Kumbhaghonam Edition
17. महाप्रस्थानिकपर्व
महाप्रस्थानिकपर्व - अध्याय 001
॥ श्रीः ॥
17.1. अध्यायः 001
Mahabharata - Mahaprasthanika Parva - Chapter Topics
भ्रातृभिर्द्रौपद्या च सह स्वर्गे जिगमिषुणा युधिष्ठिरेण युयुत्सौ राज्यभारनिवेशनपूर्वकं परिक्षितो राज्येऽभिषेचनम्॥ 1 ॥ तथा कृच्छ्रात्पौरानुमतिसंपादनेन वल्कलधारणादिपूर्वकं शुना सह गृहात्प्रस्थानम्॥ 2 ॥ अर्जुनेन मध्येमार्गमग्निवचसा सनिषङ्गस्य गाण्डीवस्य वरुणोद्देशेन समुद्रे प्रक्षेपणम्॥ 3 ॥Mahabharata - Mahaprasthanika Parva - Chapter Text
श्रीवेदव्यासाय नमः।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 17-1-1 (98316)
जनमेजय उवाच। 17-1-1x (8075)
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्।
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते॥ 17-1-1 (98317)
वैशम्पायन उवाच। 17-1-2x (8076)
श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत्।
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत्॥ 17-1-2 (98318)
कालः पचति भतानि सर्वाण्येव महामते।
कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि॥ 17-1-3 (98319)
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन्।
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य धीमतः॥ 17-1-4 (98320)
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा।
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना॥ 17-1-5 (98321)
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया।
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः॥ 17-1-6 (98322)
अभिंषिच्य स्वराज्ये च राजानं च परिक्षितम्।
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः॥ 17-1-7 (98323)
एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति।
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह॥ 17-1-8 (98324)
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः।
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः॥ 17-1-9 (98325)
इत्युक्त्वा धर्मराजाः स वासुदेवस्य धीमतः।
मातुलस्य च वृद्धस्य रामदीनां तथैव च॥ 17-1-10 (98326)
भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः।
श्राद्धान्यद्दिश्य सर्वेषां चकार विदिवत्तदा॥ 17-1-11 (98327)
द्वैपायनं नारदं च मार्कण्डेयं तपोधनम्।
भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान्।
अभोजयत्स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणं॥ 17-1-12 (98328)
ददौ रत्नानि वासांसि ग्रामानश्वान्रथांस्तथा।
स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः॥ 17-1-13 (98329)
कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम्।
`आहूय भरतश्रेष्ठ संनिवेश्यासने तदा।'
शिष्यं परिक्षितं तस्मै तदौ भरतसत्तमः॥ 17-1-14 (98330)
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः।
सर्वमाचष्ट राजर्षिकीर्षितमथात्मनः॥ 17-1-15 (98331)
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः।
भृशमुद्विग्रमनसो नाभ्यनन्दन्त तद्वचः॥ 17-1-16 (98332)
नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम्।
न च राजा तथाऽकार्षीत्कालपर्यायधर्मिवित्॥ 17-1-17 (98333)
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम्।
गमनाय मतिं चक्रे कृष्णस्य गमनादपि॥ 17-1-18 (98334)
`वर्तमाने विवादे तु वास्तुविक्रयिणं प्रति।
धनेच्छा युगपत्प्राप्ता क्षेत्रतस्वामिभूभृताम्॥ 17-1-19 (98335)
प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्निव।
राज्ञस्तु कथयामास धर्मो नष्टस्तु सङ्करः॥ 17-1-20 (98336)
श्रुत्वा तु दुर्मना राजा पर्याप्तं जीवनं मम।'
इति स्म राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः।
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत॥ 17-1-21 (98337)
भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी।
तथैव जगृहुः सर्वे वल्कलानि नराधिप॥ 17-1-22 (98338)
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ।
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः॥ 17-1-23 (98339)
ततः प्ररुरुदुः सर्वाः स्त्रिंयो दृष्ट्वा नरोत्तमान्।
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा॥ 17-1-24 (98340)
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति।
युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च। 17-1-25 (98341)
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः।
आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात्।
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा॥ 17-1-26 (98342)
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम्।
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः॥ 17-1-27 (98343)
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन्।
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा॥ 17-1-28 (98344)
चित्राङ्गदा ययौ चापि मणलूरपुरं प्रति।
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन्॥ 17-1-29 (98345)
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी।
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः॥ 17-1-30 (98346)
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः।
अभिजग्मुर्बहून्देसान्सरितः सागरांस्तथा॥ 17-1-31 (98347)
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम्।
अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम॥ 17-1-32 (98348)
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा।
द्रौपदी योषितांश्रेष्ठा ययौ भरतसत्तम। 17-1-33 (98349)
श्वा चैवानुयायावेकः प्रस्थितान्पाण्डवान्वनम्।
क्रमेणि ते ययुर्वीरा लौहित्यं सलिलार्णवम्॥ 17-1-34 (98350)
गाण्डीवं तु धनुर्दिव्यं न मुमोच धनंजयः।
रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी॥ 17-1-35 (98351)
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः।
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम्॥ 17-1-36 (98352)
ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत्।
भोभो पाण्डुसुता वीराः पावकं मां निबोधत॥ 17-1-37 (98353)
युधिष्ठिर महाबाहो भीमसेन परंतप।
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम॥ 17-1-38 (98354)
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम्।
अर्जुनस्य प्रभावेन तथा नारायणस्य च॥ 17-1-39 (98355)
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम्।
परित्यज्य वने यातु नानेनार्थोस्ति कश्चन॥ 17-1-40 (98356)
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि।
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह॥ 17-1-41 (98357)
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात्।
गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम्॥ 17-1-42 (98358)
ततस्ते भ्रातरः सर्वे धनंजयमचोदयन्।
स जले प्राक्षिपच्चैतत्तथाऽक्षय्ये महेषुधी॥ 17-1-43 (98359)
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत।
ययुस्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः॥ 17-1-44 (98360)
ततस्ते तूत्तरेणैव तीरेण लवणांभसः।
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम्॥ 17-1-45 (98361)
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते।
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम्॥ 17-1-46 (98362)
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः।
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः॥ ॥ 17-1-47 (98363)
इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - Mahaprasthanika Parva - Chapter Footnotes
7-1-2 प्रस्थाने स्वर्गं गन्तुं गृहान्निःसरणे॥ 7-1-3 पाशं तत्कृतमाकर्षं मरणमितियावत्। तदहं मन्ये अङ्गीकरोमि। त्वमप्येतद्द्रष्टुमालोचितुम्॥ 7-1-5 कालः काल इति नित्यार्थे द्वित्वम्। अपरिहार्यः कालो मृत्युः सोऽद्यैवास्तु किं चिरेणेत्याशयः॥ 7-1-6 धर्मकाम्यया प्रवजन्नतूद्वेगेन। परिददौ तदधीनं कृतवान्। तस्याभिषेकेऽनधिकारात्॥ 7-1-7 स्वराज्ये हास्तिनपुरे॥ 7-1-9 अधर्मे परिक्षिद्वज्रयोर्बालयोररक्षणजे। महाप्रस्थानमियं मा कुर्यादिति भावः॥ 7-1-13 स्त्रियो दासीः॥ 7-1-18 अनुमान्यानुमतिप्रदं कृत्वा॥ 7-1-23 नैष्ठिकीं पार्यन्तिकीं उत्सर्गेष्टिमित्यर्थः। आत्मन्यग्नीन्समारोप्याप्स्वग्नीनुत्सृज्येति ज्ञेयम्॥ 7-1-29 अन्या युधिष्ठिरादीनां भार्याः श्रउतसोमादीनां मातरः॥ 7-1-34 लौहित्यं उदयाचलप्रान्तस्थं समुद्रम॥ 7-1-40 अनेन गाण्डीवेन। अर्थः प्रयोजनम्॥ 7-1-41 कालेन अवतारान्तरे॥महाप्रस्थानिकपर्व - अध्याय 002
॥ श्रीः ॥
17.2. अध्यायः 002
Mahabharata - Mahaprasthanika Parva - Chapter Topics
मेरुगिरिंप्रति गच्छन्तं युधिष्ठिरं ज्येष्ठ्यक्रमादनुगच्छत्सु दौपद्यादिषु योगभ्रंशात्क्रमेण भूमौ निपतत्सु भीमप्रश्नात्तं प्रति युधिष्ठिरेण तेषां पतने हेतुकथनम्॥ 1 ॥ तथा ततः शुना केवलमनुगम्यमानेन सता पुरोगमनम्॥ 2 ॥Mahabharata - Mahaprasthanika Parva - Chapter Text
वैशम्पायन उवाच।
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः।
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम्॥ 17-2-1 (98364)
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम्।
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम्॥ 17-2-2 (98365)
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधार्मिणाम्।
याज्ञसेनी भ्रष्टयोगा निपपात महीतले॥ 17-2-3 (98366)
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः।
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह॥ 17-2-4 (98367)
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप।
कारणं किंनु तद्ब्रूहि यत्कृष्णा पतिता भुवि॥ 17-2-5 (98368)
युधिष्ठिर उवाच। 17-2-6x (8077)
पक्षपातो महानस्या विशेषेण धनंजये।
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम॥ 17-2-6 (98369)
वैशम्पायन उवाच। 17-2-7x (8078)
एवमुक्त्वाऽनवेक्ष्यैनां ययौ भरतसत्तमः।
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः॥ 17-2-7 (98370)
सहदेवस्ततो विद्वान्निपपात महीतले।
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत्॥ 17-2-8 (98371)
योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः।
सोयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि॥ 17-2-9 (98372)
युधिष्ठिर उवाच। 17-2-10x (8079)
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन।
तेन दोषेण पतितो विद्वानेष नृपात्मजः॥ 17-2-10 (98373)
वैशम्पायन उवाच। 17-2-11x (8080)
इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा।
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः॥ 17-2-11 (98374)
कृष्णं निपतितां दृष्ट्वा सहदेवं च पाण्डवम्।
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह॥ 17-2-12 (98375)
तस्मिन्निपतिते वीरे नकुले चारुदर्शने।
पुनरेव तदा भीमो राजानमिदमब्रवीत्॥ 17-2-13 (98376)
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः।
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि॥ 17-2-14 (98377)
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः।
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतांवरः॥ 17-2-15 (98378)
रूपेणि मत्समो नास्ति कश्चिदित्यस्य दर्शनम्।
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम्॥ 17-2-16 (98379)
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर।
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते॥ 17-2-17 (98380)
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः।
पपात शोकसंतप्तस्ततोनु परवीरहा॥ 17-2-18 (98381)
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि।
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत्॥ 17-2-19 (98382)
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः।
अथ कस्य विकारोऽयं येनायं पतितो भुवि॥ 17-2-20 (98383)
युधिष्ठिर उवाच। 17-2-21x (8081)
एकोहं निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत्।
न च तत्कृतवानेष शूरमानी ततोपतत्॥ 17-2-21 (98384)
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः।
तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता॥ 17-2-22 (98385)
वैशम्पायन उवाच। 17-2-23x (8082)
इत्युक्त्वा प्रस्थितो राजा भीमोथ निपपात ह।
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम्॥ 17-2-23 (98386)
भोभो राजन्नवेक्षस्व पतितोहं प्रियस्तव।
किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह॥ 17-2-24 (98387)
युधिष्ठिर उवाच। 17-2-25x (8083)
अतिभुक्तं च भवता प्राणेन च विकत्थसे।
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ॥ 17-2-25 (98388)
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन्।
श्वाप्येकोनुययौ यस्ते बहुशः कीर्तितो मया॥ ॥ 17-2-26 (98389)
इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि द्वितीयोऽध्यायः॥ 2 ॥
Mahabharata - Mahaprasthanika Parva - Chapter Footnotes
7-2-1 ततो दिक्त्रयप्रदक्षिणीकरणानन्तरम्। योगयुक्ताः समाहितमनसः॥ 7-2-3 भ्रष्टयोगा ध्यानात् स्खलितमानसा॥ 7-2-7 अनवेक्ष्य स्वर्गान्तरायरूपः स्नेहो माभूदिति भावः॥महाप्रस्थानिकपर्व - अध्याय 003
॥ श्रीः ॥
17.3. अध्यायः 003
Mahabharata - Mahaprasthanika Parva - Chapter Topics
शुना सह गच्छन्तं युधिष्ठिरं प्रति इन्द्रेण स्वर्गगमनाय निजरतारोहणचोदना॥ 1 ॥ युधिष्ठिरे शुना विना रथारोहणमरोचयमाने यमेन निजस्वरूपप्रकाशनेन तत्प्रशंसनम्॥ 2 ॥ ततो यमेन्द्रादिभी रथेन स्वर्गं प्रापितेन युधिष्ठिरेण तत्र भीमाद्यदर्शनादिन्द्रंप्रति भ्रात्रादीन्विना स्वस्य स्वर्गेप्यनभिरुचिकथनपूर्वकं तत्समीपगमनेच्छानिवेदनम्॥ 3 ॥Mahabharata - Mahaprasthanika Parva - Chapter Text
वैशम्पायन उवाच।
ततः सन्नादयञ्शक्रो दिवं भूमिं च सर्वशः।
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम्॥ 17-3-1 (98390)
स्वभ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः।
अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः॥ 17-3-2 (98391)
भ्रातरः पतिता मेऽत्र गच्छेयुस्ते मया सह।
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर॥ 17-3-3 (98392)
सुकुमारी सुखार्हा च राजपुत्री पुरंदर।
साऽस्माभिः सह गच्छेत तद्भवाननुमन्यताम्॥ 17-3-4 (98393)
शक्र उवाच। 17-3-5x (8084)
भ्रातॄन्द्रक्ष्यसि स्वर्गे त्वमग्रतस्त्रिदिवं गतान्।
कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ॥ 17-3-5 (98394)
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ।
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः॥ 17-3-6 (98395)
युधिष्ठिर उवाच। 17-3-7x (8085)
अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह।
स गच्छेत मया सार्धमानृशंस्या हि मे मतिः॥ 17-3-7 (98396)
शक्र उवाच। 17-3-8x (8086)
अमर्त्यत्वं मत्समत्वं च राज-
ञ्श्रियं कृत्स्नां महतीं चैव सिद्धिम्।
संप्राप्तोद्य स्वर्गसुखानि च त्वं
त्यज श्वानं नात्र नृशंसमस्ति॥ 17-3-8 (98397)
युधिष्ठिर उवाच। 17-3-9x (8087)
अनार्यमार्येणि सहस्रनेत्र
शक्यं कर्तुं दुष्करमेतदार्य।
मा मे श्रिया सङ्गमनं तयाऽस्तु
यस्याः कृते भक्तजनं त्यजेयम्॥ 17-3-9 (98398)
इन्द्र उवाच। 17-3-10x (8088)
स्वर्गे लोके श्ववतां नास्ति धिष्ण्य-
मिष्टापूर्तं क्रोधवशा हरन्ति।
ततो विचार्यि क्रियतां धर्मराज
त्यज श्वानं नात्र नृशंसमस्ति। 17-3-10 (98399)
युधिष्ठिर उवाच। 17-3-11x (8089)
भक्तत्यागं प्राहुरत्यन्तपापं
तुल्यं लोके ब्रह्मवध्याकृतेन।
तस्मान्नाहं जातु कथञ्चनाद्य
त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्रः॥ 17-3-11 (98400)
भीतं भक्तं नान्यदस्तीति चार्तं
प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम्।
प्राणत्यागादप्यहं नैव मोक्तुं
यतेयं वै नित्यमेतद्व्रतं मे॥ 17-3-12 (98401)
इन्द्र उवाच। 17-3-13x (8090)
शुना दृष्टं क्रोधवशा हरन्ति
यद्दत्तमिष्टं विवृतमथो हुतं च।
तस्माच्छुनस्त्यागमिमं कुरुष्व
शुनस्त्यागात्प्राप्स्यसे देवलोकम्॥ 17-3-13 (98402)
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां
प्राप्तो लोकः कर्मणा स्वेन वीर।
श्वानं चैनं न त्यजसे कथं नु
त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य॥ 17-3-14 (98403)
युधिष्ठिर उवाच। 17-3-15x (8091)
न विद्यते संधिरथापि विग्रहो
मृतैर्मर्त्यैरिति लोकेषु निष्ठा।
न ते मया जीवयितुं हि शक्या-
स्ततस्त्यागस्तेषु कृतो न जीवताम्॥ 17-3-15 (98404)
प्रतिप्रदानं शरणागतस्य
स्त्रिया वधो ब्राह्मणस्वापहारः।
मित्रद्रोहस्तानि चत्वारि शक्र
भक्तत्यागश्चैव समो मतो मे॥ 17-3-16 (98405)
वैशम्पायन उवाच। 17-3-17x (8092)
तद्धर्मराजस्य वचो निशम्य
धर्मस्वरूपी भगवानुवाच।
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं
श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः॥ 17-3-17 (98406)
अभिजातोसि राजेन्द्र पितुर्वृत्तेन मेधया।
अनुक्रोशेनि चानेन सर्वभूतेषु भारत॥ 17-3-18 (98407)
पुरा द्वैतवने चासि मया पुत्र परीक्षितः।
पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः॥ 17-3-19 (98408)
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ।
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि॥ 17-3-20 (98409)
अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया।
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः॥ 17-3-21 (98410)
अतस्तवाक्षया लोकाः स्वशरीरेण भारत।
प्राप्तोसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम्॥ 17-3-22 (98411)
वैशम्पायन उवाच। 17-3-23x (8093)
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि।
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम्॥ 17-3-23 (98412)
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः।
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः॥ 17-3-24 (98413)
स तं रथं समास्थाय राजा कुरुकुलोद्वहः।
ऊर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्यरोदसी॥ 17-3-25 (98414)
ततो देवनिकाय्यस्थो नारदः सर्वलोकवित्।
उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः॥ 17-3-26 (98415)
येऽपि राजर्षयः पूर्वे ते चापि समुपस्थिताः।
कीति प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति॥ 17-3-27 (98416)
लोकानावृत्य यशसा तेजसा वृत्तसंपदा।
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रम पाण्डवात्॥ 17-3-28 (98417)
तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो।
वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः॥ 17-3-29 (98418)
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत्।
भ्रातॄनपश्यन्धर्मात्मा स्वपक्षांश्चैव पार्थिवान्॥ 17-3-30 (98419)
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे।
तदेव प्राप्तुमिच्छामि लोकान्यान्न कामये॥ 17-3-31 (98420)
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः।
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम्॥ 17-3-32 (98421)
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः।
किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि॥ 17-3-33 (98422)
सिद्धिं प्राप्तोसि परमां यता नान्यः पुमान्क्वचित्।
नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन॥ 17-3-34 (98423)
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप।
स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान्॥ 17-3-35 (98424)
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम्।
पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत्॥ 17-3-36 (98425)
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण।
गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः॥ 17-3-37 (98426)
यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता।
द्रौपदी योषितांश्रेष्ठा यत्र चैव सुता मम॥ ॥ 17-3-38 (98427)
इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि तृतीयोऽध्यायः॥ 3 ॥ महाप्रस्थानिकं पर्वं समाप्तम्॥ 17 ॥
------------
अतः परं स्वर्गारोहणपर्वः तस्यायमाद्यः श्लोकः। जनमेजय उवाच। स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः। पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे॥ 1 ॥ इदं महाप्रस्थानिकं पर्व कुंभघोणस्येन टी.आर्. कृष्णमाचार्येण टी.आर्. व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1832 सन 1910.