमानानि विप्राय प्रहृष्यन्ति दिनेदिने॥ 14-106-66 (96240) अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव। तथा निन्दन्त्यथात्मानमशुभं किंनु नः कृतं॥ 14-106-67 (96241) अहो रक्षःपिशाचैश्च लुप्यमानाः समन्ततः। यास्यामो निरयं शीघ्रमिति शोचन्ति तानि वै॥ 14-106-68 (96242) एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः। दीयमानानि वर्धन्ते दातारं तारयन्ति च॥ 14-106-69 (96243) युधिष्ठिर उवाच। 14-106-70x (7971) देवदेवेश दैत्यघ्न कालः को हव्यकव्ययोः। के तत्रि पूजामर्हन्ति वर्जनीयाश्च के द्विजाः॥ 14-106-70 (96244) भगवानुवाच। 14-106-71x (7972) दैवं पूर्वाह्णिकं ज्ञेयं पैतृकं चापराह्णिकम्। कालहीनं च यद्दानं तद्दानं राजसं विदुः॥ 14-106-71 (96245) अवघुष्टं च यद्भुक्तमनृतेन च भारत। परामृष्टं शुना वाऽपि तद्भागं राक्षसं विदुः॥ 14-106-72 (96246) यावन्तः पतिता विप्रा जडोन्मत्तादयोपि च। दैवे च पित्र्ये ते विप्रा राजन्नार्हन्ति सत्क्रियां॥ 14-106-73 (96247) क्लीबः प्लङ्गी च कृष्ठी च राजयक्ष्मान्वितश्च यः। अपस्मारी च यश्चापि पित्र्ये नार्हति सत्कृतिम्॥ 14-106-74 (96248) चिकित्सका देवलका मिथ्यानियमधारिणः। सोमविक्रयिणश्चापि श्राद्धे नार्हन्ति सत्कृतिम्॥ 14-106-75 (96249) एकोद्दिष्टे च ये चान्नं भुञ्जते विधिवद्द्बिजाः। चान्द्रायणमकृत्वा ते पुनर्नार्हन्ति सत्कृतिम्॥ 14-106-76 (96250) गायका नर्तकाश्चैव प्लवका वादकास्तथा। कथका यौधिकाश्चैव श्राद्धे नार्हन्ति सत्कृतिम्॥ 14-106-77 (96251) अनग्नयश्च ये विप्राः शवनिर्यातकाश्च ये। स्तेनाश्चापि विकर्मस्था राजन्नार्हन्ति सत्कृतिम्॥ 14-106-78 (96252) अपरिज्ञातपूर्वाश्च गणपुत्राश्च ये द्विजाः। पुत्रिकापुत्रकाश्चापि श्राद्धे नार्हन्ति सत्कृतिम्॥ 14-106-79 (96253) रणकर्ता च यो विप्रो यश्च वाणिज्यको द्विजः। प्राणिविक्रयवृत्तिश्च श्राद्धे नार्हन्ति सत्कृतिम्॥ 14-106-80 (96254) चीर्णव्रतगुणैर्युक्ता नित्यं स्वाध्यायतत्पराः। सावित्रीज्ञाः क्रियावन्तस्ते श्राद्धे सत्कृतिक्षमाः॥ 14-106-81 (96255) श्राद्धस्य ब्राह्मणः कालः प्राप्तं दघि घृतं तथा। दर्भाः सुमनसः क्षेत्रं तत्काले श्राद्धदो भवेत्॥ 14-106-82 (96256) चारित्रनिरता राजन्कृशा ये कृशवृत्तयः। अर्थिनश्चोपगच्छन्ति तेभ्यो दत्तं महत्फलम्॥ 14-106-83 (96257) तपस्विनश्च ये विप्रास्तथा भैक्षचराश्च ये। अर्थिनः केचिदिच्छन्ति तेषां दत्तं महत्फलम्॥ 14-106-84 (96258) एवं धर्मभूतां श्रेष्ठ ज्ञात्वा सर्वात्मना तदा। र्श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे॥ 14-106-85 (96259) दानं यत्ते प्रियं किंचिच्छ्रोत्रियाणां च यत्प्रियम्। तत्प्रयच्छस्व धर्मज्ञ यदीच्छसि तदक्षयम्॥ 14-106-86 (96260) निरयं ये च गच्छन्ति तच्छृणुष्व युधिष्ठिर॥ 14-106-87 (96261) गुर्वर्थं वा भयार्थं वा नोचेदन्यत्र पाण्डव। वदन्ति येऽनृतं विप्रास्ते वै निरयगामिनः॥ 14-106-88 (96262) परदारापहर्तारः परदारामिमर्शकाः। परारप्रयोक्तारस्तें वै निरयगामिनः॥ 14-106-89 (96263) सूचकाः संधिभेत्तारः परद्रव्योपजीविनः। अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः॥ 14-106-90 (96264) वर्णाश्रमाणां ये बाह्याः पाषण्डाश्चैव पापिनः। उपासते च तानेव ते सर्वे नरकालयाः॥ 14-106-91 (96265) वेदविक्रयिणश्चैव वेदानां चैव दूषकाः। वेदानां लेखकाश्चैव ते वै निरयगामिनः॥ 14-106-92 (96266) रसविक्रयिणो राजन्विषविक्रयिणश्च ये। क्षीरविक्रयिणश्चापि ते वै निरयगामिनः॥ 14-106-93 (96267) चण्डालेभ्यश्च ये क्षीरं प्रयच्छन्ति नराधमाः। अर्थार्थमथवा स्नेहात्ते वै निरयगामिनः॥ 14-106-94 (96268) पशूनां दमक**यैव तथा नासानुवेधकाः पुंस्त्वहिंसाकरस्चैव ते वै निरयगामिनः॥ 14-106-95 (96269) अदातारः समर्था ये द्रव्याणां लोभकारणात्। दीनानन्धान्न पश्यन्ति ते वै निरयगामिनः॥ 14-106-96 (96270) क्षान्तान्दान्तान्कृशान्प्राज्ञान्दीर्घकालं सहोषितान्। त्यजन्ति कृतकृत्या ये ते वा निरयगामिनः॥ 14-106-97 (96271) बालानामपि वृद्धानां श्रान्तानां चापि ये नराः। अदत्त्वाऽश्नान्ति मृष्टान्नं ते वै निरयगामिनः॥ 14-106-98 (96272) एते पूर्वर्षिभिः प्रोक्ता नरा निरयगामिनः। ये स्वर्गं समनुप्राप्तास्ताञ्शृणुष्व युधिष्ठिर॥ 14-106-99 (96273) दानेन तपसा चैव सत्येन च दमेन च। ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः॥ 14-106-100 (96274) शुश्रूषयाऽप्युपाध्यायाच्छ्रुतमादाय पाण्डव। ये प्रतिग्रहनिस्स्नेहास्ते नराः स्वर्गगामिनः॥ 14-106-101 (96275) मधुमांसासवेभ्यस्तु निवृत्ता व्रतवत्तु ये। परदारनिवृत्ता ये ते नराः स्वर्गगामिनः॥ 14-106-102 (96276) मातरं पितरं चैव शुश्रूषन्ति च ये नराः। भ्रहातॄणामपि सस्नेहास्ते नराः स्वर्गगामिनः॥ 14-106-103 (96277) ये तु भोजनकाले तु निर्याताश्चातिथिप्रियाः। द्वाररोधं न कुर्वन्ति ते नराः स्वर्गगामिनः॥ 14-106-104 (96278) वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः। कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः॥ 14-106-105 (96279) रसानामथ बीजानामोषधीनां तथैव च। दातारः श्रद्धयोपेतास्ते नराः स्वर्गगामिनः॥ 14-106-106 (96280) क्षेमाक्षेमं च मार्गेषु समानि विषमाणि च। अर्थिनां ये च वक्ष्यन्ति ते नराः स्वर्गगामिनः॥ 14-106-107 (96281) पर्वद्वये चतुर्दश्यामष्टम्यां संध्ययोर्द्वयोः। आर्द्रायां जन्मनक्षत्रे विषुवे श्रवणेऽथवा। ये ग्राम्यधर्मविरतास्ते नराः स्वर्गगाप्तिनः॥ 14-106-108 (96282) हव्यकव्यविधानं च नरकस्वर्गगामिनौ। धर्माधर्मौ च कथितौ किं भूयः श्रोतुमिच्छसि॥ ॥ 14-106-109 (96283) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षडधिकशततमोऽध्यायः॥ 106 ॥
आश्वमेधिकपर्व - अध्याय 107

॥ श्रीः ॥

14.107. अध्यायः 107

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति साक्षाद्ब्रह्महत्याया अकरणेपि तत्तुल्यफलकदुष्कृतकथनम्। 1 ॥ तथा अभोज्यान्नानां पापिनां लक्षणकथनम्॥ 2 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। इदं मे तत्वतो देव वक्तुमर्हस्यशेषतः। हिंसामकृत्वा यो मर्त्यो ब्रह्महत्यामवाप्नुयात्॥ 14-107-1 (96284) भगवानुवाच। 14-107-2x (7973) ब्राह्मणं स्वयमाहूय भिक्षार्थं वृत्तिकर्शितम्। ब्रूयान्नास्तीति यः पश्चात्तमाहुर्ब्रह्मघातकम्॥ 14-107-2 (96285) मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत। वृत्तिं हरति दुर्बुद्धइस्तमाहुर्ब्रह्मघातकम्॥ 14-107-3 (96286) आश्रमे वाऽऽलये वाऽपि ग्रामे वा नगरेऽपि वा। अग्निं यः प्रक्षिपेत्क्रुद्धस्तमाहुर्ब्रह्मघातकम्॥ 14-107-4 (96287) गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप। उत्पादयति यो विघ्नं तमाहुर्ब्रह्मघातकम्॥ 14-107-5 (96288) यः प्रवृत्तां श्रुतिं सम्यक्छास्त्रं वा मुनिभिः कृतम्। दूषयत्यनभिज्ञाय तमाहुर्ब्रह्मघातकम्॥ 14-107-6 (96289) चक्षुषा वाऽपि हीनस्य पङ्गोर्वाऽपि जडस्य वा। हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम्॥ 14-107-7 (96290) गुरुं त्वंकृत्यं हुंकृत्य अतिक्रम्य च शासनम्। वर्तते यस्तु मूढात्मा तमाहुर्ब्रह्मघातकम्॥ 14-107-8 (96291) क्रोधाद्वा यदि वा द्वेषादाक्रुष्टस्तर्जितोपि वा। ऋतौ स्त्रियं वा नोपेयात्तमाहुर्ब्रह्मघातकम्॥ 14-107-9 (96292) यावत्सारो भवेद्दीनस्तन्नाशे यस्य दुःस्थितिः। तत्सर्वस्वं हरेद्यो वै तमाहुर्ब्रह्मघातकम्॥ 14-107-10 (96293) युधिष्ठिर उवाच। 14-107-11x (7974) सप्वेषामपि दानानां यत्तु दानं विशिष्यते। अभोज्यान्नाश्च ये विप्रास्तान्ब्रवीहि सुरोत्तम॥ 14-107-11 (96294) भगवानुवाच। 14-107-12x (7975) अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरस्सराः। अन्नेन सदृशं दानं न भूतं न भविष्यति॥ 14-107-12 (96295) अन्नमूर्जस्करं लोके ह्यन्नात्प्राणाः प्रतिष्ठिताः। अबोज्यान्नान्मया राजन्वक्ष्यमाणान्निबोध मे॥ 14-107-13 (96296) दीक्षितस्य कदर्यस्य क्रुद्धस्य निकृतस्य च। अभिशप्तस्य षण्डस्य पाकभेदकरस्य च॥ 14-107-14 (96297) चिकित्सकस्य दूतस्य तथा चोच्छिष्टभोजिनः। उग्रान्नं सूतकान्नं च शूद्रोच्छेषणमेव च॥ 14-107-15 (96298) द्विषदन्नं न भोक्तव्यं पतितान्नं च यच्छ्रुतम्। तथा च पिशुनस्यान्नं यज्ञविक्रयिणस्तथा॥ 14-107-16 (96299) शैलूषं तन्तुवायान्नं कृतघ्नस्यान्नमेव च। अंबष्ठकनिषादानां रङ्गावतरकस्य च॥ 14-107-17 (96300) सुवर्णकर्तुर्वैणस्यि शस्त्रविक्रयिणस्तथा। सूताना शौण्डिकानां च वैद्यस्य रजकस्य च॥ 14-107-18 (96301) स्त्रीजितस्य नृशंसस्य तथा माहिषिकस्य च। अनिर्दशानां प्रेतानां गणिकानां तथैव च॥ 14-107-19 (96302) बन्दिनो द्यूतकर्तुश्च तथा द्यूतविदामपि। परिवित्तस्य यच्चान्नं परिवेत्तुस्तथैव च॥ 14-107-20 (96303) यश्चाग्रदिधिषुर्विप्रो दिधिषूपपिस्तथा। तयोरप्युभयोरन्नं राज्ञां चापि विवर्जयेत्॥ 14-107-21 (96304) राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्। आयुः सुवर्णकारान्नं यशश्चार्मावकृन्तिनः॥ 14-107-22 (96305) गणान्नं गणिकान्नं च लोकेभ्यः परिकीर्तितम्। पूयं चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः॥ 14-107-23 (96306) विष्ठा वार्धुषिकस्यान्नं तस्मात्तत्परिवर्जयेत्। तेषां त्वगस्थिरोमाणि भुङ्क्ते योऽन्नं तु भक्षयेत्॥ 14-107-24 (96307) अमात्यान्नमथैतेषां भुक्त्वा तु त्रियहं क्षिपेत्। मत्या भुक्त्वा सकृद्वाऽपि प्राजापत्यं चरेद्द्विजः॥ 14-107-25 (96308) दानानां च फलं यद्वै शृणु पाण्डव तत्वतः। जलदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः॥ 14-107-26 (96309) तिलदश्च प्रजामिष्टां दीपदश्चक्षुरुत्तमम्। भूमदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः॥ 14-107-27 (96310) गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम्। वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः॥ 14-107-28 (96311) अनडुद्दः श्रियं जुष्टां गोदो गोलोकमश्नुते। यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः॥ 14-107-29 (96312) धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम्। सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते॥ 14-107-30 (96313) हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु। योर्चितः प्रतिगृह्णाति दद्यादुचितमेव च। तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये॥ 14-107-31 (96314) अनृतं न वदेद्विद्वांस्तपस्तप्त्वा न विस्मयेत्। नार्तोप्यभिभवेद्विप्रान्न दत्त्वा परिकीर्तयेत्॥ 14-107-32 (96315) यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात्। आयुर्विप्रावमानेन दानं तु परिकीर्तनात्॥ 14-107-33 (96316) एकः प्रजायते जन्तुरेक एव प्रमीयते। अकोऽनुभुङ्क्ते सुकृतमेकश्चाप्नोति दुष्कृतम्॥ 14-107-34 (96317) मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ। विमुखा बान्धवा यान्ति धर्मस्तमनुवर्तते॥ 14-107-35 (96318) अनागतानि कार्याणि कर्तुं गणयते मनः। शरीरकं समुद्दिश्य स्मयते नूनमन्तकः॥ 14-107-36 (96319) तस्माद्धर्मसहासस्तु धर्मं संचिनुयात्सदा। धर्मेण हि सहायेन तमस्तरति दुस्तरम्॥ 14-107-37 (96320) येषां तटाकानि बहूदकानि सभाश्च कूपाश्च शुभाः प्रपाश्च। अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्विषया भवन्ति॥ ॥ 14-107-38 (96321) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि सप्ताधिकशततमोऽध्यायः॥ 107 ॥
आश्वमेधिकपर्व - अध्याय 108

॥ श्रीः ॥

14.108. अध्यायः 108

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति यत्यग्निमहिमानुवर्णनम्॥ 1 ॥ दानपात्रब्राह्मणलक्षणकथनम्॥ 2 ॥ तथाऽन्नदानप्रशंसनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। अनेकान्तं बहुद्वारं धर्ममाहुर्मनीपिणः। किंलक्षणोसौ भति तन्मे ब्रूहि जनार्दन॥ 14-108-1 (96322) भगवानुवाच। 14-108-2x (7976) शृणु राजन्समासेन धर्मशौचविधिक्रमम्। अहिंसा शौचमक्रोधमानृशंस्यं दमः शमः। आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्॥ 14-108-2 (96323) ब्रह्मचर्यं तपः क्षान्तिर्मधुमांसस्य वर्जनम्। मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम्॥ 14-108-3 (96324) बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम्। वार्धके मौनमातिष्ठेत्सर्वदा धर्ममाचरेत्॥ 14-108-4 (96325) ब्राह्मणान्नावमन्येत गुरुन्परिवदेन्न च। यतीनामनुकूलः स्यादेष धर्मः सनातनः॥ 14-108-5 (96326) यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः। पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः॥ 14-108-6 (96327) यद्गृहस्तार्जितं पापं ज्ञानतोऽज्ञानतोपि वा। निर्दहिष्यति तत्सर्वमेकरात्रोषितो यतिः॥ 14-108-7 (96328) दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोपि वा। गृहस्थैर्यतयः पूज्याः परत्र हितकाङ्क्षिभिः॥ 14-108-8 (96329) एकदण्डी त्रिदण्डी वा शिखी वा मुण्डितोपि वा। काषायदण्डधारोपि यतिः पूज्यो न संशयः॥ 14-108-9 (96330) अपूजितो गृहस्थैर्वा तथा चाप्यवमानितः। यतिर्वाऽप्यतिथिर्वाऽपि नरके पातयिष्यतः॥ 14-108-10 (96331) तस्मात्तु यत्नतः पूज्या मद्भक्ता मत्परायणाः। मयि संन्यस्तकर्माणः परत्र हितकाङ्क्षिभिः॥ 14-108-11 (96332) प्रहरेन्न द्विजान्विप्रो गां न हन्यात्कदाचन। भ्रूणहत्यासमं चैव उभयं यो निषेवते॥ 14-108-12 (96333) नाग्निं मुखेनोपधमेन्न च पादौ प्रतापयेत्। नाधः कुर्यात्कदाचित्तु न पृष्ठं परितापयेत्॥ 14-108-13 (96334) नान्तरा गमनं कुर्यान्न चामेध्यं विनिक्षिपेत्। उच्छिष्टो न स्पृशेदग्निमाशौचस्थो न जातुचित्॥ 14-108-14 (96335) श्वचण्डालादिभिः स्पृष्टो नाङ्गमग्नौ प्रतापयेत्। सर्वदेवमयो वह्निस्तस्माच्छुद्धः सदा स्पृशेत्॥ 14-108-15 (96336) प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान्। यावत्तु धारयेद्वेगं तावदप्रयतो भवेत्॥ 14-108-16 (96337) पचनाग्निं न गृह्णीयात्परवेश्मनि जातुचित्। तस्मिन्पक्वेन चान्नेन यत्कर्म कुरुते शुभम्॥ 14-108-17 (96338) तस्यैव तच्छुभस्यार्धमग्निदस्य भवेन्नृप। तस्माद्गृहगतं वह्निं प्रकुर्यादविनाशितम्॥ 14-108-18 (96339) प्रमादाद्यदि वाऽज्ञानात्तस्य नाशो भविष्यति। गृह्णीयात्तु मथित्वा वा श्रोत्रियागारतोपि वा॥ 14-108-19 (96340) युधिष्ठिर उवाच। 14-108-20x (7977) कीदृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्। कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन॥ 14-108-20 (96341) भगवानुवाच। 14-108-21x (7978) अक्रोधनाः सत्यपरा धर्मनित्या जितेन्द्रियाः। तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्॥ 14-108-21 (96342) अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः। सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम्॥ 14-108-22 (96343) अलुब्धाः शुचयो वैद्या हीमन्तः सत्यवादिनः। स्वधर्मनिरता ये तु तेभ्यो दत्तं महाफलम्॥ 14-108-23 (96344) साङ्गंश्च चतुरो वेदान्योऽधीयेत दिनेदिने। शूद्रान्नं यस्य नो देहे तत्पात्रमृषयो विदुः॥ 14-108-24 (96345) प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः। तारयेत्तत्कुलं सर्वमेकोपीह युधिष्ठिर॥ 14-108-25 (96346) गामश्वमन्नं वित्तं वा तद्विधे प्रतिपादयेत्। निशम्य तु गुणोपेतं ब्राह्मअणं साधुसंमतम्। दूरादाहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत्॥ 14-108-26 (96347) युधिष्ठिर उवाच। 14-108-27x (7979) धर्माधर्मविधिस्त्वेवं भीमं भीष्मेण भाषितम्। भीष्मवाक्यात्सारभूतं वद धर्मं सुरेश्वर॥ 14-108-27 (96348) भगवानुवाच। 14-108-28x (7980) अन्नेन धार्यते सर्वं जगदेतच्चराचरम्। अन्नात्प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः॥ 14-108-28 (96349) कलत्रं पीडयित्वा तु देशे काले च शक्तितः। दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता॥ 14-108-29 (96350) विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा। अर्चयेद्गुरुवत्प्रीतो गृहस्थो गृहमागतम्॥ 14-108-30 (96351) क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः। अर्चयेदतिथिं प्रीतः परत्र हितभूतये॥ 14-108-31 (96352) अतिथिं नावमन्येत नानृतां गिरमीरयेत्। न पृच्छेद्गोत्रचरणं नाधीतं वा कदाचन॥ 14-108-32 (96353) चण्डालो वा श्वपाको वा काले यः कश्चिदागतः। अन्नेन पूजनीयः स्यात्परत्र हितमिच्छता॥ 14-108-33 (96354) पिधाय तु गृहद्वारं भुक्ते योऽन्नं प्रहृष्टवान्। स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर॥ 14-108-34 (96355) पितॄन्देवानृषीन्विप्रानतिथींश्च निराश्रयान्। यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्॥ 14-108-35 (96356) कृत्वा तु पापं बहुशो यो दद्यादन्नमर्थिने। ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते॥ 14-108-36 (96357) अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत्। तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता॥ 14-108-37 (96358) अन्नं ह्यमृतमित्याहुरन्नं प्रजननं स्मृतम्। अन्नप्रणाशो सीदन्ति शरीरे पञ्च धातवः॥ 14-108-38 (96359) बलं बलवतो नश्येदन्नहीनस्य देहिनः। तस्मादन्नं विशेषेण श्रद्धयाऽश्रद्धयापि वा॥ 14-108-39 (96360) आदत्ते हि रसं सर्वमादित्यः स्वगभस्तिभिः। वायुस्तस्मात्समादाय रसं मेधेषु धारयेत्॥ 14-108-40 (96361) तत्तु मेघगतं भूमौ शक्रो वर्षति तादृशम्। तेन दिग्धा भवेद्देवी मही प्रीता च **** 14-108-41 (96362) तस्यां सस्यानि रोहन्ति यैर्जीवन्त्यखिलाः प्रजाः। मांसमेदोस्थिमज्जानां सम्भवस्तेभ्य एव हि॥ 14-108-42 (96363) एवं सूर्यश्च पवनो मेघः शक्रस्तथैव च। एक एव स्थितो राशिर्यतो भूतानि जज्ञिरे॥ 14-108-43 (96364) भवनानि च दिव्यानि दिवि तेषां महात्मनाम्। नानासंस्थानि भूतानि नानाभूमिगतानि च॥ 14-108-44 (96365) चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च। तरुणादित्यवर्णानि स्थावराणि चराणि च॥ 14-108-45 (96366) अनेकशतसङ्ख्यानि सान्तर्जलवनानि च। तत्र पुष्पफलोपेताः कामदाः सुरपादपाः॥ 14-108-46 (96367) वाप्यो बद्धसभाः कूपा दीर्घिकाश्च सहस्रशः। भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च॥ 14-108-47 (96368) क्षीरस्रवन्त्यः सरितस्तथा चैवान्नपर्वताः। घोषवन्ति च यानानि युक्तान्यथ सहस्रशः॥ 14-108-48 (96369) प्रासादप्रवराः शुभ्राः शय्याश्च कनकोज्ज्वलाः। अन्नदास्तत्र तिष्ठन्ति तस्मादन्नप्रदो भवेत्॥ ॥ 14-108-49 (96370) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि अष्टोत्तरशततमोऽध्यायः॥ 108 ॥
आश्वमेधिकपर्व - अध्याय 109

॥ श्रीः ॥

14.109. अध्यायः 109

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति भोजनविधिकथनम्॥ 1 ॥ तथा गोग्रासदानप्रकारकथनम्॥ 2 ॥ तथा तिलप्रशंसनपूर्वकं तेषां मिक्षूणां च ब्राह्मणेन स्वयं यन्त्रे निपीडनप्रतिषेधनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। अन्नदानफलं श्रुत्वा प्रीतोस्मि मधुसूदन। भोजनस्य विधिं वक्तुं देवदेव त्वमर्हसि॥ 14-109-1 (96371) भगवानुवाच। 14-109-2x (7981) बोजनस्य द्विजातीनां विधानं शृणु पाण्डव। स्नातः शुचिः शुचौ देशे निर्जने हुतपावकः॥ 14-109-2 (96372) मण्डलं कारयित्वा च चतुरश्रं द्विजोत्तमः। क्षत्रियश्चेत्ततो वृत्तं वैश्योऽर्धेन्दुसमाकृतिम्॥ 14-109-3 (96373) आर्द्रपादस्तु भुञ्जीयात्प्राङ्मुखश्चासने शुचौ। पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः॥ 14-109-4 (96374) नैकवासास्तु भुञ्जीयान्न चान्तर्धाय वा द्विजः। न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च॥ 14-109-5 (96375) अन्नं पूर्वं नमस्कुर्यात्प्रहृष्टेनान्तरात्मना। नान्यदालोकयेदन्नान्न जुगुप्सेन तत्परः॥ 14-109-6 (96376) जुगुप्सितं च यच्चान्नं राक्षसा एव भुञ्जते। पाणिना जलमुद्धृत्य कुर्यादन्नं प्रदक्षिणम्॥ 14-109-7 (96377) अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत्। परिवेषजलादन्यत्पेयमेव तु मन्त्रवत्॥ 14-109-8 (96378) पञ्च प्राणाहुतीः कुर्यात्समन्त्रं तु पृथक्पृथक्॥ 14-109-9 (96379) यथा रसं न जानाति जिह्वा प्रामाहुतौ नृप। तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रिकतः॥ 14-109-10 (96380) विदित्वाऽन्नमथान्नादं पञ्च प्राणांश्च पाण्डव। यः कुर्यादाहुतीः पञ्च तेनेष्टाः पञ्चवायवः॥ 14-109-11 (96381) अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः। तेनान्नेनासुरान्प्रेतान्राक्षसांस्तर्पयिष्यति॥ 14-109-12 (96382) वक्त्रप्रमाणान्पिण्डांश्च ग्रसेदेकैकशः पुनः। वक्त्राधिकं तु यत्पिण्डमात्मोच्छिष्टं तदुच्यते॥ 14-109-13 (96383) पिण्डावशिष्टमन्यच्च वक्त्रान्निस्सृतमेव च। अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत्॥ 14-109-14 (96384) स्वमुच्छिष्टं तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभोजनम्। चान्द्रायणं चरेन्कृच्छ्रं प्राजापत्यमथापि वा॥ 14-109-15 (96385) स्त्रीपात्रभुङ्नरः पापः स्त्रीणामुच्छिष्टभुक्तथा। तया सह च यो भुङ्क्ते स भुङ्क्ते मद्यमेव हि। न तस्य निष्कृतिर्दृष्टा मुनिभिस्तत्वदर्शिभिः॥ 14-109-16 (96386) पिबतः पतिते तोये भोजने मुखनिस्सृते। अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत्॥ 14-109-17 (96387) पीतशेषं तु तन्नाम न पेयं पाण्डुनन्दन। पिबेद्यदि हि तन्मोहाद्द्विजश्चान्द्रायणं चरेत्॥ 14-109-18 (96388) पानीयानि पिबेद्यते तत्पात्रं द्विजसत्तमः। अनुच्छिष्टं भवेत्तावद्यावद्भूमौ न निक्षिपेत्॥ 14-109-19 (96389) मौनी वाऽप्यथवा भूमौ नावलोक्य दिशस्तथा। भुञ्जीत विधिवद्विप्रो न चोच्छिष्टं प्रदापयेत्॥ 14-109-20 (96390) सदा चात्यशनं नाद्यान्नातिहीनं च कर्हिचित्। यथाऽन्नेन व्यथा न स्यात्तथा भुञ्जीत नित्यशः॥ 14-109-21 (96391) उदक्यामपि चण्डालं श्वानं सूकरमेव वा। भुञ्जानो यदि वा पश्येत्तदन्नं च परित्यजेत्। भुञ्जानो ह्यत्यजन्मोहाद्द्विजश्चान्द्रायणं चरेत्॥ 14-109-22 (96392) केशकीटोपपन्नं च मुखमारुतवीजितम्। अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत्॥ 14-109-23 (96393) उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम्। अन्नं तद्राक्षसं विद्यात्तस्मात्तत्परिवर्जयेत्॥ 14-109-24 (96394) राक्षसोच्छिष्टभुग्विप्रः सप्त पूर्वान्परानपि। नरके रौरवे घोर स पितॄन्पातयिष्यति॥ 14-109-25 (96395) तस्मिन्नाचमनं कुर्याद्यस्मिन्पात्रे स भुक्तवान्। यद्युत्तिष्ठत्यनाचान्तो भुक्तवानासनात्ततः। स्नानं सद्यः प्रकुर्वीत सोन्यथाऽप्रयतो भवेत्॥ 14-109-26 (96396) युधिष्ठिर उवाच। 14-109-27x (7982) तृणमुष्टिविधानं च तृणमाहात्म्यमेव च। इक्षोः सोमसमुद्भूतिं वक्तुमर्हसि मानदः॥ 14-109-27 (96397) भगवानुवाच। 14-109-28x (7983) पितरो वृषभा ज्ञेयो गावो लोकस्य मातरः। तासां तु पूजया राजन्पूजिताः पितृदेवताः॥ 14-109-28 (96398) सभा प्रपा गृहाश्चापि देवतायतनानि च। शुद्ध्यन्ति शकृता यासांकिं भूतमधिकं ततः॥ 14-109-29 (96399) ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः। अकृत्वा स्वयमाहारं प्राप्तस्तत्सार्वकालिकम्॥ 14-109-30 (96400) गावो मे मातरः सर्वाः पितरश्चैव गोवृषाः। ग्रासमुष्टिं मया दत्तं प्रतिगृह्णीत मातरः॥ 14-109-31 (96401) इत्युक्त्वाऽनेन मन्त्रेण गायत्र्या वा समाहितः। अभिमन्त्र्य ग्रासमुष्टिं तस्य पुण्यफलं शृणु॥ 14-109-32 (96402) यत्कृतं दुष्कृतं तेन ज्ञानतोऽज्ञानतोपि वा। तस्य नश्यति तत्सर्वं दुःखप्नं च विनश्यति॥ 14-109-33 (96403) तिलाः पिवित्राः पापघ्ना नारायणसमुद्भवाः। तिलाञ्श्राद्धे प्रशंसनति दानमेतदनुत्तमम्॥ 14-109-34 (96404) तिलान्दद्यात्तिलान्भक्ष्यात्तिलानप्रातरुपस्पृशेत्। तिलंतिलमिति ब्रूयात्तिलाः पापहरा हि ते॥ 14-109-35 (96405) क्रीत्वा प्रतिगृहीत्वा वा न विक्रेया द्विजातिभिः। भोजनाभ्यञ्जनाद्दानाद्योन्यत्तु कुरुते तिलैः। कृमिर्भूत्वा श्वविष्ठायां पितृभिः सह मज्जति॥ 14-109-36 (96406) तिलान्नपीडयेद्विप्रो यन्त्रचक्रे स्वयं नृप। पीडयन्हि द्विजो मोहान्नरकं याति रौरवम्॥ 14-109-37 (96407) इक्षुवंशोद्भवः सोमः सोमवंशोद्भवा द्विजाः। इक्षुं न पीडयेत्तस्मादिक्षुघात्यात्मघातकः॥ 14-109-38 (96408) इक्षुदण्डसहस्राणामेकैकेन युधिष्ठिर। ब्रह्महत्यामवाप्नोति द्विजश्चेद्यन्त्रपीडकः। तस्मान्न पीडयेदिक्षुं यन्त्रचक्रे द्विजोत्तमः॥ ॥ 14-109-39 (96409) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि नवाधिकशततमोऽध्यायः॥ 109 ॥
आश्वमेधिकपर्व - अध्याय 110

॥ श्रीः ॥

14.110. अध्यायः 110

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रत्यापद्धर्मकथनम्॥ 1 ॥ तथा प्रशस्ताप्रशस्तब्राह्मणलक्षणकथनम्॥ 2 ॥ तथा सामान्यतो नानाधर्मकथनपूर्वकं ब्राह्मण्यसिद्धिपर्रकारकथनम्॥ 3 ॥ तथा गुर्वाचार्योपाध्यायलक्षणकथनम्॥ 4 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। समुच्चयं च धर्माणां भोज्याभोज्यं तथैव च। श्रुतं मया त्वत्प्रसादादापद्धर्मं ब्रवीहि मे॥ 14-110-1 (96410) भगवानुवाच। 14-110-2x (7984) दुर्भिक्षे राष्ट्रसंबाधेऽप्याशौचे मृतसूतके। धर्मकालेऽध्वनि तथा नियमो येन लुप्यते॥ 14-110-2 (96411) दूराध्वगमनात्खिन्नो द्विजालाभेऽथ शूद्रतः। अकृतन्नं तु यत्किंचिद्गृह्णीयादात्मवृत्तये॥ 14-110-3 (96412) आतुरो दुःखितो वाऽपि तथाऽऽर्तो वा बुभुक्षितः। भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च॥ 14-110-4 (96413) निमन्त्रितस्तु यो विप्रो विदिवद्धव्यकव्ययोः। मांसादीन्यपि भुञ्जानः प्रायश्चित्तीयते न च॥ 14-110-5 (96414) अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्॥ 14-110-6 (96415) अशक्तो विधिवत्कर्तुं प्रायश्चित्तानि यो नरः। विदुषां वचनेनापि दानेनापि विशुद्ध्यति॥ 14-110-7 (96416) अनृतावृतुकाले वा दिवा रात्रौ तथाऽपि वा। प्रोषितस्तु स्त्रियं गच्छेत्प्रायश्चित्तीयते न च॥ 14-110-8 (96417) युधिष्ठिर उवाच। 14-110-9x (7985) प्रशस्याः कीदृशा विप्रा निन्द्याश्चापि सुरेश्वर। अष्टकायाश्च कः कालस्तन्मे कथय सुव्रत॥ 14-110-9 (96418) भगवानुवाच। 14-110-10x (7986) सत्यसन्धं द्विजं दृष्ट्वा स्थानाद्वेपति भास्करः। एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम्॥ 14-110-10 (96419) कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान्। श्रीमानृजउः सत्यवादी पात्रं सर्व इमे द्विजाः॥ 14-110-11 (96420) एते चाग्रासनस्थास्ते भुञ्जानाः प्रथमं द्विजाः। तस्यां पङ्क्त्यां तु ये वान्ये तान्पुनत्येव दर्शनात्॥ 14-110-12 (96421) मद्भक्ता ये द्विजश्रेष्ठा मद्भक्ता मत्परायणाः। तान्पङ्क्तिपावनान्विद्धि पूज्यांश्चैव विशेषतः॥ 14-110-13 (96422) निन्द्याञ्शृणु द्विजान्राजन्नपि वा वेदपारगान्। ब्राह्मणच्छद्मना लोके चरतः पापकारिणः॥ 14-110-14 (96423) अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः। यतस्ततस्तु भुञ्जानस्तं विद्याद्ब्रह्मदूषकम्॥ 14-110-15 (96424) मृतसूतकपुष्टाङ्गो यश्च शूद्रान्नभुग्द्विजः। अहं चापि न जानामि गतिं तस्य नराधिप॥ 14-110-16 (96425) शूद्रान्नरसपुष्टाङ्गोऽप्यधीयानो हि नित्यशः। जपतो जुह्वतो वाऽपि गतिरूर्ध्वं न विद्यते॥ 14-110-17 (96426) आहिताग्निश्च यो विप्रः शूद्रान्नान्न निवर्तते। पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः॥ 14-110-18 (96427) शूद्रप्रेषणकर्तुश्च ब्राह्मणस्य विशेषतः। भूमावन्नं प्रदातव्यं श्वसृगालसमो हि सः॥ 14-110-19 (96428) प्रेतभूतं तु यः शूद्रं ब्राह्ममो ज्ञानदुर्बलः॥ अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत्॥ 14-110-20 (96429) त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम्। प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति॥ 14-110-21 (96430) अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः। पदेपदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि॥ 14-110-22 (96431) न तेषामशुभं किंचित्पापं वा शुभकर्मणाम्। जलावगाहनादेव सद्यः शौचं विधीयते॥ 14-110-23 (96432) शूद्रवेश्मनि विप्रेणि क्षीरं वा यदि वा दधि। निवृत्तेन न भोक्तव्यं विद्धि शूद्रान्नमेव तत॥ 14-110-24 (96433) विप्राणां भोक्तुकामानामत्यन्तं चान्नकाङ्क्षिणाम्। यो विघ्नं कुरुते मर्त्यस्ततो नान्योस्ति पापकृत्॥ 14-110-25 (96434) सर्वे च वेदाः सहषङ्भिरङ्गैः साङ्ख्यं पुराणं च कुले च जन्म। नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नृप द्विजस्य॥ 14-110-26 (96435) ग्रहोपरागे विषुवेऽयनान्ते पित्र्ये मघासु स्वसुते च जाते। गयेषु पिण्डेषु च पाण्डुपुत्र दत्तं भवेन्निष्कसहस्रतुल्यम्॥ 14-110-27 (96436) वैशाखमासस्य तु या तृतीयाऽ- नवद्याऽसौ कार्तिकशुक्लपक्षे। नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी न माघे॥ 14-110-28 (96437) उपप्लवे चन्द्रमसो रवेश्च श्राद्धस्य कालो ह्ययनद्वये च। पानीयमप्यत्रि तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः। श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति॥ 14-110-29 (96438) यस्त्वेकपङ्क्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि वाऽर्थहेतोः। क्रूरं दुराचारमनात्मवन्तं ब्रह्मघ्नमेनं कवयो वदन्ति॥ 14-110-30 (96439) धनानि येषां विपुलानि सन्ति नित्यं रमन्ते परलोकमूढाः। तेषामयं शत्रुवरघ्नलोको नान्यत्सुखं देहसुखे रतानाम्॥ 14-110-31 (96440) ये चैव मुक्तास्तपसि प्रयुक्ताः स्वाध्यायशीला जरयन्ति देहम्। जितेन्द्रिया भूतहिते निविष्ट- स्तेषामसौ चापि परश्च लोकः॥ 14-110-32 (96441) ये चैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते। न चापि गच्छन्ति सुखानि भोगां- स्तेषामयंक चापि परश्च नास्ति॥ 14-110-33 (96442) युधिष्ठिर उवाच। 14-110-34x (7987) नारायण पुराणेश लोकावास नमोस्तु ते। श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम्॥ 14-110-34 (96443) भगवानुवाच। 14-110-35x (7988) धर्मसारं महाप्राज्ञि मनुना प्रोक्तमादितः। प्रवक्ष्यामि मनुप्रोक्तं पौराणां श्रुतिसंहितम्॥ 14-110-35 (96444) अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः। दृष्टमात्रात्पुनत्येते तस्मात्पश्येत तान्सदा॥ 14-110-36 (96445) गौरकस्यैव दातव्या न बहूनां युधिष्ठिर। सा गौर्विक्रयमापन्ना दहत्यासप्तमं कुलम्॥ 14-110-37 (96446) बहूनां न प्रदातव्या गौर्वस्त्रं शयनं स्त्रियः। तादृग्भूतं तु तद्दानं दातारं नोपतिष्ठति॥ 14-110-38 (96447) आक्रम्य ब्राह्मणैर्भुक्तमनार्याणां च वेश्मनि। गोभिश्च पुण्यं तत्तेषां राजसूयाद्विशिष्यते॥ 14-110-39 (96448) मा ददात्विति यो ब्रूयाद्ब्राह्मणेषु च गोषु च। तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते॥ 14-110-40 (96449) ब्राह्मणस्वं च यद्दैवं दरिद्रस्यैव यद्धनम्। गुरोश्चापि हृतं राजन्स्वर्गस्थानपि पातयेत्॥ 14-110-41 (96450) धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः। द्वितायं धर्मशास्त्राणि तृतीयं लोकसंग्रहः॥ 14-110-42 (96451) आसमुद्राच्च यत्पूर्वादासमुद्राच्च पश्चिमात्। हिमाद्रिविन्ध्ययोर्मध्यमार्यावर्तं प्रचक्षते॥ 14-110-43 (96452) सरावतीदृषद्वत्योर्देवनद्योर्यदन्तरम्। तद्देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते॥ 14-110-44 (96453) यस्मिन्देशे य आचारः पारंपर्यक्रमागतः। वर्णानां सान्तरालानां स सदाचार उच्यते॥ 14-110-45 (96454) कुरुक्षेत्रं च मत्स्याश्च पाञ्चालाः शूरसेनयः। एते ब्रह्मर्षिदेशास्तु ब्रह्मावर्तादनन्तराः॥ 14-110-46 (96455) एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं चारित्रं च गृह्णीयुः पृथिव्यां सर्वमानवाः॥ 14-110-47 (96456) हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विशसनादपि। प्रत्यगेव प्रयागात्तु मध्यदेशः प्रकीर्तितः॥ 14-110-48 (96457) कृष्णसारस्तु चरति मृगो यत्र स्वभावतः। स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्ततः परम्॥ 14-110-49 (96458) एतान्विज्ञाय देशांस्तु संश्रयेरन्द्विजातयः। शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः॥ 14-110-50 (96459) आचारः प्रथमो धर्मो ह्यहिंसा सत्यमेव च। दानं चैव यथाशक्ति नियमाश्च यमैः सह॥ 14-110-51 (96460) वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्। कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च॥ 14-110-52 (96461) गर्भहोमैर्जातकर्मनामचौलोपनायनैः। स्वाध्यायैस्तद्व्रतैश्चैव विवाहस्नातकव्रतैः। महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः॥ 14-110-53 (96462) धर्मोर्थौ यदि न स्यातां शुश्रुषा वाऽपि तद्विधा। विद्या तस्मिन्नवप्तव्या शुभं बीजमिवोषरे॥ 14-110-54 (96463) लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा। यस्माज्ज्ञानमिदं प्राप्तं तं पूर्वमभिवादयेत्॥ 14-110-55 (96464) सव्येन सव्यं संगृह्य दक्षिणेन तु दक्षिणम्। न कुर्यादेकहस्तेन गुरोः पादाभिवादनम्॥ 14-110-56 (96465) निषेकादीनि कर्माणि यः करोति यथाविधि। अध्यापयति चैवेनं स विप्रो गुरुरुच्यते॥ 14-110-57 (96466) कृत्वोपनयनं वेदान्योध्यापयति नित्यशः। सकल्पान्सरहस्यांश्च स चोपाध्याय उच्यते॥ 14-110-58 (96467) साङ्गांश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च। विवृणोति च मन्त्रार्थानाचार्यः सोभिधीयते॥ 14-110-59 (96468) उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता। पितुः शतगुणं माता गौरवेणातिरिच्यते॥ 14-110-60 (96469) एतेषामपि सर्वेषां गरीयान्ज्ञानदो गुरुः। गुरोः परतरं किंचिन्न भूतं न भविष्यति॥ 14-110-61 (96470) तस्मात्तेषां वशे तिष्ठिच्छुश्रूषापरमो भवेत्। अवमानाद्धि तेषां तु नरकं स्यान्न संशयः॥ 14-110-62 (96471) हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान्। रूपद्रविणहीनांश्च जातिहीनांस्च नाक्षिपेत्॥ 14-110-63 (96472) शपता यत्कृतं पुण्यं शप्यमानं तु गच्छति। शप्यमानस्य यत्पापं शपन्तमनुगच्छति॥ 14-110-64 (96473) नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्। द्वेषं डंभं च मानं च क्रोधं तैक्ष्ण्यं विवर्जयेत्॥ ॥ 14-110-65 (96474) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि दशाधिकशततमोऽध्यायः॥ 110 ॥
आश्वमेधिकपर्व - अध्याय 111

॥ श्रीः ॥

14.111. अध्यायः 111

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रत्यग्निसृष्टिप्रकारकथनम्॥ 1 ॥ आहवनीयादित्वेन तद्विभागकथनपूर्वकं तत्तन्नामनिर्वचनम्॥ 2 ॥ तथा यज्ञाग्निहोत्रप्रशंसनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। स्वभक्तस्य हृषीकेश धर्माधर्ममजानतः। धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे॥ 14-111-1 (96475) भगवानुवाच। 14-111-2x (7989) यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु। मन्त्रवद्यद्धुतं सम्यग्विधिना चाप्युपासितम्। आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम्॥ 14-111-2 (96476) युधिष्ठिर उवाच। 14-111-3x (7990) कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम्। वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत्॥ 14-111-3 (96477) कस्मिन्काले कतं कस्य आधेयोऽग्निः सुरोत्तम। आहितस्य कथं वाऽपि सम्यगाचरणं भवेत्॥ 14-111-4 (96478) कत्यग्नयः किमात्मानः स्थानं किं कस्य वा विभो। कतरस्मिन्हुते स्थाने कं व्रजेदाग्निहोत्रिकः॥ 14-111-5 (96479) अग्निहोत्रनिमित्तं च किमुत्पन्नं पुराऽनघ। कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम्॥ 14-111-6 (96480) विधिवन्मन्त्रवत्कृत्वा पूजितास्त्वग्नयः कथम्। कां गतिं वदतांश्रेष्ठ नयन्ति ह्यग्निहोत्रिणः॥ 14-111-7 (96481) दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः। किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वाऽपि केशव॥ 14-111-8 (96482) उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति। एतत्सर्वं समासेन भक्त्या ह्युपगतस्य मे। वक्तुमर्हसि सर्वज्ञ सर्वाधिकं नमोस्तु ते॥ 14-111-9 (96483) भगवानुवाच। 14-111-10x (7991) शृणु राजन्महापुण्यमिदं धर्मामृतं परम्। यत्तु तारयते युक्तान्ब्राह्मणानग्निहोत्रिणः॥ 14-111-10 (96484) ब्र्हमित्वेनासृजं लोकानहमादौ महाद्युते। सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया॥ 14-111-11 (96485) यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया। तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः॥ 14-111-12 (96486) यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते। आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते॥ 14-111-13 (96487) यस्माच्च तु नयत्यग्रां गतिं विप्रान्सुपूजितः। यस्माच्च नयनाद्राजन्देवेष्वग्नीति कथ्यते॥ 14-111-14 (96488) तस्माच्च दुर्हुतः सोयमलं भक्षयितुं क्षणात्। यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततः स्मृतः॥ 14-111-15 (96489) सर्वभूतात्मको राजन्देवानामेष वै मुखम्। प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः॥ 14-111-16 (96490) सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु। ततः प्रशमितः सोग्निरूपास्यैव मया पुरा॥ 14-111-17 (96491) सततोपासनात्सोयमौपासन इति स्मृतः॥ 14-111-18 (96492) आहुतिः सर्वमाख्याति तस्मिन्वसति सोनलः। आवसथ्य इति ख्यातस्तेनासौ ब्रह्मवादिभिः॥ 14-111-19 (96493) तस्मात्पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः। सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः॥ 14-111-20 (96494) ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः। गता ह्यमरसायुज्यं ते ह्यग्न्यर्चनतत्पराः॥ 14-111-21 (96495) अपरे चावसथ्यं च पचनाग्निं प्रचक्षते। तस्मिन्पञ्च महायज्ञा वैश्वदेवश्च वर्तते॥ 14-111-22 (96496) स्थलीपाकं च गार्हं च सर्वे चास्मिन्प्रतिष्ठिताः। गृह्यकर्मवहो यस्मात्तस्माद्गृहपतिस्तु सः॥ 14-111-23 (96497) औपासनं चावसथ्यं सभ्यं पचनपावकम्। आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च॥ 14-111-24 (96498) अग्निहोत्रप्रकारं च शृणु राजन्समाहितः। त्रयाणां गुणनामानां वह्नीनामुच्यते मया॥ 14-111-25 (96499) गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम्। गृहपत्यं तु यस्यासीत्तत्तस्माद्गार्हपत्यता॥ 14-111-26 (96500) यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत्। दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः॥ 14-111-27 (96501) आहुतिः सर्वमाख्याति हव्यं वै वहनं स्मृतम्। सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम्॥ 14-111-28 (96502) यं चाक्सथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः। आवसथ्यं तु तं चाग्निं पचनाग्निं प्रचक्षते॥ 14-111-29 (96503) तेषां स भागतो वह्निः सभ्य इत्यभिधीयते। आवतथ्यस्तु यो वह्निः प्रथमः स प्रजापतिः॥ 14-111-30 (96504) ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोभवत्। दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः॥ 14-111-31 (96505) अहमाहवनीयोऽग्निराहोमाद्यस्य वै मुखे। सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप॥ 14-111-32 (96506) पृथिवी गार्हपत्योऽग्निरन्तरिक्षं च दक्षिणः। स्वर्गमाहवनीयोऽग्निरेवमग्नित्रयं स्मृतम्॥ 14-111-33 (96507) वृत्तश्च गार्हपत्योऽग्निर्यस्माद्वृत्ता च मेदिनी। अर्धचन्द्राकृतिस्तं वै दक्षिणाग्निस्तथा भवेत्॥ 14-111-34 (96508) चतुरश्रं ततः स्वर्गं निर्मलं तु निरामयम्। तस्मादाहवनीयोऽग्निश्चतुरश्रो भवेन्नृप॥ 14-111-35 (96509) जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः। जुहोति दक्षिणं यस्तु स जयत्यन्तरिक्षकम्॥ 14-111-36 (96510) पृथिवीमन्तरिक्षं च दिवं ऋषिगणैः सह। जयत्याहवनीयं यो जुहुयाद्भक्तिमान्नरः॥ 14-111-37 (96511) आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते। तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः॥ 14-111-38 (96512) आहोमादग्निहोत्रेषु यज्ञैर्वा यत्र सर्वशः। यस्मात्तस्मात्प्रवर्तन्ते ततो ह्याहवनीयता॥ 14-111-39 (96513) यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः। स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते॥ 14-111-40 (96514) इष्टो भवति सर्वाग्नेरग्निहोत्रं च तद्भवेत्। त्राणाद्वै यजमानस्य ह्यग्निहोत्रमिति स्मृतम्॥ 14-111-41 (96515) होइज्येषु विषादो वै विषादो दुःखमुच्यते। दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः॥ 14-111-42 (96516) आध्यात्मिकं चाधिदैवमाधिभौतिकमेव च। एतत्तापत्रयं प्रोक्तमात्मविद्भिर्नराधिप॥ 14-111-43 (96517) यस्माद्वै त्रायते दुःखाद्यजमानं हुतोऽनलः। तस्मात्तु विधिवत्प्रोक्तमग्निहोत्रमिति श्रुतौ॥ 14-111-44 (96518) तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा। वेदाश्चाप्यग्निहोत्रं तु जज्ञिरे स्वयमेव तु॥ 14-111-45 (96519) अग्निहोत्रफला दारा दत्तभुक्तफलं धनम्॥ रतिपुत्रफला दारा दत्तभुक्तफलं धनम्॥ 14-111-46 (96520) त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रवर्तते। ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः॥ 14-111-47 (96521) वसन्ते ब्राह्मणस्य स्यादाधेयोऽग्निर्नराधिप। वसन्तो ब्राह्मणो ज्ञेयो वेदयोनिः स उच्यते॥ 14-111-48 (96522) अग्न्याधेयं तु येनाथ वसन्ते क्रियतेऽनघ। तस्य श्रीर्बह्मवृद्धिश्च ब्राह्मणस्य विवर्धते॥ 14-111-49 (96523) क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठः स वै नृप। येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते। श्रीः प्रजाःक पशवश्चैव वित्तं तेजो बलं यशः॥ 14-111-50 (96524) शरदृतौ तु वैश्यस्य ह्याधानीयो हुताशनः। शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते॥ 14-111-51 (96525) शरद्याधानमेवं वै क्रियते येन पाण्डव। तस्यापि श्रीः प्रजाऽऽयुश्च पशवोऽर्थश्च वर्धते॥ 14-111-52 (96526) पशवः सर्व एवैते त्रिभिः सर्वैरलङ्कृताः। अग्निहोत्रा ह्यवर्तन्ते तैरेव ध्रियते जगत्॥ 14-111-53 (96527) ग्राम्यारण्याश्च पशवो पृक्षाश्चैव तृणानि च। फलान्योषधयश्चापि अग्निहोत्रकृते हविः॥ 14-111-54 (96528) रसाः स्नेहास्तथा गन्धा रत्नानि मणयस्तथा। काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन्॥ 14-111-55 (96529) आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः। धर्मशास्त्रं च तत्सर्वमग्निहोत्रकृते कृतम्॥ 14-111-56 (96530) छन्दः शिक्षा च कल्पश्च तथा व्याकरणानि च। शास्त्रं ज्योतिर्निरुक्तं चाप्यग्निहोत्रकृते कृतम्॥ 14-111-57 (96531) इतिहासपुराणं च गाथाश्चोपनिषत्तथा। आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम्॥ 14-111-58 (96532) यच्चैतस्यां पृथिव्यां वै किंचिदस्ति चराचरम्। तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयंभुवा॥ 14-111-59 (96533) अग्निहोत्रस्य दर्शस्य पूर्णमासस्य चाप्यथ। युपेष्टिपशुबन्धानां सोमपानक्रियावताम्॥ 14-111-60 (96534) तिथिनक्षत्रयोगानां मुहूर्तकरणात्मकम्। कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुराऽनघ॥ 14-111-61 (96535) ऋग्यजुः साममन्त्राणां श्लोकतत्वार्थचिन्तनात्। प्रत्यापत्तिविकल्पानां छन्दोज्ञानं प्रल्पितम्॥ 14-111-62 (96536) वर्णाक्षरपदार्थानां सन्धिलिङ्गं प्रकीर्तितम्। नामधातुविवेकार्थं पुरा व्याकरणं स्मृतम्॥ 14-111-63 (96537) यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु। यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम्॥ 14-111-64 (96538) यज्ञपात्रपवित्रार्थं द्रव्यसंभारणाय च। सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम्॥ 14-111-65 (96539) नामधातुविकल्पानां तत्वार्थनियमाय च। सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम्॥ 14-111-66 (96540) वेद्यर्थं पृथिवी सृष्टा संभारार्थ तथैव च। इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम्॥ 14-111-67 (96541) ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात्। मन्त्राणां विनियोगं च प्रोक्षितं श्रपणं तथा॥ 14-111-68 (96542) अनुयाजप्रयाजाश्च मरुतां शंसिनस्तथा। औद्गात्रं चैव साम्नां वै प्रतिप्रस्थानमेव च॥ 14-111-69 (96543) विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा। त्रिकासमर्चनं चैव स्यानेषूपहृतं तथा॥ 14-111-70 (96544) देवताग्रहणं मोक्षं हविषां श्रपणं तथा। नावबुद्ध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम्। ते यान्ति नरकं घोरं रौरवं तमसाऽऽवृतम्॥ 14-111-71 (96545) शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः। कृमिर्भिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते॥ 14-111-72 (96546) वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा। तृणानीच्छन्ति बर्हिष्ट्वमोषध्यश्च हविष्यताम्। सोमत्वं च लताः सर्वा वेदित्वं च वसुंधर॥ 14-111-73 (96547) यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिप्सया। तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव॥ 14-111-74 (96548) यूपास्तन्मन्त्रसंस्कारैर्दर्भाश्च पशवस्तथा। यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर॥ 14-111-75 (96549) यावत्कालं हि यज्वा वै स्वर्गलोके महीयते। तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः॥ 14-111-76 (96550) अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्कृतम्। वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतून्द्विजाः। सद्यः शूद्रत्वामायान्ति प्रेत्य चण्डालतामपि॥ 14-111-77 (96551) गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च। सुवर्णं रजतं चैव पात्रक्रुभार्थमेव च॥ 14-111-78 (96552) दर्भाः संस्तरणार्तं तु रक्षसां रक्षणाय च। पजनार्थं द्विजाः सृष्टास्तारका दिवि देवताः॥ 14-111-79 (96553) क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः। शुश्रूषार्थं त्रयाणां वै शूद्राः सृष्टाः स्वयंभुवा॥ 14-111-80 (96554) एवमेतज्जगत्सर्वमग्निहोत्रकृते कृतम्। नावबुध्यन्ति ये चैव नरास्तु तमसा वृताः॥ 14-111-81 (96555) ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम्। रौरवाद्विप्रयुक्तास्तु कृमियोनिं व्रजन्ति ते॥ 14-111-82 (96556) यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः। तैर्दत्तं सहुतं चेष्टं दत्तमध्यापितं भवेत्॥ 14-111-83 (96557) एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप। तत्सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम्॥ 14-111-84 (96558) मया स्थापितमादित्ये लोकस्य सुकृतं हि तत्। धारयेद्यत्सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम्॥ 14-111-85 (96559) यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः। तावदेव हि पुण्येन दीप्यते रविणाऽम्बरे॥ 14-111-86 (96560) स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान्। तत्र ते ह्युपभुञ्जन्ति ह्यग्निहोत्रस्य तत्फलम्। समानरूपा देवानां तिष्ठन्त्याबूतसंप्लवम्॥ 14-111-87 (96561) वृथाऽग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रिणः। न तेऽग्निहोत्रिणां लोके मानसाऽपि व्रजन्ति ते॥ 14-111-88 (96562) वीरघ्रास्तु दुराचारा दरिद्रास्तु नराधमाः। विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु॥ 14-111-89 (96563) तस्मादप्रोषितैर्नित्यमग्निहोत्रं द्विजातिभिः। होतव्यं विधिवद्राजन्नूर्ध्वामिच्छन्ति ये गतिम्॥ 14-111-90 (96564) आत्मवन्नावमन्तव्यमग्निहोत्रं युधिष्ठिर। न त्याज्यं क्षणिमप्येतदग्निहोत्रं युधिष्ठिर॥ 14-111-91 (96565) वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्द्विजाः। शूद्रान्नाद्विरता दान्ताः संयतेन्द्रियबुद्धयः॥ 14-111-92 (96566) पञ्चयज्ञपरा नित्यं लोभक्रोधविवर्जिताः। द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः॥ 14-111-93 (96567) तेऽपि सूर्योदयप्रख्यैर्विमानैर्वायुवेगिभिः। मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर॥ 14-111-94 (96568) मन्वन्तरं च तत्रैकं मोदिता द्विजसत्तमाः। इह मानुष्यके लोके जायन्ते द्विजसत्तमाः॥ 14-111-95 (96569) बालाहिताग्रयो ये च शूद्रान्नाद्विरताः सदा। क्रोधलोभविनिर्मुक्ताः प्रातस्स्नानपरायणाः। यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः॥ 14-111-96 (96570) आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः। ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम्॥ 14-111-97 (96571) मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः। तत्र बालार्कसङ्काशाः कामगाः कामरूपिणः॥ 14-111-98 (96572) ऐश्वर्यगुणसंपन्नाः क्रीडन्ति च यथासुखम्। इत्येषामाहिताग्नीनां विभूतिः पाण्डुनन्दन॥ 14-111-99 (96573) श्रुतिं केचिन्निन्दमानाः श्रुतिं दूष्यन्त्यबुद्धयः। प्रमाणं न च कुर्वन्ति ये यान्तीहापि दुर्गतिम्। 14-111-100 (96574) प्रमाणमितिहासं च वेदान्कुर्वति ये द्विजाः। ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः॥ ॥ 14-111-101 (96575) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकादशाधिकशततमोऽध्यायः॥
आश्वमेधिकपर्व - अध्याय 112

॥ श्रीः ॥

14.112. अध्यायः 112

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति चान्द्रायणविधिनिरूपणपूर्वकं तदाचरणफलकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। चक्रायुध नमस्तेऽस्तु देवेश गरुडध्वज। चान्द्रायणविधिं पुण्यमाख्याहि भगवन्मम॥ 14-112-1 (96576) भगवानुवाच। 14-112-2x (7992) शृणु पाण्डव तत्वेन सर्वपापप्रणाशनम्। पापिनो येन शुद्ध्यन्ति तत्ते वक्ष्यामि सर्वशः॥ 14-112-2 (96577) ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा चरितव्रतः। यथावत्कर्तुकामो वै तस्यैवं प्रथमा क्रिया॥ 14-112-3 (96578) शोधयेत्तु शरीरं स्वं पञ्चगव्येन यन्त्रितः। सशिरः कृष्णपक्षस्य ततः कुर्वीत वापनम्॥ 14-112-4 (96579) शुक्लवासाः शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम्। पालाशद्ण्डमादाय ब्रह्मचारिव्रते स्थितः॥ 14-112-5 (96580) कृतोपलासः पूर्वं तु शुक्लप्रतिपदि द्विजः। नदीसंगमतीर्थेषु शुचौ देशे गृहेऽपि वा। गोमयेनोपलिप्रेऽथ स्थण्डिलेऽग्निं निधापयन्॥ 14-112-6 (96581) आघारावाज्यभागौ च प्रणवं व्याहृतीस्तथा। वारुणं चैव पञ्चैव हुत्वा सर्वान्यथाक्रमम्॥ 14-112-7 (96582) सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे। विश्वेभ्यो हि च देवेभ्यः सप्रजापतये तथा॥ 14-112-8 (96583) षडुक्त्वा जुहुयात्पश्चात्प्रायश्चित्ताहुतिं द्विजः। अतः समापयेदग्निं शान्तिं कृत्वाऽथ पौष्टिकिम्॥ 14-112-9 (96584) प्रणम्य् चाग्निं सोमं च भस्म दिग्ध्वा यथाविधि। नदीं गत्वा विशुद्धात्मा सोमाय वरुणाय च। आदित्याय नमस्कृत्वा ततः स्नायात्समाहितः॥ 14-112-10 (96585) उत्तीर्योदकमाचम्य चासीनः पूर्वतोमुखः। प्राणायामं ततः कृत्वा पवित्रैरभिषेचनम्॥ 14-112-11 (96586) आचान्तस्त्वमिवीक्षेत ऊर्ध्वबाहुर्दिवाकरम्। कृताञ्जलिपुटः स्थित्वा कुर्याच्चैव प्रदक्षिणम्॥ 14-112-12 (96587) नारायणं वा रुद्रं वा ब्रह्मणमथवाऽपि च। वारुणं मन्त्रमूक्तं वा प्राग्भोजनमथापि वा॥ 14-112-13 (96588) वीरघ्नमृषभफं वाऽपि तथा चाप्यघमर्षणम्। गायत्रीं मम देवीं वा सावित्रीं वा जपेत्ततः। शतं वाऽष्टशतं वाऽपि सहस्रमथवा परम्॥ 14-112-14 (96589) ततो मध्याह्नकाले वै पायसं यावकं हि वा। पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः॥ 14-112-15 (96590) पात्रं तु सुसमादाय सौवर्णं राजतं तु वा। ताम्रं वा मृन्मयं वापि औदुंबरमथापि वा। 14-112-16 (96591) वृक्षाणां याज्ञियानं तु पर्णैरार्द्रैरकुत्सितैः। पुटकेन तु गुप्तेनि चरेद्भैक्षं समाहितः॥ 14-112-17 (96592) ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत्। गोदोहमात्रं तिष्ठित्तु वाग्यतः संयतेन्द्रियः॥ 14-112-18 (96593) न हसेन्न च वीक्षेत नाभिभाषेत वा स्त्रियम्॥ 14-112-19 (96594) दृष्ट्वा मूत्रं पुरीषं वा चण्डालं वा रजस्वलाम्। पतितं च तथा श्वानमादित्यमवलोकयेत्॥ 14-112-20 (96595) यो हि पादुकमारुह्य सर्वदा प्रचरेद्द्विजः। तं दृष्ट्वा पापकर्माणमादित्यमवलोकयेत्॥ 14-112-21 (96596) ततस्त्वावसथं प्राप्तो भिक्षां निक्षिप्य भूतले। प्रक्षाल्य पादावाजान्वोर्हस्तावाकूर्परं पुनः। आचम्य वारिणा तेन वह्निं विप्रांश्च पूययेत्॥ 14-112-22 (96597) पञ्च सप्ताथवा कुर्याद्भागान्भैक्षस्य तस्य वै। तेषामन्यतमं पिण्डमादित्याय निवेदयेत्॥ 14-112-23 (96598) ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च। विश्वेभ्यश्चैव देवेभ्यो दद्यादन्नं यथाक्रमम्॥ 14-112-24 (96599) अवशिष्टमथैकं तु वक्त्रमात्रं प्रकल्पयेत्॥ 14-112-25 (96600) अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत्। अङ्गुलीभिस्त्रिभिः पिण्डं प्राश्नीयात्प्राङ्मुखःक शुचिः। 14-112-26 (96601) यथा च वर्धते सोमो ह्रसते च यथा पुनः। तथा पिण्डाश्च वर्धन्ते ह्रसन्ते च दिनेदिने॥ 14-112-27 (96602) त्रिकालं स्नानमस्योक्तं द्विकालमथवा सकृत्। ब्रह्मचारी सदा वाऽपि न च वस्त्रं प्रपीडयेत्॥ 14-112-28 (96603) स्थान न दिवसं तिष्ठेद्रात्रौ वीरासनं व्रजेत्। भवेत्स्थण्डिलशायी वाऽप्यथा वृक्षमूलिकः॥ 14-112-29 (96604) वल्कलं यदि वा क्षौमं शाणं कार्पासकं तथा। आच्छादनं भवेत्तस्य वस्त्रार्थं पाण्डुनन्दन॥ 14-112-30 (96605) एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान्। ब्राह्मणान्भोजयेद्भक्त्या दद्याच्चैव च दक्षिणाम्॥ 14-112-31 (96606) चान्द्रायणेन चीर्णेन यत्कृतं तेन दुष्कृतम्। तत्सर्वं तत्क्षणादेव भस्मीभवति काष्ठवत्॥ 14-112-32 (96607) ब्रह्महत्या च गोहत्या सुवर्णस्तैन्यमेव च। भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः॥ 14-112-33 (96608) एवमन्यानि पापानि पातकीयानि यानि च। चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा॥ 14-112-34 (96609) अनिर्दशाया गोः क्षीरमौष्ठ्रमाविकमेव च। मृतसूतकयोश्चान्नं भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-35 (96610) उपपातकिनश्चान्नं पतितान्नं तथैव च। शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-36 (96611) आकाशस्थं तु हस्तस्थमधः स्रस्तं तथैव च। परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-37 (96612) अथाग्रेधिषोरन्नं दिधिषूपपतेस्तता। परिवेत्तुस्तथा चान्नं परिवित्तान्नमेव च॥ 14-112-38 (96613) कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च। तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-39 (96614) सुराऽऽसवं विषं सर्पिर्लाक्षा लवणमेव च। तैलं चापि च विक्रीणन्द्विजश्चान्द्रायणं चरेत्॥ 14-112-40 (96615) एकोद्दिष्टं तु यो भुङ्क्ते जनमध्यगतोऽपि यः। भिन्नभाण्डेषु यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत्॥ 14-112-41 (96616) यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह। कन्यया सह यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत्॥ 14-112-42 (96617) उच्छिष्टं स्थापयेद्विप्रो यो मोहाद्भोजनान्तरे। दद्याद्वा यदि वा मोहाद्विजश्चान्द्रायणं चरेत्॥ 14-112-43 (96618) तुम्बकोशातकं चैव पलाण्डुं गृञ्जनं तथा। छत्राकं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-44 (96619) द्विजः पर्युषितं चान्नं पक्वं परगृहागतम्। विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-45 (96620) उदक्यया शुना वाऽपि चण्डालैर्वा द्विजोत्तमः। दृष्टमन्नं तु भुञ्जानो द्विजश्चान्द्रायणं चरेत्॥ 14-112-46 (96621) ****तत्पुरा विशुद्ध्यर्थमृषिभिश्चरितं व्रतम्। पावनं सर्वभूतानां पुण्यं पाण्डवचोदितम्॥ 14-112-47 (96622) एतेन वसवो रुद्राश्चादित्याश्च दिवं गताः। एतदद्य परं गुह्यं पवित्रं पापनाशनम्॥ 14-112-48 (96623) यथोक्तमेतद्यः कुर्याद्द्विजः पापप्रणाशनम्॥ स दिवं याति पूतात्मा निर्मलादित्यसंनिभः॥ ॥ 14-112-49 (96624) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः॥ 112 ॥
आश्वमेधिकपर्व - अध्याय 113

॥ श्रीः ॥

14.113. अध्यायः 113

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति कार्तिकादिद्वादशमासेषु एकभुक्तव्रताचरणप्रकारनिरूपणपूर्वकं तत्फलकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। केशवेनैवमुक्ते तु चान्द्रायणविधिक्रमे। अपृच्छत्पुनरन्यांश्च धर्मान्धर्मात्मजो नृप॥ 14-113-1 (96625) युधिष्ठिर उवाच। 14-113-2x (7993) सर्वभूतपते श्रीमन्सर्वभूतनमस्कृत। सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व नः॥ 14-113-2 (96626) भगवानुवाच। 14-113-3x (7994) यद्दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत्। सर्वपापप्रशमनं तच्छृणुष्व युधिष्ठिर॥ 14-113-3 (96627) कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः। तेष्वेकबुक्तनिमः सर्वेषामुच्यते मया॥ 14-113-4 (96628) कार्तिके यस्तु वै मासे नन्दायां संयतेन्द्रियः। एकभुक्तेन मद्भक्तो मासमेकं तु वर्तते॥ 14-113-5 (96629) जलं वा न पिबेन्मासे नान्तरं भोजनात्परम्। आदित्यरूपं मां नित्यमर्चयन्सुसमाहितः॥ 14-113-6 (96630) व्रतान्ते भोजयेद्विप्रान्दक्षिणां सम्प्रदाय च। क्रोधलोभविनिर्मुक्तस्तस्य पुण्यफलं शृणु॥ 14-113-7 (96631) विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम्। तत्पुण्यं समनुप्राप्य सूर्यकलोके महीयते। ततश्चापि च्युतः कालात्पुरुषेषूपजायते॥ 14-113-8 (96632) मार्गशीर्षं तु यो मासमेकभुक्तेन वर्तते। कामं क्रोधं च लोभं च परित्यज्य यथाविधि॥ 14-113-9 (96633) स्नात्वा चादित्यरूपं मामर्ययेन्नियतेन्द्रियः। जपेच्चैव च गायत्रीं मामिकां वाग्यतेन्द्रियः॥ 14-113-10 (96634) मासे परिसमाप्ते तु भोजयित्वा द्विजाञ्शुचिः। तानर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु॥ 14-113-11 (96635) अग्निहोत्रे कृते पुण्यमाहिताग्नेस्तु यद्भवेत्। तत्पुण्यं फलमासाद्य योनेनांऽबरशोभिना। सह सप्तर्षिलोकेषु यथाकामं यथासुखम्॥ 14-113-12 (96636) ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते। तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति॥ 14-113-13 (96637) ******** क्षिपेदेवमेकभुक्तेन यो नरः। अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना॥ 14-113-14 (96638) अहिंसासत्यसहितः क्रोधहर्षविवर्जितः। एवं युक्तस्य राजेन्द्र शृणु यत्फलमुत्तमम्॥ 14-113-15 (96639) विप्रातिथ्यसहस्रेषु यत्पुण्यं समुदाहृतम्। तत्पुण्यं समनुप्राप्य शक्रलोके महीयते॥ 14-113-16 (96640) अवतीर्णस्ततः कालादिलावर्षेषु जायते। तत्र स्थित्वा चिरं कालमस्मिन्विप्रो भविष्यति॥ 14-113-17 (96641) माघमासं सदा यस्तु वर्तते चैकभुक्ततः। मदर्चनपरो भूत्वा डंभक्तोधविवर्जितः। मामिकामपि सावित्रीं सन्ध्यायां तु जपेद्बुधः॥ 14-113-18 (96642) दत्त्वा दु दक्षिणामन्ते भोजयित्वा द्विजानपि। नमिस्करोति तान्भक्त्या मद्गतेनान्तरात्मना। त्रिकालस्नानयुक्तस्य तस्य पुण्यफलं शृणु॥ 14-113-19 (96643) नीलकण्ठप्रयुक्तेन योनेनांऽबरशोभिना। पितृलोकं व्रजेच्छ्रीमान्सेव्यमानोप्सरोणैः॥ 14-113-20 (96644) तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते। ततश्च्युतश्चतुर्वेदी विप्रो भवति भूतले॥ 14-113-21 (96645) यश्चरेत्फाल्गुनं मासमेकभुक्तो जितेन्द्रियः। नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रं जपेत्सदा॥ 14-113-22 (96646) पायसं भोजयेद्विप्रान्व्रतान्ते संयतेन्द्रियः। मदर्चनपरोऽक्रोधस्तस्य पुण्यफलं शृणु॥ 14-113-23 (96647) विमानं सारसैर्युक्तमारूढः कामगामि च। नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः॥ 14-113-24 (96648) ततश्चापि च्युतः कालात्केतुमालेषु जायते। तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर्भवेत्॥ 14-113-25 (96649) चैत्रमासं तु यो राजन्नेकभुक्तेन वर्तते। ब्रह्मचारी च मद्भक्त्या तस्य पुण्यफलं शृणु॥ 14-113-26 (96650) यदग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः। तत्पुण्यफकलमासाद्य चन्द्रलोके महीयते॥ 14-113-27 (96651) ततोऽवतीर्णो जायेत वर्षे रमणके पुनः। भुक्त्वा कामांस्ततस्तस्मिन्निह राजा भविष्यति॥ 14-113-28 (96652) वैशाखे यस्तु मासे वै ह्येकभुक्तेन वर्तते। द्विजमग्रासने कृत्वा भुञ्जन्भूमौ च वाग्यतः॥ 14-113-29 (96653) नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम्। व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु॥ 14-113-30 (96654) फलं यद्विधिवत्प्रोक्तमग्निष्टोमातिरात्रयोः। तत्पुण्यफलमासाद्य देवलोके महीयते॥ 14-113-31 (96655) ततो हैमवते वर्षे जायते कालपर्ययात्। तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद्भविष्यति॥ 14-113-32 (96656) ज्येष्ठमासं तु यो विप्रो ह्येकभुक्तेन वर्तते। विप्रमग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि॥ 14-113-33 (96657) नमो ब्रह्मण्यदेवायेत्युच्चरन्मां समाहितः। डंभानृतविनिर्मुक्तस्तस्य पुण्यफलं शृणु॥ 14-113-34 (96658) चीर्णे चान्द्रायणे सम्यग्यत्पुण्यं समुदाहृतम्। तत्पुण्यफलमासाद्य देवलोके महीयते॥ 14-113-35 (96659) अथोत्तरकुरौ वर्षे जायते निर्गतस्ततः। ततश्चापि च्युतः कालादिह लोके द्विजो भवेत्॥ 14-113-36 (96660) आषाढमासं यो राजन्नेकभुक्तेन वर्तते। ब्रह्मचारी जितक्रोधो मदर्चनपरायणः॥ 14-113-37 (96661) विप्रमग्रासने कृत्वा भूमौ भुञ्जञ्जितेन्द्रियः। कृत्वा त्रिषवणं स्नानमष्टाक्षरविधानतः॥ 14-113-38 (96662) व्रतान्ते भोजयेद्विद्वान्पायसेन युधिष्ठिर। गुडोदनेन राजेन्द्र तस्य पुण्यफलं शृणु॥ 14-113-39 (96663) कपिलाशतदानस्य यत्पुण्यं पाण्डुनन्दन। तत्पुण्यफलमासाद्य देवलोके महीयते॥ 14-113-40 (96664) ततोऽवतीर्णः काले तु शाकद्वीपे तु जायते। ततश्चापि च्युतः कालादिह विप्रो भविष्यति॥ 14-113-41 (96665) श्रावणं यः क्षिपेन्मासमेकभुक्तेन वर्तते। नमो ब्रह्मण्यदेवायेत्युक्त्वा मामर्चयेत्सदा। विप्रमाग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि॥ 14-113-42 (96666) पायसेनार्चयन्विप्राञ्जितक्रोधो जितेन्द्रियः। लोभमोहविनिर्मुक्तस्तस्य पुण्यफलं शृणु॥ 14-113-43 (96667) कपिलादानस्य यत्पुण्यं विधिदत्तस्य पाण्डव। तत्पुण्यं सम***प्राप्य शक्रलोके महीयते॥ 14-113-44 (96668) ततश्चापि च्युत कालात्कुशद्वीपे प्रजायते। तत्रि प्रकामं क्रीडित्वा विप्रो भवति मानुषे॥ 14-113-45 (96669) यस्तु भाद्रपदं मासमेकभुक्तेन वर्तते। ब्रह्मचारी जितक्रोधः सत्यसन्धो जितेन्द्रियः॥ 14-113-46 (96670) विप्रमग्रासने कृत्वा पाकभेदविवर्जितः। नमो ब्रह्मण्यदेवायेत्युक्त्वाऽस्य चरणौ स्पृशेत्॥ 14-113-47 (96671) तिलानपि घृतं वाऽपि व्रतान्ते दक्षिमां ददत्। मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु॥ 14-113-48 (96672) यत्फलं विधिवत्प्रोक्तं राजसूयाश्वमेधयोः। तत्पुण्यफलमासाद्य शक्रलोके महीयते॥ 14-113-49 (96673) ततश्चापि च्युतः कालाज्जायते धनदालये। तत्र प्रकामं क्रीकडित्वा राजा भवति मानुषे॥ 14-113-50 (96674) यश्चाप्याश्वयुजं मासमेकभुक्तेन वर्तते। मद्गायत्रीं जपेद्भक्त्या मद्गतेनान्तरात्मना। द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टोत्तरं तु वा॥ 14-113-51 (96675) विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः। व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु॥ 14-113-52 (96676) अश्वमेधस्य यत्पुण्यं विधिवत्पाण्डुनन्दन। तत्पुण्यफलमासाद्य मम लोके महीयते॥ 14-113-53 (96677) ततश्चापि च्युतः कालाच्छ्वेतद्वीपे प्रजायते। तत्र भुक्त्वा च भोगांश्च ततो विप्रवरो भवेत्॥ ॥ 14-113-54 (96678) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधऱ्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः॥ 113 ॥
आश्वमेधिकपर्व - अध्याय 114

॥ श्रीः ॥

14.114. अध्यायः 114

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति केशवादिभगवन्मूर्त्युपास्तिपूर्वकं मार्गशीर्षादिद्वादशद्वादशीव्रताचरणफलकथनम्॥ 1 ॥ युधिष्ठिरेण विस्तरेण कृष्णस्तवनम्॥ 2 ॥ पुनः कृष्णेन युधिष्ठिराय एकादश्युपवासपूर्वकं द्वादश्यां भगवत्पूजायाः फलकथनम्॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। एवं संवत्सरं पूर्णमेकभुक्तेन यः क्षिपेत्। तस्य पुण्यफलं यद्वै तन्ममाचक्ष्व केशव॥ 14-114-1 (96679) भगवानुवाच। 14-114-2x (7995) शृणु पाण्डव तत्त्वं मे वचनं पुण्यमुत्तमम्। यदकृत्वाऽथवा कृत्वा नरः पापैः प्रमुच्यते॥ 14-114-2 (96680) एकभुक्तेन वर्तेत नरः संवत्सरं तु यः। ब्रह्मचारी जितक्रोधो ह्यधश्शायी जितेन्द्रियः॥ 14-114-3 (96681) शुचिश्चि स्नानतो व्यग्रः सत्यवागनसूयकः। अर्चन्नेव तु मां नित्यं मद्गतेनान्तरात्मना। सन्ध्ययोस्तु जपेन्नित्यं मद्गायत्रीं समाहितः॥ 14-114-4 (96682) नमो ब्रह्मण्यदेवायेत्यसकृन्मां प्रणम्य च। विप्रमग्रासने कृत्वा यावकं भैत्रमेव वा॥ 14-114-5 (96683) भुक्त्वा तु वाग्यतो भूमावाचान्तस्य द्विजन्मनः। नमोऽस्तु वासुदेवायेत्युक्त्वा तु चरणौ स्पृशेत्॥ 14-114-6 (96684) मासेमासे समाप्ते तु भोजयित्वा द्विजाञ्शुचीन्। संवत्सरे ततः पूर्णे दद्यात्तु व्रतदक्षिणाम्॥ 14-114-7 (96685) नवनीतमयीं गां वा तिलधेनुमथापि वा। विप्रहस्तच्युतैस्तोयैः सहिरण्यैः समुक्षितः। तस्य पुण्यफलं राजन्कथ्यमानं मया शृणु॥ 14-114-8 (96686) दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोपि वा। तद्विनश्यति तस्याशु नात्र कार्या विचारणा॥ 14-114-9 (96687) युधिष्ठिर उवाच। 14-114-10x (7996) सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम्। यच्च निःश्रेयसं लोके तद्भवान्वक्तुमर्हति॥ 14-114-10 (96688) भगवानुवाच। 14-114-11x (7997) शृणु राजन्यथापूर्वं मयाऽभीष्टं तु मोदते। तथा ते कथयिष्यामि मद्भक्ताय युधिषठिर॥ 14-114-11 (96689) यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप। उपवासव्रतं कुर्यात्त्रिकालं चार्चयंस्तु माम्। सर्वक्रतुफलं लब्ध्वा मम लोके महीयते॥ 14-114-12 (96690) युधिष्ठिर उवाच। 14-114-13x (7998) भगवन्देवदेवेश पञ्चमी नाम का तव। तामहं श्रोतुमिच्छामि कथयस्व ममानघ॥ 14-114-13 (96691) भगवानुवाच। 14-114-14x (7999) पर्वद्वयं च द्वादश्यां श्रवणं च नराधिप। मत्पञ्चमीति विख्यातां मत्प्रिया च विशेषतः॥ 14-114-14 (96692) तस्मात्तु ब्राह्मणश्रेष्ठैर्मन्निवेशितबुद्धिभिः। उपवासस्तु कर्तव्यो मत्प्रियार्तं विशेषतः॥ 14-114-15 (96693) द्वादश्यामेव वा कुर्यादुपवासमशक्नुवन्। तेनाहं परमां प्रीति यास्यामि नरपुङ्गव॥ 14-114-16 (96694) अहोरात्रेण द्वादश्यां मार्गशीर्षेण केशवम्। उपोष्य पूजयेद्यो मां सोऽस्वमेधफलं लभेत्॥ 14-114-17 (96695) द्वादश्यां पुष्यमासे तु नाम्ना नारायणं तु माम्। उपोष्य पूजयेद्यो मां वाजिमेधफलं लभेत्॥ 14-114-18 (96696) द्वादश्यां माघमासे तु मामुपोष्य तु माधवम्। पूजयेद्यः समाप्नोति राजसूयफलं नृप॥ 14-114-19 (96697) द्वादश्यां फाल्गुने मासि गोविन्दाख्यमुपोष्य माम्॥ पूजयेद्यः समाप्नोति ह्यतिरात्रफलं नृप॥ 14-114-20 (96698) द्वादश्यां मासि चैत्रे तु मां विष्णुं समुपोष्य यः। पूजयंस्तदवाप्नोति पौण्डरीकस्य यत्फलम्॥ 14-114-21 (96699) द्वादश्यां मासि वैशाखे मधुसूदनसंज्ञितम्। उपोष्य पूजयेद्यो मां सोग्निष्टोमस्य पाण्डव॥ 14-114-22 (96700) द्वादश्यां ज्येष्ठमासे तु मामुपोष्य त्रिविक्रमम्। अर्ययेद्यः समाप्नोति गवां मेधफलं नृप॥ 14-114-23 (96701) आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य यः। नरमेधस्य स फलं प्राप्नोति भरतर्षभ॥ 14-114-24 (96702) द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम्। पूजयेद्य समाप्नोति पञ्चयज्ञफलं नृप॥ 14-114-25 (96703) मासे भाद्रपदे यो मां हृषीकेशाख्यमर्चयेत्। उपोष्य स समाप्नोति सौत्रामणिफलं नृप॥ 14-114-26 (96704) द्वादश्यामाश्वयुङ्मासे पद्मनाभमुपोष्य माम्। अर्चयेद्यः समाप्नोति गोसहस्रफलं नृप॥ 14-114-27 (96705) द्वादश्यां कार्तिके मासि मां दामोदरसंज्ञितम्। उपोष्य पूजयेद्यस्तु सर्वक्रतुफलं नृप॥ 14-114-28 (96706) केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन। यत्फलं पूर्वमुद्दिष्टं तस्यार्धं लभते नृप॥ 14-114-29 (96707) श्रावणेऽप्येवमेवं मामर्चयेद्भक्तिमान्नरः। मम सालोक्यमाप्नोति नात्र कार्या विचारणा॥ 14-114-30 (96708) मासेमासे समभ्यर्च्य क्रमशो मामतन्द्रितः। पूर्मे संवत्सरे कुर्यात्पुनः संवत्सरं तु माम्॥ 14-114-31 (96709) अविघ्नमर्चयानस्तु यो मद्भक्तो मत्परायणः। अविघ्नमर्चयानस्तु मम सायुज्यमाप्नुयात्॥ 14-114-32 (96710) अर्चयेत्प्रीतिमान्यो मां द्वादस्यां वेदसंहिताम्। स पूर्वोक्तफलं राजँल्लभते नात्र संशयः॥ 14-114-33 (96711) गन्धं पुष्पं फलं तोयं पत्रं वा मूलमेव वा। द्वादश्यां मम यो दद्यात्तत्समो नास्ति मत्प्रियः॥ 14-114-34 (96712) एतेन विधिना सर्वे देवाः शक्रपुरोगमाः। मद्भक्ता नरशार्दूल स्वर्गलोकं तु भुञ्जते॥ 14-114-35 (96713) वैशम्पायन उवाच। 14-114-36x (8000) एवं वदति देवेशे केशवे पाडुनन्दनः। कृताञ्जलिः स्तोत्रमिदं भक्त्तया धर्मात्मजोऽब्रवीत्॥ 14-114-36 (96714) सर्वलोकेश देवेश हृषीकेशक नमोस्तु ते। सहस्रशिरसे नित्यं सहस्राक्ष नमोस्तु ते॥ 14-114-37 (96715) त्रयीमय त्रयीनाथ त्रयीस्तुत नमोनमः। यज्ञात्मन्यज्ञसंभूत यज्ञनाथ नमोनमः॥ 14-114-38 (96716) चतुर्मूर्ते चतुर्बाहो चतुर्व्यूह नमोनमः। लोकात्मँल्लोककृन्नाथ लोकावास नमोनमः॥ 14-114-39 (96717) सृष्टिसंहारकर्त्रे तु नरसिंह नमोनमः। भक्तप्रिय नमस्तेऽस्तु कृष्ण नाथ नमोनमः॥ 14-114-40 (96718) लोकप्रिय नमस्तेऽस्तु भक्तवत्सल ते नमः। ब्रह्मवास नमस्तेऽस्तु ब्रह्मनाथ नमोनमः॥ 14-114-41 (96719) रुद्ररूप नमस्तेऽस्तु रुद्रकर्मिरताय ते। पञ्चयज्ञ नमस्तेऽस्तु सर्वयज्ञ नमोनमः॥ 14-114-42 (96720) कृष्णप्रिय नमस्तेऽस्तु कृष्णनाथ नमोनमः। योगिप्रिय नमस्तेऽस्तु योगिनाथ नमोनमः॥ 14-114-43 (96721) हयवक्त्र नमस्तेऽस्तु चक्रपाणे नमोनमः। पञ्चभूत नमस्तेऽस्तु पञ्चायुध नमोनमः॥ 14-114-44 (96722) वैशम्पायन उवाच। 14-114-45x (8001) भक्तिगद्गदया वाचा स्तुवत्येवं युधिष्ठिरे। गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत्॥ 14-114-45 (96723) निवार्य च पुनर्वाचा भक्तिनम्रं युधिष्ठिरम्। वक्तुमेव नरश्रेषठ धर्मपूत्रं प्रचक्रमे॥ 14-114-46 (96724) भगवानुवाच। 14-114-47x (8002) अन्यवत्किमिदं राजन्मां स्तौषि नरपुङ्गव। तिष्ठ पृच्छ यथापूर्वं धर्मपूत्र युधिष्ठिर॥ 14-114-47 (96725) युधिष्ठिर उवाच। 14-114-48x (8003) भगवंस्त्वत्प्रसादात्तु धर्मं स्मृत्वा पुनःपुनः। न शान्तिरस्ति मे देव नृत्यतीव च मे मनः॥ 14-114-48 (96726) इदं च धर्मसंपन्नं वक्तुमर्हसि माधव। कृष्णपक्षेषु द्वादश्यामर्चनीयः कथं भवेत्॥ 14-114-49 (96727) भगवानुवाच। 14-114-50x (8004) शृणु राजन्यथापूर्वं तत्सर्वं कथयामि ते। परमं कृष्णद्वादश्यामर्चनायां फलं मम॥ 14-114-50 (96728) एकादश्यामुपोष्याथ द्वादश्यामर्चयेत्तु माम्। विप्रानपि यथालाभं पूजयेद्भक्तिमान्नरः॥ 14-114-51 (96729) स गच्छेद्दक्षिणामूर्तिं मां वा नात्र विचारणा। चन्द्रसालोक्यमथवा ग्रहनक्षत्रपूजितः॥ ॥ 14-114-52 (96730) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः॥ 114 ॥
आश्वमेधिकपर्व - अध्याय 115

॥ श्रीः ॥

14.115. अध्यायः 115

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति विषुवाख्यपुण्यकालस्य महिमानुवर्णनपूर्वकं तत्र दानादिप्रशंसनम्॥ 1 ॥ तथा गायत्रीजपमाहात्म्यकथनम्, अश्वत्थमाहात्म्यकथनं च॥ 2 ॥ तथा नानाधर्मकथनपूर्वकं शिंशुमाराकृतिनिरूपणम्, पञ्चगव्यविधानकथनं च॥ 3 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

वैशम्पायन उवाच। केशवेनैवमाख्याते धर्मपुत्रः पुनःपुनः। पप्रच्छ दानकालस्य विशेषं च विधिं नृप॥ 14-115-1 (96731) युधिष्ठिर उवाच। 14-115-2x (8005) देव किं फलमाख्यातं विषुवेष्मवरेश्वर। सूर्येन्दूपप्लवे चैव वस्तुमर्हति तत्फलम्॥ 14-115-2 (96732) भगवानुवाच। 14-115-3x (8006) शृणुष्व राजन्विषुवे सोमार्कग्रहणेषु च। व्यतीपातेऽयने चैव दानं स्यादक्षयं फलम्॥ 14-115-3 (96733) राजन्नयनयोर्मध्ये विषुवं सम्प्रचक्षते। समे रात्रिदिने तत्र सन्ध्यायां विषुवे नृप॥ 14-115-4 (96734) ब्रह्माऽहं शङ्करश्चापि तिष्ठामः सहिताः सकृत्। क्रियाकरणकार्याणामेकीभावत्वकारणात्॥ 14-115-5 (96735) अस्माकमेकीभूतानां निष्कलं परमं पदम्। तन्मुहूर्तं परं पुण्यं राजन्विषुवसंज्ञितम्॥ 14-115-6 (96736) तदेवाद्यक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम्। तस्मिन्मुहूर्ते सर्वे तु चिन्तयन्ति परं पदम्॥ 14-115-7 (96737) देवाश्च वसवो रुद्राः पितरश्चाश्विनौ तथा। साध्याश्च विश्वे गन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा॥ 14-115-8 (96738) सोमादयो ग्रहाश्चैव सरितः सागरास्तथा। मरुतोत्सरसो नागा यक्षराक्षसगुह्यकाः॥ 14-115-9 (96739) एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः। सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः॥ 14-115-10 (96740) अन्नं गावस्तिलान्भूमिं कन्यादानं तथैव च। गृहमायतनं धान्यं वाहनं शयनं तथा। 14-115-11 (96741) यच्चान्यच्च मया प्रोक्तं तत्प्रयच्छ युधिष्ठिर। दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः॥ 14-115-12 (96742) तस्य दानस्य कौन्तेय क्षयं नैवोपपद्यते। वर्धतेऽहरहः पुण्यं तद्दानं कोटिसंमितम्॥ 14-115-13 (96743) विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा। अर्चनां च यतान्यायं तस्य पुण्यफलं शृणु॥ 14-115-14 (96744) दशजन्मकृतं पापं तस्य सद्यो विनश्यति। दशानामश्वमेधानामिष्टानां लभते फलम्॥ 14-115-15 (96745) विमानं दिव्यमारूढः कामरूपी यथासुखम्। स याति मामकं लोकं रुद्रलोकमथापि वा॥ 14-115-16 (96746) तत्रस्थैर्देवगन्धर्वेर्गीयमानो यथासुखम्। दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते॥ 14-115-17 (96747) ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः। चतुर्णामपि वेदानां पारगो ब्रह्मिविद्भवेत्॥ 14-115-18 (96748) चन्द्रसूर्यग्रहे व्योम्नि मम वा शङ्करस्य वा। गायत्रीं मामिकां वाऽपि जपेद्यः शङ्करस्य वा॥ 14-115-19 (96749) शङ्खर्तूर्यस्वनैश्चैव कांस्यघण्टास्वनैरपि। कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु॥ 14-115-20 (96750) गान्धर्वैर्होमजप्यैश्च जप्तैरुत्कृष्टनामभिः। दुर्बलोपि भवेद्राहुः सोमश्च बलवान्भवेत्॥ 14-115-21 (96751) सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते। तत्सहस्रगुणं भूत्वा दांतारमुपतिष्ठति॥ 14-115-22 (96752) महापातकयुक्तोपि यद्यपि स्यान्नरोत्तम। निष्पापस्तत्क्षणादेव तेन दानेन जायते॥ 14-115-23 (96753) चन्द्रसूर्यप्रकाशेन विमानेन विराजता। याति सोमपुरं रम्यं सेव्यमानोप्सरोगणैः॥ 14-115-24 (96754) यावदृक्षाणि तिष्ठन्ति गगने शशिना सह। तावत्कालं स रजेन्द्र सोमलोके महीयते॥ 14-115-25 (96755) ततश्चापि च्युतः कालादिह लोके युधिष्ठिर। वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत्॥ 14-115-26 (96756) युधिष्ठिर उवाच। 14-115-27x (8007) भगवंस्तव गायत्री जप्यते च कथं विभो। किं वा तस्य फळं देव ममाचक्ष्व सुरेश्वर॥ 14-115-27 (96757) भगवानुवाच। 14-115-28x (8008) द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा। अयने श्रवणे चैव व्यतीपाते तथैव च॥ 14-115-28 (96758) अश्वत्तदर्शने चैव तथा मद्दर्शनेऽपि च। जप्या तु मम गायत्री चाथवाऽष्टाक्षरं नृप। आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः॥ 14-115-29 (96759) युधिष्ठिर उवाच। 14-115-30x (8009) अश्वत्थदर्शनं चैव किं त्वद्दर्शनसंमितम्। एतत्कथय मे देव परं कौतूहलं हि मे॥ 14-115-30 (96760) भगवानुवाच। 14-115-31x (8010) अहमश्वत्थरूपेण पालयामि जगत्त्रयम्। अस्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः॥ 14-115-31 (96761) यत्राहं संस्थितो राजन्नस्वत्थश्चापि तिष्ठति। यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात्समर्चति॥ 14-115-32 (96762) यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्तु सः। तस्मात्प्रदक्षिणं कुर्यान्न चिन्द्यादेनमन्वहम्॥ 14-115-33 (96763) व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते। देवशुश्रूषणं तीर्तचं गुरुशुश्रूषणं तथा॥ 14-115-34 (96764) पितृशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा। दाराणां तोषणं तीर्तं गार्हस्थ्यं तीर्थमुच्यते॥ 14-115-35 (96765) आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम्। ब्रह्मिचर्यं परं तीर्तं त्रेताग्निस्तीर्थमुच्यते॥ 14-115-36 (96766) मूलं धर्मं तु विज्ञाय मनस्तत्रावधार्यताम्॥ गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते॥ 14-115-37 (96767) द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा। स्तावराज्जङ्गमं तीर्थं ततो ज्ञानपरिग्रहः॥ 14-115-38 (96768) कर्म्णाऽपि विशुद्धस्य पुरुषस्येह भारत। हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते॥ 14-115-39 (96769) गुरुतीर्थं परं ज्ञानमतस्तीर्तं न विद्यते। ज्ञानतीर्तं परं तीर्तं ब्रह्मतीर्तं सनातनम्॥ 14-115-40 (96770) क्षमा तु परमं तीर्तं सर्वतीर्थेषु पाण्डव। क्षमावतामयं लोकः परश्चैव क्षमावताम्॥ 14-115-41 (96771) मानितोऽमानितो वाऽपि पूजितोऽपूजितोपि वा। आक्रुष्टस्तर्जितो वाऽपि क्षमावांस्तीर्थमुच्यते॥ 14-115-42 (96772) क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः। क्षमाऽहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः॥ 14-115-43 (96773) क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत्। क्षमावान्ब्राह्मणो देवः क्षमावान्ब्राह्मणो वरः॥ 14-115-44 (96774) क्षमावानाप्नुयात्स्वर्गं क्षमावानाप्नुयाद्यशः। क्षमावान्प्राप्नुयान्मोक्षं तस्मात्साद्युः स उच्यते॥ 14-115-45 (96775) आत्मा नदी भारतपुण्यतीर्थ- मात्मा तीर्थं सर्वतीर्थप्रधानम्। आत्मा यज्ञः सततं मन्यते वै स्वर्गो मोक्षः सर्वमात्मन्यधीनम्॥ 14-115-46 (96776) आचारनैर्मल्यमुपागतेन सत्यक्षमानिस्तुलशीतलेन। ज्ञानांबुना स्नाति हि नित्यमेवं किं तस्य भूयः सलिलेन तीर्थम्॥ 14-115-47 (96777) युधिष्ठिर उवाच। 14-115-48x (8011) भगवन्सर्वपापघ्नं प्रायश्चित्तमदुष्करम्। त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुमर्हसि॥ 14-115-48 (96778) भगवानुवाच। 14-115-49x (8012) रहलस्यमिदमत्यर्थमश्राव्यं पापकर्मणाम्। अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते॥ 14-115-49 (96779) पावनं ब्राह्ममं दृष्ट्वा मद्गतेनान्तरात्मना। नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत्॥ 14-115-50 (96780) प्रदक्षिणं च यः कुर्यात्पुनरष्टाक्षरेण तु। तेन तुष्टेन विप्रेणि तत्पापं क्षपयाम्यहम्॥ 14-115-51 (96781) पोत्रकृष्टां वराहस्य मृत्तिकां शिरसा वहन्। प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते॥ 14-115-52 (96782) दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोपि वा। प्राक्स्रोतसं नदीं गत्वा ममायतनसंनिधौ॥ 14-115-53 (96783) सलिलेन तु यः स्नायात्सकृदेव रविग्रहे। तस्य यत्संचितं पापं तत्क्षणादेव नश्यति॥ 14-115-54 (96784) मस्तकान्निस्सृतैस्तोयैः कपिलाया युधिष्ठिर। गोमूत्रेणापि यः स्नायाद्रोहिण्यां मम वा दिने। विप्रपादच्युतैर्वाऽपि तोयैः पापं प्रणश्यति॥ 14-115-55 (96785) नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम्। चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणस्यति॥ 14-115-56 (96786) ततश्चतुर्दशाङ्गानि शृणु तस्य युधिष्ठिर। शिरो धर्मो हनुर्ब्रह्मा वृषावुत्तरदक्षिणौ॥ 14-115-57 (96787) हृदयं तु भवेद्विष्णुरंसौ स्यातां तथाऽश्विनौ। अत्रिर्मध्यं भवेद्राजँल्लिङ्गं संवत्सरं भवेत्॥ 14-115-58 (96788) मित्रावरुणकौ पादावूरुद्वन्द्वं हुताशनः। ततः पश्चाद्भवेदिन्द्रस्ततः पश्चात्प्रजापतिः॥ 14-115-59 (96789) अभयं च ततः पश्चात्स एव ध्रुवसंज्ञिकः। एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः॥ 14-115-60 (96790) विबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु। तस्य नश्यति यत्पापं तत्पापं पूर्वसंचितम्॥ तथैव ब्रह्मकूर्च तु समन्त्रं तु पृथक्पृथक्। 14-115-61 (96791) मासिमासि विबेद्यस्तु तस्य पापं प्रणश्यति॥ पात्रं च ब्रह्मकूर्चं च शृणु तत्र च भारत। 14-115-62 (96792) पालाशं पद्मपत्रं च ताम्रं वाऽथ हिरण्ययम्। सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम्॥ 14-115-63 (96793) गायत्र्या गृह्णते मूत्रं गन्धद्वारेति गोमयम्। आप्यायस्वेति च क्षीरं दधिक्राण्वेति वै दधि॥ 14-115-64 (96794) तेजोसिशुक्लमित्याज्यं देवस्यत्वेति कुशोदकम्। आपोहिष्ठेत्यृचा गृह्यि यवचूर्णं यथाविधि॥ 14-115-65 (96795) ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने। आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु॥ 14-115-66 (96796) उद्धृत्य प्रणवेनैव पिबेतु प्रणवेन तु। महताऽपि स पापेन त्वचेवाहिर्विमुच्यते॥ 14-115-67 (96797) भद्रं न हति यः पादं पठन्नृक्सहितां तदा। अन्तर्जले वाऽभ्यादित्ये तस्य पापं प्रणश्यति॥ 14-115-68 (96798) मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः। न पापेन स लिप्येत पद्मपत्रमिवांभसा॥ ॥ 14-115-69 (96799) इति श्रीमन्महाभारते आश्वमेधिकप्रर्वणि वैष्णवधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः॥ 115 ॥
आश्वमेधिकपर्व - अध्याय 116

॥ श्रीः ॥

14.116. अध्यायः 116

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति भकगवद्भक्तिसौशील्याद्यभावे ब्राह्मणानामपि अग्निहोत्रस्वाध्यायाध्ययनादिसत्कर्मणामपि वैफल्यस्य शूद्राणामपि भक्त्यादिमतां स्वोचितकिंचित्कर्मणामपि साफल्यस्य च कथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर। यत्कर्म सफलं नेति कथयस्य ममानघ॥ 14-116-1 (96800) भगवानुवाच। 14-116-2x (8013) शृणु पाण्डव तत्सर्वं ब्राह्मणानां यथाक्रमम्। सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते॥ 14-116-2 (96801) त्रिदण्डधारणं मौनं जटाधारणमुण्डनम्। वल्कलाजिनसंवासो व्रतचर्याऽभिषेचनम्॥ 14-116-3 (96802) अग्निहोत्रं गृहे वासः स्वाध्यायं दारसत्क्रिया। सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः॥ 14-116-4 (96803) अग्निहोत्रं वृथा राजन्वृथा वेदास्तथैव च। शीलेन देवास्तुष्यन्ति श्रुतयस्तत्र कारणम्॥ 14-116-5 (96804) क्षान्तः दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम्। तमग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः॥ 14-116-6 (96805) अग्निहोत्रव्रतपरान्स्वाध्यायनिरताञ्शुचीन्। उपवासरतान्दान्तांस्तादेवा ब्राह्मणान्विदुः॥ 14-116-7 (96806) न जात्या पुजीतो राजन्गुणाः कल्याणकारणाः। चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः॥ 14-116-8 (96807) मनश्शौचं कर्मशौचं कुलशौचं च भारत। शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम्॥ 14-116-9 (96808) पञ्चस्वेतेषु शौचेषु हृदिं शौचं विशिष्यते। हृदयस्य च शौचेन स्वर्गं गच्छन्ति मानवाः॥ 14-116-10 (96809) अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रयैः। वर्णसङ्करकर्ता च ब्राह्मणो वृषलैः समः॥ 14-116-11 (96810) यस्य वेदश्रुतिर्नष्टा कर्षकश्चापि यो द्विजः। विकर्मसेवी कौन्तेय स वै वृषल उच्यते॥ 14-116-12 (96811) वृषो हि धर्मो विज्ञेयस्तस्य यः कुरुते लयम्। वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि॥ 14-116-13 (96812) स्तुतिभिर्ब्रह्मगीताभिर्यः शूद्रं स्तौति मानवः। न तु मां स्तौति पापात्मा स तु चण्डालतः समः॥ 14-116-14 (96813) श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा। दुष्टतामेति तत्सर्वं शुना लीढं हविर्यथा॥ 14-116-15 (96814) अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः। धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश॥ 14-116-16 (96815) यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत। उत्पन्नानि पवित्राणि भुवनार्थं तथैव च॥ 14-116-17 (96816) तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर। सर्वं त्रीण्यपवित्राणि पञ्चामेध्यानि भारत। 14-116-18 (96817) श्वा च शूद्रः श्वपाकश्च अपवित्राणि पाण्डव॥ गायकः कुक्कुटो यूपो ह्युदक्या वृषलीपतिः। 14-116-19 (96818) प़ञ्चैते स्युरमेध्याश्च स्प्रष्टव्या न कदातन। स्पृष्ट्वैतानष्ट वै विप्रः सचेलो जलमाविशेत्॥ 14-116-20 (96819) मद्भक्ताञ्शूद्रसामान्यादवमन्यन्ति ये नराः। नरकेष्वेव तिष्ठन्ति वर्षकोटिं नराधमाः॥ 14-116-21 (96820) चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान्। अवमानात्पतन्त्येव नरके रौरवे नराः॥ 14-116-22 (96821) मम भक्तस्य भक्तेषु प्रीतिरभ्यधिका मम। तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः॥ 14-116-23 (96822) कीटपक्षिमृगाणां च मयि संन्यस्तचेतसाम्। ऊर्ध्वामेव गतिं विद्धि किं पुनर्ज्ञानिनां नृणाम्॥ 14-116-24 (96823) पत्रं वाऽप्यथवा पुष्पंक फलं वाऽप्यप एव वा। ददाति मम शूद्रो यच्छिरसा धारयामि तत्॥ 14-116-25 (96824) विप्रानेवार्चयेद्भक्त्या शूद्रप्रायांश्च मत्प्रियान्। तेषां तेनैव रूपेण पूजां गृह्णामि भारत॥ 14-116-26 (96825) वेदोत्तेनैव मार्गेण सर्वभूतहृदि स्थितम्। मामर्चयन्ति ये पिप्रा मत्सायुज्यं व्रजन्ति ते॥ 14-116-27 (96826) मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया। प्रदुर्भावकृता काचिदर्चनीया युधिष्ठिर॥ 14-116-28 (96827) आसामन्यतमां मूर्तिं यो मद्भक्त्या समर्चति। तेनैव परितुष्टोऽहं भविष्यामि न संशयः॥ 14-116-29 (96828) मृदा च मणिरत्नैश्च ताम्रेण रजतेन च। कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा। पुण्यं दशगुणं विद्यादेतेषामुत्तरोत्तरम्॥ 14-116-30 (96829) जपकामो भवेद्राजा विद्याकामो द्विजोत्तमः। वैश्यो वा धनकामस्तु शूद्रः सुखफलप्रियः। सर्वकामाः स्त्रियो वाऽपि सर्वान्कामानवाप्नुयुः॥ ॥ 14-116-31 (96830) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षोडशाधिकशततमोऽध्यायः॥ 116 ॥
आश्वमेधिकपर्व - अध्याय 117

॥ श्रीः ॥

14.117. अध्यायः 117

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रत्यश्वत्थगोब्राह्मणमहिमप्रशंसनपूर्वकं ब्राह्मणभ्रंशकदुष्कर्मकथनम्॥ 1 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम्। उद्वेगस्तव कस्माद्धि तन्मे ब्रूहि सुरेश्वर॥ 14-117-1 (96831) भगवानुवाच। 14-117-2x (8014) अव्रतेनाप्यभक्तेन स्पृष्टां शूद्रेण चार्चनाम्। तां वर्जयामि राजेन्द्र श्वपाकविहितामिव॥ 14-117-2 (96832) नन्वहं शङ्करश्चापि गावो विप्रास्तथैव च। अश्वत्थोऽमररूपं हि त्रयमेतद्युधिष्ठिर॥ 14-117-3 (96833) एतत्त्रयं हि मद्भक्तो नावमन्येत कर्हिचित्। अवमानितमेतत्तु दहत्यासप्तमं कुलम्॥ 14-117-4 (96834) अश्वत्थो ब्राह्मणा गावो मन्मयास्तारयन्ति हि। तस्मादेतत्प्रयत्नेन त्रयं पूजय पाण्डव॥ 14-117-5 (96835) युधिष्ठिर उवाच। 14-117-6x (8015) ब्राह्मणेनैव देहेन कथं शूद्रत्वमाप्नुयात्। ब्रह्म वा नश्यति कथं वक्तुं देव त्वमर्हसि॥ 14-117-6 (96836) भगवानुवाच। 14-117-7x (8016) कूपस्नानं तु यो विप्रः कुर्याद्द्वादशवार्षिकम्। स तेनैव शरीरेण शूद्रत्वं यात्यसंशयम्॥ 14-117-7 (96837) यस्तु राजाश्रयेणैव जीवेद्द्वादशवार्षिकम्। स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगोपि सन्॥ 14-117-8 (96838) पत्तने नगरे वाऽपि यो द्वादशसमा वसेत्। स शूद्रत्वं व्रजेद्विप्रो नात्र कार्या विचारणा॥ 14-117-9 (96839) उत्पादयति यः पुत्रं शूद्रायां काममोहितः। तस्य कायगतं ब्रह्म सद्य एव विनश्यति॥ 14-117-10 (96840) यः सोमलतिकां विप्रः केवलं भक्षयेद्वृथा। तस्य कायगतं ब्रह्म सद्य एव विनश्यति॥ 14-117-11 (96841) मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप। तस्य कायगतं ब्रह्म सद्य एव विनश्यति॥ 14-117-12 (96842) विप्रत्वं दुर्लभं प्राप्य दुर्मर्गैरेवमादिभिः। विनाशयन्ति ये तत्तु ताञ्शोचामि युधिष्ठिर॥ 14-117-13 (96843) तस्मात्सर्वप्रत्नेन मत्प्रियो यो युधिष्ठिर। जातिभ्रंशकरं कर्म न कुर्यादीदृशं द्विजः॥ ॥ 14-117-14 (96844) इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः॥ 117 ॥
आश्वमेधिकपर्व - अध्याय 118

॥ श्रीः ॥

14.118. अध्यायः 118

Mahabharata - Ashvamedhika Parva - Chapter Topics

कृष्णेन युधिष्ठिरंप्रति पालाशविधिप्रकारकथनम्॥ 1 ॥ तथा तीर्थाटनासमर्थानां तत्प्रतिनिधितीर्थानुवर्णनम्॥ 2 ॥ तथा भगवद्भक्तलक्षणकथनपूर्वकं तत्प्रशंसनम्॥ 3 ॥ तता स्वस्य सर्वोत्तमत्वकथनपूर्वकं स्वोक्तध्रमश्रवणस्य फलकथनम्॥ 4 ॥ ततो युधिष्ठिराद्यामन्त्रपूर्वकं दारुकोपनीतरथारोहणेन द्वारकांप्रति गमनम्॥ 5 ॥

Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच। देशान्तरगते विप्रे संयुक्ते कालधर्मणा। शरीरनाशे संप्राप्ते कथं प्रेतत्वकल्पना॥ 14-118-1 (96845) भगवानुवाच। 14-118-2x (8017) श्रूयतामाहिताग्नेस्तु तथाभूतस्य संस्क्रिया। पालाशबृन्दैः प्रतिमा कर्तव्या कल्पचोदिता॥ 14-118-2 (96846) त्रीणि षष्टिशतान्याहुरस्थीन्यस्य युधिष्ठिर। तेषां विकल्पना कार्या यथाशास्त्रं विनिश्चितम्॥ 14-118-3 (96847) अशीत्यर्धं शिरसि च ग्रीवायां दश एव च। बाह्वोश्चापि शतं दद्यादङ्गुलीषु पुनर्दश॥ 14-118-4 (96848) उरसि त्रिंशतं दद्याज्जठरे वाऽपि विंशतिम्। वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धमेव च॥ 14-118-5 (96849) दद्यात्तु शतमूर्वोस्तु षष्ट्यर्थं जानुजङ्घयोः। दश दद्याच्चरणयोरेषा प्रेतस्य निष्कृतिः॥ 14-118-6 (96850) युधिष्ठिर उवाच। 14-118-7x (8018) विशेषतीर्थं सर्वेषामशक्तानामनुग्रहात्। भक्तानां तारणार्तं तु वक्तुमर्हसि धर्मतः॥ 14-118-7 (96851) भगवानुवाच। 14-118-8x (8019) पावनं सर्वतीर्थानां सत्यं गायन्ति सामगाः। सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते॥ 14-118-8 (96852) तपस्तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर। अल्पसंतोषकं तीर्थं नारी तीर्थं पतिव्रता॥ 14-118-9 (96853) संतुष्टो ब्राह्मणस्तीर्थं ज्ञानं वा तीर्थमुच्यते। मद्भक्तः सततं तीर्थं शङ्करस्य विशेषतः॥ 14-118-10 (96854) यतयस्तीर्थमित्येवं विद्वांसस्तीर्थमुच्यते। शरण्यपुरुषस्तीर्थमभयं तीर्थमुच्यते॥ 14-118-11 (96855) त्रैलोक्येऽस्मिन्निरुद्विग्नो न बिभेमि कुतश्चन। न दिवा यदि वा रात्रावुद्वेगः शूद्रलङ्घनात्॥ 14-118-12 (96856) न भयं देवदैत्येभ्यो रक्षोभ्यश्चैव मे नृप। शूद्रवक्त्राच्च्युतं ब्रह्म भयं तु मम सर्वदा॥ 14-118-13 (96857) तस्मात्सप्रणवं शूद्रो मन्नामापि न कीर्तयेत्। प्रणवं हि परं लोके ब्रह्म ब्रह्मविदो विदुः॥ 14-118-14 (96858) द्विजशुश्रूषणं धर्मः शूद्राणां भक्तितो मयि। तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा॥ 14-118-15 (96859) द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति। द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः॥ 14-118-16 (96860) रागो द्वेषश्च मोहश्च पारुष्यं चानृशंसता। शाठ्यं च दीर्घवैरित्वमतिमानमनार्जवम्॥ 14-118-17 (96861) अनृतं चापवादं च पैशुन्यमतिलोभता। हिंसा स्तेयो मृषावादो वञ्चना रोषलोभता॥ 14-118-18 (96862) अबुद्धिता च नास्तिक्यं भयमालस्यमेव च। अशौचं चाकृतज्ञत्वं डंभता स्तंभ एव च। निकृतिश्चाप्यविज्ञानं जातके शूद्रमाविशेत्॥ 14-118-19 (96863) सृष्ट्वा पितामहः शूद्रमभिभूतं तु तामसैः। द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान्। नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः॥ 14-118-20 (96864) पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः॥ 14-118-21 (96865) अग्रजो वाऽपि यः कश्चित्सर्वपापसमन्वितः। यदि मां सततं ध्यायेत्सर्वपापैः प्रमुच्यते॥ 14-118-22 (96866) विद्याविनयसंपन्ना ब्राह्मणा वेदपारगाः। मयि भक्ति न कुर्वन्ति चण्डालसदृशा हि ते॥ 14-118-23 (96867) वृथा दानं वृथा तप्तं वृथा चेष्टं वृथा हुतम्। वृथाऽऽतिथ्यं च तत्तस्य यो न भक्तो मम द्विजः॥ 14-118-24 (96868) यत्कृतं च हुतं चापि यदिष्टं दत्तमेव च। अभक्तिमत्कृतं सर्वं राक्षसा एव भुञ्जते॥ 14-118-25 (96869) स्थावरे जङ्गमे वाऽपि सर्वभूतेषु पाण्डव। समत्वेन यदा कुर्यान्मद्भक्तो मित्रशत्रुषु॥ 14-118-26 (96870) आनृशंस्यमहिंसा च यथा सत्यं तथाऽऽर्जवम्। अद्रोहश्चैव भूतानां मद्गतानां व्रतं नृप॥ 14-118-27 (96871) नम इत्येव यो ब्रूयान्मद्भक्तं श्रुद्धयाऽन्वितः। तस्याक्षयाऽभवँल्लोकाः श्वपाकस्यापि पार्थिव॥ 14-118-28 (96872) किं पुनर्ये यजन्ते मां सदारं विधिपूर्वकम्। मद्भक्ता मद्गतप्राणाः कथयन्तश्च मां सदा॥ 14-118-29 (96873) बहुवर्षसहस्राणि तपस्तप्यति यो नरः। नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते॥ 14-118-30 (96874) मामेव तस्माद्राजेन्द्र ध्यायन्नित्यमतन्द्रितः। अवाप्स्यति ततः सिद्धिं द्रक्ष्यत्येव परं पदम्॥ 14-118-31 (96875) अपार्थकं प्रभाषन्तः शूद्रा भागवता इति। न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः॥ 14-118-32 (96876) द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित्। अच्छिद्रपञ्चकालज्ञः स वै भागवतः स्मृतः॥ 14-118-33 (96877) ऋग्वेदेनैव होता च यजुषाऽध्वर्युरेव च। सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम्॥ 14-118-34 (96878) अथर्वशिरसा चैव नित्यमाथर्वाणा द्विजाः। स्तुवन्ति सततं ये मां ते वै भागवताः स्मृताः॥ 14-118-35 (96879) वेदाधीनाः सदा यज्ञा यज्ञाधीनास्तु देवताः। देवता ब्राह्मणाधीनास्तस्माद्विप्रास्तु देवताः॥ 14-118-36 (96880) अनाश्रित्योच्छ्रयं नास्ति मुख्यमानश्रयमाश्रयेत्। रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः॥ 14-118-37 (96881) ब्रह्मा मामाश्रितो राजन्नाहं कंचिदुपाश्रितः। ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम्॥ 14-118-38 (96882) एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम्। धर्मप्रियस्य ते नित्यं राजन्नेवं समाचर॥ 14-118-39 (96883) इदं पवित्रमाख्यानं पुण्यं वेदेन संमितम्। यः पठेन्मामकं धर्ममहन्यहनि पाण्डव॥ 14-118-40 (96884) धर्मोति वर्धते तस्य बुद्धिश्चापि प्रसीदति। पापक्षयमुपेत्यैवं कल्याणं च विवर्धते॥ 14-118-41 (96885) एतत्पुण्यं पवित्रं च पामनाशनमुत्तमम्। श्रोतव्यं श्रद्धया युक्तैः श्रोत्रियैश्च विशेषतः॥ 14-118-42 (96886) श्रावयेद्यस्त्विदं भक्त्या प्रयतोथ शृणोति वा। स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा॥ 14-118-43 (96887) यश्चेमं श्रावयेच्छ्राद्धे मद्भक्तो मत्परायणः। पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम्॥ 14-118-44 (96888) वैशम्पायन उवाच। 14-118-45x (8020) श्रुत्वा भागवतान्धर्मान्साक्षाद्विष्णोर्जगद्गुरोः। प्रहृष्टमनसो भूत्वा चिन्तयन्तोद्भुताः कथाः॥ 14-118-45 (96889) ऋषय पाण्डवाश्चैव प्रणेमुस्तं जनार्दनम्। पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः॥ 14-118-46 (96890) देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस्तथा। ऋषयस्च महात्मानो गुह्यका भुजगास्तता॥ 14-118-47 (96891) वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः। तथा भागवताश्चापि पञ्चकालमुपासकाः॥ 14-118-48 (96892) कौतूहलसमायुक्ता भगवद्भक्तिमागताः। श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम्॥ 14-118-49 (96893) विमुक्तपापाः पूतास्ते संवृत्तास्तत्क्षणेन् तु। प्रणम्य शिरसा विष्णु प्रतिनन्द्य च ताः कथाः॥ 14-118-50 (96894) द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम्। इति प्रहृष्टमनसो ययुर्देवगणैः सह। सर्वे ऋषिगणा राजन्ययुः स्वंस्वं निवेशनम्॥ 14-118-51 (96895) गतेषु तेषु सर्वेषु केशवः केशिहा हरिः। सस्मार दारुकं राजन्स च सात्यकिना सह। समीपस्थोऽभवत्सूतो याहि देवेति चाब्रवीत्॥ 14-118-52 (96896) ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम्। अञ्जलिं मूर्ध्नि संधाय नेत्रैरश्रुपरिप्लुतैः। पिबन्तः सततं कृष्णं नोचुरार्ततरास्तदा॥ 14-118-53 (96897) कृष्णोपि भगवान्देवः पृथामामन्त्र्य चार्तवत्। धृतराष्ट्रं च गान्धारीं विगदुरं द्रौपदीं तथा॥ 14-118-54 (96898) कृष्णद्वैपायनं व्यासमृषीनन्यांस्च मन्त्रिणः। सुभद्रामात्मजयुतामुत्तरां स्पृश्य पाणिना। निर्गत्य वेश्मनस्तस्मादारुरोह तदा रथम्॥ 14-118-55 (96899) वाजिभिः शैव्यसुग्रीवमेघपुष्पबलाहकैः। युक्तं तु ध्वजभूतेन पतगेन्द्रेण धीमता॥ 14-118-56 (96900) अन्वारुरोह चाप्येन प्रेम्या राजा युधिष्ठिरः। अपास्य चाशु यन्तारं दारुकं सूतसत्तमम्। अभीशून्प्रतिजग्राह स्वयं कुरुपतिस्तदा॥ 14-118-57 (96901) उपारुह्यार्जुनश्चापि चामरव्यजनं शुभम्। रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम्॥ 14-118-58 (96902) तथैव भीमसेनोपि रथमारुह्य वीर्यवान्। छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्॥ 14-118-59 (96903) वैडूर्यमणिदण़्डं च चामीकरविभूषितम्। दधार तरसा भीमश्छत्रं तच्छार्ङ्गधन्वनः॥ 14-118-60 (96904) उपारुह्य रथं शीघ्रं चामरव्यजने सिते। नकुलः सहदेवश्च धूयमानौ जनार्दनम्॥ 14-118-61 (96905) भीमसेनोऽर्जुनश्चैव यमावप्यरिसूदनौ। पृष्ठतोऽनुययुः कृष्णं माशब्द इति हर्षिताः॥ 14-118-62 (96906) त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान्। विसृज्य कृष्णस्तान्सर्वान्प्रणतान्द्वारका ययौ॥ 14-118-63 (96907) तथा प्रणम्य गोविन्दं तदाप्रभृति पाण्डवाः। कपिलाद्यानि दानानि ददुर्धर्मपरायणाः॥ 14-118-64 (96908) मधुसूदनवाक्यानि स्मृत्वास्मृत्वा पुनःपुनः। मनसा पूजयामासुर्हदयस्थानि पाण्डवाः॥ 14-118-65 (96909) युधिष्ठिरस्तु धर्मात्मा हृदि कृत्वा जनार्दनम्। तद्भक्तस्तन्मना युक्तस्तद्याजी तत्परोऽभवत्॥ 14-118-66 (96910) एवमुक्तं पुरावृत्तं वैष्णवं धर्मशासनम्। मया ते कथितं राजन्पिवित्रं पापनाशनम्॥ 14-118-67 (96911) तच्छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह। तेन गच्छसि नान्येन तद्विष्णोः परमं पदम्॥ ॥ 14-118-68 (96912) इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि अष्टादशाधिकशततमोऽध्यायः॥ 118 ॥ । इत्याश्वमेधिकपर्व समाप्तम्॥ -------- इतः परमाश्रमवासिकपर्व भविष्यति। तस्यायमाद्यः श्लोकः। जनमेजय उवाच। प्राप्य पैतामहं राज्यं मम पूर्वपितामहाः। कथमासन्महाराजे धृतराष्ट्रे महात्मनि॥ 1 ॥ इत्याश्वमेधिकपर्व कुंभघोणस्येन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1832 सन 1910.


AUM shantiH