||२. सभापर्व
||
सभापर्व -अध्याय ००१
||श्रीः ||
२. १. अध्यायः १
Mahabharata -Sabha Parva -Chapter Topics
मयस्यार्जुनम्प्रति प्रत्युपकारप्रार्थना ||१. . कृष्णे उपकृते
अहमुपकृत मयम्प्रति अर्जुनस्योक्तिः ||२. . कृष्णाज्ञय मयेन
सभानिर्माणारम्भः ||३. .
Mahabharata -Sabha Parva -Chapter Text
२-१-० (११२५५)
||श्रीवेदव्यासाय नमः ||२-१-०क्ष् (१३७३)
' नारायणं नमस्कृत्य नरं चैव नरोत्तमम्.
देवीं सरस्वतीं चैव (व्यासं) ततो जयमुदीरयेत् ||२-१-१ (११२५६)
जनमेजय उवाच. २-१-२क्ष् (१३७४)
अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा.
किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम ||२-१-२ (११२५७)
वैशम्पायन उवाच. २-१-३क्ष् (१३७५)
शृणु राजन्नवहितश्चरितं पूर्वकस्य ते.
मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः ||२-१-३ (११२५८)
गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ.
दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि ||२-१-४ (११२५९)
रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान्.
एतानि पावकात्प्राप्य मुदा परमया युतः.
तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः' ||२-१-५ (११२६०)
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ.
' पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन्' ||२-१-६ (११२६१)
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः. २-१-७ (११२६२)
मय उवाच.
अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः ||२-१-७क्ष् (१३७६)
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते.
' अहं हि विश्वकर्मा वै असुराणां परन्तप ||२-१-८ (११२६३)
तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम् ||२-१-९ (११२६४)
वैशम्पायन उवाच. २-१-१०क्ष् (१३७७)
एवमुक्तो महावीर्यः पार्थो मायाविदं मयम्.
ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत्' ||२-१-१० (११२६५)
कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर.
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ||२-१-११ (११२६६)
प्रोपकारादर्थं हि नादास्यामीति मे व्रतम्' . २-१-१२ (११२६७)
उवाच.
युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ ||२-१-१२क्ष् (१३७८)
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन.
अहं हि विश्वकर्मा वै दानवानां महाकविः ||२-१-१३ (११२६८)
' सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव.
' दानवानां पुरा पार्थ प्रासादा हि मया कृताः ||२-१-१४ (११२६९)
रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः.
उद्यानानि च रम्याणि सरांसि विविधानि च ||२-१-१५ (११२७०)
विचित्राणि च वस्त्राणि कामगानि रथानि च.
नगराणि विशालानि साट्टप्राकारवन्ति च ||२-१-१६ (११२७१)
वाहनानि च मुख्यानि विचित्राणि सहस्रशः.
बिलानि रमणीयानि सुखयुक्तानि वै भृशम्.
एते कृता मया तस्मादिच्छामि फल्गुन' ||२-१-१७ (११२७२)
अर्जुन उवाच. २-१-१८क्ष् (१३७९)
प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया.
एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया ||२-१-१८ (११२७३)
न चापि तव सङ्कल्पं मोघमिच्छामि दानव.
कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि ||२-१-१९ (११२७४)
वैशम्पायन उवाच. २-१-२०क्ष् (१३८०)
चोदितो वासुदेवस्तु मयं प्रति नरर्षभ.
मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति ||२-१-२० (११२७५)
ततो विचिन्त्य मनसा लोकनाथः प्रजापितः.
चोदयामास तं कृष्णः सभा वै क्रियतामिति ||२-१-२१ (११२७६)
यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर.
धर्मराजस्य दयितां यादृशीमिह मन्यसे ||२-१-२२ (११२७७)
यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः.
मनुष्यलोके सकले तादृशीं कुरु वै सभाम् ||२-१-२३ (११२७८)
यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया.
आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम् ||२-१-२४ (११२७९)
वैशम्पायन उवाच. २-१-२५क्ष् (१३८१)
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा.
विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम् ||२-१-२५ (११२८०)
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे.
सर्वमेतत्समावेद्य दर्शयामासतुर्मयम् ||२-१-२६ (११२८१)
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा.
स तु तां प्रतिजग्राह मयः सत्कृत्य भारत ||२-१-२७ (११२८२)
स पूर्वदेवचरितं तदा तत्र विशाम्पते.
कथयामास दैतेयः पाण्डुपुत्रेषु भारत ||२-१-२८ (११२८३)
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु.
सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम् ||२-१-२९ (११२८४)
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः.
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ||२-१-३० (११२८५)
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः.
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ||२-१-३१ (११२८६)
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्.
दशकिष्कुसहस्रां तां मापयामास सर्वतः ||||२-१-३१ (११२८७)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि प्रथमोऽध्यायः ||१. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१-१ सभाओ २-१-२८ पूर्वदेवो वृषपर्वा दानवस्तस्य चरितं
बिन्दुसरसि यज्ञकरणादि ||
सभापर्व -अध्याय ००२
||श्रीः ||
२. २. अध्यायः २
Mahabharata -Sabha Parva -Chapter Topics
द्वारकां गच्छतः श्रीकृष्णस्य युधिष्ठरादिभिः सारत्यादिकरणम्
||१. . अर्धयोजनपर्यन्तं गतानां कृष्णपाण्डवानां परस्परानुज्ञया
स्वस्वपुरगमनम् ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच.
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः.
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः ||२-२-१ (११२८८)
गमनाय मतिं चक्रे पितुर्दर्शनलालसः.
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ||२-२-२ (११२८९)
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः.
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ||२-२-३ (११२९०)
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः.
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः ||२-२-४ (११२९१)
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तरम्.
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ||२-२-५ (११२९२)
तया स्वजनगामीनि श्रावितो वचनानि सः.
सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः ||२-२-६ (११२९३)
तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम्.
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ||२-२-७ (११२९४)
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः.
द्रौपदीं सान्त्वयित्वा च सुभद्रां परिदाय च ||२-२-८ (११२९५)
भ्रातृनभ्यगमद्विद्वान्पार्थेन सहितो बली.
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ||२-२-९ (११२९६)
यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः.
कर्तुकामः शुचिर्भूत्वा स्नातवान्समलङ्कृतः ||२-२-१० (११२९७)
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः.
माल्यजाप्यनमस्कारैर्गन्धैरुच्चावचैरपि ||२-२-११ (११२९८)
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुपां वरः.
उपेत्य स यदुश्रेष्ठो बाह्यकक्षाद्विनिर्गतः ||२-२-१२ (११२९९)
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः.
वसु प्रदाय च ततः प्रदक्षिणमथाकरोत् ||२-२-१३ (११३००)
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्.
गदाचक्रासिशार्ङ्गाद्यैरायुधैरावृतं शुभम् ||२-२-१४ (११३०१)
सुतिथावथ नक्षत्रे मुहूर्ते च गुणान्विते.
प्रययौ पुण्डरीकाक्षः शैब्यसुग्रीववाहनः ||२-२-१५ (११३०२)
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः.
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् ||२-२-१६ (११३०३)
अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा.
उपारुह्यार्जुनश्चाऽपि चामरव्यजनं सितम् ||२-२-१७ (११३०४)
रुक्मदण्डं बृहद्बाहुर्विदुधाव प्रदक्षिणम्.
तथैव भीमसेनोऽपि रथमारुह्य वीर्यवान् ||२-२-१८ (११३०५)
' छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्.
वैडूर्यमणिदण्डं च चामीकरविभूषितम्. २-२-१९ (११३०६)
दधार तरसा भीमः मुच्छत्रं शार्ङ्गधन्वने.
भीमसेनार्जुनौ चापि यमावरिनिषूदनौ' ||२-२-२० (११३०७)
पृष्ठतोऽनुययुः कृष्णमृत्विक्पौरजनैर्वृता.
स तथा भ्रातृभिः सर्वैः केशवः परवीरहा ||२-२-२१ (११३०८)
अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः.
' अभिमन्युं च सौभद्रं वृद्धैः परिवृतस्तथा ||२-२-२२ (११३०९)
रथमारोप्य निर्यातो धौम्यो ब्राह्मणपुङ्गवः.
इन्द्रप्रस्थमतिक्रम्य क्रोशमात्रं महाद्युतिः' .
पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम् ||२-२-२३ (११३१०)
युधिष्ठरं पूजयित्वा भीमसेनं यमौ तथा.
परिष्वक्तो भृशं तैस्तु यमाभ्यामभिवादितः ||२-२-२४ (११३११)
योजनार्धमथो गत्वा कृष्णः परपुरञ्जयः.
युधिष्ठिरं समामन्त्र्य निवर्तस्वेति भारत ||२-२-२५ (११३१२)
ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित्.
उत्थाप्य धर्मराजस्तु मूर्ध्न्युपाघ्राय केशवम् ||२-२-२६ (११३१३)
पाण्डवो यादवश्रेष्ठं कृष्णं कमललोचनम्.
गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः ||२-२-२७ (११३१४)
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः.
निवर्त्य च तथा कृच्छ्रात्पाण्डवान्सपदानुगान् ||२-२-२८ (११३१५)
स्वां पुरीं प्रययौ हृष्टो यथा शक्रोऽमरावतीम् ||
लोचनैरनुजग्मुस्ते तमादृष्टिपथात्तदा ||२-२-२९ (११३१६)
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात्.
अतृप्तमनसामेव तेषां केशवदर्शने ||२-२-३० (११३१७)
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः.
अकामा एव पार्थास्ते गोविन्दगमानसाः ||२-२-३१ (११३१८)
निवृत्योपययुस्तूर्णं स्वं पुरं पुरुषर्षभाः.
स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात् ||२-२-३२ (११३१९)
सात्वतेन च वीरेण पृष्ठतो यायिना तदा.
दारुकेण च सूतेन सहितो देवकीसुतः.
स गतो द्वारकां विष्णुर्गरुत्मानिव वेगवान् ||२-२-३३ (११३२०)
वैशम्पायन उवाच. २-२-३४क्ष् (१३८२)
निवृत्य धर्मराजस्तु सह भ्रातृभिरच्युतः.
सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम् ||२-२-३४ (११३२१)
विसृज्य सुहृदः सर्वान्भ्रातॄन्पुत्रांश्च धर्मराट्.
मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप ||२-२-३५ (११३२२)
केशवोपि मुदा युक्तः प्रविवेश पुरोत्तमम्.
पूज्यमानो यदुश्रेष्ठैरुग्रसेनमुखैस्तथा ||२-२-३६ (११३२३)
आहुकं पितरं वृद्धं मातरं च यशस्विनीम्.
अभिवाद्य बलं चैव स्थितः कमललोचनः ||२-२-३७ (११३२४)
प्रद्युम्नसाम्बनिशठांश्चरुदेष्णं गदं तथा.
अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः ||२-२-३८ (११३२५)
स वृद्धैरभ्यनुज्ञातो रुक्मिण्या भवनं ययौ.
' स तत्र भवने दिव्ये प्रमुमोद सुखी सुखम् ||२-२-३९ (११३२६)
एतस्मिन्नन्तरे राजन्मयो दैत्याधिपस्तदा.
विधिवत्कल्पयामास सभां धर्मसुताय वै ||||२-२-४० (११३२७)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि द्वितीयोऽध्यायः ||२. .
सभापर्व -अध्याय ००३
||श्रीः ||
२. ३. अध्यायः ३
Mahabharata -Sabha Parva -Chapter Topics
सभानिर्माणसामग्र्यानयनाय बिन्दुसरः प्रति मयस्य गमनम्
||१. . गदाशङ्खाभ्यां सह सामग्रीं गृहीत्वा मयस्य
खाण्डवप्रस्थागमनम् ||२. . भीमार्जुनयोः गदाशङ्खदानं
सभानिर्माणं च ||३. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच.
अथाब्रवीन्मयः पार्थमर्युनं जयतां वरम्.
आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम् ||२-३-१ (११३२८)
' विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव.
प्राणिनां विस्मयकरीं तव प्रियविवर्धिनीम्.
पाण्डवानां च सर्वेषां करिष्यामि धनञ्जय' ||२-३-२ (११३२९)
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति.
यियक्षमाणेषु पुरा दानवेषु मया कृतम् ||२-३-३ (११३३०)
चित्रं मणिमयं भाण्डं रम्यं बिन्दुसारः प्रति.
सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः ||२-३-४ (११३३१)
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत.
ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम् ||२-३-५ (११३३२)
मनः प्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम्.
अस्ति बिन्दुसारस्युग्रा गदा च कुरुनन्दन ||२-३-६ (११३३३)
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून्.
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ||२-३-७ (११३३४)
सा वै शतसहस्रस्य सम्मिता शत्रुघातिनी.
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ||२-३-८ (११३३५)
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान्.
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ||२-३-९ (११३३६)
वैशम्पायन उवाच. २-३-१०क्ष् (१३८३)
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीं दिशं गतः.
अथोत्तरेण कैलासान्मैनाकं पर्वतं प्रति ||२-३-१० (११३३७)
हिरण्यशृङ्गः सुमहान्महामणिमयो गिरिः.
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ||२-३-११ (११३३८)
द्रुष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः.
यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना ||२-३-१२ (११३३९)
आहृताः क्रतवो मुख्याः शतं भरतसत्तम.
यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः ||२-३-१३ (११३४०)
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः.
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः ||२-३-१४ (११३४१)
यत्र भूतपतिः सृष्ट्वा सर्वाँल्लोकान्सनातनः.
अपस्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः ||२-३-१५ (११३४२)
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः.
उपासते यत्र परं सहस्रयुगपर्यये ||२-३-१६ (११३४३)
यत्रेष्टं वासुदेवेन सत्त्रैर्वर्षगणान्बहून्.
श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये ||२-३-१७ (११३४४)
सुवर्णमालिनो यूपाश्चैत्याश्चाप्यतिभास्वराः.
ददौ यत्र सहस्राणि प्रयुतानि च केशवः ||२-३-१८ (११३४५)
तत्र गत्वा स जग्राह गदां शङ्खं च भारत.
' तस्माद्गिरेरुपादाय शिलाः सुरुचिरावहाः' .
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ||२-३-१९ (११३४६)
किङ्करैः सह रक्षोभिर्यदरक्षन्महद्धनम्.
तदगृह्णान्मयस्तत्र गत्वा सर्वं महाऽसुरः ||२-३-२० (११३४७)
तदाहृत्य च तां चक्रे सोऽसुरोऽप्रतिमां सभाम्.
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ||२-३-२१ (११३४८)
गदां च भीमसेनाय प्रवरां प्रददौ तदा.
देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमम् ||२-३-२२ (११३४९)
यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे.
' स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य च ||२-३-२३ (११३५०)
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्.
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः ||२-३-२४ (११३५१)
सर्वर्तुगुणसम्पन्नां दिव्यरूपामलङ्कृताम्.
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः.
सभा च सा महाराज शातकुम्भमयद्रुमा ||२-३-२५ (११३५२)
दशकिष्कुसहस्राणि समन्तादायताभवत्.
यथा वह्नेर्यथार्कस्य सोमस्य च यथा सभा ||२-३-२६ (११३५३)
भ्राजमाना तथाऽत्यर्थं दधार परमं वपुः.
अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् ||२-३-२७ (११३५४)
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा.
नवमेघप्रतीकाशा दिवमाकृत्य विष्ठिता.
आयता विपुला रम्या विपाप्मा विगतक्लमा ||२-३-२८ (११३५५)
उत्तमद्रव्यसम्पन्ना रत्नप्राकारतोरणा.
बहुचित्रा बहुधना सुकृता विश्वकर्मणा ||२-३-२९ (११३५६)
न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी.
सभा रूपेण सम्पन्ना यां चक्रे मतिमान्मयः ||२-३-३० (११३५७)
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च.
सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः ||२-३-३१ (११३५८)
अन्तरिक्षचरा घोरा महाकाया महाबलाः.
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ||२-३-३२ (११३५९)
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः.
वैदूर्यपत्रविततां मणिनालमयाम्बुजाम् ||२-३-३३ (११३६०)
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्.
पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः.
चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम् ||२-३-३४ (११३६१)
मन्दानिलसमुद्धूतां मुक्ताबिन्दुभिराचिताम्.
महामणिशिलापट्टबद्धपर्यन्तवेदिकाम् ||२-३-३५ (११३६२)
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः.
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ||२-३-३६ (११३६३)
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः.
आसन्नानाविधा लोलाः शीतच्छाया मनोरमाः ||२-३-३७ (११३६४)
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः.
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः ||२-३-३८ (११३६५)
जलजानां च पद्मानां स्थलजानां च सर्वशः.
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ||२-३-३९ (११३६६)
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः.
निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत् ||||२-३-४० (११३६७)
इति श्रीमन्महाभारते सभापर्वणि तृतीयोऽध्यायः ||३. .
सभापर्व -अध्याय ००४
||श्रीः ||
२. ४. अध्यायः ४
Mahabharata -Sabha Parva -Chapter Topics
ब्राह्मणान्भोजयित्वा युधिष्ठिरस्य सभाप्रवेशः ||१. . ऋषीणां
क्षत्रियाणां देवगन्धर्वादीनां च तत्रोपवेशनम् ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
' तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत्.
भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः ||२-४-१ (११३६८)
तव विष्फारघोषेण मेघवन्निनदिष्यति.
अयं हि सूर्यसङ्काशो ज्वलनस्य रथो महान् ||२. . २-४-२ (११३६९)
इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः.
मायामयः कृतो ह्येष ध्वजो वानरलक्षणः ||२-४-३ (११३७०)
असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः.
बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम् ||२-४-४ (११३७१)
ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम्.
एव वीरः सव्यसाचिन्ध्वजस्यान्ते भविष्यति ||२-४-५ (११३७२)
वैशम्पायन उवाच. २-४-६क्ष् (१३८४)
इत्युक्त्वाऽऽलिङ्ग्य वीभत्सुं विसृष्टः प्रययौ मयः' . २-४-६ (११३७३)
ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः.
अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः ||२-४-७ (११३७४)
साज्येन पायसेनैव मधुना मिश्रितेन च.
भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः.
कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः ||२-४-८ (११३७५)
मांसप्रकारैर्विविधैः खाद्यैश्चापि तथा नृप.
चोष्यैश्च विविधै राजन्पेयैश्च बहुविस्तरैः ||२-४-९ (११३७६)
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि.
तर्पयामास विप्रेन्द्रान्नानादिग्भ्यः समागतान् ||२-४-१० (११३७७)
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः.
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ||२-४-११ (११३७८)
वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि.
पूजयित्वा कुरुश्रेष्ठो देवतानि निवेश्य च ||२-४-१२ (११३७९)
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा.
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम् ||२-४-१३ (११३८०)
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः.
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ||२-४-१४ (११३८१)
सभायामृषयस्तस्यां पाण्डवैः सह आसते.
आसाञ्चक्रुर्नरेन्द्राश्च नानादेशसमागताः ||२-४-१५ (११३८२)
असितो देवलः सत्यः सर्पिर्माली महाशिराः.
अर्वा वसुः सुमित्रश्च मैत्रेयः शुनको बलिः ||२-४-१६ (११३८३)
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः.
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ||२-४-१७ (११३८४)
तित्तिरिर्याज्ञवल्क्यश्च ससुतो रोमहर्षणः.
अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ ||२-४-१८ (११३८५)
दामोष्णीपस्त्रैबलीश्च पर्णादो घटजानुकः.
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः ||२-४-१९ (११३८६)
बलिवाकः सिनीवाकः सप्तपालः कृतश्रमः.
जातूकर्णः शिखावांश्च आलम्बः पारिजातकः ||२-४-२० (११३८७)
पर्वतश्च महाभागो मार्कण्डेयो महामुनिः.
पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा ||२-४-२१ (११३८८)
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः.
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ||२-४-२२ (११३८९)
काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः.
पैङ्ग्यो वराहः शुनकः शाण्डिल्यश्च महातपाः ||२-४-२३ (११३९०)
कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च.
मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः ||२-४-२४ (११३९१)
एते चान्ये च बहवो वेदवेदाङ्गपारगाः.
उपासते महात्मानं सभायामृषिसत्तमाः ||२-४-२५ (११३९२)
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः.
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते ||२-४-२६ (११३९३)
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः.
सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान्. २-४-२७ (११३९४)
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः.
कम्बोजराजः कमठः कम्पनश्च महाबलः ||२-४-२८ (११३९५)
सततं कम्पयामास यवनानेक एव यः.
बलपौरुषसम्पन्नान्कृतास्त्रानमितौजसः.
यथाऽसुरान्कालकेयान्देवो वज्रधरस्तथा ||२-४-२९ (११३९६)
जटासुरो मद्रकानां च राजा
कुन्तिः पुलिन्दश्च किरातराजः.
तथाङ्गवाङ्गौ सहपुण्ड्रकेण
पाण्ड्योड्रराजौ च सहान्ध्रकेण ||२-४-३० (११३९७)
अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः.
किरातराजः सुमना यवनाधिपतिस्तथा ||२-४-३१ (११३९८)
चाणूरो देवरातश्च भोजो भीमरथश्च यः.
श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः ||२-४-३२ (११३९९)
सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः.
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः ||२-४-३३ (११४००)
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः.
अनूपराजो दुर्धर्पः क्रमजिच्च सुदर्शनः ||२-४-३४ (११४०१)
शिशुपालः सहसुतः करूपाधिपतिस्तथा.
वृष्णीनां चैव दुर्धर्पाः कुमारा देवरूपिणः ||२-४-३५ (११४०२)
आहुको विपृथुश्चैव गदः सारण एव च.
अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः ||२-४-३६ (११४०३)
भीष्मकोऽथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान्.
केकयाश्च महेष्वासा यज्ञसेनश्च सोमकिः ||२-४-३७ (११४०४)
केतुमान्वसुमांश्चैव कृतास्त्रश्च महाबलः.
एते चान्ये च बहवः क्षत्रिया मुख्यसंमताः. २-४-३८ (११४०५)
उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम्.
अर्जुनं ये व संश्रित्य राजपुत्रा महाबलाः ||२-४-३९ (११४०६)
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः.
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः. २-४-४० (११४०७)
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः.
सुधर्मा चानिरुद्धश्च शैव्यश्च नरपुङ्गवः ||२-४-४१ (११४०८)
एते चान्ये च बहवो राजानः पृथिवीपते.
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ||२-४-४२ (११४०९)
उपासते महात्मानमासीनं सप्तविंशतिः.
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा ||२-४-४३ (११४१०)
गीतवादित्रकुशलाः साम्यतालविशारदाः.
प्रमाणोऽथ लये स्थाने किन्नराः कृतनिश्रमाः ||२-४-४४ (११४११)
सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा.
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः ||२-४-४५ (११४१२)
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते.
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः ||२-४-४६ (११४१३)
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ||||२-४-४७ (११४१४)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि चतुर्थोऽध्यायः ||४. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-४-२९ कालकेयाः कालकाया अपत्यान्यसुराः ||
सभापर्व -अध्याय ००५
||श्रीः ||
२. ५. अध्यायः ५
Mahabharata -Sabha Parva -Chapter Topics
तत्रागतेन युधिष्ठिरपूजितेन नारदेन कुशलप्रश्नव्याजेन
राजनीतिकथनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच.
अथ तत्रोपविष्टेषु पाण्डवेषु महात्मसु.
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ||२-५-१ (११४१५)
वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः.
इतिहासपुराणज्ञः क्रियाकल्पविशेषवित् ||२-५-२ (११४१६)
' स्तुतस्तोमग्रहस्तोभपदक्रमविभागवित्.
शिक्षाक्षरविभागज्ञः पुराकल्पविशेषवित् ||२-५-३ (११४१७)
आदिकल्पार्थवेत्ता च कल्पसूत्रार्थतत्त्ववित्.
ब्रह्मचर्यव्रतपर ऊहापोहविशारदः ||२-५-४ (११४१८)
नृत्तगान्धर्वसेवी च सर्वत्राप्रतिमस्तथा.
अष्टादशानां विद्यानां कोशभूतो महाद्युतिः' ||२-५-५ (११४१९)
न्यायविद्धर्मतत्त्वज्ञः षडङ्गविदनुत्तमः.
ऐक्यसंयोगनानात्वसमवायविशारदः ||२-५-६ (११४२०)
वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित्कविः.
परापरविभागज्ञः प्रमाणकृतनिश्चयः ||२-५-७ (११४२१)
पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्.
उत्तरोत्तरवक्ता च वदतोपि बृहस्पतेः ||२-५-८ (११४२२)
धर्मकामार्थमोक्षेषु यथावत्कृतनिश्चयः.
तथा भुवनकोशस्य सर्वस्यास्य महामतिः ||२-५-९ (११४२३)
प्रत्यक्षदर्शी लोकस्य तिर्यगूर्ध्वमधस्तथा.
साङ्ख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान् ||२-५-१० (११४२४)
सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित्.
षाङ्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः ||२-५-११ (११४२५)
युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस्तथा.
एतैश्चान्यैश्च बहुभिर्युक्तो गुणगणैर्मुनिः ||२-५-१२ (११४२६)
लोकाननुचरन्सर्वानागमत्तां सभां नृप.
नारदः सुमहातेजा ऋषिभिः सहितस्तदा ||२-५-१३ (११४२७)
पारिजातेन राजेन्द्र पर्वतेन च धीमता.
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ||२-५-१४ (११४२८)
सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः.
जयाशीर्भिस्तु तं विप्रो धर्मराजानमार्चयत् ||२-५-१५ (११४२९)
तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित्.
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह ||२-५-१६ (११४३०)
अभ्यवादयत प्रीत्या विनयावनतस्तदा.
तदर्हमासनं तस्मै सम्प्रदाय यथाविधि ||२-५-१७ (११४३१)
गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च.
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ||२-५-१८ (११४३२)
तुतोष च यथावच्च पूजां प्राप्य युधिष्ठिरात्.
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः.
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ||२-५-१९ (११४३३)
नारद उवाच. २-५-२०क्ष् (१३८५)
कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः.
सुखानि चानुभूयन्ते मनश्च न विहन्यते ||२-५-२० (११४३४)
कच्चिदाचरितां पूर्वैर्नरदेवपितामहैः.
वर्तसे वृत्तिमक्षुद्रां धर्मार्थसहितां त्रिषु ||२-५-२१ (११४३५)
कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा.
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ||२-५-२२ (११४३६)
कच्चिदर्थं च धर्मं च कामं च जयतां वर.
विभज्य काले कालज्ञः सदा वरद सेवसे ||२-५-२३ (११४३७)
कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथाऽनघ.
बलाबलं तथा सम्यक्वतुर्दश परीक्षसे ||२-५-२४ (११४३८)
कच्चिदात्सानमर्न्वाक्ष्य परांश्च जयतां वर.
तथा सन्धाय कर्माणि अष्टौ भारत सेवसे ||२-५-२५ (११४३९)
कच्चित्प्रकृतयः सप्त न लुप्ता भरतर्षभ.
आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्वशः ||२-५-२६ (११४४०)
कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः.
त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा ||२-५-२७ (११४४१)
मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम्.
कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे ||२-५-२८ (११४४२)
कच्चिद्वृत्तिमुदासीने मध्यमे चानुमन्यसे.
कच्चिदात्मसमा वृद्धाः शुद्धाः सम्बोधनक्षमाः ||२-५-२९ (११४४३)
कुलीनाश्चानुरक्ताश्च कृतास्ते वीरमन्त्रिणः.
विजयो मन्त्रमूलो हि राज्ञो भवति भारत ||२-५-३० (११४४४)
कच्चित्संवृतमन्त्रैस्ते अमात्यैः शास्त्रकोविदैः.
राष्ट्रं सुरक्षितं तात शत्रुभिर्न विलुप्यते ||२-५-३१ (११४४५)
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुद्ध्यसे.
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् ||२-५-३२ (११४४६)
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह.
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति ||२-५-३३ (११४४७)
कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान्.
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ||२-५-३४ (११४४८)
कच्चिन्न स्रवे कर्मान्ताः परोक्षास्ते विशङ्किताः.
सर्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम् ||२-५-३५ (११४४९)
आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः.
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः ||२-५-३६ (११४५०)
विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित्.
कच्चित्कारणिका धर्मे सर्वशास्त्रेषु कोविदाः.
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ||२-५-३७ (११४५१)
कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्.
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्नः श्रेयसं परम् ||२-५-३८ (११४५२)
कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः.
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ||२-५-३९ (११४५३)
एकोप्यमात्यो मेधावी शूरो दान्तो विचक्षणः.
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ||२-५-४० (११४५४)
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च.
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ||२-५-४१ (११४५५)
कच्चिद्द्विषामविदितः प्रतिपन्नश्च सरवदा.
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ||२-५-४२ (११४५६)
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः.
अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ||२-५-४३ (११४५७)
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः.
हुतं च होष्यमाणं च काले वेदयते सदा ||२-५-४४ (११४५८)
कच्चिदङ्गेषु निष्णातो ज्योतिपः प्रतिपादकः.
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ||२-५-४५ (११४५९)
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः.
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ||२-५-४६ (११४६०)
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्.
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ||२-५-४७ (११४६१)
कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः.
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ||२-५-४८ (११४६२)
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा.
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ||२-५-४९ (११४६३)
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः.
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तथा. २-५-५० (११४६४)
कच्चिद्बलस्य ते मुख्याः सर्वयुद्धविशारदाः.
धृष्टावदाता विक्रान्तास्त्वया सत्कृत्य मानिताः ||२-५-५१ (११४६५)
कच्चिद्वलस्य भक्तं च वेतनं च यथोचितम्.
सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि ||२-५-५२ (११४६६)
कालातिक्रमणादेते भक्तवेतनयोर्भृताः.
भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ||२-५-५३ (११४६७)
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः.
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि ||२-५-५४ (११४६८)
कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान्.
अनुशास्ति यथाकामं कामात्मा शासनातिगः ||२-५-५५ (११४६९)
कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन्.
लभते मानमधिकं भूयो वा भक्तवेतनम् ||२-५-५६ (११४७०)
कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान्.
यथार्हं गुणतश्चैव दानेनाभ्युपपद्यसे ||२-५-५७ (११४७१)
कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमीयुषाम्.
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ||२-५-५८ (११४७२)
कच्चिद्भयादुपगतं क्षीणं वा रिपुमागतम्.
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ||२-५-५९ (११४७३)
कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते.
समश्चानभिशङ्क्यश्च यथा माता यथा पिता ||२-५-६० (११४७४)
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ.
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ||२-५-६१ (११४७५)
यात्रामारभसे दिष्ट्या प्राप्तकालमरिन्दम.
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् ||२-५-६२ (११४७६)
बलस्य च महाराज दत्त्वा वेतनमग्रतः.
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप.
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ||२-५-६३ (११४७७)
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः.
पारञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ||२-५-६४ (११४७८)
कच्चित्ते यास्यतः शत्रून्पर्वं यान्ति स्वनुष्ठिताः.
साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ||२-५-६५ (११४७९)
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ||
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः. २-५-६६ (११४८०)
बलमुख्यैः सुनीता ते द्विषतां प्रतिवर्धिनी ||
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप. २-५-६७ (११४८१)
अविहाय महाराज निहंसि समरे रिपून् ||
कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव. २-५-६८ (११४८२)
अर्थान्समधितिष्ठन्ति रक्षन्ति च परस्परम् ||२-५-६९ (११४८३)
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शनानि च.
घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव. २-५-७० (११४८४)
कच्चित्कोशश्च कोष्ठं च वाहनं द्वारमायुधम् ||
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ||२-५-७१ (११४८५)
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते ||
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान्. २-५-७२ (११४८६)
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च.
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ||२-५-७३ (११४८७)
कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः.
पादभागैस्त्रिभिर्वापि व्ययः संशुद्ध्यते तव ||२-५-७४ (११४८८)
कच्चिज्ज्ञातीन्गुरून्वृद्धा-
न्वणिजः शिल्पिनः श्रितान्.
अभीक्ष्णमनुगृहाणिसि
धनधान्येन दुर्गतान् ||२-५-७५ (११४८९)
कच्चिच्चायव्यये युक्ताः सर्वे गणकलेखकाः.
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायं व्ययं तव ||२-५-७६ (११४९०)
कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान्.
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ||२-५-७७ (११४९१)
कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान्.
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ||२-५-७८ (११४९२)
कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते.
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ||२-५-७९ (११४९३)
कच्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीबलेन वा.
त्वया वा पीड्यते राष्ट्रं कच्चित्तुष्टाः कृषीवलाः २-५-८० (११४९४)
कच्चिद्राष्ट्रे तटाकानि पूर्णानि च बृहन्ति च.
भागशो विनिविष्टानि न कृषिर्देवमातृका ||२-५-८१ (११४९५)
कच्चिन्नं भक्तं बीजं च कर्षकस्यावसीदति.
प्रत्येकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ||२-५-८२ (११४९६)
कच्चित्स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः.
वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते ||२-५-८३ (११४९७)
कच्चिच्छूराः कृतप्रज्ञाः पञ्चपञ्च स्वनुष्ठिताः.
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ||२-५-८४ (११४९८)
कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः.
ग्रामवच्च कृताः प्रान्तास्ते च सर्वे त्वदर्पणाः ||२-५-८५ (११४९९)
कच्चिद्बलेनानुगताः समानि विषमाणि च.
पुराणि चौरान्निघ्नन्तश्चरन्ति विषये तव ||२-५-८६ (११५००)
कच्चित्स्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः.
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ||२-५-८७ (११५०१)
कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च.
प्रियाण्यनुभवञ्शेषे न त्वमन्तः पुरे नृप ||२-५-८८ (११५०२)
कच्चिद्द्वौ प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते.
सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ||२-५-८९ (११५०३)
कच्चिद्दर्शयसे नित्यं मनुष्यान्समलङ्कृतः.
उत्थाय काले कालज्ञैः सह पाण्डव मन्त्रिभिः ||२-५-९० (११५०४)
कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः.
उपासते त्वामभितो रक्षणार्थमरिन्दम ||२-५-९१ (११५०५)
कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशाम्पते.
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च ||२-५-९२ (११५०६)
कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा.
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ||२-५-९३ (११५०७)
कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः.
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ||२-५-९४ (११५०८)
कच्चिन्न लोभान्मोहाद्वा मानाद्वापि विशाम्पते.
अर्थिप्रत्यर्थिनः प्राप्तान्नापास्यसि कथञ्चन ||२-५-९५ (११५०९)
कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा.
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणात्सि वै ||२-५-९६ (११५१०)
कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः.
त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन ||२-५-९७ (११५११)
कच्चिन्न दुर्बलः शत्रुर्बलेन परिपीडितः.
मन्त्रेण बलवान्कश्चिदुभाभ्यां च कथञ्चन ||२-५-९८ (११५१२)
कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः.
कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः ||२-५-९९ (११५१३)
कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते.
ब्राह्मणानां च साधूनां तव नैः श्रेयसी शुभा.
दक्षिणास्त्वं ददास्येषां नित्यं स्वर्गापवर्गदाः ||२-५-१०० (११५१४)
कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः.
यतमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ||२-५-१०१ (११५१५)
कच्चित्तव गृहेऽन्नानि स्वादून्यश्रन्ति वै द्विजाः.
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ||२-५-१०२ (११५१६)
कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः.
पौण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ||२-५-१०३ (११५१७)
कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि.
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ||२-५-१०४ (११५१८)
कच्चिच्छोको न मन्युर्वा त्वया प्रोत्पाद्यतेऽनघ.
अपि मङ्गलहस्तश्च जनः पार्श्वे न तिष्ठति ||२-५-१०५ (११५१९)
कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ.
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ||२-५-१०६ (११५२०)
एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति.
विजित्य च महीं राजा सोत्यन्तं सुखमेधते ||२-५-१०७ (११५२१)
कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि.
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचि ||२-५-१०८ (११५२२)
दुष्टो गृहीतस्तत्कारितज्ज्ञैर्दृष्टः सकारणः.
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ||२-५-१०९ (११५२३)
उत्पन्नानकच्चिदाढ्यस्य दरिद्रस्य च भारत.
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ||२-५-११० (११५२४)
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्.
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्.
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् ||२-५-१११ (११५२५)
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्.
मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः ||२-५-११२ (११५२६)
कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश.
प्रायशोयैर्विनश्यन्ति कृतमूलापि पार्थिवः ||२-५-११३ (११५२७)
कच्चित्ते सफला वेदाः कच्चित्ते सफळं धनम्.
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ||२-५-११४ (११५२८)
युधिष्ठिर उवाच | २-५-११५क्ष् (१३८६)
कथं वै सफला वेदाः कथं वै सफलं धनम्.
कथं वै सफला दाराः कथं वै सफलं श्रुतम् ||२-५-११५ (११५२९)
नारद उवाच. २-५-११६क्ष् (१३८७)
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्.
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ||२-५-११६ (११५३०)
वैशम्पायन उवाच. २-५-११७क्ष् (१३८८)
एतदाख्याय स मुनिर्नारदो वै महातपाः.
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ||२-५-११७ (११५३१)
नारद उवाच. २-५-११८क्ष् (१३८९)
कच्चिदभ्यागता दूराद्वणिजो लाभकारणात्.
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ||२-५-११८ (११५३२)
कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः.
उपानयन्ति पण्यानि उपाधाभिरवञ्चिताः ||२-५-११९ (११५३३)
कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः.
नित्यमर्थविदां तात यथाधर्मार्थदर्शिनाम् ||२-५-१२० (११५३४)
कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च.
धर्मार्थं च द्विजातिभ्यो दीयेते मधुसर्पिषी ||२-५-१२१ (११५३५)
द्रव्योपकरणं किञ्चित्सर्वदा सर्वशिल्पिनाम्.
चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि ||२-५-१२२ (११५३६)
कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि.
सतां मध्ये महाराज सत्करोषि च पूजयन् ||२-५-१२३ (११५३७)
कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ.
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो ||२-५-१२४ (११५३८)
कच्चिदभ्यस्यते सम्यग्गृहे ते भरतर्षभ.
धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रं च नागरम् ||२-५-१२५ (११५३९)
कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ.
विषयोगास्तथा सर्वे विदिताः शत्रुनाशनाः ||२-५-१२६ (११५४०)
कच्चिदग्निभयाच्चैव सर्वं व्यालभयात्तथा.
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षशि ||२-५-१२७ (११५४१)
कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान्.
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि ||२-५-१२८ (११५४२)
षडवर्था महाराज कच्चित्ते पृष्ठतः कृताः.
निद्राऽऽलस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता ||२-५-१२९ (११५४३)
वैशम्पायन उवाच. २-५-१३०क्ष् (१३९०)
ततः कुरूणामृषभो महात्मा
श्रुत्वा गिरो ब्राह्मणसत्तमस्य.
प्रणम्य पादावभिवाद्य तुष्टो
राजाऽब्रवीन्नारदं देवरूपम् ||२-५-१३० (११५४४)
एवं करिष्यामि यथा त्वयोक्तं
प्रज्ञा हि मे भूय एवाभिवृद्धा.
उक्त्वा तथा चैव चकार राजा
लेभे महीं सागरमेखलां च ||२-५-१३१ (११५४५)
नारद उवाच. २-५-१३२क्ष् (१३९१)
एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे.
स विहृत्येह सुसुखी शुक्रस्यैति सलोकताम् ||||२-५-१३२ (११५४६)
इति श्रीमन्महाभारते सभापर्वणि पञ्चमोऽध्यायः ||५. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-५-२४ षड्गुणाः सन्धिविग्रहादयः | सप्तोपायाः
मन्त्रौषधेन्द्रजालसहिताः सामादयः. स वपरपक्षबलावलसहिता
एतएव चतुर्दश ||
२-५-२५ अष्टौ कर्माणि-कृषिर्वणिक्पतो दुर्ग सेतुः कुञ्जरबन्धनम्
. खन्याकरकरादानं शून्यानां च निवेशनमित्युक्तानि ||
२-५-२६ सप्तप्रकृतयः स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलाख्याः ||
२-५-२७ कच्चिन्न तर्कैर्दूतैर्वा इति ख-पाठः ||
२-५-२८ शुचयो जीवितक्षमाः इति ख-पाठः ||
२-५-३५ कर्मान्ताः कृष्यादयः ||
२-५-३७ कारणिकाः युद्धोपकरणयुक्ताः ||
२-५-४१ मन्त्री पुरोहितश्चैव युवराजश्चमूपतिः | पञ्चमो
द्वारपालश्च षष्ठोऽन्तर्वेश इकस्तथा १, कारागाराधिकारी च
द्रव्यसञ्चयकृत्तथा. कृत्याकृत्येषु चार्थानां नवमो विनियोजकः
२, प्रेदेष्टा नगराध्यक्षः कार्यानिर्माणकृत्तथा. धर्माध्य क्षः
सभाध्यक्षो दण्डपालस्त्रिपञ्चमः ३, षोडशो दुर्गपालश्च
तथा राष्ट्रान्त पालकः अटवीपालकान्तानि तीर्थान्यष्टादशैव
तु ४, चारान्विचारयेत्तीर्थेष्वात मनश्च परस्य च
. पाखण्डादीनविज्ञातानन्योन्यमितरेष्वपि ५, मन्त्रिणं युवरा जं च
हित्वा स्वेषु पुरोहितमिति ||
२-५-६७ अष्टाङ्गसंयुक्ता-रथा नागा हया योधाः पत्तयः कर्मकारकाः
. चारा दैशिकमुख्याश च ध्वजिन्यष्टाङ्गिका मता. चतुर्विधबला
मौलमैत्रमृत्याटविकैर्बलैर्युक्ता. बलमुख्यैः सेनापतिभिः
प्रतिवर्धिनी प्रातिकूल्येन च्छेदिनी ||
२-५-६८ लवः सस्यच्छेदनकालः | मुष्टिः सस्यानां गोपनकालः ||
२-५-७१ कोष्ठं धान्यस्थानम् ||
२-५-७३ कच्चिन्नेति पानादिव्यसनजं व्ययं तव पूर्वाह्णे
धर्माचरणकाले भृत्या न प्रत इजानन्ति नावेदयन्ति ||
२-५-७६ अनुतिष्ठन्ति निवेदयन्ति ||
२-५-७९ अप्राप्तव्यवहारा अप्रौढाः ||
२-५-८४ प्रतिग्रामं पञ्चपञ्चेति | तेच-प्रशास्ता समाहर्ता
संविधाता लेखकः साक्षी चे ति ||
२-५-८८ आत्ययिकमकल्याणम् ||
२-५-९३ आबाधं दुःखम् | नियमेन पथ्याशनादिना ||
२-५-९४ निदानं पूर्वलिङ्गानि रूपाण्युपशयस्तथा | सम्प्राप्तिरौषधी
रोगी परिचारक एवं चेत्यष्टाङ्गानि ||
२-५-१०२ तवाध्यक्षं त्वत्समक्षण् ||
२-५-१०८ क्षारितः मिथ्यापवादैः पातितः ||
२-५-११३ कृतमूलाः अपीति छेदः ||
२-५-१२६ ब्रह्मदण्डः अभिचारः ||
सभापर्व -अध्याय ००६
||श्रीः ||
२. ६. अध्यायः ६
Mahabharata -Sabha Parva -Chapter Topics
उत्तमसभालाभगर्वितेन युधिष्ठिरेण सभाविषयकप्रश्ने नारदस्य
इन्द्रादिसभावर्ण नप्रतिज्ञानम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशमापायन उवाच.
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम्.
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ||२-६-१ (११५४७)
भगवत्याय्यमाहैतं यथावद्धर्मनिश्चयम्.
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया ||२-६-२ (११५४८)
राजभिर्यद्यथा कार्यं, पुरा वै तन्न संशयः.
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् ||२-६-३ (११५४९)
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो.
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः ||२-६-४ (११५५०)
वैशम्पायन उवाच. २-६-५क्ष् (१३९२)
एकमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च.
' तं तु विश्रान्तमासीनं देवर्षिममितद्युतिम्' ||
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ||२-६-५ (११५५१)
नादरदं सुस्थमासीनमुपासीनो युधिष्ठिरः.
अपृच्छत्पाण्डवस्तत्र राजमध्ये माहद्युतिः ||२-६-६ (११५५२)
भवात्सञ्चरते लोकान्सदा नानाविधान्बहून्.
ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः. २-६-७ (११५५३)
ईदृशी भविता काचिद्दृष्टपूर्वा सभा क्वचित्.
इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ||२-६-८ (११५५४)
वैशम्पायन उवाच. २-६-९क्ष् (१३९३)
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्.
पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा ||२-६-९ (११५५५)
नारद उवाच. २-६-१०क्ष् (१३९४)
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता.
सभा मणिमयी राजन्यथेयं तव भारत ||२-६-१० (११५५६)
सभां तु पितृराजस्य वरुणस्य च धीमतः.
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ||२-६-११ (११५५७)
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्.
दिव्यादिव्यैरभिप्रायैरुपेतां विश्वरूपिणीम् ||२-६-१२ (११५५८)
देवैः पितृगणैः साध्यैर्यज्वभिर्नियतात्मभिः.
जुष्टां मुनिगणैः शान्तैर्वेदयज्ञैः सदक्षिणैः ||
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ ||२-६-१३ (११५५९)
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः.
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्द्विजोत्तमैः ||२-६-१४
(११५६०)
नारदं प्रत्यवाचेदं धर्मराजो महामनाः.
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् ||२-६-१५ (११५६१)
किन्द्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः.
पितामहं च के तस्यां सभायां पर्युपासते ||२-६-१६ (११५६२)
वासवं देवराजं च यमं वैवस्वतं च के.
वरुणं च कुबेरं च सभायां पर्युपासते ||२-६-१७ (११५६३)
एतत्सर्वं यथान्यायं ब्रह्मर्षे वदतस्तव.
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ||२-६-१८ (११५६४)
एवमुक्तः पाण्डवेन नारदः प्रत्यभाषत.
क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः ||||२-६-१९ (११५६५)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि षष्ठोऽध्यायः ||६. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-६-११ कैलासनिलयस्य कुबेरस्य ||
सभापर्व -अध्याय ००७
||श्रीः ||
२. ७. अध्यायः ७
Mahabharata -Sabha Parva -Chapter Topics
इन्द्रसभावर्णनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
नारद उवाच ||
शक्रस्य तु सभा दिव्या भास्वरा कर्मनिर्मिता.
स्वयं शक्रेण कौरव्य निर्जितार्कसमप्रभा ||२-७-१ (११५६६)
विस्तीर्णा योजनशतं शतमध्यर्धमायता.
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता. २-७-२ (११५६७)
जराशोकक्लमापेता निरातङ्का शिवा शुभा.
वेश्मासनवती रम्या दिव्यपादपशोभिता ||२-७-३ (११५६८)
तस्यां देवेश्वरः पार्थ सभायां परमासने.
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत. २-७-४ (११५६९)
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः.
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ||२-७-५ (११५७०)
तस्यामुपासते नित्यं महात्मानं शतक्रतुम्.
मरुतः सर्वशो राजन्सर्वे च गृहमेधिनः ||२-७-६ (११५७१)
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा.
मरुत्त्वन्तश्च सहिता भास्वन्तो हेममालिनः ||२-७-७ (११५७२)
एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः.
उपासते महात्मान देवराजमरिन्दमम् ||२-७-८ (११५७३)
तथा देवर्षयः सर्वे पार्ते शक्रमुपासते.
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः ||२-७-९ (११५७४)
तेजस्विनः सोमसुतो विशोका विगतज्वराः.
पराशरः पर्वतश्च तथा सावर्णिगालवौ ||२-७-१० (११५७५)
' एकतश्च द्वितश्चैव त्रितश्चैव महामतिः' .
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः.
दुर्वासाः क्रोधनः श्येनस्तथा दीर्घतमा मुनिः ||२-७-११ (११५७६)
पवित्रपाणिः सावर्णिर्याज्ञवल्क्योऽथ भालुकिः.
उद्दालकः श्वेतकेतुस्ताण्डो भाण्डायनिस्तथा ||२-७-१२ (११५७७)
हविष्मांश्च गरिष्ठश्च हरिश्चन्द्रश्च पार्थिवः ||
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ||२-७-१३ (११५७८)
वातस्कन्धो विशाखश्च विधाता काल एव च.
करालदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ||२-७-१४ (११५७९)
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः.
ईशानं सर्वलोकस्य वज्रिणं समुपासते ||२-७-१५ (११५८०)
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः.
समीकः सत्यवाक्चैव प्रचेताः सत्यसङ्गरः ||२-७-१६ (११५८१)
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः.
मरुत्तश्च मरीचिश्च स्थाणुश्चात्र महातपाः ||२-७-१७ (११५८२)
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः.
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्मयः ||२-७-१८ (११५८३)
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान्.
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती ||२-७-१९ (११५८४)
अर्थो धर्मश्च कामश्च विद्युतश्चैव पाण्डव.
जलवाहास्तथा मेघा वायवः स्तनयित्नवः ||२-७-२० (११५८५)
प्राचीदिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः.
अग्नीषोमौ तथेन्द्राग्नी मित्रश्च सविताऽर्यमा ||२-७-२१ (११५८६)
भगो विश्वे साध्याश्च गुरुः शुक्रस्तथैव च.
विश्वावसुश्चित्रसेनः सुमनस्तरुणस्तथा ||२-७-२२ (११५८७)
यज्ञाश्च दक्षिणाश्चैवं ग्रहास्तोभाश्च भारत.
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ||२-७-२३ (११५८८)
तथैवाप्सरसो राजन् ' रम्भोर्वश्यथ मेनका.
घृताची पञ्चचूडा च विप्रचित्तिपुरोगमाः ||२-७-२४ (११५८९)
विद्याधराश्च राजेन्द्र' गन्धर्वाश्च मनोरमाः.
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि ||२-७-२५ (११५९०)
रमयन्ति स्म नृपते देवराजं शतक्रतुम्.
स्तुतिभिर्मङ्गलैश्चैव वस्तुवन्तः कर्मभिस्तथा ||२-७-२६ (११५९१)
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम्.
ब्रह्मराजर्षयश्चैव सर्वे देवर्षयस्तथा ||२-७-२७ (११५९२)
विमानैर्विविधैर्दिव्यैर्दीप्यमाना इवाग्नयः.
स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे ||२-७-२८ (११५९३)
बृहस्पतिश्च शुक्रश्च नित्यमास्तां हि तत्र वै ||
एते चान्ये च बहवो महात्मानो यतव्रताः ||२-७-२९ (११५९४)
विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः.
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा ||२-७-३० (११५९५)
एषा सभा मया राजन्दृष्टा पुष्करमालिनी.
शतक्रतोर्महाबाहो याम्यामपि सभां शृणु ||||२-७-३१ (११५९६)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि सप्तमोऽध्यायः ||७. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-७-१३ पाराशर्यः कपिष्ठल इति घ | पाठः ||
२-७-२१ ब्रह्मणोङ्गात्प्रसूतोऽग्निरङ्गिरा इति विश्रुतः
. दक्षिणाग्निर्गार्हपत्या हवनीयाविति त्रयी. निर्मन्थ्यो वैद्युतः शूरः
संवर्तो लौकिकस्तथा. २-७-३१ पुष्करमालिनी नामतः ||
सभापर्व -अध्याय ००८
||श्रीः ||
२. ८. अध्यायः ८
Mahabharata -Sabha Parva -Chapter Topics
यमसभावर्णमम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
नारद उवाच.
कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम्.
वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह ||२-८-१ (११५९७)
तैजसी सा सभा राजन्बभूव शतयोजना.
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव ||२-८-२ (११५९८)
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी.
नातिशीता च चात्युष्णा मनसश्च प्रहर्षिणी ||२-८-३ (११५९९)
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्.
न च दैन्यं क्लमो वाऽपि प्रतिकूलं न चाप्युत ||२-८-४ (११६००)
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः.
रसवच्च प्रभूतं च भक्ष्यं भोज्यमरिन्दम ||२-८-५ (११६०१)
लेह्यं चोप्यं च पेयं च हृद्यं स्वादु मनोहरम्.
पुण्यगन्धाः स्रजस्तस्य नित्यं कामफला द्रुमाः ||२-८-६ (११६०२)
रसवन्ति च तोयानि शीतान्युष्णानि चैव हि.
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः ||२-८-७ (११६०३)
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते.
ययातिर्नहुषः पुरुर्मान्धाता सोमको नुगः ||२-८-८ (११६०४)
त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः.
अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः ||२-८-९ (११६०५)
प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः.
वार्तो मरुत्तः कुषिकः साङ्काश्यः साङ्कृतिर्ध्रुवः ||२-८-१० (११६०६)
चतुरश्चः सदस्योर्मिः कार्तवीर्यश्च पार्थिवः.
भरतः सुरथश्चैव सुनीथो निशठोऽनलः ||२-८-११ (११६०७)
दिवोदासश्च सुमना अम्बरीषो भगीरथः.
व्यश्वः सदश्वो वाघ्र्यश्वः पृथुवेगः पृथुश्रवाः ||२-८-१२ (११६०८)
पृपदश्वो वसुमनाः क्षुपश्च सुमहाबलः.
रुषद्रुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी ||२-८-१३ (११६०९)
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः.
औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः ||२-८-१४ (११६१०)
अङ्गो रिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः.
भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः ||२-८-१५ (११६११)
करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः.
ऐलो मरुत्तश्च तथा बलवान्पृथिवीपतिः ||२-८-१६ (११६१२)
कपोतरोमा तृणकः सहदेवार्जुनौ तथा.
व्यश्वः साश्वः कृशाश्वश्च शशबिन्दुश्च पार्थिवः ||२-८-१७
(११६१३)
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः.
अलर्कः कक्षसेनश्च गयो गौराओश्व एव च ||२-८-१८ (११६१४)
जामदग्न्यश्च रामश्च नाभागसगरौ तथा.
भूरिद्युम्नो महाश्वश्च पृथाशावो जनकस्तथा ||२-८-१९ (११६१५)
राजा वैन्यो वारिसेनः पुरिजिज्जनमेजयः.
ब्रह्मदत्तस्त्रिगर्तिश्च राजोपरिचरस्तथा ||२-८-२० (११६१६)
इन्द्रद्युम्नो भीमजानुर्गौरपृष्ठोऽनघो लयः.
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् ||२-८-२१ (११६१७)
अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा.
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः ||२-८-२२ (११६१८)
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः.
शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम् ||२-८-२३ (११६१९)
भीष्णाणां द्वे शतेऽप्यत्र भीमानां तु तथा शतम्.
शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः ||२-८-२४ (११६२०)
पलाशानां शतं ज्ञेयं शतं काशकुशादयः.
शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव ||२-८-२५ (११६२१)
उशङ्गवः शतरथो देवराजो जयद्रथः.
वृषदर्भश्च राजर्षिर्बुद्धिमान्सहमन्त्रिभिः ||२-८-२६ (११६२२)
अथापरे सहस्राणि ये गताः शसबिन्दवः.
इष्ट्वाऽश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ||२-८-२७ (११६२३)
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः.
तस्यां सभायां राजेन्द्र वैवस्वतमुपासते ||२-८-२८ (११६२४)
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च.
यज्वानश्चैव सिद्धाश्च ये न योगशरीरिणः ||२-८-२९ (११६२५)
अग्निष्वात्ताश्च पितरः फेनपाश्वोष्मपाश्च ये.
सुधावन्तो बर्हिषदो मूर्तिमन्तस्तथाऽपरे ||२-८-३० (११६२६)
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः.
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ||२-८-३१ (११६२७)
कालस्य नयने युक्ता यमस्य पुरुपाश्च ये.
तस्यां शिंशुपपालाशास्तथा काशकुशादयः ||२-८-३२ (११६२८)
उपासते धर्मराजं मूर्तिमन्तो जनाधिप.
एते चान्ये च बहवः पितृराजसभासदः.
न शक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा | २-८-३३ (११६२९)
असम्बाधा हि सा पार्थ रम्या कामगमा सभा.
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा. २-८-३४ (११६३०)
ज्वलन्ती भासमाना च तेजसा स्वेन भारत.
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ||२-८-३५ (११६३१)
शान्ताः सन्यासिनः शुद्धाः पूताः पुण्येन कर्मणा.
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ||२-८-३६ (११६३२)
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः.
सुकृतैः कर्मभिः पुण्यैः पारिबर्हैश्च भूषिताः ||२-८-३७ (११६३३)
गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः.
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ||२-८-३८ (११६३४)
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः.
दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः ||२-८-३९ (११६३५)
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम्.
उपासते महात्मानं रूपयुक्ता मनस्विनः ||२-८-४० (११६३६)
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः.
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ||||२-८-४१ (११६३७)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि अष्टमोऽध्यायः ||८. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-८-१८ रामइति रामलक्ष्मणयोर्विष्णुशेषरूपेण स्वस्थानस्थयोरपि
रूपान्तरेण उपासकानु ग्रहार्थमत्रावस्थानम् ||
२-८-२३ धृतराष्टाश्चैकशतमिति पुराणेषु प्रायेणाधिकारिणामेव
कीर्तनात्तेषां च प्रति कल्पं समाननामरूपकर्मत्वादनेककल्पं
धर्मसभावासिनां तेषां बहुत्वं युक्तम् | एवमन्येषामपि ||
२-८-३१ दुष्कृतकर्माणो विद्याविहीनकर्ममात्रनिष्टाः ||
सभापर्व -अध्याय ००९
||श्रीः ||
२. ९. अध्यायः ९
Mahabharata -Sabha Parva -Chapter Topics
वरुणसभावर्णनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
नारद उवाच ||
युधिष्ठिर सभा दिव्या वरुणस्यामितप्रभा.
प्रमाणेन यथा याम्या शुभप्राकारतोरणा ||२-९-१ (११६३८)
अन्तः सलिलमास्थाय विहिता विश्वकर्मणा.
दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता ||२-९-२ (११६३९)
नीलपीतैः सिताः श्यामैः सितैर्लोहितकैरपि.
अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः ||२-९-३ (११६४०)
तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः.
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ||२-९-४ (११६४१)
सा सभा सुखसंस्पर्शा न शीता न च धर्मदा.
वेश्मासनवती रम्या सिता वरुणपालिता ||२-९-५ (११६४२)
यस्यामास्ते स वरुणो वारुण्या च समन्वितः.
दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः ||२-९-६ (११६४३)
' द्वितीयेन तु नाम्ना वै गौरीति भुवि विश्रुता.
पत्न्या सवरुणो देवः प्रमोदति सुखी सुखम्' ||२-९-७ (११६४४)
स्रग्विणो दिव्यगन्धाश्च दिव्यगन्धानुलेपनाः.
आदित्यास्तत्र वरुणं जलेश्वरमुपासते ||२-९-८ (११६४५)
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा.
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ||२-९-९ (११६४६)
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ.
मणिमान्कुण्डधारश्च कर्कोटकधनञ्जयौ ||२-९-१० (११६४७)
पाणिमान्कुण्डधारश्च बलवान्पृथिवीपते.
प्रह्रादो मुषिकादश्च तथैव जनमेजयः ||२-९-११ (११६४८)
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः.
' अर्थो धर्मश्च कामश्च वसुः कपिल एव च ||२-९-१२ (११६४९)
अनन्तश्च महानागो यं दृष्ट्वा जलजेश्वरः.
अभ्यर्चयति सत्कारैरासनेन च तं विभुः ||२-९-१३ (११६५०)
वासुकिप्रमुखाश्चैव सर्वे प्राञ्जलयः स्थिताः.
अनुज्ञाताश्च शेषेण यथार्हमुपविश्य च ||२-९-१४ (११६५१)
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर.
' वैनतेयश्च गरुडो ये चास्य परिचारिणः' .
उपासते महात्मानं वरुणं विगतक्लमाः ||२-९-१५ (११६५२)
बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः.
संह्रादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः ||२-९-१६ (११६५३)
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः.
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ||२-९-१७ (११६५४)
विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः.
दशग्रीवश्च वाली च मेघवासा दशावरः ||२-९-१८ (११६५५)
टिट्टिभो विटभूतश्च संह्रादश्चेन्द्रतापनः.
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः ||२-९-१९ (११६५६)
स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः.
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ||२-९-२० (११६५७)
ते तस्यां वरुणं देवं धर्मपाशधरं सदा.
उपासते महात्मानं सर्वे सुचरितव्रताः ||२-९-२१ (११६५८)
तथा समुद्राश्चत्वारो नदी भागीरथी च सा.
कालिन्दी विदिशा वेणा नर्दमा वेगवाहिनी ||२-९-२२ (११६५९)
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती.
इरावती वितस्ता च सिन्धुर्देवनदी तथा ||२-९-२३ (११६६०)
गोदावरी कृष्णवेणी कावेरी च सरिद्वरा.
किम्पुना च विशल्या च तथा वैतरणी नदी ||२-९-२४ (११६६१)
तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः.
चर्मण्वती तथा चैव पर्णाशा च महानदी ||२-९-२५ (११६६२)
सरयूर्वारवत्याऽथ लाङ्गली च सरिद्वरा.
करतोया तथाऽऽत्रेयी लौहित्यश्च महानदः ||२-९-२६ (११६६३)
लङ्घती गोमती चैव सन्ध्या त्रिस्रोतसी तथा.
एताश्चन्याश्च राजेन्द्र सुतीर्था लोकविश्रुताः ||२-९-२७ (११६६४)
सरितः सर्वतश्चान्यास्तीर्थानि च सरांसि च.
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर. २-९-२८ (११६६५)
पल्वलानि तटाकानि देहवन्त्यथ भारत.
दिशस्तथा मही चैव तथा सर्वे महीधराः ||२-९-२९ (११६६६)
उपासते महात्मानं सर्वे जलचरास्तथा.
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः ||२-९-३० (११६६७)
स्तुवन्तो वरुणं तस्यां सर्व एव समासते.
महीधरा रत्नवन्तो रसा ये च प्रतिष्ठिताः ||२-९-३१ (११६६८)
कथयन्तः सुमधुराः कथास्तत्र समासते.
वारुणश्च तथा मन्त्री सुनाभः पर्युपासते ||२-९-३२ (११६६९)
पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च.
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ||२-९-३३ (११६७०)
एषा मया सम्पतता वारुणी भरतर्षभ.
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु ||||२-९-३४ (११६७१)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि नवमोऽध्यायः ||९. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-९-३४ सम्पतता समागच्छता ||
सभापर्व -अध्याय ०१०
||श्रीः ||
२. १०. अध्यायः १०
Mahabharata -Sabha Parva -Chapter Topics
कुबेरसभावर्णनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
नारद उवाच.
सभा वैश्रवणी राजञ्शतयोजनमायता.
विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा ||२-१०-१ (११६७२)
तपसा निर्जिता राजन्स्वयं वैश्रवणेन सा.
शशिप्रभा प्रावरणा कैलासशिखरोपमा ||२-१०-२ (११६७३)
गुह्यकैरुह्यमाना सा खे विषक्तेव शोभते.
दिव्या हेममयैरुच्चैः प्रासादैरुपशोभिता ||२-१०-३ (११६७४)
महारत्नवती चित्रा दिव्यगन्धा मनोरमा.
सिताभ्रशिखराकारा प्लवमानेव दृश्यते. २-१०-४ (११६७५)
दिव्या हेममयै रङ्गैर्विद्युद्भिरिव चित्रिता.
तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः ||२-१०-५ (११६७६)
स्त्रीसहस्रैर्वृतः श्रीमानास्ते ज्वलितकुण्डलः.
' सह पत्न्या महाराज ऋद्ध्या सह विराजते. २-१०-६ (११६७७)
सर्वाभरणभूषिण्या वपुष्मत्या धनेश्वरः' .
दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते.
दिव्यपादोपधाने च निषण्णः परमासने ||२-१०-७ (११६७८)
मन्दाराणामुदाराणां वनानि परिलोडयन्.
सौगन्धीकवनानां च गन्धं गन्धवहो वहन् ||२-१०-८ (११६७९)
नलिन्याश्चालकाख्याया नन्दनस्य वनस्य च.
शीतो हृदयसंह्लादी वायुस्तमुपसेवते ||२-१०-९ (११६८०)
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः.
दिव्यतानैर्महाराज गायन्तिस्म सभागताः ||२-१०-१० (११६८१)
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता.
चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला ||२-१०-११ (११६८२)
विश्वाची सहजन्या च प्रम्लोचा उर्वशी ||२-१०-१२ (११६८३)
वर्गा च सौरभेयी च समीची बुद्बुदा लता.
एताः सहस्रशश्चान्या नृत्तगीतविशारदाः ||२-१०-१३ (११६८४)
उपतिष्ठन्ति धनदं गन्धर्वाप्सरसां गणाः.
अनिशं दिव्यवादित्रैर्नृत्तगीतैश्च स सभा ||२-१०-१४ (११६८५)
अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः.
किन्नरा नाम गन्धर्वा नरा नाम तथाऽपरे ||२-१०-१५ (११६८६)
माणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः.
कशेरको गण्डकण्डूः प्रद्योतश्च महाबलः ||२-१०-१६ (११६८७)
कुस्तम्बरुः पिशाचश्च गजकर्णो विशालकः.
वराहकर्णस्ताम्रौष्ठः फलकक्षः फलोदकः ||२-१०-१७ (११६८८)
हंसचूडः शइखावर्तो हेमनेत्रो विभीषणः.
पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः ||२-१०-१८ (११६८९)
वृक्षवास्यनिकेतश्च चीरवासाश्च भारत.
एते चान्ये च बहवो यक्षाः शतसहस्रशः ||२-१०-१९ (११६९०)
सदा भगवती लक्ष्मीस्तत्रैव नलकूबरः.
अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः ||२-१०-२० (११६९१)
ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयोऽपरे.
क्रव्यादाश्च तथैवान्ये गन्धर्वाश्च महाबलाः ||२-१०-२१ (११६९२)
उपासते महात्मानं तस्यां धनदमीश्वरम्.
भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः ||२-१०-२२ (११६९३)
उमापतिः पशुपतिः शूलभृद्भगनेत्रहा.
त्र्यम्बको राजशार्दूल देवी च विगतक्लमा ||२-१०-२३ (११६९४)
वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्महारवैः.
मेदोमांसाशनैरुग्रैरुग्रधन्वा महाबलः ||२-१०-२४ (११६९५)
नानाप्रहरणैरुग्रैर्वातैरिव महाजवैः.
वृतः सखायमन्वास्ते सदैव धनदं नृप ||२-१०-२५ (११६९६)
प्रहृष्टाः शतशश्चान्ये बहुशः सपरिच्छदाः.
गन्धर्वाणां च पतयो विश्वावसुर्हहा हुहूः ||२-१०-२६ (११६९७)
तुम्बुरुः प्रवतश्चैव शैलूषश्च तथाऽपरः.
चित्रसेनश्च गीतज्ञस्तथा चित्ररथोपि च ||२-१०-२७ (११६९८)
एते चान्ये च गन्धर्वा धनेश्वरमुपासते.
विद्याधराधिपश्चैव चक्रधर्मा सहानुजैः ||२-१०-२८ (११६९९)
उपाचरति तत्र स्म धनानामीश्वरं प्रभुम्.
किन्नराः शतशस्तत्र धनानामीश्वरं प्रभुम् ||२-१०-२९ (११७००)
आसते चापि राजानो भगदत्तपुरोगमाः.
द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम् ||२-१०-३० (११७०१)
राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः.
सह यक्षैः सगन्धर्वैः सह सर्वैर्निशाचरैः ||२-१०-३१ (११७०२)
विभीषणश्च धर्मिष्ठ उपास्ते भ्रातरं प्रभुम्.
हिमवान्पारियात्रश्च विन्ध्यकैलासमन्दराः ||२-१०-३२ (११७०३)
मलयो दर्दुरश्चैव महेन्द्रो गन्धमादनः.
इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्वतौ ||२-१०-३३ (११७०४)
एते चान्ये च बहवः सर्वे मेरुपुरोगमाः.
उपासते महात्मानं धनानामीश्वरं प्रभुम् ||२-१०-३४ (११७०५)
न्दीश्वरश्च भगवान्महाकालस्तथैव च.
शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास्तथा ||२-१०-३५ (११७०६)
काष्ठः कुटी मुखो दन्ती विजयश्च तपोधिकः.
श्वेतश्च वृषभस्तत्र नर्दन्नास्ते महाबलः ||२-१०-३६ (११७०७)
धनदं राक्षसाश्चान्ये पिशाचाश्च उपासते.
पारिषदैः परिवृतमुपायान्तं महेश्वरम् ||२-१०-३७ (११७०८)
सदा हि देवदेवेशं शिवं त्रैलोक्यभावनम्.
प्रणम्य मूर्ध्ना पौलस्त्यो बहुरूपमुमापतिम् ||२-१०-३८ (११७०९)
ततोऽभ्यनुज्ञां सम्प्राप्य महादेवाद्धनेश्वरः.
आस्ते कदाचिद्भगवान्भवो धनपतेः सखा ||२-१०-३९ (११७१०)
निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ.
सर्वान्निधीन्प्रगृह्याथ उपास्तां वै धनेश्वरम् ||२-१०-४० (११७११)
सा सभा तादृशी रम्या मया दृष्टान्तरिक्षगा.
पितामहसभां राजन्कीर्तयिष्ये निबोध ताम् ||||२-१०-४१ (११७१२)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि दशमोऽध्यायः ||१०. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१०-५ रङ्गैरितिच्छेदः ||
२-१०-३९ आस्ते इत्यावृत्त्या योजनीयम् | यदा भवः
कदाचित्कुबेरसभामध्यास्ते तदा कुबेरोऽपि भवादनुज्ञां प्राप्य
तन्निकटे आस्ते उपविशति ||
सभापर्व -अध्याय ०११
||श्रीः ||
२. ११. अध्यायः ११
Mahabharata -Sabha Parva -Chapter Topics
ब्रह्मसभावर्णनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
नारद उवाच ||
पितामहसभां तात कथ्यमानां निबोध मे.
शक्यते या न निर्देष्टुमेवंरूपेति भारत ||२-११-१ (११७१३)
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः.
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ||२-११-२ (११७१४)
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः.
स तामकथयन्मह्यं दृष्ट्वा तत्त्वेन पाण्डव ||२-११-३ (११७१५)
अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ.
अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम् ||२-११-४ (११७१६)
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डवर्षभ.
दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रुवम्. २-११-५ (११७१७)
भगवन्द्रष्टुमिच्छामि पितामहसभां शुभाम्.
येन वा तपसा शक्या कर्मणा वाऽपि गोपते ||२-११-६ (११७१८)
औषधैर्या तथा युक्तैरुत्तमा पापनाशिनी.
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां यथा ||२-११-७ (११७१९)
स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः.
प्रोवाच भारतश्रेष्ठ व्रतं वर्षसहस्रकम् ||२-११-८ (११७२०)
ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना.
ततोऽहं हिमवत्पृष्ठे समारब्दो महाव्रतम् ||२-११-९ (११७२१)
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान्.
आगच्छत्तां सभां ब्राह्मीं विपाप्मा विगतक्लमः ? २-११-१० (११७२२)
एवंरूपेति सा शक्या न निर्देष्टुं नराधिप.
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा ||२-११-११ (११७२३)
न वेद परिमाणं वा संस्थानं चापि भारत.
न च रूपं मया तादृक् दृष्टपूर्वं कदाचन ||२-११-१२ (११७२४)
सुसुखा सा सदा राजन्न शीता न च घर्मदा.
न क्षुत्पिपासे न ग्लानिं प्राप्यतां प्राप्तुवन्त्युत ||२-११-१३ (११७२५)
नानारूपैरिव कृता मणिभिः सा सुभास्वरैः.
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ||२-११-१४ (११७२६)
दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः ||२-११-१५ (११७२७)
अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा.
दीप्यते नाकपृष्ठस्था भर्त्सयन्वीव भास्करम् ||२-११-१६ (११७२८)
तस्यां स भगवानास्ते विदधद्देवमायया.
स्वयमेकोऽनिशं राजन्सर्वलोकपितामहः ||२-११-१७ (११७२९)
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम्.
दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः ||२-११-१८ (११७३०)
भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः.
पुलस्त्यश्च कतुश्चैव प्रह्लादः कर्दमस्तथा. २-११-१९ (११७३१)
अथर्वाङ्गिरसश्चैव वालखिल्या सरीचिपाः.
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ||२-११-२० (११७३२)
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत.
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ||२-११-२१ (११७३३)
अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान्.
जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा ||२-११-२२ (११७३४)
दुर्वासाश्च महाभाग ऋष्णशृङ्गश्च धार्मिकः.
सनत्कुमारो भगवान्योगाचार्यो महातपाः ||२-११-२३ (११७३५)
असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्.
ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः ||२-११-२४ (११७३६)
आयुर्वेदस्तथाऽष्टाङ्गो देहवांस्तत्र भारत.
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् ||२-११-२५ (११७३७)
वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च.
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः ||२-११-२६ (११७३८)
एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः.
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ||२-११-२७ (११७३९)
आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः.
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ||२-११-२८ (११७४०)
शुक्रो बृहस्पतिश्चैव बुधोऽङ्कारक एव च.
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ||२-११-२९ (११७४१)
मन्त्रो रथन्तरं चैव हरिमान्वसुमानपि.
आदित्याः साधिराजानो नामद्वन्द्वैरुदाहृताः ||२-११-३० (११७४२)
मरुतो विश्वकर्मा च वसवश्चैव भारत.
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ||२-११-३१ (११७४३)
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव.
अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह ||२-११-३२ (११७४४)
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः.
ग्रहा यज्ञाश्च सोमश्च देवताश्चापि सर्वशः ||२-११-३३ (११७४५)
सावित्री दुर्गतरणी वाणी सप्तविधा तथा.
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ||२-११-३४
(११७४६)
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा.
भाष्याणि तर्कयुक्तानि देहवन्ति विशाम्पते ||२-११-३५ (११७४७)
नाटका विविधाः काव्याः कथाख्यायिकारिकाः |
तत्रतिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः ||२-११-३६ (११७४८)
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च.
अर्धमासाश्च मासाश्च ऋतवः षट् च भारत ||२-११-३७ (११७४९)
संवत्सराः पञ्ययुगमहोरात्रश्चतुर्विधः.
कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययम् ||२-११-३८ (११७५०)
धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर.
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा ||२-११-३९ (११७५१)
कालिका सुरभी देवी सरमा चाथ गौतमी ||२-११-४० (११७५२)
प्रभा कद्रूश्च वै देव्यौ देवतानां च मातरः.
रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथाऽपरा ||२-११-४१
(११७५३)
पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिरेव च.
सुरा देवी शची चैव तथा पुष्टिररुन्धती ||२-११-४२ (११७५४)
संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा.
एताश्चान्याश्चवै देव्य उपतस्थुः प्रजापतिम् ||२-११-४३ (११७५५)
आदित्या वसवो रुद्रा मरुतश्चास्विनावपि.
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ||२-११-४४ (११७५६)
पितृणां च गणान्विद्धि सप्तैव पुरुषर्षभ.
मूर्तिमन्तो वै चत्वारस्त्रयश्चापि शरीरिणः ||२-११-४५ (११७५७)
वैराजश्च महाभागा अग्निष्वात्ताश्च भारत.
गार्हपत्या नाकचराः पितरो लोकविश्रुताः ||२-११-४६ (११७५८)
सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा.
एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप ||२-११-४७ (११७५९)
एतैराप्यायितैः पुर्वं सोमश्चाप्याय्यते पुनः.
त एते पितरः सर्वे प्रजापतिमुपस्थिताः ||२-११-४८ (११७६०)
उपासते च संहृष्टा ब्रह्माणममितौजसम्.
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा ||२-११-४९ (११७६१)
नागाः सुपर्णाः पशवः पितामहमुपासते.
स्थावरा जङ्गमाश्चैव महाभूतास्तथाऽपरे ||२-११-५० (११७६२)
पुरन्दरश्च देवेन्द्रो वरुणो धनदो यमः.
महादेवः सहोमोऽत्र सदा गच्छति सर्वशः ||२-११-५१ (११७६३)
महासेनश्च राजेन्द्र सदोपास्ते पितामहम्.
देवो नारायणस्तस्यां तथा देवर्षयश्च ये ||२-११-५२ (११७६४)
ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा.
यच्च किञ्चित्रिलोकेऽस्मिन्दृश्यते स्थाणु जङ्गमम्.
सर्वं तस्यां मया दृष्टमिति विद्धि नराधिप ||२-११-५३ (११७६५)
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम्.
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ||२-११-५४ (११७६६)
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः.
प्रणम्य शिरसा तस्मै सर्वे यान्ति यथागमम् ||२-११-५५ (११७६७)
अतिथीनागतान्देवान्दैत्यान्नागांस्तथा द्विजान्.
यक्षान्मुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ||२-११-५६ (११७६८)
महाभागानमितधीर्ब्रह्मा लोकपितामहः.
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ||२-११-५७ (११७६९)
प्रतिगृह्य तु विश्वात्मा स्वयं स्वयम्भूरमितद्युतिः.
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप ||२-११-५८ (११७७०)
तथा तैरुपयातैश्च प्रतियद्भिश्च भारत.
आकुला सा सभातात भवति स्म सुखप्रदा ||२-११-५९ (११७७१)
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता.
ब्राहया श्रिया दीप्यमाना शुशुभे विगतक्लमा ||२-११-६० (११७७२)
सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा.
सभेयं राजशार्दूल मनुष्येषु यथा तव ||२-११-६१ (११७७३)
एता मया दृष्टपूर्वाः सभा देवेषु भारत.
सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव ||||२-११-६२ (११७७४)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि एकादशोऽध्यायः ||११. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-११-२ देवयुगे कृतयुगे ||
२-११-३० मामद्वन्द्वैरग्नीषोमेन्द्राभ्यादिभिः ||
२-११-३८ संवत्सराः षष्टिः प्रभवादयः | तेच पञ्चपञ्च
एकैकं युगम्. चतुर्विधो मानुषोऽ होरात्रः षष्टिघटिकाभिः. पैत्रो
मासेन. दैवो वत्सरेण. ब्राह्मः कल्पेनेति. कालचक्रं
द्वादशराश्यात्मकम् ||
सभापर्व -अध्याय ०१२
||श्रीः ||
२. १२. अध्यायः १२
Mahabharata -Sabha Parva -Chapter Topics
इन्द्रसभास्थहरिश्चन्द्रचरिते युधिष्ठिरेण
पृष्टे तत्कथाप्रसङ्गेन नारदकृता राजसूयप्रशंसा
||१. . युधिष्ठरम्प्रति पाण्डुसन्देशकथनपूर्वकं नारदस्य गमनम्
||२. .
Mahabharata -Sabha Parva -Chapter Text
युधिष्ठिर उवाच ||
प्रायशो राजलोकस्ते कथितो वदतां वर.
वैवस्वतसभायां तु यथा वदसि मे प्रभो ||२-१२-१ (११७७५)
वरुणस्य सभायां तु नागास्ते कथिता विभो.
दैत्येन्द्राश्चापि भूयिष्ठाः सरितः सागरास्तथा ||२-१२-२ (११७७६)
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा.
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ||२-१२-३ (११७७७)
पितामहसभायां तु कथितास्ते महर्षभः.
सर्वे देवनिकायाश्च सर्वशास्त्राणि वैव ह ||२-१२-४ (११७७८)
शक्रस्य तु सभायां तु देवाः सङ्कीर्तिता मुने.
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः ||२-१२-५ (११७७९)
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने.
कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः ||२-१२-६ (११७८०)
किं कर्म तेनाचरितं तपो वा नियतव्रत.
येनासौ सह शक्रेण स्पर्धदे सुमहायशाः ||२-१२-७ (११७८१)
पितृलोकगतश्चैव त्वया विप्र पिता मम.
दृष्टः पाण्डुर्महाभागः कथं वाऽपि समागतः ||२-१२-८ (११७८२)
किमुक्तवांश्च भगवंस्तन्ममाचक्ष्व सुव्रत.
त्वत्तः श्रोतुं सर्वमिदं परं कौतूहलं हि मे ||२-१२-९ (११७८३)
नारद उवाच. २-१२-१०क्ष् (१३९५)
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो.
तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः ||२-१२-१० (११७८४)
' इक्ष्वाकूणां कुले जातस्त्रिशङ्कुर्नाम पार्थिवः.
अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः ||२-१२-११ (११७८५)
तस्य सत्यवती नाम पत्नी केकयवंशजा.
तस्यां गर्भः समभवद्धर्मेण कुरुनन्दन ||२-१२-१२ (११७८६)
सा च काले महाभागा राजन्मासं प्रविश्य च.
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्.
स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः' ||२-१२-१३ (११७८७)
स राजा बलवानासीत्सम्राट् सर्वमहीक्षिताम्.
तस्य सर्वे महीपालाः शासनावनताः स्थिताः ||२-१२-१४ (११७८८)
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्.
शस्त्रप्रतापेन जिता द्वीपाः सप्त जनेश्वर ||२-१२-१५ (११७८९)
स निर्जित्य महीं कृत्स्नां सशैलवनकाननाम्.
आजहार महाराज राजसूयं महाक्रतुम् ||२-१२-१६ (११७९०)
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया.
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् ||२-१२-१७ (११७९१)
' समाप्तयज्ञो विधिवद्धरिश्चन्द्रः प्रतापवान्.
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिपः ||२-१२-१८ (११७९२)
राजसूयेऽभिषिक्तश्च समाप्तवरदक्षिणे' ||२-१२-१९ (११७९३)
प्रादाच्च द्रविणं प्रीत्या याचकानां नरेश्वरः.
यथोक्तवन्तस्ते तस्मिंस्ततः पञ्चगुणाधिकम् ||२-१२-२० (११७९४)
अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तदा.
प्रसर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान् ||२-१२-२१ (११७९५)
भक्ष्यभोज्यैश्च विविधैर्यथाकामपुरस्कृतैः.
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम्.
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् | २-१२-२२ (११७९६)
एतस्मात्कारणाद्राजन्हरिश्चन्द्रो विराजते.
तेभ्यो राजसहस्रेभ्यस्तद्विद्वि भरतर्षभ ||२-१२-२३ (११७९७)
समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान्.
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिप ||२-१२-२४ (११७९८)
ये चान्ये च महीपाला राजसूयं महाक्रतुम्.
यजन्ते ते सहेन्द्रेण मोदन्ते भरतर्षभ. २-१२-२५ (११७९९)
ये चापि नि नं प्राप्ताः सङ्ग्रामेष्वपलायिनः.
ते तत्सदनम् ताद्य मोन्दते भरतर्षभ ||२-१२-२६ (११८००)
तपसा ये च तीव्रेण त्यजन्तीह कलेवरम्.
ते तत्स्थानं समासाद्य श्रीमन्तो भान्ति नित्यशः ||२-१२-२७ (११८०१)
पिता च त्वाऽऽह कौन्तेय पाण्डुः कौरवनन्दन.
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः ||२-१२-२८ (११८०२)
विज्ञाय मानुषं लोकमायान्तं मां नराधिप.
प्रोवाच प्रणतो भूत्वा वदेथास्त्वं युधिष्ठिरम् ||२-१२-२९ (११८०३)
समर्थोऽसि महीं जेतुं भ्रातरस्ते स्थिता वशे.
राजसूयं क्रतुश्रेष्ठमहारस्वेति भारत ||२-१२-३० (११८०४)
त्वयीष्टवति पुत्रेऽहं हरिश्चन्द्रवदाशु वै.
मोदिष्ये बहुलाः शश्वत्समाः शक्रस्य संसदि ||२-१२-३१ (११८०५)
एवं भवतु वक्ष्येऽहं तव पुत्रं नराधिपम्.
भूलोकं यदि गच्छेयमिति पाण्डुमथाब्रुवम् ||२-१२-३२ (११८०६)
तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव.
गन्तासित्वं महेन्द्रस्य पूर्वैः सह सलोकताम् ||२-१२-३३ (११८०७)
बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान्.
छिद्राण्यस्य वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ||२-१२-३४ (११८०८)
युद्धं च क्षत्रशमनं पृथिवीक्षयकारणम्.
किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम् ||२-१२-३५ (११८०९)
एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर.
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे ||२-१२-३६ (११८१०)
भव एधस्व मोदस्व धनैस्तर्पय च द्विजान्.
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि.
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ||२-१२-३७ (११८११)
वैशम्पायन उवाच. २-१२-३८क्ष् (१३९६)
एवमाख्याय पार्थेभ्यो नारदो जनमेजय.
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ||२-१२-३८ (११८१२)
गते तु नारदे पार्थो भ्रातृभिः सह कौरवः.
राजसूयं क्रतुश्रेष्ठं चिन्तयामास पार्थिवः ||||२-१२-३९ (११८१३)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि द्वादशोऽध्यायः ||१२. .
सभापर्व -अध्याय ०१३
||श्रीः ||
२. १३. अध्यायः १३
Mahabharata -Sabha Parva -Chapter Topics
मन्त्रिभिः सह संमन्त्र्य कृतराजसूयकरणनिश्चयस्य
युधिष्ठिरस्य श्रीकृष्णम्प रति दूतप्रेषणम् ||१. . दूतेन सह
इन्द्रप्रस्थमागतं श्रीकृष्णम्प्रति युधिष्ठिरोक्ति ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः.
चिन्तयन्राजसूयेष्टिं न लेभे शर्म भारत ||२-१३-१ (११८१४)
राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम्.
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ||२-१३-२ (११८१५)
हरिश्चन्द्रं च राजर्षि रोजमानं विशेषतः.
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ||२-१३-३ (११८१६)
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः.
प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ||२-१३-४ (११८१७)
स राजसूयं राजेन्द्र कुरूणामृषभस्तदा.
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य चासकृत् ||२-१३-५ (११८१८)
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन्.
किं हितं सर्वलोकानां भवेदिति मनो दधे ||२-१३-६ (११८१९)
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मभृतां वरः.
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ||२-१३-७ (११८२०)
सर्वेषां दीयतां देयं मुष्णन्कोपमदावुभौ.
साधु धर्मेति धर्मेति नान्यच्छ्रूयेत भाषितम् ||२-१३-८ (११८२१)
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः.
न तस्य विद्यते द्रेष्टा ततोऽस्याजातशत्रुता ||२-१३-९ (११८२२)
परिग्रहान्नरेन्द्रस्य भीमस्य परिपालनात्.
शत्रूणां क्षपणाच्चैव बीभत्सोः सव्यसाचिनः ||२-१३-१० (११८२३)
' बलीनां सम्यगुत्थानान्नकुलस्य यशस्विनः' .
धीमतः सहदेवस्य धर्माणामनुशासनात् ||२-१३-११ (११८२४)
वैनत्यात्सर्वतश्चैव नकुलस्य स्वभावतः.
अविग्रहा वीतभयाः स्वकर्मनिरताः सदा ||२-१३-१२ (११८२५)
निकामवर्षाः स्फीताश्च आसञ्जनपदास्तथा.
वार्धुषी यज्ञसत्वानि गोरक्षं कर्षणं वणिक् ||२-१३-१३ (११८२६)
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणा.
अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम् ||२-१३-१४ (११८२७)
सर्वमेव न तत्रासीद्धर्मनित्ये युधिष्ठिरे.
दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम् ||२-१३-१५ (११८२८)
राजवल्लभतश्चैव नाश्रूयत मृषाकृतम्.
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम् ||२-१३-१६ (११८२९)
अभिहर्तुं नृपाः षट्सु पृथक्जात्यैश्च नैगमैः.
ववृधे विषयस्तत्र धर्मनित्ये युधिष्ठिरे ||२-१३-१७ (११८३०)
कामतोऽप्युपयुञ्जानै राजसैर्लोभजैर्जनैः.
सर्वव्यापी सर्वगुणी सर्वसाहः स सर्वराट् ||२-१३-१८ (११८३१)
यस्मिन्नधिकृतः सम्राड् भ्राजमानो महायशाः.
यत्र राजन्दश दिशः पितृतो मातृतस्तथा.
अनुरक्ताः प्रजा आसन्नागोपाला द्विजातयः ||२-१३-१९ (११८३२)
स मन्त्रिणः समानाय्य भ्रातृंश्च वदतां वरः.
राजसूयं प्रति तदा पुनः पुनरपृच्छत ||२-१३-२० (११८३३)
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा.
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ||२-१३-२१ (११८३४)
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति.
तेन राजाऽपि तं कुत्स्नं सम्राड्गुणमभीप्सृति ||२-१३-२२ (११८३५)
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन.
राजसूयस्य समयं मन्यन्ते सुहृदस्तव ||२-१३-२३ (११८३६)
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा.
साम्ना षडग्नयो यस्मिंश्चीयन्ते शंसितव्रतैः ||२-१३-२४ (११८३७)
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून्.
अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ||२-१३-२५ (११८३८)
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम्.
अचिरात्त्वं महाराज राजसूयमवाप्स्यसि ||२-१३-२६ (११८३९)
अविचार्य महाराज राजसूये मनः कुरु.
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् ||२-१३-२७ (११८४०)
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते.
धृष्टमिष्टं वरिष्टं च जग्राह मनसाऽरिहा ||२-१३-२८ (११८४१)
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम्.
' स प्रशस्तक्रियारम्भः परीक्षामुपचक्रमे ||२-१३-२९ (११८४२)
वैशम्पायन उवाच ||२-१३-३०क्ष् (१३९७)
चतुर्भिर्भीमसेनाद्यैर्भ्रातृभिः सहितो हितम्.
एवमुक्तस्तथा पार्थो धर्म एव मनो दधे ||२-१३-३० (११८४३)
स राजसूयं राजेन्द्रः कुरूणामृषभः क्रतुम्.
जगाम मनसा सद्य आहरिष्यन्युधिष्ठिरः ||२-१३-३१ (११८४४)
भूयस्त्वद्भुतवीर्योपि धर्ममेवानुपालयन् ' .
पुनः पुनर्मनो दध्रे राजसूयाय भारत ||२-१३-३२ (११८४५)
स भ्रातृभिः पुनर्धीमानृत्विग्निश्च महात्मभिः.
मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः ||२-१३-३३ (११८४६)
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवित्.
' विराटद्रुपदाभ्यां च सात्यकेन च धीमता ||२-१३-३४ (११८४७)
युधामन्यूत्तमौजोभ्यां सौभद्रेण च धीमता.
द्रौपदेयैः परं शूरैर्मन्त्रयामास संवृतः ||२-१३-३५ (११८४८)
युधिष्ठिर उवाच' ||२-१३-३६क्ष् (१३९८)
भवन्तो राजसूयस्य सम्राडर्हस्य सुक्रतोः.
श्रद्दधानस्य वदत ममावाप्तिः कथं भवेत् ||२-१३-३६ (११८४९)
वैशम्पायन उवाच. २-१३-३७क्ष् (१३९९)
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन.
इदमूचुर्वचः काले धर्मराजं युधिष्ठिरम् ||२-१३-३७ (११८५०)
अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम्.
अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा ||२-१३-३८ (११८५१)
मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन्.
स तु राजा महाप्राज्ञः पुनरेवात्मनाऽऽत्मवान् ||२-१३-३९ (११८५२)
भूयो विममृशे पार्थो लोकानां हितकाम्यया.
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ ||२-१३-४० (११८५३)
विमृश्य सम्यक् च धिया कुर्वन्प्राज्ञो न सीदति.
नहि यज्ञसमारम्भः केवलात्मविनिश्चयात् ||२-१३-४१ (११८५४)
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन्.
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् ||२-१३-४२ (११८५५)
सर्वलोकात्परं मत्वा जगाम मनसा हरिम्.
अप्रमेयं महाबाहुं कामाञ्जातमजं नृषु ||२-१३-४३ (११८५६)
पाण्डवस्तर्कयामास कर्मभिर्देवसंमतैः.
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम् ||२-१३-४४ (११८५७)
न स किञ्चिन्न विषहेदिति कृष्णममन्यत.
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः ||२-१३-४५
(११८५८)
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा.
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् ||२-१३-४६ (११८५९)
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत्.
' स प्रभुं प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम् ||२-१३-४७ (११८६०)
दूत उवाच ||२-१३-४८क्ष् (१४००)
धर्मराजो हृषीकेश धौम्यव्यासादिभिः सह.
पाञ्चालमात्स्यसहितैर्भ्रातृभिश्चैव सर्वशः ||२-१३-४८ (११८६१)
त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः ||२-१३-४९ (११८६२)
वैशम्पायन उवाच ||२-१३-५०क्ष् (१४०१)
इन्द्रसेनवचः श्रुत्वा यादवप्रवरो बली' .
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः ||२-१३-५० (११८६३)
' आमन्त्र्य राजन्सुहृदो वसुदेवं च माधवः' .
इन्द्रसेनेन सहित इन्द्रप्रस्थमगात्तदा.
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनवः ||२-१३-५१ (११८६४)
इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः.
स गृहे पितृवद्धात्रा धर्मराजेन पूजितः ||२-१३-५२ (११८६५)
भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः.
प्रीतः प्रीतेन सुहृदा रेमे स सहितस्तदा ||२-१३-५३ (११८६६)
अर्जुनेन यमाभ्यां च गुरुवत्पर्युपासितः.
तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम्.
धर्मराजः समागम्य ज्ञापयत्स्वप्रयोजनम् ||२-१३-५४ (११८६७)
युधिष्ठिर उवाच ||२-१३-५क्ष् (१४०२)
प्रार्थितो राजसूयो मे न चासौ केवलेप्सया.
प्राप्यते येन तत्ते हि विदितं कृष्ण सर्वशः ||२-१३-५५ (११८६८)
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते.
यश्च सर्वेश्वरो राजा राजसूयं स विन्दति ||२-१३-५६ (११८६९)
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे.
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ||२-१३-५७ (११८७०)
केचिद्धि सौहृदा देवे न दोषं परिचक्षते.
स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ||२-१३-५८ (११८७१)
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम्.
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने ||२-१३-५९ (११८७२)
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्युदस्य च.
परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि ||||२-१३-६० (११८७३)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि त्रयोदशोऽध्यायः ||१३. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१३-१३ वार्धुषी वृद्ध्युपजीविका | यज्ञसत्वानि कतूना सामर्थ्यानि
सद्यः पुष्कलफलप् रदत्वादिविषयाणि ||
२-१३-१४ अनुकर्ष दारिद्र्याद्राजकीयद्रव्यस्यातीतवर्षस्य ऋणत्वेन
धारणम् | निष्कर्ष करार्थं प्रजापीडनम्. अवर्षणं चातिवर्षं
इति क. पाठः. मूर्छनं वृद्धिः ||
२-१३-१७ नैगमैर्वणिग्भिः सह आसन्निति शेवः | इतरे नृपा
विणिग्वद्येन करदीकृता इत्यर् थः. तत्र तस्मिन् विषयोदेशः ||
२-१३-१८
लोभजैर्विमोहोत्थैराजसरैर्वृत्तिविशेषैस्तृष्णादिभिस्तादृशैरपि
ववृधे वृद्ध इमानभूत् ||
२-१३-२२ येन कारेण वारुणं गुणं वृद्धिं | तेन कारणेना ||
२-१३-५२ भ्रात्रा पितृष्वसृजेन ||
२-१३-५४ क्षणिनं सावसरम् | कल्पं समर्थम् ||
सभापर्व -अध्याय ०१४
||श्रीः ||
२. १४. अध्यायः १४
Mahabharata -Sabha Parva -Chapter Topics
जरासन्धशौर्यकथनादिरूपं श्रीकृष्णवाक्यम् ||
Mahabharata -Sabha Parva -Chapter Text
कृष्ण उवाच ||
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि.
जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत ||२-१४-१ (११८७४)
जामदग्न्येन रामेण क्षत्रं यदवशेषितम्.
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम् ||२-१४-२ (११८७५)
कृतोऽयं कलुसङ्कल्पः क्षत्रियैर्वसुधाधिप.
निदेशवाग्भिस्तत्तेह विदितं भरतर्षभ ||२-१४-३ (११८७६)
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते.
राजानः श्रेणिबद्धाश्च तथाऽन्ये क्षत्रिया भुवि ||२-१४-४ (११८७७)
ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः.
तानि चैकशतं विद्धि कुलानि भरतर्षभ ||२-१४-५ (११८७८)
ययातेस्त्वेव भोजानां विस्तरो गुणतो महान्.
भजतेऽद्य महाराज विस्तरं सचतुर्दिशम् ||२-१४-६ (११८७९)
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते.
इदानीमेव वै राजञ्जरासन्धो महीपतिः ||२-१४-७ (११८८०)
अभिभूय श्रियं तेषां कुलानामभिषेचितः.
स्थितो मूर्ध्नि नरेन्द्राणामोजसाऽऽक्रम्य सर्वशः ||२-१४-८ (११८८१)
सोऽवनीं मध्यमां भुक्त्वा मिथो भेदममन्यत.
प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत् ||२-१४-९ (११८८२)
स साम्राज्यं महाराज प्राप्तो भवति योगतः.
तं स राजा जरासन्धं संश्रित्य किल सर्वशः ||२-१४-१० (११८८३)
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान्.
तमेव च महाराज शिष्यवत्समुपस्थितः ||२-१४-११ (११८८४)
वक्रः करूषाधिपतिर्मायायोधी महाबलः ||
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ ||२-१४-१२ (११८८५)
जरासन्धं महावीर्यं तौ हिंसडिम्बिकावुभौ.
वक्रदन्तः करूषस्य करभो मेघवाहनः.
मूर्ध्ना दिव्यं मणिं बिभ्रद्यमद्भुतमणिं विदुः ||२-१४-१३ (११८८६)
मरुं च नरकं चैव शास्ति यो यवनाधिपः.
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ||२-१४-१४ (११८८७)
भगदत्तो महाराज वृद्धस्तव पितुः सखा.
स वाचा प्रणतस्तस्य कर्मणा च विशेषतः ||२-१४-१५ (११८८८)
स्नेहबद्धश्च मनसा पितृवद्भक्तिमांस्त्वयि.
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः प्रति यो नृपः ||२-१४-१६ (११८८९)
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः.
स ते सन्नितिमानेकः स्नेहतः शत्रुसूदनः ||२-१४-१७ (११८९०)
जरासन्धं गतस्त्वेव पुरा यो न मया हतः.
पुरुषोत्तमविज्ञातो योसौ चेदिषु दुर्मतिः ||२-१४-१८ (११८९१)
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम्.
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ||२-१४-१९ (११८९२)
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः.
पौण्ड्रको वासुदेवेति योसौ लोकेऽभिविश्रुतः ||२-१४-२० (११८९३)
चतुर्थभाङ्महाराज भोज इन्द्रसखो बली.
विद्याबलाद्यो व्यजयत्स पाण्ड्यक्रथकैशिकान् ||२-१४-२१ (११८९४)
भ्राता तस्याकृतिः शूरो जामदग्न्यसमोऽभवत्.
स भक्तो मागधं राजा भीष्मकः परवीरहा ||२-१४-२२ (११८९५)
प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनस्ततः.
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ||२-१४-२३ (११८९६)
न कुलं सबलं राजन्नभ्यजानात्तथाऽऽत्मनः.
पश्यमानो यशो दीप्तं जरासन्धमुपस्थितः ||२-१४-२४ (११८९७)
उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो.
जरासन्धभयादेव प्रतीचीं दिशमास्थिताः ||२-१४-२५ (११८९८)
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः.
सुस्थलाश्च सुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह ||२-१४-२६ (११८९९)
शाल्वायनाश्च राजानः सोदर्यानुचरैः सह.
दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु कोसलाः ||२-१४-२७ (११९००)
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः.
मत्स्याः सन्न्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ||२-१४-२८ (११९०१)
तथैव सर्वपञ्चाला जरासन्धभायर्दिताः.
स्वराज्यं सम्परित्यज्य विद्रुताः सर्वतोदिशम् ||२-१४-२९ (११९०२)
' अग्रतो ह्यस्य पाञ्चालास्तत्रानीके महात्मनः.
अनिर्गते सारबले मागधेभ्यो गिरिव्रजात् ||२-१४-३० (११९०३)
उग्रसेनसुतः कंसः पुरा निर्जित्य बान्धवान्' .
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ||२-१४-३१ (११९०४)
अस्तिः प्रास्तिश्च नाम्ना ते सहदेवानुजेऽबले.
बलेन तेन स्वज्ञातीनभिभूय वृथामतिः ||२-१४-३२ (११९०५)
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान्.
भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना ||२-१४-३३ (११९०६)
ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता.
दत्वाऽऽक्रूराय सुतनुं तामाहुकसुतां तदा ||२-१४-३४ (११९०७)
सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम्.
हतौ कंससुनामानौ मया रामेण चाप्युत ||२-१४-३५ (११९०८)
' हत्वा कंसं तथैवादौ जरासन्धस्य बिभ्यतः.
मया रामेण चान्यत्र ज्ञातयः परिपालितः' ||२-१४-३६ (११९०९)
भये तु समतिक्रान्ते जरासन्धे समुद्यते.
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ||२-१४-३७ (११९१०)
अनारमन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः.
न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम् ||२-१४-३८ (११९११)
तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ.
नामभ्यां हंसडिबिकावशस्त्रनिधनावुभौ ||२-१४-३९ (११९१२)
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान्.
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ||२-१४-४० (११९१३)
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः.
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ||२-१४-४१ (११९१४)
' अष्टादश मया तस्य सङ्ग्रामा रोमहर्षणाः.
दत्ता न च हतो राजञ्जरासन्धो महाबलः' ||२-१४-४२ (११९१५)
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः.
रामेण स हतस्तत्र सङ्ग्रामेऽष्टादशावरे ||२-१४-४३ (११९१६)
हतो हंस इति प्रोक्तस्य केनापि भारत.
तच्छ्रुत्वा डिबिको राजन्यमुनाम्भस्यमज्जत ||२-१४-४४ (११९१७)
विना हसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे.
इत्येतां मतिमास्थाय डिबिको निधनं गतः ||२-१४-४५ (११९१८)
तथा तु डिबिकं श्रुत्वा हंसः परुपुरञ्जयः.
प्रपेदे यमुनामेव सोपि तस्यां न्यमज्जत ||२-१४-४६ (११९१९)
तौ स राजा जराजन्धः श्रुत्वा च निधनं गतौ.
पुरं शून्येन मनसा प्रययौ भरतर्षभ ||२-१४-४७ (११९२०)
ततो वयमित्रघ्न तस्मिन्प्रतिगते नृपे.
पुनरान्दिनः सर्वे मधुरायां वसामहे ||२-१४-४८ (११९२१)
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना.
कंसभार्या जरासन्धं दुहिता मागधं नृपम्.
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता ||२-१४-४९ (११९२२)
पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम.
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् ||२-१४-५० (११९२३)
संस्मरन्तो विमनसो व्यपयाता नराधिप.
पृथक्त्वेन महाराज सङ्क्षिप्य महतीं श्रियम् ||२-१४-५१ (११९२४)
पलायामो भयात्तस्य ससुतज्ञातिबान्धवाः.
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः ||२-१४-५२ (११९२५)
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम्.
ततो निवेशं तस्यां च कृतवन्तो वयं नृप ||२-१४-५३ (११९२६)
तथैव दुर्गसंस्कारं देवैरपि दुरासदम्.
स्त्रियोऽपि यस्यां युध्येयुः किमु वृष्णिमहारथाः ||२-१४-५४ (११९२७)
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः.
आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव च ||२-१४-५५ (११९२८)
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन्.
एवं वयं जरासन्धादभितः कृतकिल्बिषाः ||२-१४-५६ (११९२९)
सामर्थ्यवन्तः सम्बन्धाद्गोमन्तं समुपाश्रिताः.
त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि ||२-१४-५७ (११९३०)
योजनान्ते शतद्वारं वीरविक्रमतोरणम्.
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ||२-१४-५८ (११९३१)
अष्टादश सहस्राणि भ्रातृणां सन्ति नः कले.
आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः ||२-१४-५९ (११९३२)
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः.
अहं च रोहिणेयश्च साम्बः प्रद्युम्न एव च ||२-१४-६० (११९३३)
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे.
कृतवर्मा ह्यनाधृष्टिः समीकः समिर्तिजयः ||२-१४-६१ (११९३४)
कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः.
' प्रद्युम्नश्चानिरुद्धश्च भानुरक्रूरसारणौ ||२-१४-६२ (११९३५)
निशठश्च गदश्चैव सप्त चैते महारथाः.
विकमो झिल्लिबभ्रू च उद्धवोऽथ विदूरथः ||२-१४-६३ (११९३६)
वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुङ्गवाः.
प्रसेनजिच्च यमलो राजराजगुणान्वितः ||२-१४-६४ (११९३७)
स्यमन्तको मणिर्यस्य रुक्मं निस्रुवते बहु.
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ||२-१४-६५ (११९३८)
वज्रसंहनना वीरी वीर्यवन्तो महाबलाः.
स्मरन्तो मध्यमं देशं वृष्णिवीरा गतज्वराः ||२-१४-६६ (११९३९)
पाण्डवैश्चापि सततं नाथवन्तो वयं नृप.
सर्वसम्पद्गुणैः सिद्धे तस्मिन्नेवं व्यवस्थिते ||२-१४-६७ (११९४०)
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत.
दुर्योधनं शान्तनवं द्रोणं द्रौणायनिं कृपम् ||२-१४-६८ (११९४१)
कर्णं च शिशुपालं च रुक्मिणं च धनुर्धरम्.
एकलव्यं द्रुमं श्वेतं शैब्यं शकुनिमेव च ||२-१४-६९ (११९४२)
एतानजित्वा सङ्ग्रामे कथं शक्नोषि तं क्रतुम्.
तथैते गौरवेणैव न योत्स्यन्ति नराधिपाः ||२-१४-७० (११९४३)
एकस्तत्र बलोन्मत्तः कर्णो वैकर्तनो वृषा.
योत्स्यते स परामर्षी दिव्यास्रबलगर्वितः' ||२-१४-७१ (११९४४)
न तु शक्यं जरासन्धे जीवमाने महाबल
राजसूयस्त्वयाऽवाप्तुमेषा राजन्मतिर्मम ||२-१४-७२ (११९४५)
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे.
कन्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः ||२-१४-७३ (११९४६)
स हि राजा जरासन्धो यियक्षुर्वसुधाधिपैः.
' अभिषिक्तः स राजन्यैः सहस्रैरुत चाष्टभिः' .
महादेवं महात्मानमुमापतिमरिन्दम ||२-१४-७४ (११९४७)
आराध्य तपसोग्रेण निर्जितास्तेन पार्थिवाः.
प्रतिज्ञायाश्च पारं स गतः पार्थिवसत्तम ||२-१४-७५ (११९४८)
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान्.
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ||२-१४-७६ (११९४९)
वयं चैव महाराज जरासन्धभयात्तदा.
मधुरा सम्परित्यज्य गता द्वारवतीं पुरीम् ||२-१४-७७ (११९५०)
यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि.
यतस्व तेषां मोक्षाय जरासन्धवधाय च ||२-१४-७८ (११९५१)
समारम्भो न शक्योऽयमन्यथा कुरुनन्दन.
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ||२-१४-७९ (११९५२)
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ.
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ||||२-१४-८० (११९५३)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि चतुर्दशोऽध्यायः ||१४. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१४-४ भुवि ये श्रेणिबद्धा राजानः येचान्ये क्षत्रियाः तान्
इक्ष्वाकुवंशस्य प्रकृ ति प्रजां परिचक्षते ||
२-१४-५६ माधवाः मधुवश्याः ||
सभापर्व -अध्याय ०१५
||श्रीः ||
२. १५. अध्यायः १५
Mahabharata -Sabha Parva -Chapter Topics
राजसूयविषये श्रीकृष्णयुधिष्ठिरभीमानां संवादः ||१. .
Mahabharata -Sabha Parva -Chapter Text
युधिष्ठिर उवाच.
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति.
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ||२-१५-१ (११९५४)
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः.
न च साम्राज्यमाप्तास्ते सम्रादशब्दो हि कृच्छ्रभाक्. २-१५-२ (११९५५)
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति.
परेण समवेतस्तु यः प्रशस्यः स पूज्यते ||२-१५-३ (११९५६)
विशाला बहुला भूमिर्बहुरत्नसमाचिता.
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह ||२-१५-४ (११९५७)
शममेव परं मन्ये शमात्क्षेमं भवेन्मम.
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ||२-१५-५ (११९५८)
एवमेते हि जानन्ति कुले जाता मनस्विनः.
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन. २-१५-६ (११९५९)
वयं यैव महाभाग जरासन्धभयात्तदा.
शङ्किताः स्म महाभाग द्वौरात्म्यात्तस्य चानघ ||२-१५-७ (११९६०)
अहं हि तव दुर्धर्ष भुजवीर्याश्रयः प्रभो.
नात्मानं बलिनं मन्ये त्वयि तस्माद्विशङ्किते ||२-१५-८ (११९६१)
त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव.
अर्जुनाद्वा महाबाहो हन्तुं शक्यो नवेति वै.
एवं जानन्हि वार्ष्णेय विमृशामि पुनः पुनः ||२-१५-९ (११९६२)
त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव.
तच्छ्रुत्वा चाब्रवीद्भीमो वाक्यं वाक्यविशारदः ||२-१५-१० (११९६३)
भीम उवाच ||२-१५-११क्ष् (१४०३)
अनारम्भपरो राजा वल्मीक इव सीदति.
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ||२-१५-११ (११९६४)
अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम्.
जयेत्सम्यक्प्रयोगेण नीत्याऽर्थानात्मनो हितान् ||२-१५-१२ (११९६५)
कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये.
मागधं साधयिष्याम इष्टिं त्रय इवाग्रयः ||२-१५-१३ (११९६६)
' त्वद्बुद्धिबलमाश्रित्य सर्वं प्राप्स्यति धर्मराद.
जयोऽस्माकं हि गोविन्द येषां नाथो भवान्सदा' ||२-१५-१४ (११९६७)
कृष्ण उवाच. २-१५-१५क्ष् (१४०४)
अर्थानारभते बालो नानुबन्धमवेक्षते.
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ||२-१५-१५ (११९६८)
जित्वा जय्यान्यौवनाश्विः पालनाच्च भगीरथः.
कार्तवीर्यस्तपोवीर्याद्बलात्तु भरतो विभुः ||२-१५-१६ (११९६९)
ऋद्ध्या मरुत्तस्तान्पश्च सम्राजस्त्वनुशुश्रुम.
' सर्वान्वंश्याननुमृशन्नैते सन्ति युगे युगे' ||२-१५-१७ (११९७०)
साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर.
निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः ||२-१५-१८ (११९७१)
बार्हद्रथो नरासन्धस्तद्विद्धि भरतर्षभ.
न चैनं प्रत्यत्युद्ध्यन्त कुलान्येकशतं नृपाः ||२-१५-१९ (११९७२)
तस्मादिह बलादेव साम्राज्यं कुरुते हि सः ||२-१५-२० (११९७३)
रत्नभाजो हि राजानो जरासन्धमुपासते.
न च तुष्यति तेनापि बाल्यादनयमास्थितः ||२-१५-२१ (११९७४)
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात्.
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ||२-१५-२२ (११९७५)
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान्.
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ||२-१५-२३ (११९७६)
' तण्डुलप्रस्थके राजा कपर्दिनमुपासते' .
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे.
पशूनामिव प्रमृष्टानां राज्ञां पशुपतेर्गृहे. २-१५-२४ (११९७७)
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः.
ततः स्म मागधं सङ्ख्ये प्रतिबाधेम यद्वयम् ||२-१५-२५ (११९७८)
षडशीतिः समानीताः शेषा राजंश्चतुर्दश.
जरासन्धेन राजानस्ततः क्रूरं प्रवर्त्स्यते ||२-१५-२६ (११९७९)
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत्.
जयेद्यश्च जरासन्धं स सम्राण्णियतं भवेत् ||||२-१५-२७ (११९८०)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि पञ्चदशोऽध्यायः
||२५. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१५-१८ युधिष्ठिर धर्मार्थनयलक्षणैः सहिता प्राप्तिः पालनं
निग्राह्यलक्षणं साम्रा ज्यं च तेऽस्ति ||
२-१५-१९ बार्हद्रथं जरासन्धं तं विद्धि इति क | घ.पाठः ||
२-१५-२२ बलात्प्रधानपुरुषः जरासन्धः पुरुषतः पुरुषेषु अभागः
अस्वीकृतः ||
सभापर्व -अध्याय ०१६
||श्रीः ||
२. १६. अध्यायः १६
Mahabharata -Sabha Parva -Chapter Topics
युधिष्ठिर्जुनयोर्भाषणम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
युधिष्ठिर उवाच ||
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः.
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात् ||२-१६-१ (११९८१)
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्.
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् ||२-१६-२ (११९८२)
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम्.
यमोपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम् ||२-१६-३ (११९८३)
अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते.
तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम ||२-१६-४ (११९८४)
यथाऽहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम.
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन.
प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः ||२-१६-५ (११९८५)
वैशम्पायन उवाच ||२-१६-६क्ष् (१४०५)
पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी.
रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत ||२-१६-६ (११९८६)
अर्जुन उवाच. २-१६-७क्ष् (१४०६)
धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्.
प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम्. २-१६-७ (११९८७)
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः.
बलेन सदृशं नास्ति वीर्यं तु मम रोचते. २-१६-८ (११९८८)
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति.
निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते ||२-१६-९ (११९८९)
क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये.
सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून् ||२-१६-१० (११९९०)
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति.
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ||२-१६-११ (११९९१)
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते ||२-१६-१२ (११९९२)
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः ||२-१६-१३ (११९९३)
दैन्यं यथा बलवति तथा मोहो बलान्विते.
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना ||२-१६-१४ (११९९४)
जरासन्धिविनाशं च राज्ञां च परिरक्षणम्.
यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत् ||२-१६-१५ (११९९५)
अनारम्भे हि नियतो भवेदगुणनिश्चयः.
गुणान्निः संशयाद्राजन्नैर्गुण्यं मन्यसे कथम् ||२-१६-१६ (११९९६)
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम्.
साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान् ||||२-१६-१७ (११९९७)
इति श्रीमन्महाभारते सभापर्वणि षोडशोऽध्यायः ||१६. .
सभापर्व -अध्याय ०१७
||श्रीः ||
२. १७. अध्यायः १७
Mahabharata -Sabha Parva -Chapter Topics
युधिष्ठिरेण जरासन्धप्रभावप्रश्ने श्रीकृष्णेन तदुपोद्घाततया
बृहद्रथराजोपा ख्यानकथनारम्भः ||१. . अपुत्रस्य बृहथस्य
पत्नीभ्यां सह तपोवनगमनम् ||२. . तत्र चण्डकौशिकमुनिना
बृहद्रथाय पुत्रीयाम्रफलदानम् ||३. . प्रविभक्ततत्फलभोजनेन
सञ्जातगर्भयोस्तद्भार्ययोः पृथगेकैकशरीरखण्डसम्भवः
||४. . तत्पत्नीभ्यां दासीद्वारा बहिस्त्याजितयोः खण्डयोः जरानाम्न्या
राक्षस्या स न्धानाजरासन्धसम्भवः ||५. . बालकं गृहीत्वा आगतया
जरया सह बृहद्रथस्य संवादः ||६. .
Mahabharata -Sabha Parva -Chapter Text
वासुदेव उवाच ||
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च.
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ||२-१७-१ (११९९८)
न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा.
न चापि कञ्चिदमरमयुद्धेनानुशुश्रुम ||२-१७-२ (११९९९)
एतावदेव पुरुषैः कार्यं हृदयतोषणम्.
नयेन विधिदृष्टेन यदुपक्रमते परान् ||२-१७-३ (१२०००)
सुनयस्यानपायस्य संयोगे परमः क्रमः.
सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः ||२-१७-४ (१२००१)
अनयस्यानुपायस्य संयुगे परमः क्षयटः.
संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः ||२-१७-५ (१२००२)
ते वयं नयमास्थाय शत्रुदेशसमीपगाः.
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ||
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ||२-१७-६ (१२००३)
व्यूढानीकैरतिबलैर्न युद्व्येदरिभिः सह.
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ||२-१७-७ (१२००४)
अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत्.
शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे ||२-१७-८ (१२००५)
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः.
अन्तरात्मेव भूतानां तत्क्षयं नैव लक्षये ||२-१७-९ (१२००६)
अथवैनं निहत्याजौ शेषेणापि समाहताः.
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ||२-१७-१० (१२००७)
युधिष्ठिर उवाच ||२-१७-११क्ष् (१४०७)
कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः.
यस्त्वां स्पृष्ट्वाऽग्निसदृशं न दग्धः शलभो यथा ||२-१७-११
(१२००८)
कृष्ण उवाच ||२-१७-१२क्ष् (१४०८)
शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः.
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ||२-१७-१२ (१२००९)
अक्षौहिणीनां तिसृणां पतिः समरदर्पितः.
राजा बृहद्रथो नाम मगधाधिपतिर्बली ||२-१७-१३ (१२०१०)
रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः.
नित्यं दीक्षाङ्किततनुः शतक्रतुरिवापरः ||२-१७-१४ (१२०११)
तेजसा सूर्यसङ्काशः क्षमया पृथिवीसमः.
यश्चान्तकसमः क्रोधे श्रिया वैश्रवणोपमः ||२-१७-१५ (१२०१२)
' स्वराज्यं कारयामास मगधेषु गिरिव्रजे' .
तस्याभिजनसंयुक्तैर्गणैर्भरतसत्तम.
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ||२-१७-१६ (१२०१३)
स काशिराजस्य सुते यमजे भरतर्षभः.
उपयेमे महावीर्यो रूपद्रविणसंयुते. २-१७-१७च्तयोश्चकार समयं
मिथः स पुरुषर्षभः ||२-१७-१७ (१२०१४)
नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा.
स ताभ्यां शुशुभे राजा पत्नीभ्यां वसुधाधिपः ||२-१७-१८ (१२०१५)
प्रियाम्भामनुरूपाभ्यां करेणुभ्यामिव द्विपः.
तयोर्मध्यगतश्चापि रराज वसुधाधिपः ||२-१७-१९ (१२०१६)
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः.
विषयेषु निमग्रस्य तस्य यौवनमत्यगात् ||२-१७-२० (१२०१७)
न च वंशकरः पुत्रस्तस्याजायत कश्चन.
मङ्गलैर्बभिर्होमैः पुत्रकामाभिरिष्टिभिः ||२-१७-२१ (१२०१८)
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम्.
स भार्याभ्यां च सहितो निर्वेदमगमद्धृशम् ||२-१७-२२ (१२०१९)
' राज्यं चापि परित्यज्य तपोवनमथाश्रयत्. '
वार्यमाणः प्रकृतिभिर्नृपभक्त्या विशाम्पते' ||२-१७-२३ (१२०२०)
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः ||
शुश्राव तपसि श्रेष्ठमुदारं चण्डकौशिकम् ||२-१७-२४ (१२०२१)
यदृच्छयाऽऽगतं तं तु वृक्षमूलमुपाश्रितम्.
पत्नीभ्यां सहितो राजा सर्वयत्नैरतोषयत् ||२-१७-२५ (१२०२२)
' बृहद्रथं च स ऋषिर्यथावच्चाभ्यनन्दत. '
उपविष्टः स तेनाथ अनुज्ञातो महात्मना ||२-१७-२६ (१२०२३)
तमपृच्छत्तदा विप्रः किमागमनमित्यथ.
विप्रैरनुगतस्यैव पत्नीभ्यां सहितस्य च ||२-१७-२७ (१२०२४)
स उवाच मुनिं राजा भगवन्नास्ति मे सुतः.
अपुत्रस्य तु राज्येन वृद्धत्वे किं प्रयोजनम् ||२-१७-२८ (१२०२५)
सोऽहं तपश्चरिष्यामि पत्नीभ्यां सहितो वने.
नाप्रजस्य मुने किर्तिः स्वधा चैवाक्षया भवेत्.
एवमुक्तः स राज्ञा तु मुनिः कारुण्यमागतः ||२-१७-२९ (१२०२६)
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः.
परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत ||२-१७-३० (१२०२७)
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः.
पुत्रदर्शननैराश्याद्बाष्पसन्दिग्धया गिरा ||२-१७-३१ (१२०२८)
राजोवाच ||२-१७-३२क्ष् (१४०९)
भगवन् राज्यमुत्सृज्य प्रस्थितस्य तपोवनम्.
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ||२-१७-३२ (१२०२९)
कृष्ण उवाच. २-१७-३३क्ष् (१४१०)
एतच्छ्रुत्वा मुनिर्ध्यानमगमन्क्षुभितेन्द्रियः.
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत ||२-१७-३३ (१२०३०)
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह.
अवानमशुकादष्टमेकमाम्रफलं किल ||२-१७-३४ (१२०३१)
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च.
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारणम् ||२-१७-३५ (१२०३२)
उवाच च महाप्राज्ञस्तं राजानं महामुनिः.
गच्छ राजन्कृतार्थोऽसि निवर्तस्व नराधिप ||२-१७-३६ (१२०३३)
' एष ते तनयो राजन्मा तपेह तपोवने.
प्रजाः पालय धर्मेण एव धर्मो महीक्षिताम् ||२-१७-३७ (१२०३४)
यजस्व विविधैर्यज्ञैरिन्द्रं तर्पय चेन्दुना.
पुत्रं राज्ये प्रतिष्ठाप्य तत आश्रममाव्रज ||२-१७-३८ (१२०३५)
अष्टौ वरान्प्रयच्छामि तव पुत्रस्य पार्थिव.
ब्रह्मण्यत्वमजेयत्वं युद्धेषु च तथा मतिः ||२-१७-३९ (१२०३६)
प्रियातिथेयतां चैव दीनानामन्ववेक्षणम्.
तथा बलं च सुभहल्लोके कीर्ति च शाश्वतीम् ||२-१७-४० (१२०३७)
अनुरागं प्रजानां चेत्येवमष्टौ वरान्नृप.
गच्छ त्वं कृतकृत्योऽसि निवर्तस्व जनाधिप' ||२-१७-४१ (१२०३८)
अनुज्ञातः स ऋषिणा पत्नीभ्यां सहितो नृपः.
पौरैरनुगतश्चापि विवेश स्वपुरं ततः ||२-१७-४२ (१२०३९)
यथासमयमाज्ञाय तदा स नृपसत्तमः.
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ||२-१७-४३ (१२०४०)
मुनेश्च बहुमानेन कालस्य च विपर्ययात्.
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे. २-१७-४४ (१२०४१)
तयोः समभवद्गर्भः फलप्राशनसम्भवः.
ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह ||२-१७-४५ (१२०४२)
अथ काले महाप्राज्ञ यथासमयमागते.
प्रजायेतामुभे राजञ्शरीरशकले तदा ||२-१७-४६ (१२०४३)
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिचे.
दृष्ट्वा शरीरशकले प्रवेपतुरुभे भृशम् ||२-१७-४७ (१२०४४)
उद्विग्रे सह संमन्त्र्य ते भगित्यौ तदाऽबले.
सजीवे प्राणिशकले तत्यजाते सुदुःखिते ||२-१७-४८ (१२०४५)
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे.
निर्गम्यान्तः पुरद्वारात्समुत्सृज्याभिजग्मतुः ||२-१७-४९ (१२०४६)
' दुकूलाभ्यां सुसञ्छन्ने पाण्डराभ्यामुभे तदा.
अज्ञाते कस्यचित्ते तु जहतुस्ते चतुष्पथे ||२-१७-५० (१२०४७)
ततो विविशतुर्धात्र्यौ पुनरन्तः पुरं तदा.
कथयामासतुरुभे देवीभ्यां तु पृथक्पृथक्' ||२-१७-५१ (१२०४८)
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी.
जग्राह मनुजव्याघ्र मांसशोणितभोजना ||२-१७-५२ (१२०४९)
कर्तुकामा सुखवहे शकले सा तु राक्षसी.
संयोजयामास तदा विधानबलचोदिता ||२-१७-५३ (१२०५०)
ते समानीतमात्रे तु शकले पुरुषर्षभ.
एकमूर्तिधरो वीरः कुमारः समपद्यत ||२-१७-५४ (१२०५१)
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना.
न शशाक समुद्वोदुं वज्रसारमयं शिशुम् ||२-१७-५५ (१२०५२)
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः.
प्राक्रोशदतिसंरब्धः सतोय इव तोयदः ||२-१७-५६ (१२०५३)
तेन शब्देन सम्भ्रान्तः सहसाऽन्तः पुरे जनः.
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप ||२-१७-५७ (१२०५४)
ते चाबले परिम्लाने पयः पूर्णपयोधरे.
निराशे पुत्रलाभाय सहसैवाब्यगच्छताम् ||२-१७-५८ (१२०५५)
ते च दृष्ट्वा तथाभूते राजानं चेष्टसंततिम्.
तं च बालं सुबलिनं चिन्तयामास राक्षसी ||२-१७-५९ (१२०५६)
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः.
बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः ||२-१७-६० (१२०५७)
सा तं बालमुपादाय मेघलेखेन भास्करम्.
कृत्वा च मानुषं रूपमुवाच वसुधाधिपम् ||२-१७-६१ (१२०५८)
बृहद्रथ सुतस्तेऽयं मया दत्तः प्रगृह्यताम्.
तव पत्नीद्वये जातो द्विजातिवरशासनात्.
धात्रीजनपरित्यक्तो मयाऽयं परिरक्षितः ||२-१७-६२ (१२०५९)
कृष्ण उवाच. २-१७-६३क्ष् (१४११)
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे.
तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्जताम् ||२-१७-६३ (१२०६०)
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च.
अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम् ||२-१७-६४ (१२०६१)
कात्वं कमलगर्भाभे मम पुत्रप्रदायिनी.
कामं मा ब्रूहि कल्याणि देवता प्रतिभासि मे ||||२-१७-६५ (१२०६२)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि सप्तदशोऽध्यायः ||१७. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१७-४ क्रमः उपक्रमः ||
२-१७-९ तत्क्षये बलक्षयः इति पाठः ||
२-१७-३४ अवानमशुष्कं सरसमिति यावत् | अमारुतमनाविद्धं इति
घ.पाठः ||
२-१७-४६ प्रजायेतां सुषुवतुः ||
२-१७-४७ स्फिक् कट्या अधोभागः ||
२-१७-५३ सुखवहे एकीकृतयोर्वहनं हि सुखेन भवतीति प्रसिद्धम् ||
२-१७-५४ समानीतमात्रे संयोजितमात्रे ||
२-१७-६४ अराक्षसी वेषतः ||
सभापर्व -अध्याय ०१८
||श्रीः ||
२. १८. अध्यायः १८
Mahabharata -Sabha Parva -Chapter Topics
राजानम्प्रति स्वस्वरूपमभिधाय जराया अन्तर्धानम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
राक्षस्युवाच ||
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी.
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ||२-१८-१ (१२०६३)
गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी.
गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंम्भुवा ||२-१८-२ (१२०६४)
दानवानां विनाशाय स्थापिता दिव्यरूपिणी.
यो मां भक्त्या लिखेत्कुड्ये सपुत्रां यौवनान्विताम् ||२-१८-३ (१२०६५)
गृहे तस्य भवेद्वृद्धिरन्यथा क्षयमाप्नुयात्.
त्वद्गृहे तिष्ठमानाऽहं पूजिताऽहं सदा विभो ||२-१८-४ (१२०६६)
लिखिता चैव कुड्येषु पुत्रैर्बहुभिरावृता.
गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता ||२-१८-५ (१२०६७)
साऽहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप.
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिका. २-१८-६ (१२०६८)
संश्लिषिते मया दैवात्कुमारः समपद्यत.
तव भाग्यान्महाराज हेतुमात्रमहं त्विह ||२-१८-७ (१२०६९)
मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम्.
गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव ||२-१८-८ (१२०७०)
मम नाम्ना च लोकेऽस्मिन्ख्यात एव भविष्यति. २-१८-९ (१२०७१)
कृष्ण उवाच.
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत.
स सङ्गृह्य कुमारं तं प्रविवेश गृहं नृपः ||२-१८-९क्ष् (१४१२)
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा.
आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम् ||२-१८-१० (१२०७२)
तस्य नामाकरोच्चैव पितामहसमः पिता.
जरया सन्धितो यस्माज्जरासन्धो भवत्वयम् ||२-१८-११ (१२०७३)
सोऽवर्धत महातेजा मागधाधिपतेः सुतः.
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः ||२-१८-१२ (१२०७४)
' एवं स ववृधे राजन्कुमारः पुष्करेक्षणः.
कालेन महता चापि यौवनस्थो बभूव ह' ||
मातापित्रोर्नन्दकरः शुक्लपक्षे यथा शशी ||||२-१८-१३ (१२०७५)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि अष्टादशोऽध्यायः ||१८. .
सभापर्व -अध्याय ०१९
||श्रीः ||
२. १९. अध्यायः १९
Mahabharata -Sabha Parva -Chapter Topics
पुनर्यदृच्छागतेन चण्डकौशिकेन जरासन्धपराक्रमादौ
कथिते जरासन्धं राज्येऽभ इषिच्य तपोवनगतस्य सभार्यस्य
बृहद्रथस्य स्वर्गगमनम् ||१. . कृष्णेन कंसवधात् जरासन्धस्य
स्वस्मिन्वैरोदयकथनम् ||२. .
Mahabharata -Sabha Parva -Chapter Text
कृष्ण उवाच ||
कस्यचित्त्वथ कालस्य पुनरेव महातपाः.
मगधेषुपजक्राम भगवांश्चण्डकौशिकः ||२-१९-१ (१२०७६)
तस्याऽऽगमनसंहृष्टः सामात्यः सपुरः सरः.
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ||२-१९-२ (१२०७७)
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत.
स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत् ||२-१९-३ (१२०७८)
प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः.
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना ||२-१९-४ (१२०७९)
सर्वमेतन्मया ज्ञातं राजन्दिव्येन चक्षुषा.
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति ||२-१९-५ (१२०८०)
अस्य रूपं च सत्वं च बलमूर्जितमेव च.
एष श्रिया समुदितः पुत्रस्तव न संशयः ||२-१९-६ (१२०८१)
प्रापयिष्यति तत्सर्वं विक्रमेण समन्वितः.
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः ||२-१९-७ (१२०८२)
पततो वैनतेयस्य गतिमन्ये यथा खगाः.
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः ||२-१९-८ (१२०८३)
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते.
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः ||२-१९-९ (१२०८४)
सर्वमूर्धाभिषिक्तानामेव मूर्ध्नि ज्वलिष्यति.
प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः ||२-१९-१० (१२०८५)
एनमासाद्य राजानः समृद्धबलवाहनाः.
विनाशमुपयास्यन्ति शलभा इव पावकम् ||२-१९-११ (१२०८६)
एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति.
वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः ||२-१९-१२ (१२०८७)
एष धारयित सम्यक्चातुर्वर्ण्यं महाबलः.
शुभां शुभवतीं स्फीतां सर्वसस्यधरां धराम् ||२-१९-१३ (१२०८८)
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः.
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः ||२-१९-१४ (१२०८९)
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्.
सर्वलोकेष्वतिबलः साक्षाद्द्रक्ष्यति मागधः ||२-१९-१५ (१२०९०)
एवं ब्रुवन्नेव मुनिः स्वकार्यमिव चिन्तयन्.
विसर्जयामास नृपं बृहद्रथमथारिहन् ||२-१९-१६ (१२०९१)
प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः.
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा ||२-१९-१७ (१२०९२)
बृहद्रथो नरपतिः परां निर्वृतिमाययौ.
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः.
पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत् ||२-१९-१८ (१२०९३)
ततो वनस्थे पितरि मातृभ्यां सह भारत.
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे ||२-१९-१९ (१२०९४)
अथ दीर्घस्य कालस्य तपोवनचरो नृपः.
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः ||२-१९-२० (१२०९५)
जरासन्धोऽपि नृपतिर्यथोक्तं कौशिकेन तत्.
वरप्रदानमखिलं प्राप्य राज्यमपालयत् ||२-१९-२१ (१२०९६)
हते चैव मया कंसे सहंसडिभिके तदा.
जरासन्धस्य दुहिता रोदते पार्श्वतः पितुः.
जातो वै वैरनिर्बन्धो मयासीत्तत्र भारत ||२-१९-२२ (१२०९७)
भ्रामयित्वा शतगुणमेकोनं येन भारत.
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात् ||२-१९-२३ (१२०९८)
तिष्ठतो मथुरायां वै कुत्स्नस्याद्भुतकर्मणः.
एकोनयोजनशते सा पपात गदा शुभा ||२-१९-२४ (१२०९९)
दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता.
गदावसानं तत्ख्यातं मथुरायाः समीपतः ||२-१९-२५ (१२१००)
तस्यास्तां हंसडिभिकावशस्त्रनिधनावुभौ.
मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ ||२-१९-२६ (१२१०१)
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ.
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ||२-१९-२७ (१२१०२)
एवमेष तदा वीर बलिभिः कुकुरान्धकैः.
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः ||||२-१९-२८ (१२१०३)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि एकोनविंशोऽध्यायः ||१९. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१९-१६ आह्निकाय महातपाः इति घ | पाठः ||
सभापर्व -अध्याय ०२०
||श्रीः ||
२. २०. अध्यायः २०
Mahabharata -Sabha Parva -Chapter Topics
कृष्णयुधिष्ठिरसंवादानन्तरं भीमार्जुनाभ्यांसह कृष्णस्य
मागधपुरप्रस्थानम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
वासुदेव उवाच ||
पतितौ हंसडिभिकौ कंसश्च सगणो हतः.
जरासन्धस्य निधने कालोऽयं समुपागतः ||२-२०-१ (१२१०४)
न शक्योऽसौ रणे जेतुं सर्वैरपि सुरासुरैः.
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे ||२-२०-२ (१२१०५)
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः.
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः ||२-२०-३ (१२१०६)
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः.
न सन्देहो यथा युद्धमेकेनाप्युपयास्यति ||२-२०-४ (१२१०७)
अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः.
भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति ||२-२०-५ (१२१०८)
अलं तस्य महाबाहुर्भीमसेनो महाबलः.
लोकस्य समुदीर्णस्य निधनायान्तको यथा ||२-२०-६ (१२१०९)
यदि भीमबलं वेत्सि यदि ते प्रत्ययो मयि.
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ||२-२०-७ (१२११०)
वैशम्पायन उवाच ||२-२०-८क्ष् (१४१३)
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः.
भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ ||२-२०-८ (१२१११)
युधिष्ठर उवाच. २-२०-९क्ष् (१४१४)
अच्युताच्युत मामैवं व्याहरामित्रकर्शन.
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ||२-२०-९ (१२११२)
यथा वदसि गोविन्द सर्वं तदुपपद्यते.
नहि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ||२-२०-१० (१२११३)
' येषामभिमुखी लक्ष्मीस्तेषां कृष्ण त्वमग्रतः' .
निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः. २-२--११च्
राजसूयश्च मे लब्धो निदेशे त्व तिष्ठतः ||२-२०-११ (१२११४)
क्षिप्रमेव यथा त्वेतत्कार्यं समुपपद्यते.
अप्रमत्तो जगन्नाथ तथा कुरु समुपपद्यते. २-२०-१२ (१२११५)
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे.
धर्मकामार्थरहितो रोगार्त इव दुःखितः ||२-२०-१३ (१२११६)
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना.
नाजेयोस्त्यनयोऽर्लोके कृष्णयोरिति मे मतिः ||२-२०-१४ (१२११७)
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः.
युवाभ्यां सहितो वीर किं न कुर्यान्महायशाः ||२-२०-१५ (१२११८)
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम्.
अन्धं बलं जडं प्राहुः प्रणेतव्यं विचक्षणैः ||२-२०-१६ (१२११९)
यतो हि निम्नं भवति नयन्ति हि ततो जलम्.
यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम् ||२-२०-१७ (१२१२०)
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम्.
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ||२-२०-१८ (१२१२१)
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम्.
पुरस्कृर्वीत कार्येषु कृष्णकार्यार्थसिद्धये ||२-२०-१९ (१२१२२)
एवमेव यदुश्रेष्ठ यावत्कार्याथिसिद्धये.
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम्.
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति ||२-२०-२० (१२१२३)
वैशम्पायन उवाच. २-२०-२१क्ष् (१४१५)
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः.
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ||२-२०-२१ (१२१२४)
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदैः.
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ||२-२०-२२ (१२१२५)
' माधवः पाण्डवेयौ च प्रतस्थुर्व्रतधारिणः' .
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम्.
रविसोमाग्निवपुषां दीप्तमासीत्तदा वपुः ||२-२०-२३ (१२१२६)
इतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ.
एककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ ||२-२०-२४ (१२१२७)
ईशौ हितौ महात्मानौ सर्वकार्यप्रवर्तिनौ.
धर्मकामार्थलोकानां कार्याणां च प्रवर्तकौ ||२-२०-२५ (१२१२८)
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम्.
रम्यं पद्मसरो गत्वा कालकूडमतीत्य च ||२-२०-२६ (१२१२९)
गण्डकीं च महाशोणं सदानीरां तथैव च.
एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते ||२-२०-२७ (१२१३०)
उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान्.
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ||२-२०-२८ (१२१३१)
अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा.
कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः ||२-२०-२९ (१२१३२)
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम्.
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ||||२-२०-३० (१२१३३)
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि विंशोऽध्यायः
||२०. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-२०-३ जयोऽर्जुनः ||
सभापर्व -अध्याय ०२१
||श्रीः ||
२. २१. अध्यायः २१
Mahabharata -Sabha Parva -Chapter Topics
जरासन्धसमीपं गतानां श्रीकृष्णभीमार्जुनानां जरासन्धेन सह
विवादः ||१. .
Mahabharata -Sabha Parva -Chapter Text
वासुदेव उवाच ||
एष पार्थ महान्भाति पशुमान्नित्यमम्बुमान्.
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ||२-२१-१ (१२१३४)
वैहारो विपुलः शैलो वाराहो वृषभस्तथा.
तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ||२-२१-२ (१२१३५)
एते पञ्चमहाशृङ्गाः पर्वताः शीतलद्रुमाः.
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ||२-२१-३ (१२१३६)
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः.
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः ||२-२१-४ (१२१३७)
' यत्र दीर्घतमा नाम ऋषिः परमन्त्रितः' .
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः.
औशीनर्यामजनयत्काक्षीवाद्यान्सुतान्मुनिः ||२-२१-५ (१२१३८)
गौतमः प्रणयात्तस्माद्यथाऽसौ तत्र सद्मनि.
भजते मागधं वंशं स नृपाणामनुग्रहः. २-२१-६ (१२१३९)
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः.
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ||२-२१-७ (१२१४०)
वनराजीस्तु पश्येमाः पिप्लानां मनोरमाः.
लोघ्राणां च शुभाः पार्थ गौतमौकः समीपजाः ||२-२१-८ (१२१४१)
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ.
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ||२-२१-९ (१२१४२)
अपारिहार्या मेघानां मागधा मनुना कृताः.
कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम् ||२-२१-१० (१२१४३)
' पाण्डरे विपुले चैव तथा वाराहकेऽपि च.
चैत्यके चज गिरिश्रेष्ठे मादङ्गे च शिलोच्चये ||२-२१-११ (१२१४४)
एतेषु पर्वतेन्द्रेषु सर्वसिद्धसमालयाः.
यतीनामाश्रमाश्चैव मुनीनां च महात्मनाम् ||२-२१-१२ (१२१४५)
वृषभस्य तमालस्य महावीर्यस्य वै तथा.
गन्धर्वरक्षसां चैव नागानां च तथाऽऽलयाः ||२-२१-१३ (१२१४६)
कक्षीवतस्तपोवीर्यात्तपोदा इति विश्रुताः.
पुण्यतीर्थाश्च ते सर्वे सिद्धानां चैव कीर्तिताः.
मणेश्च दर्शनादेव भद्रं शिवमवाप्नुयात्' ||२-२१-१४ (१२१४७)
एवं प्राप्य पुरं रम्यं दुराधर्पं समन्ततः ||
अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते ||२-२१-१५ (१२१४८)
वयमासादने तस्य दर्पमद्य हरेम हि. २-२१-१६ (१२१४९)
वैशम्पायन उवाच.
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः ||२-२१-१६क्ष् (१४१६)
वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम्.
हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम् ||२-२१-१७ (१२१५०)
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजतम्.
ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् ||२-२१-१८ (१२१५१)
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः.
मागधानां तु रुचिरं चैत्यकान्तरमाद्रवन् ||२-२१-१९ (१२१५२)
यत्र मांसादमृषभमाससाद बृहद्रथः.
तं हत्वा मासतालाभिस्तिस्रो भेरीकारयत् ||२-२१-२० (१२१५३)
स्वपुरे स्थापयामास तेन चानह्य चर्मणा.
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ||२-२१-२१ (१२१५४)
भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन्.
द्वारतोऽभिमुखाः सर्वे ययुर्नानायुधास्तधा ||२-२१-२२ (१२१५५)
मागधानां सुरुचिरं चैत्यकं तं समाद्रवन्.
शिरसीव समाघ्नन्तो जरासन्धं जिघांस्वः ||२-२१-२३ (१२१५६)
स्थिरं सुविपुलं शृङ्गं सुमहत्तत्पुरातनम्.
अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम् ||२-२१-२४ (१२१५७)
विपुलैर्बाहुभिर्वीरस्तेऽभिहत्याभ्यपातयन्.
ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा ||२-२१-२५ (१२१५८)
एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः.
दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन् ||२-२१-२६ (१२१५९)
पर्युग्न्यकुर्वंश्च नृपं द्विरदस्थं पुरोहिताः.
ततस्तच्छान्तये राजा जरासन्धः प्रतापवान्.
दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत् ||२-२१-२७ (१२१६०)
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः.
युयुत्सवः प्रविविशुर्जरासन्धेन भारत ||२-२१-२८ (१२१६१)
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्.
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनाम् ||२-२१-२९ (१२१६२)
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः.
राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः.
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः ||२-२१-३० (१२१६३)
' कर्पूरशृङ्गं कोष्ठं च सफलं चान्तरापणे.
वैश्याद्बलाद्गृहीत्वा ते विहृत्य च महारथाः' ||२-२१-३१ (१२१६४)
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः.
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः ||२-२१-३२ (१२१६५)
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा.
शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः ||२-२१-३३ (१२१६६)
अशोभन्त महाराज बाहवो युद्धशालिनाम्.
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्दानिवोद्गतान् ||२-२१-३४ (१२१६७)
व्यूढोरस्कान्मागधानां विस्मयः समपद्यत.
' अद्वारेणाभ्यवस्कन्द्य विविशुर्मागधालयम्' ||२-२१-३५ (१२१६८)
ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः.
अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः ||२-२१-३६ (१२१६९)
' भो शब्देनैव राजानमुचुस्ते तु महारथाः' .
तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान्.
प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि ||२-२१-३७ (१२१७०)
उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः.
मौनमासीत्तदा पार्थभीमयोर्जनमेजय ||२-२१-३८ (१२१७१)
तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत्.
वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः ||२-२१-३९ (१२१७२)
अर्वाङ्निशीथात्परतस्त्वाया सार्धं वदिष्यतः.
यज्ञागारे स्थापयित्वा राजा राजगृहं वदिष्यतः. २-२१-४० (१२१७३)
ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः.
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ||२-२१-४१ (१२१७४)
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः.
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ||२-२१-४२ (१२१७५)
तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः.
उपतस्थे जरान्धो विस्मितश्चाभवत्तदा ||२-२१-४३ (१२१७६)
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः.
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ||२-२१-४४ (१२१७७)
स्वस्त्यस्तु कुशलं राजन्निति तत्र व्यवस्थिताः.
तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम् ||२-२१-४५ (१२१७८)
तानब्रवीञ्जरासन्धस्तथा पाण्डवयादवान्.
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् ||२-२१-४६ (१२१७९)
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः.
सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः ||२-२१-४७ (१२१८०)
तानुवाच जरासन्धः सत्यसन्धो नराधिपः.
विगर्हमाणः कौरव्य वेषग्रहणवैकृतान् ||
न स्नातकव्रता विप्रा वहिर्माल्यानुलेपनाः ||२-२१-४८ (१२१८१)
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः.
के यूयं पुष्पवन्तश्च भुजैर्ज्याकृतलक्षणैः ||२-२१-४९ (१२१८२)
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ.
एवं विरागवसना बहिर्माल्यानुलेपनाः ||२-२१-५० (१२१८३)
' क्षत्रिया एव लोकेऽस्मिन्विदिता मम सर्वशः' ||
सत्यं वदत के यूयं सत्यं राजसु शोभते ||२-२१-५१ (१२१८४)
चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह सद्मनि.
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्विषात् ||२-२१-५२ (१२१८५)
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः.
कर्म चैतद्विलिङ्गस्थं किं वोऽद्य प्रसमीक्षितम् ||२-२१-५३ (१२१८६)
एवं च मामुपास्थाय कस्माच्च विधिर्नाहणाम्.
प्रणीतां नानुगृह्णीत कार्यं किं वाऽस्मदागमे ||२-२१-५४ (१२१८७)
वैशम्पायन उवाच. २-२१-५५क्ष् (१४१७)
एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः.
स्निग्धगमभीरया वाचा वाक्यं वाक्यविशारदः ||२-२१-५५ (१२१८८)
कृष्ण उवाच. २-२१-५६क्ष् (१४१८)
स्नातकान्ब्राह्मणान्राजन्विद्ध्यस्मांस्त्वं नराधिप.
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः ||२-२१-५६ (१२१८९)
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत.
विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति ||२-२१-५७ (१२१९०)
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम्.
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् ||
अम्प्रगल्भं वचस्तस्य तस्माद्बार्हद्रथेरितम् ||२-२१-५८ (१२१९१)
स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत्.
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयटः ||२-२१-५९ (१२१९२)
अद्वारेण रिम्पोर्गेहं द्वारेण सुहृदो गृहान्.
प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः ||२-२१-६० (१२१९३)
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम्.
प्रतिगृह्णीम् तद्विद्वि एतन्नः शाश्वतं व्रतम् ||||२-२१-६१ (१२१९४)
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि
एकविंशोऽध्यायः ||२१. .
सभापर्व -अध्याय ०२२
||श्रीः ||
२. २२. अध्यायः २२
Mahabharata -Sabha Parva -Chapter Topics
कृष्णजरासन्धयोर्विवादानन्तरं जरासन्धस्य युद्धोद्यमः ||१. .
Mahabharata -Sabha Parva -Chapter Text
जरासन्ध उवाच.
न स्मरामि कदा वैरं कृतं युष्माभिरित्युत.
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् ||२-२२-१ (१२१९५)
वैकृते वा सति कथं मन्यध्वं मामनागसम्.
अरिं वै ब्रूत हे विप्राः सतां समय एष हि ||२-२२-२ (१२१९६)
अर्थधर्मोपघाताद्धि मनः समुपतप्यते.
योऽनागसि प्रसजति क्षत्रियो हि न संशयटः ||२-२२-३ (१२१९७)
अतोऽन्यथा चरँल्लोके धर्मज्ञः सन्महारथः.
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ||२-२२-४ (१२१९८)
त्रैलोक्ये क्षत्रधर्मो हि श्रेयान्वै साधुचारिणाम्.
नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः ||२-२२-५ (१२१९९)
तस्य मेऽद्य स्थितस्येह स्वधर्मे नियतात्मनः.
अनागसं प्रजानां च प्रमादादिव जल्पथ ||२-२२-६ (१२२००)
कृष्ण उवाच. २-२२-७क्ष् (१४१९)
कुलकार्यं महाबाहो कश्चिदेकः कुलोद्वहः.
वहते यस्तन्नियोगाद्वयमभ्युद्यतास्त्वयि ||२-२२-७ (१२२०१)
त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः.
तदागः क्रूरमुत्पाद्य मन्यसे किमनागसम् ||२-२२-८ (१२२०२)
राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम.
तद्राज्ञः सन्निगृह्य त्वं रुद्रायोपजिहीर्षसि ||२-२२-९ (१२२०३)
अस्मांस्तदेनोपगच्छेत्कृतं बार्हद्रथ त्वया.
वयं हिं शक्ता धर्मस्य रक्षणे धर्मचारिणः ||२-२२-१० (१२२०४)
' तस्मादद्योपगच्छामस्तव बार्हद्रथान्तिकम्' .
मनुष्याणां समालम्भो न च दृष्टः कदाचन.
स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम् ||२-२२-११ (१२२०५)
सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यसि.
कोऽन्यं एवं यथा हि त्वं जरासन्ध वृथामतिः ||२-२२-१२ (१२२०६)
यस्यां यस्यामवस्थायां यद्यत्कर्म करोति यः.
तस्यां तस्यामवस्थायां तत्फलं समवाप्नुयात् ||२-२२-१३ (१२२०७)
ते त्वां ज्ञातिक्षयकरं यममार्तानुसारिणः.
ज्ञातिवृद्धिनिमित्तार्थं विनिहन्तुमिहागताः ||२-२२-१४ (१२२०८)
नास्ति लोके पुमानन्यः क्षत्रियोष्विति चैव तत्.
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ||२-२२-१५ (१२२०९)
को हि जानन्नभिजनमात्मवान्क्षत्रियो नृप.
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ||२-२२-१६ (१२२१०)
स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः.
जयन्ति क्षत्रिया लोकांस्तद्विद्धि मनुजर्षभ ||२-२२-१७ (१२२११)
स्वर्गयोनिर्महद्ब्रह्म स्वर्गयोनिर्महद्यशः.
स्वर्गं योनिस्तपो युद्धे मृत्युः सोऽव्यभिचारवान् ||२-२२-१८ (१२२१२)
एष ह्यैन्द्रो वैजयन्तो गुणैर्नित्यं समाहितः.
येनासुरान्पराजित्य जगत्पाति शतक्रतुः ||२-२२-१९ (१२२१३)
स्वर्गमार्गाय कस्य स्याद्विग्रहो वै यथा तव.
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितः ||२-२२-२० (१२२१४)
माऽवमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे.
समं चेजस्त्वया चैव विशिष्टं वा नरेश्वर ||२-२२-२१ (१२२१५)
यावदेतदसम्बुद्धं तावदेव भवेत्तव.
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ||२-२२-२२ (१२२१६)
जहि त्वं सदृशेष्वेव मानं दर्पं च मागध.
मा गमः ससुतामात्यः सबलश्च यमक्षयम् ||२-२२-२३ (१२२१७)
दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः.
श्रेयसो ह्यवमत्येह विनेशुः सबला नृपाः ||२-२२-२४ (१२२१८)
युयुक्षमाणास्त्वत्तो हि न वयं ब्राह्मणा ध्रुवम्.
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ.
अनयोर्मातुलेयं च कृष्णं मां विद्धि ते रिपुम् ||२-२२-२५ (१२२१९)
त्वामाह्वयामहे राजन्स्थिरो युध्वस्व मागध.
मुच्छ वा नृपतीन्सर्वान् गच्छ वा त्वं यमक्षयम् ||२-२२-२६ (१२२२०)
' वैशम्पायन उवाच ||२-२२-२७क्ष् (१४२०)
एतच्छ्रुत्वा जरासन्धः क्रुद्धो वचनमब्रवीत् ||२-२२-२७ (१२२२१)
नाहं कंसः प्रलम्बो वा न बाणो न च मुष्टिकः.
नरको नेन्द्रतपनो न केशी न च पूतना ||२-२२-२८ (१२२२२)
न कालयवनो वाऽपि ये त्वया निहता युधि.
त्वं तु गोपकुलोत्पन्नो जातिं वै पौर्विकीं स्मर ||२-२२-२९ (१२२२३)
योऽस्मद्भयादतिक्रम्य सागरानूपमाश्रितः.
जन्मभूमिं परित्यज्य मधुरां प्राकृतो यथा ||२-२२-३० (१२२२४)
सोऽधुना कत्थसे शौरे शरदीव यथा घनः.
अद्यानृण्यं करिष्यामि भोजराजस्य धीमतः ||२-२२-३१ (१२२२५)
जामातुरौग्रसेनस्य त्वां निहत्याद्य माधव.
चिरकाङ्क्षितो मे सङ्ग्रामस्त्वां हन्तुं समुहृद्गुणम् ||२-२२-३२ (१२२२६)
दिष्ट्या मे सफलो यत्नः कृतो देवैः सवासवैः.
क्लीबाविमौ च गोविन्द भीमसेनार्जुनावुभौ ||२-२२-३३ (१२२२७)
हिंस्यासि युधि विक्रम्य सिंहः क्षुद्रमृगाविव. २-२२-३४ (१२२२८)
वैशम्पायन उवाच ||
तस्य रोषाभिभूतस्य जरासन्धस्य गर्जतः ||२-२२-३४क्ष् (१४२१)
सर्वभूतानि वित्रेमुषे तत्रासन्समागताः. २-२२-३५ (१२२२९)
श्रीभगवानुवाच ||
किं गर्जसि जरासन्ध कर्मणा तत्समाचर ||२-२२-३५क्ष् (१४२२)
मम निर्देशकर्तृभ्यां पाण्डवाभ्यां नृपाधम.
समात्यं ससुतं चाद्य घातयिष्याम्यहं रणे.
न कथञ्चन जीवन्वै प्रवेक्ष्यसि पुरोत्तमम्' ||२-२२-३६ (१२२३०)
जरासन्ध उवाच. २-२२-३७क्ष् (१४२३)
नाजितान्वै नरपतीनहमादद्मि काश्चन.
अजितः पर्यवस्थाता कोऽत्र यो न मया जितः ||२-२२-३७ (१२२३१)
क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम्.
विक्रम्य वशमानीय कामतो यत्समाचरेत् ||२-२२-३८ (१२२३२)
देवातार्थमुपाहृत्य राज्ञः कृष्ण कथं भयात्.
अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन् ||२-२२-३९ (१२२३३)
सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः.
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगत्पृथगेव वा ||२-२२-४० (१२२३४)
वैशम्पाय उवाच. २-२२-४१क्ष् (१४२४)
एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम्.
अज्ञापयत्तदा राजा ययुत्सुर्भीमकर्मभिः ||२-२२-४१ (१२२३५)
स तु सेनापतिं राजा सस्मार भरतर्षभ.
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते ||२-२२-४२ (१२२३६)
ययोस्ते नामनी राजन्हंसेति डिबिकेति च.
पूर्वं सङ्कथिते पुम्भिर्नृलोके लोकसत्कृते ||२-२२-४३ (१२२३७)
तं तु राजन्विभुः शौरी राजानं बलिनां वरम्.
स्मृत्वा पुरुषशार्दूलः शार्दूलसमविक्रमम् ||२-२२-४४ (१२२३८)
सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम्.
भागमन्यस्य निर्दिष्टमवध्यं मधुर्भिर्मृधेः ||२-२२-४५ (१२२३९)
नात्मनाऽऽत्मवतां मुख्य इयेष मधुसूदनः.
ब्राह्मीमाज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ||||२-२२-४६ (१२२४०)
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि
द्वाविंशोऽध्यायः ||२. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-२२-४५ मधुभिर्यादवैः | ष्टं वध्य मत्वा तदाच्युतः इति पाठः ||
सभापर्व -अध्याय ०२३
||श्रीः ||
२. २३. अध्यायः २३
Mahabharata -Sabha Parva -Chapter Topics
कृष्णजरासन्धयोर्द्वेषकारणकथनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
जनमेजय उवाच.
किमर्थं वैरिणावास्तामुभौ तौ कृष्णमागधौ.
कथं च निर्जितः सङ्ख्ये जरासन्धेन माधवः ||२-२३-१ (१२२४१)
कश्च कंसो मागधस्य यस्य हेतोः स वैरवान्.
एतदाचक्ष्व मे सर्वं वैशम्पायन तत्वतः ||२-२३-२ (१२२४२)
वैशम्पायन उवाच ||२-२३-३क्ष् (१४२५)
यादवानामन्ववाये वसुदेवो महामतिः.
उदपद्यत वार्ष्णेयो ह्युग्रसेनस्य मन्त्रभृत् ||२-२३-३ (१२२४३)
उग्रसेनस्य कंसस्तु बभूव बलवान्सुतः.
ज्येष्ठो बहूनां कौरव्य सर्वशस्त्रविशारदः ||२-२३-४ (१२२४४)
जरासन्धस्य दुहिता तस्य भार्याऽतिविश्रुता.
राज्यशुक्लेन दत्ता सा जरासन्धेन धीमता ||२-२३-५ (१२२४५)
तदर्थमुग्रसेनस्य मधुरायां सुतस्तदा.
अभिषिक्तस्तदाऽमात्यैः स वै तीव्रपराक्रमः ||२-२३-६ (१२२४६)
ऐश्वर्यबलमत्तस्तु स तदा बलमोहितः.
निगृह्य पितरं भुङ्क्ते तद्राज्यं मन्त्रिभिः सह ||२-२३-७ (१२२४७)
वसुदेवस्य तत्कृत्यं न शृणोति स मन्दधीः.
त तेन सह तद्राज्यं धर्मतः पर्यपालयत् ||२-२३-८ (१२२४८)
प्रीतिमान्स तु दैत्येन्द्रो वसुदेवस्य देवकीम्.
उवाह भार्या स तदा दुहिता देवकस्य या ||२-२३-९ (१२२४९)
तस्यामुद्वाह्यमानायां रथेन जनमेजय.
उपारुरोह वार्ष्णेयं कंसो भूमिपतिस्तदा ||२-२३-१० (१२२५०)
ततोऽन्तरिक्षे वागासीद्देवदूतस्य कस्यचित्.
वसुदेवश्च शुश्राव तां वाचं पार्थिवश्च सः ||२-२३-११ (१२२५१)
यामेतां वहमानोऽद्य कंसोद्वहसि देवकीम्.
अस्या यश्चाष्टमो गर्भः स ते मृत्युर्भविष्यति ||२-२३-१२ (१२२५२)
सोऽवतीर्य ततो राजा खड्गमुद्धृत्य निर्मलम्.
इयेष तस्या मूर्धानं छेत्तुं परमदुर्मतिः ||२-२३-१३ (१२२५३)
सान्त्वयन्स तदा कंसं हसन्कोधवशानुगम्.
राजन्ननुनयामास वसुदेवो महामतिः ||२-२३-१४ (१२२५४)
अहिंस्यां प्रमदामाहुः सर्वधर्मेषु पार्थिव.
अकस्मादबलां नारीं हन्तासीमामनागसीम् ||२-२३-१५ (१२२५५)
यच्च तेऽत्र भयं राजञ्शक्यते बाधितुं त्वया.
इयं शक्या पालयितुं समयं चैव रक्षितुम् ||२-२३-१६ (१२२५६)
अस्यास्त्वमष्टमं गर्भं जातमात्रं महीपते.
विध्वंसय तदा प्राप्तमेवं परिहृतं भवेत् ||२-२३-१७ (१२२५७)
एवं स राजा कथितो वसुदेवेन भारत.
तस्य तद्वचनं चके शूरसेनपतिस्तदा ||२-२३-१८ (१२२५८)
ततस्तस्यां सम्बभूवुः कुमाराः सूर्यवर्चसः.
जाताञ्चातांस्तु तान्सर्वाञ्जघान मधुरेश्वरः ||२-२३-१९ (१२२५९)
अथ तस्यां समभवद्बलदेवस्तु सत्तमः.
याम्यता मायया तं तु यमो राजा विशाम्पते ||२-२३-२० (१२२६०)
देवक्या गर्भमतुलं रोहिण्या जठरेऽक्षिपत्.
आकृष्य कर्षणात्सम्यक्सङ्कर्षणं इति स्मृतः ||२-२३-२१ (१२२६१)
बलश्रेष्ठतया तस्य बलदेव इति स्मृतः.
पुनस्तस्यां समभवदष्टमो मधुमूदनः ||२-२३-२२ (१२२६२)
तस्य गर्भस्य रक्षां तु स चक्रेऽभ्यधिकं नृपः.
ततः काले रक्षणार्थं वसुदेवस्य तत्वतः ||२-२३-२३ (१२२६३)
उग्रः प्रयुक्तः कंसेन सचिवः क्रूरकर्मकृत् ||२-२३-२४ (१२२६४)
जातमात्रं वासुदेवमथाकृष्य पिता ततः.
उपजह्रे परिक्रीतां सुतां गोपस्य कस्यचित् ||२-२३-२५ (१२२६५)
अमृष्यमाणस्तं शब्दं देवदूतस्य पार्थिवः.
वासुदेवं महात्मानमर्पयामास गोकुले ||२-२३-२६ (१२२६६)
वासुदेवोपि गोपेषु ववृधेऽब्जमिवाम्भसि.
अज्ञायमानः कंसेन गूढोऽग्निरिव दारुषु ||२-२३-२७ (१२२६७)
विप्रचके तदा सर्वान्बल्लवान्मधुरेश्वरः.
वर्धमानो महाबाहुस्तेजोबलसमन्वितः ||२-२३-२८ (१२२६८)
ततस्ते क्लिश्यमानास्तु पुण्डरीकाक्षमच्युतम्.
भयेन कामादपरे गणशः पर्यवारयन् ||२-२३-२९ (१२२६९)
स तु लब्ध्वा बलं राजन्नुग्रसेनस्य संमतः.
वसुदेवात्मजः सर्वैर्भ्रातृभिः सहितं पुनः ||२-२३-३० (१२२७०)
निर्जित्य युधि भोजेन्द्रं हत्वा कंसं महाबलः.
अभ्यषिञ्चत्ततो राज्य उग्रसेनं विशाम्पते ||२-२३-३१ (१२२७१)
ततः श्रुत्वा जरासन्धो माधवेन हतं युधि.
शूरसेनाधिपं चक्रे कंसपुत्रं तदा नृप ||२-२३-३२ (१२२७२)
ससैन्यं महदुत्थाप्य वासुदेवं तदा नृप.
अभ्यषिञ्चत्सुतं तत्र सुताया जनमेजय ||२-२३-३३ (१२२७३)
उग्रसेनं च वृष्णींश्च महाबलसमन्वितः.
स तत्र विप्रकुरुते जरासन्धः प्रतापवान् ||२-२३-३४ (१२२७४)
एतद्वैरं कौरवेय जरासन्धस्य माधवे.
आशासितार्थे राजेन्द्र संरुरोध विनिर्जितान् ||२-२३-३५ (१२२७५)
पार्थिवैस्तैर्नृपतिभिर्यक्ष्यमाणः समृद्धिमान्.
देवश्रेष्ठं महादेवं कृत्तिवासं त्रियम्बकम् ||२-२३-३६ (१२२७६)
एतत्सर्वं यथावृत्तं कथितं भरतर्षभ.
यथा तु स हतो राजा भीमसेनेन तच्छृणु ||||२-२३-३७ (१२२७७)
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि
त्रयोर्विंशोऽध्यायः ||२३. .
सभापर्व -अध्याय ०२४
||श्रीः ||
२. २४. अध्यायः २४
Mahabharata -Sabha Parva -Chapter Topics
भीमजरासन्धयोः स्वस्त्ययनपूर्वकं युद्धारम्भः
||१. . श्रीकृष्णप्रोत्साहितस्य भीमस्य जरासन्धवधोद्यमः ||२. .
Mahabharata -Sabha Parva -Chapter Text
ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः.
उवाच वाग्मी राजानं जरासन्धमधोक्षजः ||२-२४-१ (१२२७८)
त्रयाणां केन ते राजन्योद्धुमुत्सहते मनः.
अस्मदन्यतमेनेह सज्जीभवतु को युधि ||२-२४-२ (१२२७९)
एवमुक्तः स नृपतिर्युद्धं वव्रे महाद्युतिः.
जरासन्धस्ततो राजा भीमसेनेन मागधः ||२-२४-३ (१२२८०)
' धारयन्तं गदां दिव्यां बलं श्रुत्वा च निर्वृतः.
अर्जुन वासुदेवं च वजर्यित्वा स मागधः ||२-२४-४ (१२२८१)
मत्वा देवं गोप इति बालोऽर्जुन इति स्म ह' .
आदाय रोजनां माल्यं मङ्गल्यान्यपराणि च ||२-२४-५ (१२२८२)
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च.
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ||२-२४-६ (१२२८३)
कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना.
समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन् ||२-२४-७ (१२२८४)
अवमुच्य किरीटं स केशान्समनुमृज्य च.
उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः ||२-२४-८ (१२२८५)
उवाच मतिमान्राजा भीमं भीमपराक्रमः.
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् ||२-२४-९ (१२२८६)
एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः.
प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः ||२-२४-१० (१२२८७)
ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली.
भीमसेनो जरासन्धमाससाद युयुत्सया ||२-२४-११ (१२२८८)
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः.
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ||२-२४-१२ (१२२८९)
करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम्.
कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः ||२-२४-१३ (१२२९०)
स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः.
अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं च चक्रतुः. २-२४-१४ (१२२९१)
चित्रहस्तादिकं कृत्वा सस्फुलिङ्गेन चाशनिम् ||
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् ||२-२४-१५ (१२२९२)
बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ.
उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ ||२-२४-१६ (१२२९३)
करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव.
नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ ||२-२४-१७ (१२२९४)
तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ.
सिंहाविव सुसंङ्क्रुद्धावाकृष्याकृष्य युध्यताम् ||२-२४-१८ (१२२९५)
अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि.
आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः ||२-२४-१९ (१२२९६)
उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ.
अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत् ||२-२४-२० (१२२९७)
सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः.
सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः ||२-२४-२१ (१२२९८)
तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम्.
एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम् ||२-२४-२२ (१२२९९)
तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनाः.
ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः ||२-२४-२३ (१२३००)
शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः.
निरन्तरमभूत्तत्र जनौघैरभिसंवृतम् ||२-२४-२४ (१२३०१)
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा.
आसीत्सुभीमसम्पातो वज्रपर्वतयोरिव ||२-२४-२५ (१२३०२)
उभौ परमसंहृष्टौ बलेन बलिनां वरौ.
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ||२-२४-२६ (१२३०३)
' शिरोभिरिव तौ मेषौ वृक्षैरिव निशाचरौ.
पदैरिव शुभावश्वौ तुण्डाभ्यां तित्तिरी इव' ||२-२४-२७ (१२३०४)
तद्भीममुत्सार्य जनं युद्धमासीदुपप्लवे.
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ||२-२४-२८ (१२३०५)
प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः.
आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः ||२-२४-२९ (१२३०६)
ततः शब्देन महता भर्त्सयन्तौ परस्परम्.
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः ||२-२४-३० (१२३०७)
' ततो भीमं जरासन्धो जघानोरसि मुष्टिना.
भीमोषि तं जरासन्धं वक्षस्यभिजघान ह' ||२-२४-३१ (१२३०८)
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ.
बाहुभिः समसज्जोतामायसैः परिघैरिव ||२-२४-३२ (१२३०९)
कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि.
तदा तद्युद्धमभवद्दिनानि दश पञ्च च.
अनाहारं दिवारात्रमविश्रान्तमवर्तत ||२-२४-३३ (१२३१०)
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः.
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् ||२-२४-३४ (१२३११)
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः.
उवाच भीमकर्माणं भीमं सम्बोधयन्निव ||२-२४-३५ (१२३१२)
क्लान्तः शत्रुर्हि कौन्तेय शक्यः पीडयितुं रणे.
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः ||२-२४-३६ (१२३१३)
तस्मात्तेऽद्यैव कौन्तेय पीडनीयो जनाधिपः.
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ ||२-२४-३७ (१२३१४)
वैशम्पायन उवाच. २-२४-३८क्ष् (१४२६)
एवमुक्तःस कृष्णेन पाण्डवः परवीरहा.
जरासन्दस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे ||२-२४-३८ (१२३१५)
ततस्तमजितं जेतुं जरासन्दं वृकोदरः.
संरम्भाद्बलिनां श्रेष्ठो जग्राह कुरुनन्दनः ||||२-२४-३९ (१२३१६)
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि
चतुर्विशोऽध्यायः ||२४. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-२४-६ निर्वृतीर्वेदनानि च दुःखमूर्छयोः काले सुखसञ्ज्ञाकराणि ||
२-२४-१३ कक्षैः दोर्मूलैः ||
२-२४-१६ ग्रथिताङ्गुलिभ्यां हस्ताभ्यां परशिरसः पीडने पूर्णकुम्भः ||
२-२४-२० तक्षवन्तौ ग्रात्रसङ्कोचवन्तौ ||
सभापर्व -अध्याय ०२५
||श्रीः ||
२. २५. अध्यायः २५
Mahabharata -Sabha Parva -Chapter Topics
जरासन्धवधः ||१. . जरासन्धेन बन्धीकृतानां राज्ञां
कृष्णेन मोचनम् ||२. . मोचितै राजभिः कृष्णाय
रत्नादिदानम् ||३. . कृष्णानुज्ञया जरासन्धपुत्रेण
सहदेवेन पितुरौर्ध्वदैहिककरणम् ||४. . सहदेवं
राज्येऽभिषिच्य श्रीकृष्णभीमार्जुनानामिन्द्रप्रस्थगमनम्
||५. . जरासन्धवधश्रवणहृष्टेन युधिष्ठिरेण पूजितस्य
कृष्णस्य द्वारकागमनम् ||६. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच.
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्.
बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया ||२-२५-१ (१२३१७)
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम्.
प्रायेण यदुशार्दूल बान्धवक्षयकृत्तव ||२-२५-२ (१२३१८)
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्.
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया ||२-२५-३ (१२३१९)
यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः.
बलं भीमं जरासन्धे दर्शयाशु तदद्य वै ||२-२५-४ (१२३२०)
' तवैष वध्यो दुर्बुद्धिर्जरासन्धो महारथः.
इत्यन्तरिक्षे त्वश्रौषं यदा वायुरवाप्यते ||२-२५-५ (१२३२१)
गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः.
बलदेवबलं प्राप्य कोऽन्यो जीवेत्तु मागधात् ||२-२५-६ (१२३२२)
तदस्य मृत्युर्विहितस्त्वदृते न महाबल.
वायुं चिन्त्य महाबाहो जहीमं मगधाधिपम् ||२-२५-७ (१२३२३)
वैशम्पायन उवाच. २-२५-८क्ष् (१४२७)
एवमुक्तस्ततो भीमो मनसाऽऽचिन्त्य मारुतम्.
जनार्दनं नमस्कृत्य परिष्वज्य च फल्गुनम्' ||२-२५-८ (१२३२४)
प्रभञ्जनबलाविष्टो जरासन्धमरिन्दमः.
उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः ||२-२५-९ (१२३२५)
भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ.
बभञ्ज पृष्टं सङ्क्षिप्य निष्पिष्य विननाद च ||२-२५-१० (१२३२६)
करे गृहीत्वा चरणं द्विधा चक्रे महाबलः.
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः ||२-२५-११ (१२३२७)
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः.
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः ||२-२५-१२ (१२३२८)
भीमसेनस्य नादेन जरासन्धस्य चैव ह.
किं नु स्याद्धिमवान्भिन्नः किंनुस्विद्दीर्यते मही ||२-२५-१३ (१२३२९)
इति वै मागधा जज्ञुर्भीमसेनस्य निखनात्.
' ततस्तु भगवान्कृष्णो जरासन्धजिघांसया ||२-२५-१४ (१२३३०)
भीमसेनं समालोक्य नलं जग्राह पाणिना.
द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति ||२-२५-१५ (१२३३१)
ततस्त्वाज्ञाय तस्यैव पादमुत्क्षिप्य मारुतिः.
द्विधा बभञ्ज तद्गात्रं प्राक्षिपद्विननाद च ||२-२५-१६ (१२३३२)
पुनः सन्धाय तु तदा जरान्धः प्रतापवान्.
भीमेन च समागम्य बाहुयुद्धं चकार ह ||२-२५-१७ (१२३३३)
तयोः समभवद्युद्धं तुमुलं रोमहर्षणम्.
सर्वलोकक्षयकरं सर्वभूतभयावहम् ||२-२५-१८ (१२३३४)
पुनः कृष्णस्तमिरिणं द्विधा विच्छिद्य माधवः.
व्यत्यस्य प्राक्षिपत्तत्तु जरासन्धवधेप्सया ||२-२५-१९ (१२३३५)
भीमसेनस्तदा ज्ञात्वा निर्बिभेद च मागधम्.
द्विधा व्यत्यस्य पादेन प्राक्षिपच्च ननाद ह ||२-२५-२० (१२३३६)
शुष्कमांसास्थिमेदस्त्वग्भिन्नमस्तिष्कपिण्डकटः.
शवभूतस्तदा राजन्पिण्डीकृत इवाबबौ' ||२-२५-२१ (१२३३७)
ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम्.
रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः ||२-२५-२२ (१२३३८)
जरासन्धरथं कृष्णो योजयित्वा पताकिनम्.
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ||२-२५-२३ (१२३३९)
ते वै रत्नुभुजं कृष्णं रत्नार्हं पृथिवीश्वराः.
राजानं चक्ररासाद्य मोक्षिता महतो भयात् ||२-२५-२४ (१२३४०)
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः.
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ||२-२५-२५ (१२३४१)
यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः.
अभ्यासघाती सन्दृश्यो दुर्जयः सर्वराजभिः ||२-२५-२६ (१२३४२)
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः.
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ||२-२५-२७ (१२३४३)
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये.
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा ||२-२५-२८ (१२३४४)
' एवमेतौ महाबाहू तदा दुष्करकारिणौ.
कृष्णप्रणीतौ लोकेऽस्मिन्नथे को द्रष्टुमर्हति ||२-२५-२९ (१२३४५)
इत्यवोचन्व्रजन्तं तं जरासन्धपुरालयाः.
वासुदेवं नरश्रेष्ठं युक्तं वातजवैर्हयैः' ||२-२५-३० (१२३४६)
तप्तचामीकराभेण किङ्किणीजालमालिना.
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना ||२-२५-३१ (१२३४७)
येन शक्रो दानवानां जघान नवतीर्नव.
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्थभाः ||२-२५-३२ (१२३४८)
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा.
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ||२-२५-३३ (१२३४९)
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे.
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ||२-२५-३४ (१२३५०)
असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः.
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ||२-२५-३५ (१२३५१)
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्.
क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः ||२-२५-३६ (१२३५२)
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः.
तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः ||२-२५-३७ (१२३५३)
दुर्निरीक्ष्यो हि भूतानां तेजसाऽऽभ्याधिकं बभौ.
आदित्य इव मध्याह्ने सहस्रकिरणावृतः ||२-२५-३८ (१२३५४)
न सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते.
दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः ||२-२५-३९ (१२३५५)
तमास्थाय रथं दिव्यं पर्जन्यसमनिः स्वनम्.
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ||२-२५-४० (१२३५६)
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः.
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथो रथम् ||२-२५-४१ (१२३५७)
स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः.
गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः ||२-२५-४२ (१२३५८)
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा.
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ||२-२५-४३ (१२३५९)
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम्.
पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः ||२-२५-४४ (१२३६०)
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने.
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम् ||२-२५-४५ (१२३६१)
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम्.
राज्ञां समभ्युद्धरमं यदिदं कृतमद्य वै ||२-२५-४६ (१२३६२)
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे.
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते यदुनन्दन ||२-२५-४७ (१२३६३)
किं कर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान्.
कृतमित्येव तद्विद्वि नृपैर्ययद्यपि दुष्करम् ||२-२५-४८ (१२३६४)
वैशम्पायन उवाच ||२-२५-४९क्ष् (१४२८)
तानुवाच हृम्पीकेशः समाश्चास्य महामनाः.
यिधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति ||२-२५-४९ (१२३६५)
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः.
सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति ||२-२५-५० (१२३६६)
ततः सुप्रीतमनसस्ते नृपा नृपसत्तम.
तथेत्येवाब्रुवन्सर्वे प्रतिगृह्यास्य तां गिरम् ||२-२५-५१ (१२३६७)
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः.
कृच्छ्राञ्जग्राह गोविन्दस्तेषां तदनुकम्पया ||२-२५-५२ (१२३६८)
जरासन्धात्मजश्चैव सहदेवो महामनाः.
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् ||२-२५-५३ (१२३६९)
स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः.
सहदेवो नृणां देवं वासुदेवमुपस्थितः ||२-२५-५४ (१२३७०)
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाऽभयं तदा.
आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः ||२-२५-५५ (१२३७१)
' सददेव उवाच. २-२५-५६क्ष् (१४२९)
यत्कृतं पुरुषव्याघ्र मम पित्रा जनार्दन.
तत्ते हृदि महाबाहो न कार्यं पुरुषोत्तम ||२-२५-५६ (१२३७२)
त्वां प्रपन्नोऽस्मि गोविन्द प्रासदं कुरु मे प्रभो.
पितुरिच्छामि संस्कारं कर्तुं देवकिनन्दन ||२-२५-५७ (१२३७३)
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य भीमसेनात्तथार्जुनात्.
निर्भयो विचरिष्यामि यथाकामं यथासुखम् ||२-२५-५८ (१२३७४)
वैशम्पायन उवाच. २-२५-५९क्ष् (१४३०)
एवं विज्ञाप्यमानस्य सहदेवस्य मारिष.
प्रहृष्टो देवकीपुत्रः पाण्डवै च महारथौ ||२-२५-५९ (१२३७५)
क्रियतां संस्क्रिया राजन्पितुस्त इति चाब्रुवन्.
तच्छ्रुत्वा वासुदेवस्य पार्थयोश्च स मागधः ||२-२५-६० (१२३७६)
प्रविश्य नगरं तूर्णं सह मन्त्रिभिरप्युत.
चितां चन्दनकाष्ठैश्च कालेयसरलैस्तथा ||२-२५-६१ (१२३७७)
कालागरुसुनगन्धैश्च तैलैश्च विविधैरपि.
घृतधाराशतैश्चैव सुमनोभिश्च भारत ||२-२५-६२ (१२३७८)
समन्तादेव कीर्यन्तोऽदहन्त मगधाधिपम्.
उदकं तस्य चक्रेऽथ सहदेवः सहानुजः ||२-२५-६३ (१२३७९)
कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः.
पाण्डवौ च महाभागौ भीमसेनार्जुनावुभौ ||२-२५-६४ (१२३८०)
स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्. २-२५-६५ (१२३८१)
सहदेव उवाच.
इमे रत्नानि भूरिणी गोजाविमहिषादयः ||२-२५-६५क्ष् (१४३१)
हस्तिनोऽश्वाश्च गोविन्द वासांसि विविधानि च.
दीयतां धर्मराजाय यथा वा मन्यते भवान् ||२-२५-६६ (१२३८२)
वैशम्पायन उवाच. २-२५-६७क्ष् (१४३२)
भयार्ताय ततस्तस्मै कृत्वा कृष्णोऽभयं तदा.
अभ्यषिञ्चत राजानं सहदेवं जनार्दनः ||२-२५-६७ (१२३८३)
मागधानां महीपालं जरासन्धात्मजं तदा.
आददे च महार्हाणि रत्नानि पुरुषोत्तमः ||२-२५-६८ (१२३८४)
गत्वैकत्वं स कृष्णेन पार्थाभ्यां चापि सत्कृतः.
विवेश मतिमान्त्राजा पुनर्बार्हद्रथं पुरम् ||२-२५-६९ (१२३८५)
पार्थाभायं सहितः कृष्णः सर्वैश्च वसुधाधिपैः.
यथावयः समागम्य विससर्ज नराधिपान् ||२-२५-७० (१२३८६)
विसृज्य सर्वान्नृपतीन्राजसूये महात्मभिः.
आगन्तव्यं भवद्भिश्च धर्मराजप्रियेप्सुभिः. २-२५-७१ (१२३८७)
एवमुक्ता माधवेन सर्वे ते वसुधाधिपाः.
एवमस्त्विति चाप्युक्त्वा समेताः परया मुदा ||२-२५-७२ (१२३८८)
भीमार्जुनहृषीकेशैः प्रहृष्टाः प्रययुस्तदा.
रत्नान्यादाय भूरीणी ज्वलन्तो रिपुसूदनाः' ||२-२५-७३ (१२३८९)
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः.
रत्नान्यादाय भूरिणी प्रययौ पुरुषर्षभः ||२-२५-७४ (१२३९०)
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः.
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ||२-२५-७५ (१२३९१)
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः.
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम ||२-२५-७६ (१२३९२)
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ.
पुनः स्वनगरं प्राप्तावक्षताविति भारत ||२-२५-७७ (१२३९३)
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः.
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे ||२-२५-७८ (१२३९४)
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम्.
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह ||२-२५-७९ (१२३९५)
' हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत.
त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः ||२-२५-८० (१२३९६)
मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान्.
राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः ||२-२५-८१ (१२३९७)
त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन.
पीतं पृथिव्याः क्रुद्धेन यशस्ते पुरुषोत्तम ||२-२५-८२ (१२३९८)
जरासन्धवधेनैव प्राप्तास्ते विपुलाः श्रियः ||२-२५-८३ (१२३९९)
वैशम्पायन उवाच.
एवं सम्भाष्य कौन्तेयः प्रादाद्रथवरं प्रभोः ||२-२५-८३क्ष् (१४३३)
प्रतिगृह्य तु गोविन्दो जरासन्धस्य तं रथम् ||२-२५-८४ (१२४००)
प्रहृष्टस्तस्य मुमुदे फल्गुनेन जनार्दनः.
प्रीतिमानभवद्राजन्धर्मराजपुरस्कृतः' ||२-२५-८५ (१२४०१)
यथावयः समागम्य भ्रातृभिः सह पाण्डवः.
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् ||२-२५-८६ (१२४०२)
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः.
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ||२-२५-८७ (१२४०३)
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः.
पाण्डवैर्घातयामास जरासन्धमरिं तदा ||२-२५-८८ (१२४०४)
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः.
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत ||२-२५-८९ (१२४०५)
सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा.
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति ||२-२५-९० (१२४०६)
' पाण्डवैरनुधावद्भिर्युधिष्ठिरपुरोगमैः.
हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः.
जगाम हृष्टः कृष्णस्तु पुनर्द्वारवतीं पुरीम्' ||२-२५-९१ (१२४०७)
तेनैव रथमुख्येन मनसस्तुल्यगामिना.
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ||२-२५-९२ (१२४०८)
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ.
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ||२-२५-९३ (१२४०९)
ततो गते भगवति कृष्णे देवकिनन्दने.
जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा ||२-२५-९४ (१२४१०)
संवर्धितं यशो भूयः कर्मणा तेन भारत.
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ||२-२५-९५ (१२४११)
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम्.
तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम् ||||२-२५-९६ (१२४१२)
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि
पञ्चविंशोऽध्यायः ||२५. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-२५-५ अवाप्यते प्राप्तः ||
२-२५-८ एवमुक्तस्तदा भीभो जरासन्धमिति झ | पाठः ||
२-२५-१५ नलं इरिणनामकं तृणविशेषम् ||
२-२५-२२ कुलद्वारि गृहद्वारि ||
२-२५-३५ असङ्गो रथस्पर्शहीनः ||
सभापर्व -अध्याय ०२६
||श्रीः ||
२. २६. अध्यायः २६
Mahabharata -Sabha Parva -Chapter Topics
युधिष्ठिराज्ञया दिग्विजयार्थं निर्गतानामर्जुनादीनां सङ्क्षेपेण
दिग्विजयक थनम् ||
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच.
' ऋषेस्तद्वचनं स्मृत्वा निशश्वास युधिष्ठिरः.
धर्म धर्मभृतां श्रेष्ठः कर्तुमिच्छन्परन्तपः. २-२६-१ (१२४१३)
तस्येङ्गितज्ञो बीभत्सुः सर्वशस्त्रभृतां वरः.
संविवर्तयिषुः कामं पावकात्पाकशासनिः' ||२-२६-२ (१२४१४)
प्राप्तं प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी.
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ||२-२६-३ (१२४१५)
अर्जुन उवाच. २-२६-४क्ष् (१४३४)
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्.
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ||२-२६-४ (१२४१६)
तस्य कृत्यमहं मन्ये कोशस्य परिवर्धनम्.
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ||२-२६-५ (१२४१७)
विजयाय प्रयास्यामि दिशं धनदपालिताम्.
तिथावथ मुहूर्ते च नक्षत्रे चाभिपूजिते ||२-२६-६ (१२४१८)
वैशम्पायन उवाच. २-२६-७क्ष् (१४३५)
धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः
स्निग्धगम्भीरनादिन्यां तं गिरा प्रत्यभाषत ||२-२६-७ (१२४१९)
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ.
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ||२-२६-८ (१२४२०)
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि.
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः ||२-२६-९ (१२४२१)
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा.
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ ||२-२६-१० (१२४२२)
ससैन्याः प्रययुः सर्वे धर्मराजेन पूजिताः.
दिशं धनपतेरिष्टामजयत्पाकशासनिः ||२-२६-११ (१२४२३)
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम्.
प्रतीचीं नकुलो राजन्दिशं व्यजयतास्त्रवित् ||२-२६-१२ (१२४२४)
खाण्डवप्रस्थमध्यस्थो धर्मराजो युधिष्ठिरः.
आसीत्परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः ||||२-२६-१३ (१२४२५)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि षड्विंशोऽध्यायः
||२६. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-२६-१३ खाण्डवप्रस्थं खाण्डवदाहेन ख्यापितस्थानम् ||
१३. .
सभापर्व -अध्याय ०२७
||श्रीः ||
२. २७. अध्यायः २७
Mahabharata -Sabha Parva -Chapter Topics
अर्जुनदिग्वजये भगदत्तादिजयः ||१. .
Mahabharata -Sabha Parva -Chapter Text
जनमेजय उवाच ||
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय.
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||२-२७-१ (१२४२६)
वैशम्पायन उवाच. २-२७-२क्ष् (१४३६)
धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते.
यौगपद्येन पार्थैर्हि निर्जितेयं वसुन्धरा ||२-२७-२ (१२४२७)
' अवाप्य राजा राज्यार्धं कुन्तीपुत्रो युधिष्ठिरः.
महत्त्वे राजशब्दस्य मनश्चक्रे महामनाः ||२-२७-३ (१२४२८)
तदा क्षात्रं विदित्वाऽस्य पृथिवीविजयं प्रति.
अमर्षात्पार्थिवेन्द्राणां तं समेयाय वारयत् ||२-२७-४ (१२४२९)
तत्समेत्य भुवः क्षात्रं रथनागाश्वपत्तिमत्.
अभ्ययात्पार्थिवं जिष्णुं मोघं कर्तुं जनाधिप ||२-२७-५ (१२४३०)
तत्पार्थः पार्थिवं क्षात्रं युयुत्सुं परमाहवे.
प्रत्युद्ययौ महाबाहुस्तरसा पाकशासनिः ||२-२७-६ (१२४३१)
तद्भग्रं पार्थिवं क्षात्रं पार्थेनाक्लिष्टकर्मणा.
वायुनेव घनानीकं तूलीभूतं ययौ दिशः ||२-२७-७ (१२४३२)
तज्जित्वा पार्थिवं क्षात्रं समरे परवीरहा.
ययौ तदा वशे कर्तुमुदीचीं पाण्डुनन्दनः' ||२-२७-८ (१२४३३)
पूर्वं कुलिङ्गविषये वशे चक्रे महीपतिम्.
धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा ||२-२७-९ (१२४३४)
' तेनैव सहितः प्रायाज्जिष्णुः साल्वपुरं प्रति.
स साल्वपुरमासाद्य साल्वराजं धनञ्जयटः ||२-२७-१० (१२४३५)
विक्रमेणोग्रधन्वानं वशे चक्रे महामनाः.
तं पार्थः सहसा जित्वा द्युमत्सेनं महीश्वरम् ||२-२७-११ (१२४३६)
कृत्वा स सैनिकं प्रायात्कटदेशमरिन्दमः.
तत्र पार्थो रणे जिष्णुः सुनाभं वसुधाधिपम् ||२-२७-१२ (१२४३७)
विक्रमेण वशे कृत्वा कृतवाननुसैनिकम्.
एतेन सहितो राजन्सव्यसाची परन्तपः' ||२-२७-१३ (१२४३८)
विजिग्ये शाकलद्वीपे प्रतिविन्ध्यं च पार्थिवम्.
शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः ||२-२७-१४ (१२४३९)
अर्जुनस्य च सैन्यस्थैर्विग्रहस्तुमुलोऽभवत्.
तान्सर्वानजयत्पार्तो धर्मराजप्रियेप्सया ||२-२७-१५ (१२४४०)
तैरेव सहितः सर्वैः प्रग्ज्योतिषमुपाद्रवत् ||२-२७-१६ (१२४४१)
तत्र राजा महानासीद्भगदत्तो विशाम्पते.
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ||२-२७-१७ (१२४४२)
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्.
अन्यैश्च बहुभिर्योधैः सागरानुपवासिभिः ||२-२७-१८ (१२४४३)
ततः स दिवसानष्टौ योधयित्वा धनञ्जयम्.
प्रहसन्नब्रवीद्राजा सङ्ग्रामविगतक्रमम् ||२-२७-१९ (१२४४४)
उपपन्नं महाबाहो त्वयि कौरवनन्दन.
पाकशासनदायादे वीर्यमाहवशोभिनि ||२-२७-२० (१२४४५)
अहं सखा महेन्द्रस्य शक्रादनवरो रणे.
न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि ||२-२७-२१ (१२४४६)
त्वमीप्सितं पाण्डवेयं ब्रूहि किं करवाणि ते.
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ||२-२७-२२ (१२४४७)
अर्जुन उवाच ||२-२७-२३क्ष् (१४३७)
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः.
धर्मज्ञः सत्यसन्धश्च यज्वा विपुलदक्षिणः ||२-२७-२३ (१२४४८)
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्.
भवान्पितृसखश्चैव प्रीयमाणो मयापि च.
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ||२-२७-२४ (१२४४९)
भगदत्त उवाच. २-२७-२५क्ष् (१४३८)
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः.
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ||||२-२७-२५ (१२४५०)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि सप्तविंशोऽध्यायः
||२७. .
सभापर्व -अध्याय ०२८
||श्रीः ||
२. २८. अध्यायः २८
Mahabharata -Sabha Parva -Chapter Topics
अर्जुनेन उत्तरदिग्विजये नानादेशजयः ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच.
एवमुक्तः प्रत्युवाच भगदत्तं धनञ्जयः.
अनेनैव कृतं सर्वं भविष्यत्यनुजानता ||२-२८-१ (१२४५१)
तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः.
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ||२-२८-२ (१२४५२)
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्.
तथैवोपगिरं चैव विजिग्ये पुरुषर्षभः ||२-२८-३ (१२४५३)
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः.
तान्वशे स्थापयित्वा स धनान्यादाय सर्वशः ||२-२८-४ (१२४५४)
तैरेव सहितः सर्वैरनुरज्य च तान्नुपान्.
उलूकवासिनं राजन्बृहन्तमुपजग्मिवान् ||२-२८-५ (१२४५५)
मृदङ्गवरनादेन रथनेमिस्वनेन च.
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ||२-२८-६ (१२४५६)
ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा.
निष्क्रम्य नगरात्तस्माद्योधयामास फाल्गुनम् ||२-२८-७ (१२४५७)
सुमहान्सन्निपातोऽभूद्धनञ्जयबृहन्तयोः.
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ||२-२८-८ (१२४५८)
सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः.
उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः ||२-२८-९ (१२४५९)
स तद्राज्यमवस्थाप्य उलूकसहितो ययौ.
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ||२-२८-१० (१२४६०)
मोदापुरं वामवेदं सुदामानं सुसङ्कुलम्.
उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत् ||२-२८-११ (१२४६१)
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्.
किरीटी जितवान्राजन्देशान्पञ्चगणांस्ततः ||२-२८-१२ (१२४६२)
स देवप्रस्थमासाद्य सेनाबिन्दोः पुरं प्रति.
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ||२-२८-१३ (१२४६३)
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् ||
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ ||२-२८-१४ (१२४६४)
विजित्य चाहवे शूरान्पार्वतीयान्महारथान्.
जिगाय सेनया राजन्पुरं पौरवरक्षितम् ||२-२८-१५ (१२४६५)
पौरवं युधि निर्जित्य दस्यून्पर्वतवासिनः.
गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः ||२-२८-१६ (१२४६६)
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः.
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ||२-२८-१७ (१२४६७)
ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा.
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ||२-२८-१८ (१२४६८)
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः.
उरगावासिनं रम्यं रोचमानं रणेऽजयत् ||२-२८-१९ (१२४६९)
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्.
प्राधमद्बलमास्थाय पाकशासनिराहवे ||२-२८-२० (१२४७०)
ततः सुह्यांश्च चोलांश्च किरीटी पाण्डवर्षभः.
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ||२-२८-२१ (१२४७१)
ततः परमविक्रान्तो बाह्लीकान्पाकशासनिः.
महता परिमर्देन वशे चक्रे दुरासदान् ||२-२८-२२ (१२४७२)
गृहीत्वा तु बलं सारं फल्गुनः पाण्डुनन्दनः.
दरदान्सहकाम्भोजैरजयत्पाकशासनिः ||२-२८-२३ (१२४७३)
प्रागुत्तरं दिशं ये च वसन्त्याश्रित्य दस्यवः.
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ||२-२८-२४ (१२४७४)
लोहान्परमकाम्भोजानृषिकानुत्तरानपि.
सहितांस्तान्महाराज व्यजयत्पाकशासनिः ||२-२८-२५ (१२४७५)
ऋषिकेष्वपि सङ्ग्रामे बभूवातिभयङ्करः.
तारकामयसङ्काशः परस्त्वृषिकपार्थयोः ||२-२८-२६ (१२४७६)
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि.
शुकोदरसमांस्तत्र हयानष्टौ समानयत् ||२-२८-२७ (१२४७७)
मयूरसदृशानन्यानुत्तरानपरानपि.
जवनानाशुगांश्चैव करार्थं समुपानयत् ||२-२८-२८ (१२४७८)
स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कृटम्.
श्वेतपर्वतमासाद्य न्यविशत्पुरुषर्षभः ||||२-२८-२९ (१२४७९)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि अष्टाविंशोध्यायः
||२८. .
सभापर्व -अध्याय ०२९
||श्रीः ||
२. २९. अध्यायः २९
Mahabharata -Sabha Parva -Chapter Topics
अर्जुनेन उत्तरदिग्विजये किम्पुरुषादिखण्डजयः ||१. . अर्जुनस्य
खाण्डवप्रस्थं प्रति प्रत्यागमनम् ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन इवाच ||
स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान्.
देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम् ||२-२९-१ (१२४८०)
महता सन्निपातेन क्षत्रियान्तकरेण ह.
अजयत्पाण्डवश्रेष्ठः करे चैनं न्यवेशयत् ||२-२९-२ (१२४८१)
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्.
पाकशासनिरव्यग्रः सहसैन्यः समासदत् ||२-२९-३ (१२४८२)
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्.
ऋषिकुल्यास्तथा सर्वा ददर्श कुरुनन्दनः ||२-२९-४ (१२४८३)
सरो मानसमासाद्य हाटकानभितः प्रभुः.
गन्धर्वरक्षितं देशमजयत्पाण्डवस्ततः ||२-२९-५ (१२४८४)
तत्र तित्तिरिकल्माषान्मण्डूकाख्यान्हयोत्तमान्.
लेभे स करसमत्यन्तं गन्धर्वनगरात्तदा ||२-२९-६ (१२४८५)
' हेमकूटमथासाद्य न्यवसत्फल्गुनस्तदा.
तं हेमकूटं राजेन्द्र समतिक्रम्य पाण्डवः ||२-२९-७ (१२४८६)
हरिवर्षं विवेशाथ सैन्येन महता वृतः.
तत्र पार्थो ददर्शाथ बहूनिह मनोरमान् ||२-२९-८ (१२४८७)
नगरान्सवनांश्चैव नदीश्च विमलोदकाः.
पुरुषान्देवकल्पांश्च नारीश्च प्रियदर्शनाः ||२-२९-९ (१२४८८)
तान्सर्वास्तत्र दृष्ट्वाऽथ मुदा युक्तो धनञ्जयटः.
वशे चक्रे स रत्नानि लेभे च सुबहूनि च ||२-२९-१० (१२४८९)
ततो निषधमासाद्य गिरिस्थानजयत्प्रभुः.
अथ राजन्नतिक्रम्य निषधं शैलमायतम् ||२-२९-११ (१२४९०)
विवेश मध्यमं वर्षं पार्थो दिव्यमिलावृतम्.
तत्र दिव्योपमान्दिव्यान्पुरुषान्देवदर्शनान् ||२-२९-१२ (१२४९१)
अदृष्टपूर्वान्सुभगान्स ददर्श धनञ्जयः.
सदनानि च शुभ्राणि नारीश्चाप्सरसंनिभाः ||२-२९-१३ (१२४९२)
दृष्ट्वा तानजयद्रम्यान्स तैश्च ददृशे तदा.
जित्वा च तान्महाभागान्करे च विनिवेश्य च ||२-२९-१४ (१२४९३)
रत्नान्यादाय दिव्यानि भूषणान्यासनैः सह.
उदीचीमथ राजेन्द्र ययौ पार्थो मुदाऽन्वितः ||२-२९-१५ (१२४९४)
स ददर्श ततो मेरुं शिखरीणां प्रभुं महत्.
तं काञ्चनमयं दिव्यं चतुर्वणं दुरासदम् ||२-२९-१६ (१२४९५)
उन्नतं शतसाहस्रं योजनानां तु सुस्थितम्.
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् ||२-२९-१७ (१२४९६)
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः.
काञ्चनाभरणं दिव्यदेवगन्धर्वसेवितम् ||२-२९-१८ (१२४९७)
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः.
व्यालैराचरितं धोरैर्दिव्यौषधिविदीपितम् ||२-२९-१९ (१२४९८)
स्वर्गमावृत्य तिष्ठन्तमुच्छ्रायेण महागिरिम्.
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् ||२-२९-२० (१२४९९)
नानाविहगसङ्घैश्च नादितं सुमनोहरैः.
तं दृष्टा फल्गुनो मेरुं प्रीतिमानभवत्तदा ||२-२९-२१ (१२५००)
मेरोरिलावृतं दिव्यं सर्वतः परिमण्डितम्.
मेरोस्तु दक्षिणे पार्श्वे जम्बूर्नाम वनस्पतिः ||२-२९-२२ (१२५०१)
नित्यपुष्पफलोपेवः सिद्धचारणसेवितः.
आस्वर्गमुच्छ्रिता राजंस्तस्य शाखा वनस्पतेः ||२-२९-२३ (१२५०२)
यस्य नाम्ना त्विदं द्वीपं जन्बूद्वीपमिति स्मृतम्.
तां च जम्बूं ददर्शाथ सव्यसाची परन्तपः ||२-२९-२४ (१२५०३)
तौ दृष्ट्वाऽप्रतिमौ लोके जम्बूं मेरुं च संस्थितौ.
प्रतीमानभवद्राजन्सर्वतः स विलोकयन् ||२-२९-२५ (१२५०४)
तत्र लेभे ततो जिष्णुः सिद्धैर्दिव्यैश्च चारणैः.
रत्नानि बहुसाहस्रं दत्तान्याभरणानि च ||२-२९-२६ (१२५०५)
वासांसि च महार्हाणि तत्र लब्ध्वाऽर्जुनस्तदा.
आमन्त्रयित्वा तान्सर्वान्यज्ञमुद्दिश्य वै गुरोः ||२-२९-२७ (१२५०६)
अथादाय बहून्रत्नान्गमनाययोपचक्रमे.
मेरुं प्रदक्षिणीकृत्य प्रवतप्रवरं प्रभुः ||२-२९-२८ (१२५०७)
ययौ जम्बूनदीतीरे नदीं श्रेष्ठां विलोकयन्.
स तां मनोरमां दिव्यां जम्बूस्वादुरसावहाम् ||२-२९-२९ (१२५०८)
हैमपक्षिगणैर्जुष्टां सौवर्णजलजाकुलाम्.
हैमपङ्कां हैमजलां सौवर्णोज्ज्वलवालुकाम् ||२-२९-३० (१२५०९)
क्वचित्मुपिष्पितैः पूर्णां सौवर्णकुसुमोत्पलैः.
क्वचित्तीररुहैः कीर्णां हैमपुष्पैः सुपुष्पितैः ||२-२९-३१ (१२५१०)
तीर्थैश्च रुक्मसोपानैः सर्वतः समलङ्कुताम्.
विमलैर्मणिजालैश्च नृत्तगीतरवैर्युताम् ||२-२९-३२ (१२५११)
दीप्तैर्हेमवितानैश्च समन्ताच्छोभितां शुभाम्.
तथाविधां नदीं दृष्ट्वा पार्थस्तां प्रशशंस ह ||२-२९-३३ (१२५१२)
अदृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षमवाप च.
दर्शनीयां नदीतीरे पुरुषान्सुमनोहरान् ||२-२९-३४ (१२५१३)
तान्नदीसलिलाहारान्सदारानमरोपमान्.
नित्यं सुखमुदा युक्तान्सर्वालङ्कारशोभितान् ||२-२९-३५ (१२५१४)
तेभ्यो बहूनि रत्नानि तदा लेभे धनञ्जयः.
दिव्यजम्बूफलं हैमं भूषणानि च पेशलम् ||२-२९-३६ (१२५१५)
लब्ध्वा तान्दुर्लभान्पार्थः प्रतीचीं प्रययौ दिशम्.
नागानां रक्षितं देशमजयश्च पुनस्ततः ||२-२९-३७ (१२५१६)
ततो गन्वा महाराज वारुणीं पाकशासनिः.
गन्धमादनमासाद्य ततस्तानजयत्प्रभुः ||२-२९-३८ (१२५१७)
तं गन्धमादनं राजन्नतिक्रम्य ततोऽर्जुनः.
केतुमालं ददर्शाथ वर्षं रत्नसमन्वितम् ||२-२९-३९ (१२५१८)
सेवितं देवकल्पैश्च नारीभिः प्रियदर्शनैः.
तं जित्वा चार्जुनो राजन्करे च विनिवेश्य च ||२-२९-४० (१२५१९)
आहृत्य तत्र रत्नानि दुर्लभानि तथार्जुनः.
पुनश्च परिवृत्याथ माध्यं देशमिलावृतम् ||२-२९-४१ (१२५२०)
गत्वा प्राचीं दिशं राजन्सव्यसाची धनञ्जयः.
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् ||२-२९-४२ (१२५२१)
ये ते कीचकवेणूनां छायां रम्यामुपासते.
कषान्झषांश्च नद्यौ तान्प्रघसान्दीप्तवेणिपान् ||२-२९-४३ (१२५२२)
पशुपांश्च कुलिन्दांश्च तङ्कणान्परतङ्कणान्.
एतान्समस्ताञ्जित्वा च करे च विनिवेश्य च ||२-२९-४४ (१२५२३)
रत्नान्यादाय सर्वेभ्यो माल्यवन्तं ततो ययौ.
तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः ||२-२९-४५ (१२५२४)
भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुचिम्.
तत्र देवोपमान्दिव्यान्पुरुषाञ्शुभसंयुतान् ||२-२९-४६ (१२५२५)
जित्वा तान्स्ववशे कृत्वा करे च विनिवेश्य च.
आहृत्य सर्वतो रत्नान्यसङ्ख्यानि ततस्ततः ||२-२९-४७ (१२५२६)
नीलं नाम गिरिं गत्वा तत्रस्थानजयत्प्रभुः.
ततो जिष्णुरतिक्रम्य पर्वतं नीलमायतम् ||२-२९-४८ (१२५२७)
विवेश रम्यकं वर्षं सङ्कीर्णं मिथुनैः शुभैः.
तं देशमथ जित्वा स करे च विनिवेश्य च ||२-२९-४९ (१२५२८)
अजयच्चापि बीभत्सुर्देशं गुह्यकरक्षितम्.
तत्र लेभे च राजेन्द्र सौवर्णान्मृगपक्षिणः ||२-२९-५० (१२५२९)
अगृह्णाद्यज्ञभूत्यर्थं रमणीयान्मनोहरान्.
अन्यांश्च लब्ध्वा रत्नानि पाण्डवोऽथ महाबलः ||२-२९-५१ (१२५३०)
गन्धर्वरक्षितं देशमजयत्सगणं तदा.
तत्र रत्नानि दिव्यानि लब्ध्वा राजन्नथार्जुनः ||२-२९-५२ (१२५३१)
वर्षं हिरण्वतं नाम विवेशाथ महीपते.
स तु देशेषु रम्येषु गन्तुं तत्रोपचक्रमे ||२-२९-५३ (१२५३२)
मध्ये प्रासादवृन्देषु नक्षत्राणां शशी यथा.
महापथेषु राजैन्द्र सर्वतो यान्तमर्जुनम् ||२-२९-५४ (१२५३३)
प्रासादवरशृङ्गस्थाः परया वीर्यशोभया.
ददृशुस्तं स्रियः सर्वाः पार्थमात्मयशस्करम् ||२-२९-५५ (१२५३४)
तं कलापधरं शूरं सरथं सधनुः करम्.
सवर्मं सकिरीटं वै संनद्धं सपरिच्छदम् ||२-२९-५६ (१२५३५)
सुकुमारं महासत्वं तेजोराशिमनुत्तमम्.
शक्रोपमममित्रघ्नं परवारणवारणम् ||२-२९-५७ (१२५३६)
पश्यन्तः स्त्रीगणास्तत्र शक्तिपाणिं स्म मेनिरे.
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः ||२-२९-५८ (१२५३७)
अस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः.
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा धनञ्जयम् ||२-२९-५९ (१२५३८)
तुष्टुवुः पुष्पवृष्टिं च ससृजुस्तस्य मूर्धनि.
दृष्ट्वा ते तु मुदा युक्ताः कौतूहलसमन्वितः ||२-२९-६० (१२५३९)
रत्नैर्विभूषणैश्चैव अभ्यवर्षंश्च पाण्डवम्.
अथ जित्वा समस्तांस्तान्करे च विनिवेश्य च ||२-२९-६१ (१२५४०)
मणिहेमप्रबालानि शस्त्राण्याभरणानि च.
एतानि लब्ध्वा पार्थोऽथ शृङ्गवन्तं गिरिं ययौ ||२-२९-६२ (१२५४१)
शृङ्गवन्तं च कौरव्यः समतिक्रम्य फल्गुनः.
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः ||२-२९-६३ (१२५४२)
विद्याधरगणांश्चैव यक्षेन्द्रांश्च विनिर्जयन्.
तत्र लेभे महात्मा वै वासो दिव्यमनुत्तमम् ||२-२९-६४ (१२५४३)
किन्नरद्रुमपत्रांश्च तत्र कृष्णाजिनान्बहून्.
याज्ञीयांस्तांस्तदा दिव्यांस्तत्र लेभे धनञ्जय' ||२-२९-६५ (१२५४४)
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः.
इयेष जेतुं तं देशं पाकशासनन्दनः ||२-२९-६६ (१२५४५)
तत एनं महावीर्यं महाकाया महाबलाः.
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् ||२-२९-६७ (१२५४६)
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्जन.
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत ||२-२९-६८ (१२५४७)
इदं पुरं यः प्रविशेद्घ्रुवं न स भवेन्नरः.
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तवै ||२-२९-६९ (१२५४८)
न चात्र किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते.
उत्तराः कुरुवो ह्येते नात्र युद्धं प्रवर्तते ||२-२९-७० (१२५४९)
प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किञ्चन.
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् ||२-२९-७१ (१२५५०)
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि.
तत्प्रब्रूहि करिष्यामो वचनात्तव भारत ||२-२९-७२ (१२५५१)
ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव.
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः ||२-२९-७३ (१२५५२)
न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः.
युधिष्ठिराय यत्किञ्चित्करपण्यं प्रदीयताम् ||२-२९-७४ (१२५५३)
' नो चेत्कृष्णेन सहितो योधयिष्यामि सायकैः' .
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च.
क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम् ||२-२९-७५ (१२५५४)
एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम्.
सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा ||२-२९-७६ (१२५५५)
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य तु.
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च ||२-२९-७७ (१२५५६)
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि.
मयूरसदृशान्यान्सर्वाननिलरंहसः ||२-२९-७८ (१२५५७)
वृतः सुमहता राजन्बलेन चतुरङ्गिणा.
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् ||२-२९-७९ (१२५५८)
धर्मराजाय तत्पार्थो धनं सर्वं सवाहनम्.
न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान्ययौ ||||२-२९-८० (१२५५९)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि एकोनत्रिंशोऽध्यायः
||२९. .
सभापर्व -अध्याय ०३०
||श्रीः ||
२. ३०. अध्यायः ३०
Mahabharata -Sabha Parva -Chapter Topics
भीमेन प्राचीदिग्विजये पाञ्चालदेशगमनम् ||
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच.
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्.
धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ||५ २-३०-१ (१२५६०)
महता बलचक्रेण परराष्ट्रावमर्दिना.
हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान्. २-३०-२ (१२५६१)
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः.
स गत्वा नरशार्दूलः पञ्चालानां पुरं महत् ||२-३०-३ (१२५६२)
पञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः.
' किञ्चित्करं समादाय विदेहानां पुरं ययौ' ||
ततः स गण्डकाञ्शूरो विदेहान्भरतर्षभः ||२-३०-४ (१२५६३)
विजित्याल्पेन कालेन दशार्णानजयत्प्रभुः.
तत्र दाशार्णको राजा सुधर्मा रोमहर्षणम्.
कृतवान्भीमसेनेम महद्युद्धं निरायुधम्. २-३०-५ (१२५६४)
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म महात्मनः.
अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ||२-३०-६ (१२५६५)
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः.
सैन्येन महता राजन्कम्पयन्निव मेदिनीम् ||२-३०-७ (१२५६६)
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुगम्.
जिगाय समरे वीरो बलेन बलिनां वरः ||२-३०-८ (१२५६७)
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा.
पूर्वदेशं महावीर्यं विजिग्ये कुरनन्दनः ||२-३०-९ (१२५६८)
ततो दक्षिणमागम्य पुलिन्दनगरं महत्.
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ||२-३०-१० (१२५६९)
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः.
शिशुपालं महावीर्यमभ्यगाज्जनमेजय ||२-३०-११ (१२५७०)
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम्.
उपनिष्कम्य नगरात्प्रत्यगृह्णात्परन्तप ||२-३०-१२ (१२५७१)
तौ समेत्य महाराज कुरुचेदिवृषौ तदा.
उभयोरात्मकुलयोः कौशलं पर्यपृच्छताम् ||२-३०-१३ (१२५७२)
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशाम्पते.
उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ. २-३०-१४ (१२५७३)
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम्.
स च तं प्रतिगृह्यैव तथा चक्रे नराधिपः ||२-३०-१५ (१२५७४)
ततो भीमस्तत्र राजन्निषित्वा त्रिदशाः क्षपाः.
सत्कृतः शिशुपालेन ययौ सबलवाहनः ||||२-३०-१६ (१२५७५)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि त्रिंशोऽध्यायः ||३०. .
सभापर्व -अध्याय ०३१
||श्रीः ||
२. ३१. अध्यायः ३१
Mahabharata -Sabha Parva -Chapter Topics
प्राचीं दिशं निर्जित्य भीमस्य प्रतिनिवर्तनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच.
ततः कुमारविषये श्रेणिमन्तमथाजयत्.
कोसलाधिपतिं चैव बृहद्बलमरिन्दमः ||२-३१-१ (१२५७६)
अयोध्यायां तु धर्मज्ञं दीर्घयज्ञं महाबलम्.
अजयत्णण्डवश्रेष्ठो नातितीव्रेण कर्मणा ||२-३१-२ (१२५७७)
ततो गोपालकक्षं च सोत्तरानपि कोसलान्.
मल्लानामधिपं चैव पार्थिवं चाजयत्प्रभुः ||२-३१-३ (१२५७८)
ततो हिमवतः पार्श्वं समभ्येत्य जलोद्भवम्.
सर्वमल्पेन कालेन देशं चक्रे वशं बली ||२-३१-४ (१२५७९)
एवं बहुविधान्देशान्विजिग्ये भरतर्षभः.
भल्लाटमभितो जिग्ये शुक्तिमन्तं च पर्वतम् ||२-३१-५ (१२५८०)
पाण्डवः सुमहावीर्यो बलेन बलिनां वरः.
स काशिराजं समरे सुबाहुमनिवर्तिनम् ||२-३१-६ (१२५८१)
वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः.
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् ||२-३१-७ (१२५८२)
युध्यमानं बालत्सङ्ख्ये विजिग्ये पाण्डवर्षभः.
ततो मत्स्यान्महातेजा मलदांश्च महाबलान् ||२-३१-८ (१२५८३)
अनघानभयांश्चैव पशुभूमिं च सर्वशः.
निवृत्य च महाबाहुर्मदधारं महीधरम् ||२-३१-९ (१२५८४)
सोमधेयांश्च निर्जित्य प्रत्ययावुत्तरामुखः.
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ||२-३१-१० (१२५८५)
भर्गाणामधिपं चैव निषादाधिपतिं तथा.
विजिग्ये भूमिपालांश्च ममिमत्प्रमुखान्बहून् ||२-३१-११ (१२५८६)
ततो दक्षिणमल्लांश्च भोगवन्तं च पर्वतम्.
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा ||२-३१-१२ (१२५८७)
शर्मकान्वर्मकांश्चैव व्यजयत्सान्त्वपूर्वकम्.
वैदेहकं च राजानं जनकं जगतीपतिम् ||२-३१-१३ (१२५८८)
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा.
शकांश्च बर्बराश्चैव अजयच्छद्मपूर्वकम् ||२-३१-१४ (१२५८९)
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्.
किरातानामधिपतीनजयत्सप्त पाण्डवः ||२-३१-१५ (१२५९०)
ततः सुह्यान्प्रसुह्यांश्च सपक्षानतिवीर्यवान्.
विजित्य युधि कौन्तेयो मागधानभ्यधाद्बली ||२-३१-१६ (१२५९१)
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्.
तैरेव सहितैः सर्वैर्गिरिव्रजमुपाद्रवत् ||२-३१-१७ (१२५९२)
जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह.
तैरेव सहितैः सर्वैः कर्णमब्यद्रवद्बली ||२-३१-१८ (१२५९३)
स कम्पयन्निव महीं बलेन चतुङ्गिणा.
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ||२-३१-१९ (१२५९४)
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत.
ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ||२-३१-२० (१२५९५)
अथ मोदागिरौ चैव राजानं बलवत्तरम्.
पाण्डवो बाहुवीर्येण निजघान महामृधे ||२-३१-२१ (१२५९६)
ततः पुण्ड्राधिपं वीरं वासुदेवं समाययौ.
' इदानीं वृष्णिवीरेण न योत्स्यामीति पौण्ड्रकः ||२-३१-२२ (१२५९७)
कृष्णस्य भुजसंत्रासात्करमाशु ददौ नृपः' .
कौशिकीकच्छनिलयं राजानं च महौजसम् ||२-३१-२३ (१२५९८)
उभौ बलभृतौ वीरावुमौ तीव्रपराक्रमौ.
निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् ||२-३१-२४ (१२५९९)
समुद्रसेन निर्जित्य चन्द्रसेनं च पार्थिवम्.
ताम्रलिप्तं च राजानं कर्वटाधिपतिं तथा ||२-३१-२५ (१२६००)
सुह्यानामधिपं चैव ये च सागरवासिनः.
सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ||२-३१-२६ (१२६०१)
एवं बहुविधान्देशान्विजित्य पवनात्मजः.
वसु तेभ्य उपादाय लौहित्यमगद्बली ||२-३१-२७ (१२६०२)
स सर्वान्म्लेच्छनृपतीन्सागरानूपवासिनः.
करमाहारयामास रत्नानि विविधानि च ||२-३१-२८ (१२६०३)
चन्दनागुरुवस्त्राणि मणिमौक्तिककम्बलम्.
काञ्चनं रजतं चैव विद्रुमं च महाधनम् ||२-३१-२९ (१२६०४)
ते कोटीशतसङ्ख्येन कौन्तेयं महता तदा.
अभ्यवर्षन्महात्मानं धनवर्षेण पाण्डवम् ||२-३१-३० (१२६०५)
इन्द्रप्रस्थमुपागम्य भीमो भीमपराक्रमः.
निवेदयामास तदा धर्मराजाय तद्धनम् ||||२-३१-३१ (१२६०६)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि एकत्रिंशोऽध्यायः
||३२. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-३१-१६ सुह्या राढाः मागधानभ्यधाद्बली करं प्रयच्छतेत्युक्तवान्
. पूर्वमेव पराकान् तत्वात् ||
सभापर्व -अध्याय ०३२
||श्रीः ||
२. ३२. अध्यायः ३२
Mahabharata -Sabha Parva -Chapter Topics
दक्षिणदिग्विजये शूरसेनादीञ्जितवतः सहदेवस्य माहिष्मत्यां
नीलेन सह युद्धम् ||१. . नोलस्य अग्निसाहाय्यकरणकारणकथनम्
||२. . सहदेवस्तुत्या तुष्टस्याग्नेराज्ञया नीलेनार्चितस्य सहदेवस्य
विभीषणात्करग् रहणार्थं घटोत्कचप्रेषणम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पाय उवाच ||
तथैव सहदेवोऽपि धर्मराजेन पूजितः.
महत्या सेनया राजन्प्रययौ दक्षिणां दिशम् ||२-३२-१ (१२६०७)
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः.
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ||२-३२-२ (१२६०८)
अधिराजाधिपं चैव दन्तवक्रं महाबलम्.
जिगाय करदं चैव कृत्वा राज्ये न्यवेशयत् ||२-३२-३ (१२६०९)
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्.
तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ||२-३२-४ (१२६१०)
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा.
तरसैवाजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ||२-३२-५ (१२६११)
नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत्.
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ||२-३२-६ (१२६१२)
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम्.
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ||२-३२-७ (१२६१३)
चक्रे तेन स सङ्ग्रामं सहदेवेन भारत.
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ ||२-३२-८ (१२६१४)
सेकानपरसेकांश्च रत्नानि विविधानि च ||
ततस्तेनैव सहितो नर्मदामभितो ययौ. २-३२-१०अ' भगदत्तं महाबाहुं
क्षत्रियं नरकात्मजम्.
अर्जुनाय करं दत्तं श्रुत्वा तत्र न्यवर्तत' ||२-३२-९ (१२६१५)
विन्दानुविन्दावावन्त्यौ सैन्येन महतावृतौ.
जिगाय समरे वीरावाश्विनेयः प्रतापवान् ||२-३२-११ (१२६१६)
ततो रत्नान्युपादाय पुरं भोजकटं ययौ.
तत्र युद्धमभूद्राजन्दिवसद्वयमच्युत ||२-३२-१२ (१२६१७)
स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः.
कोसलाधिपतिं चैव तथा वेणातटाधिपम् ||२-३२-१३ (१२६१८)
कान्तारकांश्च समर तथा प्राकोटकान्नृपान्.
नाटकेयांश्च समरे तथा हेरम्बकान्युधि ||२-३२-१४ (१२६१९)
मारुधं च विनिर्जित्य रम्यग्राममथो बलात्.
नाचीनानर्बुकांश्चैव राजानश्च महाबलः ||२-३२-१५ (१२६२०)
तांस्तानाटविकान्सर्वानजयत्पाण्डुनन्दनः.
नाताधिपं च नृपतिं वशे चक्रे महाबलः ||२-३२-१६ (१२६२१)
पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुरः.
युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः ||२-३२-१७ (१२६२२)
तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम्.
गुहामासादयामास किष्किन्धां लोकविश्रुताम् ||२-३२-१८ (१२६२३)
' पुरा वानरराजेन वालिना चाभिरक्षिताम्.
ततः कोसलराजस्य रामस्यैवानुगेन च.
सुग्रीवेणाभिगुप्तां तां प्रविष्टस्तमथाह्वयत्' ||२-३२-१९ (१२६२४)
तत्र वानरराजाभ्यां मैन्देन द्विविदेन च.
युयुधे दिवसान्सप्त न च तौ विकृतिं गतौ ||२-३२-२० (१२६२५)
ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ.
ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः ||२-३२-२१ (१२६२६)
गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः.
अविघ्नमस्त कार्याय धर्मराजाय धीमते ||२-३२-२२ (१२६२७)
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ ||
तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ||२-३२-२३ (१२६२८)
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् ||
ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम् ||२-३२-२४ (१२६२९)
सैन्यक्षयकरं चैव प्राणानां संशयावहम्.
चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ||२-३२-२५ (१२६३०)
ततो रथा हया नागाः पुरुषाः कवचानि च.
प्रतीप्तानि व्यदृश्यन्त सहदेवबले तदा ||२-३२-२६ (१२६३१)
ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः.
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ||२-३२-२७ (१२६३२)
जनमेजय उवाच. २-३२-२८क्ष् (१४३९)
किमर्थं भगवान्वह्निः प्रत्यमित्रोऽभवद्युधि.
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ||२-३२-२८ (१२६३३)
वैशम्पायन उवाच. २-३२-२९क्ष् (१४४०)
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः.
श्रूयते हि गृहीतो वै पुरस्तात्पारदारिकः ||२-३२-२९ (१२६३४)
नीलस्य राज्ञो दुहिता बभूवतातीव शोभना.
साऽग्निहोत्रमुपातिष्ठद्बोधनाय पितुः सदा ||२-३२-३० (१२६३५)
व्यजनैर्धूयमानोऽपि तावत्प्रज्वलते न सः ||
यावच्चारुपुटौष्ठेन वायुना न विधूयते ||२-३२-३१ (१२६३६)
ततः स भगवानग्निश्चकमे तां सुदर्शनाम्.
नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत् ||२-३२-३२ (१२६३७)
ततो ब्रह्मणरूपेण रममाणो यदृच्छया ||
चकमे तां वरारोहां कन्यामुत्पललोचनाम् ||
तं तु राजा यथाशास्त्रमशासद्धार्मिकस्तदा ||२-३२-३३ (१२६३८)
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः.
तं दृष्ट्वा विस्मितो राजा जगाम शिरसाऽवनिम् ||२-३२-३४ (१२६३९)
ततः कालेन तां कन्यां तथैव हि तदा नृपः.
प्रददौ विप्ररूपाय वह्रये शिरसा नतः ||२-३२-३५ (१२६४०)
प्रतिगृह्य च तां सुभ्रुं नीलराज्ञः सुतां तदा.
चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः ||२-३२-३६ (१२६४१)
वरेण च्छन्दयामास तं नृपं स्विष्टकृत्तमः.
अभयं च स जग्राह स्वसैन्ये वै महीपतिः ||२-३२-३७ (१२६४२)
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः.
जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना ||२-३२-३८ (१२६४३)
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह.
बभूवुरनतिग्राह्य योषितश्छन्दतः किल ||२-३२-३९ (१२६४४)
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे.
स्वैरिण्यस्तत्र च राजानस्तत्पुरं भरतर्षभ. २-३२-४० (१२६४५)
वर्जयन्ति च राजानस्तत्पुरं भरतर्षभ.
भयादग्नेर्महाराज तदाप्रभृति सर्वदा ||२-३२-४१ (१२६४६)
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम्.
परीतमग्निना राजन्नाकम्पत यथाऽचलः.
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः ||२-३२-४२ (१२६४७)
सहदेव उवाच. २-३२-४३क्ष् (१४४१)
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोस्तु ते.
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक ||२-३२-४३ (१२६४८)
पावनात्पावकश्चासि वहनाद्धव्यवाहनः.
वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि ||२-३२-४४ (१२६४९)
चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो.
स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी ||२-३२-४५ (१२६५०)
वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः.
कुमारसूस्त्वं भगवान्रुद्रगर्भो हिरण्यकृत् ||२-३२-४६ (१२६५१)
अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे.
पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे ||२-३२-४७ (१२६५२)
अपां गर्भ महासत्व जातवेदः सुरेश्वर.
देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम् ||२-३२-४८ (१२६५३)
ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि.
नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम् ||२-३२-४९ (१२६५४)
धूमकेतुः शिखी च त्वं पापहाऽनिसम्भवः.
सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम् ||२-३२-५० (१२६५५)
एवं स्तुतोऽसि भगवन्प्रीतेन शिचिना मया.
तुष्टिं पुष्टिं श्रुतं चैव प्रीति चाग्ने प्रयच्छ मे ||२-३२-५१ (१२६५६)
वैशम्पायन उवाच. २-३२-५२क्ष् (१४४२)
इत्येवं मन्त्रमाग्नेयं पठन्यो जुहुयाद्विभुम्.
ऋद्धिमान्सततं दान्तः सर्वपापैः प्रमुच्यते ||२-३२-५२ (१२६५७)
सहदेव उवाच. २-३२-५३क्ष् (१४४३)
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं यज्ञवाहन.
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् ||२-३२-५३ (१२६५८)
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत्.
प्रमुखे तस्य सैन्यस्य भीतोद्विग्रस्य भारत ||२-३२-५४ (१२६५९)
न चैनमत्यगाद्वह्निरुवाच महोदधिः.
तमुपेत्य शनैर्वह्निरुवाच कुरुनन्दनम् ||२-३२-५५ (१२६६०)
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः.
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया ||२-३२-५६ (१२६६१)
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च.
मया तु रक्षितव्या पूरियं भरतसत्तम ||२-३२-५७ (१२६६२)
यावद्राज्ञो हि नीलस्य कुले वंशधरा इति.
ईप्सितं तु करिष्यामि मनसस्तव पाण्डव ||२-३२-५८ (१२६६३)
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसा नतः.
पूजयामास माद्रेयटः पावकं भरतर्षभ ||२-३२-५९ (१२६६४)
पावके विनिवृत्ते तु नीलो राजाऽभ्यगात्तदा.
पावकस्याज्ञया चैनमर्चयामास पार्थिवः ||२-३२-६० (१२६६५)
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम्.
प्रतिगृह्य च तां पूजां करे च विनिवेश्य च ||२-३२-६१ (१२६६६)
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम्.
त्रैपुरं स वशे कृत्वा राजानममितौजसम् ||२-३२-६२ (१२६६७)
निजग्राह महाबाहुस्तरसा पौरवेश्वरम्.
आकृतिं कौशिकाचार्यं यत्ने महता ततः ||२-३२-६३ (१२६६८)
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा.
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे ||२-३२-६४ (१२६६९)
राज्ञे भोजकटस्थाय महामात्राय धीमते.
भीष्मकायस धर्मात्मा साक्षादिन्द्रसखाय वै ||२-३२-६५ (१२६७०)
च चास्य प्रतिजग्राह ससुतः शासनं तदा.
प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च ||२-३२-६६ (१२६७१)
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः.
ततः शूर्पारकं चैव तालाकटमथापि च ||२-३२-६७ (१२६७२)
वशे चक्रे महातेजा दण्डकांश्च महाबलः.
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् ||२-३२-६८ (१२६७३)
निषादान्पुरुषादांश्च कर्णप्रावरणानपि.
ये च कालमुखा नाम नरराक्षसयोनयः ||२-३२-६९ (१२६७४)
कृत्स्नं कोलगिरिं चैव सुरभीपट्टनं तथा.
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा ||२-३२-७० (१२६७५)
तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः.
एकपादांश्च पुरुषान्केरलान्वनवासिनः ||२-३२-७१ (१२६७६)
नगरीं सञ्जयन्तीं च पाषण्डं करहाटकम्.
दूतैरेव वशे चक्रे करं चैनानदापयत् ||२-३२-७२ (१२६७७)
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः.
अन्ध्रांस्तावनांश्चैव कलिङ्गानुष्ट्रकर्णिकान् ||२-३२-७३ (१२६७८)
आटवीं च पुरीं रम्यां यवनानां पुरं तथा.
दूतैरेव वशे चक्रे करं चैनानदापयत् ||२-३२-७४ (१२६७९)
' तात्रपर्णी ततो गत्वा कन्यातीर्थमतीत्य च.
दक्षिणां च दिशं सर्वा विजित्य कुरुनन्दनः ||२-३२-७५ (१२६८०)
उत्तरं तीरमासाद्य सागरस्योर्मिमालिनः.
चिन्तयामास कौन्तेयो भ्रातुः पुत्रं घटोत्कचम् ||२-३२-७६ (१२६८१)
ततश्चिन्तितमात्रस्तु राक्षसः प्रत्यदृश्यत.
तं मेरुशिखराकारमागतं पाण्डुनन्दनः ||२-३२-७७ (१२६८२)
भृगुकच्छात्ततो धीमान्साम्नैवामित्रकर्शनः.
आगम्यतामिति प्राह धर्मराजस्य शसनाः ||२-३२-७८ (१२६८३)
स राक्षसपरीवारस्तं प्रणम्याशु संस्थितः.
घटोत्कचं महात्मानं राक्षसं घोरदर्शनम् ||२-३२-७९ (१२६८४)
तत्रस्थः प्रेषयामास पौलस्त्याय महात्मने' .
बिभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः ||२-३२-८० (१२६८५)
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्.
तच्च कृष्णकृतं धीमानभ्यमन्यत स प्रभुः ||२-३२-८१ (१२६८६)
ततः सम्प्रेषयामास रत्नानि विविधानि च.
चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च ||२-३२-८२ (१२६८७)
वासांसि च महार्हाणि मणींश्चैव महाधनान् ||||२-३२-८२क्ष् (१४४४)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि द्वात्रिंशोऽध्यायः
||३२. .
सभापर्व -अध्याय ०३३
||श्रीः ||
२. ३३. अध्यायः ३३
Mahabharata -Sabha Parva -Chapter Topics
जनमेजयप्रश्नानुरोधेन सहदेवस्य द्राविडपाण्ड्यदेशगमनकथनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
' जनमेजय उवाच ||
इच्छाम्यागमनं श्रोतुं हैडिम्बस्य द्विजोत्तम.
लङ्कायां च गतिं ब्रह्मन्पौलस्त्यस्य च दर्शनम् ||२-३३-१ (१२६८८)
कावेरीदर्शनं चैव आनुपूर्व्या वदस्व मे. २-३३-२ (१२६८९)
वैशम्पायन उवाच.
शृणु राजन्यथा वृत्तं सहेदवस्य साहसम् ||२-३३-२क्ष् (१४४५)
कालनद्वीपगांश्चैव तरसाऽजित्य चाहवे.
दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ ||२-३३-३ (१२६९०)
ददर्श पुण्यतोयां वै कावेरीं सरितां वराम्.
नाजापक्षिगणैर्जुष्टां तापसैरुपशोभिताम् ||२-३३-४ (१२६९१)
कदम्बैः सप्तपर्णैश्च कश्मर्यामलकैर्वृताम् ||२-३३-५ (१२६९२)
न्यग्रोधैश्च महाशाखैः प्लक्षैरौदुम्बरैरपि.
शमीपलाशवृक्षैश्च अश्वत्थैः खदिरैर्वृताम् ||२-३३-६ (१२६९३)
बदरीभिश्च सञ्छन्नामश्वकर्णैश्च शोभिताम्.
बूतैः पुण्ड्रकपत्रैश्च कदलीवनसंवृताम् ||२-३३-७ (१२६९४)
चक्रवाकगणैः कीर्णं प्लवैश्च जलवायसैः.
समुद्रकाकैः क्रौञ्चैश्च नादितां जलकुक्कुटैः ||२-३३-८ (१२६९५)
एवं खगैश्च बहुभिः सङ्घुष्टां जलवासिभिः.
आश्रमैर्बहुभिः सक्तां चैत्यवृक्षैश्च शोभिताम् ||२-३३-९ (१२६९६)
शोभितां ब्राह्मणैः शुभ्रैर्वेदवेदाङ्गपारगैः.
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ||२-३३-१० (१२६९७)
क्वचित्सुपुष्पितैर्वृक्षैः क्वचित्सौगन्धिकोत्पलैः.
कह्लारकुमुदोत्फुल्लैः कमलैरुपशोभिताम् ||२-३३-११ (१२६९८)
कावेरीं तादृशीं दृष्ट्वा प्रीतिमान्पाण्डवस्तदा.
अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा शुभा ||२-३३-१२ (१२६९९)
सहदेवस्तु तां तीर्त्वा नदीमनुचरैः सह.
दक्षिणं तीरभासाद्य गमनायोपचक्रमे ||२-३३-१३ (१२७००)
आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः.
दर्शनार्थं ययुस्ते तु कौतूहलसमन्विताः ||२-३३-१४ (१२७०१)
द्रमिडाः पुरुषा राजन्स्रियचश्च प्रियदर्शनाः.
गत्वा पाण्डुसुतं तत्र ददृशुस्ते मुदाऽन्विताः ||२-३३-१५ (१२७०२)
सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम्.
दर्शनीयतमं लोके नेत्रैरनिमिषैरिव ||२-३३-१६ (१२७०३)
आश्चर्यभूतं ददृशुर्द्रमिडास्ते समागताः.
महासेनोपमं दृष्ट्वा पूजां चक्रुश्च तस्य वै ||२-३३-१७ (१२७०४)
रत्नैश्च विविधैरिष्टैर्भोगैरन्यैश्च संमतैः.
गतिमङ्गलयुक्तार्भिः स्तुवन्तो नकुलानुजम् ||२-३३-१८ (१२७०५)
सहदेवस्तु तान्दृष्ट्वा द्रमिलानागतान्मुदा.
विसृज्य तान्महाबाहुः प्रस्थितो दक्षिणां दिशम् ||२-३३-१९ (१२७०६)
दूतेन तरसा चोलं विजित्य द्रमिडेश्वरम्.
ततो रत्नान्युपादाय पाण्डस्य विषयं ययौ ||२-३३-२० (१२७०७)
दर्शने सहदेवस्य न च तृप्ता नराः परे.
गच्छन्तमनुगच्छन्तः प्राप्ताः कौतूहलान्विताः ||२-३३-२१ (१२७०८)
ततो माद्रीसुतों राजन्मृगसङ्घान्विलोकयन्.
गजान्वनचरानन्यान्व्याघ्रान्कुष्णमृगान्बहून् ||२-३३-२२ (१२७०९)
शुकान्मयूरान्दृष्ट्वा तु गृध्रानारण्यकुक्कुटान्.
ततो देशं समासाद्य श्वशुरस्य महीपतेः ||२-३३-२३ (१२७१०)
प्रेषयामास माद्रेयो दूतान्पाण्ड्याय वै तदा.
प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः ||२-३३-२४ (१२७११)
भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा.
चित्राङ्गदेति विख्याता द्रमिडी योषितां वरा ||२-३३-२५ (१२७१२)
आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः.
प्रेषयामास सम्प्रीत्या पूजारत्नं च वै बहु ||२-३३-२६ (१२७१३)
पाण्ड्योऽपि बहुरत्नानि दूतैः सह मुमोच ह.
मणिमुक्ताप्रवालानि सहदेवाय कीर्तिमान् ||२-३३-२७ (१२७१४)
तां दृष्ट्वाऽप्रतिमां पूजां पाण्डवोऽपि मुदा नृप.
भ्रातुः पुत्रे बहून्रत्नान्दत्वा वै बभ्रूवाहने ||२-३३-२८ (१२७१५)
पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम्.
स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा ||२-३३-२९ (१२७१६)
ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ.
अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम् ||२-३३-३० (१२७१७)
स तं प्रदक्षिमं कृत्वा मलयं भरतर्षभ.
लङ्घयित्वा तु माद्रेयस्ताम्रपणीं नदीं शुभाम् ||२-३३-३१ (१२७१८)
प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम्.
समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः ||||२-३३-३२ (१२७१९)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि
त्रयस्त्रिंशोऽध्यायः ||३३. .
सभापर्व -अध्याय ०३४
||श्रीः ||
२. ३४. अध्यायः ३४
Mahabharata -Sabha Parva -Chapter Topics
स्मृतिमात्रागतघटोत्कचलङ्काप्रेषणवृत्तान्तस्य विस्तरेण
कथनम् ||१. . कृष्णगौरवेण विभीषणेन करदानम्
||२. . विभीषणात्करणाहृतवता घटोत्कचेन सह सहदेवस्य
प्रतिनिवर्तनम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
सहदेवस्ततो राजा मन्त्रिभिः सह भारत.
सम्प्रधार्य महाबाहुः सचिवैर्बुद्धिमत्तरैः ||२-३४-१ (१२७२०)
स विचार्य तदा राजन्सहदेवस्त्वरान्वितः.
चिन्तयामास राजेन्द्र भ्रातुः पुत्रं घटोत्कचम् ||२-३४-२ (१२७२१)
ततश्चिन्तितमात्रे तु राक्षसः प्रत्यदृश्यत.
अतिदीर्घो महाबाहु सर्वाभरणभूषितः ||२-३४-३ (१२७२२)
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः.
विचित्रहारकेयूरः किङ्किणीमणिभूषितः ||२-३४-४ (१२७२३)
हेममाली महादंष्ट्रः किरीटी कुक्षिबन्धनः.
ताम्रकेशो हरिश्मश्रुर्भीमाङ्गः कटकाङ्गदः ||२-३४-५ (१२७२४)
रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली.
बलेन स ययौ तत्र चालयन्निव मेदिनीम् ||२-३४-६ (१२७२५)
ततो दृष्ट्वा जना राजन्नायान्तं पर्वतोपमम्.
भयाद्धि दुद्रुवुः सर्वे सिंहात्क्षुद्रमृगा यथा ||२-३४-७ (१२७२६)
आससाद च माद्रेयं पुलस्त्यं रावणो यथा.
अभिवाद्य ततो राजन्सहदेवं घटोत्कचः ||२-३४-८ (१२७२७)
प्रह्वः कृताञ्जलिस्तस्थौ किं कार्यमिति चाब्रवीत्.
तं परिष्वज्य बाहुभ्यां मूर्ध्न्युपाघ्राय पाण्डवः ||२-३४-९ (१२७२८)
तं मेरुशिखराकारमागतं पाण्डुनन्दनः.
पूजयित्वा सहामात्यः प्रीतो वाक्यमुवाच ह ||२-३४-१० (१२७२९)
गच्छ लङ्कां पुरीं वत्स करार्थं मम शासनात्. ||
तत्र दृष्ट्वा महात्मानं राक्षसेन्द्रं बिभीषणम् ||२-३४-११ (१२७३०)
रत्नानि राजसूयार्थं विविधानि बहूनि च.
उपादाय च सर्वाणि प्रत्यागच्छ महाबल ||२-३४-१२ (१२७३१)
वैशम्पायन उवाच. २-३४-१३क्ष् (१४४६)
पाण्डवेनैवमुक्तस्तु मुदा युक्तो घटोत्कचः.
तथेत्युक्त्वा महाराज प्रतस्ये दक्षिणां दिशम् ||२-३४-१३ (१२७३२)
प्रययौ दक्षिणं कृत्वा सहदेवं घटोत्कचः.
लङ्कामभिमुको राजन्समुद्रं स व्यलोकयत् ||२-३४-१४ (१२७३३)
कूर्मग्राहझषाकीर्णं मीननक्रैस्तथाऽऽकुलम्.
शुक्तिव्रातसमाकीर्णं शङ्कानां निचयाकुलम् ||२-३४-१५ (१२७३४)
स दृष्ट्वा रामसेतुं च चिन्तयन्रामविक्रमम् ||
गत्वा पारं समुद्रस्य दक्षिणं स घटोत्कचः ||२-३४-१६ (१२७३५)
ददर्श लङ्कां राजेन्द्र नाकपृष्ठोपमां शुभाम्.
प्राकारेणावृतां रम्यां शुभद्वारैश्च शोभिताम् ||२-३४-१७ (१२७३६)
प्रासादैर्बहुसाहस्रैः श्वेतरक्तैश्च सङ्कुलाम्.
दिव्यदुन्दुभिनिर्ह्रादामुद्यानवनशोभिताम् ||२-३४-१८ (१२७३७)
सर्वकालफलैर्वृक्षैः पुष्पितैरुपशोभिताम्.
पुष्पगन्धैश्च सङ्कीर्णां रमणीयमहारथाम् ||२-३४-१९ (१२७३८)
नानारत्नैश्च सम्पूर्णामिन्द्रस्येवामरावतीम्.
विवेश स पुरीं लङ्कां राक्षसैश्च निषेविताम् ||२-३४-२० (१२७३९)
ददर्श स पुरीं लङ्कां राक्षसैश्च निषेविताम् ||
नानावेषधरान्दक्षान्नारीश्च प्रियदर्शनाः ||२-३४-२१ (१२७४०)
दिव्यमाल्याम्बरधरा दिव्यभूषणभूषिताः.
मदरक्तान्तनयनाः पीनश्रोणिपयोधराः ||२-३४-२२ (१२७४१)
भैमसेनिं ततो दृष्ट्वा हृष्टास्ते विस्मयं गताः.
आससाद गृहं राज्ञ इन्द्रस्य सदनोपमम् ||२-३४-२३ (१२७४२)
स द्वारपालमासाद्य वाक्यमेतदुवाच ह. २-३४-२४ (१२७४३)
घटोत्कच उवाच ||
कुरूणामृष्टबो राजा पाण्डुर्नाम महाबलः ||२-३४-२४क्ष् (१४४७)
कनीयांस्तस्य दायादः सहदेव इति श्रुतः.
तेनाहं प्रेषितो दूतः करार्थं कौरवस्य च ||२-३४-२५ (१२७४४)
द्रष्टुमिच्छामि राजेनद्रं त्वं क्षिप्रं मां निवेदय. २-३४-२६ (१२७४५)
वैशम्पायन उवाच ||
तस्य तद्वचनं श्रुत्वा द्वारपालो महीपते ||२-३४-२६क्ष् (१४४८)
तथेत्युक्त्वा विवेशाथ भवनं स निवेदकः.
प्राञ्जलिः स्रवमाचष्ट स्रवां दूतगिरं तदा ||२-३४-२७ (१२७४६)
द्वारपालवचः श्रुत्वा राक्षसेन्द्रो विभीषणः.
उवाच वाक्यं धर्मात्मा समीपं मे प्रवेश्यताम् ||२-३४-२८ (१२७४७)
एवमुक्तस्तु राज्ञा स धर्मज्ञेन महात्मना.
अथनिष्कम्य सम्भ्रान्तो द्वार्स्थोहैडिम्बमब्रवीत् ||२-३४-२९ (१२७४८)
एहि दूत नृपं द्रष्टुं क्षिप्रं प्रविश च स्वयम्.
द्वारपालवचः श्रुत्वा प्रविवेश घटोत्कचः ||२-३४-३० (१२७४९)
स प्रविश्य ददर्शाथ राक्षसेन्द्रस्य मन्दिरम्.
ततः कैलाससङ्काशं तत्पकाञ्चनतोरणम् ||२-३४-३१ (१२७५०)
प्राकारेण परिक्षिप्तं गोपुरैश्चापि शोभितम्.
हर्म्यप्रासादसम्बाधं नानारत्नोपशोभितम् ||२-३४-३२ (१२७५१)
काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि.
वज्रवैडूर्यजुष्टैश्च स्तम्भैश्च सुमनोहरैः ||२-३४-३३ (१२७५२)
नानाध्वजपताकाभिर्युक्तं मणिविचित्रितम्.
चित्रमाल्यावृतं रम्यं तप्तकाञ्चनवेदिकम् ||२-३४-३४ (१२७५३)
स दृष्ट्वा तत्र सर्वं च भैमसेनिर्मनोहरम्.
प्रविशन्नेव हैडिम्बः शुश्राव मधुरस्वरम् ||२-३४-३५ (१२७५४)
तन्त्रीगीतसमाकीर्णं समतालमिताक्षरम्.
दिव्यदुन्दुभिनिर्ह्रादं वादित्रसततं शुभम् ||२-३४-३६ (१२७५५)
स श्रुत्वा मधुरं शब्दं प्रीतिमानभवत्तदा.
ततो विगाह्य हैडिम्बो बहुकक्ष्यां मनोरमाम् ||२-३४-३७ (१२७५६)
स ददर्श महात्मानं द्वार्स्थेन सह भारत.
तं विभीषणमासीनं काञ्चने परमासने ||२-३४-३८ (१२७५७)
दिवि भास्करसङ्काशं मुक्तामणिविभूषितम्.
दिव्याभरणचित्राङ्गं दिव्यरूपधरं विभुम् ||२-३४-३९ (१२७५८)
दिव्यमाल्याम्बरधरं दिव्यगन्धोक्षितं शुभम्.
विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् ||२-३४-४० (१२७५९)
उपोपविष्टं सचिवैर्देवैरिव शतक्रतुम्.
यक्षैर्महात्मभिर्दिव्यनारीभिर्हृद्यकान्तिभिः ||२-३४-४१ (१२७६०)
गीतैर्मङ्गलयुक्तैश्च पूज्यमानं यथा दिवि.
चामरे व्यजने चाग्र्ये हेमदण्डे महाधने ||२-३४-४२ (१२७६१)
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि.
अर्चिष्मन्तं श्रिया जुष्टं कुबेरवरुणोपमम् ||२-३४-४३ (१२७६२)
धर्मे चैव स्थितं नित्यमद्भुतं राक्षसेस्वरम्.
राममिक्ष्वाकुनाथं वै स्मरन्तं मनसा सदा ||२-३४-४४ (१२७६३)
दृष्ट्वा घटोत्कचो राजन्ववन्दे तं कृताञ्जलिः.
प्रह्वस्तस्थौ महावीर्यः शक्रं चित्ररथो यथा ||२-३४-४५ (१२७६४)
तं दूतमागतं दृष्ट्वा राक्षसेन्द्रो विभीषणः.
पूजयित्वा यथान्यायं सान्त्वपूर्वं वचोऽब्रवीत् ||२-३४-४६ (१२७६५)
विभीषण उवाच ||२-३४-४७क्ष् (१४४९)
कस्य वंशे स सञ्जातः करमिच्छन्महीपतिः.
तस्यानुजान्समस्तांश्च पुरं देशं च तस्य वै ||२-३४-४७ (१२७६६)
त्वां च कार्यं च तत्सर्वं श्रोतुमिच्छामि तत्वतः.
विस्तरेण मम ब्रूहि सर्वानेतान्पृथक्पृथक् ||२-३४-४८ (१२७६७)
वैशम्पायन उवाच. २-३४-४९क्ष् (१४५०)
एवमुक्तस्तु हैडिम्बः पौलस्त्येन महात्मना.
कृताञ्जलिरुवाचाथ समर्थमिदमुत्तरम् ||२-३४-४९ (१२७६८)
घटोत्कच उवाच. २-३४-५०क्ष् (१४५१)
सोमवंशोद्भवो राजा पाण्डुर्नाम महाबलः.
पाण्डोश्च पुत्राः पञ्चासञ्छक्रतुल्यपराक्रमाः ||२-३४-५० (१२७६९)
तेषां ज्येष्ठस्तु नाम्ना वै युधिष्ठिर इति श्रुतः.
अजातशत्रुर्धर्मात्मा धर्मो विग्रहवानिव ||२-३४-५१ (१२७७०)
ततो युधिष्ठिरो राजा प्राप्य राज्यमकारयत्.
गङ्गाया दक्षिणे तीरे नगरे नागसाह्वये ||२-३४-५२ (१२७७१)
तद्दत्वा धृतराष्ट्राय शक्रप्रस्थं ययौ ततः.
भ्रातृभिः सह राजेन्द्र शक्रप्रस्थेऽन्वमोदत ||२-३४-५३ (१२७७२)
गङ्गायमुनयोर्मध्ये ते उभे नगरोत्तमे.
नित्यं धर्मे स्थितो राजा शक्रप्रस्थे प्रशास्ति नः ||२-३४-५४ (१२७७३)
तस्यानुजो महाबाहुर्भीमसेन इति श्रुतः.
महातेजा महाकीर्तिः शक्रतुल्यपराक्रमः ||२-३४-५५ (१२७७४)
दशनागसहस्राणां बले तुल्यः स पाण्डवः.
तस्यानुजोऽर्जुनो नाम महाबलपराक्रमः ||२-३४-५६ (१२७७५)
सुकुमारो महासत्वो लोके वीर्येण विश्रुतः.
कार्तवीर्यसमो वीर्ये सागरप्रतिमो बले ||२-३४-५७ (१२७७६)
जामदग्न्यसमश्चास्त्रे सङ्ख्ये रामसमोऽर्जुनः.
रूपे शक्रसमः पार्थस्तेजसा भास्करोपमः ||२-३४-५८ (१२७७७)
देवदानवगन्धर्वैः पिशाचोरगराक्षसैः.
मानुषैश्च समस्तैस्तु अजेयः फल्गुनो रणे ||२-३४-५९ (१२७७८)
तेन तत्खण्डवं दावं तर्पितं जातवेदसे.
विजित्य तरसा शक्रं युधि देवगणैः सह ||२-३४-६० (१२७७९)
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम्.
तेन लब्धा महाराज दुर्लभा दैवतैरपि ||२-३४-६१ (१२७८०)
वासुदेवस्य भगिनी सुभद्रा नाम विश्रुता.
अर्जुनस्यानुजो राजन्नकुलश्चेति विश्रुतः ||२-३४-६२ (१२७८१)
दर्शनीयतमो लोके मूर्तिमानिव मन्मथः.
तस्यानुजो महातेजाः सहदेव इति श्रुतः ||२-३४-६३ (१२७८२)
तेनाहं प्रेषितो राजन्कुमारेण समो रणे.
अहं घटोत्कचो नाम भीमसेनसुतो बली ||२-३४-६४ (१२७८३)
मम माता महाभागा हिडिम्बा नाम राक्षसी.
पार्थानामुपकारार्थं चरामि पृथिवीमिमाम् ||२-३४-६५ (१२७८४)
आसीत्पृथिव्याः सर्वस्या महीपालो युधिष्ठिरः.
राजसूयं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे ||२-३४-६६ (१२७८५)
सन्दिदेश च स भ्रातृन्करार्थं सर्वतोदिशम्.
वृष्णिवीरेण सहितः सन्दिदेशानुजान्नृपः ||२-३४-६७ (१२७८६)
उदीचीमर्जुनस्तूर्णं गत्वा मेरोरथोत्तमः.
गत्वा शतसहस्राणि योजनानि महाबलः ||२-३४-६८ (१२७८७)
जित्वा सर्वान्नृपान्युद्धे हत्वा च तरसा वशी.
स्वर्गद्वारमुपागम्य रत्नान्यादाय वै भृशम् ||२-३४-६९ (१२७८८)
अश्वांश्च विविधान्दिव्यान्सर्वानादाय फल्गुनः.
धनं बहुविधं राजन्धर्मपुत्राय वै ददौ ||२-३४-७० (१२७८९)
भीमसेनो हि राजेन्द्र जित्वा प्राचीं दिशं बलात्.
वशे कृत्वा महीपालान्पाण्डवाय धनं ददौ ||२-३४-७१ (१२७९०)
दिशं प्रतीचीं नकुलः करार्थं प्रययौ तथा.
सहदेवो दिशं याम्यां जित्वा सर्वान्महीक्षितः ||२-३४-७२ (१२७९१)
मां सन्दिदेश राजेन्द्र करार्थमिह सत्कृतः.
पार्थानां चरितं तुभ्यं सङ्क्षेपात्समुदाहृतम् ||२-३४-७३ (१२७९२)
तमवेक्ष्य महाराज धर्मराजं युधिष्ठिरम्.
पावनं राजसूयं च भगवन्तं हरिं प्रभुम्.
एतानवेक्ष्य धर्मज्ञ करं दातुमिहार्हसि ||२-३४-७४ (१२७९३)
वैशम्पायन उवाच ||२-३४-७५क्ष् (१४५२)
तेन तद्भाषितं श्रुत्वा राक्षसेन्द्रो बिभीषणः.
शासनं प्रतिजग्राह धर्मात्मा राक्षसैः सह ||२-३४-७५ (१२७९४)
तच्च कृष्णकृतं धीमानित्यमन्यत स प्रभुः.
ततो ददौ विचित्राणि कम्बलानि कुथानि च ||२-३४-७६ (१२७९५)
दान्तकाञ्चनपर्यङ्कान्मणिहेमविचित्रितान्.
भूषणानि महार्हाणि प्रवालानि मणींश्च सः ||२-३४-७७ (१२७९६)
काञ्चनानि च भाण्डनि कलशानि घटानि च.
कटाहानि विचित्रानि द्रोण्यश्चैव सहस्रशः ||२-३४-७८ (१२७९७)
राजतानि च भाण्डानि रत्नगर्भांश्च कुण्डलान्.
हेमपुष्पानि चान्यानि रुक्ममुख्यानि चापरान्. २-३४-७९ (१२७९८)
शङ्खांश्च चन्द्रसङ्काशांश्चित्रावर्तविचित्रितान्.
यज्ञस्य तोरणे युक्तान्ददौ तालांश्चतुर्दश ||२-३४-८० (१२७९९)
रुक्मपङ्कजपुष्पाणि शिबिका मणिभूषिताः.
मुकुटानि महार्हाणि रत्नगर्भांश्च कङ्कणान् ||२-३४-८१ (१२८००)
चन्दनानि च मुख्यानि वासांसि विविधानि च.
स ददौ सहदेवाय तदा राजा विभीषणाः ||२-३४-८२ (१२८०१)
तानि सर्वाणि रत्नानि आजह्रुस्ते निशाचराः.
अष्टाशीतिसहस्राणि समदा रक्तलोचनाः ||२-३४-८३ (१२८०२)
रत्नान्यादाय सर्वाणि प्रतस्थे स घटोत्कचः.
विभीषणं च राजानमभिवाद्य कृताञ्जलिः ||२-३४-८४ (१२८०३)
प्रदक्षिणं परीत्यैव निर्जगाम घटोत्कचः.
ततो रत्नान्युपादाय हैडिम्बो राक्षसैः सह ||२-३४-८५ (१२८०४)
जगाम तूर्णं लङ्कायाः सहदेवपदं प्रति.
आसेदुः पाण्डवं सर्वे लङ्घयित्वा महोदधिम् ||२-३४-८६ (१२८०५)
सहदेवो ददर्शाथ रत्नाहारान्निशाचरान्.
आगतान्भीमसङ्काशान्हैडिम्बं च तथा नृप ||२-३४-८७ (१२८०६)
द्रमिला नैऋतान्दृष्ट्वा दुद्रुवुस्ते भयार्दिताः.
भैमसेनिस्ततो गत्वा मार्देयं प्राञ्जलिः स्थितः ||२-३४-८८ (१२८०७)
प्रीतिमानभवद्दृष्ट्वा रत्नौधं तं च पाण्डवः.
तं परिष्वज्य पाणिभ्यां दृष्ट्वा तान्प्रीतिमानभूत् ||२-३४-८९ (१२८०८)
विसृज्य द्रविडान्सर्वान्गमनायोपचक्रमे.
न्यवर्तम ततो धीमान्सहदेवो नराधिपः ||२-३४-९० (१२८०९)
एवं विजित्य तरसा सान्त्वेन विजयेन च.
करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिन्दमः ||२-३४-९१ (१२८१०)
रत्नसालमुपादाय ययौ सहनिशाचरः.
इन्द्रप्रस्थं विवेशाथ कम्पयन्निव मेदिनीम् ||२-३४-९२ (१२८११)
दृष्ट्वा युधिष्ठिरं राजन्सहदेवः कृताञ्जलिः.
प्रह्वोऽभिवाद्य तस्थौ स पूजितश्चापि तेन वै ||२-३४-९३ (१२८१२)
लङ्काप्राप्तान्धनौघांश्च दृष्ट्वा तान्दुर्लभान्बहून्.
प्रीतिमानभवद्राजा विस्मयं परमं ययौ ||२-३४-९४ (१२८१३)
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ.
कोटीसहस्रमधिकं हिरण्यस्य महात्मने ||२-३४-९५ (१२८१४)
विविधानि च रत्नानि गोजाविमहिषांस्तथा.
कृतकर्मा सुखं राजन्नुवास जनमेजय ||||२-३४-९६ (१२८१५)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि चतुस्त्रिंसोऽध्यायः
||३४. . ||
सभापर्व -अध्याय ०३५
||श्रीः ||
२. ३५. अध्यायः ३५
Mahabharata -Sabha Parva -Chapter Topics
नकुलस्य पश्चिमदिग्विजयः ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा.
वासुदेवजितामाशां यथाऽसावजयत्प्रभुः ||२-३५-१ (१२८१६)
निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम्.
उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह ||२-३५-२ (१२८१७)
सिंहनादेन महता योधानां गर्जितेन च.
रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् ||२-३५-३ (१२८१८)
ततो बहु धनं रम्यं गावाढ्यं धनधान्यवत्.
कार्तिकेयस्य दयितं रोहीतकुपाद्रवत् ||२-३५-४ (१२८१९)
तत्र युद्धं महच्चासीच्छूरैर्मत्तमयूरकैः.
मरुभूमिं स कार्त्स्न्येन तथैव बहुधान्यकम् ||२-३५-५ (१२८२०)
शैरीषकं महेत्थं च वशे चक्रे महाद्युतिः.
आक्रोशं चैव राजर्षि तेन युद्धमभून्महत् ||२-३५-६ (१२८२१)
तान्दशार्णान्स जित्वा च प्रतस्थे पाण्डुनन्दनः.
शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्च कर्पटान् ||२-३५-७ (१२८२२)
तथा मध्यमकेयांश्च वाटधानान्द्विजानथ.
पुनश्च परिवृत्याथ पुष्करारण्यवासिनः ||२-३५-८ (१२८२३)
गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः.
सिन्धुकूलाश्रिता ये च ग्रामणीया महाबलाः ||२-३५-९ (१२८२४)
शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम्.
वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः ||२-३५-१० (१२८२५)
कत्स्नं पञ्चनन्दं चैव तथैवामरपर्वतम्.
उत्तरज्योतिषं चैव तथा दिव्यकटं पुरम् ||२-३५-११ (१२८२६)
द्वारपालं च तरसा वशे चक्रे महाद्युतिः.
रामठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः ||२-३५-१२ (१२८२७)
तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः.
तत्रस्थः प्रेषयामास वासुदेवाय भारत ||२-३५-१३ (१२८२८)
स चास्य गतभी राजन्प्रतिजग्राह शासनम्.
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् ||२-३५-१४ (१२८२९)
मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली.
स तेन सत्कृतो राज्ञा सत्कारार्हो विशाम्पते ||२-३५-१५ (१२८३०)
रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः.
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् ||२-३५-१६ (१२८३१)
पह्लवान्वर्बरांश्चैव किरातान्यवनाञ्शकान्.
ततो रत्नान्यपादाय वशे कृत्वा च पार्थिवान्.
न्यवर्तत कुरुश्रेष्ठो नकुलश्चित्रमार्गवित् ||२-३५-१७ (१२८३२)
करमाणां सहस्राणि कोशं तस्य महात्मनः.
ऊहर्दश महाराज कृच्छ्रादिव महाधनम् ||२-३५-१८ (१२८३३)
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम्.
ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् ||२-३५-१९ (१२८३४)
एवं विजित्य नकुलो दिशं वरुणपालिताम्.
प्रतीचीं वासुदेवेन निर्जितां भरतर्षभ ||||२-३५-२० (१२८३५)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि
पञ्चत्रिंशोऽध्यायः ||३५. .
सभापर्व -अध्याय ०३६
||श्रीः ||
२. ३६. अध्यायः ३६
Mahabharata -Sabha Parva -Chapter Topics
द्वारकातः आगतस्य श्रीकृष्णस्याज्ञया
यज्ञसामग्रीसम्पादनोपक्रमः ||१. . द्वैपायनेन ऋत्विगानयनम्
||२. . ब्राह्मणक्षत्रियादीनामामन्त्रणाय दूतप्रेषणम्
||३. . धृतराष्ट्राद्यमन्त्रणाय नकुलगमनम् ||४. ||दीक्षा ||५. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात्.
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ||२-३६-१ (१२८३६)
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात्.
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ||२-३६-२ (१२८३७)
सर्वारम्भाः सुप्रवृत्ता गोरक्षा कर्षणं वणिक्.
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः ||२-३६-३ (१२८३८)
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्.
राजवल्लभतश्चैव नाश्रूयन्त मृषागिरः ||२-३६-४ (१२८३९)
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्.
सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ||२-३६-५ (१२८४०)
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम्.
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः कथञ्चनः ||२-३६-६ (१२८४१)
धर्मैर्धनागमैस्तस्य ववधे निचयो महान्.
कर्तुं यस्य न शक्येन क्षयो वर्षशतैरपि ||२-३६-७ (१२८४२)
स्वकोष्ठस्य परीमाणं कोशस्य च महीपतिः.
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ||२-३६-८ (१२८४३)
सुहृदश्चैव ये सर्वे पृथक्च सहचाब्रुवन्.
यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम् ||२-३६-९ (१२८४४)
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः.
ऋषिः पुराणो वेदात्मा दृश्यश्चैव विजानताम् ||२-३६-१० (१२८४५)
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह.
भूतभव्यभवन्नाथः केशवः केशिसूदनः ||२-३६-११ (१२८४६)
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा.
बलाधिकारे निक्षिप्य सम्यगानकदुन्दुभिम् ||२-३६-१२ (१२८४७)
उच्चावचमुपादाय धर्मराजाय माधवः.
धनौघं पुरुषव्याघ्रो बलेन महता वृतः ||२-३६-१३ (१२८४८)
तं धनौघमपर्यन्तं रत्नसागरमक्षयम्.
नादयन्रथघोषेण प्रविशेश पुरोत्तमम् ||२-३६-१४ (१२८४९)
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्.
असूर्यमिव सूर्येण निवातमिव वायुना.
कृष्णेन समुपेतेन जहृषे भारतं पुरम् ||२-३६-१५ (१२८५०)
तं मुदाऽभिसमागम्य सत्कृत्य च यथाविधि.
स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ||२-३६-१६ (१२८५१)
धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः.
भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत् ||२-३६-१७ (१२८५२)
युधिष्ठिर उवाच ||२-३६-१८क्ष् (१४५३)
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते.
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ||२-३६-१८ (१२८५३)
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत.
उपयोक्तुं द्विजाग्र्येभ्यो हव्यवाहे च माधव ||२-३६-१९ (१२८५४)
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया.
अनुजैश्च महाबाहो तन्माऽनुज्ञातुमर्हसि ||२-३६-२० (१२८५५)
तद्दीक्षापय गोविन्द त्वमात्मानं महाभुज.
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ||२-३६-२१ (१२८५६)
मां वाप्यभ्यनुजानीह सहैभिरनुजैर्विभो.
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ||२-३६-२२ (१२८५७)
वैशम्पायन उवाच. २-३६-२३क्ष् (१४५४)
तं कृष्णःस प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्.
त्वमेव राजशार्दूल रम्राडर्हो महाक्रतुम्.
सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ||२-३६-२३ (१२८५८)
यदस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते.
नियुङ्क्ष्व त्वं च मां कृत्ये सर्वं कर्तास्मि ते वचः ||२-३६-२४
(१२८५९)
युधिष्ठिर उवाच. २-३६-२५क्ष् (१४५५)
सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम.
यस्यमे त्वं हृषीकेश यथेप्सितमुपस्थितः ||२-३६-२५ (१२८६०)
वैशम्पायन उवाच. २-३६-२६क्ष् (१४५६)
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह.
ईजितुं राजसूयेन साधनान्युपचक्रमे ||२-३६-२६ (१२८६१)
ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः.
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ||२-३६-२७ (१२८६२)
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्व्जातिभिः.
यथोपकरणं सर्वं मङ्गलानि च सर्वशः ||२-३६-२८ (१२८६३)
अधियज्ञांश्च सम्भारान्दौम्योक्तान्क्षिप्रमेव हि.
समानयन्तु पुरुषा यथायोगं यथाक्रमम् ||२-३६-२९ (१२८६४)
इन्द्रसेनो विशोकश्च पूरश्चार्जुनसारथिः.
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ||२-३६-३० (१२८६५)
सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः.
मनोरथप्रीतिकरा द्विजानां कुरुसत्तम ||२-३६-३१ (१२८६६)
वैशम्पायन उवाच ||२-३६-३२क्ष् (१४५७)
तद्वाक्यसमकालं च कृतं सर्वं न्यवेदयत्.
सहदेवो युधां श्रेष्ठो धर्मराजो युधिष्ठिरे ||२-३६-३२ (१२८६७)
ततो द्वैपायनो राजन्नृत्विजः समुपानयत्.
वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ||२-३६-३३ (१२८६८)
स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः.
धनञ्जयानामृषभः सुसामा सामगोऽभवत् ||२-३६-३४ (१२८६९)
याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः.
पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ||२-३६-३५ (१२८७०)
एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभ.
बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ||२-३६-३६ (१२८७१)
ते वाचयित्वा पुण्याहमूहयित्वा च तं विधिम्.
शास्त्रोक्तं पूजयामासुस्तद्देवयजनं महत् ||२-३६-३७ (१२८७२)
तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः.
गन्धवन्ति विशालानि वेश्मानीव दिवौकसाम् ||२-३६-३८ (१२८७३)
तत आज्ञापयामास स राजा राजसत्तमः.
सहदेवं तदा सद्यो मन्त्रिणं पुरुषर्षभः ||२-३६-३९ (१२८७४)
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम्.
उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ||२-३६-४० (१२८७५)
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानथ.
विनाश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ||२-३६-४१ (१२८७६)
वैशम्पायन उवाच ||२-३६-४२क्ष् (१४५८)
ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात्.
आमन्त्रयाम्बभूवुस्ते प्रेषयामास चापरान् ||२-३६-४२ (१२८७७)
दूताश्च वाहनैर्जग्भू राष्ट्राणि सुबहून्यपि.
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् ||२-३६-४३ (१२८७८)
नकुलं हास्तिनपुरं भीष्माय भरतर्षभ.
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च.
भ्रातृणां चैव सर्वेणां येऽनुरक्ता युधिष्ठिरे ||२-३६-४४ (१२८७९)
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्.
दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत ||२-३६-४५ (१२८८०)
' ज्येष्ठामूले अमावास्यां मृगाजिनसमावृतः.
रौरवाजिनसंवीतो नवनीताक्तदेहवान्' ||२-३६-४६ (१२८८१)
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः.
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ||२-३६-४७ (१२८८२)
भातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैः सह.
क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः ||२-३६-४८ (१२८८३)
अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव.
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः ||२-३६-४९ (१२८८४)
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः.
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् ||२-३६-५० (१२८८५)
बह्वन्नाच्छादनैर्युक्तान्सगणानां पृथक् पृथक्.
सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः ||२-३६-५१ (१२८८६)
तेषु ते न्यवसन्राजन्ब्राह्मणा नृपसत्कृताः.
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ||२-३६-५२ (१२८८७)
भुञ्जतां चैव विप्राणां वदतां च महास्वनः.
अनिशं श्रूयते तत्र मुदितानां महात्मनाम् ||२-३६-५३ (१२८८८)
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति.
एवम्प्रकाराः सञ्जल्पाः श्रूयन्तेस्मात्र नित्यशः ||२-३६-५४ (१२८८९)
गवां शतसहस्राणि शयनानां च भारत.
रुक्मस्य योषितां चैव धर्मराजः पृथक् ददौ ||२-३६-५५ (१२८९०)
प्रावर्ततैव यज्ञः स पाण्डवस्य महात्मनः.
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ||||२-३६-५६ (१२८९१)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि षट्त्रिंशोऽध्यायः
||३६. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-३६-५ मूर्छनं प्रदीपनम् ||
२-३६-७ निचयो भाण्डागारम् ||
२-३६-३४ धनञ्जयानां धनञ्जयगोत्राणां मध्ये श्रेष्ठः सुसामानाम
आङ्गिरसः ||
सभापर्व -अध्याय ०३७
||श्रीः ||
२. ३७. अध्यायः ३७
Mahabharata -Sabha Parva -Chapter Topics
आमन्त्रितानां सर्वेषां आगमनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
तत आमन्त्रिता राजन्राजानः सत्कृतास्तदा.
पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः ||२-३७-१ (१२८९२)
ते वै दिग्भ्यः समापेतुः पार्थिवास्तत्र भारत.
समादाय महार्हाणि रत्नानि विविधानि च ||२-३७-२ (१२८९३)
तच्छ्रुत्वा धर्मराजस्य यज्ञे यज्ञविदस्तदा.
राजानः शतशस्तुष्टैर्मनोभिर्मनुर्षभ ||२-३७-३ (१२८९४)
बहु वित्तं समादाय विविधं पार्थिवा ययुः.
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ||२-३७-४ (१२८९५)
स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः.
भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः ||२-३७-५ (१२८९६)
प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत्तदा.
धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम् ||२-३७-६ (१२८९७)
दुर्योधनमुखांश्चैव भ्रातॄन्सर्वानथानयत् ||२-३७-७ (१२८९८)
सत्कृत्यामन्त्रिताः सर्वे ह्याचार्यप्रमुखास्ततः.
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः ||२-३७-८ (१२८९९)
धृतराष्ट्रश्च भीष्मश्च विदुरस्च महामतिः.
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते.
गान्धारराजः सुबलः शकुनिश्च महाबलः ||२-३७-९ (१२९००)
अचलो वृषकश्चैव कर्णश्च रथिनां वरः.
तथा शल्यश्च बलवान्बाह्लिकश्च महाबलः ||२-३७-१० (१२९०१)
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः.
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ||२-३७-११ (१२९०२)
यज्ञसेनः सपुत्रश्च साल्वश्च वसुधाधिपः.
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः ||२-३७-१२ (१२९०३)
स तु सर्वैः सह म्लेच्छैः सागरानूपवासिभिः.
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ||२-३७-१३ (१२९०४)
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा.
आकर्षाः कुन्तलाश्चैव गालवाश्चान्ध्रकास्तथा ||२-३७-१४ (१२९०५)
द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा.
कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः ||२-३७-१५ (१२९०६)
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते.
विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः ||२-३७-१६ (१२९०७)
राजानो राजपुत्राश्च नानाजनपदेश्वराः.
शिशुपालो महावीर्यः सह पुत्रेण भारत ||२-३७-१७ (१२९०८)
आगच्छत्पाण्डवेयस्य यज्ञं समरदुर्मदः.
रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः ||२-३७-१८ (१२९०९)
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान्.
उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा ||२-३७-१९ (१२९१०)
वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः.
एते चान्ये च बहवो राजानो मध्यदेशजाः ||२-३७-२० (१२९११)
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम्.
ददुस्तेषामावसथान्धर्मराजस्य शासनात् ||२-३७-२१ (१२९१२)
बहुभक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान्.
तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम् ||२-३७-२२ (१२९१३)
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः.
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् ||२-३७-२३ (१२९१४)
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः.
सुवर्णजालसंवीतान्मणिकुट्टिमभूषितान् ||२-३७-२४ (१२९१५)
सुखारोहणसोपानान्महासनपरिच्छदान्.
स्नग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः ||२-३७-२५ (१२९१६)
हंसेन्दुवर्णसदृशानायोजनसुदर्शनान्.
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः ||२-३७-२६ (१२९१७)
बहुधातुनिबद्धाङ्गान्हिमवच्छिखरानिव.
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् ||२-३७-२७ (१२९१८)
वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम्.
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः.
भ्राजते स्म तदा राजन्नाकपृष्ठं यथाऽमरैः ||||२-३७-२८ (१२९१९)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि सप्तत्रिंशोऽध्यायः
||३७. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-३७-८ ब्रह्मपुरस्सराः ब्राह्मणपुरस्सराः ||
सभापर्व -अध्याय ०३८
||श्रीः ||
२. ३८. अध्यायः ३८
Mahabharata -Sabha Parva -Chapter Topics
आगतान्भीष्णादीन्समान्य तत्तदधिकारेषु तेषांतेषां नियमनम्
||१. . राजसूययागः ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः.
अभिवाद्य ततो राजन्निदं वचनमब्रवीत् ||२-३८-१ (१२९२०)
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती.
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः ||२-३८-२ (१२९२१)
इदं वः सुमहच्चैव यदिहास्ति धनं मम.
प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रितः ||२-३८-३ (१२९२२)
एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः.
युयोज स यथायोगमधिकारेष्वनन्तरम् ||२-३८-४ (१२९२३)
' पङ्क्त्यारोपणकार्ये च उच्छिष्टापनये पुनः.
भोजनावेक्षणे चैव युयुत्सुं समयोजयत्' ||२-३८-५ (१२९२४)
भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत्.
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान्. २-३८-६ (१२९२५)
राज्ञां तु प्रतिपूजार्थं सञ्जयं न्ययोजयत्.
कृताकृतपरिज्ञाने भीष्णद्रोणौ महामती ||२-३८-७ (१२९२६)
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे.
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् ||२-३८-८ (१२९२७)
तथाऽऽन्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत्.
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः.
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे ||२-३८-९ (१२९२८)
क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित्.
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः ||२-३८-१० (१२९२९)
' कुन्ती साध्वी च गान्धारी स्त्रीणां कुर्वन्ति चार्चनम् ||
अन्याः सर्वाः स्नुषास्तासां सन्देशं यान्तु माचिरम्.
तिष्ठेत्कृष्णान्तिके सोयमर्जुनः कार्यसिद्धये' ||२-३८-११ (१२९३०)
चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत्.
सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम् ||२-३८-१२ (१२९३१)
द्रष्टुकामः सभां चैव धर्मराजं यधिष्ठिरम्.
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् ||२-३८-१३ (१२९३२)
रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत्.
कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात् ||२-३८-१४ (१२९३३)
यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम्.
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः ||२-३८-१५ (१२९३४)
लोकराजविमानैश्च ब्राह्मणावसथैः सह.
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा ||२-३८-१६ (१२९३५)
विचित्रै रत्ववद्भिश्च ऋद्ध्या परमया युतैः.
राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः.
अशोभत सदो राजन्कौन्तेयस्य महात्मनः ||२-३८-१७ (१२९३६)
ऋद्ध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः.
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता ||२-३८-१८ (१२९३७)
सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत्.
अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः.
रत्नोपहारसम्पन्नो बभूव स समागमः ||२-३८-१९ (१२९३८)
इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः.
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः ||२-३८-२० (१२९३९)
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः.
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदाऽन्विताः ||||२-३८-२१ (१२९४०)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि अष्टत्रिंशोऽध्यायः
||३८ ||||समाप्तं च राजसूयपर्व||
सभापर्व -अध्याय ०३९
||श्रीः ||
२. ३९. अध्यायः ३९
Mahabharata -Sabha Parva -Chapter Topics
अभिषेचनदिने ब्राह्मणादीनामन्तर्वेदिप्रवेशः
||१. . भूभारक्षपणे नारदचिन्तनम् ||२. . पूर्वं
सङ्क्षिप्योक्तायाः कृष्णागमनकथायाः किञ्चिद्विस्तरेण कथनम्
||३. . सहदेवेन श्रीकृष्णस्याग्रपूजाकरणम् ||४. . शिशुपालेन
श्रीकृष्णस्याग्रपूजाऽसहनम् ||५. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह.
अन्तर्वेदीं प्रविविशुः सत्कारार्हा महर्षयः ||२-३९-१ (१२९४१)
नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः.
समासीनाः शुशुभिरे सहराजर्षिभिस्तदा ||२-३९-२ (१२९४२)
समेता ब्रह्मभवने देवा देवर्षयस्तथा.
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ||२-३९-३ (१२९४३)
एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा.
इत्यूचुर्बहवस्तत्र वितण्डां वै परस्परम् ||२-३९-४ (१२९४४)
कृशानर्थांस्ततः केचिदकृशांस्तत्र कुर्वते.
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चयैः ||२-३९-५
(१२९४५)
तत्र मेधाविनः केचिदर्थमन्यैरुदीरितम्.
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ||२-३९-६ (१२९४६)
केचिद्धर्मार्थकुशलाः केचित्तत्र महाव्रताः.
रेमिरे कथयन्तश्च सर्वभाष्यविदां वराः ||२-३९-७ (१२९४७)
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः.
आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवायता ||२-३९-८ (१२९४८)
न तस्यां सन्निधौ शूद्रः कश्चिदासीन्न चाव्रती.
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ||२-३९-९ (१२९४९)
तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम्.
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ||२-३९-१० (१२९५०)
अथ चिन्तां समापेदे स मुनिर्मनुजाधिप.
नारदस्तु तदा पश्यन्सर्वक्षत्रसमागमम् ||२-३९-११ (१२९५१)
सस्मार च पुरावृत्तां कथां तां पुरुषर्षभ.
अंशावतरणे याऽसौ ब्रह्मणो भवनेऽभवत् ||२-३९-१२ (१२९५२)
देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन.
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ||२-३९-१३ (१२९५३)
साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः.
प्रतिज्ञां पालयंश्चेमां जातः परपुरञ्जयः ||२-३९-१४ (१२९५४)
सन्दिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम्.
अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ||२-३९-१५ (१२९५५)
इति नारायणः शम्भुर्भगवान्भूतभावनः.
आदिश्य विबुधान्सर्वानजायत यदुक्षये ||२-३९-१६ (१२९५६)
क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः.
परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ||२-३९-१७ (१२९५७)
यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते.
सोयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ||२-३९-१८ (१२९५८)
अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम्.
आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् ||२-३९-१९ (१२९५९)
इत्येतां नारदश्चिन्तां चिन्तयामास सर्ववित्.
हरिं नारायणं ज्ञात्वा यज्ञैरीज्यं तमीश्वरम् ||२-३९-२० (१२९६०)
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः.
महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः ||२-३९-२१ (१२९६१)
' ततः समुदिता मुख्यैर्गुणैर्गुणवतां वराः.
बहवो भावितात्मानः पृथक्पृथगरिन्दमाः ||२-३९-२२ (१२९६२)
आत्मकृत्यमिति ज्ञात्वा पाञ्चालास्तत्र सर्वशः.
समीयुर्वृष्णयश्चैव तदाऽनीकाग्रहारिणः ||२-३९-२३ (१२९६३)
सदाराः सजनामात्या वहन्तो रत्नसञ्चयान्.
विकृष्टत्वाच्च देशस्य गुरुभारतया च ते ||२-३९-२४ (१२९६४)
ययुः प्रमुदिताः पश्चाद्भगवन्तं समन्वयुः.
बलशेषं समुदितं परिगृह्य समन्ततः ||२-३९-२५ (१२९६५)
अजश्चक्रायुधः शौरिरमित्रगणमर्दनः.
बलाधिकारे निक्षिप्य संमान्यानकदुन्दुभिम् ||२-३९-२६ (१२९६६)
सम्प्रायाद्यादवश्रेष्ठो जयमाने युधिष्ठिरे.
उच्चावचमुपादाय धर्मराजाय माधवः ||२-३९-२७ (१२९६७)
धनौघं पुरतः कृत्वा खाण्डवप्रस्थमाययौ.
तत्र यज्ञगतान्पश्यंश्चैद्यवर्गसमागतान् ||२-३९-२८ (१२९६८)
भूमिपालगणान्सर्वान्सप्रभानिव तोयदान्.
मेघकायान्निवसतो यूथपानिव यूथपः ||२-३९-२९ (१२९६९)
बलिनः सिंहसङ्काशान्महीमावृत्य तिष्ठतः.
ततो जनौघसम्बाधं राजसागरमव्ययम् ||२-३९-३० (१२९७०)
नादयन्रथघोषेण ह्युपायान्मधुसूदनः.
असूर्यमिव सूर्येण निवातमिव वायुना ||२-३९-३१ (१२९७१)
कृष्णेन समुपेतेन जहर्षे भारतं पुरम्.
ब्राह्मणक्षत्रियाणां तु पूजार्थं ह्यर्थधर्मवित् ||२-३९-३२ (१२९७२)
सहदेवो विशेषज्ञो माद्रीपुत्रः कृतोऽभवत्.
भगवन्तं तु भूतानां भास्वन्तमिव तेजसा ||२-३९-३३ (१२९७३)
विशन्तं यज्ञभूमिं तां सितस्यावरजं प्रभुम्.
तेजोराशिमृषिं विप्रमदृश्यं वै विजानताम् ||२-३९-३४ (१२९७४)
वयोधिकानां वृद्धानां मार्गमात्मनि तिष्ठताम्.
जगतस्तस्थुषश्चैव प्रभवाप्ययमच्युतम् ||२-३९-३५ (१२९७५)
अनन्तमन्तं शत्रूणाममित्रगणमर्दनम्.
प्रभवं सर्वभूतानामापत्स्वभयमच्युतम् ||२-३९-३६ (१२९७६)
भविष्यं भावनं भूतं द्वारवत्यामरिन्दमम्.
स दृष्ट्वा कृष्णमायान्तं प्रतिपूज्यामितौजसम् ||२-३९-३७ (१२९७७)
यथार्हं केशवे वृत्तिं प्रत्यपद्यत पाण्डवः.
ज्यैष्ठ्यकानिष्ठ्यसंयोगं सम्प्रधार्य गुणागुणैः ||२-३९-३८ (१२९७८)
आरिराधयिषुर्धर्मः पूजयित्वा द्विजोत्तमान्.
महदादित्यसङ्काशमासनं च जगत्पतेः.
ददौ नासादितं कैश्चित्तस्मिन्नुपविवेश सः' ||२-३९-३९ (१२९७९)
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम्.
क्रियतामर्हणं राज्ञां यथार्हमिति भारत ||२-३९-४० (१२९८०)
आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर.
स्नातकं च प्रियं प्राहुः षडर्घार्हान्नृपं तथा ||२-३९-४१ (१२९८१)
एतानर्घ्यानभिगतानाहुः संवत्सरोषितान्.
त इमे कालपूगस्य महतोऽस्मानुपागताः ||२-३९-४२ (१२९८२)
एषामेकैकशो राजन्नर्घ आनीयतामिति.
अथ तैषां वरिष्ठाय समर्थायोपनीयताम् ||२-३९-४३ (१२९८३)
युधिष्ठिर उवाच ||२-३९-४४क्ष् (१४५९)
कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन.
उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ||२-३९-४४ (१२९८४)
वैशम्पायन उवाच ||२-३९-४५क्ष् (१४६०)
ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य वीर्यवान्.
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ||२-३९-४५ (१२९८५)
भीष्ण उवाच ||२-३९-४६क्ष् (१४६१)
एष ह्येषां समस्तानां तेजोबलपराक्रमैः.
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ||२-३९-४६ (१२९८६)
असूर्यमिव सूर्येण निर्वातमिव वायुना.
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ||२-३९-४७ (१२९८७)
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान्.
उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् ||२-३९-४८ (१२९८८)
' गामर्घ्यं मधुपर्कं च ह्यानीयोपाहरत्तदा.
एतस्मिन्नन्तरे राजन्निदमासीत्तदाऽद्भुतम् ||२-३९-४९ (१२९८९)
तां दृष्ट्वा क्षत्रियाः सर्वे पूजां कृष्णस्य भूयसीम्.
सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्' ||२-३९-५० (१२९९०)
प्रतिजग्राह तां कृष्णः शास्त्रदृष्टेन कर्मणा.
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ||२-३९-५१ (१२९९१)
उपालभ्य स भीष्मं च धर्मराजं च संसदि.
अवाक्षिपद्वासुदेवं चेदिराजो महाबलः ||२-३९-५२ (१२९९२)
' तेषामाकारभावज्ञः सहदेवो न चक्षमे.
मानिनां बलिनां राज्ञां पुरुः सन्दर्शिते पदे ||२-३९-५३ (१२९९३)
पुष्पवृष्टिर्महत्यासीत्सहदेवस्य मूर्धनि.
जन्मप्रभृति वृष्णीना सुनीथः शत्रुरब्रवीत् ||२-३९-५४ (१२९९४)
प्रष्टा वियोनिजो राजा प्रतिवक्ता नदीसुतः.
प्रतिग्रहीता गोपालः प्रदाता च वियोनिजः ||२-३९-५५ (१२९९५)
सदस्या मूकवत्सर्वे आसतेऽत्र किमुच्यते.
इत्युक्त्वा स विहस्याशु पाण्डुं पुनरब्रवीत् ||२-३९-५६ (१२९९६)
अतिपश्यसि वा सर्वान्न वा पश्यसि पाण्डव.
तिष्ठत्स्वन्येषु पूज्येषु गोपमर्चितवानसि ||२-३९-५७ (१२९९७)
एते चैवोभये तात कार्यस्य तु विनाशके.
अतिदृष्टिरदृष्टिर्वा तयोः किं त्वं समास्थितः' ||||२-३९-५८ (१२९९८)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि
एकोनचत्वारिंशोऽध्यायः ||३९. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-३९-४१ संयुजं सम्बन्धिनं श्वशुरादिम् | प्रियं मित्रम् ||
२-३९-५२ अवाक्षिपद्दूषितवान् ||
सभापर्व -अध्याय ०४०
||श्रीः ||
२. ४०. अध्यायः ४०
Mahabharata -Sabha Parva -Chapter Topics
शिशुपालेन अनेकधा कृष्णोपालम्भनपूर्वकं सभातो निर्गमनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
शिशुपाल उवाच.
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु.
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ||२-४०-१ (१२९९९)
नायं युक्तः समाचारः पाण्डवेषु महात्मसु.
यत्कामाद्देवकीपुत्रं पाण्डवार्चितवानसि ||२-४०-२ (१३०००)
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः.
अयं तत्राभ्यतिक्रान्तो ह्यापगेयोऽल्पदर्शनः ||२-४०-३ (१३००१)
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया.
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ||२-४०-४ (१३००२)
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम्.
अर्हणामर्हति तथा यथा युष्माभिरर्चितः ||२-४०-५ (१३००३)
अथवा मन्यसे कृष्णं स्थविरं कुरुपुङ्गवः.
वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ||२-४०-६ (१३००४)
अथवा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान्.
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ||२-४०-७ (१३००५)
आचार्यं मन्यसे कृष्णमथवा कुरुनन्दन.
द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ||२-४०-८ (१३००६)
ऋत्विजं मन्यसे कृष्णमथवा कुरुनन्दन.
द्वौपायने स्थिते वृद्धे कथं कृष्णोऽर्चितस्त्वया ||२-४०-९ (१३००७)
भीष्मे शान्तनवे राजन्स्थिते पुरुषसत्तमे.
स्वच्छन्दमृत्युके राजन्कथं कृष्णोऽर्चितस्त्वया ||२-४०-१० (१३००८)
अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे.
कथं कृष्णस्त्वया राजन्नर्चितः कुरुनन्दन ||२-४०-११ (१३००९)
दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे.
कृपे च भारताचार्ये कथं कृष्णस्त्वयाऽर्चितः ||२-४०-१२ (१३०१०)
द्रुमं कम्पुरुषाचार्यमतिक्रम्य तथाऽर्चितः.
भीष्मके चैव दुर्धर्षे पाण्डुवत्कृतलक्षणे ||२-४०-१३ (१३०११)
नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च.
शल्ये मद्राधिपे चैव कथं कृष्णस्त्वयार्चितः ||२-४०-१४ (१३०१२)
अयं च सर्वराज्ञां वै बलश्लाघी महाबलः.
जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत ||२-४०-१५ (१३०१३)
येनात्मबलमाश्रित्य राजानो युधि निर्जिताः.
तं च कर्णमतिक्रम्य कथं कृष्णस्त्वयार्चितः ||२-४०-१६ (१३०१४)
नैवर्त्विङ्नैव चाचार्यो न राजा मधुसूदनः.
अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ||२-४०-१७ (१३०१५)
अथवाऽभ्यर्चनीयोऽयं युष्माकं मधुसूदनः.
किं राजभिरिहानीतैरवमानाय भारत ||२-४०-१८ (१३०१६)
वयं तु न भयादस्य कौन्तेयस्य महात्मनः.
प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ||२-४०-१९ (१३०१७)
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः.
करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ||२-४०-२० (१३०१८)
किमन्यदवमनानाद्धे यदेनं राजसंसदि.
अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ||२-४०-२१ (१३०१९)
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम्.
को हि धर्मच्युते पूजामेवं युक्तां नियोजयेत् ||२-४०-२२ (१३०२०)
योयं वृष्णिकुले जातो राजानं हतवान्पुरा.
जरासन्धं महात्मानमन्यायेन दुरात्मवान् ||२-४०-२३ (१३०२१)
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्.
दर्शितं कृपणत्वं च कृष्णेऽर्घ्यस्य निवेदनात् ||२-४०-२४ (१३०२२)
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः.
ननु त्वयाऽपि बोद्धव्यं यां पूजां माधवार्हसि ||२-४०-२५ (१३०२३)
अथवा कृपणैरेतामुपनीतां जनार्दन.
पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि ||२-४०-२६ (१३०२४)
अयुक्तामात्मनः पूजां त्वं पुनर्बहुमन्यसे.
हविषः प्राप्य निष्यन्दं प्राशिता श्वेव निर्जने ||२-४०-२७ (१३०२५)
न त्वं पार्थिवेन्द्राणामपमानः प्रयुज्यते.
त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ||२-४०-२८ (१३०२६)
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम्.
अराज्ञो राजवत्पूजा तथा ते मधुसूदन ||२-४०-२९ (१३०२७)
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः.
वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ||२-४०-३० (१३०२८)
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात्.
निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ||||२-४०-३१ (१३०२९)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि चत्वारिंशोऽध्यायः
||४०. .
सभापर्व -अध्याय ०४१
||श्रीः ||
२. ४१. अध्यायः ४१
Mahabharata -Sabha Parva -Chapter Topics
शिशुपालं सान्त्वयन्तं युधिष्ठिरं निवार्य भीष्णेण
श्रीकृष्णमाहात्म्यकथनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच.
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्.
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ||२-४१-१ (१३०३०)
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्.
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ||२-४१-२ (१३०३१)
न हि धर्मं परं जातु नावबुध्येत पार्थिवः.
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा ||२-४१-३ (१३०३२)
पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून्.
मृष्यन्ते चार्हणां कृष्णे तद्वत्वं क्षन्तुमर्हसि ||२-४१-४ (१३०३३)
वेद तत्त्वेन कृष्णं हि भीष्णश्चेदिपते भृशम्.
न ह्येनं त्वं तथा यथैनं वेद कौरवः ||२-४१-५ (१३०३४)
भीष्म उवाच. २-४१-६क्ष् (१४६२)
नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम्.
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते ||२-४१-६ (१३०३५)
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः.
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ||२-४१-७ (१३०३६)
अस्यां हि समितौ राज्ञामेकमप्यजितं युधि.
न पश्यामि महीपालं सात्वतीपुत्रतेजसा ||२-४१-८ (१३०३७)
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः.
त्रयाणामपि लोकानामर्चनीयो महाभुजः ||२-४१-९ (१३०३८)
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः.
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ||२-४१-१० (१३०३९)
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्.
एवं वक्तुं न चार्हस्त्वं मा तेऽभूद्बुद्धिरीदृशी ||२-४१-११ (१३०४०)
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः.
' यस्य राजन्प्रभावज्ञाः पुरा सर्वे च रक्षिताः' .
तेषां कथयतां शौरेरहं गुणवतो गुणान् ||२-४१-१२ (१३०४१)
समागतानामश्रौषं बहून्बहुमतान्सताम्.
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः ||२-४१-१३ (१३०४२)
बहृशः कथ्यमानानि नरैर्भूयः श्रुतानि मे.
न केवलं वयं कामाच्चेदिगज जनार्दनम् ||२-४१-१४ (१३०४३)
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन.
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम् ||२-४१-१५ (१३०४४)
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे
न च कश्चिदिहास्माभिः सुवालोप्यपरीक्षितः ||२-४१-१६ (१३०४५)
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः.
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः ||२-४१-१७ (१३०४६)
वैश्यानां धान्यधनवाञ्शूद्राणामेव जन्मतः.
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ ||२-४१-१८ (१३०४७)
वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा.
नृणां लोके हि कोऽन्योस्ति विशिष्टः केशवादृते ||२-४१-१९ (१३०४८)
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा.
संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताऽच्युते ||२-४१-२० (१३०४९)
तमिमं लोकसम्पन्नमाचार्यं पितरं गुरुम्.
अर्घ्यमर्चितमर्चामः सर्वे सङ्क्षन्तुमर्हथ ||२-४१-२१ (१३०५०)
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः.
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः ||२-४१-२२ (१३०५१)
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः.
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम् ||२-४१-२३ (१३०५२)
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः.
परश्च सर्वभूतेभ्यस्तस्मात्पूज्यतमोऽच्युतः ||२-४१-२४ (१३०५३)
बुद्धिर्मनो महद्वायुस्तेजोऽभः खं मही च या.
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् ||२-४१-२५ (१३०५४)
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये.
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ||२-४१-२६ (१३०५५)
' एष रुद्रश्च सर्वात्मा ब्रह्मा चैव सनातनः.
अक्षरं क्षररूपेण मानुषत्वमुपागतः' ||२-४१-२७ (१३०५६)
अग्निहोत्रमुखा वेदा गायत्री च्छन्दसां मुखम्.
राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ||२-४१-२८ (१३०५७)
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्.
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम् ||२-४१-२९ (१३०५८)
ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः.
सदेवकेषु लोकेषु भगवान्केशवो मुखम् ||२-४१-३० (१३०५९)
अयं तु पुरुषो बालः शिशुपालो न बुध्यते.
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ||२-४१-३१ (१३०६०)
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः.
स वै पश्येद्यथा धर्मं न तथा चेदिराडयम् ||२-४१-३२ (१३०६१)
सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु.
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् ||२-४१-३३ (१३०६२)
अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति.
दुष्कृतायां यथान्यायं तथाऽयं कर्तुमर्हति ||||२-४१-३४ (१३०६३)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
एकचत्वारिंशोऽध्यायः ||४१ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-४१-२५ चतुर्विधं जरायुजादि भौतिकम् ||
सभापर्व -अध्याय ०४२
||श्रीः ||
२. ४२. अध्यायः ४२
Mahabharata -Sabha Parva -Chapter Topics
श्रीकृष्णस्याग्रपूजामसहमानानां शिरसि पदमाहितमिति
सहदेववचनश्रवणेन शिशुपाल स्य कोपोदयः ||१. .
Mahabharata -Sabha Parva -Chapter Text
' वैशम्पायन उवाच ||
गाङ्गेयेनैवमुक्तस्तु शिशुपालश्चुकोप तम्.
क्रुद्धं सुनीथं दृष्ट्वाऽथ सहदेवोऽब्रवीत्तदा ||२-४२-१ (१३०६४)
मतिपूर्वमिदं सर्वं चेदिराज मया कृतम्.
तन्मे निगदतस्तत्त्वं कारणादत्र मे शृणु ||२-४२-२ (१३०६५)
स पार्थिवानां सर्वेषां गुरुः कृष्णोऽपरो न हि.
तस्मादभ्यर्चितोऽस्माभिः सर्वे संमन्तुमर्हथ ||२-४२-३ (१३०६६)
यो वा सहते कश्चिद्राज्ञां सबलवाहनः.
क्षिप्रं युद्धाय निर्यातु तस्य मूर्ध्न्याहितं पदम् ||२-४२-४ (१३०६७)
एवमुक्तो मया हेतुरुत्तरं प्रब्रवीतु मे. २-४२-५ (१३०६८)
वैशम्पायन उवाच ||
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ||२-४२-५क्ष् (१४६३)
मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे.
एवमुक्ते सुनीथस्य सहदेवेन केशवे ||२-४२-६ (१३०६९)
स्वभावरक्ते नयने कोपाद्रक्ततरे कृते.
तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान् ||२-४२-७ (१३०७०)
आचचक्षे पुनस्तस्मै कृष्णस्यैवोत्तरान्गुणान्.
स सुनीथं समामन्त्र्य तांश्च सर्वान्महीक्षितः ||२-४२-८ (१३०७१)
उवाच वदतां श्रेष्ठं इदं मतिमतां वरः.
सहदेवेन राजानो यदुक्तं केशवं प्रति.
तत्तथेति विजानीध्वं भूयश्चात्र विबोधत ||||२-४२-९ (१३०७२)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
द्विचत्वारिंशोऽध्यायः ||४२ ||
सभापर्व -अध्याय ०४३
||श्रीः ||
२. ४३. अध्यायः ४३
Mahabharata -Sabha Parva -Chapter Topics
श्रीकृष्णमहिम्नो विस्तरेण कथनाय भीष्मम्प्रति
युधिष्ठिरप्रार्थना ||१. . भीष्णेण विष्णोर्जगत्सृष्टिकथाकथनम्
||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच.
ततो भीष्मस्य तच्छ्रुत्वा वचः काले युधिष्ठिरः.
ज्ञापनार्थाय सर्वेषां भीष्मं पुनरथाब्रवीत् ||२-४३-१ (१३०७३)
विस्तरेणास्य देवस्य कर्माणीच्छामि सर्वशः.
श्रोतुं भगवतस्तानि प्रब्रवीहि पितामह ||२-४३-२ (१३०७४)
कर्मणामानुपूर्वा च प्रादुर्भावाश्च ये विभोः.
यथा च प्रकृतिः कृष्णे तन्मे ब्रूहि पितामह ||२-४३-३ (१३०७५)
एवमुक्तस्तदा भीष्मः प्रोवाच भरतर्षभ.
युधिष्ठिरममित्रघ्नं तस्मिन्त्राजसमागमे ||२-४३-४ (१३०७६)
समक्षं वासुदेवस्य देवस्येव शतक्रतोः.
कर्माण्यसुकराण्यन्यैराचचक्षे जनाधिप ||२-४३-५ (१३०७७)
शृण्वतां पार्थिवानां च धर्मराजस्य चान्तिके.
इदं मतिमतां श्रेष्ठः कृष्णं प्रति विशाम्पते ||२-४३-६ (१३०७८)
नाम्नैवामन्त्र्य राजेन्द्र चेदिराजमरिन्दमम्.
भीमकर्मा ततो भीष्णो भूयः स इतमब्रवीत् ||२-४३-७ (१३०७९)
करूणामपि राजानं युधिष्ठिरमभाषत. २-४३-८ (१३०८०)
भीष्ण उवाच.
वर्तमानामतीतां च शृणु राजन्युधिष्ठिर ||२-४३-८क्ष् (१४६४)
ईश्वरस्योत्तमस्यैनां कर्मणां गहनां गतिम्.
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः ||२-४३-९ (१३०८१)
पुरा नारायणो देवः स्वयम्भूः प्रपितामहः.
सहस्रशीर्षः पुरुषो ध्रवोऽनन्तः सनातनः ||२-४३-१० (१३०८२)
सहस्रास्यः सहस्राश्चः सहस्रचरणो विभुः.
सहस्रवाहुः सर्वज्ञो देवो नामसहस्रवान् ||२-४३-११ (१३०८३)
सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः.
अनेकवर्णो देवादिरव्यक्ताद्वै परे स्थितः ||२-४३-१२ (१३०८४)
असृजत्सलिलं पूर्वं स च नारायणः प्रभुः.
ततस्तु भगवांस्तोये ब्रह्माणमसृजत्स्वयम् ||२-४३-१३ (१३०८५)
ब्रह्मा चतुर्मुखो लोकान्सर्वांस्तानसृजत्स्वयम्.
आदिकाले पुरा ह्येवं सर्वलोकस्य चोद्भवः.
पुरा यः प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ||२-४३-१४ (१३०८६)
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे.
आभूतसम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान् ||२-४३-१५ (१३०८७)
एकस्मिष्ठति सर्वात्मा स तु नारायणः प्रभुः.
नारायणस्य चाङ्गानि सर्वदैवानि भारत ||२-४३-१६ (१३०८८)
शिरस्तस्य दिवं राजन्नाभिः खं चरणौ मही.
अश्विनौ कर्णयोर्देवौ चक्षुषी शशिभास्करौ ||२-४३-१७ (१३०८९)
इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः.
अन्यानि सर्वदैवानि सर्वाङ्गानि महात्मनः ||२-४३-१८ (१३०९०)
सर्वं चापि हरौ संस्थं सूत्रे मणिगणा इव.
आभूतसम्प्लवान्तेऽथ दृष्ट्वा सर्वं तमोन्वितम् ||२-४३-१९ (१३०९१)
नारायणो महायोगी सर्वज्ञः परमात्मवान्.
ब्रह्मभूतस्तदात्मानं ब्रह्मणमसृजत्स्वयम् ||२-४३-२० (१३०९२)
सोऽध्यक्षः सर्वभूतानां प्रभूतप्रभवोऽच्युतः.
सनत्कुमारं रुद्रं च सप्तर्षीश्च तपोधनात् ||२-४३-२१ (१३०९३)
सर्वमेवासृजद्ब्रह्मा तथा लोकांस्तथा प्रजाः.
ते च तद्व्यसृजंस्तत्र प्राप्तकाले युधिष्ठिर ||२-४३-२२ (१३०९४)
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम्.
कल्पानां बहुकोट्यश्चसमतीतास्तु भारत ||२-४३-२३ (१३०९५)
आभूतसम्प्लवाश्चैव बहुधाऽद्धाऽपचक्रमुः.
मन्वन्तरयुगा राजन्सङ्कल्पो भूतसम्प्लवाः ||२-४३-२४ (१३०९६)
चक्रवत्परिवर्तन्ते सर्वं विषमुखं जगत्.
सृष्ट्वा चतुर्मुखं देवं देवो नारायणः प्रभुः ||२-४३-२५ (१३०९७)
स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः.
ब्रह्मा च सर्वलोकानां लोकस्य च पितामहः ||२-४३-२६ (१३०९८)
ततो नारायणो देवः सर्वस्य प्रपितामहः. ||२-४३-२७ (१३०९९)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
त्रिचत्वारिंशोऽध्यायः ||४३ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-४३-२५ विषमुखं जलादिकम् ||
सभापर्व -अध्याय ०४४
||श्रीः ||
२. ४४. अध्यायः ४४
Mahabharata -Sabha Parva -Chapter Topics
मधुकैटभवधकथनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच.
अव्यक्तो व्यक्तलिङ्गस्थो य एव भगवान्प्रभुः.
नरनारायणो भूत्वा हरिरासीद्युधिष्ठिर ||२-४४-१ (१३१००)
ब्रह्मा च शक्रः सूर्यश्च धर्मश्चैव सनातनः.
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः.
प्रादुर्भावांस्तु वक्ष्यामि दिव्यान्देवगणैर्युतान्. २-४४-२ (१३१०१)
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान्.
अनेकबहुसाहस्रैर्देवदेवो जगत्पतिः ||२-४४-३ (१३१०२)
ब्रह्माणं कपिलं चैव परमेष्ठिं तथैव च.
देवान्सप्तर्षिभिश्चैव शङ्करं च महायशाः ||२-४४-४ (१३१०३)
सनत्कुमारं भगवान्मनुं चैव प्रजापतिम्.
पुरा चक्रे च देवादिः प्रदीप्ताग्निसमप्रभः ||२-४४-५ (१३१०४)
येन चार्णवमध्यस्थौ नष्टेस्थावरजङ्गमे.
नष्टदेवासुरवरे प्रनष्टोरगराक्षसे ||२-४४-६ (१३१०५)
योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैठभौ.
हतौ भगवता तेन ततो दत्त्वा वरं परम् ||२-४४-७ (१३१०६)
भूमिं बद्ध्वा कृतौ पूर्वावजेयौ द्वौ महाऽसुरौ.
तौ कर्णमलसंभूतौ विष्णोस्तस्य महात्मनः ||२-४४-८ (१३१०७)
महार्णवे प्रस्वपतः शैलराजसमौ स्थितौ.
तौ विवेश स्वयं वायुर्ब्रह्मणा साधु चोदितः ||२-४४-९ (१३१०८)
तौ दिवं छादयित्वा तु ववृधाते महाऽसुरौ.
वायुप्रमाणौ तौ दृष्ट्वा ब्रह्मा पर्यमृशच्छनैः ||२-४४-१० (१३१०९)
एकं मृदुतरं वेत्ति कठिनं वेत्ति चापरम्.
नामनी तु तयोश्चके सविता सलिलोद्भवः ||२-४४-११ (१३११०)
मृदुस्त्वयं मधुर्नाम कठिनः कैठभः स्वयम्.
तौ दैत्यौ कृतनामानौ चेरतुर्बलगर्वितौ ||२-४४-१२ (१३१११)
तौ पुराऽथ दिवं सर्वां प्राप्तौ राजन्महासुरौ.
प्रच्छाद्याथ दिवं सर्वां चेरतुर्मधुकैठभौ ||२-४४-१३ (१३११२)
सर्वमेकार्णवं लोकं योद्धुकामौ सुनिर्भयौ.
तौ गतावसुरौ दृष्ट्वा ब्रह्मा लोकपितामहः ||२-४४-१४ (१३११३)
एकार्णवाम्बुनिचये तत्रैवान्तरधीयत.
स पद्मात्पद्मनाभस्य नाभिदेशात्समुत्थितात् ||२-४४-१५ (१३११४)
आससाद स्वयं जन्म तत्पङ्कजमपङ्कजम्.
पूजयामास वसतिं ब्रह्मा लोकपितामहः ||२-४४-१६ (१३११५)
तावुभौ जलगर्भस्थौ नारायणचतुर्मुखौ.
बहून्वर्षायुतानप्सु शयानौ न च कम्पितौ ||२-४४-१७ (१३११६)
अथ दीर्घस्य कालस्य तावुभौ मधुकैठभौ.
आजग्मतुस्तौ तं देशं यत्र ब्रह्मा व्यवस्थितः ||२-४४-१८ (१३११७)
तौ दृष्ट्वा लोकनाथस्तु रोषात्संरक्तलोचनः.
उत्पपाताथ शयनात्पद्मनाभो महाद्युतिः ||२-४४-१९ (१३११८)
तद्युद्धमभवद्घोरं तयोस्तस्य च भारत.
एकार्णवे तदा घोरे त्रैलोक्ये जलतां गते ||२-४४-२० (१३११९)
तदभूत्तुमुलं युद्धं वर्षसङ्ख्यासहस्रशः.
न च तावसुरौ युद्धे तदा श्रममवापतुः ||२-४४-२१ (१३१२०)
अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ.
ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम् ||२-४४-२२ (१३१२१)
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः.
आवां जहि न यत्रोर्वा सलिलेन पिरप्लुता ||२-४४-२३ (१३१२२)
हतौ च तव पुत्रत्वं प्राप्नुयाव सुरोत्तम.
यो ह्यानां युधि निर्जेता तस्यावां विहितौ सुतौ ||२-४४-२४ (१३१२३)
तयोस्तु वचनं श्रुत्वा तदा नारायणः प्रभुः.
तौ प्रहस्य मृधे दैत्यौ दोर्भ्यां च समपीडयम् ||२-४४-२५ (१३१२४)
ऊरुभ्यां निधनं चक्रे तावुभौ मधुकैठबौ.
तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ ||२-४४-२६ (१३१२५)
मेदो मुमुचतुर्दैत्यौ मज्जमानौ जलोर्मिभिः.
मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे तदा ||२-४४-२७ (१३१२६)
नारायणश्च भगवानसृजद्विविधाः प्रजाः.
दैत्ययोर्मेदसा छन्ना सर्वा राजन्वसुन्धरा ||२-४४-२८ (१३१२७)
तदाप्रभृति कौन्तेय मेदिनीति स्मृता मही.
प्रभावात्पद्मनाभस्य शाश्वती च कृता नृणाम् ||||२-४४-२९ (१३१२८)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
चतुश्चत्वारिंशोऽध्यायः ||४४. .
सभापर्व -अध्याय ०४५
||श्रीः ||
२. ४५. अध्यायः ४५
Mahabharata -Sabha Parva -Chapter Topics
वराहावतारकथनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच ||
प्रादुर्भावसहस्राणि समतीतान्यनेकशः.
यथाशक्ति तु वक्ष्यामि शृणु तान्कुरुनन्दन ||२-४५-१ (१३१२९)
पुरा कमलनाभस्य स्वपतः सागराम्भसि.
पुष्करे यत्र सम्भूता देवा ऋषिगणैः सह ||२-४५-२ (१३१३०)
एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः.
पुराणैः कथ्यते यत्र वेदश्रुतिसमाहितः ||२-४५-३ (१३१३१)
वाराहस्तु श्रुतिसुखः प्रादुर्भावो महात्मनः.
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ||२-४५-४ (१३१३२)
उज्जहार महीं तोयात्सशैलवनकाननाम्.
वेदपादो यूपदंष्ट्रः क्रतुर्दन्तश्चितीमुखः ||२-४५-५ (१३१३३)
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः.
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ||२-४५-६ (१३१३४)
आज्यनासः स्रुवं तुण्डं सामघोषस्वनो महान्.
धर्मसत्यमयः श्रीमान्कर्मविक्रमसत्कृतः ||२-४५-७ (१३१३५)
प्रायश्चित्तमुखो धीरः पशुजानुर्महावृषः.
औद्गात्रहोमलिङ्गोऽसौ पशुबीजमहौषधिः ||२-४५-८ (१३१३६)
बाह्यन्तरात्मा मन्त्रास्थिविकृतः सौम्यदर्शनः.
वेदिस्कन्धो हविर्गन्धो हव्यकव्याभिवेगवान् ||२-४५-९ (१३१३७)
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरूर्जितः.
दक्षिणाहृदयो योगी महाशास्त्रमयो महान् ||२-४५-१० (१३१३८)
उपाकर्मोष्ठरुचकः प्रावर्ग्यावर्तभूषणः.
शालापत्नीसहायो वै मणिशृङ्गसमुच्छ्रितः ||२-४५-११ (१३१३९)
एवं यज्ञवराहो वै भूत्वा विष्णुः सनातनः.
महीं सागरपर्यन्तां सशैलवनकाननाम् ||२-४५-१२ (१३१४०)
एकार्णवजले भ्रष्टामेकार्णवगतः प्रभुः.
मज्जन्तीं सलिले तस्मिन्स्वदेवीं पृथिवीं तदा ||२-४५-१३ (१३१४१)
उज्जहार विषाणेन मार्गण्डेयस्य पश्यतः.
शृङ्गेण यः समुद्धृत्य लोकानां हितकाम्यया ||२-४५-१४ (१३१४२)
सहस्रशीर्षो देवेशो निर्ममे जगतीं प्रभुः.
एवं यज्ञवराहेण भूतभव्यभात्मना ||२-४५-१५ (१३१४३)
उद्धृता पृथिवी देवी पूज्या वै सागराम्बरा.
निहता दानवाः सर्वे देवदेवेन विष्णुना ||२-४५-१६ (१३१४४)
वाराहः कथितो ह्येष नारसिंहमतो शृणु.
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ||||२-४५-१७ (१३१४५)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
पञ्चचत्वारिंशोऽध्यायः ||४५ ||
सभापर्व -अध्याय ०४६
||श्रीः ||
२. ४६. अध्यायः ४६
Mahabharata -Sabha Parva -Chapter Topics
हिरण्यकशिपुना समुद्रे तपश्ररणम् ||१. . तपः प्रसन्नेन ब्रह्मणा
तस्मै वरदानम् ||२. . तस्य वरप्राप्त्या भीतानां देवानां ब्रह्मणा
परिसान्त्वनम् ||३. . हिरण्यकशइपुना त्रैलोक्यपीडने आत्मानं शरणं
गतानां देवानां श्रीहरिणाऽभयप् रदानम् ||४. . नृसिंहरूपिणा हरिणा
हिरण्यकशिपुहननम् ||५. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच.
दैत्येन्द्रो बलवान्त्राजन्सुरारिर्बलगर्वितः.
हिरण्यकशिपुर्नाम आसीत्रैलोक्यकण्टकः ||२-४६-१ (१३१४६)
दैत्यानामादिपुरुषो वीर्येणाप्रतिमो बली.
प्रविश्य जलधं राजंश्चकार तप उत्तमम् ||२-४६-२ (१३१४७)
दशवर्षसहस्राणि शतानि दश पञ्च च.
व्रतोपवासतस्तस्थौ स्याणुमौनव्रतो दृढः ||२-४६-३ (१३१४८)
ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ.
ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च ||२-४६-४ (१३१४९)
ततः स्वयम्भूर्भगवान्स्वयमागम्य भूपते.
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ||२-४६-५ (१३१५०)
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा.
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ||२-४६-६ (१३१५१)
दिशाभिर्विदिशाभिश्च नदीभिः सागरैः सह.
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः ||२-४६-७ (१३१५२)
देवर्षिभिस्तपोयुक्तैः सिद्धैः सप्तर्षिभिस्तदा.
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ||२-४६-८ (१३१५३)
चराचरगुरुः श्रीमान्वृतः सर्वसुरैस्तथा.
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य चाब्रवीत् ||२-४६-९ (१३१५४)
प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत.
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ||२-४६-१० (१३१५५)
हिरण्यकशिपुरुवाच. २-४६-११क्ष् (१४६५)
न देवा न च गन्धर्वा न यक्षोरगराक्षसाः.
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम ||२-४६-११ (१३१५६)
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह.
शपेयुस्तपसा युक्ता वर एष वृतो मया ||२-४६-१२ (१३१५७)
न शस्त्रेण नचास्त्रेण गिरिणा पादपेन च.
न शुष्केण न चार्देण स्यान्न वाऽन्येन मे वधः ||२-४६-१३ (१३१५८)
नाकाशे नाथ भूमौ वा रात्रौ वा दिवसेपि वा.
नान्तर्वा न बहिर्वापि स्याद्वधो मे पितामह ||२-४६-१४ (१३१५९)
पशुभिर्वा मृगैर्न स्यात्पक्षिभिर्वा सरीसृपैः.
ददासि चेद्वरानेतन्देवदेव वृणोम्यहम् ||२-४६-१५ (१३१६०)
ब्रह्मोवाच. २-४६-१६क्ष् (१४६६)
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः.
सर्वकामवरांस्तात प्राप्स्यसि त्वमसंशयम् ||२-४६-१६ (१३१६१)
एवमुक्त्वा स भगवाञ्जगामाकाशमेव हि.
रराज ब्रह्मलोके हि ब्रह्मर्षिगणसेवितः ||२-४६-१७ (१३१६२)
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा.
वरप्रदानं श्रुत्वैव ते ब्रह्माणमुपस्थितः ||२-४६-१८ (१३१६३)
देवा ऊचुः. २-४६-१९क्ष् (१४६७)
वरेणाने भगवन्बाधिष्यति स नोऽसुरः.
तत्प्रसीदस्व भगवन्वधोपायोऽस्य चिन्त्यताम् ||२-४६-१९ (१३१६४)
भीष्म उवाच ||२-४६-२०क्ष् (१४६८)
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः.
प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तदा ||२-४६-२० (१३१६५)
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम्.
तपसोऽन्तेऽस्य भगवान्वधं कृष्णः करिष्यति ||२-४६-२१ (१३१६६)
एतच्छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम्.
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ||२-४६-२२ (१३१६७)
लब्धमात्रे वरे चापि सर्वास्ता बाधते प्रजाः.
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ||२-४६-२३ (१३१६८)
राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैः समावृतः.
सप्तद्वीपान्वशेचके लोकालोकान्तरं बलात् ||२-४६-२४ (१३१६९)
दिव्यभोगान्समस्तान्वै लोके सर्वानवाप सः.
देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः ||२-४६-२५ (१३१७०)
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः.
यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि ||२-४६-२६ (१३१७१)
अथ लोकान्सगस्तांश्च विजित्य स महाबलः.
भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः ||२-४६-२७ (१३१७२)
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश.
अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा ||२-४६-२८ (१३१७३)
धनदश्च धनाध्यक्षो यक्षकिम्पुरुषाधिपः.
एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात्स च ||२-४६-२९ (१३१७४)
एषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः.
इज्यश्चासीन्मखवरैर्देवकिन्नरसत्तमैः ||२-४६-३० (१३१७५)
नरकस्थान्समानीय स्वर्गस्थांश्च चकार सः.
एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली ||२-४६-३१ (१३१७६)
आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्.
सत्यधर्मपरान्दान्तान्पुरा धर्षितवांस्तु सः ||२-४६-३२ (१३१७७)
याज्ञीयान्कृतबान्दैत्यन्याजकांश्चैव देवताः.
यत्रयत्र सुरा जग्मुस्तत्रतत्र व्रजत्युत ||२-४६-३३ (१३१७८)
स्थानानि देवतानां तु हृत्वा राज्यमकारयत्.
पञ्चकोट्यश्च वर्षाणि अयुतान्येकषष्टि च ||२-४६-३४ (१३१७९)
षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः.
एतद्वर्षं स दैत्येन्द्रो भोगैश्चर्यमवाप सः ||२-४६-३५ (१३१८०)
तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा.
ब्रह्मलोकं सुरा जग्मुः शर्वशक्रपुरोगमाः ||२-४६-३६ (१३१८१)
पितामहं समासाद्य खिन्नाः प्राञ्जलयोऽब्रुवन् ||२-४६-३७ (१३१८२)
देवा ऊचुः. २-४६-३८क्ष् (१४६९)
भगवन्भूतभव्येश नस्त्रायस्व इहागतान्.
भयं दितिसुताद्घोराद्भवत्यद्य दिवानिशम् ||२-४६-३८ (१३१८३)
भगवन्सर्वदैत्यानां स्वयम्भूरादिकृत्प्रभुः.
स्रष्टा त्वं हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः ||२-४६-३९ (१३१८४)
ब्रह्मोवाच. २-४६-४०क्ष् (१४७०)
श्रूयतामापदेवं हि दुर्विज्ञेया मयापि च.
नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः ||२-४६-४० (१३१८५)
अव्यक्तः सर्वभूतानामचिन्त्यो विभुरव्ययः.
ममापि स तु युष्माकं व्यसने परमा गतिः ||२-४६-४१ (१३१८६)
नारायणः परोऽव्यक्तादहमव्यक्तसम्भवः.
मत्तो जज्ञुः प्रजा लोकाः सर्वे देवासुराश्च ते ||२-४६-४२ (१३१८७)
देवा यथाहं युष्माकं तथा नारायणो मम.
पितामहोऽहं सर्वस्य स विष्णुः प्रपितामहः ||२-४६-४३ (१३१८८)
निश्चितं विषुधा दैत्यं स विष्णुस्तं हनिष्यति.
तस्य नास्ति न शक्यं च तस्माद्व्रजत माचिरम् ||२-४६-४४ (१३१८९)
भीष्म उवाच ||२-४६-४५क्ष् (१४७१)
पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ.
विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति ||२-४६-४५ (१३१९०)
आदित्या वसवः साध्या विश्वे च मरुतस्तथा.
रुद्रा महर्षयश्चैव अश्विनौ च सुरूपिणौ ||२-४६-४६ (१३१९१)
अन्ये च दिव्या ये राजंस्ते सर्वे सगणाः सुराः.
चतुर्मुखं पुरस्कृत्य श्वेतद्वीपमुपागताः ||२-४६-४७ (१३१९२)
देवा ऊचुः. २-४६-४८क्ष् (१४७२)
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात्.
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ||२-४६-४८ (१३१९३)
उत्फुल्लाम्बुजपत्राक्ष शत्रुपक्षभयङ्कर.
क्षयाय दितिवंशस्य शरणं त्वं भविष्यसि ||२-४६-४९ (१३१९४)
भीष्ण उवाच ||२-४६-५०क्ष् (१४७३)
तद्देवानां वचः श्रुत्वा तदा विष्णुः शुचिश्रवाः.
अदृश्यः सर्वभूतात्मा वक्तुमेवोपचक्रमे ||२-४६-५० (१३१९५)
विष्णुरुवाच ||२-४६-५१क्ष् (१४७४)
भयं त्यजध्वममरा अभयं वो ददाम्यहम्.
तदेव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ||२-४६-५१ (१३१९६)
एषोऽहं सगणं दैत्यं वरदानेन दर्पितम्.
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ||२-४६-५३ ब्रह्मोवाच||
२-४६-५२ (१३१९७)
भहवन्देवदेवेश खिन्ना एते भृशं सुराः.
तस्मात्त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्य माचिरम्.
एष त्वं सगणं दैत्यं वरदानेन दर्पितम् ||२-४६-५३ (१३१९८)
विष्णुरुवाच ||२-४६-५४क्ष् (१४७५)
क्षिप्रमेव करिष्यामि त्वरया दैत्यनाशनम्.
तस्मात्त्वं विबुधाश्चैव प्रतिपद्यत वै दिवम् ||२-४६-५४ (१३१९९)
भीष्म उवाच ||२-४६-५५क्ष् (१४७६)
एवमुक्त्वा तु भगवान्विसृज्य त्रिदिवेश्वरान्.
नरस्यार्धतनुर्भूत्वा सिंहस्यार्धतनुः पुनः ||२-४६-५५ (१३२००)
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना.
भीमरूपो महातेजा व्यादितास्य इवान्तकः ||२-४६-५६ (१३२०१)
हिरण्यकशिपुं राजञ्जगाम हरिरीश्वरः.
दैत्यास्तमागतं दृष्ट्वा नारसिंहं महाबलम् ||२-४६-५७ (१३२०२)
ववर्षुः शस्त्रवर्षैस्ते सुसङ्क्रुद्धास्तदा हरिम्.
तैः सृष्टसर्वशस्त्राणि भक्षयामास वै हरिः ||२-४६-५८ (१३२०३)
जघान न रणे दैत्यान्सहस्राणि बहूनि च.
तान्निहत्य च दैतेयान्सर्वान्क्रुद्धान्महाबलान् ||२-४६-५९ (१३२०४)
अभ्यधावत्सुसङ्क्रुद्धो दैत्येन्द्रं बलगर्वितम्.
जीमूतघनसङ्काशो जीमूतघननिस्वनः ||२-४६-६० (१३२०५)
जीमूत इव दीप्तौजा जीमूत इव वेगवान्.
दैत्यं सोऽतिबलं दृप्तं दृप्तशार्दूलविक्रमम् ||२-४६-६१ (१३२०६)
दृप्तैर्दैत्यगणैर्गुप्तं खरैर्नखमुकैरुत.
ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः ||२-४६-६२ (१३२०७)
सन्ध्याकाले महातेजा भवनान्ते त्वरान्वितः.
ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैस्तदा ||२-४६-६३ (१३२०८)
महाबलं महावीर्यं वरदानेन गर्वितम्.
दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः ||२-४६-६४ (१३२०९)
हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा.
विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः ||२-४६-६५ (१३२१०)
प्रमुमोद हरिर्देवः प्राप्य धर्मं तदा भुवि.
एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन. २-४६-६६ (१३२११)
शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः ||||२-४६-६७ (१३२१२)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
षट्चत्वारिंशोऽध्यायः ||४६. .
सभापर्व -अध्याय ०४७
||श्रीः ||
२. ४७. अध्यायः ४७
Mahabharata -Sabha Parva -Chapter Topics
बलिनिपीडितैरिन्द्रादिभिः प्रार्धितेन हरिणा अदित्यां
वामनत्वेनावतीर्य बलि म्प्रति याचनम् ||१. . त्रिविक्रमरूपिणो
हरेः पादाङ्गुष्ठनखनिर्भिण्णोर्ध्वाण्डाद्गङ्गायाः प्रादु र्भावो
बलिनिग्रहश्च ||२. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच ||
पुरा त्रेतायुगे राजन्बलिर्वैरोजनोऽभवत्.
दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली ||२-४७-१ (१३२१३)
तदा बलिर्महाराज दैत्यसङ्घैः समावृतः.
विजेतुं तरसा शक्रमिन्द्रस्थानमवाप सः ||२-४७-२ (१३२१४)
तेन वित्रासिता देवा बलिनाऽऽखण्डलादयः.
ब्रह्माणं तु पुरस्कृत्य गत्वा क्षीरोदधिं तदा ||२-४७-३ (१३२१५)
तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम्.
स तेषां दर्शनं चक्रे विबुधानां हरिस्तदा ||२-४७-४ (१३२१६)
प्रसादजं तस्य विभोरदित्यां जन्म उच्यते.
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ||२-४७-५ (१३२१७)
एष विष्णुरिति ख्यात इन्द्रस्यावरजोऽभवत्.
तस्मिन्नेव च काले तु दैत्येन्द्रो बलवीर्यवान् ||२-४७-६ (१३२१८)
अश्वमेधं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे.
वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर ||२-४७-७ (१३२१९)
स विष्णुर्मानवो भूत्वा प्रच्छन्नो ब्रह्मसंवृतः.
मुण्डो यत्रोपवीती च कृष्णाजिनधरः शिखी ||२-४७-८ (१३२२०)
पालाशदण्डं सङ्गृह्य वामनोऽद्भुतदर्शनः.
प्रविश्य स बलेर्यज्ञे वर्तमानो च दक्षिणाम् ||२-४७-९ (१३२२१)
देहीत्युवाच दैत्येन्द्रं विक्रमांस्त्रीनिहैव ह.
दीयतां त्रिपदीमात्रमित्ययाचन्महासुरम् ||२-४७-१० (१३२२२)
स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा.
तेन लब्ध्वा हिरर्भूमिं जृम्भयामास वै भृशम् ||२-४७-११ (१३२२३)
स शिशुः सदिवं खं च पृथिवीं वच विशाम्पते.
त्रिभिर्विक्रमणैश्चैव सर्वमाक्रमताभिभूः ||२-४७-१२ (१३२२४)
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा.
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ||२-४७-१३ (१३२२५)
विप्रचित्तिमुखाः क्रुद्धाः सर्वसङ्घा महासुराः.
नानावक्रा महाकाया नानावेषधरा नृप ||२-४७-१४ (१३२२६)
नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः.
स्वान्यायुधानि सङ्गृह्य प्रदीप्ता इव तेजसा ||२-४७-१५ (१३२२७)
क्रममाणं हरि तत्र उपावर्तन्त भारत.
प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैस्तु तान् ||२-४७-१६ (१३२२८)
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम्.
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः ||२-४७-१७ (१३२२९)
अत्यरोचत भूतात्मा आदित्यस्यैव तेजसा.
प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ||२-४७-१८ (१३२३०)
शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन्.
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ||२-४७-१९ (१३२३१)
नभस्तु क्रममाणस्य नाभ्यां किल तदा स्थितौ.
परमाक्रममाणस्य नानुभ्यां तौ व्यवस्थितौ ||२-४७-२० (१३२३२)
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः.
अथास्य पादाक्रमणात्पफालाण्डो युधिष्ठिरः ||२-४७-२१ (१३२३३)
तच्छिद्रात्स्यन्दिनी तस्य पादभ्रष्टा तु निम्नगा.
ससार सागरं सा तु पावनी सागरंगमा ||२-४७-२२ (१३२३४)
जहार मेदिनीं सर्वां हत्वा दानवपुङ्गवान्.
आसुरी श्रियमाहृत्य त्रील्लोकान्स जनार्दन ||२-४७-२३ (१३२३५)
सपुत्रदारानसुरान्पाताले संन्यवेशयत्.
नमुचिः शम्बरश्चैव प्रह्लादश्च महामनाः ||२-४७-२४ (१३२३६)
महाभूतानि भूतात्मा सविशेषानि वै हरिः.
कालं च सकलं राजन्गात्रभूतान्यदर्शयत् ||२-४७-२५ (१३२३७)
तस्य गात्रे जगत्सर्वमानीतमधिपश्यति.
न किञ्चिदस्ति लोकेषु यदनाप्तं महात्मना ||२-४७-२६ (१३२३८)
तद्धि रूपमुपेन्द्रस्य देवदानवमानवाः.
दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोऽभिपीडिताः ||२-४७-२७ (१३२३९)
बलिर्बद्धोऽभिमानी च यज्ञवाटे महात्मना.
विरोचनकुलं सर्वं पाताले विनिवेशितम् ||२-४७-२८ (१३२४०)
एवंविधानि कर्माणि कृत्वा गरुडावाहनः.
न विस्मयमुपागच्छत्पारमेष्ठ्येन तेजसा ||२-४७-२९ (१३२४१)
स सर्वमसुरैश्वर्यं सम्प्रदाय शचीपतेः.
त्रैलोक्यं च ददौ शक्रे विष्णुर्दानवसूदनः ||२-४७-३० (१३२४२)
एष ते वामनो नाम प्रादुर्भावो महात्मनः.
वेदविद्भिर्द्विजैरेतच्छ्रूयते वैष्णवं यशः.
मानुषेषु ततो विष्णोः प्रादुर्भावांस्तथा शृणु ||||२-४७-३१ (१३२४३)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
सप्तचत्वारिंशोऽध्यायः ||४७ ||
सभापर्व -अध्याय ०४८
||श्रीः ||
२. ४८. अध्यायः ४८
Mahabharata -Sabha Parva -Chapter Topics
दत्तात्रेयनाम्नाऽवतीर्णस्य हरेः कार्तवीर्यार्जुनस्य वरदानादिकम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
भीष्ण उवाच ||
विष्णोः पुनर्महाभागः प्रादुर्भावो महात्मनः.
दत्तात्रेय इति ख्यात ऋषिरासीन्महायशाः ||२-४८-१ (१३२४४)
तेन नष्टेषु वेदेषु क्रियासु च मखेषु च.
चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते ||२-४८-२ (१३२४५)
अभवर्धति चाधर्मे सत्ये नष्टे स्थितेऽनृते.
प्रजासु क्षीयमाणासु धर्मे चामूलतां पते ||२-४८-३ (१३२४६)
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै.
चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना ||२-४८-४ (१३२४७)
स एव वै यदा प्रादाद्धैहयाधिपतेर्वरम्.
तं हैहयानामधिपस्त्वर्जुनोऽभिप्रसादयन् ||२-४८-५ (१३२४८)
वनं पर्यचरन्सम्यक्छुश्रूषुरनुसूयकः.
निर्ममो निरहङ्कारो दीर्घकालमतोषयत् ||२-४८-६ (१३२४९)
आराध्य दत्तात्रेयं हि अगृङ्णात्स वरानिमान्.
आप्तादाप्ततरान्विप्राद्विद्वान्विद्वन्निषेवितात् ||२-४८-७ (१३२५०)
ऋतेऽमरत्वं विप्रेण दत्तात्रेयेण धीमता.
वरैश्चतुर्भिः प्रवृत इमान्वव्रे वरान्नृपः ||२-४८-८ (१३२५१)
श्रीमान्मनस्वी बलवान्सत्यवागनसूयकः.
सहस्रबाहुर्भूयासमेषु मे प्रथमो वरः ||२-४८-९ (१३२५२)
जरायुजाण्डजं सर्वं सर्वं चैव चराचरम्.
शास्तुमिच्छामि धर्मेण द्वितीयस्त्वेष मे वरः ||२-४८-१० (१३२५३)
पितृन्देवानृषीन्विप्रान्यजेयं विपुलैर्मखैः.
अमित्रांश्च शितैर्बाणैस्तृतीयो व्रर एष मे ||२-४८-११ (१३२५४)
यस्य नासीन्न भविता न चास्ति सदृशः पुमान्.
इह वा दिवि वा लोके स मे हन्ता भवेदिति ||२-४८-१२ (१३२५५)
सोऽर्जुनः कृतवीर्यस्य वरः पुत्रोऽभवद्युधि.
स सहस्रं सहस्राणां माहिष्मत्यामवर्धत ||२-४८-१३ (१३२५६)
स भूमिमखिलां जित्वा द्वीपांश्चापि समुद्रिणः.
नभसीवाज्वलत्सूर्यः पुण्यैः कर्मभिर्जुनः ||२-४८-१४ (१३२५७)
इन्द्रद्वीपं कशेरुं च कामद्वीपं गभस्तितम्.
गन्धर्ववरुणद्वीपं सौहृष्टममितप्रभः ||२-४८-१५ (१३२५८)
पूर्वैरजितपूर्वांश्च द्वीपनजयदर्जुनः.
इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः ||२-४८-१६ (१३२५९)
न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः.
यदर्णवे प्रयातस्य वस्त्रं न परिषिच्यते ||२-४८-१७ (१३२६०)
सौवर्णं सर्वमप्यासीद्विमानवरमुत्तमम्.
चतुर्धा व्यभजद्राष्ट्रं तद्विभज्यान्वपालयत् ||२-४८-१८ (१३२६१)
एकांशेनाहरत्सेनामेकांशेनावसद्गृहान्.
यस्तु तस्य तृतीयांशो राज्ञोऽभूज्जनसङ्ग्रहे ||२-४८-१९ (१३२६२)
आप्तः परमकल्याणस्तेन यज्ञानकल्पयत्.
ये दस्यवो ग्रामचरा अरम्ये च वसन्ति ये ||२-४८-२० (१३२६३)
चतुर्थेन तु सोंऽशेन तान्सर्वान्प्रत्यषेधयत्.
द्वाराणि नापिधीयन्ते पुरेषु नगरेषु च ||२-४८-२१ (१३२६४)
स एव राष्ट्रपालोऽभूत्स्रीपालोऽभवदर्जुनः.
स एवासीद्जापालः सः गोपालो विशाम्पते ||२-४८-२२ (१३२६५)
शतं वर्षसहस्राणामनुशिष्यार्जुनो महीम्.
दत्तात्रेयप्रसादेन एवं राज्यं चकार सः ||२-४८-२३ (१३२६६)
एवं बहूनि कर्माणि चक्रे लोकहिताय सः ||
दत्तात्रेय इति ख्यातः प्रादुर्भावो ह्ययं हरेः.
कथितो भरतश्रेष्ट शृणु भूयो महात्मनः ||||२-४८-२४ (१३२६७)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
अष्टचतत्वारिंशोऽध्यायः ||४८ ||
सभापर्व -अध्याय ०४९
||श्रीः ||
२. ४९. अध्यायः ४९
Mahabharata -Sabha Parva -Chapter Topics
श्रीहरेर्जमदग्निगृहे रामनाम्नाऽवतरणम् ||१. . परशुरामेण
कार्तवीर्यार्जुनहननम् ||२. ||त्रिस्सप्तकृत्वः क्षत्रियान्निहत्य
तद्रक्तजलैः स्वपितॄणां तर्पणम् ||३. . काश्यपायाखण्डभूमण्डलं
दत्त्वा साल्वेनायोधने कुमारीणां वाण्या तं विसृज्य शस्त्रन्यासपूर्वकं
तपश्चरणम् ||४. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच ||
तथा भृगुकुले जन्म यदर्थं च महात्मनः.
जामदग्न्य इति ख्यातः प्रादुर्भावश्च वैष्णवः ||२-४९-१ (१३२६८)
जमदग्निसुतो राजन्त्रामो नाम स वीर्यवान्.
हेहयान्तकरो राजन्स रामो बलिनां वरः ||२-४९-२ (१३२६९)
कार्तावीर्यो महावीर्यो बलेनाप्रतिमस्तदा.
रामेण जामदग्न्येन हतो विषममाचरन् ||२-४९-३ (१३२७०)
तं कार्तवीर्यं राजानं हेहयानामरिन्दमम्.
रथस्थं पार्थिवं रामः पातयित्वाऽवधीद्रणे ||२-४९-४ (१३२७१)
जम्भस्य यज्ञं हत्वा स ऋत्विजश्चैव संस्तरे.
जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः ||२-४९-५ (१३२७२)
स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान्.
सहस्रबाहुमुद्धर्तुं सहस्रजितमाहवे ||२-४९-६ (१३२७३)
क्षत्रियाणां चतुष्पष्टिमयुतानि महायशाः.
सरस्वत्यां समेतानि एष वै धनुषाऽजयत् ||२-४९-७ (१३२७४)
ब्रह्मद्विषां धे तस्मिन्महस्राणि चतुर्दश.
पुनर्जघान शूराणामतिक्रूरो रथर्षभः ||२-४९-८ (१३२७५)
ततो राज्ञां सहस्रं स भङ्क्ता पूर्वमरिन्दमः.
सहस्रं मुसलेनाहन्सहस्रमुदकृन्तत ||२-४९-९ (१३२७६)
चतुर्दशसहस्राणि कृणदूममपाययत्.
शिष्टान्ब्रह्मद्विषो जित्वा ततोऽस्नायत भार्गवः २-४९-१० (१३२७७)
रामरामेत्यमिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः.
निघ्नञ्शतसहस्राणि रामः परशुनाभिभूः ||२-४९-११ (१३२७८)
न ह्यमृष्यत तां वाचमार्तैर्भृशमुदीरिताम्.
भृगो रामाभिधावेति यदाऽक्रन्दन्द्विजातयः ||२-४९-१२ (१३२७९)
काश्मीरान्दरदान्कुन्तीन्क्षुद्रकान्मालवाञ्छवान्.
चेदिकाशिकरूशांश्च ऋषिकान्क्रथकैशिकान् ||२-४९-१३ (१३२८०)
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान्.
रात्रायणान्वीतिहोत्रान्किरातान्कार्तिकावतान् ||२-४९-१४ (१३२८१)
एतानन्यांश्च राजन्यान्देशेदेशे सहस्रशः.
निकृत्य निशितैर्बाणैः सम्प्रदाय विवस्वते ||२-४९-१५ (१३२८२)
कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा.
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ||२-४९-१६ (१३२८३)
कृत्वा निःक्षत्रियां चैव भार्गवः स महायशाः.
इन्द्रगोपकवर्णस्य जीवञ्जीवनिभस्य च ||२-४९-१७ (१३२८४)
पूरयित्वा च सरितः क्षतजस्य सरांसि च.
चकार तर्पणं वीरः पितॄणां तासु तेषु च ||२-४९-१८ (१३२८५)
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः.
सोऽश्वमेधसहस्राणि नरमेधशतानि च ||२-४९-१९ (१३२८६)
इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ.
तस्याग्रेणानुपर्येति भूमिं कृत्वा विपांसुलाम् ||२-४९-२० (१३२८७)
ततः कालकृतां सत्यां भार्गवाय महात्मने.
गाधामप्यत्र गायन्ति ये पुराणविदो जनाः ||२-४९-२१ (१३२८८)
वेदिमष्टादशोत्सेधां हिरण्यस्यातिपौरुषीम्.
रामेण जामदग्न्येन प्रतिजग्राह काश्यपः ||२-४९-२२ (१३२८९)
एवमिष्ट्वा महाबाहुः क्रतुभिर्भूरिदक्षिणैः.
अन्यद्वर्षशतं रामः सौभे साल्वमयोधयत् ||२-४९-२३ (१३२९०)
ततः स भृगुशार्दूलस्तं सौभं योधयन्प्रभुः.
सुबन्धुरं रथं राजन्नास्थाय भरतर्षभ ||२-४९-२४ (१३२९१)
नग्निकानां कुमारीणां गायन्तीनामुपाशृणोत्.
रामराम महाबाहो भृगूणां कीर्तिवर्धन ||२-४९-२५ (१३२९२)
त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि.
शङ्खचक्रगदापाणिर्देवानामभयङ्गरः ||२-४९-२६ (१३२९३)
युधि प्रद्युम्नसाम्बाभ्यां कृष्णः सौभं वधिष्यति.
तच्छ्रुत्वा पुरुषव्याघ्रस्तत एव वनं ययौ ||२-४९-२७ (१३२९४)
न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः.
रथं सर्वायुधं चैव शरान्परशुमेव च ||२-४९-२८ (१३२९५)
धनूंष्यप्सु प्रतिष्ठाप्य रामस्तेपे परं तपः.
ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः ||२-४९-२९ (१३२९६)
पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह.
आदिकाले प्रवृत्तं तु व्यभजत्करमीश्वरः ||२-४९-३० (१३२९७)
नाघ्नतं श्रद्धया सौभं न ह्यशक्तो महायशाः.
जामदग्न्य इति ख्यातो यस्त्वयं भगवानुपिः. २-४९-३१ (१३२९८)
सोऽस्य भागस्तपस्तेपे भार्गवो लोकविश्रुतः ||||२-४९-३२ (१३२९९)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
एकोनपञ्चाशोऽध्यायः ||४९. .
सभापर्व -अध्याय ०५०
||श्रीः ||
२. ५०. अध्यायः ५०
Mahabharata -Sabha Parva -Chapter Topics
श्रीविष्णोर्दशरथगृहे रामत्वेनावतारः ||१. . विश्वामित्रेण
स्वाश्रमं नीतेन सलक्ष्मणेन रामेण सुबाह्वादिहननम्
||२. . सीतामुदूह्य निजनगरमेत्य पितृनिदेशेन सीतालक्ष्मणाभ्यां
सह वनं गतेन रामेण स्वरदूषणादिहननम् ||३. . सीतावियोगिनः
सुग्रीवेण सख्यमेत्य वालिनं संहृतवतो रामस्य हनुमद्वचनेन
लङ्क आगमनम् ||४. . रावणादीन्निहत्य सीताप्रमुखैः सहायोध्यां
गतेन रामेण लवणासुरं शत्रुघ्नेन घ आतयित्वा प्रजापालनम्
||५. . सङ्ग्रहेण श्रीकृष्णचरित्रनिरूपणं कल्क्यवतारकथनं
च ||६. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच ||
शृणु राजंस्ततो विष्णोः प्रादुर्भावं महात्मनः.
अष्टाविंशे युगे चापि मार्कण्डेयपुरः सरः ||२-५०-१ (१३३००)
तिथौ नावमिके जज्ञे तथा दशरथादपि.
कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा विष्णुरव्ययः ||२-५०-२ (१३३०१)
लोके राम इति ख्यातस्तेजसा भास्करोपमः.
प्रसादनार्थं लोकस्य विष्णुस्तत्र सनातनः ||२-५०-३ (१३३०२)
धर्मार्थमेव कौन्तेय जज्ञे तत्र महायशाः.
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ||२-५०-४ (१३३०३)
यज्ञविघ्नकरस्तत्र विश्वामित्रस्य भारत.
सुबाहुर्निहतस्तेन मारीचस्ताडितो भृशम् ||२-५०-५ (१३३०४)
तस्मै दत्तानि चास्राणि विश्वमित्रेण धीमता.
वधार्थं सर्वशत्रूणां दुर्वाराणि सुरैरपि ||२-५०-६ (१३३०५)
वर्तमाने महायज्ञे जनकस्य महात्मनः.
भग्नं माहेश्वरं चापं क्रीडता लीलया भृशम् ||२-५०-७ (१३३०६)
ततस्तु सीतां जग्राह भार्यार्थे जानकीं विभुः.
नगरीं पुनरासाद्य मुमुदे तत्र सीतया ||२-५०-८ (१३३०७)
कस्यचित्त्वथ कालस्य पित्रा तत्राभिचोदितः.
कैकेय्याः प्रियमन्विच्छन्वनमभ्यवपद्यत ||२-५०-९ (१३३०८)
यः समाः सर्वधर्मज्ञश्चतुर्दश वने वसन.
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ||२-५०-१० (१३३०९)
चतुर्दश वने तीर्त्वा तदा वर्षाणि भारत.
रूपिणी यस्य पार्श्वस्था सीतेत्यभिहिता जनैः ||२-५०-११ (१३३१०)
पूर्वोचितत्वात्सा लक्ष्मीर्भर्तारमनुशोचति.
जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ||२-५०-१२ (१३३११)
मारीचं दूषणं हुत्वा खरं त्रिशिरसं तथा.
चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम् ||२-५०-१३ (१३३१२)
जघान रामो धर्मात्मा प्रजानां हितकाम्यय.
विराधं च कबन्धं च राक्षसौ घोरकर्मिणौ ||२-५०-१४ (१३३१३)
जघान च तदा रामो गन्धर्वौ शाषविक्षतौ.
स रावणस्य भगिनीनासाच्छेदमकारयत् ||२-५०-१५ (१३३१४)
भार्यावियोगं तं प्राप्य मृगयन्व्यचरद्वनम्.
स तस्मादृश्यमूकं तु गत्वा पम्पामतीत्य च ||२-५०-१६ (१३३१५)
सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै.
अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह ||२-५०-१७ (१३३१६)
निहत्य वालिनं युद्धे वानरेद्रं महाबलम्.
अभ्यपिञ्चत्तदा रामः सुग्रीवं वानरेश्वरम् ||२-५०-१८ (१३३१७)
ततः स वीर्यवान्राजंस्त्वरया वै समुत्सुकः.
विचित्य वायुपुत्रेण लङ्कादेशं निवेदितः ||२-५०-१९ (१३३१८)
मेतुं वद्ध्वा समुद्रस्य वानरैः स समुत्सुकः.
सीतायाः पदमन्विच्छन्रामो लङ्कां विवेश वै ||२-५०-२० (१३३१९)
देवोरगगणानां हि यक्षराक्षसपक्षिणाम्.
तत्रावद्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ||२-५०-२१ (१३३२०)
युक्तं राक्षसकोटीभिर्भिन्नाञ्जनचयोपमम्.
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ||२-५०-२२ (१३३२१)
जघान सचिवैः सार्धं सान्वयं रावणं रणे ||२-५०-२३ (१३३२२)
त्रैलोक्यकण्टकं वीरं महाकायं महाबलम्.
रावमं सगणं हत्वा रामो भूतपतिः पुरा ||२-५०-२४ (१३३२३)
लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम्.
अभिषिच्य ततो राम अमरत्वं ददौ तदा ||२-५०-२५ (१३३२४)
आरुह्य पुष्पकं रामः सीतामादाय पाण्डव.
सबलं स्वपुरं गत्वा धर्मराज्यमपालयत् ||२-५०-२६ (१३३२५)
दानवो लवणो नाम मधोः पुत्रो महाबलः.
शत्रुघ्नेन हतो राजंस्तदा रामस्य शासनात् ||२-५०-२७ (१३३२६)
एवं बहूनि कर्माणि कृत्वा लोकहिताय सः.
राजं चकार विधिवद्रामो धर्मभृतां वरः ||२-५०-२८ (१३३२७)
शताश्वमेधानाजह्रे ज्योतिरुक्थ्यान्निरर्गलान्.
नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा. २-५०-२९ (१३३२८)
न दस्युजं भयं चासीद्रामे राज्यं प्रशसति.
ऋषीणां देवतानां च मनुष्याणां तथैव च ||२-५०-३० (१३३२९)
पृथिव्यां धार्मिकाः सर्वे रामे राज्यं प्रशासति.
नाधर्मिष्ठो नरः कश्चिद्बभूव प्राणिनां क्वचित् ||२-५०-३१ (१३३३०)
प्राणापानौ समौ ह्यास्तां रामे राज्यं प्रशासति.
गाधामप्यत्र गायन्ति ये पुराणविदो जनाः ||२-५०-३२ (१३३३१)
श्यामो युवा लोहिताक्षो मातङ्गानामिवर्षभः.
आजानुबाहुः सुमुखः सिंहस्कन्धो महाबलः ||२-५०-३३ (१३३३२)
दशवर्षसहस्राणि दशवर्षशतानि च.
राज्यं भोगं च सम्प्राप्य शशास पृथिवीमिमाम् ||२-५०-३४ (१३३३३)
रामो रामो राम इति प्राजानामभवन्कथाः.
रामभूतं जगदिदं रामे राज्यं प्रशासति ||२-५०-३५ (१३३३४)
ऋग्यजुः सामहीनाश्च न तदाऽसन्द्विजायः.
उषित्वा दण्डके कार्यं त्रिदशानां चकार सः ||२-५०-३६ (१३३३५)
पूर्वापकारिणं तं तु पौलस्त्यं मनुजर्षभम्.
देवगन्धर्वनागानामरिं स निजघानह ||२-५०-३७ (१३३३६)
सत्ववान्गुणसम्पन्नो दीप्यमानः स्वतेजसा.
एवमेव महाबाहुरिक्ष्वाकुकुलवर्धनः ||२-५०-३८ (१३३३७)
रावणं सगणं हत्वा दिवमाक्रमताभिभूः.
इति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः ||२-५०-३९ (१३३३८)
ततः कृष्णो महाबाहुर्भीतानामभयङ्करः.
अष्टाविंशे युगे राजञ्जज्ञे श्रीवत्सलक्षणः ||२-५०-४० (१३३३९)
पेशलश्च वदान्यश्चलोके बहुमतो नृषु.
स्मृतिमान्देशकालज्ञः शङ्खचक्रगदासिभृत् ||२-५०-४१ (१३३४०)
वासुदेव इति ख्यातो लोकानां हितकृत्सदा.
वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया ||२-५०-४२ (१३३४१)
शत्रूणां भयकृद्दाता मधुहेति स विश्रुतः.
शकटार्जुनरामाणां कीलस्थानान्यसूदयत् ||२-५०-४३ (१३३४२)
कंसादीन्निजघानाजौ दैत्यान्मानुषविग्रहान्.
अयं लोकहितार्थाय प्रादुर्भावो महात्मनः ||२-५०-४४ (१३३४३)
कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते हरिः.
लेर्युगान्ते सम्प्राप्ते धर्मे शिथिलतां गते ||२-५०-४५ (१३३४४)
पाषण्डिनां गणानां हि वधार्थं भरतर्षभ.
धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया ||२-५०-४६ (१३३४५)
एते चान्ये च बहवो विष्णोर्देवगणैर्युताः.
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ||||२-५०-४७ (१३३४६)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि पञ्चाशोऽध्यायः
||५०. .
सभापर्व -अध्याय ०५१
||श्रीः ||
२. ५१. अध्यायः ५१
Mahabharata -Sabha Parva -Chapter Topics
युधिष्ठिरेण भीष्मम्प्रति विस्तरेण कृष्णकथाकथनप्रार्थना
||१. . देवासुरयुद्धे पराजितानां देवानां स्मरणमात्रसंनिहितेन हरिणा
दैत्यानां परा जयः ||२. . भूम्या स्वभारावतरणं प्रार्थितेऽस्य
विष्णोः भूमाववतारनिर्धारणम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
एवमुक्ते तु कौन्तेयस्ततः कौरवनन्दनः.
आबभाषे पुनर्भीष्णे धर्मराजो युधिष्ठिरः ||२-५१-१ (१३३४७)
भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः.
जन्म वृष्णिषु विज्ञातुमिच्छामि वदतां वर ||२-५१-२ (१३३४८)
यथैव भगवाञ्जातः क्षिताविह जनार्दनः.
माधवेषु महाबुद्धिस्तन्मे ब्रूहि पितामह ||२-५१-३ (१३३४९)
वैशम्पायन उवाच. २-५१-४क्ष् (१४७७)
एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः.
माधवेषु तथा जन्म कथयामास वीर्यवान् ||२-५१-४ (१३३५०)
हन्त ते कथयिष्यामि युधिष्ठिर यथातथम्.
यतो नारायणस्येह जन्म वृष्णिषु कौरव ||२-५१-५ (१३३५१)
पुरा लोके महाराज वर्तमाने कृते युगे.
आसीत्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः ||२-५१-६ (१३३५२)
विरोचनो मयस्तारो वराहः श्वेत एव च.
विप्रचित्तिः प्रलम्बश्च वृत्रजम्भबलादयः ||२-५१-७ (१३३५३)
नमुचिः कालनेमिश्च प्रह्लाद इति विश्रुतः.
लम्बः किशोरः स्वर्भानुररिष्टो राक्षसेश्वरः ||२-५१-८ (१३३५४)
एते चान्ये च बहवो दैत्यसङ्घाः सहस्रशः.
नानाशस्त्रधरा राजन्नानाभूषणवाहनाः ||२-५१-९ (१३३५५)
देवतानामभिमुखास्तस्थुर्दैतेयदानवाः.
देवास्तु युध्यमानास्ते दानवानभ्ययू रणे ||२-५१-१० (१३३५६)
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः.
इन्द्रो यमश्च वरुणश्चन्द्रश्चैव धनेश्वरः ||२-५१-११ (१३३५७)
अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः.
चक्रुर्युद्धं महाघोरं दानवैश्च यथाक्रमम् ||२-५१-१२ (१३३५८)
युध्यमानाः समेयुश्च देवा दैतेयदानवैः.
तद्युद्धमभवद्घोरं देवदानवसङ्कुलम् ||२-५१-१३ (१३३५९)
ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा.
तीक्ष्णशस्त्रैः किरन्तोऽथ अभ्ययुर्देवदानवाः ||२-५१-१४ (१३३६०)
घ्रन्ति देवान्सगन्धर्वान्सयक्षोरगचारणान्.
ते वध्यमाना दैतेयैर्देवसङ्घास्तदा रणे ||२-५१-१५ (१३३६१)
त्रातारं मनसा जग्मुर्देवं नारायमं प्रभुम्.
एतस्मिन्नन्तरे तत्र जगाम हरिरीश्वरः ||२-५१-१६ (१३३६२)
दीपयञ्ज्योतिषा भूमिं शङ्खचक्रगदाधरः.
तमागतं सुपर्णस्थं विष्णुं लोकनमस्कृतम् ||२-५१-१७ (१३३६३)
दृष्ट्वा मुदा युताः सर्वे भयं त्यक्त्वा रमे सुराः.
चक्रुर्युद्धं पुनः सर्वे देवा दैतेयदानवैः ||२-५१-१८ (१३३६४)
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम्.
जघ्रुर्दैत्यान्त्रणे घोराः सर्वे शक्रपुरोगमाः ||२-५१-१९ (१३३६५)
ते बाध्यमाना बिबुधैर्दुद्रुवुदैत्यदानवाः ||२-५१-२० (१३३६६)
विद्रुतान्दानवान्दृष्ट्वा तदा भारत संयुगे.
कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यता ||२-५१-२१ (१३३६७)
शत्रुप्रहरणे घोरः शतबाहुः शताननः.
शतशीर्षः स्थितः श्रीमाञ्छतशृङ्गं इवाचलः ||२-५१-२२ (१३३६८)
भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः.
धूम्रकेतुर्हरिश्मश्रुर्निर्दष्टोष्ठपुटाननः ||२-५१-२३ (१३३६९)
त्रैलोक्यान्तरविस्तारं धारयन्विपुलं वपुः.
तर्जयन्वै रणे देवाञ्छादयन्वै दिशो दश ||२-५१-२४ (१३३७०)
अभ्यधावत्सुसङ्क्रुद्धो व्यादितास्य इवान्तकः.
तत्र शस्त्रप्रतानैश्च देवान्धर्षितवान्त्रणे ||२-५१-२५ (१३३७१)
अभ्याययुः सुरान्सर्वान्पुनस्ते दैत्यदानवाः.
आपीडयन्त्रणे क्रुद्धास्ततो देवान्युधिष्ठिर ||२-५१-२६ (१३३७२)
ते वध्यमाना विबुधाः समरे कालनेमिना.
दैत्यैश्चैव महाराज दुद्रुवुस्ते दिशो दश ||२-५१-२७ (१३३७३)
विबुधान्विद्रुतान्दृष्ट्वा कालनेमिर्महा.ञसुरः.
इन्द्रं यमं च वरुणं वायुं च धनदं रविम् ||२-५१-२८ (१३३७४)
एतांश्चान्यान्बलाञ्जित्वा तेषां कार्याण्यवाप सः.
तान्सर्वान्सहसा जित्वा कालनेमिर्महासुरः ||२-५१-२९ (१३३७५)
ददर्श गगने विष्णुं सुपर्णस्थं महाद्युतिम्.
तं दृष्ट्वा क्रोधताम्राक्षस्तर्जयन्नभ्ययात्तदा ||२-५१-३० (१३३७६)
स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे.
रोषाद्भारत दैत्येन्द्रो विष्णोरुरसि पातयत् ||२-५१-३१ (१३३७७)
दैत्याश्च दानवाश्चैव सर्वे मयपुरोगमाः.
स्वान्यायुधानि सङ्गृह्य सर्वे विष्णुमुपाद्रवन् ||२-५१-३२ (१३३७८)
स ताड्यमानो.ञतिबलैर्दैत्यैः सर्वायुघोद्यतैः.
न चचाल हरिर्युद्धेऽकम्पमान इवाचलः ||२-५१-३३ (१३३७९)
पुनरुद्यम्य सङ्क्रुद्धः कालनेमिर्दृढां गदाम्.
जघान गदया राजंस्तं विष्णुं गरुडं च वै ||२-५१-३४ (१३३८०)
तं दृष्ट्वा गुरडं श्रान्तं चक्रमुद्यस्य वै हरिः.
शतं शिरांसि बाहूंश्च सोच्छिनत्कालनेमिनः ||२-५१-३५ (१३३८१)
जघानान्यांस्च तान्सर्वान्समरे दैत्यदानवान्.
विबुधानामृषीणां च स्वानि स्थानानि वै ददौ ||२-५१-३६ (१३३८२)
दत्त्वा सुराणां सुग्रीतो योग्यकर्माणि भारत.
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा हरिः ||२-५१-३७ (१३३८३)
ब्रह्मलोकं प्रविश्याश्च प्राप्य नारायणः प्रभुः.
पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रयम् ||२-५१-३८ (१३३८४)
स प्रविश्य तदा देवः स्तूयमानो महर्षिभिः.
सहस्रशीर्षा भूत्वा च शयनायोपचक्रमे ||२-५१-३९ (१३३८५)
आदिदेवः पुराणात्मा निद्रावशमुपागतः.
शेते सुखं सदा विष्णुर्मोहयञ्जगदव्ययः ||२-५१-४० (१३३८६)
जग्मुस्तस्याथ वर्षाणि शयानस्य महात्मनः.
षट्त्रिंशच्छतसाहस्रं मानुषेणेह सङ्ख्यया ||२-५१-४१ (१३३८७)
जग्मुः कृतयुगत्रेताद्वापरान्ते बुबोध ह.
ब्रह्मादिभिः स्तूयमानः सुरैश्चापि सहर्षिभिः ||२-५१-४२ (१३३८८)
उत्पत्य शयनाद्विष्णुर्ब्रह्मणा विबुधैः सह.
देवानां च हितार्थाय ययौ देवसभां प्रति ||२-५१-४३ (१३३८९)
मेरोः शिरसि विन्यस्तां ज्वलन्तीं तां शुभां सभाम्.
विविशुस्ते सुराः सर्वे ब्रह्मणा सह भारत ||२-५१-४४ (१३३९०)
जग्मुस्तत्र निषेदुस्ते सा निःशब्दा ह्यभूत्तदा.
तत्र भूमिरुवाचाथ खेदात्करुणभाषिणी ||२-५१-४५ (१३३९१)
राज्ञां बलैर्बलवतां खिन्नास्मि भृशपीडिता.
नित्यं भारपरिश्रान्ता दुःखं जीवाम्यहं सुराः ||२-५१-४६ (१३३९२)
पुरे पुरे च नृपतिः कोटिसङ्ख्यैर्बलैर्वृतः.
राष्ट्रे राष्ट्रे च शतशो ग्रामाः कुलसहस्रिणः ||२-५१-४७ (१३३९३)
भूमिपानां सहस्रैश्च तेषां च बिलनां बलैः.
ग्रामायुतैः पुरै राष्ट्रैरहं निर्विवरीकृता ||२-५१-४८ (१३३९४)
तस्माद्धारयितुं शक्त्या न क्षमासि जनानहम्.
दैत्यैश्च बाध्यमानास्ताः प्राज नित्यं दुरात्मभिः ||२-५१-४९ (१३३९५)
भीष्ण उवाच. २-५१-५०क्ष् (१४७८)
भूमेस्तु वचनं श्रुत्वा देवो नारायणस्तदा.
व्यादिश्य तान्सुरान्सर्वान्क्षितौ वस्तुं मनो दधे ||||२-५१-५० (१३३९६)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
एकपञ्चाशोऽध्यायः ||५१. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-५१-४२ कृतयुगत्रेताद्वापराः अन्त इति छेदः ||
सभापर्व -अध्याय ०५२
||श्रीः ||
२. ५२. अध्यायः ५२
Mahabharata -Sabha Parva -Chapter Topics
विष्णुना देवानां भूमावुत्पत्तये आज्ञापनम् | | १. . अवतीर्णे कृष्णे
स्वर्गादागतानामिन्द्रादीनां श्रीकृष्णं स्तुत्वा पुनः स्व लोकगमनम्
||२. . श्रीकृष्णेन शकटासुरवधः. अर्जुनतरुभञ्जनम्. बृन्दावं
गत्वा वने विहरणम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
भीष्ण उवाच.
यच्चके भगवान्विष्णुर्वसुदेवसुतस्तदा.
तत्तेऽहं सम्प्रवक्ष्यामि शृणु स्रवमशेषतः ||२-५२-१ (१३३९७)
वासुदेवस्य महात्म्यं चरितं च महात्मनः.
हितार्थं सुरसर्त्यानां लोकानां च हिताय च ||२-५२-२ (१३३९८)
यदा दिवि विभुस्तात न रेमे भगवानसौ.
ततो व्यादिशय भूतानि विभुर्भूमिसुखावहः ||२-५२-३ (१३३९९)
निग्रहार्थाय दैत्यानां चोदयामास वै तदा.
मुरुतश्च वसूंश्चैव सूर्याचन्द्रमसावुभौ ||२-५२-४ (१३४००)
गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाऽश्विनौ.
जायध्वं मानुषे लोके सर्वलोकमहेश्वराः ||२-५२-५ (१३४०१)
जङ्गमानि विशालाक्षो ह्यात्मार्थमसृजत्प्रभुः.
जायन्तामिति गोविन्दस्तिर्यग्योनिगतैः सह ||२-५२-६ (१३४०२)
तानि सर्वाणि सर्वज्ञो व्यजायत यदोः कुले.
आत्मानमात्मना तात कृत्वा बहुविधं हरिः.
रत्यर्थमिह गास्तत्र ररक्ष पुरुषोत्तमः. २-५२-७ (१३४०३)
अजातशत्रो जातस्तु यथेष्ट भुवि भूमिप.
कीर्त्यमानं मया तात निबोध भरतर्षभ ||२-५२-८ (१३४०४)
सागराः समकम्पन्त मुदा चेलुश्च पर्वताः.
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ||२-५२-९ (१३४०५)
शिवाः सम्प्रववुर्वाताः प्रशान्तमभवद्रजः.
ज्योतींषि सम्प्रकाशन्त जायमाने जनार्दने ||२-५२-१० (१३४०६)
देवदुन्दुभयश्चापि सस्वनुर्भृशमम्बरे.
अभ्यवर्षंस्तदाऽऽगम्य देवताः पुष्पवृष्टिभिः ||२-५२-११ (१३४०७)
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्वै मधुसदनम्.
उपतस्थुस्तदा प्रीताः प्रादुर्भावे महर्षयः ||२-५२-१२ (१३४०८)
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन्.
उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसां गणाः ||२-५२-१३ (१३४०९)
उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः.
अभ्यभाषत तेजस्वी महर्षीन्पूजयंस्तदा ||२-५२-१४ (१३४१०)
कृत्वा च देवकार्याणि कृत्वा देवहितानि च.
खं लोकं लोककृद्देवः पुनर्गच्छति तेजसा ||२-५२-१५ (१३४११)
इत्युक्त्वा ऋषिभिः सार्घं जगाम त्रिदिवं पुनः.
अभ्यनुज्ञाय तान्सर्वाञ्छादयन्प्रकृतिं पराम् ||२-५२-१६ (१३४१२)
नन्दगोपकुले कृष्ण उवास बहुलाः समाः.
ततः कदाचित्सुप्तं तं शकटस्य त्वधः शिशुम् ||२-५२-१७ (१३४१३)
यशोदा सम्परित्यज्य जगाम यमुनां नदीम्.
शिशुलीलां ततः कुर्वन्स्वहस्तचरणौ क्षिपन् ||२-५२-१८ (१३४१४)
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन्.
पादाङ्गुष्ठेन शकटं दारयन्नथ केशवः ||२-५२-१९ (१३४१५)
तत्र एकेन पादेन पातयित्वा तथा शिशुः.
न्युब्जं पयोधराकाङ्क्षी ससार च रुरोद च ||२-५२-२० (१३४१६)
पाटितं शकटं दृष्ट्वा भिन्नभाण्डपुटीकटम्.
जनास्ते शिशुना तेन विस्मयं परमं ययुः ||२-५२-२१ (१३४१७)
प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतम्.
शयानेन हतः कंसपक्षवांस्तिग्मतेजसा ||२-५२-२२ (१३४१८)
पूतना चापि निहता महाकाया महास्तनी.
ततः काले महाराज संसक्तौ रामकेशवौ ||२-५२-२३ (१३४१९)
कृष्णः सङ्कर्षणश्चोभौ रिङ्खिणौ च बभूवतुः.
अन्योन्यकिरणाक्रान्तौ चन्द्रसूर्याविवाम्बरे ||२-५२-२४ (१३४२०)
विसर्पन्तौ च सर्वत्र महासर्पभुजौ तदा.
रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप ||२-५२-२५ (१३४२१)
क्वचिच्च जानुभिः स्पृष्टौ क्रीडमानौ क्वचिद्वने.
पिबन्तौ दधिकुल्यांश्च मथ्यमाने च भारत ||२-५२-२६ (१३४२२)
ततः स बालो गोविन्दो नवनीतं तदा क्षयम्.
ग्रासमानस्तु तत्रायं गोपीभिर्ददृशे तथा ||२-५२-२७ (१३४२३)
दाम्नाऽथोलूखले कृष्णो गोपीभिश्च निबन्धितः.
तत्तथा शिशुना तेन कर्षता चार्जुनावृभौ ||२-५२-२८ (१३४२४)
समूलविटपौ भग्नौ तदद्भुतमिवाभवत्.
ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ ||२-५२-२९ (१३४२५)
तस्मिन्नेव व्रजस्थाने सप्तवर्षै बभूवतुः.
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ||२-५२-३० (१३४२६)
बभुवतुर्वत्सपालौ काकपक्षधरावुभौ.
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ ||२-५२-३१ (१३४२७)
शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ.
मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ ||२-५२-३२ (१३४२८)
वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ.
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ||२-५२-३३ (१३४२९)
सशिक्यतुम्बुरुकरौ गोपवेणुप्रवादकौ.
क्वचिद्वसन्तावन्योन्यं क्रडमानौ क्वचिद्वने ||२-५२-३४ (१३४३०)
पर्णशय्यासु तौ सुप्तौ क्वचिन्निद्रान्तरैषिणौ.
तौ वत्सान्पालयन्तौ हि शोभयन्तौ महद्वनम् ||२-५२-३५ (१३४३१)
चञ्चूर्यन्तौ रमन्तौ च राजन्नेवं तदा शुभम्.
ततो बृन्दावनं गत्वा वसुदेवसुतावुभौ.
गोकुलं तत्र कौन्येय चारयन्तौ विजह्रतुः ||||२-५२-३६ (१३४३२)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
द्विपञ्चाशोऽध्यायः ||५२. .
सभापर्व -अध्याय ०५३
||श्रीः ||
२. ५३. अध्यायः ५३
Mahabharata -Sabha Parva -Chapter Topics
कृष्णेन बालकैः सह विहृत्य कालियमर्दनम् ||१. . बलरामेण
धेनुकासुरहननम् ||२. . कृष्णेन गोवर्धनोद्धरणम्
||३. . अरिष्टासुरादिहननम् ||४. . मधुरायां कंसं हत्वा पित्रोः
पादाभिवन्दनम् ||५.
Mahabharata -Sabha Parva -Chapter Text
भीष्ण उवाच.
ततः कदचिद्गोविन्दो ज्येष्ठं सङ्कर्षणं विना.
चचार तद्वनं रम्यं सुस्वरूपो वराननः ||२-५३-१ (१३४३३)
काकपक्षधरः श्रीमाञ्छ्यामः पद्मनिभेक्षणः.
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा ||२-५३-२ (१३४३४)
रज्जुयज्ञोपवीती स पीताम्बरधरो युवा.
श्वेतचन्द्रनलिप्राङ्गो नीलकुञ्चितमूर्धजः ||२-५३-३ (१३४३५)
राजता बर्हिपत्रेण मन्दमारुतकम्पिना.
क्वचिद्गायन्क्वञ्चित्क्रीडन्क्वचिन्नृत्यन्क्वचिद्धसन् ||२-५३-४ (१३४३६)
गोपवेणुं सुमधुरं कामं तदपि वादयन्.
प्रह्लादनार्थं च गवां क क्वचिद्वनगतो युवा ||२-५३-५ (१३४३७)
गोकुले मेघकाले तु चचार द्युतिमान्प्रभुः.
बहुरम्येषु देशेषु वनस्य वनराजिपु ||२-५३-६ (१३४३८)
तासु कृष्णो मुदा युक्तः क्रीडयन्भरतर्षभ.
स कदाचिद्वने तस्मिन्गोभिः सह परिव्रजन् ||२-५३-७ (१३४३९)
भाण्डीरं नाम दृष्ट्वाऽथ न्यग्रोधं केशवो महान्.
तच्छायायां मतिं चक्रे निवासाय तदा प्रभुः ||२-५३-८ (१३४४०)
स तत्र वयसा तुल्यैर्बत्सपालैस्तदाऽनघ.
रेमे स दिवसं कृष्णः पुरा स्वर्गगतो यथा ||२-५३-९ (१३४४१)
तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनः.
रमयन्ति स्म बहवो मान्यैः क्रीडनकैस्तदा ||२-५३-१० (१३४४२)
अन्ये स्म परिगायन्ति गोपा मुदितमानसाः.
गोपालकृष्णमेवान्ये गायन्ति स्म वनप्रियाः ||२-५३-११ (१३४४३)
तेषां सङ्गायतामेव वादयामास केशवः.
पर्णवाद्यान्तरे वेणुं तुम्बवीणां च तत्र वै ||२-५३-१२ (१३४४४)
एवं क्रीडान्तरैः कृष्णो गोपालैर्विजहार सः.
तेन बालेन कौन्तेय कृतं लोकहितं तदा ||२-५३-१३ (१३४४५)
पश्यतां सर्वभूतानां वासुदेवेन भारत.
ह्रदे निपातता तत्र क्रीडितं नागमूर्धनि ||२-५३-१४ (१३४४६)
शासयित्वा तु कालीयं सर्वलोकस्य पश्यतः.
विजहार ततः कृष्णो बलेदवसहायवान् ||२-५३-१५ (१३४४७)
धेनुको दारुणो राजन्दैत्यो रासभविग्रहः.
तदा तालवने राजन्बलदेवेन वै हतः ||२-५३-१६ (१३४४८)
ततः कदाचित्कौन्तेय रामकृष्णौ वनं गतौ.
चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ ||२-५३-१७ (१३४४९)
विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै.
श्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान् ||२-५३-१८ (१३४५०)
नामभिर्व्याहरन्तौ च वत्सान्गाश्च परन्तपौ.
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ||२-५३-१९ (१३४५१)
तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ.
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ||२-५३-२० (१३४५२)
एवं बाल्येऽपि गोपालैः क्रीडाभिश्च विजह्रतुः ||२-५३-२१ (१३४५३)
ततः कृष्णो महातेजास्तदा गत्वा तु गोव्रजम्.
गिरियज्ञं तमेवैष प्रवृत्तं गोपदारकैः ||२-५३-२२ (१३४५४)
बुभुजे पायसं शौरिरीश्वरः सर्वभूतकृत्.
तं दृष्ट्वा गोपकाः सर्वे कृष्णमेव समर्चयन् ||२-५३-२३ (१३४५५)
पूज्यमानस्तदा देवैर्दिव्यं वपुरधारयत्.
धृतो गोवर्धनो नाम सप्ताहं पर्वतो धृतः ||२-५३-२४ (१३४५६)
शिशुना वासुदेवेन गवार्थमरिमर्दन.
क्रीडमानस्तदा कृष्णः कृतवान्कर्म दुष्करम् ||२-५३-२५ (१३४५७)
तदद्भुतमतीवासीत्सर्वलोकस्य भारत.
देवदेवः क्षितं गत्वा कृष्णं नत्वा मुदान्वितः. २-५३-२६ (१३४५८)
गोविन्द इति तं ह्युक्त्वा ह्यभ्यषिञ्चत्पुरन्दरः.
इत्युक्त्वाश्लिष्य गोविन्दं पुरुहूतोभ्ययाद्दिवम् ||२-५३-२७ (१३४५९)
अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम्.
जघान तरसा कृष्णः पशूनां हितकाम्यया ||२-५३-२८ (१३४६०)
केशिनामा ततो दैत्यो राजंस्तुरगविग्रहः.
तथा वनगतं पार्थ गजायुतबलं हयम् ||२-५३-२९ (१३४६१)
कराम्भोरुहवज्रेण जघान मधुसूदनः.
अथ मल्लं तु चाणूरं निजघान महाऽसुरम् ||२-५३-३० (१३४६२)
सुदामानममित्रघ्न सर्वसैन्यपुरस्कृतम्.
बालरूपेण गोविन्दो निजघान च भारत ||२-५३-३१ (१३४६३)
बलदेवेन चायत्नात्समाजे मुष्टिको हतः.
ताडितश्च सहामात्यः कंसः कृष्णेन भारत ||२-५३-३२ (१३४६४)
हत्वा कंसममित्रघ्नः सर्वेषां पश्यतां तदा.
अभिषिच्योग्रसेनं तं पित्रोः पादमवन्दत. २-५३-३३ (१३४६५)
एवमादीनि कर्माणि कृतवान्वै जनार्दनः ||||२-५३-३४ (१३४६६)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
त्रिपञ्चाशोऽध्यायः ||५३ ||
सभापर्व -अध्याय ०५४
||श्रीः ||
२. ५४. अध्यायः ५४
Mahabharata -Sabha Parva -Chapter Topics
रामकृष्णयोः विद्याभ्यासार्थं सान्दीर्पिन्याचार्यसमीपगमनम्
||१. . सान्दीपिनिना गुरुदक्षिणात्वेन मृतपुत्रानयनं
चोदितेन कृष्णेन स्वेनोज्जीवि तस्य पुत्रस्य समर्पणम्
||२. . कंसपराक्रमादिवर्णनम् ||३. . कृष्णेन जरासन्धपराजयः
||४. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच ||
ततस्तौ जग्मतुस्तत्र गुरुं सान्दीपिनिं पुनः.
गुरुशुश्रूषणायुक्तौ धर्मज्ञौ धर्मचारिणौ ||२-५४-१ (१३४६७)
व्रतमुग्रं महात्मानौ विचरन्ताववन्तिषु.
अहोरात्रैश्चतुष्पष्ट्या साङ्गान्वेदानवापतुः ||२-५४-२ (१३४६८)
लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ.
गान्धर्ववेदं वैद्यं च सकलं समावापतुः ||२-५४-३ (१३४६९)
हस्तिशिक्षामश्विशिक्षां द्वादशाहेन चाप्नुताम्.
तावुभौ जग्मतुर्वीरौ गुरुं सान्दीपिनिं पुनः ||२-५४-४ (१३४७०)
धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ.
ताविष्वासवराचार्यमभिगम्य प्रणम्य च ||२-५४-५ (१३४७१)
तेन वै सत्कृतौ राजंश्चरन्तौ ताववन्तिषु.
पञ्चाशद्भिरहोरात्रैर्दशाङ्गं सुप्रतिष्ठितम् ||२-५४-६ (१३४७२)
सरहस्यं धनुर्वेदं सकलं ताववापतुः.
दृष्ट्वा कृतार्थो विप्रेन्द्रो गुर्वर्थे तावचोदयत् ||२-५४-७ (१३४७३)
अयाचतार्थं गोविन्दं तदा सान्दीपिनिर्विभुम्.
मम पुत्रः समुद्रेऽस्मिंस्तिमिना चापवाहितः ||२-५४-८ (१३४७४)
पुत्रमानय भद्रं ते भक्षितं तिमिना मम.
आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम् ||२-५४-९ (१३४७५)
अशक्यं सर्वभूतेषु कर्तुमन्येन केनचित्.
यश्च सान्दीपिनेः पुत्रं जहार भरतर्षभ ||२-५४-१० (१३४७६)
सोऽसुरः समरे ताभ्यां समुद्रे विनिपातितः.
ततः सान्दीपिनेः पुत्रः प्रसादादमितौजसः ||२-५४-११ (१३४७७)
दीर्घकालं कृतः प्रेतः पुनरासीच्छरीरवान्.
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् ||२-५४-१२ (१३४७८)
सर्वेषामेव भूतानां विस्मयः समजायत.
आसनानि च सर्वाणि गवाश्वं च धनादिकम् ||२-५४-१३ (१३४७९)
सर्वं तदुपजहाते गुरवे रामकेशवौ.
गदापरिघयुद्धे च सर्वास्त्रेषु च केशवः ||२-५४-१४ (१३४८०)
परमां मुख्यतां प्राप्तः सर्वलोकेषु विश्रुतः.
कश्च नारायणादन्यः सर्वरत्नविभूषितम् ||२-५४-१५ (१३४८१)
रथमादित्यसङ्काशमातिष्ठेत शचीपतेः.
कस्य चाप्रतिमो यन्ता वज्रपाणेः प्रियः सखा ||२-५४-१६ (१३४८२)
मातलिः सङ्गृहीता स्यादन्यत्र पुरुषोत्तमात्.
भोजराजात्मजो वापि कंसस्तात युधिष्ठिर ||२-५४-१७ (१३४८३)
अस्त्रजाते बले वीर्ये कार्तवीर्यसमोऽभवत्.
तस्य भोजपतेः पुत्राद्भोजराजन्यवर्धनात् ||२-५४-१८ (१३४८४)
उद्विजन्ते स्म राजानः सुपर्णादिव पन्नगाः.
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः ||२-५४-१९ (१३४८५)
शतं शतसहस्राणि पादातास्तस्य भारत.
अष्टौ शतसहस्राणि शूराणामनिवर्तिनाम् ||२-५४-२० (१३४८६)
अभवन्भोजराजस्य जाम्बूनदमया ध्वजाः.
रुक्मकाञ्चनकक्ष्यास्तु रथास्तस्य युधिष्ठि ||२-५४-२१ (१३४८७)
अभवन्भोजपुत्रस्य द्विपास्तावद्धि तद्बलम्.
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनाम् ||२-५४-२२ (१३४८८)
षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै.
अपरस्तु महाव्यूहः किशोरणां युधिष्ठिर ||२-५४-२३ (१३४८९)
आरोहवरसम्पन्नो दुर्धर्षः केनचिद्बलान्.
स च षोडशसाहस्रः कंसभ्रातृपुरः सरः ||२-५४-२४ (१३४९०)
सुनामा सर्वतस्त्वेनं स कंसं पर्यपालयत्.
सगणो मिश्रको नाम षष्टिमसाहस्र उच्यते ||२-५४-२५ (१३४९१)
कंसरोषमहावेगां वैवस्वतवशानुगाम् ||
मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम् ||२-५४-२६ (१३४९२)
शस्रजालमहाफेनां सादिवेगमहाजलाम्.
गदापरिघपाठीनां नानाकवचशैवलाम् ||२-५४-२७ (१३४९३)
रथनागमहावर्तां नानारुधिरकर्दमाम्.
चित्रकार्मुककल्लोलां रथाश्वकलिलह्रदाम् ||२-५४-२८ (१३४९४)
महामृधनदीं घोरां योधावर्तननिस्वनाम्.
कोऽन्यो नारायणादेत्य कंसहन्ता युधिष्ठिर ||२-५४-२९ (१३४९५)
एष शक्ररथे तिष्ठंस्तान्यनीकानि भारत.
व्यधमद्भोजपुत्रस्य महाभ्राणीव मारुतः ||२-५४-३० (१३४९६)
तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम्.
आनयामास मानार्हां देवकीं समुहृद्गणाम् ||२-५४-३१ (१३४९७)
यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः.
उग्रसेनं च राजानमभिषिच्य जनार्दनः ||२-५४-३२ (१३४९८)
अर्चितो यदुमुख्यैश्च भगवान्वासवानुजः.
ततः पार्थिवमायान्तं सहितं सर्वराजभिः.
सरस्वत्यां जरासन्धमजयत्पुरुषोत्तमः ||||२-५४-३३ (१३४९९)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि चतुः
पञ्चाशोऽध्यायः ||५४. .
सभापर्व -अध्याय ०५५
||श्रीः ||
२. ५५. अध्यायः ५५
Mahabharata -Sabha Parva -Chapter Topics
कृष्णस्य मधुरां त्यक्त्वा द्वारकागमनम्
||१. . नरकासुरप्रतापवर्णनम् ||२. . इन्द्रेण द्वारकामेत्य कृष्णं
प्रति नरकवधप्रार्थनम् ||३. . गरुडमारुह्य प्राग्ज्योतिचं गतेन
कृष्णेन निहते धरण्या तस्मै कुण्डलार्पणम् ||४. .
Mahabharata -Sabha Parva -Chapter Text
भीष्ण उवाच ||
शूरसेनपुरं त्यक्त्वा ततो यादवनन्दनः.
द्वारकां भगवान्कृष्णः प्रत्यपद्यत भारत ||२-५५-१ (१३५००)
ततो महात्मा यानानि रत्नानि विविधानि च.
यथार्हं पुण्डरीकाक्षो नैरृतात्प्रत्यपद्यत ||२-५५-२ (१३५०१)
तत्र विघ्नं चरन्ति स्म दैतेयाः सहदानवैः.
ताञ्जघान महाबाहुर्वरमत्तान्महासुरान् ||२-५५-३ (१३५०२)
स विघ्नमकरोत्तत्र नरको नाम नैरृतः.
अदितिं धर्षयामास कुण्डलार्थं युधिष्ठिर ||२-५५-४ (१३५०३)
न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा.
कृतपूर्वं महाघोरं यदकार्षीन्महासुरः ||२-५५-५ (१३५०४)
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम्.
विषयान्तपालाश्चत्वारो यस्यासन्युद्धदुर्मदाः ||२-५५-६ (१३५०५)
आदेवयानमावृत्य पन्थानं पर्यवस्थिताः.
त्रासनाः सुरसङ्घानां विरूपै राक्षसैः सह ||२-५५-७ (१३५०६)
हयग्रीवो निकुम्भश्च घोरः पञ्चजनस्तदा.
मुरः पुत्रसहस्रैश्च वरमत्तो महासुरः ||२-५५-८ (१३५०७)
तद्वधार्थं महाबाहुरेष चक्रगदासिभृत्.
जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः ||२-५५-९ (१३५०८)
तस्यास्य पुरुषेन्द्रस्यलोकप्रथिततेजसः.
निवासो द्वारकायां तु विदितो वः प्रधानतः ||२-५५-१० (१३५०९)
अतीव हि पुरी रम्या द्वारका वासवक्षयात्.
अतिवैराजमप्यद्धा प्रत्यक्षस्ते युधिष्ठिर ||२-५५-११ (१३५१०)
तस्मिन्देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया.
सुधर्मेति च विख्याता योजनायतविस्तृता ||२-५५-१२ (१३५११)
तत्र वृष्ण्यन्दकाः सर्वे रामकृष्णपुरोगमाः.
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते ||२-५५-१३ (१३५१२)
तत्रासीनेषु सर्वेषु कदाचिद्भरतर्षभ.
दिव्यगन्धा ववुर्वाताः कुसुमानां च वृष्टयः ||२-५५-१४ (१३५१३)
ततः सूर्यसहस्राभस्तेजोराशिर्महाद्भुतः.
मध्ये तु तेजसस्तस्य पाण्डरं गजमास्थितः. २-५५-१५ (१३५१४)
वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत ||
रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह. २-५५-१६ (१३५१५)
उत्पत्य सहसा देवे नमस्कारमकुर्वत ||
सोऽवतीर्य गजात्तूर्णं परिष्वज्य जनार्दनम्. २-५५-१७ (१३५१६)
सस्वजे बलदेवं च राजानं च तमाहुकम् ||
वासुदेवोद्धवौ चैव विकद्रुं च महामतिम्. २-५५-१८ (१३५१७)
प्रद्युम्नसाम्बनिशठाननिरुद्धं च सात्यकिम् ||
गदं सारणमक्रूरं भानुझल्लिविडूरथान्. २-५५-१९ (१३५१८)
तथैव कृतवर्णाणां चारुदेष्णं महाबलम् ||
देवकल्पान्महाराज तान्दाशार्हपुरोगमान्. २-५५-२० (१३५१९)
पिरिष्वज्य च दृष्ट्वा च भगवान्भूतभावनः ||
वृष्ण्यन्धकमहामात्रान्परिष्वज्याथ वासवः. २-५५-२१ (१३५२०)
प्रगृह्य पूजां तैर्दत्तां भगवान्पाकशासनः ||
सोऽदितेर्वचनात्तात कुण्डलार्थे जनार्दनम्. २-५५-२२ (१३५२१)
उवाच परमप्रीतो जहि भौमं नरेश्व ||२-५५-२३ (१३५२२)
भीष्ण उवाच.
निहत्य नरकं भौममाहरिष्यामि कुण्डले. २-५५-२३क्ष् (१४७९)
एवमुक्त्वाऽथ गोविन्दो राममेवाभ्यभाषत ||
प्रद्युम्नमनिरुद्धं च साम्बं चाप्रतिमं बले. २-५५-२४ (१३५२३)
एतांश्चोच्त्का तथा तत्र वासुदेवो महायशाः ||
अथारुह्य सुपर्णं वै शङ्खचक्रगदासिभृत्. २-५५-२५ (१३५२४)
ययौ तदा हृषीकेशो देवानां हितकाम्यया ||
तं प्रयान्तममित्रघ्नं देवाः सहपुरन्दराः. २-५५-२६ (१३५२५)
पृष्ठतोऽनुययुः प्रीत्या स्तुवन्तो विष्णुमच्युतम्.
उग्रान्त्रक्षोगणान्हत्वा नरकस्य महासुरान्. २-५५-२७ (१३५२६)
क्षुरान्तान्मौरवान्पाशान्षट्सहस्रं ददर्श सः ||
सञ्छिद्य पाशाच्छस्त्रेण मुरं हत्वा सहान्वयम्. २-५५-२८ (१३५२७)
शैलसङ्घानतिक्रम्य निशुम्भं च व्यपोथयत् ||२-५५-२९ (१३५२८)
यः सहस्रसहस्त्वेकः सर्वान्देवानपोथयत्.
तं जघान महावीर्यं हयग्रीवं महाबलम् ||२-५५-३० (१३५२९)
अपारतेजा दुर्धर्षः सर्वयादवनन्दनः ||
मध्ये लोहितगङ्गायां भगवान्देवकीसुतः ||२-५५-३१ (१३५३०)
औदकायां विरूपाक्षं जघान मधुसूदनः.
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया.
पुरमासादयामास तत्र युद्धमवर्तत ||२-५५-३२ (१३५३१)
तद्युद्धमभवद्घोरं तेन भौमेन भारत.
कुण्डलार्थे सुरेशस्य नरकेण महात्मना ||२-५५-३३ (१३५३२)
मुहूर्तं लालयित्वा तु नरकं मधूसूदनः.
प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद्बली ||२-५५-३४ (१३५३३)
चक्रप्रमथितं तस्य पपात सहसा भुवि.
उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा ||२-५५-३५ (१३५३४)
भूमिस्तु पतितं दृष्ट्वा प्रायच्छत्कुण्डले सुतम्.
प्रदाय च महाबाहुमिदं वचनमब्रवीत् ||२-५५-३६ (१३५३५)
सृष्टस्त्वयैव मधुहंस्त्वयैव विनिपातितः.
यथेच्छसि तथा क्रीडा प्रजास्तस्यानुपालय ||२-५५-३७ (१३५३६)
श्रीवासुदेव उवाच. २-५५-३८क्ष् (१४८०)
देवानां च मुनीनां च पितॄणां च महात्मनाम्.
उद्वेजनीयो भूतानां ब्रह्मद्विद् पुरुषाधमः ||२-५५-३८ (१३५३७)
लोकद्विष्टः सुतस्ते तु देवारिर्लोककण्टकः.
सर्वलोकनमस्कार्यामदितं बाधयद्वली ||२-५५-३९ (१३५३८)
कुण्डले हृतवान्दर्पात्ततस्ते निहतः सुतः.
नैव मन्युस्त्वया कार्यो यत्कृतं मयि भामिनि ||२-५५-४० (१३५३९)
त्वत्प्रभावाच्च ते पुत्रो लब्धवान्गतिमुत्तमाम्.
तस्माद्गच्छ महाभागे भारावतरणं कृतम् ||||२-५५-४१ (१३५४०)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
पञ्चपञ्चाशोऽध्यायः ||५५ ||
सभापर्व -अध्याय ०५६
||श्रीः ||
२. ५६. अध्यायः ५६
Mahabharata -Sabha Parva -Chapter Topics
कृष्णस्य नरकं निहत्य तदीयधनरत्नादिकं
शतोत्तरषोडशसहस्रस्त्रीसहितं मणिपर्व तं च गरुडमारोप्य
स्वर्गलोकगमनम् ||१. . रामकृष्णयोः अदित्यै कुण्डलादिकं दत्त्वा
अदितिशचीभ्यां सत्कृतया सत्यभामया सह द्वारकां प्रत्यागमनम्
||२. .
Mahabharata -Sabha Parva -Chapter Text
भीष्ण उवाच ||
निहत्य नरकं भौमं सत्यभामासहायवान्.
सहितो लोकपालैश्च ददर्श नरकालयम् ||२-५६-१ (१३५४१)
अथास्य गृहमासाद्य नारकस्य महात्मनः.
ददर्श धनमक्षय्यं रत्नानि विविधानि च. २-५६-२ (१३५४२)
मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च.
विस्ताराल्पांश्चार्कमणीन्विपुलान्स्फाटिकानपि ||२-५६-३ (१३५४३)
जाम्बूनदमयान्येव शातकुम्भमयानि च.
प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च ||२-५६-४ (१३५४४)
हिरण्यवर्णं रुचिरं श्वेतमभ्यन्तरं गृहम्.
तदक्षय्यं गृहे दृष्टं नरकस्य धनं बहु ||२-५६-५ (१३५४५)
न हि राज्ञः कुबेरस्य तावद्धनसमुच्छ्रयः.
दृष्टपूर्वः पुरा साक्षान्महेन्द्रभवनेष्वपि ||२-५६-६ (१३५४६)
हते भौमे निशुम्भे च वासवः सगणोऽब्रवीत्.
दाशार्हपतिमासीनमाहृत्य मणिकुण्डले ||२-५६-७ (१३५४७)
हेमसूत्रा महाकक्ष्यास्तोमरैर्वीर्यशालिनः.
विमलानि पताकानि वासांसि विविधानि च ||२-५६-८ (१३५४८)
भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः.
ते च विंशतिसाहस्रा द्वास्तावत्यः करेणवः ||२-५६-९ (१३५४९)
अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः.
गोभिश्चाविकृतैर्यावत्कामात्तव जनार्दन ||२-५६-१० (१३५५०)
एतत्ते प्रापयिष्याणि वृष्ण्यावासमरिन्दम.
वसु यत्रिषु लोकेषु धर्मेणावर्जितं त्वया ||२-५६-११ (१३५५१)
भीष्म उवाच. २-५६-१२क्ष् (१४८१)
देवगन्धर्वरत्नानि दैतेयासुरजानि च.
यानि सन्ति हिरण्यानि नरकस्य निवेशने ||२-५६-१२ (१३५५२)
एतत्तु गरुडे सर्वं क्षिप्रमारोप्य वासवः.
दार्शार्हपतिना सार्धमुपायान्मणिपर्वतम् ||२-५६-१३ (१३५५३)
चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः.
हेमचित्रवितानैश्च प्रासादैरुपशोभितः ||२-५६-१४ (१३५५४)
हर्म्याणि च विशालानि मणिसोपानवन्ति च.
तत्रस्था वरवर्णिन्यो ददृशुर्मधुसूदनम् ||२-५६-१५ (१३५५५)
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तदा.
त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम् ||२-५६-१६ (१३५५६)
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः.
पर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ||२-५६-१७ (१३५५७)
व्रतसन्तापजः शोके नात्र कश्चिदपीडयत्.
अरजांसि च वासांसि बिभ्रत्यः कौशिकान्यपि ||२-५६-१८ (१३५५८)
समेत्य यदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः.
ऊचुश्चैनं हृषीकेशं सर्वास्ताः कमलेक्षणाः ||२-५६-१९ (१३५५९)
नारदेन समाख्यातमस्माकं पुरुषोत्तम.
आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये ||२-५६-२० (१३५६०)
सोऽसुरं नरकं हत्वा निशुम्भं मुरमेव च.
भौमं च सपरीवारं हयग्रीवं च दानवम् ||२-५६-२१ (१३५६१)
तथा पञ्चजनं चैव प्राप्स्यते धनमक्षयम्.
सोऽचिरेणैव कालेन युष्मन्मोक्ता भविष्यति ||२-५६-२२ (१३५६२)
एवमुक्त्वागमद्धीरो देवर्षिर्नारदस्तथा.
त्वां चिन्तयानाः सततं तपो घोरमुपास्महे ||२-५६-२३ (१३५६३)
कालेऽतीते महाबाहुं कदा द्रक्ष्याम माधवम्.
इत्येवं हृदि सङ्कल्पं कृत्वा पुरुषसत्तम.
तपश्चराम सततं रक्ष्यमाणा हि दानवैः ||२-५६-२४ (१३५६४)
ततोऽस्मत्प्रियकामार्थं भगवान्मारुतोऽब्रवीत्.
यथोक्तं नारदेनाथ न चिरात्तद्भविष्यति ||२-५६-२५ (१३५६५)
भीष्ण उवाच ||२-५६-२६क्ष् (१४८२)
तासां परमनारीणामृषभाक्षं पुरः स्थितम्.
ददृशुर्देवगन्धर्वा गृष्टीनामिव गोपतिम् ||२-५६-२६ (१३५६६)
तस्य चन्द्रोपमं वक्त्रमुदीक्ष्य मुदितेन्द्रियाः.
सम्प्रहृष्टा महाबाहुमिदं वचनमब्रुवन्. २-५६-२७ (१३५६७)
सत्यव्रत पुरा वायुरिदमस्मानिहाब्रवीत्.
सर्वभूतहितज्ञश्च महर्षिरपि नारदः ||२-५६-२८ (१३५६८)
विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत्.
स भौमं नरकं हत्वा भर्ता वो भविता ध्रुवम् ||२-५६-२९ (१३५६९)
दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः.
वचनादेव सत्यं नो भर्ता भवितुमर्हसि ||२-५६-३० (१३५७०)
यत्प्रियं बत पश्याम श्रुतं प्रियमरिन्दम.
दर्शनेन कृतार्थाः स्मो वयमस्य महात्मनः ||२-५६-३१ (१३५७१)
उवाच हि यदुश्रेष्ठः सर्वास्ता जातमन्मथाः.
यथा ब्रूत विशालाक्ष्यस्तत्सर्वं वो भविष्यति ||२-५६-३२ (१३५७२)
ततस्ता गरुडे सर्वाः सरत्नधनसञ्चयाः.
क्षिप्रमारोपयाञ्चक्रे भगवान्देवकीसुतः ||२-५६-३३ (१३५७३)
सपक्षिगणमातङ्गं सव्यालमृगपन्नगम्.
शाखामृगगणैर्जुष्टं सप्रस्तरशिलातलम् ||२-५६-३४ (१३५७४)
न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम्.
सप्रपातमहासानुं विचित्रशिखिसङ्कुलम् ||२-५६-३५ (१३५७५)
स महेन्द्रानुजः शौरिश्चकार गुरुडोपरि.
पश्यतां सर्वभूतानामुत्पाट्य मणिपर्वतम् ||२-५६-३६ (१३५७६)
उपेन्द्रं बलदेवं च वासवं च महाबलम्.
स्वपक्षबलविक्षेपैर्महाद्रिशिखरोपमः ||२-५६-३७ (१३५७७)
दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन्.
आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन् ||२-५६-३८ (१३५७८)
सञ्जहार महाभ्राणि वैश्वानरपथं गतः.
ग्रहनक्षत्रताराणां सप्तर्षीणां स्वतेजसा ||२-५६-३९ (१३५७९)
प्रभाजालमतिक्रम्य चाश्विनोश्च परन्तप.
प्राप्य पुण्यतमं स्थानं देवलोकमरिन्दमः ||२-५६-४० (१३५८०)
शक्रसद्म समासाद्य चावरुह्य जनार्दनः.
सोऽभिवाद्यादितेः पादावर्चितः सर्वदैवतैः.
ब्रह्मदक्षपुरोगैश्च प्रजापतिभिरेव च ||२-५६-४१ (१३५८१)
अदितेः कुण्डले दिव्ये ददावथ तदा विभुः.
रत्नान च परार्घ्याणि रामेण सह केशवः ||२-५६-४२ (१३५८२)
प्रतिगृह्य च तत्सर्वमदितिर्वासवानुजम्.
पूजयामास दाशार्हं रामं च विगतज्वरा ||२-५६-४३ (१३५८३)
शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा.
सत्यभामां तु सङ्गृह्य अदित्यै सा न्यवेदयत् ||२-५६-४४ (१३५८४)
सा तस्याः सत्यभामायाः कृष्णाप्रियचिकीर्षया.
वरं प्रादाद्देवमाता सत्यायै विगतज्वरा ||२-५६-४५ (१३५८५)
जरां न यास्यसि शुभे यावत्कृष्णोऽस्ति भूतले.
सर्वगन्धगुणोपेता भविष्यसि वरानने ||२-५६-४६ (१३५८६)
विसृज्य सत्यभामा वै पौलोमीं च सुमध्यमा.
शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम् ||२-५६-४७ (१३५८७)
सम्पूज्यमानस्त्रिदशैर्महर्षिगणसेवितः.
द्वारकां प्रययौ कृष्णो देवलोकादरिन्दमः ||२-५६-४८ (१३५८८)
शीघ्रादेत्य महाबाहुर्दीर्घमध्वानमच्युतः.
वर्घमानपुरद्वारमाससाद सुरोत्तमः ||||२-५६-४९ (१३५८९)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
षट्पञ्चाशोऽध्यायः ||५६. .
सभापर्व -अध्याय ०५७
||श्रीः ||
२. ५७. अध्यायः ५७
Mahabharata -Sabha Parva -Chapter Topics
द्वारकावर्णनम् ||१. . रुक्मिणीसत्यभामादिगृहवर्णनम्
||२. . कृष्णेन स्वर्गादानीतस्व पारिजातस्य प्रतिष्ठापनमुद्यान
वर्णनं च ||३. .
Mahabharata -Sabha Parva -Chapter Text
भीष्ण उवाच ||
तां पुरी द्वारकीं दृष्ट्वा विभुर्नारायणो हरिः.
हृष्टः सर्वार्थसम्पन्नः प्रवेष्टुमुपचक्रमे ||२-५७-१ (१३५९०)
सोऽपश्यद्वृक्षषण्डांश्च रम्यान्नानाजनान्वहून्.
समन्ततो द्वारवत्यां नानापुष्पफलान्वितान् ||२-५७-२ (१३५९१)
अर्कचन्द्रप्रतीकाशैर्मेरुकूटनिभैर्गृहैः.
द्वारकामावृतां रम्यां सुकृतां विश्वकर्मणा ||२-५७-३ (१३५९२)
पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः.
गङ्गासिन्धुप्रकाशाभिः परिघाभिरलङ्कृताम् ||२-५७-४ (१३५९३)
प्राकारेणार्कवर्णेन पाण्डरेण विराजिताम्.
वियन्मूर्ध्नि निविष्टेन द्यामिवाभ्रपरिच्छदाम् ||२-५७-५ (१३५९४)
नन्दनप्रतिमैश्वापि मिश्रकप्रतिमैर्वनैः.
तत्र सा विहिता साक्षान्नगरी विश्वकर्मणा ||२-५७-६ (१३५९५)
काञ्चनैर्मणिसोपानैरुपेता जनहर्षिणी.
गीतघोषमहाघोषैः प्रसादप्रवरैः शुभा ||२-५७-७ (१३५९६)
तस्मिन्पुरवारश्रेष्ठे दाशार्हाणां यशस्विनाम्.
नेश्मानि जहृषे दृष्ट्वा भगवान्पाकशासनः ||२-५७-८ (१३५९७)
समुच्छ्रितपताकानि पारिप्लवनिभानि च.
काञ्चनाभानि भाखन्ति मेरुकूटनिभानि च ||२-५७-९ (१३५९८)
सुधापाण्डरशृङ्गैश्च शातकुम्भपरिच्छदैः.
रत्नसानुमहाशृङ्गैः सर्वरत्नसमन्वितैः? २-५७-१० (१३५९९)
सहर्म्यैः सार्धचन्द्रैश्च सनिर्यूहैः सपञ्जरैः.
सयन्त्रगृहसंबाधैः सधातुभिरिवाद्रिभिः ||२-५७-११
मणिकाञ्चनभोमेश्च सुधामृष्टतलैस्तथा.
जाम्बूनदमयद्वारैर्वैडूर्यविकृतार्गलैः ||२-५७-११ (१३६००)
सर्वर्तुसुखसंस्यर्शैर्महाधनपरिच्छदैः.
रम्यसानुगृहैः शृङ्गैर्विचित्रैरिव पर्वतैः ||२-५७-१३ (१३६०१)
पञ्चवर्णसवर्णैश्च पुष्पवृष्टिसमप्रभैः.
तुल्यैः पर्जन्यनिर्घोषैर्ह्रादैर्भोगवती यथा ||२-५७-१४ (१३६०२)
कृष्णध्वजोपवाह्यैश्च दाशार्हायुधरोहितैः.
वृष्णिवीरमयूरैश्च स्त्रीसहस्रप्रजाकुलैः ||२-५७-१५ (१३६०३)
वासुदेवैन्द्रपर्जन्यैर्गृहमेघैरलङ्कृता.
ददृशे द्वारकाऽतीव मेघैर्द्यैरिव संवृता ||२-५७-१६ (१३६०४)
साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा.
ददृशुर्वासुदेवस्य चतुर्योजनमायतम् ||२-५७-१७ (१३६०५)
तावदेव सुविस्तीर्णं सुसम्पूर्णं महाधनैः.
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः ||२-५७-१८ (१३६०६)
यं चकार महाभागस्त्वष्टा वासवचोदितः.
प्रासादं हेमनाभस्य सर्वतो योजनायतम् ||२-५७-१९ (१३६०७)
मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनालयम्.
रुक्मिण्याः प्रवरो वासो निर्मितः सुमहात्मना ||२-५७-२० (१३६०८)
सत्यभामा पुनर्वेश्म सदा वसति पाण्डरम्.
विचित्रमणिसोपानं यं विदुः शीतवानिति ||२-५७-२१ (१३६०९)
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम्.
व्यक्तबद्धं यथोद्देशे चतुर्दशमहाध्वजम् ||२-५७-२२ (१३६१०)
सर्वप्रासादमुख्योऽत्र जाम्बवत्या विभूषितः.
प्रभाया जृम्भणैश्चित्रैस्त्रैलोक्यमिव भासयन् ||२-५७-२३ (१३६११)
यस्तु पाण्डरवर्णाभस्तयोरन्तरमाश्रितः.
विश्वकर्माकरोदेनं कैलासशिखरोपमम् ||२-५७-२४ (१३६१२)
जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः.
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः ||२-५७-२५ (१३६१३)
तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी.
सुकेशी नाम विख्याता केशवेन निवेशिता ||२-५७-२६ (१३६१४)
पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः.
सुप्रभाया महाबाहो वासः स परमोच्छ्रितः ||२-५७-२७ (१३६१५)
यस्तु सूर्यप्रभो नाम प्रासादवर उच्यते.
लक्षणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना ||२-५७-२८ (१३६१६)
वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः.
श्वेतजाला हि यत्रैव यत्रैव च निवेशिता ||२-५७-२९ (१३६१७)
यं विदुः सर्वभूतानि हरिरित्येव भारत.
सुमित्रविजयावासो देवर्षिगणपूजितः ||२-५७-३० (१३६१८)
महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम्.
यस्तु प्रासादमुख्योऽत्र विहितः सर्वशिल्पिभिः ||२-५७-३१ (१३६१९)
महिष्या वासुदेवस्य केतुमानिति विश्रुतः.
प्रसादो विरजो नाम विरजस्को महात्मनः ||२-५७-३२ (१३६२०)
उपस्थानगृहं तात केशवस्य महात्मनः.
यस्तु प्रासादमुख्योऽत्र यं त्वष्टा व्यदधात्स्वयम् ||२-५७-३३ (१३६२१)
योजनायतविष्कम्भं सर्वरत्नमयं विभोः.
तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः ||२-५७-३४ (१३६२२)
सदने वासुदेवस्य मार्गसञ्जनना ध्वजाः.
घण्टाजालानि तत्रैव सर्वेषां निवेशने ||२-५७-३५ (१३६२३)
आहृत्य यदुसिंहेन वैजयन्तच्छलो महात्.
हंसकूटस्य यच्छ्रङ्गमिन्द्रद्युम्नसरो महत् ||२-५७-३६ (१३६२४)
षष्टितालसमुत्सेधमर्धयोजनविस्तृतम्.
सकिन्नरमहानादं तदप्यमिततेजसः ||२-५७-३७ (१३६२५)
पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम्.
आदित्यपथगं यत्तन्मेरोः शिखरमुत्तमम् ||२-५७-३८ (१३६२६)
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम्.
तदप्युत्पाट्य कुच्छ्रेण स्वं निवेशनमाहृतम् ||२-५७-३९ (१३६२७)
भ्राजमानं पुरा तत्र सर्वौषधिविदीपितम्.
यमिन्द्रभवनाच्छौरिराजहार परन्तपः ||२-५७-४० (१३६२८)
पारिजातः स तत्रैव केशवेन निवेशितः.
लेपहस्तशतैर्जुष्टो विमानैश्च हिरण्मयैः ||२-५७-४१ (१३६२९)
विहिता वासुदेवेन तत्रैव च महाद्रुमाः.
पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः ||२-५७-४२ (१३६३०)
मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च.
तासां परमकूलि शोभयन्ति महाद्रुमाः ||२-५७-४३ (१३६३१)
सालतालाश्वकर्णाश्च शतशाखाश्च रोहिणः.
भल्लातककपित्थाश्च इन्द्रवृक्षाश्च चम्पकाः ||२-५७-४४ (१३६३२)
खादिरा मृतकाश्चैव समन्तात्परिरोपिताः.
ये च हैमवता वृक्षा ये च नन्दनजास्तथा ||२-५७-४५ (१३६३३)
आहृत्य यदुसिंहेन तेऽपि तत्र निवेशिताः.
रत्नपीतारुणप्रख्याः सितपुष्पाश्च पादपाः ||२-५७-४६ (१३६३४)
सर्वर्तुफलपूर्णोस्ते ते च काननसिन्धुषु.
सहस्रपत्रपद्माश्च मन्दराश्च सहस्रशः ||२-५७-४७ (१३६३५)
अशोकाः कर्णिकाराश्च तिलका नाग मल्लिकाः.
कुरका नागपुष्पाश्च चम्पकास्तृणपुल्लिकाः ||२-५७-४८ (१३६३६)
सप्तवर्णाः कबन्धाश्च नीपाः कुरवकास्तथा.
केतकाः केसराश्चैव हिनतालतलताटकाः ||२-५७-४९ (१३६३७)
तालाः प्रलम्बा वकुलाः पिण्डिका बीजपूरकाः.
द्रुतामलकखर्जूरा महिता जम्बुकास्तथा ||२-५७-५० (१३६३८)
आम्राः पनसवृक्षाश्च चम्पकास्तिलतिन्दुकाः.
लिकुचामृताश्चैव क्षीरिका कर्णिका तथा ||२-५७-५१ (१३६३९)
नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च.
कदली जातमल्ली च पाटली कुमुदोत्पलाः ||२-५७-५२ (१३६४०)
नीलोत्पलकपूर्णाश्च वाप्यः कूपाः सहस्रशः.
फुल्लाशाककपित्थाश्च तैस्तीर्त्वा बन्धुजीवकाः ||२-५७-५३ (१३६४१)
प्रियालाशोकवादिर्याः प्राचीनाश्चापि सर्वशः.
प्रियङ्गुबदरीभिश्च यवैः स्यन्दनचन्दनैः ||२-५७-५४ (१३६४२)
शचीपीलुपलाश्चैश्च पलाशवधपिप्लैः.
उदुम्बरैश्च बिल्वैश्च पालाशैः पारिभद्रकैः ||२-५७-५५ (१३६४३)
इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरबिल्वकैः.
भौमगञ्जनवृक्षैश्च भल्लाभैरश्वसाह्वयैः ||२-५७-५६ (१३६४४)
सज्जैस्ताम्बूलवल्लीभिर्लवङ्गैः क्रमुकैस्तथा.
वंशैश्च विविधैस्तत्र समन्तात्परिरोपितैः ||२-५७-५७ (१३६४५)
ये च नन्दनजा वृक्षा ये च चैत्ररथे वने.
सर्वे ते यदुनाथेन समन्तात्परिरोपिताः ||२-५७-५८ (१३६४६)
समाहिता महानद्यः पीतलोहितवालुकाः.
तस्मिन्गृहवरे रम्ये मणिशक्रसवालुकाः ||२-५७-५९ (१३६४७)
मत्तबर्हिणनादाश्च कोकिलाश्च मदावहाः.
बभूवुः परमोपेताः सर्वे जगति पर्वताः ||२-५७-६० (१३६४८)
तत्रैव गजयूथानि तत्र गोमहिषास्तथा.
निवासाश्च कृतास्तत्र वराहा मृगपक्षिणाम् ||२-५७-६१ (१३६४९)
विश्वकर्मकृतः शैलः प्राकारस्तत्र वेश्मनि.
व्यक्तकिष्कुशतोद्यामः सुधारससमप्रभः ||२-५७-६२ (१३६५०)
तेन ते च महाशैलाः सरितश्च सरांसि च.
परिक्षिप्तानि वै तस्य वनान्युपवनानि च ||||२-५७-६३ (१३६५१)
इति श्रीमन्महाभारते सभापर्वण अर्घाहरणपर्वणि
सप्तपञ्चाशोऽध्यायः ||५७. .
सभापर्व -अध्याय ०५८
||श्रीः ||
२. ५८. अध्यायः ५८
Mahabharata -Sabha Parva -Chapter Topics
कृष्णदर्शनाय वसुदेवादीनामागमनम् ||१. . रामकृष्णाभ्यां
पित्रादिवन्दनपूर्वकं बन्धुभ्यो रत्नादिवितरणम् ||२. . इन्द्रस्य
कृष्णचरितप्रशंसनपूर्वकं स्वलोकगमनम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच.
एवमालोकयाञ्चक्रुर्द्वारकामृषभास्त्रयः.
उपेन्द्रबलदेवौ च वासवश्च महायशाः ||२-५८-१ (१३६५२)
ततस्तं पाण्डरं शौरिर्मूर्ध्नि तिष्ठन्गरुत्मतः.
प्रीतः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् ||२-५८-२ (१३६५३)
तस्य शङ्खस्य शब्देन सारश्चुक्षुभे भृशम्.
ररास च नभः सर्वं तच्चित्रमभवत्तदा ||२-५८-३ (१३६५४)
पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्दकाः.
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ||२-५८-४ (१३६५५)
वसुदेवं पुरस्कृत्य वेणुशङ्खरवैः सह.
उग्रसेनो ययौ राजा वासुदेवनिवेशनम् ||२-५८-५ (१३६५६)
आनन्दितुं पर्यचन्स्वेषु वेश्मसु देवकी.
रोहिणी च ययौ देशमाहुकस्य च याः स्त्रियः ||२-५८-६ (१३६५७)
हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयटः.
एवमुक्तः सह स्त्रीभिरक्षतैर्मधुसूदनः ||२-५८-७ (१३६५८)
ततः शौरिः सुपर्णेन स्वं निवेशनमभ्ययात्.
चकाराथ यथोद्देशमीश्वरो मणिपर्वतम् ||२-५८-८ (१३६५९)
ततो धनानि रत्नानि सभायां मधुसूदनः.
निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः ||२-५८-९ (१३६६०)
ततः सान्दीपिनिं पूर्वं ब्राह्मणं चापि भारत.
यथान्यायं वासुदेव उपस्पृष्ट्वा महायशाः ||२-५८-१० (१३६६१)
ववन्दे पृथुताम्राक्षः प्रीयमाणो महायशाः.
तथाऽश्रुपरिपूर्णाक्षमानन्दभृतचेतसम् ||२-५८-११ (१३६६२)
ववन्दे सह रामेण पितरं वासवानुजः.
ताभ्यां च मूर्ध्न्युपाघ्रातः केशवः परवीरहा ||२-५८-१२ (१३६६३)
यथाश्रेष्ठमुपागम्य सात्वतान्यदुनन्दनः.
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः ||२-५८-१३ (१३६६४)
ततः सर्वाणि वित्तानि सर्वरत्नमयानि च.
व्यभजत्तानि तेभ्योऽथ सर्वेभ्यो यदुनन्दनः ||२-५८-१४ (१३६६५)
सा केशवमहामात्रैर्महेन्द्रप्रतिमैः सभा.
शुशुभे वृष्णिशार्दूलैः सिंहैरिव गिरेर्गुहा ||२-५८-१५ (१३६६६)
अथासनगतान्सर्वानुवाच विबुधाधिपः.
शुभया हर्षयन्वाचा महेन्द्रस्तान्महायशाः.
कुकुरान्धकमुख्यांश्च तं च राजानमाहुकम् ||२-५८-१६ (१३६६७)
इन्द्र उवाच. २-५८-१७क्ष् (१४८३)
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः.
यत्कृतं वासुदेवेन तद्वक्ष्यामि समासतः ||२-५८-१७ (१३६६८)
अयं शतसहस्राणि दानवानामरिन्दमः.
निहय् पुण्डरीकाक्षः पातालविवरं ययौ ||२-५८-१८ (१३६६९)
यच्च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः.
तदिदं शौरिणा वित्तं प्रापितं भवतामिह ||२-५८-१९ (१३६७०)
सपाशं मुरमाक्रमय् पाञ्चजन्यं च धीमता.
शिलासङ्घानतिक्रम्य निशुम्भः सगणो हतः ||२-५८-२० (१३६७१)
हयग्रीवश्च विक्रान्तो दानवो निहतो बली.
मथितश्च मृधे भौमः कुण्डले चाहृते पुनः ||२-५८-२१ (१३६७२)
पुनर्बाणवधे शौरिमादित्या वसुभिः सह.
मन्मुखा आगमिष्यन्ति साध्याश्च मधुसूदनम् ||२-५८-२२ (१३६७३)
एवमुक्त्वा ततः सर्वानामन्त्र्य कुकुरान्धकान्.
सस्वजे रामकृष्णौ च वसुदेवं च वासवः ||२-५८-२३ (१३६७४)
प्रद्युम्नसाम्बप्रमुखाननिरूद्धं च सारणम्.
बभ्रुं झल्लिं गदं भानुं चारुदेष्णं च वृत्रहा ||२-५८-२४ (१३६७५)
सत्कृत्य सारणाक्रूरौ पुनराभाष्य सात्यकिम्.
सस्वजे वृष्णिराजानमाहुकं कुकुराधिपम्.
भोजं च कृतवर्णाणमन्यांश्चान्दकवृष्णिषु ||२-५८-२५ (१३६७६)
आमन्त्र्य देवप्रवरैर्वासवो वासवानुजम्.
ततः श्वेताचलप्रख्यं गजमैरावतं प्रभुः ||२-५८-२६ (१३६७७)
पश्यतां सर्वभातानामारुरोह शचीपतिः.
पृथिवीं चान्तरिक्षं च दिवं च वरवारणम् ||२-५८-२७ (१३६७८)
मुखाडम्बरनिर्घोषैः पूरयन्तमिवासकृत्.
हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम् ||२-५८-२८ (१३६७९)
मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम्.
नित्यस्रुतमदस्रावं क्षरन्तमिव तोयदम् ||२-५८-२९ (१३६८०)
दिशागजं महामात्रं काञ्चनस्रजमास्थितः.
प्रबभौ मन्दराग्रस्थः प्रतपन्भानुमानिव ||२-५८-३० (१३६८१)
ततो वज्मयं भीमं प्रगृह्य परामाङ्कुशम्.
ययौ बलवता सार्धं पावकेन शचीपतिः ||२-५८-३१ (१३६८२)
तं करेणुगजव्रातैर्विमानैश्च मरुद्गणाः.
पृष्ठतोऽनुययुः प्रीताः कुबेरवरुणग्रहाः ||२-५८-३२ (१३६८३)
स वायुपक्षमास्थाय वैश्वानरपथं गतः.
प्राप्य सूर्यपथं देवस्तत्रैवान्तरधीयत ||||२-५८-३३ (१३६८४)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
अष्टपञ्चाशोऽध्यायः ||५८. .
सभापर्व -अध्याय ०५९
||श्रीः ||
२. ५९. अध्यायः ५९
Mahabharata -Sabha Parva -Chapter Topics
कृष्णेनाहृतविभूतिविलोकनाय देवकीरुक्मिण्यादिस्त्रीणामागमनम्
||१. . सभामागतायाः यशोदासुतायाः रामकृष्णाभ्यां सत्कारः
||२. . सर्वेषां स्वस्वभवनगमनम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच ||
ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः.
नन्दगोपस्य महिषी यशोदा लोकविश्रुता ||२-५९-१ (१३६८५)
रेवती च महाभागा रुक्मिणी च पत्रिव्रता.
सत्या जाम्बवती चोभे गान्धारी शिंशुमापि च ||२-५९-२ (१३६८६)
विशोका लक्षणा चापि सुमित्रा केतुमा तथा.
वासुदेवमहिष्योऽन्याः श्रिया सार्धं ययुस्तदा ||२-५९-३ (१३६८७)
विभूतिं द्रष्टुमनसः केशवस्य महात्मनः.
प्रीयमाणाः सभां जग्मुरालोकयितुमच्युतम् ||२-५९-४ (१३६८८)
देवकी सर्वदेवीनां रोहिणी च पुरस्कृता.
ददृशुर्देवमासीनं कृष्णं हलभृता सह ||२-५९-५ (१३६८९)
तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च.
अभ्यवादयतां देवौ देवकीं रामकेशवौ ||२-५९-६ (१३६९०)
सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽधिकम्.
देवकी देवमातेव मित्रेण वरुणेन च ||२-५९-७ (१३६९१)
ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि.
जाज्वल्यमाना वपुषा प्रभयाऽतीव भारत ||२-५९-८ (१३६९२)
एकानङ्गेति यामाहुः कन्यां वै कामरूपिणीम्.
यत्कृते सगणं कंसं जघान पुरुषोत्तमः ||२-५९-९ (१३६९३)
ततः स भगवान्रामस्तामुपाक्रम्य भामिनाम्.
मूर्ध्न्युपाघ्राय सव्येन परिजग्राह पाणिना ||२-५९-१० (१३६९४)
तां च तत्रोपसम्प्राप्य प्रियामिव सखीमिमाम्.
दक्षिणेन कराग्रेण पिरजग्राह माधवः ||२-५९-११ (१३६९५)
ददृशुस्तां सभामध्ये भगिनीं रामकृष्णयोः.
रुक्मपद्मशां पद्मश्रीमिवोत्तमनाभयोः ||२-५९-१२ (१३६९६)
अथाक्षतमहावष्ट्या लाजपुष्पघृतैरपि.
वृष्णयोऽवाकिरन्प्रीताः सङ्कर्षणजनार्दनौ ||२-५९-१३ (१३६९७)
सबालाः सहवृद्धाश्च ये ज्ञातिकुलबान्धवाः.
उपोपविविशुः प्रीता वृष्णयो मधुसूदनम् ||२-५९-१४ (१३६९८)
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः.
विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः ||२-५९-१५ (१३६९९)
रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम्.
अनन्तरं च सत्याया जाम्बवत्याश्च भारत ||२-५९-१६ (१३७००)
सर्वासां च यदुश्रेष्ठो गेहे गेहे विहारवान्.
जगाम च हृषीकेशो रुक्मिण्याः सदनं पुनः ||२-५९-१७ (१३७०१)
एष तात महाबाहो विजयः शार्ङ्गधन्वनः.
एतदर्थं च जन्माहुर्मानुषेषु महात्मनः ||||२-५९-१८ (१३७०२)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
एकोनषष्टितमोऽध्यायः ||५९ ||
सभापर्व -अध्याय ०६०
||श्रीः ||
२. ६०. अध्यायः ६०
Mahabharata -Sabha Parva -Chapter Topics
शर्ववरगर्वितेन बाणासुरेण स्वतनयया उषया सह गूढं रममाणस्य
अनिरुद्घस्य कारा गृहप्राषणम् ||१. . नारदाद्विदितपौत्रवृत्तेन
कृष्णेन सरामप्रद्युम्नेन बाणं निर्जित्य उषया सह अनिरुद्घानयनम्
||२. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच ||
द्वारकायां ततः कृष्णः स्वदारेषु दिवानिशम्.
सुखं लब्ध्वा महाराज प्रमुमोद महायशाः ||२-६०-१ (१३७०३)
पौत्रस्य कारणाच्चक्रे विबुधानां प्रियं तदा.
सावसवैः सुरैः सर्वैर्दुष्करं भरतर्षभ ||२-६०-२ (१३७०४)
बाणो नामाऽभवद्राजा बलेर्ज्येष्ठसुतो बली.
वीर्यवान्भरतश्रेष्ठ स च बाहुसहस्रवान् ||२-६०-३ (१३७०५)
ततस्तेपे तपस्तीव्रं सत्वेन मनसा नृप.
रुद्रमाराधयामास स च बाणः समा बहु ||२-६०-४ (१३७०६)
तस्मै बहुवरा दत्ताः शङ्करेण महात्मना.
तांश्च लब्ध्वा वरान्बाणो दुर्लभानसुरैर्भुवि ||२-६०-५ (१३७०७)
स शोणितपुरे राज्यं चकाराप्रतिमो बली.
त्रासिताश्च सुराः सर्वे तेन बाणेन पाण्डव ||२-६०-६ (१३७०८)
विजित्य विबुधान्सेन्द्रान्बाणः संवत्सरान्बहून्.
अशासत महद्राज्यं कुबेर इव भारत ||२-६०-७ (१३७०९)
ततो राजन्नुषा नाम बाणस्य दुहिता यथा.
येनोपायेन कौन्तेय अनिरुद्धो महाद्युतिः ||२-६०-८ (१३७१०)
प्राद्युम्निस्तामुषां प्राप्य प्रच्छन्नः प्रमुमोद ह.
अथ बाणो महातेजास्तदा तत्र युधिष्ठिर ||२-६०-९ (१३७११)
तं गृह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया तदा.
गृहीत्वा कारयामास वस्तुं कारागृहे बलात् ||२-६०-१० (१३७१२)
स कुमारः सुखार्होऽथ तदा दुःखसमन्वितः.
बामेन घातितो राजन्ननिरुद्धो मुमोह च ||२-६०-११ (१३७१३)
एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः.
द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचोऽब्रवीत् ||२-६०-१२
(१३७१४)
कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन.
पौत्रस्ते बाध्यमानोऽत्र बाणेनामिततेजसा ||२-६०-१३ (१३७१५)
कृच्छ्रं प्राप्तोऽनिरुद्धो वै शेते कारागृहे सदा.
एतदुक्त्वा सुरर्षिर्वै बाणस्याथ पुरं ययौ ||२-६०-१४ (१३७१६)
नारदस्य वचः श्रुत्वा ततो राजञ्जनार्दनः.
जाहूय बलदेवं हि प्रद्युम्नं च महाद्युतिम् ||२-६०-१५ (१३७१७)
आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः.
ततः सुपर्णमारुह्य जयाय भरतर्षभ ||२-६०-१६ (१३७१८)
जग्मुः क्रुधा महावीर्या बाणस्य नगरं प्रति.
अथासाद्य महाराज तत्पुरं ददृशुश्च ते ||२-६०-१७ (१३७१९)
ताम्रप्राकारसङ्गुप्तां हेमप्रासादसङ्कुलाम्.
दृष्ट्वा मुदा युताः सर्वे विस्मयं परमं ययुः ||२-६०-१८ (१३७२०)
तथा बाणपुरस्यासन्द्वारस्था देवताः सदा.
महेश्वरो गुहश्चैव भद्रकाली विनायकः ||२-६०-१९ (१३७२१)
अथ कृष्णो बलाज्जित्वा द्वारपालान्युधिष्ठिर.
सुसङ्क्रुद्धो महातेजाः शङ्खचक्रगदासिभृत् ||२-६०-२० (१३७२२)
आससादोत्तरद्वारं शङ्करेणाभिरक्षितम्.
तत्र तस्थौ महातेजाः शूलपाणिर्महेश्वरः ||२-६०-२१ (१३७२३)
पिनाकं सशरं गृह्य बाणस्य हितकाम्यया.
ज्ञात्वा तमागतं कृष्णं व्यादितास्यमिवान्तकम् ||२-६०-२२ (१३७२४)
ततस्तौ चक्रतुर्युद्धं वासुदेवमहेश्वरौ.
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम् ||२-६०-२३ (१३७२५)
अन्योन्यं तौ ततक्षाते अन्योन्यजयकाङ्क्षिणौ.
दिव्यान्यस्त्राणि तौ देवौ क्रुद्धौ मुमुचतुस्तदा ||२-६०-२४ (१३७२६)
ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना.
विजित्य तं महादेवं ततो युद्धे शूलपाणिना.
अन्यांश्च जित्वा द्वारस्थान्प्रविवेश पुरोत्तमम् ||२-६०-२५ (१३७२७)
प्रविश्य बाणमासाद्य स तत्राथ जनार्दनः.
चक्रे युद्धं महाक्रुद्धस्तेन बाणेन भरतर्षभ. २-६०-२६ (१३७२८)
बाणोऽपि सर्वशस्त्राणि शितानि भरतर्षभ.
सुसङ्क्रुद्धस्तदा युद्धे पातयामास केशवे ||२-६०-२७ (१३७२९)
पुनरुद्यम्य शस्त्राणि सहस्रं सर्वबाहुभिः.
मुमोच बाणः सङ्क्रुद्धः कृष्णं प्रति रणाजिरे ||२-६०-२८ (१३७३०)
ततः कृष्णस्तदा कृत्त्वा तानि सर्वाणि भारत.
कृत्त्वा मुहूर्तं बाणेन युद्धं राजन्नगोक्षजः ||२-६०-२९ (१३७३१)
चक्रमुद्यम्य रोषाद्वै दिव्यं शस्त्रोत्तमं ततः.
सहस्रबाहूंश्चिच्छेद बाणस्यामिततेजसः ||२-६०-३० (१३७३२)
ततो बाणो महाराज कृष्णेन भृशपीडितः.
भिन्नबाहुः पपाताशु विशाख इव पादपः ||२-६०-३१ (१३७३३)
स पातयित्वा बाणैस्तं बाणं कृष्णस्त्वरान्वितः.
प्राद्युम्निं मोचयामास क्षिप्रं राजगृहात्तदा ||२-६०-३२ (१३७३४)
मोक्षयित्वाऽथ गोविन्दः प्राद्युम्निं सह भार्यया.
बाणस्य सर्वरत्नानि असङ्ख्यानि जहार सः ||२-६०-३३ (१३७३५)
गोधनानि च सर्वस्वं स बाणस्यालये बलात्.
जहार च हृषीकेशो यदूनां कुलवर्धनः ||२-६०-३४ (१३७३६)
ततः स सर्वरत्नानि चाहृत्य मधुसूदनः.
क्षिप्रमारोपयाञ्चक्रे सर्वस्वं गरुडोपरि ||२-६०-३५ (१३७३७)
त्वरयाऽथ स कौन्तेय बलदेवं महाबलम्.
प्रादुम्निं च महावीर्यमनिरुद्धं महाद्युतिम् ||२-६०-३६ (१३७३८)
उषां च सुन्दरीं राजन्भृत्यदारगणैः सह.
सर्वानेतान्समारोप्य गरुडोपरि वीर्यवान् ||२-६०-३७ (१३७३९)
मुदा युक्तो महातेजाः पीताम्बरधरो बली.
दिव्याभरमचित्राङ्गः शङ्कचक्रगदासिभृत्. २-६०-३८च आरुरोह
गरुत्मन्तमुदयं भास्करो यथा ||||२-६०-३८ (१३७४०)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
षष्टितमोऽध्यायः ||६०. .
सभापर्व -अध्याय ०६१
||श्रीः ||
२. ६१. अध्यायः ६१
Mahabharata -Sabha Parva -Chapter Topics
भीष्मेण
नरकबाणासुरप्रमुखदुष्टनिग्रहादिरूपातीतानागतकृष्णचरित्रनिरूपणम्
||१. ||
Mahabharata -Sabha Parva -Chapter Text
भीष्ण उवाच ||
सूदिता द्वारपालाश्च निशुम्भनरकौ हतौ.
कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ||२-६१-१ (१३७४१)
शौरिणा पृथिवीपालास्त्रासिता भरतर्षभ.
धनुषश्च प्रणादेन पाञ्चजन्यस्वनेन च ||२-६१-२ (१३७४२)
मेघप्रख्यैरनेकैश्च दाक्षिणात्याभिसंवृतम्.
रुक्मिणं त्रासयामास केशवो भरतर्षभ ||२-६१-३ (१३७४३)
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा.
उवाह महिषीं भोज्यामेष चक्रगदाधरः ||२-६१-४ (१३७४४)
जारूथ्य आहृतक्रोधः शिशुपालश्च निर्जितः.
वक्रश्च स हतः सङ्ख्ये शतधन्वा च क्षत्रियः ||२-६१-५ (१३७४५)
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुकः.
हतः सौभपतिश्चैव साल्वश्च कृतधन्वना ||२-६१-६ (१३७४६)
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः.
विभज्य पुण्डरीकाक्षो द्युमत्सेनमपोथयत् ||२-६१-७ (१३७४७)
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ.
जग्राह भरतश्रेष्ठ वानरावभितश्चरौ ||२-६१-८ (१३७४८)
इरावत्यां महाभोजो वह्निसूर्यसमो बले.
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ||२-६१-९ (१३७४९)
अक्षप्रपत्तने राजन्नवहेलनतत्परौ.
उभौ तावपि कृष्णेन स्वराष्ट्रे विनिपातितौ ||२-६१-१० (१३७५०)
दग्धा वाराणसी तात केशवेन महात्मना.
पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः ||२-६१-११ (१३७५१)
जघान सहितान्सर्वानङ्गराजं च माधवः ||२-६१-१२ (१३७५२)
एष चैव शतं हत्वा रथेन क्षत्रपुङ्गवान्.
गान्धारीमवहत्कृष्णो महिषीं यादवर्षभः ||२-६१-१३ (१३७५३)
अथ गाण्डीवधन्वानं क्रीडार्थं मधुसूदनः.
जिगाय भरतश्रेष्ठ कुन्त्याश्च प्रमुखे विभुः ||२-६१-१४ (१३७५४)
द्रौणिं कृपं च कर्णं च भीमसेनं सुयोधनम्.
युद्धाय सहितान्त्राजञ्जिगाय भरतर्षभ ||२-६१-१५ (१३७५५)
बभ्रोश्च प्रियमन्विच्छन्नेष चक्रगदाधरः.
वेणुदारिवृतां भार्यां प्रममाथ युधिष्ठिर ||२-६१-१६ (१३७५६)
पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्.
वेणुदारिवशे युक्तां जिगाय मधुसूदनः ||२-६१-१७ (१३७५७)
अवाप्य तपसा वीर्यं बलमोजश्च भारत.
त्रासिताः सगणाः सर्वे बाणेन विबुधाधिपाः ||२-६१-१८ (१३७५८)
वज्राशनिगदाबामैस्ताडयद्भिरनेकशः.
तस्य नासीद्रणे मृत्युर्देवैरपि सवासवैः ||२-६१-१९ (१३७५९)
सोऽभिभूतश्च कृष्णेन न हतश्च मगात्मना.
छित्वा बाहुसहस्रं तु गोविन्देन महात्मना ||२-६१-२० (१३७६०)
एषोऽपीडन्महाबाहुः कंसं च मधुसूदनः.
अवाप्तं तपसा वीर्यं बलमोजश्च भारत.
कैटभं चातिलोमानि निजघान जनार्दनः ||२-६१-२१ (१३७६१)
जम्बुमैरावतं चैव विरूपं च महायशाः. २-६१-२२ब्जघान
भरतश्रेष्ठ शम्बरं चारिमर्दनम् ||२-६१-२२ (१३७६२)
एष भोगवतीं गत्वा वासुकिं भरतर्षभ.
निर्जित्य पुण्डरीकाक्षो रौक्मिणेयममोचयत् ||२-६१-२३ (१३७६३)
एवं बहूनि कर्माणि शिशुरेव जनार्दनः.
कृतवान्पुण्डरीकाक्षः सङ्कर्षणसहायवान् ||२-६१-२४ (१३७६४)
एवमेषोऽसुराणां चसुराणामपि सर्वशः.
भयामयकरः कृष्णः सर्वलोकेश्वरः प्रभुः ||२-६१-२५ (१३७६५)
एवमेव महाबाहुः शास्ता सर्वदुरात्मनाम्.
कृत्वा देवार्थममितं स्वस्थानं प्राप्स्यते पुनः ||२-६१-२६ (१३७६६)
एष भोगवतीं पुण्यां रविकान्तिं महायशाः.
द्वारकामात्मसात्कृत्वा सागरं प्लावयिष्यति ||२-६१-२७ (१३७६७)
सुरासुरमनुष्येषु नाभून्न भविता क्वचित्.
यस्तामध्यवसद्राजा नान्यत्र मधुसूदनात् ||२-६१-२८ (१३७६८)
भ्राजमानास्तु वै सर्वे वृष्ण्यन्धकमहारथाः.
तेजिष्ठं प्रतिपत्स्यन्ते नाकपृष्टं गतासवः ||२-६१-२९ (१३७६९)
एवमेव दशार्हाणां विधाय विधिना विधिम्.
विष्णुर्नारायणः साक्षात्स्वस्थानं प्राप्स्यते ध्रुवम् ||२-६१-३० (१३७७०)
अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी. २-६१-३२अब् मोदते
भगवान्प्रीतो वालः क्रीडानकैरिव ||२-६१-३१ (१३७७१)
नैष गर्भत्वमापेदे न योन्यामावसत्प्रभुः.
आत्मनस्तेजसा कृष्णः सर्वेषां कुरुते गतिम् ||२-६१-३२ (१३७७२)
यथा बुद्बुद उत्थाय तत्रैव प्रविलीयते.
चराचराणि भूतानि तथा नारायणे सदा ||२-६१-३३ (१३७७३)
न प्रमातुं महाबाहुः शक्यो भारत केशवः.
परं हि परतस्तस्माद्विश्वरूपान्न विद्यते ||||२-६१-३४ (१३७७४)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
एकषष्टितमोऽध्यायः ||६१. .
सभापर्व -अध्याय ०६२
||श्रीः ||
२. ६२. अध्यायः ६२
Mahabharata -Sabha Parva -Chapter Topics
भीष्मवाक्योपरमे सहदेवेन कृष्णपूजाविरुद्धभाषिणो
वधे प्रतिज्ञाते राज्ञां त ऊष्णीम्भावः | | १. . सहदेवमूर्ध्नि
पुष्पवृष्टिः. अशरीरवाणीच ||२. . नादरदेन कृष्णानर्चकस्य
निन्दनम् ||३. . सहदेवेन सभ्यषूजनपूर्वकं कर्मसमापनम्
||४. . शिशुपालेन यज्ञविघाताय राज्ञां प्रोत्साहनम् ||५. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
एवमुक्त्वा ततो भीष्णो विरराम महाबलः.
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ||२-६२-१ (१३७७५)
केशवं केशिहन्तारमप्रमेयपराक्रमम्.
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ||२-६२-२ (१३७७६)
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम्.
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ||२-६२-३ (१३७७७)
स एव हि मया वध्यो भविष्यति न संशयः.
मतिमन्तश्च ये केचिदाचार्यं पितरं गुरुम् ||२-६२-४ (१३७७८)
अर्च्यमर्चितमर्घार्हमनुजानन्तु ते नृपाः.
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ||२-६२-५ (१३७७९)
मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे.
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि ||२-६२-६ (१३७८०)
अदृश्यरूपा वाचश्चाप्यब्रुवन्साधुसाध्विति.
अविध्यदजिनं कृष्णं भविष्यद्भूतजल्पनः ||२-६२-७ (१३७८१)
सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित्.
उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः ||२-६२-८ (१३७८२)
कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः.
जीवन्मृतास्तु ते ज्ञेया न सभाष्याः कदाचना ||२-६२-९ (१३७८३)
वैशम्पायन उवाच. २-६२-१०क्ष् (१४८४)
पूजयित्वा च पूजार्हान्ब्रह्मक्षत्रविशेषवित्.
सहदेवो नृणां देवः समापयत कर्म तत् ||२-६२-१० (१३७८४)
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः.
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ||२-६२-११ (१३७८५)
स्थितः सेनापतिर्योऽहं मन्वध्वं किं तु साम्प्रतम्.
युधि तिष्ठाम सन्नह्य समेतान्वृष्णिपाण्डवान् ||२-६२-१२ (१३७८६)
इति सर्वान्समुत्साद्य राज्ञस्तांशाचेदिपुङ्गवः.
यज्ञोपघाताय ततः सोऽमन्त्रतय राजभिः ||२-६२-१३ (१३७८७)
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः.
समदृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा ||२-६२-१४ (१३७८८)
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम्.
न स्याद्यथा तथा कार्यमेवं सर्वे तदाऽब्रुवन् ||२-६२-१५ (१३७८९)
निष्कर्षान्निश्चयात्सर्वे राजानः क्रोधमूर्छिताः.
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ||२-६२-१६ (१३७९०)
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ.
आमिषादपकृष्टानां सिहानामिव गर्जताम् ||२-६२-१७ (१३७९१)
तं बलौघमपर्यन्तं राजसागारमक्षयम्.
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ||||२-६२-१८ (१३७९२)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि
द्विषष्टितमोऽध्यायः ||६२. .
सभापर्व -अध्याय ०६३
||श्रीः ||
२. ६३. अध्यायः ६३
Mahabharata -Sabha Parva -Chapter Topics
राज्ञां रणोद्यमाद्विभ्यतो युधिष्ठिरस्य भीष्णेण समाश्वासनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ततः सागरसङ्काशं दृष्ट्वा नृपतिमण्डलम्.
संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम्. २-६३-१ (१३७९३)
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः.
भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम्.
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा. २-६३-२ (१३७९४)
असौ रोषात्प्रचलितो महान्नृपतिसागरः.
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह ||२-६३-३ (१३७९५)
यज्ञस्य च न विघ्नः स्यात्प्रजानां च हितं भवेत्.
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह ||२-६३-४ (१३७९६)
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे.
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ||२-६३-५ (१३७९७)
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति.
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ||२-६३-६ (१३७९८)
प्रसुप्ते हि यथा सिंहे श्वानस्तात समागताः.
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः ||२-६३-७ (१३७९९)
वृष्णिसिंहस्य सुप्तस्य तथाऽमी प्रमुके स्थिताः.
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य सन्निधौ ||२-६३-८ (१३८००)
न हि सम्बुध्यते यावत्सुप्तः सिंह इवाच्युतः.
' तदिदं ज्ञातपूर्वं हि तव संस्तोतुमिच्छसि' .
तेन सिंहीकरोत्येतानसिंहश्चेदिपुङ्गवः ||२-६३-९ (१३८०१)
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः.
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् ||२-६३-१० (१३८०२)
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः.
यदस्य शिशुपालस्य तेजस्तिष्ठति भारत ||२-६३-११ (१३८०३)
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर.
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षितम् ||२-६३-१२ (१३८०४)
आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा.
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ||२-६३-१३ (१३८०५)
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः.
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ||२-६३-१४ (१३८०६)
वैशम्पायन उवाच. २-६३-१५क्ष् (१४८५)
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः.
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ||||२-६३-१५ (१३८०७)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि
त्रिषष्टितमोऽध्यायः ||६३. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-६३-७ भषणं श्वरवः ||
सभापर्व -अध्याय ०६४
||श्रीः ||
२. ६४. अध्यायः ६४
Mahabharata -Sabha Parva -Chapter Topics
शिशुपालेन भीष्मस्तृतकृष्णचरित्रापहसनपूर्वकं
भीष्मोपालम्भनम् ||
Mahabharata -Sabha Parva -Chapter Text
शिशुपाल उवाच.
बिभीषिकाभिर्बह्वीभिर्भीषयन्भीष्म पार्थिवान्.
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ||२-६४-१ (१३८०८)
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया.
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ||२-६४-२ (१३८०९)
नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात्.
तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः ||२-६४-३ (१३८१०)
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः.
त्वया कीर्तयताऽस्माकं भूयः प्रव्यथितं मनः ||२-६४-४ (१३८११)
अवलिप्तस्य मूर्शस्य केशवं स्तोतुमिच्छतः.
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ||२-६४-५ (१३८१२)
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः.
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ||२-६४-६ (१३८१३)
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम्.
तौ वाऽश्ववृषभौ भीष्ण यौ न युद्धविशारदौ ||२-६४-७ (१३८१४)
चेतनारहितं काष्ठं यद्यनेन निपातितम्.
पादेन शकटं भीष्ण तत्र किं कृतमद्भुतम् ||२-६४-८ (१३८१५)
' अर्कप्रमाणौ तौ वृक्षौ यद्यनेन निपातितौ. '
नागश्च दमितोऽनेन तत्र को विस्मयः कृतः' ||२-६४-९ (१३८१६)
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः.
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ||२-६४-१० (१३८१७)
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि.
इति ते भीष्ण शृण्वानाः परे विस्मयमागताः ||२-६४-११ (१३८१८)
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः.
स चानेन हतः कंस इत्येतत्तु बलीयसः. २-६४-१२ (१३८१९)
स चानेन हतः कंस इत्येतत्तु महाद्भुतम् ||
न ते श्रुतमिदं भीष्म नूनं कथयतां सताम्. २-६४-१३ (१३८२०)
यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम ||
स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च. २-६४-१४ (१३८२१)
इति सन्तोऽनुशासन्ति सञ्जना धर्मिणः सदा.
भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ||२-६४-१५ (१३८२२)
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम.
अजानत इवाख्यासि संस्तुवन्कौरवाधम ||२-६४-१६ (१३८२३)
गोघ्रः स्त्रीघ्नश्च सन्भीष्म त्वद्वाक्याद्यदि पूज्यते.
एवम्भूतश्च यो भीष्म कथं संस्तवमर्हति ||२-६४-१७ (१३८२४)
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः.
सम्भावयति चाप्येवं त्वद्वाक्याच्च जनार्दनः.
एवमेतत्सर्वमिति तत्सर्वं वितथं ध्रुवम् ||२-६४-१८ (१३८२५)
आत्मानमात्मनाऽऽधातुं यदि शक्तो जनार्दनः.
अकामयन्तं तं भीष्म कथं साध्विव पश्यसि ||२-६४-१९ (१३८२६)
न गाथा गाथिनं शास्ति बहुचेदपि गायति.
प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा ||२-६४-२० (१३८२७)
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयटः.
' नदीसुतत्वात्ते चित्तं चञ्चलं न स्थिरं स्मृतम्' ||२-६४-२१ (१३८२८)
अतः पापीयसी चैषां पाण्डवानामपीष्यते.
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः ||२-६४-२२ (१३८२९)
धर्मवांस्त्वमधर्मज्ञः सतां मार्गादवप्लुतः.
को हि धर्मिणमात्मानं जानञ्ज्ञानविदां वरः ||२-६४-२३ (१३८३०)
कुर्याद्यथा त्वया भीषम कृतं धर्ममवेक्षता.
चेत्त्वं धर्मं विजानासि यदि प्राज्ञा मतिस्तव ||२-६४-२४ (१३८३१)
अन्यकामा हि धर्मज्ञा कन्यका प्राज्ञमानिना.
अम्बा नामेति भद्रं ते कथं साऽपहृता त्वया ||२-६४-२५ (१३८३२)
तां त्वयाऽपहृतां भीष्म कन्यां नैषितवान्नृपः.
भ्राता विचित्रवीर्यस्ते सतां मार्गमनुस्मरन् ||२-६४-२६ (१३८३३)
भार्ययोर्यस्य चान्येन मिषतः प्राज्ञमानिनः.
तव जातान्यपत्यानि सज्जनाचरिते पथि ||२-६४-२७ (१३८३४)
को हि धर्मोऽस्ति ते भीषम ब्रह्मचर्यमिदं वृथा.
यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ||२-६४-२८ (१३८३५)
न त्वं तव धर्मज्ञ पश्याम्युपचरं क्वचित्.
न हि ते सेविता वृद्धा य एवं धर्ममब्रवीः ||२-६४-२९ (१३८३६)
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः.
सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीम् ||२-६४-३० (१३८३७)
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत्.
सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ||२-६४-३१ (१३८३८)
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात्.
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ||२-६४-३२ (१३८३९)
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा.
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ||२-६४-३३ (१३८४०)
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा.
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति च ||२-६४-३४ (१३८४१)
धर्म चरत माऽधर्ममिति तस्य वचः किल.
पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ||२-६४-३५ (१३८४२)
हंसस्य तु वचः श्रुत्वा मुदिताः सर्वपक्षिणः.
ऊचुश्चैव स्वगा हंसं परिवार्य च सर्वशः ||२-६४-३६ (१३८४३)
कथयस्व भवान्सर्वं पक्षिणां तु समासतः.
को हि नाम द्विजश्रेष्ठ ब्रूहि नो धर्म उत्तमः ||२-६४-३७ (१३८४४)
हंस उवाच ||२-६४-३८क्ष् (१४८६)
प्रजास्वहिंसा धर्मो वै हिंसाऽधर्मः खगव्रजाः.
एतदेवानुबोद्धव्यं धर्माधर्मः समासतः ||२-६४-३८ (१३८४५)
शिशुपाल उवाच ||२-६४-३९क्ष् (१४८७)
वृद्धहंसवचः श्रुत्वा पक्षिणस्ते सुसंहिताः.
ऊचुश्च धर्मलुब्धास्ते स्मयमाना इवाण्डजाः ||२-६४-३९ (१३८४६)
धर्मं यः कुरुते नित्यं लोके धीरतरोऽण्डजः.
स यत्र गच्छेद्धर्मात्मा तन्मे ब्रूहीह तत्त्वतः ||२-६४-४० (१३८४७)
हंस उवाच ||२-६४-४१क्ष् (१४८८)
बाला यूयं न जानीध्वं धर्मसूक्ष्मं विहङ्गमाः.
धर्मं यः कुरुते लोके सततं शुभबुद्धिना.
न चायुषोऽन्ते स्वं देहं त्यक्त्वा स्वर्गं स गच्छति ||२-६४-४१ (१३८४८)
तथाऽहमपि च त्यक्त्वा काले देहमिमं द्विजाः.
स्वर्गलोकं गमिष्यामि इयं धर्मस्य वै गतिः ||२-६४-४२ (१३८४९)
एवं धर्मकथां चक्रे स हंसः पक्षिणां भृशम्.
पक्षिणः शुश्रुवुर्भीष्म सततं धर्ममेव ते ||२-६४-४३ (१३८५०)
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः.
अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ||२-६४-४४ (१३८५१)
ते च तस्य समभ्याशे निक्षिप्याण्डानि सर्वशः.
समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ||२-६४-४५ (१३८५२)
तेषामण्डानि सर्वेषां भक्षयामास पापकृत्.
स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि ||२-६४-४६ (१३८५३)
ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोऽपरः.
अशङ्कत महाप्राज्ञः स कदाचिद्ददर्श ह ||२-६४-४७ (१३८५४)
ततः सङ्कथयामास दृष्ट्वा हंसस्य किल्बिषम्.
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ||२-६४-४८ (१३८५५)
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः.
निजघ्नस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ||२-६४-४९ (१३८५६)
एवं त्वां हंसधर्माणमपीमे वसुधाधिपाः.
निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तं यथाण्डजम् ||२-६४-५० (१३८५७)
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः.
भीष्म यां तां च ते सम्यक्वथयिष्यामि भारत ||२-६४-५१ (१३८५८)
अन्तरात्मन्यभिहते रौषि पत्ररथाशुचि.
अण्डभक्षणकर्मैतत्तव वाचमतीयते ||||२-६४-५२ (१३८५९)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि
चतुःषष्टितोऽध्यायः ||६४ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-६४-२ तृतीयायां प्रकृतौ नपुंसकत्वे ||
२-६४-२० कुलिगोनाम भूशायी पक्षी मासाहसमित्यनिशं वदन्नपि
सिंहदंष्टान्तरस्थं मांसमा दत्ते स्वयं साहसमतिशयितं करोति ||
सभापर्व -अध्याय ०६५
||श्रीः ||
२. ६५. अध्यायः ६५
Mahabharata -Sabha Parva -Chapter Topics
कृष्णनिन्दाश्रवणेन शिशुपालजिघांसया उत्पततो भीमस्य भीष्मेण
विनिवर्तनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
शिशुपाल उवाच.
स मे बहुमतो राजा जरासन्धो महाबलः.
योऽनेन युद्धं नेयेष दाक्षोऽयमिति संयुगे ||२-६५-१ (१३८६०)
केशवेन कृतं कर्म जरासन्धवधे तदा.
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ||२-६५-२ (१३८६१)
उद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना.
दृष्टः प्रभावः कृष्णेन जरासन्धस्य भूपतेः ||२-६५-३ (१३८६२)
येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमभिजानता.
प्रेषितं पाद्यमस्मै तद्दातुमग्रे दूरात्मने ||२-६५-४ (१३८६३)
भुज्यतामिति तेनोक्ताः कृष्णबीमधनञ्जयाटः.
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम् ||२-६५-५ (१३८६४)
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे.
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति ||२-६५-६ (१३८६५)
इदं त्वाश्चर्यभूतं मे यदिभे पाण्डवास्त्वया.
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ||२-६५-७ (१३८६६)
अथवा नैतदाश्चर्यं येषां त्वमसि भारत.
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ||२-६५-८ (१३८६७)
वैशम्पायन उवाच ||२-६५-९क्ष् (१४८९)
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु.
चकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ||२-६५-९ (१३८६८)
तथा पद्मप्रतीकाशे स्वभावायतविस्तृते.
भूयः क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः ||२-६५-१० (१३८६९)
त्रिशिखां भ्रकुटीं चास्य ददृशुः सर्वपार्थिवाः.
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ||२-६५-११ (१३८७०)
दन्तान्सन्दशतस्तस्य कोपाद्ददृशुराननम्.
युगान्ते सर्वभूतानि कालस्येव जिघत्सतः ||२-६५-१२ (१३८७१)
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विन्.
भीष्म एव महाबाहुर्महासेनमिवेश्वरः ||२-६५-१३ (१३८७२)
तस्व भीमस्य भीष्मेण वार्यमाणस्य भारत.
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ||२-६५-१४ (१३८७३)
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः.
समुद्वृत्तो घनापाये वेलामिव महोदधिः ||२-६५-१५ (१३८७४)
शिशुपालस्तु सङ्क्रुद्धे भीमसेने जनाधिप.
नाकम्पत तदा वीरः पौरुषे व्यवस्थितः ||२-६५-१६ (१३८७५)
उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः.
न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा ||२-६५-१७ (१३८७६)
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान्.
भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ||२-६५-१८ (१३८७७)
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपः.
मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना ||२-६५-१९ (१३८७८)
ततश्चेदिपतेर्वाक्यं श्रुत्वा तत्कुरुसत्तमः.
भीमसेनमुवाचेदं भीष्मे मतिमतां वरः ||२-६५-२० (१३८७९)
' नैषा चेदिपतेर्बुद्धिर्यत्त्वामाह्वयतेऽच्युतम्.
भीमसेन महाबाहो कृष्णस्यैव विनिश्चयः' ||||२-६५-२१ (१३८८०)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि
पञ्चषष्टितमोऽध्यायः ||६५. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-६५-१३ महासेन कार्तिकयम् ||
सभापर्व -अध्याय ०६६
||श्रीः ||
२. ६६. अध्यायः ६६
Mahabharata -Sabha Parva -Chapter Topics
भीष्मेण शिशुपालवृत्तान्तकथनपूर्वकं स्वेन भीमनिषेधने
स्वाभिप्रायाविष्करणम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच ||
चेदिराजकुले जातख्यक्ष एष चतुर्भुजः.
रासभारावसदृशं ररास च ननाद च ||२-६६-१ (१३८८१)
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ.
वैकृतं तस्यत तौ दृष्ट्वा त्यागायाकुरुतां मतिम् ||२-६६-२ (१३८८२)
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम्.
चिन्तासंमूढहृदयं वागुवाचाशरीरेणी ||२-६६-३ (१३८८३)
एष ते नृपते पुत्रः श्रीमाञ्जातो बलाधिकः.
तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ||२-६६-४ (१३८८४)
न च वै तस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः.
यश्च शस्त्रेण हन्ताऽस्य स चोत्पन्नो नराधिप ||२-६६-५ (१३८८५)
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः.
पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत् ||२-६६-६ (१३८८६)
येनेदमीरितं वाक्यं ममैतं तनयं प्रति.
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ||२-६६-७ (१३८८७)
याथातथ्येन भगवान्देवो वा यदि वेतरः.
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति ||२-६६-८ (१३८८८)
अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः.
यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ ||२-६६-९ (१३८८९)
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ.
तृतीयमेतद्बालस्य ललाटस्थं तु लोचनम् ||२-६६-१० (१३८९०)
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति.
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् ||२-६६-११ (१३८९१)
पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन्दिदृक्षवः.
तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः ||२-६६-१२ (१३८९२)
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा.
एवं राजसहस्राणा पृथक्त्वेन यथाक्रमम् ||२-६६-१३ (१३८९३)
शिशुरङ्के समारूढो न तत्प्राय निदर्शनम्.
एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ ||२-६६-१४ (१३८९४)
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ.
यादवौ यादवीं द्रुष्टुं स्वसारं तौ पितुस्तदा ||२-६६-१५ (१३८९५)
अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपं च ताम्.
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ||२-६६-१६ (१३८९६)
साऽभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः.
पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् ||२-६६-१७ (१३८९७)
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ.
पेततुस्तच्च नयनं न्यमज्जत ललाटजम् ||२-६६-१८ (१३८९८)
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत.
ददस्व मे वरं कृष्ण भयार्ताया महाभुज ||२-६६-१९ (१३८९९)
त्वं ह्यार्तानां समाश्वासो भीतानामभयप्रदः.
एवमुक्तस्ततः कृष्णः सोऽब्रवीद्यदुनन्दनः ||२-६६-२० (१३९००)
मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव.
ददामि कं वरं किं च करवाणि पितृष्वसः ||२-६६-२१ (१३९०१)
शक्यं वा यदि वाऽशक्यं करिष्याणि वचस्तव.
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् ||२-६६-२२ (१३९०२)
शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल.
मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो ||२-६६-२३ (१३९०३)
कृष्ण उवाच. २-६६-२४क्ष् (१४९०)
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः.
पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः ||२-६६-२४ (१३९०४)
भीष्म उवाच. २-६६-२५क्ष् (१४९१)
' स जानन्नात्मनो मृत्युं कृष्णं यदुसुखावहम्' .
एवमेष नृपः पापः शिशुपाः सुमन्दधीः.
त्वां समाह्वयते वीर गोविन्दवरदर्पितः ||||२-६६-२५ (१३९०५)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि
षट्षष्टितमोऽध्यायः ||६६ ||
सभापर्व -अध्याय ०६७
||श्रीः ||
२. ६७. अध्यायः ६७
Mahabharata -Sabha Parva -Chapter Topics
शिशुपालेन राज्ञां प्रशंसनपूर्वकं गर्हितेन भीष्मेण राज्ञां
तिरस्करणादिकम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
भीष्म उवाच ||
नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम्.
नूनमेव जगद्भर्तुः कृष्णस्यैव विनिश्चयः. २-६७-१ (१३९०६)
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः.
क्षेप्तुं कालपरीतात्मा यथैष कुलपांसनः ||२-६७-२ (१३९०७)
एष ह्यस्य महाबाहुस्तेर्जोशश्च हरेर्ध्रुवम्.
तमेव पुनरादातुं कुरुतेऽत्र मतिं हरिः ||२-६७-३ (१३९०८)
येनैष कुरुशार्दूल शार्दूल इव चेदिराट्.
गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ||२-६७-४ (१३९०९)
वैशम्पायन उवाच ||२-६७-५क्ष् (१४९२)
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा.
उवाच चैन सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम् ||२-६७-५ (१३९१०)
शिशुपाल उवाच ||२-६७-६क्ष् (१४९३)
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः.
यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ||२-६७-६ (१३९११)
संस्तवे चमनो भीष्म परेषां रमते यदि.
तदा संस्तुहि राज्ञस्त्वमिमं हित्वा जनार्दनम् ||२-६७-७ (१३९१२)
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम्.
जायमानेन येनेयभवद्दारिता मही ||२-६७-८ (१३९१३)
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले.
स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ||२-६७-९ (१३९१४)
यस्येमे कुण्डले दिव्ये सहजे देवनिर्मिते.
कवचं च महाबाहो बालार्कसदृशप्रभम् ||२-६७-१० (१३९१५)
वासवप्रतिमो येन जरासन्धोऽतिदुर्जयः.
विजितो बाहुयुद्धेन देहभेदं च लम्भितः ||२-६७-११ (१३९१६)
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ.
स्तुहि स्तुत्यावुभौ भीष्म सततं द्विजसत्तमौ ||२-६७-१२ (१३९१७)
ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम्.
इमां वसुमतीं कुर्यान्निः शेषामिति मे मतिः ||२-६७-१३ (१३९१८)
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम्.
नाश्वत्थाम्नः समं भीष्म न च तौ स्तोतुमिच्छसि ||२-६७-१४ (१३९१९)
पृथिव्यां सागरान्तायां यो वैप्रतिसमो भवेत्.
दुर्योधनं त्वं राजेन्द्रमतिक्रम्य महाभुजम् ||२-६७-१५ (१३९२०)
जयद्रथं च राजानं कृतास्त्रं दृढविक्रमम्.
द्रुमं किम्पुरुषाचार्यं लोके प्रथितविक्रमम्.
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् ||२-६७-१६ (१३९२१)
वृद्धं च भरताचार्यं तथा शारद्वतं कृपम्.
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् ||२-६७-१७ (१३९२२)
धनुर्धराणां प्रवरं रुक्मिणं पुरुषोत्तमम्.
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् ||२-६७-१८ (१३९२३)
भीष्मकं च महावीर्यं दन्तवक्त्रं च भूमिपम्.
भगदत्तं यूपकेथु जयत्सेनं च मागधम् ||२-६७-१९ (१३९२४)
विराटद्रुपदौ चोभौ शकुनिं च बहद्बलम्.
विन्दानुविन्दावावन्त्यौ पाण्ड्यं श्वेतमथोत्तमम् ||२-६७-२० (१३९२५)
शङ्खं च सुमहाभागं वृषसेनं च मानिनम्.
एकलव्यं च विक्रान्तं कालिङ्गं च महारथम् ||२-६७-२१ (१३९२६)
अतिक्रम्य महावीर्यं किं प्रशंसति केशवम्.
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान्.
स्तवाय यदि ते बुद्धिर्वर्तते भीष्म वसुधाधिपान्. २-६७-२२ (१३९२७)
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप.
पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ||२-६७-२३ (१३९२८)
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः.
अनाचरितमार्याणामिति ते भीष्म न श्रुतम् ||२-६७-२४ (१३९२९)
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः.
केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ||२-६७-२५ (१३९३०)
कथं भोजस्य पुरुषे वत्सपाले दुरात्मनि.
समावेशयसे सर्वं जगत्केवलकाम्यया ||२-६७-२६ (१३९३१)
अथ चैषा न ते बुद्धिः प्रकृतिं याति भारत.
मयैव कथितं पूर्वं कुलिङ्गशकुनिर्यथा ||२-६७-२७ (१३९३२)
कुलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे.
भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ||२-६७-२८ (१३९३३)
मा साहसमितीदं सा सततं वाशते किल.
साहसं चात्मनातीव चरन्ती नावबुध्यते ||२-६७-२९ (१३९३४)
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः.
दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ||२-६७-३० (१३९३५)
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम्.
तद्वत्त्वमप्यधर्मिष्ठ सदा वाचः प्रभाषसे ||२-६७-३१ (१३९३६)
इच्छतां भूमिपालानां भीष्म जीवस्यसंशयम्.
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ||२-६७-३२ (१३९३७)
वैशम्पायन उवाच ||२-६७-३३क्ष् (१४९४)
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः.
उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ||२-६७-३३ (१३९३८)
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम्.
सोऽहं न गणयाम्येतांस्तृणेनापि नराधिपान् ||२-६७-३४ (१३९३९)
एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुशुर्नृपाः.
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ||२-६७-३५ (१३९४०)
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य यद्वचः.
पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ||२-६७-३६ (१३९४१)
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपाः.
सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ||२-६७-३७ (१३९४२)
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः.
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ||२-६७-३८ (१३९४३)
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये.
यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ||२-६७-३९ (१३९४४)
पशुवद्घातनं वा मे दहनं वा कटाग्निना.
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ||२-६७-४० (१३९४५)
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः.
यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् ||२-६७-४१ (१३९४६)
कृष्णमाह्वयतामद्य युद्धे चक्रगदाधरम्.
यादवस्यैव देवस्य देहं विशतु पातितः ||||२-६७-४२ (१३९४७)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि
सप्तषष्टितमोऽध्यायः ||६७ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-६७-१५ वैप्रतिसमः विगतः प्रतिसमो यस्य स तथा | स्वार्थे
तद्धितः. अतुल इत्यर्थः ||
२-६७-२७ कुलिङ्गशकुनिरिति स्त्रीपक्षिविशेषः ||
२-६७-३७ कटाग्निना कक्षाग्निना ||
सभापर्व -अध्याय ०६८
||श्रीः ||
२. ६८. अध्यायः ६८
Mahabharata -Sabha Parva -Chapter Topics
भीष्मवाक्यात्कुपितेन शशुपालेन राज्ञः सज्ञाह्य
युयुत्सया कृष्णस्याह्वानम् ||१. . कृष्णेन स्वस्मिन्
शिशुपालकृतापराधान्विश्राव्य विभीषितानां राज्ञां पलायनम
||२. . अपगतेषु राजसु शिशुपालस्य एकाकिनः कृष्णं प्रति युद्धाय
गमनम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
वचः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः.
युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ||२-६८-१ (१३९४८)
आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन.
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ||२-६८-२ (१३९४९)
सह त्वया हि मे वध्याः सर्वथा कृष्ण पाण्डवाः.
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ||२-६८-३ (१३९५०)
ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम्.
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः ||२-६८-४ (१३९५१)
इत्युक्त्वा राजशार्दूल ' शार्दूल इव नादयन्.
पश्यतां सर्वभूतानां शिशुपालः प्रतापवान् ||२-६८-५ (१३९५२)
स रणायैव सङ्क्रुद्धः सन्नद्धः सर्वराजभिः.
सुनीथः प्रययौ क्षिप्रं पार्थयज्ञजिघांसया ||२-६८-६ (१३९५३)
ततश्चक्रगदापाणिः केशवः केशिहा हरिः.
सध्वजं रथमास्थाय दारुकेण सुसत्कृतम्.
भीष्मेण दत्तहस्तोऽसावारुहोह रथोत्तमम् ||२-६८-७ (१३९५४)
तेन पापस्वभावेन कोपितान्सर्वपार्थिवान्.
आससाद रणे कृष्णः सज्जितैकरथः स्थितः ||२-६८-८ (१३९५५)
ततः पुष्करपत्राक्षं तार्क्ष्यध्वजरथे स्थितम्.
दिवाकरमिवोद्यन्तं ददृशुः सर्वपार्थिवाः ||२-६८-९ (१३९५६)
आरोपयन्तं ज्यां कृष्णं प्रतपन्तमिवौजसा.
स्थितं पुष्परथे दिव्ये पुष्पकेतुमिवापरम् ||२-६८-१० (१३९५७)
दृष्ट्वा कृष्णं तथा यान्तं प्रतपन्तमिवौजसा.
यथार्हं केशवे वृत्तिमवशाः प्रतिपेदिरे ||२-६८-११ (१३९५८)
तानुवाच महाबाहुर्महाऽसुरनिबर्हणः.
वृष्णिवीरस्तदा राजन्सान्त्वयन्परवीरहा ||२-६८-१२ (१३९५९)
श्रीभगवानुवाच ||२-६८-१३क्ष् (१४९५)
अपेत सबलाः सर्व आस्वस्ता मम शासनात्.
मा दृष्टो दूषयेत्पाप एष वः सर्वपार्थिपाः ||२-६८-१३ (१३९६०)
एष नः शत्रुरत्यन्तमेष वृष्णिविमर्दनः.
सात्वतां सात्वतीपुत्रो वैरं चरति शाश्वतम्' ||२-६८-१४ (१३९६१)
प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत्.
अदहद्द्वारकामेष स्वस्त्रीयः सन्नराधिपाः ||२-६८-१५ (१३९६२)
क्रीडतो भोजराजस्य एव रैवतके गिरौ.
हत्वा बध्वा च तान्सार्वानुपायात्स्वपुरं पुरा ||२-६८-१६ (१३९६३)
अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम्.
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ||२-६८-१७ (१३९६४)
सौवीरान्प्रतियातां च बभ्रोरेष तपस्विनः.
भार्यामभ्यहरन्मोहादकामां तामितो गताम् ||२-६८-१८ (१३९६५)
एष मायाप्रतिच्छन्नः कारूशार्थे तपस्विनीम्.
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ||२-६८-१९ (१३९६६)
वृष्णिदारान्विलाप्यैव हत्वा च कुकुरान्धकान्.
पापाबुद्धिरुपातिष्ठत्स प्रविश्य ससम्भ्रमम् ||२-६८-२० (१३९६७)
विशालराज्ञो दुहितां मम पित्रा वृतां सतीम्.
अनेन कृत्वा सन्धानं करूशेन जिगीषया ||२-६८-२१ (१३९६८)
जरासन्धं समाश्रित्य कृतवान्विप्रियाणि मे.
तानि सर्वाणि सङ्ख्यातुं न शक्नोमि नराधिपाः ||२-६८-२२ (१३९६९)
एवमेतदपर्यन्तमेष वृष्णिषु किल्बिषी.
अस्माकमयमारम्भांश्चकार परभानृजुः ||२-६८-२३ (१३९७०)
शतं क्षन्तव्यमस्माभिर्वधार्हाणां किलागसाम्.
बद्धोऽस्मि समयैर्घोरैर्मातुरस्यैव सङ्गरे ||२-६८-२४ (१३९७१)
तत्तथा शतमस्माकं क्षान्तं क्षयकरं मया.
द्वौ तु मे वधकालेऽस्मिन्न क्षन्तव्यौ कथञ्चन ||२-६८-२५ (१३९७२)
यज्ञविघ्नकरं हन्यां पाण्डवानां च दुर्हृदम्.
इति मे वर्तते भावस्तमतीयां कथं न्वहम् ||२-६८-२६ (१३९७३)
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम्.
दिष्ट्या हीदं सर्वराज्ञां सन्निधावद्य वर्तते ||२-६८-२७ (१३९७४)
पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम्.
कृतानि तु परोक्षं मे यानि तानि निबोधत ||२-६८-२८ (१३९७५)
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम्.
अवलेपाद्वधार्हस्य समग्रे राजमण्डले ||२-६८-२९ (१३९७६)
रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः.
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतीमिव ||२-६८-३० (१३९७७)
वैशम्पायन उवाच ||२-६८-३१क्ष् (१४९६)
एवमादि ततः सर्वे सहितास्ते नराधिपाः.
गर्हणं शिशुपालस्य वासुदेवेन विश्रुतः ||२-६८-३१ (१३९७८)
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन्.
रथोपस्थे धनुष्मन्तं शरान्सन्दधतं रुषा ||२-६८-३२ (१३९७९)
श्रुत्वाऽपि च विलोक्याशु दुद्रुवुः सर्वपार्थिवाः.
विहाय परमोद्विग्नाश्चेदिराजं चमूमुखे ||२-६८-३३ (१३९८०)
तस्य तद्वचनं श्रुत्वा शिशुपालः प्रतापवान्.
जहास स्वनवद्धासं वाक्यं चेदमुवाच ह ||२-६८-३४ (१३९८१)
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन्.
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ||२-६८-३५ (१३९८२)
मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत्.
अन्यपूर्वा स्त्रियं जातु त्वदन्यो मधूसूदन ||२-६८-३६ (१३९८३)
क्षमा वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम.
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यते ||२-६८-३७ (१३९८४)
' वैशम्पायन उवाच ||२-६८-३८क्ष् (१४९७)
स तांस्तु विद्रुतान्सर्वान्साश्वपत्तिरथद्विपान्.
कृष्णतेजोहतान्सर्वान्समीक्ष्य वसुधाधिपान् ||२-६८-३८ (१३९८५)
शिशुपालो रथेनैकः प्रत्युपायात्स केशवम्.
रुषा ताम्रेक्षणो राजञ्छलभः पावकं यथा ||||२-६८-३९ (१३९८६)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि
अष्टषष्टितमोऽध्यायः ||६८. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-६८-३१ विश्रुताः श्राविताः ||
सभापर्व -अध्याय ०६९
||श्रीः ||
२. ६९. अध्यायः ६९
Mahabharata -Sabha Parva -Chapter Topics
शिशुपाले सन्नद्धे सति उत्पातदर्शनेन युधिष्ठिरस्य प्रश्ने
नारदेन तत्तदुत पातानां विशिष्य फलकथनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ततो युद्धाय संनद्धं चेदिराजं युधिष्ठिरः.
दृष्ट्वा मतिमतां श्रेष्ठो नारदं समुवाच ह ||२-६९-१ (१३९८७)
युधिष्ठिर उवाच ||२-६९-२क्ष् (१४९८)
अन्तरिक्षे च भूमौ च तेऽस्त्यविदितं क्वचित्.
यानि राजविनाशाय भौमानि च खगानि च ||२-६९-२ (१३९८८)
निमित्तानीह जायन्ते उत्पाताश्च पृथग्विधाः.
एतदित्छामि कार्त्स्न्येन श्रोतुं त्वत्तो महामुने ||२-६९-३ (१३९८९)
वैशम्पायन उवाच. २-६९-४क्ष् (१४९९)
इत्येवं मितमान्विप्रः कुरुराजस्य धीमतः.
पृच्छतः सर्वमव्यग्रमाचचक्षे महायशाः ||२-६९-४ (१३९९०)
नारद उवाच ||२-६९-५क्ष् (१५००)
पराक्रमं च मार्गं च संनिपातं समुच्छ्रयम्.
आरोहणं कुरुश्रेष्ठ अन्योन्यं प्रतिसर्पणम् ||२-६९-५ (१३९९१)
पश्मीनां व्यतिसंसर्गं व्यायामं वृत्तिपीडनम्.
दर्शनादर्शनं चैव अदृश्यानां च दर्शनम् ||२-६९-६ (१३९९२)
हानिं वृद्धिं च ह्रासं च वर्णस्थानं बलाबलम्.
सर्वमेतत्परीक्षेत ग्रहाणां ग्रहकोविदः ||२-६९-७ (१३९९३)
भौमाः पूर्वं प्रवर्तन्ते खेचराश्च ततः परम्.
उत्पद्यन्ते च लोकेऽस्मिन्नुत्पाता देवनिर्मिताः ||२-६९-८ (१३९९४)
यदा तु सर्वभूतानां छाया न परिवर्तते.
अपरेण गते सूर्ये तत्पराभवलक्षणम् ||२-६९-९ (१३९९५)
अच्छाये विमलच्छाया प्रतिच्छायेव दृश्यते.
यत्र चैत्यकवृक्षाणां तत्र विद्यान्महद्भयम् ||२-६९-१० (१३९९६)
शीर्णपर्णप्रवालाश्च शुष्कपर्णाश्च चैत्यकाः.
अपभ्रष्टप्रवालाश्च तत्राभावं विनिर्दिशेत् ||२-६९-११ (१३९९७)
स्निग्धपर्णप्रवालाश्च दृश्यन्ते यत्र चैत्यकाः.
ईहमानाश्च वृक्षाश्च भावस्तत्र न संशयटः ||२-६९-१२ (१३९९८)
पुष्पे पुष्पं प्रजायेत फले वा फलमाश्रितम्.
राजा वा राजमात्रो वा मरणायोपपद्यते ||२-६९-१३ (१३९९९)
प्रावृट्छरदि हेमन्ते वसन्ते वापि सर्वशः.
आकालिकं पुष्पफलं राष्ट्रक्षोभं विनिर्दिशेत् ||२-६९-१४ (१४०००)
नदीनां स्त्रोतसोऽकाले द्योतयन्ति महाभयम्.
वनस्पतिः पूज्यमानः पूजितोऽपूजितोऽपि वा ||२-६९-१५ (१४००१)
यदा भज्येत वातेन भिद्यते नमितोऽपि वा.
अग्निवायुभयं विद्याच्छ्रेष्ठो वापि विनश्यति ||२-६९-१६ (१४००२)
दिशः सर्वाश्च दीप्यन्ते जायन्ते राजविभ्रमाः.
भिद्यमानो यदा वृक्षो निनदेच्चापि पातितः.
सह राष्ट्रं च पतितं नतं वृक्षं प्रपातयेत् ||२-६९-१७ (१४००३)
अथैनं छेदयेत्कश्चित्प्रतिक्रुद्धो वनस्पतिः.
छेत्ता भेत्ता पतिश्चैव क्षिप्रमेव नशिष्यति ||२-६९-१८ (१४००४)
देवतानां च पतनं मष्टपानां च पातनम्.
अचलानां प्रकम्पश्च तत्पराभवलक्षणम् ||२-६९-१९ (१४००५)
निशि चेन्द्रधनुर्दृष्टं ततोपि च महद्भयम्.
तद्द्रष्टरेव भीतिः स्यान्नान्येषां भरतर्षभ ||२-६९-२० (१४००६)
रात्राविन्द्रधनुर्दृष्ट्वा तद्राष्ट्रं परिवर्जयेत् ||२-६९-२१ (१४००७)
अर्चा यत्र प्रनृत्यन्त नदन्ति च हसन्ति च.
उन्मीलन्ति निमीलन्ति राष्ट्रक्षोभं विनिर्दिशेत् ||२-६९-२२ (१४००८)
शिला यदि प्रसिञ्चन्ति स्नेहांश्चोदकसम्भवान्.
अन्यद्वा विकृतं किञ्चित्तद्भयस्य निदर्शनम् ||२-६९-२३ (१४००९)
म्रियन्ते वा महामात्रा राजा सपरिवारकः.
पुरस्य या भवेद्व्याधी राष्ट्रे देशे च विभ्रमाः ||२-६९-२४ (१४०१०)
देवतानां यदाऽऽवासे राज्ञां वा यत्र वेश्मनि.
भाण्डागारायुधागारे निविशेत यदा मधु ||२-६९-२५ (१४०११)
सर्वं तदा भवेत्स्थानं हन्यमानं बलीयसा.
आगन्तुकं भयं तत्र भवेदित्येव निर्दिशेत् ||२-६९-२६ (१४०१२)
पादपश्चैव यो यत्र रक्तं स्रवति शोणितम्.
दन्ताग्रात्कुञ्जरो वापि शृङ्गाद्वा वृषभस्तथा ||२-६९-२७ (१४०१३)
पादपाद्राष्ट्रिविभ्रंशः कुञ्जराद्राजविभ्रमः.
गोब्राह्मणविनाशः स्याद्वृवभस्येति निर्दिशेत् ||२-६९-२८ (१४०१४)
छत्रं नरपतेर्यत्र निपतेत्पृथिवीतले.
सराष्ट्रो नृपती राजन्क्षिप्रमेव विनश्यति ||२-६९-२९ (१४०१५)
देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि.
विकृतं यदि दृश्येत नागावासेषु वा पुनः ||२-६९-३० (१४०१६)
तस्य देशस्य पीडा स्याद्राज्ञो जनपदस्य वा.
अनावृष्टिभयं घोरमतिदुर्भिक्षमादिशेत् ||२-६९-३१ (१४०१७)
अर्चाया बाहुभङ्गेन गृहस्थानां भयं भवेत्.
भग्ने प्रहरणे विद्यात्सेनापतिविनाशनम् ||२-६९-३२ (१४०१८)
आगन्तुका तु प्रतिमा स्थानं यत्र न विन्दति.
जभ्यन्तरेण षण्मासाद्राजा त्यजति तत्पुरम् ||२-६९-३३ (१४०१९)
प्रदीर्यते मही यत्र विनदत्यपि पात्यते.
म्रियते तत्र राजा च तत्र राष्ट्रं विनश्यति ||२-६९-३४ (१४०२०)
एणीपदान्वा सर्पान्वा डुण्डुभानथ दीप्यकान्.
मण्डूको ग्रसते यत्र तत्र राजा विनश्यति ||२-६९-३५ (१४०२१)
अभिन्नं वाप्यपक्वं वा यत्रान्नमुपचीयते.
जीर्यन्ते वा म्रियन्ते वा तदन्नं नोपभुञ्जते ||२-६९-३६ (१४०२२)
उदपाने च यत्रापो विवर्धन्ते युधिष्ठिर.
स्थावरेषु प्रवर्तन्ते निर्गच्छेन्न पुनस्ततः ||२-६९-३७ (१४०२३)
अपादं वा त्रिपादं वा द्विशीर्षं वा चतुर्भुजम्.
स्त्रियो यत्र प्रसूयन्ते ब्रूयात्तत्र पराभवम् ||२-६९-३८ (१४०२४)
अजैडकाः स्त्रियो गावो ये चान्ये च वियोनयः.
विकृतानि प्रजायन्ते तत्र तत्र पराभवः ||२-६९-३९ (१४०२५)
नदी यत्र प्रतिस्रोता आवहेत्कलुषोदकम्.
दिशश्च न प्रकाशन्ते तत्पराभवलक्षणम् ||२-६९-४० (१४०२६)
एतानि च निमित्तानि यानि चान्यानि भारत.
केशवादेव जायन्ते भौमानि च खगानि च ||२-६९-४१ (१४०२७)
चन्द्रादित्यौ ग्रहाश्चैव नक्षत्राणि च भारत.
वायुरग्निस्तथा चापः पृथिवी च जनार्दनात् ||२-६९-४२ (१४०२८)
यस्य देशस्य हानिं वा वृद्धिं वा कर्तुमिच्छति.
तस्मिन्देशे निमित्तानि तानि तानि करोत्ययम् ||२-६९-४३ (१४०२९)
सोसौ चेदिपतेस्तात विनाशं समुपस्थितम्.
निवेदयति गोविन्दः स्वैरुपायैर्न संशयः ||२-६९-४४ (१४०३०)
इयं प्रचलिता भूमिरशिवा वान्ति मारुताः.
राहुश्चाप्यपतत्सोममपर्वणि विशाम्पते ||२-६९-४५ (१४०३१)
सनिर्घाताः पतन्त्युल्कास्तमः सञ्जायते भृशम्.
चेदिराजविनाशाय हरिरेष विजृम्भते ||२-६९-४६ (१४०३२)
वैशम्पायन उवाच ||२-६९-४७क्ष् (१५०१)
एवमुक्त्वा तु देवर्षिर्नारदो विरराम ह.
ताभ्यां पुरुषसिंहाभ्यां तस्मिन्युद्ध उपस्थिते. २-६९-४७ (१४०३३)
ददृशुर्भूमिपालास्ते घोरानौत्पातिकान्बहून् ||
तत्र वै दृश्यमानानां दिक्षु सर्वासु भारत. २-६९-४८ (१४०३४)
अश्रूयन्त तदा राजञ्छिवानामशिवा रवाः ||
ररास च मही कृत्स्ना सवृक्षवनपर्वता. २-६९-४९ (१४०३५)
अपर्वणि च मध्याह्ने मूर्यं स्वर्भानुरग्रसत् ||
ध्वजाग्रे चेदिराजस्य सर्वरत्नपरिष्कृते. २-६९-५० (१४०३६)
अपतत्खाच्च्युतो गृध्रस्तीक्ष्णतुण्डः परन्तप ||
आरण्यैः सहसा हृष्टा ग्राम्याश्च मृगपक्षिणः. २-६९-५१ (१४०३७)
चुक्रुशुर्भैरवं तत्र तस्मिन्युद्ध उपस्थिते ||
एवमादिनि घोराणि भौमानि च स्वगानि च. २-६९-५२ (१४०३८)
औत्पातिकान्यदृश्यन्त सङ्क्रुद्धे शार्ङ्गधन्वनि ||||२-६९-५३ (१४०३९)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि
एकोनसप्ततितमोऽध्यायः ||६९ ||
सभापर्व -अध्याय ०७०
||श्रीः ||
२. ७०. अध्यायः ७०
Mahabharata -Sabha Parva -Chapter Topics
कृष्णशिशुपालयोर्युद्धवर्णनम् ||१. . शिशुपालवधः ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ततो विष्फारयन्राजा महच्चैदिपतिर्धनुः.
अभियास्यन्हृषीकेशमुवाच मधुसूदनम् ||२-७०-१ (१४०४०)
एकस्त्वमसि मे शत्रुस्तत्त्वां हत्वाऽद्य माधव.
ततः सागरपर्यन्तां पालयिष्यामि मेदिनीम् ||२-७०-२ (१४०४१)
द्वैरथं काङ्क्षितं यद्वै तदिदं पर्युपस्थितम्.
चिरस्य वत मे दिष्ट्या वासुदेव सह त्वया.
अद्य त्वां निहनिष्यामि भीष्मं च सह पाण्डवैः ||२-७०-३ (१४०४२)
वैशम्पायन उवाच. २-७०-४क्ष् (१५०२)
एवमुक्त्वा स तं बाणैर्निशितैरत्ततेजनैः.
विव्याध युधि तीक्ष्णाग्रैश्चेदिराड्यपुङ्गवम्? २-७०-४ (१४०४३)
कङ्कपत्रच्छदा बाणाश्चेदिराजधनुश्च्युताः.
विविशुस्ते तदा कृष्णं भुजङ्गा इव पर्वतम्? २-७०-५ (१४०४४)
नाददानस्य चैद्यस्य शरानत्यस्यतोपि वा.
दधृशुर्विवरं केचिद्गतिं वायोरिवाम्बरे? २-७०-६ (१४०४५)
चेदिराजमहामेधः शरजालाम्बुमांस्तदा.
अभ्यवर्षद्धृषीकेशं पयोद इव पर्वतम्? २-७०-७ (१४०४६)
ततः शार्ङ्गममित्रघ्नः कृत्वा सशरमच्युतः.
आबभाषे महबाहुः सुनीथं परवीरहा ||२-७०-८ (१४०४७)
अयं त्वं भामकस्तीक्ष्णश्चेदिराज महाशरः.
भेत्तुमर्हति वेगेन महाशनिरिवाचलम् ||२-७०-९ (१४०४८)
वैशम्पायन उवाच. २-७०-१०क्ष् (१५०३)
एवं ब्रुवति गोविन्दे ततश्चेदिपतिः पुनः.
मुमोच निशितानन्यान्कृष्णं प्रति शरान्बहून् ||२-७०-१० (१४०४९)
अथ बाणार्दितः कृष्णः शार्ङ्गमायम्य दीप्तिमान्.
मुमोच निशितान्बाणाञ्छतशोथ सहस्रशः ||२-७०-११ (१४०५०)
ताञ्छरांस्तु स चिच्छेद शरवर्षैस्तु चेदिराट्.
षड्भिश्चान्यैर्जघानाशु केशवं चेदिपुङ्गवः ||२-७०-१२ (१४०५१)
ततोऽस्रं सहसा कृष्णः प्रमुमोच जगद्गुरुः.
अस्त्रेण तन्महाबाहुर्वारयामास चेदिराट् ||२-७०-१३ (१४०५२)
ततः शतसहस्रेण शराणां नतपर्वणाम्.
सर्वतः समवाकीर्य शौरिं दामोदरं तदा ||२-७०-१४ (१४०५३)
ननाद बलवान्क्रुद्धः शिशुपालः प्रतापवान्.
इदं चोवाच संरब्धः केशवं परवीरहा ||२-७०-१५ (१४०५४)
शिशुपाल उवाच ||२-७०-१६क्ष् (१५०४)
अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे.
हत्वा त्वां समुतामात्यं पाण्डवांश्च तरस्विनः ||२-७०-१६ (१४०५५)
अनृण्यमद्यय यास्यामि जरासन्धस्य धीमतः.
कंसस्य केशिनश्चैव नरकस्य तथैव ह ||२-७०-१७ (१४०५६)
वैशम्पायन उवाच ||२-७०-१८क्ष् (१५०५)
इत्युक्त्वा क्रोधताम्राक्षः शिशुपालो जनार्दनम्.
अदृश्यं शरवर्षेण सर्वतः स चकार ह ||२-७०-१८ (१४०५७)
ततोऽस्त्रेणैव चान्योन्यं निकृत्य च शरान्बहून्.
शरवर्षैस्तदा चैद्यमन्तर्धातुं प्रचक्रमे ||२-७०-१९ (१४०५८)
अन्तर्धानगतौ वीरौ शुशुभाते महारथौ.
तौ दृष्ट्वा सर्वभूतानि साधुसाध्वित्यपूजयन् ||२-७०-२० (१४०५९)
न दृष्टपूर्वमस्माभिर्युद्धमीदृशकं पुरा.
ततः कृष्णं जघानाशु शुशुपालस्त्रिभिः शरैः ||२-७०-२१ (१४०६०)
कृष्णोऽपि बाणैर्विव्याध सुनीथं पञ्चभिर्युधि.
ततः सुनीथं सप्तत्या नाराचैर्दयद्बली. २-७०-२२ (१४०६१)
ततोऽतिविद्धः कृष्णेन सुनीथः क्रोधमूर्छितः.
विव्याध निशितैर्बाणैर्वासुदेवं स्तनान्तरे ||२-७०-२३ (१४०६२)
पुनः कृष्णं त्रिभिर्विद्ध्वा ननादावसरे नृपः.
ततोऽतिदारुणं युद्धं सहसा चक्रतुस्तदा ||२-७०-२४ (१४०६३)
नौ नखैरिव शार्दूलौ दन्तैरिव महागजौ.
दंष्ट्राभिरिव पञ्चास्यौ चरणैरिव कुक्कुटौ ||२-७०-२५ (१४०६४)
दारयेतां शरैस्तीक्ष्णैरन्योन्यं युधि तावुभौ.
ततो मुमुचतुः क्रुद्धौ शरवर्षमनुत्तमम् ||२-७०-२६ (१४०६५)
शरैरेव शराञ्छित्वा तावुभौ पुरुषर्षभौ.
चक्रातेऽस्त्रमयं युद्धं घोरं तदतिमानुषम् ||२-७०-२७ (१४०६६)
आग्नेयमस्त्रं मुमुचे शिशुपालः प्रतापवान्.
वारुणास्त्रेण तच्छ्रीघ्रं नाशयामास केशवः ||२-७०-२८ (१४०६७)
कौबेरमस्त्रं सहसा चेदिराट् प्रमुमोच ह. २-७०-२९ कौबेरणैव
सहसाऽनाशयत्तं जगत्प्रभुः ||२-७०-२९ (१४०६८)
याम्यमस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः.
याम्येनैवास्त्रयोगेन याम्यमस्त्रं व्यनाशयत् ||२-७०-३० (१४०६९)
गान्धर्वेण च गान्धर्वं मानवं मानवेन च.
वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः ||२-७०-३१ (१४०७०)
ऐन्द्रमैन्द्रेण भगवान्वैष्णवेन च वैष्णवम्.
एवमस्त्राणि कुर्वाणौ युयुधाते महाबलौ ||२-७०-३२ (१४०७१)
ततो मायां विकुर्वाणो दमगोषसुतो बली.
गदामुसलसंयुक्ताञ्छक्तितोमरसायकान् ||२-७०-३३ (१४०७२)
परश्वथमुसण्डीश्च ववर्ष युधि केशवम्.
अमोघास्त्रेण भगवान्नाशयामास केशिहा ||२-७०-३४ (१४०७३)
शिलावर्षं महाघोरं ववर्ष युधि चेदिराट्.
वज्रास्त्रेणाभिसङ्क्रुद्धश्चूर्णं तदकरोत्प्रभुः ||२-७०-३५ (१४०७४)
जलवर्षं ततो घोरं व्यसजच्चेदिपुङ्गवः.
वायव्यास्त्रेण भगवान्व्याक्षिपच्छतशो हि तत् ||२-७०-३६ (१४०७५)
निहत्य सर्वमायां वै सुनीतस्य जनार्दनः.
स मुहूर्तं चकाराशु द्वन्द्वयुद्धं महारथः ||२-७०-३७ (१४०७६)
स बाणयुद्धं कुर्वाणो भर्त्सयामास चेदिराट्.
दमघोषसुतो धृष्टमुवाच यदुपुङ्गवम् ||२-७०-३८ (१४०७७)
अद्य कृष्णमकृष्णं तु कुर्वन्तु मम सायकाः.
इत्येवमुक्त्वा दुष्टात्मा शरवर्षं जनार्दने ||२-७०-३९ (१४०७८)
मुमोच पुरुषव्याघ्रो घोरं वै चेदिपुङ्गवः.
शरसंङ्कृत्तगात्रस्तु क्षणेन यदुनन्दनः ||२-७०-४० (१४०७९)
रुधिरं परिसुस्राव मदं मत्त इव द्विपः.
न यन्ता न रथो वापि न चाश्वाः पर्वतोपमाः ||२-७०-४१ (१४०८०)
दृश्यन्ते शरसञ्छन्नाः केशवस्य महात्मनः.
केशवं तदवस्थं तु दृष्ट्वा भूतानि चक्रुशुः ||२-७०-४२ (१४०८१)
दारुकस्तु तदा प्राह कृष्णं यादवनन्दनम्.
नेदृशो दृष्टपूर्वो हि सङ्ग्रामो वै पुरा मया ||२-७०-४३ (१४०८२)
स्थातव्यमिति तिष्ठामि त्वत्प्रभावेण माधव.
अन्यथा न च मे प्राणा धरायेयुर्जनार्दन ||२-७०-४४ (१४०८३)
अतः सञ्चिन्त्य गोविन्द क्षिप्रमस्य वधं कुरु.
एवमुक्तस्तु सूतेन केशवो वाक्यमब्रवीत् ||२-७०-४५ (१४०८४)
एष ह्यतिबलो दैत्यो हिरण्यकशिपुः पुरा.
रिपुः सुराणामभवद्वरदानेन गर्वितः ||२-७०-४६ (१४०८५)
तथाऽऽसीद्रावणो नाम राक्षसो ह्यतिवीर्यवान्.
तेनैव बलवीर्येण बलं नागणयन्मम ||२-७०-४७ (१४०८६)
अहं मृत्युश्च भविता काले काले दुरात्मनः.
न भेतव्यं तथा सूत नैष कश्चिन्मयि स्थिते ||२-७०-४८ (१४०८७)
इत्येवमुक्त्वा भगवान्ननर्द गरुडध्वजः.
पाञ्चजन्यं महाशङ्खं पूरयामास केशवः ||२-७०-४९ (१४०८८)
संमोहयित्वा भगवांश्चक्रं दिव्यं समाददे.
चिच्छेद च सुनीथस्य शिरश्चक्रेण संयुगे' ||२-७०-५० (१४०८९)
स पपात महाबाहुर्वज्राहत इवाचलः.
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः ||२-७०-५१ (१४०९०)
उत्पतन्तं महाराज गगनादिव भास्करम्.
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम्.
ववन्दे तत्तदा तेजो विवेश च नराधिप ||२-७०-५२ (१४०९१)
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः.
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ||२-७०-५३ (१४०९२)
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः.
कृष्णेन निहते चैद्ये चचाल न वसुन्धरा ||२-७०-५४ (१४०९३)
ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन.
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ||२-७०-५५ (१४०९४)
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नमर्षिताः.
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ||२-७०-५६ (१४०९५)
रहश्च केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः.
केचिदेव सुसंरब्धा मध्यस्थास्त्वपरेऽभवन् ||२-७०-५७ (१४०९६)
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः.
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः.
शशंसुर्निर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम् ||२-७०-५८
(१४०९७)
' सदेवगन्धर्वगणा राजानो भुवि विश्रुताः.
प्रणामं हि हृषीकेशे प्राकुर्वत महात्मनि ||२-७०-५९ (१४०९८)
ये त्वासुरगणाः पक्षाः सम्भूताः क्षत्रिया इह.
ते निन्दन्ति हृषीकेशं दुरात्मानो गतायुषः ||२-७०-६० (१४०९९)
प्रजापतिगणा ये तु मध्यस्थाश्च महात्मनि.
ब्रह्मर्षयश्च सिद्धाश्च गन्धर्वोरगचारणाः ||२-७०-६१ (१४१००)
ते वै स्तुवन्ति गोविन्दं दिव्यैर्मङ्गलसंयुतैः.
परस्परं च नृत्यन्ति गीतेन विविधेन च.
उपतिष्ठन्ति गोविन्दं प्रीतियुक्ता महात्मनि ||२-७०-६२ (१४१०१)
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः.
ब्राह्मणाश्चापि सुप्रीताः पाण्डवाश्च महाबलाः ||२-७०-६३ (१४१०२)
पाण्डवस्त्वब्रवीद्भातॄन्सत्कारेण महीपतिम्.
दमघोषात्मजं शूरं संस्कारयत मा चिरम् ||२-७०-६४ (१४१०३)
कुरुराजवचः श्रुत्वा भ्रातरस्ते त्वरान्विताः.
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ||२-७०-६५ (१४१०४)
चेदीनामाधिपत्ये च पुत्रं तस्याज्ञया हरेः.
अभ्यषिञ्चत तं पार्थः सहितैर्वसुधाधिपैः ||||२-७०-६६ (१४१०५)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि
सप्ततितमोऽध्यायः ||७०. .
सभापर्व -अध्याय ०७१
||श्रीः ||
२. ७१. अध्यायः ७१
Mahabharata -Sabha Parva -Chapter Topics
विस्तरेण राजसूयवर्णनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ततः प्रववृते यज्ञो धर्मराजस्य धीमतः.
शान्तविघ्नार्हणक्षोभो महर्षिगणसङ्कुलः ||२-७१-१ (१४१०६)
तं तु यज्ञं महाबाहुरासमाप्तेर्जनार्दनः.
ररक्ष भगवाञ्छौरिः शार्ङ्गचक्रगदाधरः ||२-७१-२ (१४१०७)
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः.
हेतुवादान्बहून्प्राहुः परपक्षजिगीषवः ||२-७१-३ (१४१०८)
ददृशुस्ते नृपतयो यज्ञस्य विधिमुत्तमम्.
उपेन्द्रस्येव विहितं सहदेवेन भारत ||२-७१-४ (१४१०९)
तद्यज्ञे न्यवसन्राजन्ब्राह्मणा भृशमुत्सुकाः.
कथयन्तः कथाः पुण्याः पश्यन्तो नटनर्तकान् ||२-७१-५ (१४११०)
ददृशुस्तोरणान्यत्र हेमतालमयानि च.
दीप्तभास्करतुल्यानि प्रदीप्तानीव तेजसा ||२-७१-६ (१४१११)
स यज्ञस्तोरणैस्तत्र ग्रहैर्द्योरिव सम्बभौ.
शय्यासनविहारांश्च सुबहून्रत्नसंवृतान् ||२-७१-७ (१४११२)
घटान्पात्रीकटाहानि कलशानि समन्ततः.
न ते किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः ||२-७१-८ (१४११३)
भुञ्जानानां च विप्राणां स्वादुभोज्यैः पृथग्विधैः.
अनिशं श्रूयते तत्र मुदितानां महात्मनाम् ||२-७१-९ (१४११४)
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति.
एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते तत्र नित्यशः ||२-७१-१० (१४११५)
ओदनानां विकाराणि स्वादूनि च बहूनि च.
विविधआनि च भक्ष्याणि पेयानि मधुराणि च ||२-७१-११ (१४११६)
ददुर्द्विजानां सततं राजप्रेष्या महाध्वरे.
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां तदा ||२-७१-१२ (१४११७)
स्थापितस्तत्र सञ्ज्ञार्थं शङ्खोऽध्मायत नित्यशः.
मुहुर्मुहुः प्रणादस्तु तस्य शङ्खस्य भारत ||२-७१-१३ (१४११८)
उत्तमः श्रूयते शब्दः श्रुत्वा विस्मयमागमन्.
एवं प्रवृत्ते यज्ञे तु तुष्टपुष्टजनायुते ||२-७१-१४ (१४११९)
अन्नस्य बहुशो राजन्नुत्सेधाः पर्वतोपमाः.
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ||२-७१-१५ (१४१२०)
जम्बूद्वीपो हि सकलो नानाजनपदायुतः.
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ||२-७१-१६ (१४१२१)
तत्र राजसहस्राणि पुरुषाणां ततस्ततः.
गृहीत्वा धनमाजग्मुस्तस्य राज्ञो महाक्रतौ ||२-७१-१७ (१४१२२)
राजानः स्रग्विणश्चैव संमृष्टमणिकुण्डलाः.
तान्परीविविषुर्विप्राञ्छतशोऽथ सहस्रशः ||२-७१-१८ (१४१२३)
विविधान्यन्नपानानि लेह्यानि विविधानि च.
तेषां नृपोपभोग्यानि ब्राह्मणेभ्यो ददुः स्म ते ||२-७१-१९ (१४१२४)
नानाविधानि भक्ष्याणि स्वादुपुष्पफलानि च.
गुलानि स्वादुक्षौद्राणि ददुस्ते ब्राह्मणेषु वै ||२-७१-२० (१४१२५)
एतानि सततं भुक्त्वा तस्मिन्यज्ञे द्विजातयः.
परां प्रीतिं ययुः सर्वे मोदमानास्ततस्ततः ||२-७१-२१ (१४१२६)
एवं प्रमुदितं सर्वं बहुशो धनधान्यवत्.
यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं ययुः ||२-७१-२२ (१४१२७)
यथाबद्धूयमानाग्निं राजसूयं महाक्रतुम्.
पाण्डवस्य यथाशास्त्रं जुहुवुः सर्वयाजकाः ||२-७१-२३ (१४१२८)
व्यासधौम्यादयः सर्वे विधिवत्षोडशर्त्विजः.
स्वस्वकर्माणि चक्रुस्ते पाण्डवस्य महाक्रतौ ||२-७१-२४ (१४१२९)
नाषडङ्गविदत्रासीत्सदस्यो नाबहुश्रुतः.
नाव्रतो नानुपाध्यायो न पापो नाक्षमो द्विजः ||२-७१-२५ (१४१३०)
न तत्र कृपणः कश्चिद्दरिद्रो न बभूव ह.
क्षुधितो दुःखितो वापि प्राकृतो वापि मानुषः ||२-७१-२६ (१४१३१)
भोजनं भोजनार्थिभ्यो दापयामास सर्वदा.
सहदेवो महातेजाः सततं राजशासनात् ||२-७१-२७ (१४१३२)
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः.
दिवस दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ||२-७१-२८ (१४१३३)
ब्राह्मणा देवशास्त्रज्ञः कथाश्चक्रुश्च सर्वतः.
रेमिरे च कथान्ते तु सर्वे तस्मिन्महाक्रतौ ||२-७१-२९ (१४१३४)
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः.
आबभासे तदा कीर्णा नक्षत्रैर्द्यौरिवामला ||२-७१-३० (१४१३५)
पाण्डित्यदर्शनार्थाय केचन द्विजसत्तमाः.
तर्कार्थमागताः केचित्केचिद्विद्याभिमानिनः ||२-७१-३१ (१४१३६)
केचिद्दिदृक्षया केचिद्भीत्या राज्ञः प्रतापिनः.
सर्वेऽप्यवभृथस्नाता याजकाः केचन द्विजाः ||२-७१-३२ (१४१३७)
ततो वै हेमयूपांश्च सर्वरत्नसमाचितान्.
शोभार्थं कारयामास सहदेवो महाद्युतिः ||२-७१-३३ (१४१३८)
ददृशुस्तोरणान्यत्र हेमतालमयानि च.
स यज्ञस्तोरणैस्तैश्च ग्रहैर्द्योरिव सम्बभौ ||२-७१-३४ (१४१३९)
तालानां तोरणैर्हैमैर्दान्तैरिव दिशागजैः.
दिक्षु सर्वासु विन्यस्तैस्तेजोभिर्भास्करैर्यथा ||२-७१-३५ (१४१४०)
सकिरीटैर्नृपैश्चैव शुशुभे तत्सदस्तदा.
देवैर्दिव्यैश्च यक्षैश्च उरगैर्दिव्यमानुषैः ||२-७१-३६ (१४१४१)
विद्याधरगणैः कीर्णः पाण्डवस्य महात्मनः.
स राजसूयः शुशुभे धर्मराजस्य धीमतः ||२-७१-३७ (१४१४२)
गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः.
देवैर्मुनिगणैर्यक्षैर्देवलोक इवापरः ||२-७१-३८ (१४१४३)
स किम्पुरुषगीतैश्च किन्नरैरुपशोभितः.
नारदश्च जगौ तत्र तुम्बुरुश्च महाद्युतिः ||२-७१-३९ (१४१४४)
विश्वासुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः.
रमयन्ति स्म तान्सर्वान्यज्ञकर्मान्तरेष्वथ ||२-७१-४० (१४१४५)
तत्र चाप्सरसः सर्वाः सुन्दर्यः प्रियदर्शनाः.
ननृतुश्च जगुश्चात्र नित्यं कर्मान्तरेष्वथ ||२-७१-४१ (१४१४६)
इतिहासपुराणानि आख्यानानि च सर्वशः.
ऊचुर्वै शब्दशास्त्रज्ञा नित्यं कर्मान्तरेष्वथ ||२-७१-४२ (१४१४७)
भेर्यश्च मुरजाश्चैव मड्डुका गोमुखाश्च ये.
शृङ्गवंशाम्बुजा वीणाः श्रूयन्ते स्म सहस्रशः ||२-७१-४३ (१४१४८)
लोकेऽस्मिन्सर्वविप्राश्च वैश्याः शूद्रा नृपादयः.
सर्वे म्लेच्छाः सर्वगणास्त्वादिमध्यान्तजास्तथा. २-७१-४४ (१४१४९)
नानादेशसमुद्भूतैर्नानाजातिभिरागतैः.
पर्याप्त इव लोकोऽयं युधिष्ठिरनिवेशने ||२-७१-४५ (१४१५०)
भीष्मद्रोणादयः सर्वे कुरवः ससुयोधनाः.
वृष्णयश्च समग्राश्च पाञ्चालाश्चापि सर्वशः ||२-७१-४६ (१४१५१)
यज्ञेऽस्मिन्सर्वकर्माणि चक्रुर्दासा इव क्रतौ.
एवं प्रवृत्तो यज्ञः स धर्मराजस्य धीमतः ||२-७१-४७ (१४१५२)
शुशुभे च महाबाहो सोमस्येव क्रतुर्यथा.
वस्त्राणि कम्बलांश्चैव प्रावारांश्चैव सर्वदा ||२-७१-४८ (१४१५३)
निष्कहेमजभाण्डानि भूषणानि च सर्वशः.
प्रददौ तत्र विप्राणां धर्मराजो युधिष्ठिरः ||२-७१-४९ (१४१५४)
यानि तत्र महीपालैर्लब्धवान्भरतर्षभः.
तानि सर्वाणि रत्नानि ब्राह्मणानां ददौ तदा' ||||२-७१-५० (१४१५५)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि
एकसप्ततितमोऽध्यायः ||७१ ||
सभापर्व -अध्याय ०७२
||श्रीः ||
२. ७२. अध्यायः ७२
Mahabharata -Sabha Parva -Chapter Topics
युधिष्ठिरेण व्यासादीनां पूजनम् ||१. . राज्ञां युधिष्ठिरमामन्त्र्य
स्वस्वदेशगमनम् ||२. . श्रीकृष्णस्य युधिष्ठिरादीनामन्त्र्य
द्वारकां प्रति गमनम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ततः स कुरुराजस्य सर्वकर्मसमृद्धिमान्.
यज्ञः प्रीतिकरो राजन्संबभौ विपुलोत्सवः ||२-७२-१ (१४१५६)
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान्.
अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ||२-७२-२ (१४१५७)
समापयामास च तं राजसूयं महाक्रतुम्.
' कोटिसहस्रं प्रददौ ब्राह्मणानां महात्मनाम् ||२-७२-३ (१४१५८)
न करिष्यति तं लोके कश्चिदन्यो महीपतिः.
याजकाः सर्वकामैश्च सततं ततृपुर्धनैः ||२-७२-४ (१४१५९)
ततश्चावभृथस्नातः स राजा पाण्डुनन्दनः.
व्यासं धौम्यं वसिष्ठं च नारदं च महामुनिम् ||२-७२-५ (१४१६०)
सुमन्तु जैमिनिं पैलं वैशम्पायनमेव च.
याज्ञवल्क्यं च कपिलं कपालं कौशिकं तथा.
सर्वांश्च ऋत्विक्प्रवरान्पूजयामास सत्कृतान् ||२-७२-६ (१४१६१)
युधिष्ठिर उवाच ||२-७२-७क्ष् (१५०६)
युष्मत्प्रसादात्प्राप्तोऽयं राजसूयो महाक्रतुः.
जनार्दनप्रसादाद्धि सम्पूर्णो मे मनोरथः ||२-७२-७ (१४१६२)
वैशम्पायन उवाच ||२-७२-८क्ष् (१५०७)
अथ यज्ञं समाप्यान्ते पूजयामास माधवम्.
बलदेव च देवेशं भीष्माद्यांश्च कुरूद्वहान्' ||२-७२-८ (१४१६३)
ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम्.
समस्तं पार्थिवं क्षत्रमुपगम्येदमब्रवीत् ||२-७२-९ (१४१६४)
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि.
आजमीढाजमीढानां यशः संवर्धितं त्वया ||२-७२-१० (१४१६५)
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः.
आपृच्छामो नरव्याघ्र सर्वकामैः सूपूजिताः ||२-७२-११ (१४१६६)
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि.
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः ||२-७२-१२ (१४१६७)
यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह.
राजानः सर्व एवैते प्रीत्याऽस्मान्प्तमुपागताः ||२-७२-१३ (१४१६८)
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छय परन्तपाः.
अनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ||२-७२-१४ (१४१६९)
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः.
यथार्हं नृपतीन्सर्वानेकैकं समनुव्रजन् ||२-७२-१५ (१४१७०)
विरायटमन्वायात्तूर्णं धृष्टह्युम्नः प्रतापवान्.
धनञ्जयो यज्ञसेनं महात्मानं महारथम् ||२-७२-१६ (१४१७१)
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः.
द्रोणं तु ससुतं वीरं सहदेवो युधां पतिः ||२-७२-१७ (१४१७२)
नकुलः सुबलं राजन्सहपुत्रं समन्वयात्.
द्रौपदेयाः ससौभद्राः पार्वतीयान्महारथान् ||२-७२-१८ (१४१७३)
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः.
एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः ||२-७२-१९ (१४१७४)
गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च.
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ||२-७२-२० (१४१७५)
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन.
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ||२-७२-२१ (१४१७६)
तमुवाचैवमुक्तस्तु धर्मराजो जनार्दनम्.
तव प्रसादाद्गोविन्द प्राप्तः क्रतुवरो मया ||२-७२-२२ (१४१७७)
क्षत्रं समग्रमपि च त्वत्प्रसादाद्वशे स्थितम्.
उपादाय बलिं मुख्यं मामेव समुपस्थितम् ||२-७२-२३ (१४१७८)
कथं त्वद्गमनार्थं मे वाणी वितरतेऽनघ ||२-७२-२४ (१४१७९)
न ह्यहं त्वामृते वीरं रतिं प्राप्नोमि कर्हचित्.
अवश्यं चैव गन्तव्या भवता द्वारका पुरी ||२-७२-२५ (१४१८०)
वैशम्पायन उवाच ||२-७२-२६क्ष् (१५०८)
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान्.
अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ||२-७२-२६ (१४१८१)
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः.
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ||२-७२-२७ (१४१८२)
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे.
सुभद्रां द्रौपदीं चैव सभाजयत केशवः ||२-७२-२८ (१४१८३)
निष्क्रम्यान्तः पुरात्तस्माद्युधिष्ठिरसहायवान्.
स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ||२-७२-२९ (१४१८४)
ततो मेघवपुः प्रग्व्यं स्यन्दनं च सुकल्पितम्.
योजयित्वा महाबाहुर्दारुकः समुपस्थितः ||२-७२-३० (१४१८५)
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम्.
प्रदक्षिणमुपावृत्य समारुह्य महामनाः ||२-७२-३१ (१४१८६)
प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ||२-७२-३२ (१४१८७)
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः.
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ||२-७२-३३ (१४१८८)
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः.
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ||२-७२-३४ (१४१८९)
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशाम्पते.
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ||२-७२-३५ (१४१९०)
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः.
कृत्वा परस्परेणैव संवादं कृष्णपाण्डवौ ||२-७२-३६ (१४१९१)
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति.
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप ||२-७२-३७ (१४१९२)
महादुर्योधनो राजा शकुनिश्चापि सौबलः.
' सूतपुत्रश्च गधेयः सह दुःशासनादिभिः ||२-७२-३८ (१४१९३)
सर्वकामगुणोपेतैरर्च्यमानास्तु भारत' .
तस्यां सभायां दिव्यायामवसंस्तत्र पाण्डवैः ||||२-७२-३९ (१४१९४)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि
द्विसप्ततितमोऽध्यायः ||७२ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-७२-२८ सभाजयत प्रीणितवान् ||
सभापर्व -अध्याय ०७३
||श्रीः ||
२. ७३. अध्यायः ७३
Mahabharata -Sabha Parva -Chapter Topics
व्यासम्प्रति युधिष्ठिरेण उत्पातफलप्रश्ने व्यासेन तत्कथनपूर्वकं
कैलासगमनम ||१. . व्यासोक्तं भ्रातृषु निवेद्य शोचतो
युधिष्ठिरस्य अर्जुनेन समाश्वासनम् ||२. | यिधिष्ठिरेण
समयकरणम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
' अनुसंसार्य नृपतीन्पाण्डवाः पाण्डवाग्रजम्.
अभिजग्मुर्महेष्वासा धर्मराजं युधिष्ठिरम् ||२-७३-१ (१४१९५)
सोऽनुमेने महाबाहुर्भातॄंश्च सुहृदस्तथा' .
शिष्यैः परिवृतो व्यासः पुरस्तात्समपद्यत ||२-७३-२ (१४१९६)
सोऽभ्ययादासनात्तूर्णं भ्रातृभिः परिवारितः.
पाद्येनासनदानेन पितामहमपूजयत् ||२-७३-३ (१४१९७)
अथोपविश्य भगवान्काञ्चने परमासने.
आस्यतामिति चोवाच धर्मराजं युधिष्ठिरम् ||२-७३-४ (१४१९८)
अथोपविष्टं राजानं भ्रातृभिः परिवारितम्.
उवाच भगवान्व्यासस्तत्तद्वाक्यविशारदः ||२-७३-५ (१४१९९)
दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम्.
वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह ||२-७३-६ (१४२००)
आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते.
एवमुक्तः स कृष्णेन धर्मराजो युधिष्ठिरः ||२-७३-७ (१४२०१)
अभिवाद्योपसङ्गृह्य पितामहमथाब्रवीत् ||२-७३-८ (१४२०२)
युधिष्ठिर उवाच. २-७३-८क्ष् (१५०९)
संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः.
तस्य नान्योऽस्ति वक्ता वै त्वामृते द्विजपुङ्गव ||२-७३-९ (१४२०३)
उत्पातांस्त्रिविधान्प्राह नारदो भगवानृषिः.
दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह ||२-७३-१० (१४२०४)
' सुमहच्च फलं तेषां भवितेति न संशयः' .
अपि चैद्यस्य पतनाच्छान्तमौत्पातिकं महत् ||२-७३-११ (१४२०५)
वैशम्पायन उवाच ||२-७३-१२क्ष् (१५१०)
राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः.
कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत् ||२-७३-१२ (१४२०६)
त्रयोदश समा राजन्नुत्पातानां फलं महत्.
सर्वक्षत्रविनाशाय भविष्यति विशाम्पते ||२-७३-१३ (१४२०७)
त्वामेकं कारणं कृत्वा कालेन भरतर्षभ.
समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत.
दुर्योधनापराधेन भीमार्जुनबलेन च ||२-७३-१४ (१४२०८)
स्वप्नं द्रक्ष्यसि राजेन्द्र तस्मिन्काल उपस्थिते.
तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर ||२-७३-१५ (१४२०९)
यान्तं द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम्.
नीलकण्ठं भवं स्थाणुं कपालिं त्रिपुरान्तकम् ||२-७३-१६ (१४२१०)
उग्रं रुद्रं पशुपतिं महादेवमुमापतिम्.
हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम् ||२-७३-१७ (१४२११)
कैलासकूडप्रतिमे वृषभेऽवस्थितं शिवम्.
निरीक्षमाणं सततं पितृराजाश्रितां दिशम् ||२-७३-१८ (१४२१२)
एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते.
मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः ||२-७३-१९ (१४२१३)
स्वस्ति तेऽस्तु गमिष्यामि कैलासं पर्वतं प्रति.
अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय ||२-७३-२० (१४२१४)
वैशम्पायन उवाच ||२-७३-२१क्ष् (१५११)
एवमुक्त्वा स भगवान्कैलासं पर्वतं ययौ.
कृष्णद्वैपायनो व्यासः सह शिष्यैः सहानुगैः ||२-७३-२१ (१४२१५)
गते पितामहे राजा चिन्ताशोकसमन्वितः.
निः श्वसन्नुष्णमसकृत्तमेवार्थं विचिन्तयन् ||२-७३-२२ (१४२१६)
कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम्.
अवश्यमेव भविता यदुक्तं परमर्षिणा ||२-७३-२३ (१४२१७)
ततोऽब्रवीन्महातेजाः सर्वान्भ्रातॄन्युधिष्ठिरः.
श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत् ||२-७३-२४ (१४२१८)
तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः.
सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः ||२-७३-२५ (१४२१९)
कालेन निर्मितस्तात को ममार्थोऽस्ति जीवतः.
एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत ||२-७३-२६ (१४२२०)
मा राजन्कश्मलं घोरं प्रविशो बुद्धिनाशनम्.
सम्प्रधार्य महाराज यत्क्षमं तत्समाचर ||२-७३-२७ (१४२२१)
वैशम्पायन उवाच ||२-७३-२८क्ष् (१५१२)
ततोऽब्रवीत्सत्यधृतिर्भ्रातॄन्सर्वान्युधिष्ठिरः.
द्वैपायनस्य वचनं तत्रैव समचिन्तयत् ||२-७३-२८ (१४२२२)
अद्यप्रभृति भद्रं वः प्रतिज्ञां मे निबोधत.
त्रयोदश समास्तात को ममार्थो |अस्ति जीवतः ||२-७३-२९ (१४२२३)
न प्रवक्ष्यामि परुषं भ्रातॄनन्यांश्च पार्थिवान्.
स्थितो निदेशे ज्ञातीनां योक्ष्ये तत्सुमुदाहरन् ||२-७३-३० (१४२२४)
एवं मे वर्तमानस्य स्वसुतेऽष्वितरेषु च.
भेदो न भविता लोके भेदमूलो हि विग्रहः ||२-७३-३१ (१४२२५)
विग्रहं दूरतो रक्षन्प्रियाण्येव समाचरन्.
वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः ||२-७३-३२ (१४२२६)
भ्रातृर्ज्येष्ठस्य वचनं पाण्डवाः संनिशम्य तत.
तमेव समवर्तन्त धर्मराजहिते रताः ||२-७३-३३ (१४२२७)
संसत्सु समयं कृत्वा धर्मराड्भ्रातृभिः सह.
पितॄंस्तर्प्य यथान्यायं देवताश्च विशाम्पते ||२-७३-३४ (१४२२८)
कृतमङ्गलकल्यामो भ्रातृभिः पिरवारितः.
गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ ||२-७३-३५ (१४२२९)
युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम्.
दुर्योधनो महाराज शकुनिश्चापि सौबलः.
सभायां समणीयायां तत्रैवास्ते नराधिप ||||२-७३-३६ (१४२३०)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि त्रिसप्ततितमोऽध्यायः
||७३ ||
सभापर्व -अध्याय ०७४
||श्रीः ||
२. ७४. अध्यायः ७४
Mahabharata -Sabha Parva -Chapter Topics
युधिष्ठिरसभायां दुर्योधने निर्जलदेशे जलभ्रमेण
परिधानमुत्कर्षति सति तथा स जलदेशे स्थलभ्रान्त्या
भवनधानगमनेन जले पतति च सति भीमादिभिरुपहासः
||१. . चिन्तातान्तं दुर्योधनं प्रति शकुनिना चिन्ताहेतुप्रश्ने
दुर्योधनेन तत्कथन पूर्वकं धृतराष्ट्रे स्वदुः शनिवेदनाय
शकुनिम्प्रति चोदनम् ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
वसन्दुर्योधनस्तस्यां सभायां पुरुषर्षभ.
शनैर्ददर्श तां सर्वां सभां शकुनिना सह ||२-७४-१ (१४२३१)
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः.
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ||२-७४-२ (१४२३२)
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः.
स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया ||२-७४-३ (१४२३३)
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः.
दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ||२-७४-४ (१४२३४)
ततः स्थले निपतितो दुर्मना व्रीडितो नृपः.
निः श्वसन्विमुखश्चापि परिचक्राम तां सभाम् ||२-७४-५ (१४२३५)
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्.
वापीं मत्वा स्थलमिव सवासाः प्रापतञ्जले ||२-७४-६ (१४२३६)
जले निपतितं दृष्ट्वा भीमसेनो महाबलः.
जहास जहसुश्चैव किङ्कराश्च सुयोधनम् ||२-७४-७ (१४२३७)
वासांसि च शुभान्यस्मै प्रददू राजशासनात्.
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ||२-७४-८ (१४२३८)
अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा.
नामर्षयत्ततस्तेषामवहासममर्षणः ||२-७४-९ (१४२३९)
आकारं रक्षमाणस्तु न स तान्समुदैक्षत.
पुनर्वसनमुत्क्षिप्य प्रतिरिष्यन्निव स्थलम् ||२-७४-१० (१४२४०)
आरुरोह ततः सर्वे जहसुश्च पुनर्जनाः.
द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः.
प्रविशन्नाहतो मूर्ध्नि व्याघूर्णित इव स्थितः ||२-७४-११ (१४२४१)
तादृशं च परं द्वारं स्फाटिकोरुकवाटकम्.
विघट्टयन्कराभ्यां तु निष्क्रम्याग्रे पपात हा ||२-७४-१२ (१४२४२)
द्वारं तु वितताकारं समापेदे पुनश्च सः.
तद्वृत्तं चेति मन्वानो द्वारस्थानादुपारमत् ||२-७४-१३ (१४२४३)
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशाम्पते.
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ||२-७४-१४ (१४२४४)
अपहृष्टेन मनसा राजसूये महाक्रतौ.
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ||२-७४-१५ (१४२४५)
पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः.
दुर्योधनस्य नृपतेः पापा मतिरजायत ||२-७४-१६ (१४२४६)
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्.
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ||२-७४-१७ (१४२४७)
महिमानं परं चापि पाण्डवानां महात्मनाम्.
दूर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ||२-७४-१८ (१४२४८)
स तु गच्छन्ननेकाग्नः सभामेकोऽन्वचिन्तयत्.
श्रियं च तामनुपमां धर्मराजस्य धीमतः ||२-७४-१९ (१४२४९)
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा.
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ||२-७४-२० (१४२५०)
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत.
दुर्योधन कृतोमूलं निःश्वसन्निव गच्छसि ||२-७४-२१ (१४२५१)
दुर्योधन उवाच ||२-७४-२२क्ष् (१५१३)
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्.
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ||२-७४-२२ (१४२५२)
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल.
यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः ||२-७४-२३ (१४२५३)
अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम्.
शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ||२-७४-२४ (१४२५४)
पश्य सात्वतमुख्येन शिशुपालो निपातितः.
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ||२-७४-२५ (१४२५५)
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना.
क्षान्तवन्तोऽपराधं ते को हि तत्क्षन्तुमर्हति ||२-७४-२६ (१४२५६)
वासुदेवेन तत्कर्म यथाऽयुक्तं महत्कृतम्.
सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम् ||२-७४-२७ (१४२५७)
तथाहि रत्नन्यादाय विविधानि नृपा नृपम्.
उपातिष्ठन्त कौन्येयं वैश्या इव करप्रदाः ||२-७४-२८ (१४२५८)
श्रियं तथागतं दृष्ट्वा ज्वलन्तीमिव पाण्डवे.
अमर्षवशमापन्नो दह्यामि न तथोचितः ||२-७४-२९ (१४२५९)
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्.
अपो वापि प्रवेक्ष्यामिन हि शक्ष्यामि जीवितुम् ||२-७४-३० (१४२६०)
को हि नाम पुमांल्लोके मर्षयिष्यति सत्ववान्.
सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मानमेव च ||२-७४-३१ (१४२६१)
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि.
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ||२-७४-३२ (१४२६२)
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्.
यज्ञं च तादृशं दृष्ट्वा मादृशः को न संञ्ज्वरेत् ||२-७४-३३
(१४२६३)
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्.
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ||२-७४-३४ (१४२६४)
दैवमेव परं मन्ये पौरुषं च निरर्थकम्.
दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा ||२-७४-३५ (१४२६५)
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल.
तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्गजम् ||२-७४-३६ (१४२६६)
तेन दैवं परं मन्ये पौरुषं च निरर्थकम्.
धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति
नित्यशः. २-७४-३८च्' कृष्णस्तु सुमनास्तेषां विवर्धयति सम्पदः' ||
२-७४-३७ (१४२६७)
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्.
रक्षिभिश्चावहासं तं परितप्ये यथाऽग्निना ||२-७४-३८ (१४२६८)
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ||||२-७४-३९ (१४२६९)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि
चतुःसप्ततितमोऽध्यायः ||७४. .
सभापर्व -अध्याय ०७५
||श्रीः ||
२. ७५. अध्यायः ७५
Mahabharata -Sabha Parva -Chapter Topics
शकुनिना दुर्योधनम्प्रति पाण्डवानां पौरुषेणाजय्यत्वकथनपूर्वकं
द्यूतेन जेष यामीति समाश्वासनादिकम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
शकुनिरुवाच ||
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्.
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ||२-७५-१ (१४२७०)
विधानं विविधाकारं परं तेषां विधानतः.
अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा ||२-७५-२ (१४२७१)
आरब्धा हि महाराज पुनः पुनररिन्दम.
विमुक्ताश्च नरव्याघ्रा भगधेयपुरस्कृताः.
' उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु' ||२-७५-३ (१४२७२)
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह.
सहायाः पृथिवीपाला वासुदेवश्च वीर्यवान् ||२-७५-४ (१४२७३)
लब्धश्चानभिभूतार्थैः पित्र्योंशः पृथिवीपते.
विवृद्धस्तेजसा तेषां तत्र का परिदेवना ||२-७५-५ (१४२७४)
धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी.
लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम् ||२-७५-६ (१४२७५)
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः.
कृता वशे महीपालास्तत्र का परिदेवना ||२-७५-७ (१४२७६)
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्.
सभां तां कारयामास सव्यसाची परन्तपः ||२-७५-८ (१४२७७)
तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः.
वहन्ति तां सभां भीमास्तत्र का परिदेवना ||२-७५-९ (१४२७८)
यच्चासहायतां राजन्नुक्तवानसि भारत.
तन्मिथ्या भ्रातरो हीमे तव सर्वे वशानुगाः ||२-७५-१० (१४२७९)
द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान्.
मूतपुत्रश्च राधेयो दृढधन्वा महारथः ||२-७५-११ (१४२८०)
' स एकः समरे सर्वान्पाण्डवान्सहसोमकान्.
विजेष्यति महाबाहो किं सहायैः करिष्यसि ||२-७५-१२ (१४२८१)
भीष्मश्च पुरुषव्याघ्रो गौतमश्च महारथः.
जयद्रथश्च बलावान्सोमदत्तस्तथैव च' ||२-७५-१३ (१४२८२)
अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः.
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नं वसुन्दराम् ||२-७५-१४ (१४२८३)
दुर्योधन उवाच. २-७५-१५क्ष् (१५१४)
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः.
एतानहं विजेष्यामि यदि त्वमनुमन्यसे ||२-७५-१५ (१४२८४)
एतेषु विजितेष्वद्य भविष्यति मही मम.
सर्वे च पृथिवीपालाः सभा सा च महाधना ||२-७५-१६ (१४२८५)
शकुनिरुवाच ||२-७५-१७क्ष् (१५१५)
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः.
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ||२-७५-१७ (१४२८६)
नैते युधि पराजेतुं शक्या देवगणैरपि.
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ||२-७५-१८ (१४२८७)
अहं तु तद्विजानामि विजेतुं येन शक्यते.
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ||२-७५-१९ (१४२८८)
दुर्योधन उवाच ||२-७५-२०क्ष् (१५१६)
अप्रमादेन सुहृदामन्येषां च महात्मनाम्.
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ||२-७५-२० (१४२८९)
शकुनिरुवाच. २-७५-२१क्ष् (१५१७)
द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम्.
समाहूतश्च राजेन्द्रो न शक्ष्यति तिवर्तितुम् ||२-७५-२१ (१४२९०)
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि.
त्रिषु लोकेषु कौरव्य तं त्वं द्यूते समाह्वय ||२-७५-२२ (१४२९१)
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम्.
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ||२-७५-२३ (१४२९२)
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय.
अनुज्ञातस्तु ते पित्रा विजेष्ये तान्न संशयः ||२-७५-२४ (१४२९३)
दुर्योधन उवाच. २-७५-२५क्ष् (१५१८)
त्वमेव करुमुख्याय धृतराष्ट्राय सौबल.
निवेदय यथान्यायं नाहं शक्ष्ये निवेदितुम् ||||२-७५-२५ (१४२९४)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि
पञ्चसप्ततितमोऽध्यायः ||७५ ||
सभापर्व -अध्याय ०७६
||श्रीः ||
२. ७६. अध्यायः ७६
Mahabharata -Sabha Parva -Chapter Topics
शकुनिना दुर्योधनस्य चिन्तया कार्श्यादिकं बोधितेन धृतराष्ट्रेण
दुर्योधनम् प्रति चिन्ताकारणप्रश्नः ||१. . दुर्योधनेन
तत्कथनपुर्वकं धृतराष्ट्रं प्रति द्यूताभ्यनुज्ञानप्रार्थनम्
||२. . धृतराष्ट्रेण द्यूतसभानिर्माणाज्ञापनपूर्वकं पाण्डवानयनाय
विदुरं प्रति चोद नम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
अनुभूय तु राज्ञस्तं राजसूयं सुदुर्मतिः.
' युधिष्ठिरस्य शकुनिर्दुर्योधसुसंयुतः ||२-७६-१ (१४२९५)
विवेश हास्तिनपुरं दुर्योधनमतेन सः.
वाढमित्येव शकुनिर्दृढं हृदि चकार ह ||२-७६-२ (१४२९६)
अस्वस्थतां चतां दृष्ट्वा धार्तराष्ट्रस्य पापकृत्.
भारतानां च दुष्टात्मा क्षयाय हि नृपक्षयः' ||२-७६-३ (१४२९७)
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत्.
प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ||२-७६-४ (१४२९८)
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम्.
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ||२-७६-५ (१४२९९)
शकुनिरुवाच. २-७६-६क्ष् (१५१९)
दुर्योधनो महाराज विवर्णो हरिणः कृशः.
दीनश्चिन्तापरश्चैव तं विद्धि मनुजाधिप ||२-७६-६ (१४३००)
न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम्.
ज्येष्ठपुत्रस्य हृच्छोकं किमर्थं नावबुध्यसे ||२-७६-७ (१४३०१)
' एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः.
दुर्योधनं समाहूयं इदं वचनमब्रवीत्' ||२-७६-८ (१४३०२)
धृतराष्ट्र उवाच. २-७६-९क्ष् (१५२०)
दुर्योधन कृतोमूलं भृशमार्तोऽसि पुत्रक.
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ||२-७६-९ (१४३०३)
अयं त्वां शकुनिः प्राह विवर्णं हरिमं कृशम्.
चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम् ||२-७६-१० (१४३०४)
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं प्रतिष्ठितम्.
भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ||२-७६-११ (१४३०५)
आच्छादयसि प्रावारानश्नासि पिशितौदनम्.
आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः ||२-७६-१२ (१४३०६)
शयनानि महार्हाणि योषितश्च मनोरमाः.
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ||२-७६-१३ (१४३०७)
देवनामिव ते सर्वं वाचि बद्धं न संशयः.
स दीन इव दुर्धर्ष कस्माच्छोचसि पुत्रक ||२-७६-१४ (१४३०८)
' मात्रा पित्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्.
प्राप्तस्त्वमसि तत्तात निखिलां नः कुलश्रियम् ||२-७६-१५ (१४३०९)
उपस्थितः सर्वकामैस्त्रिदिवे वासवो यथा.
विविधैरन्नपानैश्च प्रवरैः किं नु शोचसि ||२-७६-१६ (१४३१०)
निरुक्तं निगमं छन्दः षडङ्गान्यस्त्रशास्त्रवान्.
अधीती कृतविद्यस्त्वं दशव्याकरणैः कृपात् ||२-७६-१७ (१४३११)
हलायुधात्कृपाद्द्रोणादस्त्रविद्यामधीतवान्.
भ्राताज्येष्ठः स्थितो राज्ये किमु शोचसि पुत्रक ||२-७६-१८ (१४३१२)
पृथग्जनैरलभ्यं यदशनाच्छादनं बहु.
प्रभुः सन्भुञ्जसे पुत्र संस्तुतः सूतमागधैः ||२-७६-१९ (१४३१३)
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्.
लोकेस्मिञ्ज्येष्ठभागन्यस्तन्ममाचक्ष्व पृच्छतः ||२-७६-२० (१४३१४)
वैशम्पायन उवाच ||२-७६-२१क्ष् (१५२१)
तस्य तद्वचनं श्रुत्वा मन्दः क्रोधवशानुगः.
पितरं प्रत्युवाचेदं स्वमतिं सम्प्रकाशयन् ' ||२-७६-२१ (१४३१५)
दुर्योधन उवाच ||२-७६-२२क्ष् (१५२२)
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा.
अमर्षं धारये चोग्रं निनीषुः कालपर्ययम् ||२-७६-२२ (१४३१६)
अमर्षणः स्वाः प्रकृतीरभिभूय परं स्थितः.
क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ||२-७६-२३ (१४३१७)
सन्तोषो वै श्रियं हन्ति ह्यभिमानं च भारत.
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ||२-७६-२४ (१४३१८)
न मां प्रीणाति मद्भुक्तं श्रियं दृष्ट्वा युधिष्ठेरे.
अतिज्वलन्तीं कौन्तेये विवर्णकरणीं मम ||२-७६-२५ (१४३१९)
सपत्नानृद्व्यतोत्मानं हीयमानं निशाम्य च.
अदृश्यामपि कौन्तेय श्रियं पश्यन्निवोद्यताम् ||२-७६-२६ (१४३२०)
तस्मादहं विवर्णश्च दीनश्च हरिमः कृशः.
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ||२-७६-२७ (१४३२१)
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः.
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्.
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ||२-७६-२८ (१४३२२)
कदलीमृगमोकानि कृष्णश्यामारुणानि च.
काम्भोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान्.
गजयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः ||२-७६-२९ (१४३२३)
त्रिशतं चोष्ट्रवामीनां शतानि विचरन्त्युत.
राजन्या बलिमादाय समेता हि नृपक्षये ||२-७६-३० (१४३२४)
पृथग्विधानि रत्नान पार्थिवाः पृथिवीपते.
आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ||२-७६-३१ (१४३२५)
न क्वचिद्धि मया तादृग्दृष्टपूर्वो न च श्रुतः.
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ||२-७६-३२ (१४३२६)
' असत्यं चेदिदं सर्वं सञ्जयं प्रष्टुमर्हसि' .
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप.
शर्म नैवाभिगच्छामि चिन्तयानो विशाम्पते ||२-७६-३३ (१४३२७)
ब्रह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः.
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ||२-७६-३४ (१४३२८)
कमण्डलूनुपादाय जातरूपमयाञ्शुभान्.
त्रैखर्वाः प्रतिवेद्यास्मै लेभिरेऽथ प्रवेशनम् ||२-७६-३५ (१४३२९)
यथैव मधु शक्राय धारयन्त्यमरस्त्रियटः.
तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ||२-७६-३६ (१४३३०)
शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान्.
शक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् ||२-७६-३७ (१४३३१)
दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत्.
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ ||२-७६-३८ (१४३३२)
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ.
उत्तरं तु न गच्छन्ति विना तात पतत्रिणः.
तत्र गत्वाऽर्जुनो दण्डमाजहारामितं धनम् ||२-७६-३९ (१४३३३)
' कृतां बैन्दुसरै रत्नैर्मयेन स्फाटिकच्छदाम्.
अपश्यं नलिनीं पूर्णामुदकस्येव भारत ||२-७६-४० (१४३३४)
उत्कर्षन्तं च वासश्च प्राहसन्मां वृकोदरः.
किङ्कराश्च सभापाला जहसुर्भरतर्षभ ||२-७६-४१ (१४३३५)
पित्रोरर्थे विशेषेण प्रावृण्वं तत्र जीवितम्.
तत्र त्म यदि शक्तः स्यां घातयेयं वृकोदरम् ||२-७६-४२ (१४३३६)
सपत्नेनापहासो हि स मां दहति भारत ||२-७६-४३ (१४३३७)
तत्र स्फाटिकतोयां हि स्फाटिकाम्बुजशोभिताम्.
सभां पुष्करिणीं मत्वा पतितोऽस्मि नराधिप ||२-७६-४४ (१४३३८)
तत्र मामहसद्भीमः सह पार्थेन सस्वरम्.
द्रौपदी चसह स्त्रीभिः पातयन्ती मनो मम ||२-७६-४५ (१४३३९)
क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः.
ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ||२-७६-४६ (१४३४०)
अस्तम्भा इव तिष्ठन्ति स्तम्भा इव सहस्रशः.
सोहं तत्राहतो राजन्स्फटिकाभ्यन्तरे विभो ||२-७६-४७ (१४३४१)
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा.
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ||२-७६-४८ (१४३४२)
आमृशन्निव तां दृष्ट्वा मार्गान्तरमुपाविशम्.
इदं द्वारमिदं राजन्नद्वारमिति मां प्रति.
अद्भुतं प्रहसन्वाक्यं बभाषे स वृकोदरः ||२-७६-४९ (१४३४३)
स्त्रियश्च तत्र मां दृष्ट्वा जहसुस्तादृशं नृप.
सर्वं हासकरं तेषां सदस्यानां नरर्षभ ||२-७६-५० (१४३४४)
न श्रुतानि न दृष्टानि यानि रत्नान मे क्वचित्.
तानि मे तत्र दृष्टानि तेन तप्तोस्मि दुःखितः ||२-७६-५१ (१४३४५)
हुताशनं प्रवेक्ष्यामि प्रवेक्ष्यामि महोदधिम्.
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' ||२-७६-५२ (१४३४६)
इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ||२-७६-५३ (१४३४७)
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां सदा.
स्थापितस्तत्र सञ्ज्ञार्थं शङ्खो ध्मायति नित्यसः ||२-७६-५४ (१४३४८)
मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत.
अनिशं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ||२-७६-५५ (१४३४९)
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः.
अशोभत महाराज नक्षत्रैर्द्यैरिवामला ||२-७६-५६ (१४३५०)
सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर.
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः ||२-७६-५७ (१४३५१)
वैश्या इव महीपाला द्विजातिपरिवेषकाः.
न सा श्रीर्देवराजस्य यमस्य वरुणस्य च.
गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ||२-७६-५८ (१४३५२)
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिक्रामहम्.
शान्तिं न परिगच्छामि दह्यमानेन चेतसा ||२-७६-५९ (१४३५३)
' अप्राप्य पाण्डवैश्वर्यं शमो मम न विद्यते.
अरीन्बाणैः शाययिष्ये शयिष्ये वा हतः परैः ||२-७६-६० (१४३५४)
एतादृशस्य मे किं तु जीवितेन परन्तप.
वर्धन्ते पाण्डवा राजन्वयं हि स्थितवृद्धयः' ||२-७६-६१ (१४३५५)
शकुनिरुवाच ||२-७६-६२क्ष् (१५२३)
यामेतामतुलां लक्ष्मीं दृष्टवानसि पाण्डवे.
तस्याटः प्राप्तावुपायं मे शृणु सत्यपराक्रम ||२-७६-६२ (१४३५६)
अहमक्षेष्वभिज्ञोऽस्मि पृथिव्यामपि भारत.
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ||२-७६-६३ (१४३५७)
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्.
आहूतश्चैष्यति व्यक्तं नित्यमेवाह्वयत्स्वयम् ||२-७६-६४ (१४३५८)
नियतं तं विजेष्यामि कृत्वा तु कपटं विभो.
आनयामि समृद्धिं तां दिव्यां चोपाह्वयस्व तम् ||२-७६-६५ (१४३५९)
वैशम्पायन उवाच ||२-७६-६६क्ष् (१५२४)
एवमुक्तः शकुनिना राजा दुर्योधनस्ततः.
धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ||२-७६-६६ (१४३६०)
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित्.
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ||२-७६-६७ (१४३६१)
धृतराष्ट्र उवाच ||२-७६-६८क्ष् (१५२५)
क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने.
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ||२-७६-६८ (१४३६२)
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम्.
उभयोटः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ||२-७६-६९ (१४३६३)
दुर्योधन उवाच. २-७६-७०क्ष् (१५२६)
निवर्तयिष्यति त्वाऽसौ यदि क्षत्ता समेष्यति.
निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ||२-७६-७० (१४३६४)
स त्वं मयि मृते राजन्विदुरेण सुखी भव.
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ||२-७६-७१ (१४३६५)
वैशम्पायन उवाच ||२-७-७२क्ष् (१५२७)
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः.
धृतराष्ट्रोऽब्रवीत्प्रेष्यन्दुर्योधनमते स्थितः ||२-७६-७२ (१४३६६)
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम.
मनोरमां दर्शनीयामाशु कुर्वन्तुं शिल्पिनः ||२-७६-७३ (१४३६७)
ततः संस्तीर्य रत्नैस्तां तक्ष्ण आनाय्य सर्वशः.
सुकृतां सुप्रवेशां च निवेदयत मेऽशनैः ||२-७६-७४ (१४३६८)
दूर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः.
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ||२-७६-७५ (१४३६९)
अपृष्ट्वा विदुरं स्वस्यन नासीत्कश्चिद्विनिश्चयः.
द्यूते दोषांश्च जानन्स पुत्रस्नेहादकृष्यत ||२-७६-७६ (१४३७०)
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम्.
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ||२-७६-७७ (१४३७१)
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम्.
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ||२-७६-७८ (१४३७२)
विदुर उवाच. २-७६-७९क्ष् (१५२८)
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो.
पुत्रैर्भेदो यथा न स्थाद्द्यूतहेतोस्तथा कुरु ||२-७६-७९ (१४३७३)
धृतराष्ट्र उवाच. २-७६-८०क्ष् (१५२९)
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति.
यदि देवाः प्रसादं नः करिष्यन्ति न संशयः ||२-७६-८० (१४३७४)
अशुभं वा शुभं वापि हितं वा यदि वाऽहितम्. २-७६-८१ (१४३७५)
मयि सन्निहिते द्रोणे भीष्मे त्वयि च भारत.
अनयो दैवविहितो न कथञ्चिद्भविष्यति ||२-७६-८२ (१४३७६)
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे.
खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ||२-७६-८३ (१४३७७)
न वाच्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते.
दैवमेव परं मन्ये येनैतदुपपद्यते ||२-७६-८४ (१४३७८)
इत्युक्तो विदुरो धीमान्नेदमस्तीति चिन्तयन्.
आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुः खितः ||||२-७६-८५ (१४३७९)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि षट्सप्ततितमोऽध्यायः
||७६ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-७६-९ कुतोमूलं किंमुलम् | कुतइति प्रथमार्थे तसिः ||
२-७६-२९ कदलीमृगा हरिणविशेषास्तेषां मोकान्यजिनानि तान्येव
कृष्णश्यामारुणानि चित्र वर्णानीत्यर्थः ||
२-७६-३४ वाटाः क्षेत्रादिवृत्तयस्तासां धाना अभिनवोद्भेदो येषां ते
सस्यादिसम्पन्नक षेत्रादिवृत्तिमन्त इत्यर्थः ||
२-७६-३७ शैक्यं वरत्रामयं पात्राधारभूतं शिक्यं कावडीति
प्रसिद्धं तत्र स्थितं पात् रं शैक्यम् | एतेन सामुद्रय आप उक्ताः ||
सभापर्व -अध्याय ०७७
||श्रीः ||
२. ७७. अध्यायः ७७
Mahabharata -Sabha Parva -Chapter Topics
जनमेजयेन विस्तरेण द्यूतवृत्तान्तकथनप्रार्थनम्
||१. . धृतराष्ट्रेण दुर्योधनम्प्रति
द्यूतनिषेधनम् ||२. . दुर्योधनेन धृतराष्ट्रम्प्रति
भीमादिकृतस्वापहसनादिकथनम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
जनमेजय उवाच ||
कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम्.
यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ||२-७७-१ (१४३८०)
के च तत्र समास्तारा राजानो ब्रह्मवित्तम.
के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ||२-७७-२ (१४३८१)
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज.
मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ||२-७७-३ (१४३८२)
सौतिरुवाच. २-७७-४क्ष् (१५३०)
एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान्.
आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्वविद् ||२-७७-४ (१४३८३)
वैशम्पायन उवाच ||२-७७-५क्ष् (१५३१)
एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान्.
आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्ववित् ||२-७७-५ (१४३८४)
विदुरस्य मतिं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः.
दुर्योधनमिदं वाक्यमुवाच विजने पुनः ||२-७७-६ (१४३८५)
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति.
न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ||२-७७-७ (१४३८६)
हितं हि परमं मन्ये विदुरो यत्प्रभाषते.
क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ||२-७७-८ (१४३८७)
देवर्षिर्वासवागुरुर्देवराजाय धीमते.
यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः.
तद्दे विदुरः सर्वं सरहस्यं महाकविः ||२-७७-९ (१४३८८)
स्थितस्तु वचने तस्य सदाऽहमपि पुत्रक.
विदुरो वापि मेधावी कुरूणां प्रवरो मतः ||२-७७-१० (१४३८९)
उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप.
तदलं पुत्र द्यूतेन द्यूते भेदो हि दृश्यते ||२-७७-११ (१४३९०)
भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ||२-७७-१२ (१४३९१)
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्.
प्राप्तस्त्वमसि तन्नाम पितृपैतामहं पदम् ||२-७७-१३ (१४३९२)
अधीतवान्कृती शास्त्रे लालितः सततं गृहे.
भ्रातृज्येष्ठः स्थितो राज्ये विन्दसरे किं न शोभनम् ||२-७७-१४ (१४३९३)
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम्.
तत्प्राप्तोसि महाबाहो कस्माच्छोनसि पुत्रक ||२-७७-१५ (१४३९४)
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत्.
नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ||२-७७-१६ (१४३९५)
' यादृशं च तवैश्वर्यं तदन्येषां सुदुर्लभम्.
ये चोपभोगास्ते राजन्मया ते परिकीर्तिताः' ||२-७७-१७ (१४३९६)
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्.
समुत्थितं दुःखकरं तन्मे शंसितुमर्हसि ||२-७७-१८ (१४३९७)
दुर्योधन उवाच ||२-७७-१९क्ष् (१५३२)
अश्नाम्याच्छादयामीति प्रपश्यन्हीनपौरुषः.
नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ||२-७७-१९ (१४३९८)
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणी विभो.
ज्वलितामेव कौन्येये श्रियं दृष्ट्वा च विव्यथे ||२-७७-२० (१४३९९)
सर्वां च पृथिवीं चैव युधिष्ठिरवशानुगाम्.
स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते. २-७७-२१ (१४४००)
आवर्जिता इवाभान्ति नीपाश्चित्रककौकुराः.
कारस्कारा लोहजङ्घा युधिष्ठिरनिवेशने ||२-७७-२२ (१४४०१)
हिमवत्सागरानुपाः सर्वे रत्नाकरास्तथा.
अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ||२-७७-२३ (१४४०२)
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशाम्पते.
युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ||२-७७-२४ (१४४०३)
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम्.
नादृश्यत परः पारो नापरस्तत्र भारत ||२-७७-२५ (१४४०४)
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः.
अतिष्ठन्त मयि श्रान्ते गृग्य दूराहृतं वसु ||२-७७-२६ (१४४०५)
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्.
अपश्यं नलिनीं पूर्णामुदकस्येव भारत ||२-७७-२७ (१४४०६)
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः.
शत्रोरृद्धिविशेषेण विमूढ रत्तवर्जितम् ||२-७७-२८ (१४४०७)
तत्र स्म यदि शक्तः स्यं पातयेऽहं वृकोदरम्.
यदि कुर्यां समारम्भं भीमं हन्तुं नराधिप ||२-७७-२९ (१४४०८)
शिशुपाल इवास्माकं गतिः स्यान्नात्र संशयः.
सपत्नेनावहासो मे स मां दहति भारत ||२-७७-३० (१४४०९)
पुनश्च तादृशीमेव वापीं जलजशालिनीम्.
मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ||२-७७-३१ (१४४१०)
तत्र मां प्राहसत्कृष्णः पार्थेन सह सुस्वरम्.
द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ||२-७७-३२ (१४४११)
क्लिन्नवस्त्रस्य तु जले किङ्करा राजनोदिताः.
ददुर्वासांसि मेऽन्यानि तच्च दुःखं परं मम ||२-७७-३३ (१४४१२)
प्रलम्भं च शृणुष्वान्यद्वदतो मे नराधिप.
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा.
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ||२-७७-३४ (१४४१३)
तत्र मां यमजौ दूरादालोक्याभिहतं तदा.
बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ||२-७७-३५ (१४४१४)
उवाच सहदेवस्तु तत्र मां विस्मयन्निव.
इद द्वारं धार्तराष्ट्र मा गच्छेति पुनः पुनः ||२-७७-३६ (१४४१५)
भीमसेनेन तत्रोक्तो धृतराष्ट्रात्मजेति च.
सम्बोध्य प्रहसित्वा च इतो द्वारं नराधिप ||२-७७-३७ (१४४१६)
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे.
यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ||||२-७७-३८ (१४४१७)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि सप्तसप्ततितमोऽध्यायः
||७७ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-७७-२२ नीपादयो राजानः | आवर्जिता दासवद्वशगाः ||
२-७७-२३ पर्युदस्ता दूरक्षिप्ताः ||
२-७७-२६ न समभवत् समर्थो नाभवत् ||
सभापर्व -अध्याय ०७८
||श्रीः ||
२. ७८. अध्यायः ७८
Mahabharata -Sabha Parva -Chapter Topics
दुर्योधनेन धृतराष्ट्रसमीपे युधिष्ठिराय
नानादेशीयराजोपाहृतोपायनवर्णनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
दुर्योधन उवाच ||
यन्मया पाण्डवोयानां दृष्टं तच्छृणु भारत.
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ||२-७८-१ (१४४१८)
नाविदं मूढमात्मानं दृष्ट्वाहं तदरेर्धनम्.
फलतो भूमितो वाऽपि प्रतिपद्यस्व भारत ||२-७८-२ (१४४१९)
और्णान्बैलान्वार्षदंशान् जातरूपपरिष्कृतान्.
प्रावाराजिनमुख्यांश्च काम्भोजः प्रददौ बहून् ||२-७८-३ (१४४२०)
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्.
अष्ट्रवामीस्त्रिगर्ताश्च पुष्टाः पीलुशमीङ्गुदैः ||२-७८-४ (१४४२१)
गोपाः स्वीयेन सहितास्तदादाय चतुष्पदम्.
वसातयोऽन्यद्द्रव्यं द्वारि तस्यावतस्थिरे ||२-७८-५ (१४४२२)
कमण्डलूनुपादाय जातरूपमयञ्छिवान्.
रत्नानि च हिरण्यं च सुवर्णं चैव केवलम्. २-७८-६ (१४४२३)
प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः.
त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत् ||२-७८-७ (१४४२४)
यश्च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः.
प्रीत्या दत्तः कुविन्देन धर्मराजाय धीमते ||२-७८-८ (१४४२५)
तं सर्वे भ्रातरो भ्रात्रे ददुः शङ्खं किरीटिने.
तं प्रत्यगृह्णाद्बीभत्सुस्तोयजं हेममालिनम् ||२-७८-९ (१४४२६)
चित्रं निष्कसहस्रेण भ्राजमानं स्वतेजसा.
रुचिरं दर्शनीयं च पूजितं विश्वकर्मणा ||२-७८-१० (१४४२७)
अधारयच्च धर्मश्च तं नमस्य पुनः पुनः.
योऽनादनेऽपि नदति स ननादाधिकं तदा ||२-७८-११ (१४४२८)
प्रणादाद्भूमिपास्तस्य पेतुर्हीनाः खतेजसा.
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ||२-७८-१२ (१४४२९)
सत्वेन स्वेन सम्पन्ना अन्योन्यप्रियकारिणः.
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ||२-७८-१३ (१४४३०)
ततः प्रहृष्टो बीभत्सुरददाद्धेमशृङ्गिणः.
शताननडुहान्पञ्च द्विजमुख्याय भारत ||२-७८-१४ (१४४३१)
सुमुखेन बलिर्मुख्यः प्रेषितोऽजातशत्रवे.
कुविन्देन हिरण्यं च वासांसि विविधानि च ||२-७८-१५ (१४४३२)
काश्मीरराजो मार्द्वीकं शुद्धं च सरसं मधु.
बलिं च कुत्स्नमादाय पाण्डवायाभ्युटपागमत् ||२-७८-१६ (१४४३३)
यवना हयानुपादाय पार्वतीयान्मनोजवान्.
आसनानि महार्हाणि कम्बलांश्च महाधनान् ||२-७८-१७ (१४४३४)
नवान्सूक्ष्मांश्च हृद्यांश्च परार्थ्यान्सुप्रदर्शनान्.
अन्यच्च विविधं रत्नं द्वारि ते न्यवतस्थिरे ||२-७८-१८ (१४४३५)
श्रुतायुरपि कालिङ्गो मणिरत्नमनुत्तमम्.
अङ्गः स्त्रियो दर्शनीया जातरूपविभूषिताः ||२-७८-१९ (१४४३६)
वङ्गो जाम्बूनदमयान्पर्यङ्गाञ्छतशो नृप.
दक्षिणात्सागराभ्याशात्प्रावारांश्च परश्शतम् ||२-७८-२० (१४४३७)
औदकानि सरत्नानि बलिं चादाय भारत.
अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत् ||२-७८-२१ (१४४३८)
दार्दुरं चन्दनं मुख्यं भारं षण्णवति द्रुतम्.
पाण्डवाय ददौ पाण्ड्यः शङ्खांस्तावत एव च ||२-७८-२२ (१४४३९)
चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रिताः.
चोलश्च केरलश्चोमौ ददतुः पाण्डवाय वै ||२-७८-२३ (१४४४०)
अश्मको हेमशृङ्गीश्च दोग्ध्रीर्हेमविभूषितः.
सवत्साः कुम्भदोहाश्च सहस्राण्यददाद्दश ||२-७८-२४ (१४४४१)
सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम्.
अददात्सैन्धवो राजा हेममाल्यैरलङ्कृतान् ||२-७८-२५ (१४४४२)
सौवीरो हस्तिभिर्युक्तान्रथांश्च त्रिशतं परान्.
जातरूपपरिष्कारान्मणिरत्नविभूषितान् ||२-७८-२६ (१४४४३)
मध्यन्दिनार्कप्रतिमांस्तेजसा ज्वलितानिव.
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत् ||२-७८-२७ (१४४४४)
अवन्तिराजो रत्नानि विविधानि सहस्रशः.
हाराङ्गदांश्च मुख्यान्वै विविधं च विभूषणम् ||२-७८-२८ (१४४४५)
दासीनामयुतं चापि बलिमादाय भारत.
सभाद्वारि नरश्रेष्ठ दिदृक्षुरवतिष्ठते ||२-७८-२९ (१४४४६)
दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान्.
वस्त्राणि मुख्यान्यादाय रत्नानि विविधानि च.
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत् ||२-७८-३० (१४४४७)
काशिराजेन हृष्टेन बली राज्ञि निवेदितः.
अशीतिगोसहस्राणि शतान्यष्टौ च दन्तिनाम् ||२-७८-३१ (१४४४८)
अयुतं च नदीजानां हयानां हेममालिनाम्.
विविधानि च रत्नानि काशिराजो बलिं ददौ ||२-७८-३२ (१४४४९)
कृतक्षणश्च वैदेहः कौसलश्च बृहद्बलः.
ददतुर्वाजिमुख्यांश्च सहस्राणि चतुर्दश ||२-७८-३३ (१४४५०)
शैब्यो वसादिभिः सार्धं त्रिगर्तो मालवैः सह.
तेभ्यो रत्नानि ददतुरेकैको भूमिपोऽमितम् ||२-७८-३४ (१४४५१)
हारान्मुख्यान्परार्ध्यांश्च विविधं च विभूषणम्.
शतं दासीसहस्राणि कार्पासिकनिवासिनाम् ||२-७८-३५ (१४४५२)
श्यामास्तन्वीर्दीर्घकेशीर्हेमाभरणभूषिताः.
बलिं च कृत्स्नमादाय भारुकच्छो नरर्षभ ||२-७८-३६ (१४४५३)
शुद्धान्विप्रोत्तमार्हांश्च कम्बलप्रवरान्ददौ.
ते सर्वे पाण्डुपुत्रस्य द्वार्यतिष्ठन्दिदृक्षवः ||२-७८-३७ (१४४५४)
उपायनं यदा दद्युस्तदा द्वारमलभ्यत.
इन्द्रकृष्टैर्वर्धयन्ति धान्यैर्नदमुखैस्तु ये ||२-७८-३८ (१४४५५)
समुद्रनिकटे जाताः परिसिन्धुनिवासिनः.
ते वै द्रुमाः पारदाश्च काश्यकैरातकैः सह ||२-७८-३९ (१४४५६)
बलिं विविधमादाय रत्नानि विविधानि च.
अजाविकं गोहिरण्यं खरोष्ट्रं फलवन्मधु ||२-७८-४० (१४४५७)
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः.
प्राग्ज्योतिषपतिः शूरो म्लेच्छानामधिपो बली ||२-७८-४१ (१४४५८)
यवनैः सहितो राजा भगदत्तो महाबलः.
आजानेयान्हयाञ्छीघ्रमादायानिलरंहसः ||२-७८-४२ (१४४५९)
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः.
अश्वसारमयान्भाण्डाञ्छुभान्दन्तत्सरूनसीन् ||२-७८-४३ (१४४६०)
प्राग्ज्योतिषाधिपो दत्त्वा भगदत्तोऽव्रजत्तदा.
व्यक्षाङ्ख्यक्षांल्ललाटाक्षान्नानादिग्भ्यः समागतान् ||२-७८-४४ (१४४६१)
औष्णीषआनहयांश्चैव बाहुकान्पुरुषादकान्.
एकपादांश्च तत्राहमपश्यं द्वारि वारितान् ||२-७८-४५ (१४४६२)
बल्यर्थं ददतस्तस्य हिरण्यं रजतं वसु.
इन्द्रगोपकसङ्काशाञ्छुकवर्णान्मनोजवान् ||२-७८-४६ (१४४६३)
तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि.
अनेकवर्णानारण्यान्गृहीत्वाश्वांस्तथा बहून् ||२-७८-४७ (१४४६४)
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः.
सिंहलश्च तदा राजा परिगृह्य धनं बहु ||२-७८-४८ (१४४६५)
गोशीर्षं हरितश्यामं चन्दनप्रवरं महत्.
भाराणां शतमेकं तु द्वारि तिष्ठति वारितः ||२-७८-४९ (१४४६६)
ये नग्नविषया राजन्बर्बरेयाश्च विश्रुताः.
शतं दासीसहस्राणां कम्बलांश्च सहस्रशः.
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः ||२-७८-५० (१४४६७)
पौण्ड्राश्च दामलिप्ताश्च यथाकामकृतो नृपाः.
कालेयकं च रूप्यं च परिगृह्य परिच्छदान् ||२-७८-५१ (१४४६८)
अगरून्स्फाटिकांश्चैव दन्ताञ्जातीफलानि च.
तक्कोलांश्च लवङ्गाश्च कर्पूरांश्च महाबल ||२-७८-५२ (१४४६९)
अन्यांश्च विविधान्द्रव्यान्परिगृह्योपतस्थिरे.
एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः ||२-७८-५३ (१४४७०)
शैलेयश्च ततो राजा पत्रोर्णान्परिगृह्य सः.
द्वारि तिष्ठन्महाराज द्वारपालैर्निवारितः ||२-७८-५४ (१४४७१)
चीना हूणाः कषाः काचाः पर्वतान्तरवासिनः.
आहार्षुर्दशसाहस्रान्विन्नीतान्दिक्षु विंश्रुतान् ||२-७८-५५ (१४४७२)
औष्णीकं कम्बलं चैव कीटजं मणिजं तथा.
प्रमाणरागस्पर्शाढ्यं बाह्वीचीनसमुद्भवम् ||२-७८-५६ (१४४७३)
रसान् गन्धान्प्रशंसन्तस्ततो द्वारमलभ्यत.
खर्वटास्तोमराश्चैव शूरा वर्धनकास्तथा ||२-७८-५७ (१४४७४)
चेलान्बहुविधान्गृह्य द्वारि तिष्ठन्ति वारिताः.
प्राक्कोटा नाटकेयाश्च नन्दीनगरकास्तथा ||२-७८-५८ (१४४७५)
नापितास्त्रैपुराश्चैव पञ्चमेयाः सहोरुजाः.
तथा चाटविकाः सर्वे नानाद्रव्यपरिच्छदान् ||२-७८-५९ (१४४७६)
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः.
शकास्तुषाराः कौरव्य रोमकाः शृङ्गिणोश्मकाः ||२-७८-६० (१४४७७)
बलादूरुगमा राजन्गणितं चार्बुदं मया.
कूटीकृतं सुवर्णं च पद्मकिञ्जल्कसंनिभम् ||२-७८-६१ (१४४७८)
शितान्दीर्घानसीनन्यान्यष्टिशक्तिपरश्वथान्.
श्लक्ष्णं वस्त्रमकार्पसमाविकं मृदु चाजिनम् ||२-७८-६२ (१४४७९)
बलं मत्तं समादाय द्वारि तिष्ठन्ति वारिताः.
आसनानि महार्हाणि यानानि शयनानि च ||२-७८-६३ (१४४८०)
मणिकाञ्चनचित्राणि गजदन्तमयानि च.
रथांश्च विविधाकाराञ्जाम्बूनदपरिष्कृतान् ||२-७८-६४ (१४४८१)
हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारितान्.
विचित्रान्सपरिस्तोमांश्चापानि विविधानि च. २-७८-६५ (१४४८२)
नाराचानर्घनाराचाञ्छस्त्राणि विविधानि च.
एतद्द्रव्यं महद्गृह्य पूर्वदेशाधिपो नृपः ||२-७८-६६ (१४४८३)
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः.
जन्तुचेलान्द्विसाहस्रान्दुकूलान्ययुतानि च ||२-७८-६७ (१४४८४)
कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च.
एतान्यन्यानि रत्नानि ददौ पार्थस्य वै मुदा ||२-७८-६८ (१४४८५)
अन्यान्बहुविधान्राजन्नरः सागरमाश्रिताः.
रत्नानि विविधान्गृह्य ददुस्ते पाण्डवाय तु ||२-७८-६९ (१४४८६)
मालवाश्च ततो राजन्रत्नानि विविधानि च.
गोधूमानां च राजेन्द्र द्रोणानां कोटिसंमितम् ||२-७८-७० (१४४८७)
अन्यांश्च विविधान्धान्यान्परिगृह्य महाबलः.
पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम् ||२-७८-७१ (१४४८८)
नानारत्नान्बहून्गृह्य सुराष्ट्राधिपतिर्नृपः.
तैलकुम्भान्महाराज द्रोणानामयुतानि च ||२-७८-७२ (१४४८९)
गुडानपि स तान्स्वादून्सहस्रशकटैर्नृपः.
एतानि सर्वाण्यादाय ददौ कुन्तीसुताय सः ||२-७८-७३ (१४४९०)
अन्ये च पार्थिवा राजन्नानादेशसमागताः.
रत्नानि विविधान्गृह्य ददुस्ते कौरवाय तु ||२-७८-७४ (१४४९१)
जम्बूद्वीपे समस्ते तु सराष्ट्रवनपर्वते.
करं तु न प्रयच्छेत नास्ति पार्थस्य पार्थिवः ||२-७८-७५ (१४४९२)
नरः सप्तसु वर्षेसु तद्यज्ञे नास्ति नागतः.
क्रतुर्नानागणैः कीर्णो बभौ शक्रसदो यथा ||२-७८-७६ (१४४९३)
इमांश्च दायान्विविधान्निबोध मम पार्थिव.
यज्ञाप्थे राजभिर्दत्तान्महतो धनसञ्चयान् ||२-७८-७७ (१४४९४)
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्.
ये ते कीचकवेणूनां छायां रम्यामुपासते ||२-७८-७८ (१४४९५)
खषा एकासनाद्यर्हाः प्रदरा दीर्घवेणवः.
पारदाश्च कुलिन्दाश्च तङ्कणाः परतङ्कणाः ||२-७८-७९ (१४४९६)
तद्वै पिपीलिकं नाम उद्धृतं यत्पिपीलिकैः.
जातरूपं द्रोणमेयमहार्षुः कुञ्जशो नराः ||२-७८-८० (१४४९७)
कृष्णवालांश्च चमराञ्छुक्लवालांस्तथा परान्.
हिमवत्पुष्पजं चैव स्वादुक्षौद्ररसं बहु ||२-७८-८१ (१४४९८)
उत्तरेभ्यः कुरुभ्यश्च व्यूढमाल्यैर्महात्मभिः.
उत्तरादपि कैलासादोषधीः सुमहाबलाः ||२-७८-८२ (१४४९९)
पार्वतीयाश्चराजान आहृत्य प्रणताः स्थिताः.
अजातशत्रवे राजन्द्वारि तिष्ठन्ति वारिताः ||२-७८-८३ (१४५००)
ये परार्घ्या हिमवतः सूर्योदयगिरेरनु.
एवंरूपाः समुद्रान्ते लौहित्यमभितश्च ये ||२-७८-८४ (१४५०१)
फलमूलाशना ये च किराताश्चर्मवाससः.
चन्द्नागरुमुख्यानि महार्हान्कम्बलानि च ||२-७८-८५ (१४५०२)
चर्मरत्नसुवर्णानि गन्धानुच्चावचानि च.
कैरातकीनामयुतं दासीनां च विशंपते ||२-७८-८६ (१४५०३)
आहृत्य रमणीयार्थान्दूरगान्मृगपक्षिणः.
निचितं पर्वतेभ्यश्च हिरण्यंभूरिवर्चसम् ||२-७८-८७ (१४५०४)
बलिं च कृत्स्त्रमादाय द्वारि तिष्टन्ति वारिताः.
कापव्या दरदा दर्वाः शूरा वै यमकास्तथा ||२-७८-८८ (१४५०५)
औदुम्बरा दुर्विभागा द्वारि तिष्टन्ति वारिताः.
काश्मीराश्च कुमाराश्च गौरका हंसकास्तथा ||२-७८-८९ (१४५०६)
शिबित्रैगर्तयौधेया राजन्या मद्रकैः सह.
वसुतेयाः समौलेया दाहक्षुद्रकमालवैः ||२-७८-९० (१४५०७)
चौण्डिकाश्चौदकाश्चैव साल्वाश्चैव विशम्पते.
अङ्कवङ्काश्च यवना अनवद्या गयैः सह ||२-७८-९१ (१४५०८)
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः.
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवै ||२-७८-९२ (१४५०९)
वङ्काः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः.
दुकूलं कौशिकं चैव पत्रोर्णं चैव भारत ||२-७८-९३ (१४५१०)
उपावृत्ता नृपास्तस्य ददुः प्रीतिं न चागमन्.
उच्यन्ते तत्र हि द्वार्स्थैर्बलिमादाय विष्ठिताः ||२-७८-९४ (१४५११)
ईषादन्तान्हेमकक्ष्यान्पद्मवर्णान्कुथावृतान्.
शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः ||२-७८-९५ (१४५१२)
क्षमावतः कुलीनांश्च कुञ्जरान्सपरिच्छदान्.
दत्त्वैकैको दशशतान्द्वारेण प्रविशन्त्विति ||२-७८-९६ (१४५१३)
वैदेहकाश्च पुण्ड्राश्च गौलेयास्ताम्रलिप्तकाः.
मरुकाः काशिका दर्दा भौमेया नटनाटकाः ||२-७८-९७ (१४५१४)
कर्णाटाः कांस्यकुट्टाश्च पद्मजालाः सतीनराः.
दाक्षिणात्याः पुलिन्दाश्च शवेरास्तङ्कणाः शषाः ||२-७८-९८ (१४५१५)
बर्बरा यवनाश्चैव गर्गराभीरकास्तथा.
पल्लवाः शककारूशास्तुम्बकाः काशिकास्तदा ||२-७८-९९ (१४५१६)
एते चान्ये च बहवो नानादिगभ्यः समागताः.
अन्यैश्चोपहृतान्यत्र रत्नानि हि महात्मभिः ||२-७८-१०० (१४५१७)
समुद्रसारवैडूर्यान्मुक्ताः शङ्खास्तथैव च.
शुभावर्ताञ्छुभाञ्छुक्तीः सिंहलाः समुपाहरन् ||२-७८-१०१ (१४५१८)
सम्भृतान्मणिचीरैश्च श्यामांस्ताम्रान्तलोचनान्.
राजा चित्ररथो नाम गन्धर्वो वासवानुगः.
शतानि चत्वार्यददद्धयानां वातरंहसाम् ||२-७८-१०२ (१४५१९)
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्.
आम्रपत्रसवर्णानामददद्धेममालिनाम् ||२-७८-१०३ (१४५२०)
कृती राजा च कौरव्य शूकराणां विशाम्पते.
अददद्गजरत्नानां शतानि सुबहून्यथ ||२-७८-१०४ (१४५२१)
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्.
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ||२-७८-१०५ (१४५२२)
पांसुराष्ट्राद्वमुदानो राजा षड्विंशतिं गजान्.
अश्वानां चसहस्रे द्वे राजन्काञ्चनमालिनाम् ||२-७८-१०६ (१४५२३)
जवसत्वोपपन्नानां वयस्थानां नराधिप.
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ||२-७८-१०७ (१४५२४)
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश.
दासानामयुतं चैव सदाराणां विशाम्पते ||२-७८-१०८ (१४५२५)
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा.
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ||२-७८-१०९
(१४५२६)
वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन्किरीटिनः.
अददद्गजमुख्यानां सहस्राणि चतुर्दश ||२-७८-११० (१४५२७)
आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः.
यद्ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम् ||२-७८-१११ (१४५२८)
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत्.
तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत् ||२-७८-११२ (१४५२९)
सुरभींश्चन्दनरसान्हेमकुम्भसमास्थितान्.
मलयाद्दर्दुराच्चैव चन्दनागुरुसञ्चयान् ||२-७८-११३ (१४५३०)
मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम्.
चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ ||२-७८-११४ (१४५३१)
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च.
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ||२-७८-११५ (१४५३२)
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः.
ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ||२-७८-११६ (१४५३३)
प्रीत्यर्थं ब्राह्मणश्चैव क्षत्रियाश्च विनिर्जिताः.
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवस्तथा ||२-७८-११७ (१४५३४)
प्रीत्या च बहुमानाच्चाप्युपागच्छन्युधिष्ठिरम्.
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा ||२-७८-११८ (१४५३५)
नानादेशसमुत्थैश्चन नानाजितिभिरेव च.
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ||२-७८-११९ (१४५३६)
उच्चावचानुपग्राहान्राजभिः प्रापितान्बहून्.
शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत ||२-७८-१२० (१४५३७)
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि पार्थिव.
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ||२-७८-१२१ (१४५३८)
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः.
रथानामर्बुदं चापि पादाता बहवस्तथा ||२-७८-१२२ (१४५३९)
प्रमीयमाणमां च पच्यमानं तथैव च.
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ||२-७८-१२३ (१४५४०)
नाभुक्तवन्तं नापीतं नालङ्कृतमसत्कृतम्.
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ||२-७८-१२४ (१४५४१)
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः.
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः.
सुप्रीताः परितृष्टाश्च ते ह्याशंसत्त्यरिक्षयम् ||२-७८-१२५ (१४५४२)
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्.
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ||२-७८-१२६ (१४५४३)
अभुक्तं भुक्तवद्वापि सर्वमाकुब्जवामनम्.
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशाम्पते ||२-७८-१२७ (१४५४४)
द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत.
साम्बन्धिकेनपाञ्चालाः सख्येनान्धकवृष्णयः ||||२-७८-१२८ (१४५४५)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अष्टसप्ततितमोऽध्यायः
||७८. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-७८-२ नाविदमिति सम्बन्धः | अपि तथापि मुख्यतो वक्ष्यमाणं धनं
प्रतिपद्यस्वेत्यर्थ ः. फलतो जातं वस्त्रादि. भूमितो जातं हीरादि ||
२-७८-५ वस्त्राणि धान्यद्रव्यं च घ.पाठः ||
२-७८-१०४
सभापर्व -अध्याय ०७९
||श्रीः ||
२. ७९. अध्यायः ७९
Mahabharata -Sabha Parva -Chapter Topics
दुर्योधनेन धृतराष्ट्रसमीपे राजसूयवर्णनादि ||१. .
Mahabharata -Sabha Parva -Chapter Text
दुर्योधन उवाच ||
आर्यास्तु ये वै राजानः सत्यसन्धा महाव्रताः.
पर्याप्तविद्या वक्तारो वेदान्तावभृथप्लुताः ||२-७९-१ (१४५४६)
धृतिमन्तो ह्रीनिषेवा धर्मात्मानो नाशस्विनः.
मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपांसते ||२-७९-२ (१४५४७)
दक्षिणार्थं समानीत राजभिः कांस्यदोहनाः.
आरण्या बहुसाहस्रा अपश्यंस्तत्रतत्र गाः ||२-७९-३ (१४५४८)
आजह्रस्तत्र सत्कृत्य स्वयमुद्यम्य भारत.
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ||२-७९-४ (१४५४९)
बाह्लीको रथमाहार्षीज्जाम्बूनदविभूषितम्.
सुदक्षिणस्तु युयुजे श्वेतैः काम्भोजजैर्हयैः ||२-७९-५ (१४५५०)
सुनीथः प्रीतिमांश्चैव ह्यनुकर्षं महाबलः.
ध्वजं चेदिपतिश्चैवमहार्षीत्स्वयमुद्यतम् ||२-७९-६ (१४५५१)
दाक्षिणात्यः सन्नहनं स्रगुष्णीषे च मागधः.
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ||२-७९-७ (१४५५२)
मत्स्यस्त्वक्षान्हेमनद्धानेकलव्य उपानहौ.
आवन्त्यस्त्वभिषेकार्थमपो बहुविधास्तथा ||२-७९-८ (१४५५३)
चेकितान उपासङ्गं धनुः काश्य उपाहरत्.
असिं च सुत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ||२-७९-९ (१४५५४)
अभ्यपिञ्चत्ततो धौम्यो व्यासश्च समुहातपाः.
नारदं च पुरस्कृत्य देवलं चासितं मुनिम् ||२-७९-१० (१४५५५)
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः.
जामदग्न्येन सहितास्तथान्ये वेदपारगाः ||२-७९-११ (१४५५६)
अभिजग्मर्महात्मानो मन्त्रवद्भूरिदक्षिणम्.
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ||२-७९-१२ (१४५५७)
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः.
धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः ||२-७९-१३ (१४५५८)
चामरे चापि शुद्धे द्वे यमौ जगृहतुस्तथा.
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः ||२-७९-१४ (१४५५९)
तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः.
शैक्यं निष्कसहस्रेण सुकृतं विश्वकर्मणा ||२-७९-१५ (१४५६०)
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत्.
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् ||२-७९-१६ (१४५६१)
उत्तरं तु गच्छन्ति विना तात पतत्र्रिभिः.
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गलकारकान् ||२-७९-१७ (१४५६२)
प्राणदन्त समाध्मातास्ततो रोमाणि मेऽहृषन्.
प्रापतन्भूमिपालाश्च ये तु हीनाः स्वतेजसा ||२-७९-१८ (१४५६३)
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः.
सत्वस्था वीर्यसम्पन्ना ह्यन्योन्यप्रियदर्शनाः ||२-७९-१९ (१४५६४)
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा.
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् ||२-७९-२० (१४५६५)
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत.
न रन्तिदेवो नाभागो यौवनाश्वो मनुर्न च ||२-७९-२१ (१४५६६)
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः.
ययातिर्नहुषो वापि यथा राजा युधिष्ठिरः ||२-७९-२२ (१४५६७)
यथाऽतिमात्रं कौन्तेयः श्रिया परमया युतः.
राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ||२-७९-२३ (१४५६८)
एतां दृष्टा श्रियं पार्थे हरिश्चन्द्रे यथा विभो.
कथं तु जीवितं श्रेयो मम पश्यसि भारत ||२-७९-२४ (१४५६९)
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप.
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्त एव च ||२-७९-२५ (१४५७०)
एवं दृष्ट्वा नाभिविन्दामि शर्म
समीक्षमाणोऽपि कुरुप्रवीर.
तेनाहमेवं कृशतां गतश्च
विवर्णतां चैव सशोकतां च ||||२-७९-२६ (१४५७१)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि ऊनाशीतितमोऽध्यायः ||७९ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-७९-२ हीनिषेवा लज्जावन्तः ||
सभापर्व -अध्याय ०८०
||श्रीः ||
२. ८०. अध्यायः ८०
Mahabharata -Sabha Parva -Chapter Topics
दुर्योधनम्प्रति धृतराष्ट्रेण पाण्डवेषु द्वेषनिषेधनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
धृतराष्ट्र उवाच.
त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः.
द्वेषा ह्यसुखमादत्ते यथैव निघनं तथा ||२-८०-१ (१४५७२)
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्.
अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ ||२-८०-२ (१४५७३)
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप.
पुत्र कामयसे मोहान्मैवं भूः शाम्य मा शुचः ||२-८०-३ (१४५७४)
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ.
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् ||२-८०-४ (१४५७५)
आहरिष्यन्ति राजानस्तवापि विपुलं धनम्.
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च ||२-८०-५ (१४५७६)
अनार्याचरितं तात परस्वस्पृहणं भृशम्.
स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते ||२-८०-६ (१४५७७)
' मही कामदुघा सा हि वीरपत्नीति चोच्यते.
तथा वीरस्य भार्या श्रीस्ते इमे हि कलत्रवत् ||२-८०-७ (१४५७८)
तवाप्यस्ति हे चेद्वीर्यं भोक्ष्यसे हि महीमिमाम् ||२-८०-८ (१४५७९)
अयुक्तमिदमेतत्तु परस्वहरणं भृशम्.
उभयोर्लोकयोर्दुःखं सुहृदां काङ्क्षतोऽनयम् ||२-८०-९ (१४५८०)
अव्यापारः परार्तेषु नित्योद्योगः स्वकर्मसु.
रक्षणं समुपात्तानामेतद्वैभवलक्षणम् ||२-८०-१० (१४५८१)
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः.
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ||२-८०-११ (१४५८२)
बाहूनिवैतान्मा च्छेत्सीः पाण्डुपुत्रास्तथैव ते.
भ्रातृणां तद्धनार्थं वै मित्रद्रोहं च मा कुरु ||२-८०-१२ (१४५८३)
पाण्डोः पुत्रान्मा द्विषस्वेह राजं-
स्तथैव ते भ्रातृधनं समग्रम्.
मित्रद्रोहे तात महानघर्मः
पितामहा ये तव तेऽपि तेषाम् ||२-८०-१३ (१४५८४)
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान्.
क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ ||||२-८०-१४ (१४५८५)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अशीतितमोऽध्यायः ||८० ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-८०-१ ज्येष्ठाया अपत्यं ज्यैष्ठिनेयः ||
२-८०-२ अव्युत्पन्नं परकपटानभिज्ञम् | समानार्थं
तुल्यधनम्. तुल्यमित्रं त्वन्मित्रा द्रोहिणम् अद्विषन्तं च त्वामपीति
शेषः ||
सभापर्व -अध्याय ०८१
||श्रीः ||
२. ८१. अध्यायः ८१
Mahabharata -Sabha Parva -Chapter Topics
दुर्योधनेन धृतराष्ट्रोक्तिप्रतिकूलभाषणम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
दुर्योधन उवाच ||
यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः.
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव ||२-८१-१ (१४५८६)
जानन्वै मोहयति मां नावि नौरिव संयता.
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् ||२-८१-२ (१४५८७)
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता.
भविष्यमर्थमाख्यासि सर्वदा कृत्यमात्मनः ||२-८१-३ (१४५८८)
परनेयोऽग्रणीर्यस्य स मार्गान्प्रतिमुह्यति.
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ||२-८१-४ (१४५८९)
राजन्परिणतप्रज्ञो वृद्धसेवी जितेन्द्रियः.
प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् ||२-८१-५ (१४५९०)
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः.
तस्माद्राज्ञाऽप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि ||२-८१-६ (१४५९१)
क्षत्रियस्य महाराज जये वृत्तिः समाहिता.
स वै धर्मस्त्वधर्मो वा स्ववृत्तौ का परीक्षणा ||२-८१-७ (१४५९२)
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः.
प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ ||२-८१-८ (१४५९३)
प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते.
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ||२-८१-९ (१४५९४)
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका.
यो वै सन्तापयति यं स शत्रुः प्रोच्यते नृप ||२-८१-१० (१४५९५)
असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम्.
समुच्छ्रये यो यतते स राजन्परमो नयः ||२-८१-११ (१४५९६)
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा.
पूर्वावाप्तं हरन्त्यन्ये राजध्रमं हि तं विदुः ||२-८१-१२ (१४५९७)
अद्रोहसमंय कृत्वा चिच्छेद नमुचेः शिरः.
शक्रः साऽभिमता तस्य रिपौ वृत्तिः सनातनी ||२-८१-१३ (१४५९८)
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव.
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ||२-८१-१४ (१४५९९)
नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते.
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः ||२-८१-१५ (१४६००)
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते.
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ||२-८१-१६ (१४६०१)
अल्पोऽपि ह्यरिरत्यर्थं वर्धमानः पराक्रमैः.
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ||२-८१-१७ (१४६०२)
आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत.
एष भारः सत्ववतां न यः शिरसि धिष्ठितः ||२-८१-१८ (१४६०३)
जन्मवृद्धिमिवार्थानां यो वृद्धिमाभिकाङ्क्षते.
एधते ज्ञातिषु स वै सद्यो वृद्धिर्हि विक्रमः ||२-८१-१९ (१४६०४)
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति.
अवाप्स्ये वा श्रियं तां हि शयिष्ये वा हतो युधि ||२-८१-२० (१४६०५)
एतादृशस्य किं मेऽद्य जीवितेन विशाम्पते.
वर्धन्ते पाण्डवा नित्यं वयं स्वस्थिरवृद्धयः ||||२-८१-२१ (१४६०६)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकाशीतितमोऽध्यायः ||८१ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-८१-३ कृत्यं इदानीं कर्तव्यम् ||
२-८१-१४ अप्रवासिनं तीर्थाटनादिरहितम् ||
२-८१-१५ साधारणी तुल्या वृत्तिर्जीविका | एकामिषत्वमित्यर्थः ||
सभापर्व -अध्याय ०८२
||श्रीः ||
२. ८२. अध्यायः ८२
Mahabharata -Sabha Parva -Chapter Topics
दुर्योधनम्प्रति शकुनिना द्यूताय प्रोत्साहनम्
||१. . धृतराष्ट्राज्ञया शिल्पिभिः सभानिर्माणम्
||२. . धृतराष्ट्रेण पाण्डवानयनाय विदुरप्रेषणम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
शकुनिरुवाच ||
यां त्वमेतां श्रियं पाण्डुपुत्रे युधिष्ठिरे.
तप्यसे तां हरिष्यामि द्यूतेन जयतां वर ||२-८२-१ (१४६०७)
आहूयतां परं राजन्कुन्तीपुत्रो युधिष्ठिरः.
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे ||२-८२-२ (१४६०८)
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये.
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत ||२-८२-३ (१४६०९)
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्फुरम् ||२-८२-४ (१४६१०)
दुर्योधन उवाच. २-८२-५क्ष् (१५३३)
अयमुत्सहते राजच्छ्रियमाहर्तुमक्षवित्.
द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि ||२-८२-५ (१४६११)
धृतराष्ट्र उवाच. २-८२-६क्ष् (१५३४)
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः.
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ||२-८२-६ (१४६१२)
दुर्योधन उवाच ||२-८२-७क्ष् (१५३५)
' कृष्णादभ्याधिकः सोऽपि क्षत्ता बोद्धा विशाम्पते.
केवलं धर्ममेवाह न तद्विजयसाधकम् ||२-८२-७ (१४६१३)
जयश्च धर्मतोपेतस्तथैव भरतर्षभ.
तस्माद्विनयतो जेता तावुभौ च विरोधिनौ' ||२-८२-८ (१४६१४)
व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः.
पाण्डवानां हिते युक्तो न तथा मम कौरव ||२-८२-९ (१४६१५)
नारभेतान्यसामर्थ्यात्पुरुषः कार्यमात्मनः.
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ||२-८२-१० (१४६१६)
भयं परिहरन्मत्त आत्मानं परिपालयन्.
वर्षासु क्लिन्नवटवत्तिष्ठन्नैवावसीदति ||२-८२-११ (१४६१७)
न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते.
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ||२-८२-१२ (१४६१८)
धृतराष्ट्र उवाच ||२-८२-१३क्ष् (१५३६)
सर्वथा पुत्र बलिभिर्विग्रहो मे रोचते.
वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ||२-८२-१३ (१४६१९)
अनर्थमर्थं मन्यसे राजपुत्र
सङ्ग्रन्थनं कलहस्यातियाति.
तद्वै प्रवृत्तं तु यथाकथञ्चित्
सृजेदसीन्निशितान्सायकांश्च ||२-८२-१४ (१४६२०)
दुर्योधन उवाच ||२-८२-१५क्ष् (१५३७)
द्यूते पुराणैर्व्यवहारः प्रणीत-
स्तत्रात्ययो नास्ति न सम्प्रहारः.
तद्रोचतां शकुनेर्वाक्यमद्य
सभां क्षिप्रं त्वमिहाज्ञापयस्व ||२-८२-१५ (१४६२१)
स्वर्गद्वारं दीव्यतां नो विशिष्टं
तद्वर्तिनां चापि तथैव युक्तम्.
भवेदेवं ह्यात्मना तुल्यमेव
दुरोदरं पाण्डवैस्त्वं कुरुष्व ||२-८२-१६ (१४६२२)
धृतराष्ट्र उवाच. २-८२-१७क्ष् (१५३८)
वाक्यं न मे रोचते यत्त्वयोक्तं
यत्ते प्रियं तत्क्रियतां नरेन्द्र.
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं
न हीदृशं भावि वचो हि धर्म्यम् ||२-८२-१७ (१४६२३)
दृष्टं ह्येतद्विदुरेणै सर्वं
विपश्चिता बुद्धिविद्यानुगेन.
तदेवैतदवशस्याभ्युपैति
महद्भयं क्षत्रियजीवघाति ||२-८२-१८ (१४६२४)
वैशम्पायन उवाच ||२-८२-१९क्ष् (१५३९)
एवमुक्त्वा धृतराष्ट्रो मनीषी
दैवं मत्वा परमं दुस्तरं च.
शशासोच्चैः पुरुषान्पुत्रवाक्ये
स्थितो राजा दैवसंमूढचेताः ||२-८२-१९ (१४६२५)
सहस्रस्तम्भां हेमवैदूर्यचित्रां
शतद्वारां तोरणस्फाटिकाढ्याम्.
सभामग्र्यां क्रोशमात्रायतां मे
तद्विस्तारामाशु कुर्वन्तु युक्ताः ||२-८२-२० (१४६२६)
श्रुत्वा तस्य त्वरिता निर्विशङ्काः
प्राज्ञा दक्षास्तां तदा चक्रुराशु.
सर्वद्रव्याण्युपजह्रुः सभायां
सहस्रशः शिल्पिनश्चैव युक्ताः ||२-८२-२१ (१४६२७)
कालेनाल्पेनाथ निष्ठां गतां तां
सभां रम्यां बहुरत्नां विचित्राम्.
चित्रैर्हैमैरासनैरभ्युपेता-
माचख्युस्ते तस्य राज्ञः प्रतीताः ||२-८२-२२ (१४६२८)
ततो विद्वान्विदुरं मन्त्रिमुख्य-
मुवाचेदं धृतराष्ट्रो नरेन्द्रः.
युधिष्ठिरं राजपुत्रं च गत्वा
मद्वाक्येन क्षिप्रमिहानयस्व ||२-८२-२३ (१४६२९)
सभेयं मे बहुरत्ना विचित्रा
शय्यासनैरुपपन्ना महार्हैः.
सा दृश्यतां भ्रातृभिः सार्धमेत्य
मुहृद्द्यूतं वर्ततामत्र चेति ||२-८२-२४ (१४६३०)
वैशम्पायन उवाच ||२-८२-२५क्ष् (१५४०)
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः.
मत्वा च दुस्तरं दैवमेतद्राजंश्चकार ह ||२-८२-२५ (१४६३१)
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः.
नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ||२-८२-२६ (१४६३२)
विदुर उवाच ||२-८२-२७क्ष् (१५४१)
नाभिनन्दे नृपते प्रैषमेतं
मैवं कृथाः कुलनाशाद्बिभेमि.
पुत्रैर्भिन्नः कलहस्ते ध्रुवं स्या-
देतच्छङ्के द्यूतकृते नरेन्द्र ||२-८२-२७ (१४६३३)
धृतराष्ट्र उवाच. २-८२-२८क्ष् (१५४२)
नेह क्षत्तः कलहस्तप्स्यते मां
न चेद्दैवं प्रतिलोमं भविष्यत्.
छात्रा तु दिष्टस्य वशे किलेदं
सर्वं जगच्चेष्टति न स्वतन्त्रम् ||२-८२-२८ (१४६३४)
तदद्य विदुर प्राप्य राजानं मम शासनात्.
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ||||२-८२-२९ (१४६३५)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि द्व्यशीतितमोऽध्यायः
||८२ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-८२-३ ग्लहान् पणान् ||
२-८२-४ आस्फुरमक्षविन्यासपातनादिस्थानम् ||
२-८२-८ विनयतः अनयात् ||
२-८२-१६ दुरोदरं द्यूतम् ||
सभापर्व -अध्याय ०८३
||श्रीः ||
२. ८३. अध्यायः ८३
Mahabharata -Sabha Parva -Chapter Topics
विदुरस्य इन्द्रप्रस्थगमनम् ||१. . पाण्डवानां द्यूतसभाप्रवेशः ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ततः प्रायाद्विदुरोऽश्वैरुदारै-
र्महाजवैर्बलिभिः साधु दान्तैः.
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा
मनीषिणां पाण्डवानां सकाशे ||२-८३-१ (१४६३६)
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्.
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ||२-८३-२ (१४६३७)
स राजगृहमासाद्य कुबेरभवनोपमम्.
अभ्यागच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ||२-८३-३ (१४६३८)
तं वै राजा सत्यधृतिर्महात्मा
अजातशत्रुर्विदुरं यथावत्.
पूजापूर्वं प्रतिगृह्याजमीढ-
स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ||२-८३-४ (१४६३९)
युधिष्ठिर उवाच ||२-८३-५क्ष् (१५४३)
विज्ञायते ते मनसोऽप्रहर्षः
कच्चित्क्षत्तः कुशलेनागतोऽसि.
कच्चित्पुत्राः स्थविरस्यानुलोमा
वशानुगाश्चापि विशोऽथ कच्चित् ||२-८३-५ (१४६४०)
विदुर उवाच ||२-८३-६क्ष् (१५४४)
राजा महात्मा कुशली सपुत्र
आस्ते वृतो ज्ञातिभिरिन्द्रकल्पः.
प्रीतो राजन्पुत्रगुणैर्विनीतो
विशोक एवात्मरतिर्महात्मा ||२-८३-६ (१४६४१)
इदं तु त्वां कुरुराजोऽभ्युवाच
पूर्वं पृष्ट्वा कुशलं चाव्ययं च.
इयं सभा त्वत्सभातुल्यरूपा
भ्रातॄणां ते दृस्यतामेत्य पुत्र ||२-८३-७ (१४६४२)
समागम्य भ्रातृभिः पार्थ तस्यां
सुहृद्द्यूतं क्रियतां रम्यतां च.
प्रीयामहे भवतां सङ्गमेन
समागताः कुरवश्चापि सर्वे ||२-८३-८ (१४६४३)
दुरोदरा विहिता ये तु तत्र
महात्मना धृतराष्ट्रेण राज्ञा.
तान्द्रक्ष्यसे कितवान्सन्निविष्टा-
नित्यागतोऽहं नृपते तज्जुषस्व ||२-८३-९ (१४६४४)
युधिष्ठर उवाच ||२-८३-१०क्ष् (१५४५)
द्यूते क्षत्तः कलहो विद्यते नः
को वै रोचतने बुध्यमानः.
किं वा भवान्मन्यते युक्तरूपं
भवद्वाक्ये सर्व एव स्थिताः स्मः ||२-८३-१० (१४६४५)
विदुर उवाच ||२-८३-११क्ष् (१५४६)
जानाम्यहं द्यूतमनर्थमूलं
कृतश्च यत्नोऽस्य मया निवारणे.
राजा च मां प्राहिमोत्त्वत्सकाशं
श्रुत्वा विद्वञ्श्रेय इहाचरस्व ||२-८३-११ (१४६४६)
युधिष्ठिर उवाच ||२-८३-१२क्ष् (१५४७)
के तत्रान्ये कितवा दीव्यमाना
विना राज्ञो धृतराष्ट्रस्य पुत्रैः.
पृच्छामि त्वां विदुर ब्रूहि नस्तान्
यैर्दीव्यामः शतशः सन्निपत्य ||२-८३-१२ (१४६४७)
विदुर उवाच ||२-८३-१३क्ष् (१५४८)
गन्धारराजः शकुनिर्विशाम्पते
राजाऽतिदेवी कृतहस्तो मताक्षः.
विनिंशतिश्चित्रसेनश्च राजा
सत्यव्रतः पुरुमित्रो जयश्च ||२-८३-१३ (१४६४८)
युधिष्ठिर उवाच ||२-८३-१४क्ष् (१५४९)
महाभयाः कितवाः सन्निविष्टा
मायोपधा देवितारोऽत्र सन्ति.
धात्रा तु दिष्टस्य वशे किलेदं
सर्वं जगत्तिष्ठति न स्वतन्त्रम् ||२-८३-१४ (१४६४९)
नाहं राज्ञो धृतराष्ट्रस्य शासना-
न्न गन्तुमिच्छामि कवे दुरोदरम्.
इष्टो हि पुत्रस्य पिता सदैव
तदस्मि कर्ता विदुरात्थ मां यथा ||२-८३-१५ (१४६५०)
न चाकामः शकुनिना देविताहं
न चेन्मां जिष्णुराह्वयिता सभायाम्.
आहूतोऽहं न निवर्ते कदाचित्
तदाहितं शाश्वतं वै व्रतं मे ||२-८३-१६ (१४६५१)
वैशम्पायन उवाच ||२-८३-१७क्ष् (१५५०)
एवमुक्त्वा विदुरं धर्मराजः
प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्.
प्रायाच्छ्वोभूते सगणः सानुयात्रः
सह स्त्रीभिर्दौपदामादि कृत्वा ||२-८३-१७ (१४६५२)
दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत्.
धातुश्च वशमन्वेति पाशैरिव नरः सितः ||२-८३-१८ (१४६५३)
इत्युक्त्वा प्रययौ राजा सह क्षत्र्रा युधिष्ठिरः.
अमृष्यमाणस्तस्याथ समाह्वानमरिन्दमः ||२-८३-१९ (१४६५४)
बाह्लिकेन रथं यत्तमास्थाय परवीरहा.
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः.
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरः सरः ||२-८३-२० (१४६५५)
' सन्दिदेश ततः प्रेष्यानागतान्नगरं प्रति.
ततस्ते नृपशार्दूल चक्रुर्वै नृपशासनम् ||२-८३-२१ (१४६५६)
ततो राजा महातेजाः संयम्य सपरिच्छदम्.
ब्राह्मणैः स्वस्ति वाच्याथ प्रययौ मन्दिराद्बहिः २-८३-२२ (१४६५७)
ब्राह्मणेभ्यो धनं दत्त्वा गत्यर्थं स यथाविधि.
अन्येभ्यः स तु दत्त्वा च गन्तुमेवोपचक्रमे ||२-८३-२३ (१४६५८)
सर्वलक्षणसम्पन्नं राजहंसपरिच्छदम्.
तमारुह्य महाराजो गजेन्द्रं षष्टिहायनम् ||२-८३-२४ (१४६५९)
हारी किरीटी हेमाभः सर्वाभरणभूषितः.
रराज राजन्पार्थो वै परया नृपशोभया ||२-८३-२५ (१४६६०)
रुक्मवेदिगतः प्राज्यो ज्वलन्निव हुताशनः.
ततो जगाम राजा स प्रहृष्टनरवाहनः ||२-८३-२६ (१४६६१)
रथघोषेण महता पूरयन्वै नभः स्थलम्.
संस्तूयमानः स्तुतिभिः सूतमागधबन्दिभिः ||२-८३-२७ (१४६६२)
महासैन्येन सहितो यथादित्यः स्वरश्मिभिः.
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ||२-८३-२८ (१४६६३)
बभौ युधिष्ठिरो राजा पौर्णमास्यामिवोडुराट्.
चामरैर्हेमदण्डैश्च धूयमानः समन्ततः ||२-८३-२९ (१४६६४)
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः.
प्रत्यगृह्णाद्यथान्यायं यथआवद्भरतर्षभः ||२-८३-३० (१४६६५)
तथैव सैनिका राजन्राजानमनुयान्ति ये.
तेषां हलहलाशब्दो दिवं स्तब्धः प्रतिष्ठितः ||२-८३-३१ (१४६६६)
नृपस्याग्ने ययौ राजन्भीमसेनो रथी बली.
उभौ पार्श्वगतौ राज्ञः सतल्पौ वै सुकल्पितौ ||२-८३-३२ (१४६६७)
अधिरूढौ यमौ चापि जग्मतुर्भरतर्षभ.
शोभयन्तौ महासैन्यं तावुभौ रूपशालिनौ ||२-८३-३३ (१४६६८)
पृष्ठतोऽनुययौ जिष्णुर्वीरः शस्त्रभृतां वरः.
श्वेताश्वो गाण्डिवं गृह्य अग्निदत्तं रथं गतः ||२-८३-३४ (१४६६९)
सैन्यमध्ये ययौ राजन्कुरुराजो युधिष्ठिरः.
द्रौपदीप्रमुखा नार्यः सानुगाः सपरिच्छदाः ||२-८३-३५ (१४६७०)
आरुह्य ता विचित्राङ्ग्यो यानानि विविधानि च.
महत्या सेनया राजन्नग्रे यानानि विविधानि च. २-८३-३६ (१४६७१)
समृद्धनरनागाश्वं सपताकरथध्वजम्.
संनद्धवरनिस्त्रिंशं पथि निर्घोषनिः स्वनम् ||२-८३-३७ (१४६७२)
शङ्खदुन्दुभितालानां वेणुवीणानुवनादितम्.
शुशुभे पाण्डवं सैन्यं प्रयास्यत्तत्तदा नृप ||२-८३-३८ (१४६७३)
यथा कुबेरो लङ्कायां पुरा चात्यन्तशोभया.
महत्या सेनया सार्धं गुरुमिन्द्रं स गच्छति ||२-८३-३९ (१४६७४)
तथा ययौ स पार्थोऽपि असङ्ख्येयविभूतिना.
सुसमृद्धेन सैन्येन यथा वैश्रवणस्तथा ||२-८३-४० (१४६७५)
स सरांसि नदीश्चैव वनान्युपवनानि च.
अत्यक्रामन्महाराज पुरीं चाभ्यवपद्यत ||२-८३-४१ (१४६७६)
स हास्तिनसमीपे तु कुरुराजो युधिष्ठिरः.
चक्रे निवेशनं तत्र ततः स सहसैनिकाः ||२-८३-४२ (१४६७७)
शिवे देशे समे चैव न्यवसत्पाण्डवस्तदा.
ततोराजन्समाहूय शोकविह्वलया गिरा ||२-८३-४३ (१४६७८)
एतद्वाक्यं च सर्वस्वं धृतराष्ट्रचिकीर्षितम्.
आचचक्षे यथावृत्तं विदुरोऽथ नृपस्य ह ||२-८३-४४ (१४६७९)
तच्छ्रुत्वा भाषितं तेन धर्मराजोऽब्रवीदिदम्.
न मर्षयाम्यहं क्षत्तः समाह्वानं व्रतं हि मे.
स्वस्त्यस्तु लोके विप्राणां प्रजानां चैव सर्वदा ||२-८३-४५ (१४६८०)
वैशम्पायन उवाच ||२-८३-४६क्ष् (१५५१)
प्रविवेश ततो राजा नगरं नागसाह्वयम्.
धृतराष्ट्रेण चाहूतः कालस्य समयेन च' ||२-८३-४६ (१४६८१)
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ.
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ||२-८३-४७ (१४६८२)
तथा भीष्मेण द्रोणेन कर्णेन च कृपेण च.
समियाय यथान्यायं द्रौणिना च विभुः सह २-८३-४८ (१४६८३)
समेत्य च महाबाहुः सोमदत्तेन चैव ह.
दूर्योधनेन सभ्रात्रा सौबलेन च वीर्यवान् ||२-८३-४९ (१४६८४)
ये चान्ये तत्र राजानः पूर्वमेव समागताः.
दुःशासनेन वीरेण सर्वैर्भ्रातृभिरेव च ||२-८३-५० (१४६८५)
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः.
ततः सर्वैर्महाबाहुर्भ्रातृभिः पिरवारितः ||२-८३-५१ (१४६८६)
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः.
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् ||२-८३-५२ (१४६८७)
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम्.
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः ||२-८३-५३ (१४६८८)
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ||२-८३-५४ (१४६८९)
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः.
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ||२-८३-५५ (१४६९०)
ततो हर्षः समभवत्कौरवाणां विशाम्पते.
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ||२-८३-५६ (१४६९१)
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाणि च.
ददृशुश्चोपयातारो द्रोपदीप्रमुखाः स्त्रियः ||२-८३-५७ (१४६९२)
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव.
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ||२-८३-५८ (१४६९३)
ततस्ते पुरुषव्याघ्रा ग्तवा स्त्रीभिस्तु संविदम्.
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ||२-८३-५९ (१४६९४)
ततः कृताह्निकाः सर्वे दिव्यचन्दनभूषिताः.
कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ||२-८३-६० (१४६९५)
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ.
उपगीयमाना नारीभिरस्वपन्कुरुपुङ्गवाः ||२-८३-६१ (१४६९६)
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्.
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ||२-८३-६२ (१४६९७)
मुखोषितास्ते रजनीं प्रातः सर्वे कृताह्निकाः.
सभां रम्यां प्रविविशुः कितवैरभिनन्दिताः ||||२-८३-६३ (१४६९८)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि व्यशीतितमोऽध्यायः ||८३ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-८३-२ द्विजातिभिस्त्रैवर्णिकैः ||
२-८३-६ आत्मरतिः आत्मनः स्वस्योत्कर्ष एव रतिर्यस्य नतु
धर्ममन्वीक्षते इति भावः ||
२-८३-७ अव्ययं धनादेरविनाशम् ||
२-८३-९ दुरोदरा द्यूतकराः ||
२-८३-१७ आदि अविभक्तिकनिर्देशः ||
२-८३-५७ यातारः यातरः ||
२-८३-५९ संविदं मिथः कथाम् | व्यायामः श्रमानोदनव्यापारः पूर्वो
येषां तानि. प्रतिकर म केशप्रसाधनादिपरिष्कारम् ||
सभापर्व -अध्याय ०८४
||श्रीः ||
२. ८४. अध्यायः ८४
Mahabharata -Sabha Parva -Chapter Topics
शकुनियुधिष्ठिरयोः संवादः ||१. . द्यूतनिर्धारणम् ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः.
समेत्य पार्थिवान्सर्वान्पूजार्हानभिपूज्य च ||२-८४-१ (१४६९९)
यथावयः समेयाना उपविष्टा यथार्हतः.
आसनेषु विचित्रेषु स्पर्द्ध्यास्तरणवत्सु च ||२-८४-२ (१४७००)
तेषु तत्रोपविष्टेषु सर्वेष्वथ नृपेषु च.
शकुनिः सौबलस्तत्र युधिष्ठिरमभाषत ||२-८४-३ (१४७०१)
शकुनिरुवाच ||२-८४-४क्ष् (१५५२)
उपस्तीर्णा सभा राजन्सर्वे त्वयि कृतक्षणाः.
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ||२-८४-४ (१४७०२)
युधिष्ठिर उवाच. २-८४-५क्ष् (१५५३)
नितिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः.
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ||२-८४-५ (१४७०३)
न हि मानं प्रशंसन्ति निकृतौ कितवस्य हि.
शकुने मैवं नोऽजैषीरमार्गेण नृशंसवत् ||२-८४-६ (१४७०४)
शकुनिरुवाच. २-८४-७क्ष् (१५५४)
यो वेत्ति सङ्ख्या निकृतौ विधिज्ञ-
श्चेष्टास्वखिन्नः कितवोऽक्षजासु.
महामतिर्यश्च जानाति द्यूतं
स वै सर्वं सहते प्रक्रियासु ||२-८४-७ (१४७०५)
अक्षग्लहः सोऽभिभवेत्परं न-
स्तेनैव दोषो भवतीह पार्थ.
दीव्यामहे पार्थिव मा विशङ्कां
कुरुष्व पाणं च चिरं च मा कृथाः ||२-८४-८ (१४७०६)
युधिष्ठिर उवाच. २-८४-९क्ष् (१५५५)
एवमाहायमसितो देवलो मुनिसत्तमः.
इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा ||२-८४-९ (१४७०७)
इदं वै देवनं पापं निकृत्या कितवैः सह.
धर्मेण तु जयो युद्धे तत्परं न तु देवनम् ||२-८४-१० (१४७०८)
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत.
अजिह्यमशठं युद्धमेतत्सत्पुरुषव्रतम् ||२-८४-११ (१४७०९)
शक्तितो ब्राह्मणार्थाय शिक्षितुं प्रयतामहे.
तद्वै वित्तं मातिदेवीर्माजैषीः शकुने परान् ||२-८४-१२ (१४७१०)
निकृत्या कामये नाहं सुखान्युत धनानि वा.
कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते ||२-८४-१३ (१४७११)
शकुनिरुवाच. २-८४-१४क्ष् (१५५६)
श्रोत्रियः श्रोत्रियानेति निकृत्यैव युधिष्ठिर.
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ||२-८४-१४ (१४७१२)
अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिर.
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ||२-८४-१५ (१४७१३)
अकृतास्त्रं कृतास्रश्च दुर्बलं बलवत्तरः.
एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिरः.
विद्वानविदुषोभ्येति नाहुस्तां निकृतिं जनाः ||२-८४-१६ (१४७१४)
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे.
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ||२-८४-१७ (१४७१५)
युधिष्ठिर उवाच ||२-८४-१८क्ष् (१५५७)
आहूतो न निवर्तेयमिति मे व्रतमाहितम्.
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ||२-८४-१८ (१४७१६)
अस्मिन्समागमे केन देवनं मे भविष्यति.
प्रतिपाणश्च कोऽन्योस्ति ततो द्यूतं प्रवर्तताम् ||२-८४-१९ (१४७१७)
दुर्योधन उवाच. २-८४-२०क्ष् (१५५८)
अहं दातास्मि रत्नानां धनानां च विशाम्पते.
मदर्थे देविता चायं शकुनिर्मातुलो मम ||२-८४-२० (१४७१८)
युधिष्ठिर उवाच ||२-८४-२१क्ष् (१५५९)
अन्येनान्यस्य वै द्यूतं विषमं प्रतिभाति मे.
एतद्विद्विन्नुपादत्स्व काममेवं प्रवर्ततम् ||||२-८४-२१ (१४७१९)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुरशीतितमोऽध्यायः
||८४ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-८४-५ पापं पापहेतुः ||
२-८४-८ पाणं पणनीयद्रव्यम् ||
सभापर्व -अध्याय ०८५
||श्रीः ||
२. ८५. अध्यायः ८५
Mahabharata -Sabha Parva -Chapter Topics
भीषमद्रोणादीनां द्यूतसभाप्रवेशः ||१. . द्यूतीपक्रमः
||२. . युधिष्ठिरेण पणीकृतानां सर्ववस्तूनां शकुनिना अपहारः
||३. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
उपोह्यमाने द्यूते तु राजानः सर्व एव ते.
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ||२-८५-१ (१४७२०)
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः.
नातिप्रीतेन मनसा तेऽन्ववर्तन्त भारत ||२-८५-२ (१४७२१)
ते द्वन्द्वशः पृथच्कैव सिंहग्रीवा महौजसः.
सिंहासनानि भूरिणी विचित्राणि च भेजिरे ||२-८५-३ (१४७२२)
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः.
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ||२-८५-४ (१४७२३)
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः.
प्रवर्तत महाराज सुहृद्द्यूतमनन्तरम् ||२-८५-५ (१४७२४)
युधिष्ठिर उवाच ||२-८५-६क्ष् (१५६०)
अयं बुहधनो राजन्सागरावर्तसम्भवः.
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ||२-८५-६ (१४७२५)
एतद्राजन्मम धनं प्रतिपाणोऽस्ति कस्तव.
येन मां त्वं महाराज धनेन प्रतिदीव्यसे ||२-८५-७ (१४७२६)
दुर्योधन उवाच ||२-८५-८क्ष् (१५६१)
सन्ति मे मणयश्चैव धनानि सुबहूनि च.
मत्सरश्च न मेऽर्थेषु जयस्वैनं दुरोदरम् ||२-८५-८ (१४७२७)
वैशम्पायन उवाच ||२-८५-९क्ष् (१५६२)
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८५-९ (१४७२८)
युधिष्ठिर उवाच ||२-८५-१०क्ष् (१५६३)
मत्त कैतकेनैव यज्जितोऽस्मि दुरोदरे.
शकुने हन्त दीव्यामो ग्लहमानाः परस्परम् ||२-८५-१० (१४७२९)
सन्ति निष्कसहस्रस्य भाण्डिन्यो भरिताः शुभाः.
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः.
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ||२-८५-११ (१४७३०)
वैशम्पायन उवाच ||२-८५-१२क्ष् (१५६४)
कौरवाणां कुलकरं ज्येष्ठं पाण्डवमच्युतम्.
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् ||२-८५-१२ (१४७३१)
युधिष्ठिर उवाच ||२-८५-१३क्ष् (१५६५)
अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः.
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ||२-८५-१३ (१४७३२)
संह्रादनो राजरथो य इहास्मानुपावहत्.
जौत्रो रथवरः पुण्यो मेघसागरनिः स्वनः ||२-८५-१४ (१४७३३)
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः.
वहन्ति नैषां मुच्येत पदाद्भूमिमुपस्पृशन्.
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२-८५-१५ (१४७३४)
वैशम्पायन उवाच ||२-८५-१६क्ष् (१५६६)
एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८५-१६ (१४७३५)
युधिष्ठिर उवाच ||२-८५-१७क्ष् (१५६७)
शतं दासीसहस्राणि तरुण्यो हेमभद्रिकाः.
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ||२-८५-१७ (१४७३६)
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः.
मणीन्हेम च बिभ्रत्यश्चतुःषष्टिविशारदाः ||२-८५-१८ (१४७३७)
अनुसेवां चरन्तीमाः कुशला नृत्तसामसु.
स्नातकानाममात्यानां राज्ञां च मम शासनात्.
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ||२-८५-१९ (१४७३८)
वैशम्पायन उवाच ||२-८५-२०क्ष् (१५६८)
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८५-२० (१४७३९)
युधिष्ठिर उवाच. २-८५-२१क्ष् (१५६९)
एतावन्ति च दासानां सहस्राण्युत सन्ति मे.
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ||२-८५-२१ (१४७४०)
प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः.
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत.
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ||२-८५-२२ (१४७४१)
वैशम्पायन उवाच ||२-८५-२३क्ष् (१५७०)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरभाषत ||२-८५-२३ (१४७४२)
युधिष्ठिर उवाच ||२-८५-२४क्ष् (१५७१)
सहस्रसङ्ख्या नगा मे मत्तास्तिष्ठन्ति सौबल.
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ||२-८५-२४ (१४७४३)
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि.
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ||२-८५-२५ (१४७४४)
सर्वे च पुरभेत्तारो नवमेघनिभा गजाः.
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ||२-८५-२६ (१४७४५)
वैशम्पायन उवाच ||२-८५-२७क्ष् (१५७२)
इत्येवंवादिनं पार्थं प्रहसन्निव सौबलः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८५-२७ (१४७४६)
युधिष्ठिर उवाच ||२-८५-२८क्ष् (१५७३)
रथास्तावन्त एवेमे हेमदण्डाः पताकिनः.
हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः ||२-८५-२८ (१४७४७)
एकैको ह्यत्र लभते सहस्रपरमां भृतिम्.
युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम्.
एतद्राजन्म धनं तेन दीव्याम्यहं त्वया ||२-८५-२९ (१४७४८)
वैशम्पायन उवाच ||२-८५-३०क्ष् (१५७४)
इत्येवमुक्ते वचने कृतवैरो दुरात्मवान्.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८५-३० (१४७४९)
युधिष्ठिर उवाच ||२-८५-३१क्ष् (१५७५)
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः.
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने ||२-८५-३१ (१४७५०)
युद्धे जितः पराभूतः प्रीतिपूर्वमरिन्दमः.
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ||२-८५-३२ (१४७५१)
वैशम्पायन उवाच ||२-८५-३३क्ष् (१५७६)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८५-३३ (१४७५२)
युधिष्ठिर उवाच ||२-८५-३४क्ष् (१५७७)
रथानां शकटानां च श्रेष्ठानां चायुतानि मे.
युक्तान्येव हि तिष्ठन्ति वाहैरुच्चावचैस्तथा ||२-८५-३४ (१४७५३)
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः.
यथा समुदिता वीराः सर्वे वीरपराक्रमाः ||२-८५-३५ (१४७५४)
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान्.
षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः.
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ||२-८५-३६ (१४७५५)
वैशम्पायन उवाच ||२-८५-३७क्ष् (१५७८)
एतच्छ्रत्वा व्यवसितो निकृति समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८५-३७ (१४७५६)
युधिष्ठिर उवाच. २-८५-३८क्ष् (१५७९)
ताम्रलोहैः परिवृता निधयो ये चतुः शताः.
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै ||२-८५-३८ (१४७५७)
जातरूपस्य मुख्यस्य नार्घो यस्य हि भारत.
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ||२-८५-३९ (१४७५८)
वैशम्पायन उवाच ||२-८५-४०क्ष् (१५८०)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभापतः ||||२-८५-४० (१४७५९)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि पञ्चाशीतितमोऽध्यायः
||८५ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-८५-८ दुरोदरं पणम् ||
२-८५-११ भाण्डिन्यो मञ्जषाः ||
२-८५-१७ कम्बवः शङ्खवलयानि | निष्पो वक्षोभूषणम् ||
२-८५-१८ चतुष्षष्टिकलासु विशारदाः ||
२-८५-१९ नृत्तसामसु नर्तने गीतिविशेषेषु च ||
२-८५-२४ कृतपीडाः कृतभूषणाः ||
२-८५-२५ ईषा लाङ्गलदण्डः | अष्टकरेणवः, अष्टहस्तिनीकाः ||
सभापर्व -अध्याय ०८६
||श्रीः ||
२. ८६. अध्यायः ८६
Mahabharata -Sabha Parva -Chapter Topics
विदुरेण धृतराष्ट्रं प्रति दुर्योधननिन्दापूर्वकं द्यूतोपरमचोदनम्
||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
एवं प्रवर्तिते द्यूते घोरे सर्वापहारिणि.
सर्वसंशयनिर्मोक्ता विदुरो वाक्यमब्रवीत् ||२-८६-१ (१४७६०)
महाराज विजानीहि यत्त्वां वक्ष्यामि भारत.
मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ||२-८६-२ (१४७६१)
यद्वै पुरा जातमात्रो रुराव
गोमायुवद्विस्वरं पापचेताः.
दुर्योधनो भारतानां कुलघ्नः
सोऽयं युक्तो भवतां कालहेतुः ||२-८६-३ (१४७६२)
गृहे वसन्तं गोमायुं त्वं वै मोहान्न बुध्यसे.
दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ||२-८६-४ (१४७६३)
मधु वै माध्विको लब्ध्वा प्रपातं नैव बुध्यते.
आरुह्य तं मज्जति वा पतनं चाधिगच्छति ||२-८६-५ (१४७६४)
सोऽयं मत्तोऽक्षद्यूतेन मधुवन्न पीरक्षते.
प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ||२-८६-६ (१४७६५)
विदितं मे महाप्राज्ञ भोजेष्वेवासमञ्जसम्.
पुत्रं संत्यक्तवान्पूर्वं पौराणां हितकाम्यया ||२-८६-७ (१४७६६)
अन्धका यादवा भोजाः समेताः कंसमत्यजन्.
नियोगात्तु हते तस्मिन्कृष्णेनामित्रघातिना ||२-८६-८ (१४७६७)
एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः.
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् ||२-८६-९ (१४७६८)
निग्रहादस्य पादस्य मोदन्तां कुरवः सुखम्.
काकेनेमांश्चित्रवर्हाञ्शार्दूलान्क्रोष्टुकेन च.
क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ||२-८६-१० (१४७६९)
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्.
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||२-८६-११ (१४७७०)
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः.
इति स्म भाषते काव्यो जम्भत्यागे महाऽसुरान् ||२-८६-१२ (१४७७१)
हिरण्यष्ठीविनः कांश्चित्पक्षिणो वनगोचरान्.
गृहे किल कृतावासाँल्लोभाद्राजा न्यपीडयत्.
स चोपभोगलोभान्धो हिरण्यार्थी परन्तप ||२-८६-१३ (१४७७२)
आयतिं च तदात्वं च उभे सद्यो व्यनाशयत्.
तदर्थकामस्तद्वत्त्वं माद्रुहः पाण्डवान्नृप ||२-८६-१४ (१४७७३)
मोहात्मा तप्स्यसे पश्चात्पत्रिहा पुरुषो यथा.
जातञ्जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत ||२-८६-१५ (१४७७४)
मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः.
वृक्षानङ्गारकारीव मैनाद्याक्षीः समूलकान्.
मा गमः समुतामात्यः सबलश्च यमक्षयम् ||२-८६-१६ (१४७७५)
समवेतान्हि कः पार्थान्प्रतियुध्येत भारत.
मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ||२-८६-१७ (१४७७६)
द्यूतं मूलं कलहस्याभ्युपैति
मिथो भेदं महते दारुणाय.
तदा स्थितोऽयं धृतराष्ट्रस्य पुत्रो
दुर्योधनः सृजते वैरमुग्रम् ||२-८६-१८ (१४७७७)
प्रातिपेयाः शान्तनवा भीमसेनाः सबाह्निकाः.
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ||२-८६-१९ (१४७७८)
दुर्योधनो मदेनैव क्षेमं व्यपोहति.
विषाणं गौरिव मदात्स्वयमारुजतेत्मनः ||२-८६-२० (१४७७९)
यश्चित्तमन्वेति परस्य राजन्
वीरः कविः स्वामवमत्य दृष्टिम्.
नावं समुद्र इव बालनेत्रा-
मारुह्य घोरे व्यसने निमज्जेत् ||२-८६-२१ (१४७८०)
दुर्योधनो ग्लहते पाण्डवेन
प्रीयायसे त्वं जयतीति तच्च.
अतिनर्मा जायते संप्रहारो
यतो विनाशः समुपैति पुंसाम् ||२-८६-२२ (१४७८१)
आकर्षस्तेऽवाक्फलः सुप्रणीतो
हृदि प्रौढो मन्त्रपदः समाधिः.
युधिष्ठिरेण कलहस्तवाय-
मचिन्तितोऽभिमतः स्वबन्धुना ||२-८६-२३ (१४७८२)
प्रातिपेयाः शान्तनवाः शृणुध्वं
काव्यां वाचं संसदि कौरवाणाम्.
वैश्वानरं प्रज्वलितं सुघोरं
मा यास्यध्वं मन्दमनुप्रपन्नः ||२-८६-२४ (१४७८३)
यदा मन्युं पाण्डवोऽजातशत्रु-
र्न संयच्छेदक्षमदाभिभूतः.
वृकोदरः सव्यसाची यमौ च
कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ||२-८६-२५ (१४७८४)
महाराज प्रभवस्त्वं धनानां
पुरा द्यूतान्मनसा यावदिच्छेः.
बहुवित्तान्पाण्डवांश्चेज्जयस्त्वं
किं ते तत्स्याद्वसु विन्देह पार्थान् ||२-८६-२६ (१४७८५)
जानीमहे देवितं सौबलस्य
वेद द्यूते निकृतिं पार्वतीयः.
यतः प्राप्तः शकुनिस्तत्र यातु
मा यूयुधो भारत पाण्डवेयान् ||||२-८६-२७ (१४७८६)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि षडशीतितमोऽध्यायः
||८६. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-८६-४ काव्यं कविना शुक्रेणोक्तां नीतिगिरम् ||
२-८६-५ माध्विको मधुपण्यवान् | प्रपातं भृगुम् ||
२-८६-८ नियोगाद्दैवयोगात् ||
२-८६-१० चित्रवर्हान् मयूरान् ||
२-८६-१४ आयतिमुत्तरकालम् | तदात्वं सांप्रतम्. तत्तस्मात्. अर्थकामो
धनकामः ||
२-८६-१५ पत्रिहा पक्षिहा ||
२-८६-२१ बालनेत्रामव्युत्पन्ननेतृकाम् ||
२-८६-२२ ग्लहते पणं करोति | प्रीयायसे अतिशयेन प्रीयसे ||
२-८६-२३ आकर्षो द्यूतम् ||
२-८६-२६ जयः अजयः ||
सभापर्व -अध्याय ०८७
||श्रीः ||
२. ८७. अध्यायः ८७
Mahabharata -Sabha Parva -Chapter Topics
दुर्योधनेन विदुरोपालम्भः ||१. . विदुरेण धृतराष्ट्रस्य
हितोपदेशः ||२. .
Mahabharata -Sabha Parva -Chapter Text
दुर्योधन उवाच ||
परेषामेव यशसा श्लोघसे त्वं
सदा क्षत्तः कुत्सयन्धार्तराष्ट्रान्.
जानीमहे विदुर यत्प्रियस्त्वं
बालानिवास्मानवमन्यसे नित्यमेव ||२-८७-१ (१४७८७)
स विज्ञेयः पुरुषोऽन्यत्रकामो
निन्दाप्रशंसे हि तथा युनक्ति.
जिह्वाऽऽत्मनो हृदयस्थं व्यनक्ति
जानीमहे त्वन्मनसः प्रातिकूल्यम् ||२-८७-२ (१४७८८)
उत्सङ्गे च व्याल इवाहितोऽसि
मार्जरवत्पोषकं चोपहंसि.
भर्तृघ्नं त्वां न हि पापीय आहु-
स्तस्मात्क्षत्तः किं न बिभेषि पापात् ||२-८७-३ (१४७८९)
जित्वा शत्रून्फलमाप्तं महद्वै
माऽस्मान्क्षत्तः परुषामीह वोचः.
द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी
मुहुर्देषं यासि नः सम्प्रयोगात् ||२-८७-४ (१४७९०)
अमित्रतां याति नरोऽक्षमं ब्रुव-
न्निगूहते गुह्यममित्रसंस्तवे.
तदाश्रितोऽपत्रप किं नु बाधसे
यदिच्छसि त्वं तदिहाभिभाषतसे ||२-८७-५ (१४७९१)
मा नोऽवमंस्था विद्य मानस्तवेदं
शिक्षस्व बुद्धिं स्थविराणां सकाशात्.
यशो रक्षस्व विदुर सम्प्रणीतं
मा व्यापृतः परकार्येशु भूस्त्वम् ||२-८७-६ (१४७९२)
अहं कर्तेति विदूर मा च मंस्था
मा नो नित्यं परुषाणीह वोचः.
न त्वां पृच्छामि विदुर यद्धितं मे
स्वस्ति क्षत्तर्मा तितिक्षून् क्षिण् त्वम् ||२-८७-७ (१४७९३)
एकः शास्ता न द्वितीयोऽस्ति शास्ता
गर्भे शयानं पुरुषं शास्ति शास्ता.
तेनानुशिष्टः प्रवणादिवाम्भो
यथा नियुक्तोऽस्ति तथा भवामि ||२-८७-८ (१४७९४)
भिनत्ति शिरसा शैलमहिं भोजयते च यः.
धीरेव कुरुते तस्य कार्याणामनुशासनम्.
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति ||२-८७-९ (१४७९५)
मित्रतामनुवृत्तं तु समुपेक्षत्यपण्डितः.
दीप्य यः प्रदीप्ताग्निं प्राच्किरं नाभिधावति.
भस्मापि न स विन्देत शिष्टं क्वचन भारत ||२-८७-१० (१४७९६)
न वासयेत्पारवर्ग्यं द्विषन्तं
विशेषतः क्षत्तरहितं मनुप्यम्.
स यत्रेच्छसि विदुर तत्र गच्छ
सुसान्त्विता ह्यसती स्त्री जहाति ||२-८७-११ (१४७९७)
विदुर उवाच ||२-८७-१२क्ष् (१५८१)
एतावता पुरुषं ये त्यजन्ति
तेषां सख्यमन्तवद्ब्रूहि राजन्.
राज्ञां हि चित्तानि परिप्लुतानि
सान्त्वं दत्वा मुसलैर्घातयन्ति ||२-८७-१२ (१४७९८)
अबालत्वं मन्यसे राजपुत्र
बालोऽहमित्येव सुमन्दबुद्धे.
यः सौहृदे पुरुषं स्थापयित्वा
पश्चादेनं दूषयते स बालः ||२-८७-१३ (१४७९९)
न श्रेयसे नीयते मन्दबुद्धिः
स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा.
ध्रुवं न रोचेद्भरतर्षभस्य
पतिः कुमार्या इव षष्टिवर्षः ||२-८७-१४ (१४८००)
अतः प्रियं चेदनुकाङ्क्षसे त्वं
सर्वेषु कार्येषु हिताहितेषु
स्त्रियश्च राजञ्जडपङ्गुकांश्च
पृच्छ त्वं वै तादृशांश्चैव सर्वान् ||२-८७-१५ (१४८०१)
लभ्यते खलु पापीयान्नरोऽनु प्रियवागिह.
अप्रियस्य हि पथ्यस्य वक्ता श्रोता च दुर्लभः २-८७-१६ (१४८०२)
यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये.
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ||२-८७-१७ (१४८०३)
अव्याधइजं कटुजं तीक्ष्णमुष्णं
यशोमुषं परुषं पूतिगन्धिम्.
सतां पेयं यन्न पिबन्त्यसन्तो
मन्युं महाराज पिब प्रशाम्य ||२-८७-१८ (१४८०४)
वैचित्रवीर्यस्य यशो धनं च
वाञ्छाम्यहं सहपुत्रस्य शश्वत्.
यथा तथा तेऽस्तु नमश्चतेऽस्तु
ममापि च स्वस्ति दिशन्तु विप्राः ||२-८७-१९ (१४८०५)
आशीविषान्नेत्रविषान्कोपयेन्न च पण्डितः.
एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ||||२-८७-२० (१४८०६)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि सप्ताशीतितमोऽध्यायः
||८७ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-८७-३ पापीयः पापीयांसम् ||
२-८७-११ पारवर्ग्यं शत्रुपक्षजातम् ||
सभापर्व -अध्याय ०८८
||श्रीः ||
२. ८८. अध्यायः ८८
Mahabharata -Sabha Parva -Chapter Topics
सपत्नीभ्रातृकस्य युधिष्ठिरस्य शकुनिना पराजयः ||१. .
Mahabharata -Sabha Parva -Chapter Text
शकुनिरुवाच ||
बहुवित्तं पराजैषीः पाण्डवानां युधिष्ठिर.
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ||२-८८-१ (१४८०७)
युधिष्ठिर उवाच ||२-८८-२क्ष् (१५८२)
मम वित्तमसङ्ख्येयं यदहं वेद सौबल.
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ||२-८८-२ (१४८०८)
अयुतं प्रयुतं चैव शङ्कुं पद्मं तथार्बुदम्.
खर्वं शङ्खं निखर्वं च महापद्मं च कोटयः ||२-८८-३ (१४८०९)
मध्यं चैव परार्धं च सपरं चात्र पण्यताम्.
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ||२-८८-४ (१४८१०)
वैशम्पायन उवाच ||२-८८-५क्ष् (१५८३)
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८८-५ (१४८११)
युधिष्ठिर उवाच ||२-८८-६क्ष् (१५८४)
गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम्.
यत्किञ्चिदनु पर्णाशां प्राक् सिन्धोरपि सौबल.
एतन्मम धनं सर्वं तेन दीव्याम्यहं त्वया ||२-८८-६ (१४८१२)
वैशम्पायन उवाच ||२-८८-७क्ष् (१५८५)
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८८-७ (१४८१३)
युधिष्ठिर उवाच ||२-८८-८क्ष् (१५८६)
पुरं जनपदो भूमिरब्राह्मणधनैः सह.
अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम.
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ||२-८८-८ (१४८१४)
वैशम्पायन उवाच ||२-८८-९क्ष् (१५८७)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८८-९ (१४८१५)
युधिष्ठिर उवाच ||२-८८-१०क्ष् (१५८८)
राजपुत्रा इमे राजञ्छोमन्ते यैर्विभूषिताः.
कुम्डलानि च निष्काश्च सर्वं राजविभूषणम्.
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ||२-८८-१० (१४८१६)
वैशम्पायन उवाच ||२-८८-११क्ष् (१५८९)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८८-११ (१४८१७)
युधिष्ठिर उवाच ||२-८८-१२क्ष् (१५९०)
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः.
नकुलो ग्लह एवैकी विद्ध्येतन्मम तद्धनम् ||२-८८-१२ (१४८१८)
शकुनिरुवाच. २-८८-१३क्ष् (१५९१)
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर.
अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे ||२-८८-१३ (१४८१९)
वैशम्पायन उवाच ||२-८८-१४क्ष् (१५९२)
एवमुक्त्वा तु तानक्षाञ्शकुनिः प्रत्यदीव्यत.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८८-१४ (१४८२०)
युधिष्ठिर उवाच ||२-८८-१५क्ष् (१५९३)
अयं धर्मान्सहदेवोऽनुशास्ति
लोके ह्यस्मिन्पण्डिताख्यां गतश्च.
अनर्हता राजपुत्रेण तेन
दीव्याम्यहं चाप्रियवत्प्रियेण ||२-८८-१५ (१४८२१)
वैशम्पायन उवाच ||२-८८-१६क्ष् (१५९४)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८८-१६ (१४८२२)
शकुनिरुवाच ||२-८८-१७क्ष् (१५९५)
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया.
गरीयांसौ तु मन्ये भीमसेनधनञ्जयौ ||२-८८-१७ (१४८२३)
युधिष्ठिर उवाच. २-८८-१८क्ष् (१५९६)
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम्.
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ||२-८८-१८ (१४८२४)
शकुनिरुवाच ||२-८८-१९क्ष् (१५९७)
गर्ते मत्तः प्रपतते प्रमत्तः स्थाणुमृच्छति.
ज्येष्ठो राजन्व्ररिष्ठोऽसि नमस्ते भरतर्षभ ||२-८८-१९ (१४८२५)
स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर.
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ||२-८८-२० (१४८२६)
युधिष्ठिर उवाच ||२-८८-२१क्ष् (१५९८)
यो नः सङ्ख्ये नौरिव पारनेता
जेता रिपूणां राजपुत्रस्तरस्वी.
अनर्हता लोकवीरेण तेन
दीव्याम्यहं शकुने फाल्गुनेन ||२-८८-२१ (१४८२७)
वैशम्पायन उवाच ||२-८८-२२क्ष् (१५९९)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८८-२२ (१४८२८)
शकुनिरुवाच. २-८८-२३क्ष् (१६००)
अयं मया पाण्डवानां धनिर्धरः
पराजितः पाण्डवः सव्यसाची.
भीमेन राजन्दयितेन दीव्य
यत्कैतवं पाण्डव तेऽवशिष्टम् ||२-८८-२३ (१४८२९)
युधिष्ठिर उवाच ||२-८८-२४क्ष् (१६०१)
यो नो नेता यो युधि नः प्रणेता
यथा वज्री दानवशत्रुरेकः.
तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा
सिंहस्कन्धो यश्च सदाऽत्यमर्षी ||२-८८-२४ (१४८३०)
बलेन तुल्यो यस्यप पुमान्न विद्यते
गदाभृतामग्र्य इहारिमर्दनः.
अनर्हता राजपुत्रेण तेन
दीव्याम्यहं भीमसेनेन राजन् ||२-८८-२५ (१४८३१)
वैशम्पायन उवाच ||२-८८-२६क्ष् (१६०२)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८८-२६ (१४८३२)
शकुनिरुवाच. २-८८-२७क्ष् (१६०३)
बहुवित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान्.
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ||२-८८-२७ (१४८३३)
युधिष्ठिर उवाच ||२-८८-२८क्ष् (१६०४)
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा.
कुर्यामहं जितः कर्म स्वयमात्मन्युपल्पुते ||२-८८-२८ (१४८३४)
वैशम्पायन उवाच ||२-८८-२९क्ष् (१६०५)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः.
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२-८८-२९ (१४८३५)
शकुनिरुवाच. २-८८-३०क्ष् (१६०६)
एतत्पापिष्ठमकरोर्यदात्मानं पराजयेः.
शिष्टे सति धने राजन्पाप आत्मपराजयः ||२-८८-३० (१४८३६)
वैशम्पायन उवाच ||२-८८-३१क्ष् (१६०७)
एवमुक्त्वा मताक्षस्तान् ग्लहे सर्वानवस्थितान्.
पराजयल्लोकवीरानुक्त्वा राज्ञां पृथक् पृथक् ||२-८८-३१ (१४८३७)
शकुनिरुवाच ||२-८८-३२क्ष् (१६०८)
अस्ति ते वै प्रिया राजन् ग्लह एकोऽपराजितः.
पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय ||२-८८-३२ (१४८३८)
युधिष्ठिर उवाच ||२-८८-३३क्ष् (१६०९)
नैव ह्रस्वा न महती न कृशा नातिरोहिणी.
नीलकुञ्चितकशी च तया दीव्याम्यहं त्वया ||२-८८-३३ (१४८३९)
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया.
शारदोत्पलसेविन्या रूपेण श्रीसमानया ||२-८८-३४ (१४८४०)
तथैव स्यादानुशंस्यात्तथ स्याद्रूपसम्पदा.
तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम् ||२-८८-३५ (१४८४१)
सर्वैर्गुणैर्हि सम्पन्नामनुकूलां प्रियंवदाम्.
यादृशीं धर्मकामार्थसिद्धिमिच्छेन्नरः स्त्रियम् ||२-८८-३६ (१४८४२)
चरमं संविशति या प्रथमं प्रतिबुध्यते.
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ||२-८८-३७ (१४८४३)
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च.
वेदीमध्या दीर्घकेशी ताम्रास्या नातिलोमशा ||२-८८-३८ (१४८४४)
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यमा.
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल ||२-८८-३९ (१४८४५)
वैशम्पायन उवाच ||२-८८-४०क्ष् (१६१०)
एवमुक्ते तु वचने धर्मराजेन धीमता.
धिग्धिगित्येव वृद्धानां सभ्यानां निः सृता गिरः ||२-८८-४० (१४८४६)
चुक्षुभे सा सभा राजन्राज्ञां सञ्जत्रिरे शुचः.
भीष्मद्रोणकृपादीनां स्वेदश्च समजायत ||२-८८-४१ (१४८४७)
शिरो गृहीत्वा विदुरो गतसत्व इवाभवत्.
आस्ते ध्यायन्नधोवक्त्रो निः श्वसन्निव पन्नगः ||२-८८-४२ (१४८४८)
' बाह्लीकः सोमदत्तश्च प्रातिपेयश्च सञ्जयः.
द्रौणिर्भूरिश्रवाश्चैव युयुत्सुर्धृतराष्ट्रजः.
आसुर्वीक्ष्य त्वधोवक्त्रा निश्वसन्त इवोरगाः' ||२-८८-४३ (१४८४९)
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः.
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ||२-८८-४४ (१४८५०)
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः.
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतञ्जलम् ||२-८८-४५ (१४८५१)
सौबलस्त्वभिघायैव जितकाशी मदोत्कटः.
जितमित्येव तानक्षान्पुररेवान्वपद्यत ||||२-८८-४६ (१४८५२)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अष्टाशीतितमोऽध्यायः
||८८. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-८८-६ पर्णाशा नदी ||
२-८८-२३ कैतव कितवेभ्य आहर्तव्यं धनम् ||
२-८८-४६ जितकाशी जयशोभी ||
सभापर्व -अध्याय ०८९
||श्रीः ||
२. ८९. अध्यायः ८९
Mahabharata -Sabha Parva -Chapter Topics
दुश्शासनेन द्रौपद्याः सभां प्रत्यानयनम् ||१. . द्रौपद्या
सभ्यान्प्रति प्रश्नः ||२. .
Mahabharata -Sabha Parva -Chapter Text
दुर्योधन उवाच ||
एहि क्षत्तर्द्रौपदीमानस्व
प्रियां भार्यां संमतां पाण्डवानाम्.
संमार्जतां वेश्म परैतु शीघ्रं
तत्रास्तु दासीभिरपुण्यशीला ||२-८९-१ (१४८५३)
विदुर उवाच ||२-८९-२क्ष् (१६११)
दर्विभाषं भाषितं त्वादृशेन
न मन्द सम्बुद्ध्यसि पाशबद्धः.
प्रपाते त्वं लम्बमानो न वेत्सि
व्याघ्रान्मृगः कोपयसेऽतिवेलम् ||२-८९-२ (१४८५४)
आशीविषास्ते शिरसि पूर्णकोपा महाविषाः.
मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ||२-८९-३ (१४८५५)
न हि दासीत्वमापन्ना कृष्णा भवितुमर्हति.
जनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ||२-८९-४ (१४८५६)
अयं दत्ते वेणुरिवात्मघाती
फलं राजा धृतराष्ट्रस्य पुत्रः.
द्यूतं हि वैराय महाभयाय
मत्तो न बुध्यत्ययमन्तकालम् ||२-८९-५ (१४८५७)
नारुन्तुदः स्यान्न नृशंसवादी
न हीनताः परमभ्याददीत.
ययास्य वाचा पर उद्विजेत
न तां वदेदुशती पापलोक्याम् ||२-८९-६ (१४८५८)
समुच्चरन्त्यतिवादाश्च वक्त्रा-
ध्यौराहतः शौचति रात्र्यहानि.
परस्य नामर्मसु ते पतन्ति
तान्पण्डितो नावसृजेत्परेषु ||२-८९-७ (१४८५९)
अजो हि शस्त्रमगिलत्किलैकः
शस्त्रे विपन्ने शिरसास्य भूमौ.
निकृन्तनं स्वस्य कण्ठस्य घोरं
तद्वद्वेरं मा कृथाः पाण्डुपुत्रैः ||२-८९-८ (१४८६०)
न किञ्चिदित्थं प्रवदन्ति पार्था
वनेचरं वा गृहमेधिनं वा.
तपस्विनं वा परिपूर्णविद्यं
भषन्ति हैवं श्वनराः सदैव ||२-८९-९ (१४८६१)
द्वारं सुघोरं नरकस्य जिह्यं
न बुध्यते धृतराष्ट्रस्य पुत्रः.
तमन्वेतारो बहवः कुरूणां
द्यूतोदये सह दुःशासनेन ||२-८९-१० (१४८६२)
मज्जन्त्यलाबूनि शिलाः प्लवन्ते
मुह्यन्ति नावोम्भसि शश्वदेव.
मूढो राजा धृतराष्ट्रस्य पुत्रो
न मे वाचः पथ्यरूपाः शृणोति ||२-८९-११ (१४८६३)
अन्तो नूं भवितायं करूणां
सुदारुणः सर्वहरो विनाशः.
वाचः काव्याः सुहृदां पथ्यरूपा
न श्रूयन्ते वर्धते लोभ एव ||२-८९-१२ (१४८६४)
वैशम्पायन उवाच ||२-८९-१३क्ष् (१६१२)
धिगस्तु क्षत्तारमिति ब्रुवाणो
दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः.
अवैक्षत प्रातिकामीं सभाया-
मुवाच चैनं परमार्यमध्ये ||२-८९-१३ (१४८६५)
दुर्योधन उवाच ||२-८९-१४क्ष् (१६१३)
त्वं प्रातिकामिन्द्रौपदीमानयस्व
न ते भयं विद्यते पाण्डवेभ्यः.
क्षत्ता ह्ययं विवदत्येव भीतो
न चास्माकं वृद्धिकामः सदैव ||२-८९-१४ (१४८६६)
वैशम्पायन उवाच ||२-८९-१५क्ष् (१६१४)
एवमुक्तः प्रातिकामी स सूतः
प्रायाच्छीघ्रं राजवचो निशम्य.
प्रविश्य च श्वेव हि सिंहगेष्ठं
समासदन्महिषीं पाण्डवानाम् ||२-८९-१५ (१४८६७)
प्रातिकाम्युवाच. २-८९-१६क्ष् (१६१५)
युधिष्ठिरो द्यूतमदेन मत्तो
दुर्योधनो द्रौपदि त्वामजैषीत्.
सा त्वं प्रपद्यस्व धृतराष्ट्रस्य वेश्म
नयामि त्वां कर्मणि याज्ञसेनि ||२-८९-१६ (१४८६८)
द्रौपद्युवाच ||२-८९-१७क्ष् (१६१६)
कथं त्वेवं वदसि प्रातिकामि-
को हि दीव्येद्भार्यया राजपुत्रः.
मूडो राजा द्यूतमदेन मत्तो
ह्यभून्नान्यत्कैतवमस्य किञ्चित् ||२-८९-१७ (१४८६९)
प्रातिकाम्युवाच ||२-८९-१८क्ष् (१६१७)
यदा नाभूत्कैतवमन्यदस्य
तदाऽदेवीत्पाण्डवोऽजातशत्रुः.
न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा
स्वयं चात्मा त्वमथो राजपुत्रि ||२-८९-१८ (१४८७०)
द्रौपद्युवाच ||२-८९-१९क्ष् (१६१८)
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज.
किं तु पूर्वं पराजैषीरात्मानमथवा नु माम् ||२-८९-१९ (१४८७१)
एतज्ज्ञात्वा समागच्छ ततो मां नयं सूतज.
ज्ञात्वा चिकीर्षितमहं राज्ञो यास्यामि दुःखिता ||२-८९-२० (१४८७२)
वैशम्पायन उवाच ||२-८९-२१क्ष् (१६१९)
सभां गत्वा स चोवाच द्रौपद्यस्तद्वचस्तदा.
युधिष्ठिरं नरेनद्राणां मध्ये स्थितमिदं वचः ||२-८९-२१ (१४८७३)
कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी.
किं नु पूर्वं पराजैषीरात्मानमथवापि माम् ||२-८९-२२ (१४८७४)
वैशम्पायन उवाच ||२-८९-२३क्ष् (१६२०)
युधिष्ठिरस्तु निश्चेता गतसत्व इवाभवत्.
न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ||२-८९-२३ (१४८७५)
दुर्योधन उवाच ||२-८९-२४क्ष् (१६२१)
इहैवागत्य पाञ्चाली प्रश्नमेनं प्रभाषताम्.
इहैव सर्वे शृण्वन्तु तस्याश्चैतस्य यद्वचः ||२-८९-२४ (१४८७६)
वैशम्पायन उवाच ||२-८९-२५क्ष् (१६२२)
स गत्वा राजभवनं दुर्योधनवशानुगः.
उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ||२-८९-२५ (१४८७७)
सभ्यास्त्वमी राजपुत्र्याह्वयन्ति
मन्ये प्राप्तः संशयः कौरवाणाम्.
न वै समृद्दिं पालयते लघीयान्
यस्त्वां सभां नेष्यति राजपुत्रि ||२-८९-२६ (१४८७८)
द्रौपद्युवाच ||२-८९-२७क्ष् (१६२३)
एवं नूनं व्यदधात्संविधाता
स्पर्शावुभौ स्पृशतो वृद्धबालौ.
धर्मं त्वेकं परमं प्राह लोके
स नः शमं धास्यति गोप्यमानः ||२-८९-२७ (१४८७९)
सोऽयं धर्मो मा त्यगात्कौरवान्वै
सभ्यान्गत्वा पृच्छ धर्म्यं वचो मे.
ते मां ब्रूयुर्निश्चितं तत्करिष्ये
धर्मात्मानो नीतिमन्तो वरिष्ठाः ||२-८९-२८ (१४८८०)
वैशम्पायन उवाच ||२-८९-२९क्ष् (१६२४)
श्रुत्वा सूतस्तद्वचो याज्ञसेन्याः
सभां गत्वा प्राह वाक्यं तदानीम्.
अधोमुखास्ते न च किञ्चिदूचु-
र्निर्बन्धं तं धार्तराष्ट्रस्य बुद्ध्वा ||२-८९-२९ (१४८८१)
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्.
द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ||२-८९-३० (१४८८२)
एकवस्त्र त्वधोनीवो रोदमाना रजस्वला.
सभामागम्य पाञ्चालि श्वशुरस्याग्रतो भव ||२-८९-३१ (१४८८३)
अथ त्वामागतां दृष्ट्वा राजपुत्रीं सभां तदा.
सभ्याः सर्वे विनिन्देरन्मनोर्भिर्धृतराष्ट्रजम् ||२-८९-३२ (१४८८४)
वैशम्पायन उवाच ||२-८९-३३क्ष् (१६२५)
स गत्वा त्वरितं दूतः कृष्णाया भवनं नृप.
न्यवेदयन्मतं धीमान्धर्मराजस्य निश्चितम् ||२-८९-३३ (१४८८५)
पाण्डवाश्च महात्मानो दीना दुःखसमन्विताः.
सत्येनातिपरीताङ्गा नोदीक्षन्ते स्म किञ्चन ||२-८९-३४ (१४८८६)
ततस्त्वेषां मुखमालोक्य राजा
दुर्योधनः सूतमुवाच हृष्टः.
इहैवैतामानय प्रातिकामिन्
प्रत्यक्षमस्याः कुरवो ब्रुवन्तः ||२-८९-३५ (१४८८७)
ततः सूतस्तस्य वशानुगामी
भीतश्च कोपाद्द्रुपदात्मजायाः.
विहाय मानं पुनरेव सभ्या-
नुवाच कृष्णां किमहं ब्रवीमि ||२-८९-३६ (१४८८८)
दूर्योधन उवाच. २-८९-३७क्ष् (१६२६)
दुःशासनैष मम सूतपुत्रो
वृकोदरादुद्विजतेऽल्पचेताः.
स्वयं प्रगृह्यानय याज्ञसेनीं
किं ते करिष्यन्त्यवशाः सपत्नाः ||२-८९-३७ (१४८८९)
वैशम्पायन उवाच ||२-८९-३८क्ष् (१६२७)
ततः समुत्थाय स राजपुत्रः
श्रुत्वा भ्रातुः शासनं रक्तदृष्टिः.
प्रविश्य तद्वेश्म महारथाना-
मित्यब्रवीद्द्रौपदीं राजपुत्रीम् ||२-८९-३८ (१४८९०)
एह्येहि पाञ्चालि राजपुत्रीम्.
दुर्योधनं पश्य विमुक्तलज्जा.
कुरून्भजस्वायतपत्रनेत्रे
धर्मेण लब्धाऽसि सभां परैहि ||२-८९-३९ (१४८९१)
ततः समुत्थाय सुदूर्मनाः सा
विवर्णमामृज्य मुखं करेण.
आर्ता प्रदुद्राव यतः स्त्रियस्ता
वृद्धस्य राज्ञः कुरुपुङ्गवस्य ||२-८९-४० (१४८९२)
ततो जवेनाभिससार रोषा-
द्दुःशासनस्तामभिगर्जमानः.
दीर्घेषु नीलेष्वथ चोर्मिमत्सु
जग्राह केशेषु नरेन्द्रपत्नीम् ||२-८९-४१ (१४८९३)
ये राजसूयावभृथे जलेन
महाक्रतौ मन्त्रपूतेन सिक्ताः.
ते पाण्डवानां परिभूय वीर्यं
बलात्प्रमृष्टा धृतराष्ट्रजेन ||२-८९-४२ (१४८९४)
स तां पराकृष्य सभासमीप-
मानीय कृष्णामतिदीर्घकेशीम्.
दुःशासनो नाथवतीमनाथव-
च्चकर्ष वायुः कदलीमिवार्ताम् ||२-८९-४३ (१४८९५)
सा कृष्णमाणा नमिताङ्गयष्टिः
शनैरुवाचाथ रजस्वलाऽस्मि.
एकं च वासो मम मन्दबुद्धे
सभां नेतुं नार्हसि मामनार्य ||२-८९-४४ (१४८९६)
ततोऽब्रवीत्तां प्रसभं निगृह्य
केशेशु कृष्णेषु तदा स कृष्णाम्.
कृष्णं च जिष्णुं च हरिं नरं च
त्रायाय विक्रोशति याज्ञसेनि ||२-८९-४५ (१४८९७)
रजस्वला वा भव याज्ञसेनि
एकाम्बरा वाप्यथवा विवस्त्रा.
द्यूते जिता चासि कृताऽसि दासी
दासीषु वासश्च यथोपजोषम् ||२-८९-४६ (१४८९८)
वैशम्पायन उवाच. २-८९-४७क्ष् (१६२८)
प्रकीर्णकेशी पतितार्धवस्त्रा
दुःशासनेन व्यवधूयमाना.
हीमत्यमर्षेण च दह्यमाना
शनैरिदं वाक्यमुवाच कृष्णा ||२-८९-४७ (१४८९९)
द्रौपद्युवाच. २-८९-४८क्ष् (१६२९)
इमे समायामुपनीतशास्त्राः
क्रियावन्तः सर्व एवेन्द्रकल्पाः.
गुरुस्थाना गुरवश्चैव सर्वे
तेषामग्रे नोत्सहे स्थातुमेवम् ||२-८९-४८ (१४९००)
नशंसकर्मंस्त्वमनार्यवृत
मा मा विवस्त्रां कुरु मा विकार्षीः.
न मर्षयेयुस्तव राजपुत्राः
सेन्द्रापि देवा यदि ते सहायाः ||२-८९-४९ (१४९०१)
धर्मे स्थितो धर्मसुतो महात्मा
धर्मश्च सूक्ष्मो निपुणोपलक्ष्यः.
वाचापि भर्तुः परमाणुमात्र-
मिच्छामि दोषं न गुणान्विसृज्य ||२-८९-५० (१४९०२)
इदं त्वकार्यं कुरुवीरमध्ये
रजस्वलां यत्परिकर्षसे माम्.
न चापि कश्चित्कुरुतेऽत्र कुत्सां
ध्रुवं तवेदं मतमभ्युपेतः ||२-८९-५१ (१४९०३)
धिगस्तु नष्टः खलु भारतानां
धर्मस्तथा क्षत्रविदां च वृत्तम्.
यत्र ह्यतीतां कुरुधर्मवेलां
प्रेक्षन्ति सर्वे कुरवः सभायाम् ||२-८९-५२ (१४९०४)
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं
क्षत्तुस्तथैवास्य चनास्ति सत्त्वं
क्षत्तुस्तथैवास्य महात्मनोपि.
न लक्षयन्ति कुरुवृद्धमुख्याः ||२-८९-५३ (१४९०५)
वैशम्पायन उवाच ||२-८९-५४क्ष् (१६३०)
तथा ब्रुवन्ती करुणं सुमध्यमा
भर्तॄन्कटाक्षैः कुपितानपश्यत्.
सा पाण्डवान्कोपपरीतदेहा-
न्सन्दीपयामास कटाक्षपातैः ||२-८९-५४ (१४९०६)
हृतेन राज्येन तथा धनेन
रत्नैश्च मुख्यैर्न तथा बभूव.
यथा त्रपाकोपसमीरितेन
कृष्णाकटाक्षेण बभूव दुःखम् ||२-८९-५५ (१४९०७)
दुःशासनश्चापि समीक्ष्य कृष्णा-
मवेक्षमाणां कृपणान्पतींस्तान्.
आधूय वेगेन विसञ्ज्ञकल्पा-
मुवाच दासीति हसन्सशब्दम् ||२-८९-५६ (१४९०८)
कर्णस्तु तद्वाक्यमतीव हृष्टः
सम्पूजयामास हसन्सशब्दम्.
गान्धारराजः सुबलस्य पुत्र-
स्तथैव दुःशासनमभ्यनन्दत् ||२-८९-५७ (१४९०९)
सभ्यास्तु ये तत्र बभूवुरन्ये
ताभ्यामृते धार्तराष्ट्रेण चैव.
तेषामभूद्दुः खमतीव कृष्णां
दृष्ट्वा सभायां परिकृष्यमाणाम् ||२-८९-५८ (१४९१०)
भीष्म उवाच. २-८९-५९क्ष् (१६३१)
न धर्मसौक्ष्म्यात्सुभगे विवेक्तुं
शक्रोमि ते प्रश्नमिमं यथावत्.
अस्वाम्यशक्तः पणितुं परस्वं
स्त्रियाश्च भर्तुर्वशतां समीक्ष्य ||२-८९-५९ (१४९११)
त्यजेत सर्वां पृथिवीं समृद्धां
युधिष्ठिरो धर्ममथो न जह्यात्.
उक्तं जितोऽस्मीति च पाण्डवेन
तस्मान्न शक्नोमि विवेक्तुमेतत् ||२-८९-६० (१४९१२)
द्व्यूतेऽद्वितीयः शकुनिर्नरेषु
कुन्तीसुतस्तेन निसृष्टकामः.
न मन्यते तां निकृतिं युधिष्ठिर-
स्तस्मान् ते प्रश्नमिमं ब्रवीमि ||२-८९-६१ (१४९१३)
द्रौपद्युवाच. २-८९-६१क्ष् (१६३२)
आहूय राजा कुशलैरनार्यै-
र्दुष्टात्मभिर्नैकृतिकैः सभायाम्.
द्यूतप्रियैर्नातिकृतप्रयत्नः
कस्मादयं नाम निसृष्टकामः ||२-८९-६२ (१४९१४)
अशुद्धभावैर्निकृतिप्रवृत्तै-
रबुध्यमानः कुरुपाण्डवाग्र्यः.
सम्भूय सर्वैश्च जितोऽपि यस्मा-
त्पश्चादयं कैतवमभ्युपेतः ||२-८९-६३ (१४९१५)
तिष्ठन्ति चेमे कुरवः सभाया-
मीशाः सुतानां च तथा स्नुपाणाम्.
समीक्ष्य सर्वे मम चापि वाक्यं
विब्रूत मे प्रश्नमिमं यथावत् ||२-८९-६४ (१४९१६)
न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम्.
नासौ धर्मो यत्र न सत्यमस्ति
न तत्सत्यं यच्छलेनानुविद्धम् ||२-८९-६५ (१४९१७)
वैशम्पायन उवाच ||२-८९-६६क्ष् (१६३३)
तथा ब्रुवन्तीं करुणं रुदन्ती-
मवेक्षमाणां कृपणान्पतींस्तान्.
दुःशासनः परुषाण्यप्रियाणि
वाक्यान्युवाचामधुराणि चैव ||२-८९-६६ (१४९१८)
तां कृष्यमाणां च रजस्वलां च
स्रस्तोत्तरीयामतदर्हमाणाम्.
वृकोदरः प्रेक्ष्य युधिष्ठिरं च
चकार कोपं परमार्तरूपः ||||२-८९-६७ (१४९१९)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकोननवतितमोऽध्यायः
||८९. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-८९-१७ कैतवं कितवेभ्यो देयं धनम् ||
२-८९-२७ स्पर्शो सुखदुःखे वृद्धबालौ स्पृशतः प्राप्नुतः | शमं
स्वास्थ्यम् ||
२-८९-४१ ऊर्मिमत्सु प्रवहन्नदीजलवन्निम्नोन्नतेषु ||
२-८९-४९ सेन्द्रपि सेन्द्रा अपि ||
२-८९-६४ विब्रूत विस्पष्ट ब्रूत नतु भईष्मवत्सन्दिग्धमिति भावः ||
सभापर्व -अध्याय ०९०
||श्रीः ||
२. ९०. अध्यायः ९०
Mahabharata -Sabha Parva -Chapter Topics
भौमवचनम् ||१. . विकर्णवचनम् ||२. . दुःशासनेन
द्रौपदीवस्त्रापहारः ||३. . श्रीकृष्णप्रसादात् द्रौपद्यः
वस्त्रराशिप्रादुर्भावः ||४. . विदुरवचनम् ||५. .
Mahabharata -Sabha Parva -Chapter Text
भीम उवाच.
भवन्ति गेहे बन्धक्यः कितवानां युधिष्ठिर.
भवन्ति दीव्यन्ति दया चैवास्ति तावस्वपि ||२-९०-१ (१४९२०)
काश्यो यद्धनमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम्.
तथाऽन्ये पृथिवीपाला यानि रत्नान्युपाहरन् ||२-९०-२ (१४९२१)
वाहनानि धनं चैव कवचान्यायुधानि च.
राज्यमात्मा वयं चैव कैतवेन हृतं परैः ||२-९०-३ (१४९२२)
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान्.
इमं त्वतिक्रमं मन्यो द्रौपदी यत्र पण्यते ||२-९०-४ (१४९२३)
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः.
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैरकृतात्मभिः ||२-९०-५ (१४९२४)
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते.
बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानयः ||२-९०-६ (१४९२५)
अर्जुन उवाच. २-९०-७क्ष् (१६३४)
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः.
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ||२-९०-७ (१४९२६)
न सकामाः परो कार्या धर्ममेवाचरोत्तमम्.
भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति ||२-९०-८ (१४९२७)
आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन्.
दीव्यते परकामेन तन्नः कीर्तिकरं महत् ||२-९०-९ (१४९२८)
भीमसेन उवाच ||२-९०-१०क्ष् (१६३५)
एवमस्मिन्कृतं विद्यां यदि नाहं धनञ्जय.
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ||२-९०-१० (१४९२९)
वैशम्पायन उवाच ||२-९०-११क्ष् (१६३६)
तथा तान्दुः खितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः.
कृष्यमाणां च पाञ्चालीं विकर्ण इदमब्रवीत् ||२-९०-११ (१४९३०)
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः.
अविवेकेन वाक्यस्य नरकः सद्य एव नः ||२-९०-१२ (१४९३१)
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ.
समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः ||२-९०-१३ (१४९३२)
भारद्वाजश्च सर्वेषामाचार्यः कृप एव च.
कुत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ||२-९०-१४ (१४९३३)
ये त्वन्ये पृथिवीपालाः समेताः सर्वतोदिशम्.
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ||२-९०-१५ (१४९३४)
यदितं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा.
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ||२-९०-१६ (१४९३५)
वाशम्पायन उवाच ||२-९०-१७क्ष् (१६३७)
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः.
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ||२-९०-१७ (१४९३६)
उक्त्वाऽसकृत्तथा सर्वान्विकर्णः पृथिवीपतीन्.
पाणौ पाणिं विनिष्पिष्य निःश्वसन्निदमब्रवीत् ||२-९०-१८ (१४९३७)
विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चनि.
मन्ये न्याय्यं यदत्राहं तद्वि वक्ष्यामि कौरवाः ||२-९०-१९ (१४९३८)
चत्वार्याहुर्नश्रेष्ठा व्यसनानि महीक्षिताम्.
मृगयां पानमक्षांश्च ग्राम्ये चैवातिरक्तताम् ||२-९०-२० (१४९३९)
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते.
यथाऽयुक्तेन च कृतां क्रियां लोको न मन्यते ||२-९०-२१ (१४९४०)
तथेयं पाण्डुपुत्रेण व्यसने वर्तता भृशम्.
समाहूतेन कितवैरास्थितो द्रौपदीपणः ||२-९०-२२ (१४९४१)
साधारणी च सर्वेषां पाण्डवानामनिन्दिता.
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ||२-९०-२३ (१४९४२)
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना.
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ||२-९०-२४ (१४९४३)
वैशम्पायन उवाच ||२-९०-२५क्ष् (१६३८)
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत.
विकर्णं शंसमानानां सौबलं चापि निन्दताम् ||२-९०-२५ (१४९४४)
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः.
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ||२-९०-२६ (१४९४५)
कर्ण उवाच ||२-९०-२७क्ष् (१६३९)
दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि.
तज्जातस्तद्विनाशाय यथाऽग्निररणिप्रजः ||२-९०-२७ (१४९४६)
एते न किञ्चिदप्याहुश्चोदिता ह्यपि कृष्णया.
धर्मेण विजितामेतां मन्यन्ते द्रपदात्मजाम् ||२-९०-२८ (१४९४७)
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे.
यद्ब्रवीषि सभाम्ध्ये बालः स्थविरभाषितम् ||२-९०-२९ (१४९४८)
न च धर्म यथावत्त्वं कृष्णां च जितेति सुमन्दधीः.
यद्ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः ||२-९०-३० (१४९४९)
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज.
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ||२-९०-३१ (१४९५०)
अभ्यन्तर च सर्वस्वे द्रौपदी भरतर्षभ.
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ||२-९०-३२ (१४९५१)
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः.
भवत्यविजिता केन हेतुनैषा मता तव ||२-९०-३३ (१४९५२)
मन्यसे वा सभामेतामानीतामेकवाससम्.
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तमम् ||२-९०-३४ (१४९५३)
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन.
इयं त्वनेकवशगा बन्धकीति विनिश्चिता ||२-९०-३५ (१४९५४)
अस्याः सभामानयनं न चित्रमिति मे मतिः.
एकाम्बरधरत्वं वाऽप्यथवाऽपि विवस्त्रता ||२-९०-३६ (१४९५५)
यच्चैषां द्रविणं किञ्चिद्य चैषा ये च पाण्डवाः.
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ||२-९०-३७ (१४९५६)
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः.
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ||२-९०-३८ (१४९५७)
वैशम्पायन उवाच ||२-९०-३९क्ष् (१६४०)
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत.
अवकीर्योत्तरीयाणि सभायां समुपाविशन् ||२-९०-३९ (१४९५८)
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात्.
सभामध्ये सभाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे ||२-९०-४० (१४९५९)
' आकृष्यमाणे वसने विललाप सुदुःखिता.
ज्ञातं मया विसिष्ठेन पुरा गीतं महात्मना ||२-९०-४१ (१४९६०)
महत्यापदि सम्प्राप्ते स्मर्तव्यो भगवान्हरिः.
इति निश्चित्य मनसा शरणागतवत्सलम्.
आकृष्यमाणे वसने द्रौपदी कृष्णमस्तरत् ||२-९०-४२ (१४९६१)
शङ्खचक्रगदापाणे द्वारकानिलयाच्युत.
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम् ||२-९०-४३ (१४९६२)
हा कृष्ण द्वारकावासिन्क्वासि यादवन्दन.
इमामवस्थां सम्प्राप्तामनाथां किमुपेक्षसे ||२-९०-४४ (१४९६३)
गोविन्द द्वारकावासिन्कृष्ण गोपीजनप्रिय.
कौरवैः परिभूतां मां किं न जानासि केशव' ||२-९०-४५ (१४९६४)
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन.
कौरवार्णवग्नां मामुद्धरस्व जनार्दन ||२-९०-४६ (१४९६५)
कृष्णकृष्ण महायोगिन्विश्वात्मन्विश्व्भावन.
प्रपन्नां पाहि गोविन्द कुरमध्येऽवसीदतीम् ||२-९०-४७ (१४९६६)
इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम्.
प्रारुदद्दुः खिता राजन्मुखमाच्छाद्य भामिनी ||२-९०-४८ (१४९६७)
तस्य प्रसाद्द्रौपद्याः कृष्णमाणेऽम्बरे तदा.
तद्रूपमपरे वस्त्रं प्रादुरासीदनेकशः ||२-९०-४९ (१४९६८)
नानारागविरागाणि वसनान्यथ वै प्रभो.
प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात् ||२-९०-५० (१४९६९)
ततो हलहलाशब्दस्तत्रासीद्घोरदर्शनः.
तदद्भुततमं लोके वीक्ष्य सर्वे महीभृतः ||२-९०-५१ (१४९७०)
शशंसुर्द्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम्.
' धिग्धिगित्यशिवां वाचमुत्सृजन्कौरवान्प्रति' ||२-९०-५२ (१४९७१)
यदा तु वाससां राशिः सभामध्ये समाचितः' .
तदा दुःशासनः श्रान्तो व्रीडितः समुपाविशत् २-९०-५३ (१४९७२)
शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः.
क्रोधाद्विस्फुरमाणौष्ठो विनिष्पिष्य करे करम् ||२-९०-५४ (१४९७३)
भीम उवाच ||२-९०-५५क्ष् (१६४१)
इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः.
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ||२-९०-५५ (१४९७४)
यद्येतदेवमुक्त्वाऽहं न कुर्यां पृथिवीश्वराः.
पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम् ||२-९०-५६ (१४९७५)
अस्य पापस्य दुर्बुद्धेर्भारतापसदस्य च.
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ||२-९०-५७ (१४९७६)
वैशम्पायन उवाच ||२-९०-५८क्ष् (१६४२)
तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् ||
प्रचक्रुर्बहुलां पूजां कुसन्तो धृतराष्ट्रजम् ||२-९०-५८ (१४९७७)
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह.
सुजनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ||२-९०-५९ (१४९७८)
विदुर उवाच.
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति त्वनाथवत्. २-९०-६० (१४९७९)
वैशम्पायन उवाच ||२-९०-६१क्ष् (१६४३)
तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम्.
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ||२-९०-६१ (१४९८०)
सभां प्रपद्यते प्रश्नः प्रज्वलन्निव हव्यवाद्.
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ||२-९०-६२ (१४९८१)
धर्म्यं प्रश्नमतो ब्रूयादार्यः सत्येन मानवः.
विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः ||२-९०-६३ (१४९८२)
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः.
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ||२-९०-६४ (१४९८३)
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः.
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ||२-९०-६५ (१४९८४)
यः पुनर्वितथं ब्रूयाद्धर्मदशीं सभां गतः.
अनृतस्य फलं कृत्स्नं स प्राप्नोतीति निश्चयः ||२-९०-६६ (१४९८५)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्.
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ||२-९०-६७ (१४९८६)
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः.
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ||२-९०-६८ (१४९८७)
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा.
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ||२-९०-६९ (१४९८८)
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम्.
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ||२-९०-७० (१४९८९)
स वै विवदनाद्भीतः सुधन्वानं विलोकयन्.
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदम्ड इव ज्वलन् ||२-९०-७१ (१४९९०)
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि ||
शतघा ते शिरो वज्री वज्रेण प्रहरिष्यति ||२-९०-७२ (१४९९१)
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत्.
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ||२-९०-७३ (१४९९२)
प्रह्लाद उवाच ||२-९०-७४क्ष् (१६४४)
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च.
ब्राह्मणस्य महाभाग धर्मकृच्छ्रमिदं शृणु ||२-९०-७४ (१४९९३)
यो वै प्रश्नं न विब्रूयाद्वितथं चैव निर्दिशेत्.
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ||२-९०-७५ (१४९९४)
कश्यप उवाच ||२-९०-७६क्ष् (१६४५)
जानन्नविब्रुवन्प्रश्नान्कामात्क्रोधाद्भयात्तथा.
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ||२-९०-७६ (१४९९५)
साक्षी वा विब्रुवन्साक्ष्यं गोकर्णशिथिलश्वरन्.
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्जति ||२-९०-७७ (१४९९६)
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते.
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमुञ्जसा ||२-९०-७८ (१४९९७)
विद्धो धर्मो ह्यधर्मेण सभां यत्रोपपद्यते.
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ||२-९०-७९ (१४९९८)
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु.
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ||२-९०-८० (१४९९९)
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः.
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ||२-९०-८१ (१५०००)
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते.
इष्टापूर्तं च ते घ्न्ति सप्तसप्त परावरान् ||२-९०-८२ (१५००१)
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चैव यत्.
ऋणिनः प्रति यच्चैव स्वार्थाद्धष्टस्य चैव यत् ||२-९०-८३ (१५००२)
स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत्.
अपुत्रायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत् ||२-९०-८४ (१५००३)
अध्यूढायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत् ||
एतानि वै समान्याहुर्दुःखानि त्रिदिवेश्वराः ||२-९०-८५ (१५००४)
तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन्.
समक्षदर्शनात्साक्षी श्रवणाच्चेति धारणात् ||२-९०-८६ (१५००५)
तस्मात्सत्यं ब्रुवत्साक्षी धर्मार्थाभ्यां न हीयते.
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् ||२-९०-८७ (१५००६)
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः.
माता सुधन्वाऽयं प्राणानामीश्वरस्तव ||
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव ||२-९०-८८ (१५००७)
सुधन्वोवाच. २-९०-८९क्ष् (१६४६)
पुत्रस्नेहं पिरत्यज्य यस्त्वं धर्मे व्यवस्थितः.
अनुजानामि ते पुत्रं जीवत्वेव शतं समाः ||२-९०-८९ (१५००८)
विदुर उवाच. २-९०-९०क्ष् (१६४७)
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः.
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ||२-९०-९० (१५००९)
वैशम्पायन उवाच ||२-९०-९१क्ष् (१६४८)
विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः.
कर्णो दुःशासनं त्वाह कृष्णं दासीं गृहान्नय ||२-९०-९१ (१५०१०)
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान्.
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ||||२-९०-९२ (१५०११)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि नवतितमोऽध्यायः ||९०. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-९०-२० ग्राम्ये स्त्रीभोगी ||
२-९०-४१ आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः | गोविन्द
द्वारकान्वासिन्कृष्ण गो पीजनप्रिय. कौरवैः परिभूतां मां किं ज
जानासि केशव. इति झ.पाठः ||
२-९०-७७ गोकर्णशिथिल उभयक्षस्पर्शी ||
सभापर्व -अध्याय ०९१
||श्रीः ||
२. ९१. अध्यायः ९१
Mahabharata -Sabha Parva -Chapter Topics
द्रौपदीवचनम् ||१. . युधिष्ठिरेणैव द्रौपदीप्रश्नस्योत्तरं
वक्तव्यमिति भीष्मवचनम् ||२. .
Mahabharata -Sabha Parva -Chapter Text
द्रौपद्युवाच ||
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम्.
विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात् ||२-९१-१ (१५०१२)
अभिवादं करोम्येषां कुरूणां कुरुसंसदि.
न मे स्यादपराधोऽयं तदिदं न कृतं मया ||
वैशम्पायन उवाच ||२-९१-२ (१५०१३)
सा तेन च समाधूता दुःखेन च तपस्विनी.
पतिता विललापेदं सभायामतथोचिता ||२-९१-३ (१५०१४)
द्रौपद्युवाच. २-९१-४क्ष् (१६४९)
स्वयंवरे यास्मि नृपैदृष्टा रङ्गे समागतैः.
न दृष्टपूर्वा चान्यत्र साऽहमद्य सभां गता ||२-९१-४ (१५०१५)
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे.
साऽहमद्य सभामध्ये दृष्टास्मि जनसंसदि ||२-९१-५ (१५०१६)
यां न मृष्यन्ति वातेन स्पृश्यमानां गृहे पुरा.
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दूरात्मना ||२-९१-६ (१५०१७)
मृष्यन्ति कुरवश्चेमे मन्ये कालस्य पर्ययम्.
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ||२-९१-७ (१५०१८)
किंन्वतः कृपणं भूयो यदहं स्त्री सती शुभा.
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ||२-९१-८ (१५०१९)
धर्म्यं स्त्रियं सभां पूर्वे न नयन्तीति नः श्रुतम्.
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ||२-९१-९ (१५०२०)
कथं हि भार्या पाण्डुनां पार्षतस्य स्वसा सती.
वासुदेवस्य च सखी पार्थिवानां सभामियाम् ||२-९१-१० (१५०२१)
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम्.
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः. २-९१-११ (१५०२२)
अयं मां सुदृढं क्षुद्रः कौरवाणां यशोहरः.
क्लिश्नाति नाहं तत्सोढुं क्षुद्रः कौरवाणां यशोहरः. २-९१-१२ (१५०२३)
जितां वाऽप्यजितां वापि मन्यध्वं मां यथा नृपाः.
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ||२-९१-१३ (१५०२४)
भीष्म उवाच ||२-९१-१४क्ष् (१६५०)
उक्तवानस्मि कल्याणि धर्मस्य परमा गतिः.
लोके न शक्यते ज्ञातुमपि विज्ञैर्महात्मभिः ||२-९१-१४ (१५०२५)
बलवांश्च यथा धर्मं लोके पश्यति पुरुषः ||
स धर्मो धर्मवेलायां भवत्यभिहतः परः ||२-९१-१५ (१५०२६)
न विवेक्तुं च ते प्रश्नमिमं शक्नोमि निश्चयात्.
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ||२-९१-१६ (१५०२७)
नूनमन्तः कुलस्यास्य भविता न चिरादिव.
तथा हि कुरवः सर्वे लोभमोहपरायणाः ||२-९१-१७ (१५०२८)
कुलेषु जाताः कल्याणि व्यसनैराहता भृशम्.
धर्म्यान्मार्गान्न च्यवन्ते येषां नस्त्वं बधूः स्थिता ||२-९१-१८ (१५०२९)
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम्.
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे ||२-९१-१९ (१५०३०)
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः.
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ||२-९१-२० (१५०३१)
युधिष्ठिरस्तु प्रश्नोऽस्मिन्प्रमाणमिति मे मतिः.
अजितां वा जितां वेति स्वयं व्याख्यातुमर्हति ||||२-९१-२१ (१५०३२)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकनवतितमोऽध्यायः ||९१ ||
सभापर्व -अध्याय ०९२
||श्रीः ||
२. ९२. अध्यायः ९२
Mahabharata -Sabha Parva -Chapter Topics
दुर्योधनवचनम् ||१. . दुर्योधनेन द्रौपदीं प्रति निजोरौ
प्रदर्शिते भीमेन तद्भेदनप्रतिज्ञा ||२. . अर्जुनादिभिः
कर्णादिहननप्रतिज्ञा ||३. . द्रौपद्या दुर्योधनादीनां शापदानसमये
अन्तरिक्षात्पुष्पवृष्टिः ||४. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
तथा तु दृष्ट्वा बहु तत्र देवीं
रोरूयमाणां कुररीमिवार्ताम्.
नोचुर्वचः साध्वथवाऽप्यसाधु
महीक्षितो धार्तराष्ट्रस्य भीताः ||२-९२-१ (१५०३३)
दृष्ट्वा तथा पार्थिवपुत्रपौत्रां-
स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः.
स्मयन्निवेदं वचनं बभाषे
पाञ्चालराजस्य सुतां तदानीम् ||२-९२-२ (१५०३४)
दुर्योधन उवाच ||२-९२-३क्ष् (१६५१)
तिष्ठत्वयं प्रश्न उदारसत्वे
भीमेऽर्जुने सहदेवे तथैव.
पत्यौ च ते नकुले याज्ञसेनि
वदन्त्वेते वचनं त्वत्प्रसूतम् ||२-९२-३ (१५०३५)
अनीश्वरं विब्रुवन्त्वार्यमध्ये
युधिष्ठिरं तव पाञ्चालि हेतोः.
कुर्वन्तु सर्वे चानृतं धर्मराजं
पाञ्चालि त्वं मोक्ष्यसे दासभावात् ||२-९२-४ (१५०३६)
धर्मे स्थितो धर्मसुतो महात्मा
स्वयं चेदं कथयत्विन्द्रकल्पः.
ईशो वा ते ह्यनीशोऽथवैष
वाक्यादस्य क्षिप्रमेकं भजस्व ||२-९२-५ (१५०३७)
सर्वे हीमे कौरवेयाः सभायां
दुःखान्तरे वर्तमानास्तवैव.
न विब्रुवन्त्यार्यसत्वा यथाव-
त्पतींश्च ते समवेक्ष्याल्पभाग्यान् ||२-९२-६ (१५०३८)
वैशम्पायन उवाच ||२-९२-७क्ष् (१६५२)
ततः सभ्याः कुरुराजस्य तस्य
वाक्यं सर्वे प्रशशंसुस्तथोच्चैः.
चेलावेधांश्चापि चक्रुर्नदन्तो
हाहेत्यासीदपि चैवार्तनादः ||२-९२-७ (१५०३९)
श्रुत्वा तुं तद्वाक्यमनोहरं त-
द्धर्षश्चासीत्कौरवाणां सभायाम्.
सर्वे चासन्पार्थिवाः प्रीतिमन्तः
कुरुश्रेष्ठं धार्मिकं पूजयन्तः ||२-९२-८ (१५०४०)
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः.
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ||२-९२-९ (१५०४१)
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः.
भीमसेनो यमौ चोभौ भृशं कौतूहलान्विताः ||२-९२-१० (१५०४२)
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम्.
प्रगृह्य रुचिरं दिव्यं भुजं चन्दनचर्चितम् ||२-९२-११ (१५०४३)
यद्येष गुरुरस्माकं धर्मराजो महामनाः.
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ||२-९२-१२ (१५०४४)
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः.
मन्यते जितमात्मानं यद्येष विजिता वयम् ||२-९२-१३ (१५०४५)
न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन्.
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ||२-९२-१४ (१५०४६)
पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव.
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ||२-९२-१५ (१५०४७)
धर्मपाशसितस्त्वेवमधिगच्छामि सङ्कटम्.
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ||२-९२-१६ (१५०४८)
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव.
धार्तराष्टारानिमान्पापान्निष्पषेयं तलासिभिः ||२-९२-१७ (१५०४९)
वैशम्पायन उवाच ||२-९२-१८क्ष् (१६५३)
तमुवाच तदा भीष्मो द्रोणो विदुर एव च.
क्षम्यतामिदमित्येवं सर्वं सम्भाव्यते त्वयि ||२-९२-१८ (१५०५०)
कर्ण उवाच ||२-९२-१९क्ष् (१६५४)
त्रयः किलेमे ह्यधना भवन्ति.
दासः पुत्रश्चास्वतन्त्रा च नारी.
दासस्य पत्नी त्वधनस्य भद्रे
हीनश्वरा दासधनं च सर्वम् ||२-९२-१९ (१५०५१)
प्रविश्य राज्ञः परिवारं भजस्व
तत्ते कार्यं शिष्टमादिश्यतेऽत्र.
ईशास्तु सर्वे तव राजपुत्रि
भवन्ति वै धार्तराष्ट्रा न पार्थाः ||२-९२-२० (१५०५२)
अन्यं वृणीष्व पतिमाशु भामिनि
यस्माद्दास्यं न लभसि देवनेन.
अवाच्या वै पतिषु कामवृत्ति-
र्नित्यं दास्ये विदितं तत्तवास्तु ||२-९२-२१ (१५०५३)
पराजितो नकुलो भीमसेनो
युधिष्ठरः सहदेवार्जुनौ च.
दासीभूता त्वं हि वै याज्ञसेनि
पराजितास्ते पतयो नैव सन्ति ||२-९२-२२ (१५०५४)
प्रयोजनं जन्मनि किं न मन्यते
पराक्रमं पौरुषं चैव पार्थटः.
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां
सभामध्ये यो व्यदेवीद्ग्लहेषु ||२-९२-२३ (१५०५५)
वैशम्पायन उवाच ||२-९२-२४क्ष् (१६५५)
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी
भृशं निशश्वास तदाऽर्तरूपः.
राजानुगो धर्मपाशानुबद्धो
दहन्निवैनं क्रोधसंरक्तदृष्टिः ||२-९२-२४ (१५०५६)
भीम उवाच ||२-९२-२५क्ष् (१६५६)
नाहं कुप्ये सूतपुत्रस्य राज-
न्नेष सत्यं दासधर्मः प्रदिष्टः.
किं विद्विषो वै मामेवं व्याहरेयु-
र्नादेवीस्त्वं यद्यनया नरेन्द्र ||२-९२-२५ (१५०५७)
वैशम्पायन उवाच ||२-९२-२६क्ष् (१६५७)
भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा.
युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतनम् ||२-९२-२६ (१५०५८)
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने.
प्रश्नं ब्रूहि च कृष्णां त्वमजितां यदि मन्यसे ||२-९२-२७ (१५०५९)
एवमुक्त्वा तु कौन्येयमपोह्य वसनं स्वकम्.
स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः ||२-९२-२८ (१५०६०)
कदलीदण्डसदृशं सर्वलक्षणसंयुतम्.
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ||२-९२-२९ (१५०६१)
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव.
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ||२-९२-३० (१५०६२)
भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते.
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ||२-९२-३१ (१५०६३)
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः.
यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ||२-९२-३२ (१५०६४)
वैशम्पायन उवाच ||२-९२-३३क्ष् (१६५८)
क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः.
वृक्षस्येव विनिश्वेरुः कोटरेभ्यः प्रदह्यतः ||२-९२-३३ (१५०६५)
विदुर उवाच ||२-९२-३४क्ष् (१६५९)
परं भयं पश्यत भीमसेना-
त्तद्बुध्यध्वं पार्थिवाः प्रातिपेयाः.
दैवेरितो नूनमयं पुरस्ता-
त्परोऽनयो भरतेषूदपादि ||२-९२-३४ (१५०६६)
अतिद्यूतं कृतमिदं धार्तराष्ट्र
यस्मात्स्त्रियं विवदध्वं सभायाम्.
योगक्षेमौ नश्यतो वः समग्रौ
पापान्मन्त्रान्कुरवो मन्त्रयन्ति ||२-९२-३५ (१५०६७)
इमं धर्मं कुरवो जानताशु
ध्वस्ते धर्मे परिषत्सम्प्रदुष्येत्.
इमां चेत्पूर्वं कितवोऽग्लहिष्य-
दीशोऽभविष्यदपराजितात्मा ||२-९२-३६ (१५०६८)
स्वप्ने यथैतद्विजितं धनं स्या-
देवं मन्ये यस्य दीव्यत्यनीशः.
गान्धारराजस्य वचो निशम्य
धर्मादस्मात्कुरवो माऽपयात ||२-९२-३७ (१५०६९)
दुर्योधन उवाच ||२-९२-३८क्ष् (१६६०)
भीमस्य वाक्ये तद्वदेवार्जुनस्य
स्थितोऽहं वै यमयोश्चैवमेव.
युधिष्ठिरं ते प्रवदन्त्वनीश-
मथो दास्यान्मोक्षसे याज्ञसेनि ||२-९२-३८ (१५०७०)
अर्जुन उवाच ||२-९२-३९क्ष् (१६६१)
ईशो राजा पूर्वमासीद्ग्लहे नः
कुन्तीसुतो धर्मराजो महात्मा.
ईशस्त्वयं कस्य पराजितात्मा
तज्जानीध्वं कुरवः सर्व एव ||२-९२-३९ (१५०७१)
' कर्ण उवाच ||२-९२-४०क्ष् (१६६२)
दुश्शासन निबोधेदं वचनं वै प्रभाषितम्.
किमनेन चिरं वीर नयस्व द्रपदात्मजाम्.
दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरुनन्दन ||२-९२-४० (१५०७२)
वैशम्पायन उवाच ||२-९२-४१क्ष् (१६६३)
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्.
साधु कर्ण महाबाहो यथेष्टं क्रियतामिति ||२-९२-४१ (१५०७३)
ततो दुश्शासनस्तूर्णं द्रुपदस्य सुतां बलात्.
प्रवेशयितुमारब्धः स चकर्ष दुरात्मवान् ||
ततो विक्रोशति तदा पाञ्चाली वरवर्णिनी ||२-९२-४२ (१५०७४)
द्रौपद्युवाच. २-९२-४४क्ष् (१६६४)
परित्रायस्व मां भीष्ण द्रोण द्रौणे तथा कृप.
परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल ||२-९२-४४ (१५०७५)
धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम्.
गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि.
पिरत्रायस्व मां भीरुं सुयोधनभयार्दिताम् ||२-९२-४५ (१५०७६)
त्वमार्ये वीरजननि किं मां पश्यसि यादवीम्.
क्लिश्यमानामनार्येण न त्रायसिव वधूं स्वकाम् ||२-९२-४६ (१५०७७)
यदि लालप्यमानां मां न कश्चित्किञ्चिदब्रवीत्.
हा हताऽस्मि सुमन्दात्मा सुयोधनवशं गता ||२-९२-४७ (१५०७८)
न वै पाण्डुर्नरपतिर्न धर्मो न च देवराट्.
न चायुर्नाश्विनौ वाऽपि परित्रायन्ति वै स्नुषाम् ||
धिक्कष्टं यदि जीवेयं मन्दभाग्या पतिव्रता ||२-९२-४८ (१५०७९)
विदुर उवाच ||२-९२-५०क्ष् (१६६५)
शृणोमि वाक्यं तव राजपुत्रि
नेमे पार्थाः किञ्चिदपि ब्रुवन्ति.
सा त्वं प्रियार्थं शृणु वाक्यमेत-
द्यदुच्यते पापमतिः कृतघ्नः ||२-९२-५० (१५०८०)
सुयोधनः सानुचरः सुदुष्टः
सहैव राजा निकृतः सूनुना च
यद्येष वाचं महदुच्यमानां
न श्रोष्यते पापमतिः सुदुष्टः ||२-९२-५१ (१५०८१)
वैशम्पायन उवाच ||२-९२-५२क्ष् (१६६६)
इत्येवमुक्त्वा द्रुपदस्य पुत्रीं
क्षत्ताऽब्रवीद्धृतराष्ट्रस्य पुत्रम्. २-९२-५२ (१५०८२)
मा क्लिश्यतां वै द्रुपदस्य पुत्रीं
मा त्वं चरीं द्रक्ष्यसि राजपुत्र ||२-९२-५३ (१५०८३)
विदुर उवाच ||२-९२-५४क्ष् (१६६७)
यद्येवं त्वं महाराज सङ्क्लेशयसि द्रौपदीम्.
अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः.
गमिष्यति क्षयं पापः पाण्डवक्षयकारणात् ||२-९२-५४ (१५०८४)
भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च.
तस्मान्निवारय सुतं मा विनाशं विचिन्तय ||२-९२-५५ (१५०८५)
वैशम्पायन उवाच ||२-९२-५६क्ष् (१६६८)
एतच्छुत्वा मन्दबुद्धिर्नोत्तरं किञ्चिदब्रवीत्.
ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः ||२-९२-५६ (१५०८६)
अचिन्त्य क्षत्तुर्वचनं हर्षेणायतलोचनः.
ऊरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः ||२-९२-५७ (१५०८७)
ऊरौ सन्दर्श्यमाने तु निरीक्ष्य तु सुयोधनम्.
वृकोदरस्तदालोक्य नेत्रे चोल्फाल्य लोहिते ||२-९२-५८ (१५०८८)
एतत्समीक्ष्यात्मनि चावमानं
नियम्य मन्युं बलनान्स मानी.
राजानुजः संसदि कौरवाणां
विनिष्क्रमन्वाक्यमुवाच भीमः ||२-९२-५९ (१५०८९)
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः.
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ||२-९२-६० (१५०९०)
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः.
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ||२-९२-६१ (१५०९१)
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि.
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ||२-९२-६२ (१५०९२)
वक्षः शूरस्य निर्वास्य परुषस्य दुरात्मनः.
दुश्शासनस्य रुधिरं पास्यामि मृगराडिव ||२-९२-६३ (१५०९३)
अर्जुन उवाच ||२-९२-६४क्ष् (१६६९)
भीमसेन न ते सन्ति येषां वैरं त्वया सह.
नन्दा गृहेषु न बुद्ध्यन्ते महद्भयम् ||२-९२-६४ (१५०९४)
नैव वाचा व्यवसितं भीम विज्ञायते सताम्.
यदि स्थास्यन्ति सङ्ग्रामे क्षत्रधर्मेण वै सह ||२-९२-६५ (१५०९५)
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः.
दुश्शासनचतुर्थानां भूमिः पास्यति शोणितम् ||२-९२-६६ (१५०९६)
असूयितारं वक्तारं प्रहृष्टानां दुरात्मनाम्.
भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे ||२-९२-६७ (१५०९७)
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः.
ये चान्ये विप्रयोत्स्यन्ति बुद्धिमोहेन मां नृपाः.
तान्स्म सर्वञ्छितैर्बाणैर्नेताऽस्मि यमसादनम् ||२-९२-६८ (१५०९८)
चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः.
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ||२-९२-६९ (१५०९९)
वैशम्पायन उवाच ||२-९२-७०क्ष् (१६७०)
उत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः.
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ||२-९२-७० (१५१००)
सौबलस्य वधप्रेप्सुरिदं वचनमब्रवीत्.
क्रोधसंरक्तनयनो निश्वस्य च मुहुर्मुहुः ||२-९२-७१ (१५१०१)
सहदेव उवाच ||२-९२-७२क्ष् (१६७१)
यानक्षान्मन्यसे मूढ गान्धाराणां यशोहर.
नैते ह्यक्षाः शिता वाणास्त्वयैते समरे धृताः ||२-९२-७२ (१५१०२)
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्.
कर्ताऽहं कर्मणा चास्य कुरुकार्याणि सर्वशः.
यदि स्थस्यासि सङ्ग्रामे क्षत्रधर्मेण सौबल ||२-९२-७३ (१५१०३)
वैशम्पायन उवाच ||२-९२-७४क्ष् (१६७२)
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते.
दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ||२-९२-७४ (१५१०४)
नकुल उवाच ||२-९२-७५क्ष् (१६७३)
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः.
यैर्वाचः श्राविता रूक्षा धूर्तैर्दुर्योधनप्रियैः ||२-९२-७५ (१५१०५)
धार्तराष्ट्रान्सुदुर्वृत्तान्मुमूर्षून्कालचोदितान्.
दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ||२-९२-७६ (१५१०६)
उलूकं च दुरात्मानं सौबलस्य प्रियं सुतम्.
हन्ताऽहमस्मि समरे मम शत्रुं नराधमम् ||२-९२-७७ (१५१०७)
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्.
नर्धार्तराष्टां पृथिवीं कर्तास्मि नचिरादिवा ||२-९२-७८ (१५१०८)
द्रौपद्युवाच ||२-९२-७९क्ष् (१६७४)
यस्माच्चोरुं दर्शयसे यस्माच्चोरुं निरीक्षसे.
तस्मात्तव ह्यधर्मिष्ठ ऊरौ मृत्युर्भविष्यति ||२-९२-७९ (१५१०९)
यस्माच्चैवं क्लेशयति भ्राता ते मां दुरात्मवान्.
तस्मादुधिरमेवास्य पास्यते वै वृकोदरः ||२-९२-८० (१५११०)
इमं च पापिष्ठमतिं कर्णं समुतबान्धवम्.
सामात्यं सपरीवारं हनिष्यति धनञ्जयः ||२-९२-८१ (१५१११)
क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम्.
सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम् ||२-९२-८२ (१५११२)
वैशम्पायन उवाच ||२-९२-८३क्ष् (१६७५)
एवमुक्ते तु वचने द्रौपद्या धर्मशीलया.
ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापततम् ||२-९२-८३ (१५११३)
तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः.
अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै ||||२-९२-८४ (१५११४)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि द्विनवतितमोऽध्यायः ||९२ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-९२-१३ द्रौपदीपणनात् प्रागिति शेषः | अतो द्रौपदी न
दासभावमापन्नेति भावः ||
२-९२-१६ पश्यसितः पाशबद्धः ||
२-९२-३३ स्रोतोभ्यः रोमकूपेभ्यः ||
सभापर्व -अध्याय ०९३
||श्रीः ||
२. ९३. अध्यायः ९३
Mahabharata -Sabha Parva -Chapter Topics
कुप्यतोऽर्जुनस्य युधिष्ठिरेण परिसान्त्वनम् ||१. . धृतराष्ट्रेण
वरं वरयेति द्रौपदीम्प्रति चोदनम् ||२. . तत्प्रार्थनया
धृतराष्ट्रेण युधिष्ठिरादीनामदासत्ववरदानम् ||३. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
द्रौपद्या वचनं श्रुत्वा चुकोपाथ धनञ्जयः.
स तदा क्रोधताम्राक्ष इदं वचनमब्रवीत् ||२-९३-१ (१५११५)
अयं तु मां वारयते धर्मराजो युधिष्ठिरः.
इत्युक्त्वा क्रोधताम्राक्षो धनुरादाय वीर्यवान् ||२-९३-२ (१५११६)
सव्यसाची समुत्पत्य ताञ्छत्रून्समुदैक्षत.
उद्यतं फल्गुनं तत्र ददृशुः सर्वपार्थिवाः ||२-९३-३ (१५११७)
युगान्ते सर्वलोकांस्तु दहन्तमिव पावकम्.
वीक्षमाणं धनुष्पामिं हन्तुकामं मुहुर्मुहुः ||२-९३-४ (१५११८)
हन्तुकामं पशून्क्रुद्धं रुद्रं दक्षक्रतौ यथा.
तथाभूतं नरं दृष्ट्वा विषेदुस्तत्र मानवाः ||२-९३-५ (१५११९)
धनञ्जयस्यव वीर्यज्ञा निराशा जीविते तदा.
मृतभूता भवन्सर्वे नेत्रैरनिमिषैरिव ||२-९३-६ (१५१२०)
अर्जुनं धर्मपुत्रं च समुदैक्षन्त पार्थिवाः.
क्रुद्धं तदाऽर्जुनं दृष्ट्वा पृथिवी च चचाल ह ||२-९३-७ (१५१२१)
खेचराणि च भूतानि वित्रेसुर्वै भयार्दिताः.
नादित्यो विरराजाथ नापि वान्ति च मारुताः. २-९३-८ (१५१२२)
न चन्द्रो न च नक्षत्रं द्यौर्दिशोन न विभान्ति ह.
सर्वमाविद्धमभवज्जगत्स्थावरजङ्गमम् ||२-९३-९ (१५१२३)
उत्पतन्स वभौ पार्तो दिवाकर इवाम्बरे. २-९३-१० (१५१२४)
पार्थं दृष्ट्वा क्रुद्धं कालान्तकयमोपमम्.
भीमसेनो मुदा युक्तो युद्धायैव मनो दधे ||२-९३-११ (१५१२५)
पाञ्चाली च ददर्शाथ सुसङ्क्रुद्धं धनञ्जयम्.
हन्तुकामं रिपून्मर्वान्सुपर्णमिव पन्नगान् ||२-९३-१२ (१५१२६)
दुष्प्रेक्षः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन्.
तं दृष्ट्वा तेजसा युक्तं विव्यधुः पुरवासिनः ||२-९३-१३ (१५१२७)
उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनञ्जयम्.
जग्राह स तदा राजा पुरुहूतो यथा हरिम् ||२-९३-१४ (१५१२८)
उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः.
मा पार्थ साहसं कार्षीर्मा विनाशं गमेद्यशः ||२-९३-१५ (१५१२९)
अहमेतान्पापकृतो द्यूतज्ञान्दग्धुमुत्सहे.
कन्त्त्वसत्यगतिं दृष्ट्वा क्रोधो नाशमुपैति मे ||२-९३-१६ (१५१३०)
त्वमिमं जगतोऽर्थे वै कोपं संयच्छ पाण्डव ||२-९३-१७ (१५१३१)
वैशम्पायन उवाच ||२-९३-१८क्ष् (१६७६)
एवमुक्तस्तदा राज्ञा पाण्डवोऽथ धनञ्जयः.
क्रोधं संशमयन्पार्थो धार्तराष्ट्रं प्रति स्थितः ||२-९३-१८ (१५१३२)
तस्मिन्वीरे प्रशान्ते तु पाण्डवे फल्गुने पुनः.
सुसम्प्रहृष्टमभवज्जगत्स्थावरजङ्गमम् ||२-९३-१९ (१५१३३)
वारितं च तथा दृष्ट्वा भ्रात्रा पार्थं वृकोदरः.
बभूव विमना राजन्नभून्निश्शब्दमत्र वै ||२-९३-२० (१५१३४)
ततो राज्ञो धृतराष्ट्रस्य गेहे
गोमायुरुच्चैर्व्याहरदग्निहोत्रे.
तं रासभाः प्रत्यभाषन्त राज-
न्समन्ततः पक्षिणश्चैव रौद्राः ||२-९३-२१ (१५१३५)
तं वै शब्दं विदुरस्तत्त्ववेदी
शुश्राव घोरं सुबलात्मजा च.
भीष्मो द्रोणो गौतमश्चापि विद्वान्
स्वस्तिस्वस्तीत्यपि चैवाहुरुच्चैः ||२-९३-२२ (१५१३६)
ततो गान्धारी विदुरश्चापि विद्वां-
स्तमुत्पातं घोरमालक्ष्य राज्ञे.
निवेदयामासतुरार्तवत्तदा
ततो राजा वाक्यमिदं बभाषे ||२-९३-२३ (१५१३७)
धृतराष्ट्र उवाच ||२-९३-२४क्ष् (१६७७)
हतोऽसि दुर्योधन मन्दबुद्धे
यस्त्वं सभायां कुरुपुङ्गवानाम्.
स्त्रियं समाभाषसि दुर्विनीत
विशेषतो द्रौपदीं धर्मपत्नीम् ||२-९३-२४ (१५१३८)
वैशम्पायन उवाच ||२-९३-२५क्ष् (१६७८)
एवमुक्त्वा धृतराष्ट्रो मनीषी
हितान्वेषी बान्धवानामपायात्.
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं २-९३-२५ (१५१३९)
विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ||२-९३-२६ (१५१४०)
धृतराष्ट उवाच ||
वरं वृणीष्व पाञ्चालि मत्तो यदभिवाञ्छसि. २-९३-२६क्ष् (१६७९)
वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ||२-९३-२७ (१५१४१)
द्रौपद्युवाच ||२-९३-२७क्ष् (१६८०)
ददासि चेद्वरं मह्यंवृणोमि भरतर्षभ.
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ||२-९३-२७ (१५१४२)
मनस्विनमजानन्तो मैवं ब्रूयुः कुमारकाः.
एतं वै दासपुत्रेति प्रतिविन्ध्यं ममात्मजम् ||२-९३-२८ (१५१४३)
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित्.
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ||२-९३-२९ (१५१४४)
धृतराष्ट्र उवाच ||२-९३-३०क्ष् (१६८१)
एवं भवतु कल्याणि यथा त्वमभिभाषसे.
द्वितीयं ते वरं भद्रे ददानि वरयस्व ह.
मनो हि मे वितरति नैकं त्वं वरमर्हसि ||२-९३-३० (१५१४५)
द्रौपद्युवाच ||२-९३-३१क्ष् (१६८२)
सरथौ सघनुष्कौ न भीमसेनधनञ्जयौ.
यमौ च वरये राजन्नदासान्स्ववशानहम् ||२-९३-३१ (१५१४६)
धृतराष्ट्र उवाच ||२-९३-३२क्ष् (१६८३)
तथाऽस्तु ते महाभागे यथा त्वं नन्दिनीच्छसि.
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसंस्कृता. २-९३-३२ (१५१४७)
त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ||२-९३-३३ (१५१४८)
द्रौपद्युवाच. २-९३-३३क्ष् (१६८४)
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे.
अनर्हा वरमादातुं तृतीयं राजसत्तम ||२-९३-३३ (१५१४९)
एकामाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रियो वरौ.
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ||२-९३-३४ (१५१५०)
पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम.
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ||||२-९३-३५ (१५१५१)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि त्रिनवतितमोऽध्यायः ||९३ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-९३-२१ अग्निहोत्रे गृह्याग्निसमीपे ||
सभापर्व -अध्याय ०९४
||श्रीः ||
२. ९४. अध्यायः ९४
Mahabharata -Sabha Parva -Chapter Topics
कर्णप्रलपितम् ||१. . क्रुद्धं भीमं निवार्य युधिष्ठिरस्य
धृतराष्ट्रसमीपगमनम् ||२. .
Mahabharata -Sabha Parva -Chapter Text
कर्ण उवाच ||
या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः.
तासामेतादृशं कर्म न कस्याश्चन शुश्रुम ||२-९४-१ (१५१५२)
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति.
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ||२-९४-२ (१५१५३)
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्.
पाञ्चाली पाण्डुपुत्राणां नौरेषां पारगाऽभवत् ||२-९४-३ (१५१५४)
वैशम्पायन उवाच ||२-९४-४क्ष् (१६८५)
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः.
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ||२-९४-४ (१५१५५)
भीम उवाच ||२-९४-५क्ष् (१६८६)
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्.
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ||२-९४-५ (१५१५६)
अमेध्ये वै गतप्रामे शून्ये ज्ञातिभिरुज्झिते.
देहे त्रितयमेवैतत्पुरुषस्योपयुज्यते ||२-९४-६ (१५१५७)
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात्.
धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम् ||२-९४-७ (१५१५८)
अर्जुन उवाच ||२-९४-८क्ष् (१६८७)
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः.
भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ||२-९४-८ (१५१५९)
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि.
सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम् ||२-९४-९ (१५१६०)
भीम उवाच ||२-९४-१०क्ष् (१६८८)
इहैवैतानहं सर्वान्हन्मि शत्रून्समागतान्.
अथ निष्क्रम्य राजेन्द्र समूलान्हन्मि भारत ||२-९४-१० (१५१६१)
किं नो विवदितेनेह किमुक्तेन च भारत.
अद्यैवैतान्निहन्मीह प्रशाधि पृथिवीमिमाम् ||२-९४-११ (१५१६२)
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिः सह.
मृगमध्ये यथा सिंहो मुहुर्मुहुरुदैक्षत ||२-९४-१२ (१५१६३)
सान्त्व्यमानो वीक्षमाणः पार्थेनाक्लिष्टकर्मणा.
खिद्यत्येव महाबाहुरन्तर्दाहेन वीर्यवान् ||२-९४-१३ (१५१६४)
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप.
सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ||२-९४-१४ (१५१६५)
भ्रुकुटीकृतदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम्.
युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः ||२-९४-१५ (१५१६६)
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्.
मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत ||२-९४-१६ (१५१६७)
निवार्य च महाबाहुं कोपसंरक्तलोचनम्.
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ||||२-९४-१७ (१५१६८)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुर्नवतितमोऽध्यायः
||९४ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-९४-१६ जोषं तूष्णीम् ||
सभापर्व -अध्याय ०९५
||श्रीः ||
२. ९५. अध्यायः ९५
Mahabharata -Sabha Parva -Chapter Topics
धृतराष्ट्रानुज्ञया सभ्रातृकस्य युधिष्ठिरस्य इन्द्रप्रस्थगमनम्
||१. .
Mahabharata -Sabha Parva -Chapter Text
युधिष्ठर उवाच ||
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः.
नित्यं हि स्थातुमिच्छामस्तव भारत शासने ||२-९५-१ (१५१६९)
धृतराष्ट्र उवाच ||२-९५-२क्ष् (१६८९)
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत.
अनुज्ञाताः सहधनाः स्वराज्यमनुशासत ||२-९५-२ (१५१७०)
इदं चैवावबोद्धव्यं वृद्धस्य मम शासनम्.
मया निगदितं सर्वं पथ्यं निःश्रेयसं परम् ||२-९५-३ (१५१७१)
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर.
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता ||२-९५-४ (१५१७२)
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत.
नादारुणि पतेच्छस्त्रं दारुण्येतन्निपात्यते ||२-९५-५ (१५१७३)
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान्.
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ||२-९५-६ (१५१७४)
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि.
सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाम् ||२-९५-७ (१५१७५)
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः.
प्रत्याहुर्मध्यमास्त्वेतेऽनुक्ताः नराधमाः. २-९५-८ (१५१७६)
न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः.
प्रतिजल्पन्ति वै धीराः सदा तूत्तमपुरुषाः ||२-९५-९ (१५१७७)
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि.
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ||२-९५-१० (१५१७८)
असम्भिन्नार्यमर्यादाः साधवः प्रियदर्शनाः.
तथा चरित्तंमार्येण त्वयाऽस्मिन्सत्समागमे ||२-९५-११ (१५१७९)
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः.
मातरं चैव गान्धारीं मां च त्वं गुणकाङ्क्षया ||२-९५-१२ (१५१८०)
उपस्थितं वृद्धमन्धं पितरं पश्य भारत.
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् ||२-९५-१३ (१५१८१)
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्.
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता ||२-९५-१४ (१५१८२)
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः.
त्वयि धर्मोऽर्जुने धैर्यं भीमसेने पराक्रमः ||२-९५-१५ (१५१८३)
शुद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः.
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश.
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयताम मनः ||२-९५-१६
(१५१८४)
वैशम्पायन उवाच ||२-९५-१७क्ष् (१६९०)
इत्युक्तो भरतश्रेष्ठ धर्मराजो युधिष्ठिरः.
कृत्वाऽऽर्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह ||२-९५-१७ (१५१८५)
ते रथान्मेघसङ्काशानास्थाय सह कृष्णया.
प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् ||||२-९५-१८ (१५१८६)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि
पञ्चनवतितमोऽध्यायः ||९५ ||
सभापर्व -अध्याय ०९६
||श्रीः ||
२. ९६. अध्यायः ९६
Mahabharata -Sabha Parva -Chapter Topics
दुर्योधनेन धृतराष्ट्रसमीपे कार्तवीर्यार्जुनोपाख्यानकथनम् ||१. .
Mahabharata -Sabha Parva -Chapter Text
जनमेजय उवाच ||
अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्जयान्.
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ||२-९६-१ (१५१८७)
वैशम्पायन उवाच ||२-९६-२क्ष् (१६९१)
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता.
राजन्दुः शासनः क्षिप्रं जगाम भ्रातरं प्रति ||२-९६-२ (१५१८८)
दुर्योधनं समासाद्य सामात्यं भरतर्षभ.
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ||२-९६-३ (१५१८९)
दुःशासन उवाच ||२-९६-४क्ष् (१६९२)
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ.
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ||२-९६-४ (१५१९०)
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः.
मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः ||२-९६-५ (१५१९१)
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम्.
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ||२-९६-६ (१५१९२)
दुर्योधन उवाच ||२-९६-७क्ष् (१६९३)
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः.
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ||२-९६-७ (१५१९३)
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन.
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ||२-९६-८ (१५१९४)
ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान्.
यदि तान्योधयिष्यामः किं वै निः परिहास्यति ||२-९६-९ (१५१९५)
अहीनाशीविषान्क्रुद्धान्नाशाय समुपस्थितान्.
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ||२-९६-१० (१५१९६)
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः.
निःशेषान्नः करिष्यन्ति क्रुद्धा ह्याशीविषा इव ||२-९६-११ (१५१९७)
सन्नद्धो ह्यर्जुनो याति विधृत्य परमेषुधी.
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ||२-९६-१२ (१५१९८)
गदां गुर्वी समुद्यम्य त्वरितश्च वृकोदरः.
स्वरथं योजयित्वाऽशु निर्यात इति नः श्रुतम् ||२-९६-१३ (१५१९९)
नकुलः खह्गमादाय चर्म चाप्यर्धचन्द्रवत्.
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ||२-९६-१४ (१५२००)
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान्.
अभिघ्नान्तो रथव्रातान्सेनायोगाय निर्ययुः ||२-९६-१५ (१५२०१)
न क्षंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते.
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ||२-९६-१६ (१५२०२)
' न पश्यामि रणे क्रद्धुं बीभत्सुं प्रतिवारणम्.
भीष्मो द्रोणश्च कर्णश्च द्रौणिश्च रथिनां वरः ||२-९६-१७ (१५२०३)
कृपश्च वृषसेनश्च विकर्णश्च जयद्रथः.
वाह्लीकः सोमदत्तश्च भूरिर्भूरिश्रवाः शलः ||२-९६-१८ (१५२०४)
शकुनिः ससुतश्चैव नृपाश्चान्ये च कौरवाः.
नैते सर्वे रणोद्युक्ताः पार्थं सोढुमशक्नुवन् ||२-९६-१९ (१५२०५)
अर्जुनेन समो लोके नास्ति वीर्ये धनुर्धरः.
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ||२-९६-२० (१५२०६)
धृतराष्ट्र उवाच ||२-९६-२१क्ष् (१६९४)
कस्त्वयोक्तः पुमान्वीरो बीभत्सुसमविक्रमः.
तं ये व्रूहि महावीर्यं श्रोतुमिच्छामि पुत्रक ||२-९६-२१ (१५२०७)
दुर्योधन उवाच ||२-९६-२२क्ष् (१६९५)
कार्तवीर्यस्य चरितं शृणु राजन्महात्मनः.
अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः ||२-९६-२२ (१५२०८)
ब्रह्मणोऽत्रिः सुतो विद्वानत्रेः पुत्रो निशाकरः.
सोमस्य तदु बुधः पुत्रो बुधस्य तु पुरूरवाः ||२-९६-२३ (१५२०९)
तस्याप्यध सुतोऽप्यायुरायोस्तु नहुषः सुतः. २-९६-२४ (१५२१०)
स चार्जुनोऽथ तेजस्वी तपः परमदुश्चरम्.
दत्तमाराधयामास सोऽर्जुनोऽत्रिसुतं मुनिम् ||२-९६-३० (१५२१६)
तस्य दत्तो वरान्प्रादाच्चतुरः पार्थिवस्य वै.
पूर्वं बाहुसहस्रं तु प्रार्थितः परमो वरः ||२-९६-३१ (१५२१७)
अधर्मे प्रीयमाणस्य सद्भिस्तत्र निवारणम्.
धर्मेण पृथिवीं जित्वा धर्मेणैव हि रञ्जनम् ||२-९६-३२ (१५२१८)
सङ्ग्रामान्सुबहून्कृत्वा हत्वा चारीन्सहस्रशः.
सङ्ग्रामे यतमानस्य वधश्चैवाधिकाद्रणै ||२-९६-३३ (१५२१९)
तस्य बाहुसहस्रं तु युध्यतः किल भारत.
रथो ध्वजश्च सञ्जज्ञ इत्येवं मे श्रुतं परा ||२-९६-३४ (१५२२०)
तथेयं पृथिवी राजन्त्सप्तद्वीपा सपत्तना.
ससमुद्राकरा तात विधिनोग्रेण वै जिता ||२-९६-३५ (१५२२१)
चार्जुनोऽथ तेजस्वी सप्तद्वीपेश्वरोऽभवत्.
च राजा महायज्ञानाजहार महाबलः.
प्रशशास महाबाहुर्महीं स च समा बहूः ||२-९६-३६ (१५२२२)
ततोऽर्जुनः कदाचिद्वै राजन्माहिष्मतीपतिः.
नर्मदां भरतश्रेष्ठं तां तु दारैर्ययौ सह ||२-९६-३७ (१५२२३)
ततस्तां स नदीं गत्वा प्रविश्यन्तर्जले तदा.
कर्तुं राजञ्जलक्रीडां ततो राजोपचक्रमे ||२-९६-३८ (१५२२४)
तस्मिन्नेव ततः काले रावमो राक्षसैः सह.
लङ्काया ईश्वरस्तात तं देशं प्रययौ बली ||२-९६-३९ (१५२२५)
ततस्तमर्जुनं दृष्ट्वा नर्मदायां दशाननः.
नित्यं क्रोधपरो धीरो वरदानेन मोहितः ||२-९६-४० (१५२२६)
अभ्यघावत्सुसङ्क्रुद्धो महेन्द्रं शम्बरो यथा.
अर्जुनोऽप्यथ तं दृष्ट्वा रावणं प्रत्यवारयत् ||२-९६-४१ (१५२२७)
ततस्तौ चक्रतुर्युद्धं रावणश्चार्जुनश्च वै.
ततस्तु दुर्जयं वीरं वरदानेन दर्पितम् ||२-९६-४२ (१५२२८)
राक्षसेन्द्रं मनुष्येन्द्रो जित्वा बध्वा रणे बलात्.
बध्वा धनुर्ज्यया राजन्विवेशाथ पुरीं स्वकाम् ||२-९६-४३ (१५२२९)
स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा.
मोक्षयाणास बन्धाद्वै पुरे दृष्ट्वाऽर्जुनं तदा ||२-९६-४४ (१५२३०)
ततः कदाचित्तेजस्वी कार्तवीर्योर्जुनो बली.
समुद्रतीरं गत्वाथ विरचन्दर्पमोहितः ||२-९६-४५ (१५२३१)
अवाकिरच्छितशरैः समुद्रं स तु भारत.
तं समुद्रो नमस्कृत्य कृताञ्जलिरभाषत ||२-९६-४६ (१५२३२)
आशुगान्वीर मा मुञ्च ब्रूहि किं करवाणि ते.
मदाश्रयाणि सत्वानि त्वद्विसृष्टैर्महेषुभिः.
बाध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ||२-९६-४७ (१५२३३)
अर्जुन उवाच ||२-९६-४८क्ष् (१६९६)
देहि सिन्धुपते युद्धमद्यैव त्वरया मम.
अथवा पीडयामि त्वां तस्मात्त्वं कुरु माचिरम् ||२-९६-४८ (१५२३४)
समुद्र उवाच ||२-९६-४९क्ष् (१६९७)
लोके राजन्महावीर्या बहवो निवसन्ति ये.
तेषामेकेन राजेन्द्र कुरु युद्धं महाबल ||२-९६-४९ (१५२३५)
अर्जुन उवाच ||२-९६-५०क्ष् (१६९८)
मत्समो यदि सङ्ग्रामे वरायुधधरः क्वचित्.
विद्यते तं ममाचक्ष्व यः समासेत मा मृधे ||२-९६-५० (१५२३६)
समुद्र उवाच ||२-९६-५१क्ष् (१६९९)
महर्षिर्जमदग्निस्तु यदि राजन्परिश्रुतः.
तस्य पुत्रो रणं दातुं यथावद्वै तवार्हति ||२-९६-५१ (१५२३७)
दुर्योधन उवाच ||२-९६-५२क्ष् (१७००)
समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः.
नारदस्य च वै पूर्वं क्रोधेन महता वृतः ||२-९६-५२ (१५२३८)
ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत.
स तमाश्रममागत्य काममेवान्वपद्यत ||२-९६-५३ (१५२३९)
स कामं प्रतिकूलानि चकार सह बन्धुभिः.
आयासं जनयामास रामस्य स महात्मनः ||२-९६-५४ (१५२४०)
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः.
प्रदहन्निव सैन्यानि रश्मिमानिव तेजसा ||२-९६-५५ (१५२४१)
अथ तौ चक्रतुर्युद्धं वृत्रवासवयोरिव ||२-९६-५६ (१५२४२)
ततः परशुमादाय नृपं बाहुसहस्रिणम्.
चिच्छेद सहसा रामो बहुशाखमिव द्रुमम् ||२-९६-५७ (१५२४३)
तं हतं पतितं दृष्ट्वा समेतास्तस्य बान्धवाः.
असीनादाय शक्तीश्च रामं ते प्रत्यवारयन् ||२-९६-५८ (१५२४४)
रामोऽपि रथमास्थाय धनुरायम्य सत्वरः.
विसृजन्परमास्त्राणि व्यधमत्पार्थिवान्बली ||२-९६-५९ (१५२४५)
ततस्तु क्षत्रिया राजञ्जामदग्न्यभयार्दिताः.
विविशुर्गिरिदुर्गाणि मृगाः सिंहभयादिव ||२-९६-६० (१५२४६)
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठति.
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ||२-९६-६१ (१५२४७)
तथा च द्रविडाः काचाः पुण्डाश्च शबरैः सह.
वृषलत्वं परिगता विच्छिन्नाः क्षत्रधर्मिणः ||२-९६-६२ (१५२४८)
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः.
द्विजैरभ्युदितं क्षत्रं तानि रामो निहत्य च ||२-९६-६३ (१५२४९)
ततस्त्रिस्मप्तमे याते रामं वागशरीरिणी.
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ||२-९६-६४ (१५२५०)
रामराम निवर्तस्व स्वगुणं नात्र पश्यसि.
क्षत्रबन्धूनिमान्प्रामैर्विप्रयुज्य पुनः पुनः ||२-९६-६५ (१५२५१)
तथैव तं महात्मानमृचीकप्रमुखास्तथा.
रामराम महावीर्य निवर्तस्वेत्यथाब्रुवन् ||२-९६-६६ (१५२५२)
पितुर्वधमसमृष्यंस्तु रामः प्रोवाच तानृषीन्.
नार्हा हन्त भवन्तो मां निवारयितुमित्युत ||२-९६-६७ (१५२५३)
पितर ऊचुः. २-९६-६८क्ष् (१७०१)
नार्हसि क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर.
न हि युक्तं त्वया तात ब्राह्मणेनसता नृपान् ||२-९६-६८ (१५२५४)
दुर्योधन उवाच ||२-९६-६९क्ष् (१७०२)
पितॄणां वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः.
अश्वमेधसहस्राणि नरमेधशतानि च ||२-९६-६९ (१५२५५)
इष्ट्वा सागरपर्यन्तां काश्यपाय ददौ महीम्.
तेन रामेण सङ्ग्रामे तुल्यस्तात दयञ्जयः ||२-९६-७० (१५२५६)
कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः.
रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते ||||२-९६-७१ (१५२५७)
इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि
षण्णवतितमोऽध्यायः ||९६ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-९६-४ गमयत् अगमयत् ||
२-९६-९ परिहास्यति नङ्क्ष्यति ||
सभापर्व -अध्याय ०९७
||श्रीः ||
२. ९७. अध्यायः ९७
Mahabharata -Sabha Parva -Chapter Topics
दुर्योधनेन धृतराष्ट्रसमीपे अर्जुनप्रभाववर्णनम्
||१. . दुर्योधनदुर्बोधनेन धृतराष्ट्रस्य पुनर्द्यूताय
पाण्डवानयनाभ्यनुज्ञा ||२. .
Mahabharata -Sabha Parva -Chapter Text
दुर्योधन उवाच ||
शृणु राजन्पुराऽचिन्त्यानर्जुनस्य च साहसान्.
अर्जुनो धन्विनां श्रेष्ठो दुष्करं कृतवान्पुरा ||२-९७-१ (१५२५८)
द्रुपदस्य पुरे राजन्द्रौपद्याश्च स्वयंवर ||
आबालवृद्धसङ्क्षोभे सर्वक्षत्रसमागमे.
क्षिप्रकारी जले मत्स्यं दुर्निरीक्ष्यं ससर्ज ह ||२-९७-२ (१५२५९)
सर्वैर्नृपैरसाध्यं तत्कार्मुकप्रवरं च वै.
क्षणेन सज्यमकरोत्सर्वक्षत्रस्य पश्यतः ||२-९७-३ (१५२६०)
ततो यन्त्रमयं विध्वा विसारं फल्गुनो बली.
कृष्णया हेममाल्येन स्कन्धे स परिवेष्टितः ||२-९७-४ (१५२६१)
ततस्तया वृतं पार्थं दृष्ट्वा सर्वे नृपास्तदा.
रोषात्सर्वायुधान्गृह्य क्रुद्धा वीरा महौजसः.
वैकर्तनं पुरस्कृत्य सर्वे पार्थमुपाद्रवन् ||२-९७-५ (१५२६२)
स सर्वान्पार्थिवान्दृष्ट्वा क्रुद्धान्पार्थो महाबलः.
वारयित्वा शरैस्तीक्ष्णैरजयत्तत्र स स्वयम् ||२-९७-६ (१५२६३)
जित्वा तु तान्महीपालान्सर्वान्कर्णपुरोगमान्.
लेभे कृष्णां शुभां पार्थो युध्वा वीर्यबलात्तदा ||२-९७-७ (१५२६४)
सर्वक्षत्रसमूहेषु अम्बां भीष्मो यथा पुरा.
ततः कदाचिद्बीभत्सुस्तीर्ययात्रां ययौ स्वयम् ||२-९७-८ (१५२६५)
अथोलूपीं शुभां तात नागराजसतां तदा.
नागेष्वाप वराग्र्येषु प्रार्थितोऽथ यथा तथा ||२-९७-९ (१५२६६)
ततो गोदावरीं कृष्णां कावेरीं चावगाहत.
तत्र पाण्ड्यं समासाद्य तस्य कन्यामवाप सः ||२-९७-१० (१५२६७)
लब्ध्वा जिष्णुर्मुदं तत्र ततो याम्यां दिशं ययौ ||२-९७-११ (१५२६८)
स दक्षिणं समुद्रान्तं गत्वा चाप्सरसां च वै.
कुमारतीर्थमासाद्य मोक्षयामास चार्जुनः ||२-९७-१२ (१५२६९)
ग्राहरूपाश्च ताः पञ्च अतिशौर्येण वै बलात्.
कन्यातीर्थं समभ्येत्य ततो द्वारवतीं ययौ |||२-९७-१३ (१५२७०)
तत्र कृष्णनिदेशात्स सुभद्रां प्राप्य फल्गुनः.
तामारोप्य रथोपस्थे प्रययौ स्वपुरीं प्रति ||२-९७-१४ (१५२७१)
अथादाय गते पार्थे ते श्रुत्वा सर्वयादवाः.
तमभ्यधावन्त्सङ्क्रुद्धाः सिंहव्याघ्रगणा इव ||२-९७-१५ (१५२७२)
प्रद्युम्नः कृतवर्मा च गदः सारणसात्यकी.
आहुकश्चैव साम्बश्च चारुदेष्णो विदूरथः ||२-९७-१६ (१५२७३)
अन्ये च यादवाः सर्वे बलदेवपुरोगमाः.
एकमेव परे कृष्णं गजवाजिरथैर्युताः ||२-९७-१७ (१५२७४)
अथासाद्य वने यान्तं परिवार्य धनञ्जयम्.
चक्रुर्युद्धं सुसङ्क्रुद्धा बहुकोट्यश्च यादवाः ||२-९७-१८ (१५२७५)
एक एव तु पार्थस्तैर्युद्धं चक्रे सुदारुणम्.
तेन तेषां समं युद्धं मुहूर्तं प्रबभूव ह ||२-९७-१९ (१५२७६)
ततः पार्थो रणे सर्वान्वारयित्वा शितैः शरैः.
बलाद्विजित्य राजेन्द्र वीरस्तान्सर्वयादवान्.
तां सुभद्रामथादाय शक्रप्रस्थं विवेश ह ||२-९७-२० (१५२७७)
भूयः शृणु महाराज फल्गुनस्य च साहसम्.
ददौ स वह्नेर्बिभत्सुः प्रार्थितं खाण्डवं वनम् ||२-९७-२१ (१५२७८)
लब्धमात्रे तु तेनाथ भगवान्हव्यवाहनः.
भक्षितुं खाण्डवं राजंस्तत्रस्थानुपचक्रमे ||२-९७-२२ (१५२७९)
ततस्तं भक्षयन्तं वै सव्यसाची विभावसुम्.
रथा धन्वी शरान्गृह्य स कलापयुतः प्रभुः.
पालयामास राजेन्द्र स्ववीर्येण महाबलः ||२-९७-२३ (१५२८०)
ततः श्रुत्वा महेनद्रस्तु मेघांस्तान्सन्दिदेश ह.
तेनोक्ता मेघसङ्घास्ते ववर्षुरतिवृष्टिभिः ||२-९७-२४ (१५२८१)
ततो मेघगाणान्पार्थः शरव्रातैः समान्ततः.
खगमैर्वारयामास तदाश्चर्यमिवाभवत् ||२-९७-२५ (१५२८२)
वारितान्मेघसङ्घांश्च श्रुत्वा क्रुद्धः पुरन्दरः.
पाण्डरं गजमास्थाय सर्वदेवगणैर्वृतः.
ययौ पार्थेन संयोद्धुं रक्षार्थं खाण्डवस्य च ||२-९७-२६ (१५२८३)
रुद्राश्च मरुतश्चैव वसवश्चाश्विनौ तदा.
आदित्याश्चैव साध्याश्च निश्वेदेवाश्च भारत.
गन्धर्वाश्चैव सहिता अन्ये देवगणाश्च ये ||२-९७-२७ (१५२८४)
ते सर्वे शस्त्रसम्पन्ना दीप्यमानाः स्वतेजसा.
धनञ्जयं जिघांसन्तः प्रपेतुर्विबुधाधिपाः ||२-९७-२८ (१५२८५)
युगान्ते यानि दृश्यन्ते निमित्तानि महान्त्यपि.
सर्वाणि तत्र दृश्यन्ते निमित्तानि महीपते ||२-९७-२९ (१५२८६)
ततो देवगमाः सर्वे पार्थं समभिदुद्रुवुः.
असम्भ्रान्तस्तु तान्दृष्ट्वा स तां देवमयीं चमूम् ||२-९७-३० (१५२८७)
त्वरितः फल्गुनो गृह्य तीक्ष्णांस्तानाशुगांस्तदा.
इन्द्रं देवांश्च सम्प्रेक्ष्य तस्थौ काल इवात्यये ||२-९७-३१ (१५२८८)
ततो देवगणाः सर्वे बीभत्सुं सपुरन्दराः.
अवाकिरञ्छरव्रातैर्मानुषं तं महीपते ||२-९७-३२ (१५२८९)
ततः पार्थो महातेजा गाण्डिवं गृह्य सत्वरः.
वारयामास देवानां शरव्रातैः शरांस्तदा ||२-९७-३३ (१५२९०)
पुनः क्रुद्धाः सुराः सर्वे मर्त्यं तं सुभहाबलाः.
नानाशस्त्रैर्ववर्षुस्तं सव्यसाची महीपते ||२-९७-३४ (१५२९१)
तान्पार्थः शस्त्रवर्षान्वै विसृष्टान्विबुधैस्तदा.
द्विधा त्रिधा स चिच्छेद स एव निशितैः शरैः ||२-९७-३५ (१५२९२)
पुनश्च पार्थः सङ्क्रुद्धो मण्डलीकृतकार्मुकः.
देवसङ्घाञ्छरैस्तीक्ष्णैरर्पयन्वै समन्ततः ||२-९७-३६ (१५२९३)
ततो देवगणाः सर्वे युध्वा पार्थेन वै मुहुः.
रणे जेतुमशक्यं तं ज्ञात्वा ते भरतर्षभ ||२-९७-३७ (१५२९४)
शान्तास्ते विबुधाः सर्वे पार्थबाणाभिपीडिताः.
सद्विपं वासवं त्यक्त्वा दुद्रुवुः सर्वतो दिशम् ||२-९७-३८ (१५२९५)
प्राचीं रुद्राः सगन्धर्वा दक्षिणां मरुतो ययुः.
दिशं प्रतीचीं भीतास्ते वसवश्च तथाऽश्विनौ ||२-९७-३९ (१५२९६)
आदित्याश्चैव विश्वे च दुद्रुवुर्वा उदङ्मुखाः.
साध्याश्चोर्ध्वमुखा भीताश्चिन्तयन्तोऽस्य सायकान् ||२-९७-४० (१५२९७)
एवं सुरगणाः सर्वे प्राद्रवन्त्सर्वतो दिशम्.
मुहुर्मुहुः प्रेक्षमाणाः पार्थमेव सकार्मुकम् ||२-९७-४१ (१५२९८)
विद्रुतान्देवसङ्घांस्तान्रणे दृष्ट्वा पुरन्दरः.
ततः क्रुद्धो महातेजाः पार्थं बाणैरवाकिरत् ||२-९७-४२ (१५२९९)
पार्थोऽपि शक्रं विव्याथ मानुषो विबुधाधिपम् ||२-९७-४३ (१५३००)
ततः सोऽश्ममयं वर्षं व्यसृजद्विबुधाधिपः.
तच्छरैरर्जुनो वर्षं प्रतिजाघ्नेऽत्यमर्षणः ||२-९७-४४ (१५३०१)
अथ संवर्धयामास तद्वर्षं देवराडपि.
भूय एव महावीर्यं जिज्ञासुः सव्यसाचिनः ||२-९७-४५ (१५३०२)
सोऽश्मवर्षं महावेगमिषुभिः पाण्डवोऽपि च.
विलयं गमयामास हर्षयन्पाकशासनम् ||२-९७-४६ (१५३०३)
उपादाय तु पाणिभ्यामङ्गदं नाम पर्वतम्.
सद्रुमं व्यसृजच्छक्रो जिघांसुः श्वेतवाहनम् ||२-९७-४७ (१५३०४)
ततोऽर्जुनो वेगवद्भिर्ज्वलमानैरजिह्यगैः.
बाणैर्विध्वंसयामास गिरिराजं सहस्रधा ||२-९७-४८ (१५३०५)
शक्रं च पातयामास शरैः पार्थो महान्युधि.
ततः शक्रो महाराज रणे वीरं धनञ्जयम् ||२-९७-४९ (१५३०६)
ज्ञात्वा जेतुमशक्यं तं तेजोबलसमन्वितम्.
परां प्रीति ययौ तत्र पुत्रशौर्येण वासवः ||२-९७-५० (१५३०७)
तदा तत्र न तस्यास्ति दिवि कश्चिन्महायशाः.
समर्थो निर्जये राजन्नपि साक्षात्प्रजापतिः ||२-९७-५१ (१५३०८)
ततः पार्थः शरैर्हत्वा यक्षराक्षसपन्नगान्.
दीप्ते चाग्नौ महातेजाः पातयामास सन्ततम् ||२-९७-५२ (१५३०९)
प्रतिषेधयितुं पार्थं न शेकुस्तत्र केचन.
दृष्ट्वा निवारितं शक्रं दिवि देवगणैः सह ||२-९७-५३ (१५३१०)
यथा सुपर्णः सोमार्थं विबुधानजयत्पुरा.
तथा जित्वा सुरान्पार्थस्तर्पयामास पावकम् ||२-९७-५४ (१५३११)
ततोऽर्जुनः स्ववीर्येण तर्पयित्वा विभावसुम्.
रथं ध्वजं च सहयं दिव्यानस्त्रांश्च पाण्डवः ||२-९७-५५ (१५३१२)
गाण्डीवं च धनुः श्रेष्ठं तूणी चाक्षयसायकौ.
एतान्यपि च बीभत्सुर्लेभे कीर्ति च भारत ||२-९७-५६ (१५३१३)
भूयोऽपि शृणु राजेन्द्र पार्थो गत्वोत्तरां दिशम्.
विजित्य नववर्षांश्च सपुरांश्च सपर्वतान् ||२-९७-५७ (१५३१४)
जम्बुद्वीपं वशे कृत्वा सर्वं तद्भरतर्षभ.
बलाज्जित्वा नृपान्सर्वान्करे चविनिवेश्य च ||२-९७-५८ (१५३१५)
रत्नान्यादाय सर्वाणि गत्वा चैव पुनः पुरीम्.
ततो ज्येष्ठं महात्मानं धर्मराजं युधिष्ठिरम्.
राजसूयं क्रतुश्रेष्ठं कारयामास भारत ||२-९७-५९ (१५३१६)
स तान्यन्यानि कर्माणि कृतवानर्जुनः पुरा.
अर्जुनेन समो वीर्ये त्रिषु लोकेषु न क्वचित् ||२-९७-६० (१५३१७)
देवदानवयक्षाश्च पिशाचोरगराक्षसाः.
भीष्मद्रोणादयः सर्वे कुरवश्च महारथाः ||२-९७-६१ (१५३१८)
लोके सर्वनृपाश्चैव वीराश्चान्ये धनुर्धराः.
एते पार्थं रणे युक्ताः प्रतियोद्धुं न शक्नुयुः ||२-९७-६२ (१५३१९)
अहं हि नित्यं कौरव्य फल्गुनं हृदि संस्थितम्.
अपश्यं चिन्तयित्वा तं समुद्विग्नोऽस्मि तद्भयात् ||२-९७-६३ (१५३२०)
गृहे गृहे च पश्यामि तात पार्थमहं सदा.
शरगाण्डीवसंयुक्तं पाशहस्तमिवान्तकम् ||२-९७-६४ (१५३२१)
अपि पार्थसहस्राणि भीतः पश्यामि भारत.
पार्थभूतमिदं सर्वं नगरं प्रतिभाति मे ||२-९७-६५ (१५३२२)
पार्थमेव हि पश्यामि रहिते तात भारत.
दृष्ट्वा स्वप्नगतं पार्थमुद्धमामि विचेतनः ||२-९७-६६ (१५३२३)
अकारादीनि नामानि अर्जुनग्रस्तचेतसः.
अश्वाक्षराम्बुजाश्चैव त्रासं सञ्जनयन्ति मे ||२-९७-६७ (१५३२४)
नास्ति पार्थादृते तात परवीराद्भयं मम.
प्रह्लादं वा बलिं वापि हन्याद्धि विजयो रणे ||२-९७-६८ (१५३२५)
तस्मात्तेन महाराज युद्धं नस्तात न क्षमम्.
अहं तस्य प्रभावज्ञो नित्यं दुःखं वहामि च ||२-९७-६९ (१५३२६)
पुरा हि दण्डकारण्ये मारीचस्य यथा भयम्.
भवेद्रामे महावीर्ये तथा पार्थे भयं मम ||२-९७-७० (१५३२७)
धृतराष्ट्र उवाच ||२-९७-७१क्ष् (१७०३)
जानाम्येव महद्वीयं जिष्णोरेतद्दुरासदम्.
एतद्वीरस्य पार्थस्य कार्षीस्त्वं तु विप्रियम् ||२-९७-७१ (१५३२८)
द्यूतं वा शस्त्रयुद्धं वा दुवाक्यं वा कथञ्चन.
एतेष्वेवं कृते तस्य विग्रहश्चैव वो भवेत् ||२-९७-७२ (१५३२९)
तस्मात्त्वं पुत्र पार्थेन नित्यं स्नेहेन वर्तय.
यश्च पार्थेन सम्बन्धो वर्तते चेन्नरो भुवि ||२-९७-७३ (१५३३०)
तस्य नास्ति भयं किञ्चित्रिषु लोकेषु भारत.
तस्मात्त्वं जिष्णुना वत्स नित्यं स्नेहेन वर्तय ||२-९७-७४ (१५३३१)
दुर्योधन उवाच ||२-९७-७५क्ष् (१७०४)
द्यूते पार्थस्य कौरव्य मायया निकृतिः कृता.
तस्माद्वि नो जयस्तात अन्योपायेन नो भवेत् ||२-९७-७५ (१५३३२)
धृतराष्ट्र उवाच ||२-९७-७६क्ष् (१७०५)
उपायश्च न कर्तव्यः पाण्डवान्प्रति भारत.
पार्थान्प्रति पुरा वत्स बहूपायाः कृतास्त्वया ||२-९७-७६ (१५३३३)
तानुपायान्हि कौन्तेया बहुशो व्यतिचक्रमुः.
तस्माद्वितं जीविताय नः कुलस्य जनस्य च ||२-९७-७७ (१५३३४)
त्वं चिकीर्षसि चेद्वत्स समित्रः सहबान्धवः.
सभ्रातृकस्त्वं पार्थेन नित्यं स्नेहेन वर्तय ||२-९७-७८ (१५३३५)
वैशम्पायन उवाच ||२-९७-७९क्ष् (१७०६)
धृतराष्ट्रवचः श्रुत्वा राजा दुर्योधनस्तदा.
चिन्तयित्वा मुहूर्तं तु विधिना चोदितोऽब्रवीत्' ||२-९७-७९ (१५३३६)
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः.
एवमेतान्वशे कर्तुं शक्ष्यामः पुरुषर्षभ ||ष २-९७-८० (१५३३७)
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः.
प्रविशेम महारण्यमजिनैः प्रतिवासिताः ||२-९७-८१ (१५३३८)
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम्.
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ||२-९७-८२ (१५३३९)
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम्.
अक्षानुप्त्वा पुनर्द्यूतमिदं कुर्वन्तु पाण्डवः ||२-९७-८३ (१५३४०)
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ.
अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम् ||२-९७-८४ (१५३४१)
दृढमूलं वयं राज्ये मित्राणि परिगृह्य च.
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ||२-९७-८५ (१५३४२)
ते च त्रयोदशं वर्षं पारयिष्यन्ति चेद्व्रतम्.
जेष्यामस्तान्वयं राजत्रोचतां ते परन्तप ||२-९७-८६ (१५३४३)
धृतराष्ट्र उवाच ||२-९७-८७क्ष् (१७०७)
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि.
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवः ||२-९७-८७ (१५३४४)
वैशम्पायन उवाच ||२-९७-८८क्ष् (१७०८)
ततो द्रोणः सोमदत्तो बाह्लीकश्चैव गौतमः.
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ||२-९७-८८ (१५३४५)
भूरिश्रवाः शान्तनवो विकर्णश्च महारथः.
मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ||२-९७-८९ (१५३४६)
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम्.
अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ||२-९७-९० (१५३४७)
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम्.
पुत्रहार्दाद्धर्मयुक्ता गान्धारी शोककर्शिता ||२-९७-९१ (१५३४८)
जाते दुर्योधने क्षत्ता महामतिरभाषत.
नीयतां परलोकाय साध्वयं कुलपांसनः ||२-९७-९२ (१५३४९)
व्यनदज्जातमात्रो हि गोमायुरिव भारत.
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ||२-९७-९३ (१५३५०)
मा निमज्जीः स्वदोषेण महाप्सु त्वं हि भारत.
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो ||२-९७-९४ (१५३५१)
मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि.
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् ||२-९७-९५ (१५३५२)
शमे स्थितान्को नु पार्थान्कोपयेद्भरतर्षभ.
स्मरन्तं त्वामाजमीढं स्मारयिष्याम्यहं पुनः ||२-९७-९६ (१५३५३)
शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च.
न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन ||२-९७-९७ (१५३५४)
त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः.
तस्मादयं मद्वचनात्त्यज्यतां कुलपांसनः ||२-९७-९८ (१५३५५)
तथा ते न कृतं राजन्पुत्रस्नेहान्नराधिप.
तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय यत् ||२-९७-९९ (१५३५६)
शमेन धर्मेण नयेन युक्ता
या ते बुद्धिः साऽस्तु ते मा प्रमादीः.
प्रध्वंसिनी क्रूरसमाहिता श्री-
र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ||२-९७-१०० (१५३५७)
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम्.
अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम् ||२-९७-१०१ (१५३५८)
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः.
पुनर्द्यूतं च कुर्वन्तु मामकाः पाण्डवैः सह ||||२-९७-१०२ (१५३५९)
इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि
सप्तनवतितमोऽध्यायः ||९७. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-९७-९० अकामानां द्यूतमनिच्छतां सताम् ||
२-९७-९८ त्वन्नेत्रास्त्वमेव नेता येषां ते त्वन्नेत्राः | दीर्णास्त्वत्तो
भिन्नर्म यादाः ||
सभापर्व -अध्याय ०९८
||श्रीः ||
२. ९८. अध्यायः ९८
Mahabharata -Sabha Parva -Chapter Topics
निजनगरं गच्छतो युधिष्ठिरस्य मध्येमार्गं दूताह्वानेन
पुनर्निवृत्त्य द्यूत सभाप्रवेशः ||१. . अनुद्यूतेपि युधिष्ठिरस्य
शकुनिना पराजयः ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्.
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ||२-९८-१ (१५३६०)
उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर.
एहि पाण्डव दीव्येति पिता त्वाह नराधिपः ||२-९८-२ (१५३६१)
युधिष्ठिर उवाच ||२-९८-३क्ष् (१७०९)
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम्.
न निवृत्तिस्तयोरस्ति देवतव्यं पुनर्यदि ||२-९८-३ (१५३६२)
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च.
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ||२-९८-४ (१५३६३)
वैशम्पायन उवाच ||२-९८-५क्ष् (१७१०)
असम्भवो हेममयस्य जन्तो-
स्तथापि रामो लुलुभे मृगाय.
प्रायः समासन्नपराभवाणां
धियो विपर्यस्ततरा भवन्ति ||२-९८-५ (१५३६४)
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः.
जानांश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ||२-९८-६ (१५३६५)
विविशुस्ते सभां तां तु पुनरेव महारथाः.
व्यथयन्ति स्म चेतांसि मुहृदां भरतर्षभाः ||२-९८-७ (१५३६६)
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये.
सर्वलोकविनाशाय दैवेनोपनिपीडिताः ||२-९८-८ (१५३६७)
शकुनिरुवाच ||२-९८-९क्ष् (१७११)
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत्.
महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ ||२-९८-९ (१५३६८)
वयं वा द्वादशाब्दानि युष्माभिर्द्यूतनिर्जिताः.
प्रविशेम महारण्यं रौरवाजिनवाससः ||२-९८-१० (१५३६९)
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम्.
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ||२-९८-११ (१५३७०)
अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान्.
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ||२-९८-१२ (१५३७१)
त्रयोदशं च स्वजनैरज्ञाताः पिरवत्सरम्.
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ||२-९८-१३ (१५३७२)
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्.
स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः ||२-९८-१४ (१५३७३)
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर.
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ||२-९८-१५ (१५३७४)
अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा.
ऊचुरुद्विग्नमनसः संवेगात्सर्व एव हि ||२-९८-१६ (१५३७५)
सभ्या ऊचुः. २-९८-१७क्ष् (१७१२)
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम्.
बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ ||२-९८-१७ (१५३७६)
वैशम्पायन उवाच ||२-९८-१८क्ष् (१७१३)
जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः.
ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः ||२-९८-१८ (१५३७७)
जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत्.
अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन् ||२-९८-१९ (१५३७८)
युधिष्ठिर उवाच ||२-९८-२०क्ष् (१७१४)
कथं वै मद्विधो राजा स्वधर्ममनुपालयन्.
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ||२-९८-२० (१५३७९)
शकुनिरुवाच ||२-९८-२१क्ष् (१७१५)
गवाश्वं बहुधेनुकमपर्यन्तमजाविकम्.
गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः ||२-९८-२१ (१५३८०)
हित्वा नो ग्लह एवैको वनवासाय पाण्डवाः.
यूयं वयं वा विजिता वसेम वनमाश्रिताः ||२-९८-२२ (१५३८१)
त्रयोदशं च वै वर्णमज्ञाताः स्वजनैस्तथा.
अनेन व्यवसायेन दीव्याम पुरुषर्षभाः. २-९८-२३ (१५३८२)
समुत्क्षेपेण चैकेन वनवासाय भारत ||२-९८-२४ (१५३८३)
' वैशम्पायन उवाच ||२-९८-२४क्ष् (१७१६)
एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः.
भीष्मद्रोणाऽऽवार्यमाणो विदुरेण च धीमता ||२-९८-२४ (१५३८४)
युयुत्सुना कृपेणाथ सञ्जयेन च भारत.
गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा ||२-९८-२५ (१५३८५)
विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा.
सोमदत्तेन च तथा बाह्लीकेन च धीमता ||२-९८-२६ (१५३८६)
वार्यमाणोपि सततं न च राजन्नियच्छति.
एवं संवार्यमाणोपि कौन्तेयो हितकाम्यया ||२-९८-२७ (१५३८७)
देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत्.
अविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत ||२-९८-२८ (१५३८८)
एवं भवत्विति तदा वनवासाय दीव्यति' .
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः ||
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||||२-९८-२९ (१५३८९)
इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि
अष्टनवतितमोऽध्यायः ||९८ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-९८-१६ संवेगादतिशयात् ||
सभापर्व -अध्याय ०९९
||श्रीः ||
२. ९९. अध्यायः ९९
Mahabharata -Sabha Parva -Chapter Topics
वनाय प्रस्थितान्पाण्डवान्प्रति दुश्शासनकृतापहासः ||१. . पाण्डवानां
बहुप्रतिज्ञाकरणपूर्वकं धृतराष्ट्रसमीपगमनम् ||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ततः पराजिताः पार्था वनावासाय दीक्षिताः.
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ||२-९९-१ (१५३९०)
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान्.
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ||२-९९-२ (१५३९१)
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः.
पराजिताः पाण्डवेया विपत्तिं परमां गताः ||२-९९-३ (१५३९२)
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः.
गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद्वयं परैः ||२-९९-४ (१५३९३)
नरकं पातिताः पार्था दीर्घकालमनन्तकम्.
मुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ||२-९९-५ (१५३९४)
धनेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः.
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवः ||२-९९-६ (१५३९५)
चित्रान्सन्नाहानवमुञ्चन्तु चैषां
वासांसि दिव्यानि च भानुमन्ति ||
विवास्यन्तां रुरुचर्माणि सर्वे
यथा ग्लहं सौबलस्याभ्युपेताः ||२-९९-७ (१५३९६)
न सन्ति लोकेषु पुमांस ईदृशा
इत्येव ये भावितबुद्धयः सदा.
ज्ञास्यन्ति तेत्मानमिमेऽद्य पाण्डवा
विपर्यये पाण्ढतिला इवाफलाः ||२-९९-८ (१५३९७)
इदं हि वासो यदि वेदृशानां
मनस्विनां रौरवमाहवेषु ||
आदीक्षितानामजिनानि यद्व-
द्वलीयसां पश्यत पाण्डवानाम् ||२-९९-९ (१५३९८)
महाप्राज्ञः सौमकिर्यज्ञसेनः
कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय.
अकार्षिद्वै सुकृतं नेह किञ्चित्
क्लीबाः पार्थाः पतयो याज्ञसेन्याः ||२-९९-१० (१५३९९)
सूक्ष्मप्रावारानजिनोत्तरीयान्
दृष्ट्वाऽरण्ये निर्धनानप्रतिष्ठान्.
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि
पतिं वृणीष्वेह यमन्यमिच्छसि ||२-९९-११ (१५४००)
एते हि सर्वे कुरवः समेताः
क्षान्ता दान्ताः सुद्रविणोपपन्नाः.
एषां वृणीष्वैकतमं पतित्वे
न त्वां नयेत्कालविपर्ययोऽयम् ||२-९९-१२ (१५४०१)
यथाऽफलाः षण्ढतिला यथा चर्ममया मृगाः.
तथैव पाण्डवाः सर्वे यथा काकयवा अपि ||२-९९-१३ (१५४०२)
किं पाण्डवांस्ते पतितानुपास्य
मोघः श्रमः षण्ढतिलानुपास्य.
एवं नृशंसः परुषाणि पार्था-
नश्रावयद्धृतराष्ट्रस्य पुत्रः ||२-९९-१४ (१५४०३)
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी
निर्भर्त्स्योच्चैः सन्निगृह्यैव रोषात्.
उवाच चैनं सहसैवोपगम्य
सिंहो यथा हैमवतः शृगालम् ||२-९९-१५ (१५४०४)
भीमसेन उवाच ||२-९९-१६क्ष् (१७१७)
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे.
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ||२-९९-१६ (१५४०५)
यथा तुदसि मर्माणि वाक्छरैरिह नो भृशम्.
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ||२-९९-१७ (१५४०६)
ये च त्वामनुवर्तन्ते क्रोधलोभवशानुगाः.
गोप्तारः सानुबन्धांस्तान्नेताऽस्मि यमसादनम् ||२-९९-१८ (१५४०७)
वैशम्पायन उवाच ||२-९९-१९क्ष् (१७१८)
एवं ब्रुवाणमजिनैर्विवासितं
दुःशासनस्तं परिनृत्यति स्म.
मध्ये कुरूणां धर्मनिबद्धमार्गं
गौर्गौरिति स्माह्वयन्मुक्तलज्जः ||२-९९-१९ (१५४०८)
भीमसेन उवाच ||२-९९-२०क्ष् (१७१९)
नृशंस परुषं वक्तुं दुःशासन त्वया.
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ||२-९९-२० (१५४०९)
मैव स्म सुकृतां लोकान्गच्छेत्पार्थो वृकोदरः.
यदि वक्षो हि ते भित्त्वा न पिबेच्छोणितं रणे ||२-९९-२१ (१५४१०)
धार्तराष्ट्रान्रणे हत्त्वा मिषतां सर्वधन्विनाम्.
शमं गन्ताऽस्मि नचिरात्सत्यमेतद्ब्रवीमि ते ||२-९९-२२ (१५४११)
वैशम्पायन उवाच ||२-९९-२३क्ष् (१७२०)
तस्य राजा सिंहगतेः सखेलं
दुर्योधनो भीमसेनस्य हर्षात्.
गतिं स्वगत्याऽनुचकार मन्दो
निर्गच्छतां पाण्डवानां सभायाः ||२-९९-२३ (१५४१२)
नैतावता कृतमित्यब्रवीत्तं
वृकोदरः सन्निवृत्तार्धकायः.
शीघ्रं हि त्वां निहतं सानुबन्धं
संस्मार्याहं प्रतिवक्ष्यामि मूढ ||२-९९-२४ (१५४१३)
एवं समीक्ष्यात्मनि चावमानं
नियम्य मन्युं बलवान्स मानी.
राजानुगः संसदि कौरवाणां
विनिष्कामन्वाक्यमुवाच भीमः ||२-९९-२५ (१५४१४)
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः.
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ||२-९९-२६ (१५४१५)
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः.
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ||२-९९-२७ (१५४१६)
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि.
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ||२-९९-२८ (१५४१७)
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः.
दुःशासनस्य रुधिरं पाताऽस्मि मृगराडिव ||२-९९-२९ (१५४१८)
अर्जुन उवाच ||२-९९-३०क्ष् (१७२१)
' भीमसेन न ते सन्ति येषां वैरं त्वया त्विह.
मत्ता मृगेषु सुखिनो न बुद्ध्यन्ते महद्भयम्' ||२-९९-३० (१५४१९)
नैवं वाचा व्यवसितं भीम विज्ञायते सताम्.
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ||२-९९-३१ (१५४२०)
भीमसेन उवाच ||२-९९-३२क्ष् (१७२२)
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः.
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ||२-९९-३२ (१५४२१)
अर्जुन उवाच ||२-९९-३३क्ष् (१७२३)
असूयितारं द्रष्टारं प्रवक्तारं विकत्थनम्.
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ||२-९९-३३ (१५४२२)
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया.
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः ||२-९९-३४ (१५४२३)
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः.
तांश्च सर्वानहं बाणैर्नेताऽस्मि यमसादनम् ||२-९९-३५ (१५४२४)
चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः.
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ||२-९९-३६ (१५४२५)
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे.
दुर्योधनोऽभिसत्कृत्य सत्यमेतद्भविष्यति ||२-९९-३७ (१५४२६)
वैशम्पायन उवाच ||२-९९-३८क्ष् (१७२४)
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः.
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ||२-९९-३८ (१५४२७)
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्.
क्रोधसंरक्तनयनो निः श्वसन्निव पन्नगः ||२-९९-३९ (१५४२८)
सहदेव उवाच ||२-९९-४०क्ष् (१७२५)
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर.
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ||२-९९-४० (१५४२९)
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्.
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ||२-९९-४१ (१५४३०)
हन्ताऽस्मि तरसा युद्धे त्वामेवहे सबान्धवम्.
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ||२-९९-४२ (१५४३१)
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते.
दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ||२-९९-४३ (१५४३२)
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः.
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ||२-९९-४४ (१५४३३)
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालनोदितान्.
गमयिष्यामि भूयिष्ठानहं वैवस्वतक्षयम् ||२-९९-४५ (१५४३४)
' उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम्.
क्रूरं हन्ताऽस्मि समरे तं वै क्रूरं नराधमम्' ||२-९९-४६ (१५४३५)
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्.
निर्धार्तराष्ट्रां पृथिवीं कर्ताऽस्मि नचिरादिव ||२-९९-४७ (१५४३६)
वैशम्पायन उवाच ||२-९९-४८क्ष् (१७२६)
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः.
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ||||२-९९-४८ (१५४३७)
इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि
एकोनशततमोऽध्यायः ||९९ ||
Mahabharata -Sabha Parva -Chapter Footnotes
२-९९-१३ काकयवा निस्तण्डुलं तृणधान्यम् ||
२-९९-१७ स्मरयिता स्मारयिष्यामि ||
सभापर्व -अध्याय १००
||श्रीः ||
२. १००. अध्यायः १००
Mahabharata -Sabha Parva -Chapter Topics
युधिष्ठिरेण वनगमनाय भीष्माद्यामन्त्रणम् ||१. . पाण्डवान्प्रति
विदुरवचनम् ||२. .
Mahabharata -Sabha Parva -Chapter Text
युधिष्ठिर उवाच ||
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् ||
राजानं सोमदत्तं च महाराजं च बाह्लिकम् ||२-१००-१ (१५४३८)
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च.
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः
||२-१००-३अ' सौमदत्तिं महावीर्यं विकर्णं च महामतिम्' .
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः ||२-१००-४अ' गान्धारीं
च महाभागां मातरं च तथा पृथाम्' .
सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः ||२-१००-२ (१५४३९)
वैशम्पायन उवाच ||२-१००-५क्ष् (१७२७)
न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ना युधिष्ठिरम्.
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ||२-१००-५ (१५४४०)
विदुर उवाच ||२-१००-६क्ष् (१७२८)
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति.
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ||२-१००-६ (१५४४१)
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि.
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः ||२-१००-७ (१५४४२)
पाण्डवा ऊचुः. २-१००-८क्ष् (१७२९)
तथेत्युक्त्वाऽब्रुवन्सर्वे यथा नो वदसेऽनघ.
त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः ||२-१००-८ (१५४४३)
यथाऽऽज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः.
यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते ||२-१००-९ (१५४४४)
विदुर उवाच ||२-१००-१०क्ष् (१७३०)
युधिष्ठिर विजानीहि ममेदं भरतर्षभ.
नाधर्मेण जितः कश्चिद्व्यथते वै पराजये ||२-१००-१० (१५४४५)
त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः.
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही ||२-१००-११ (१५४४६)
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः.
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी ||२-१००-१२ (१५४४७)
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः.
परैरभेद्याः सन्तुष्टाः को वोन न स्पृहयेदिह ||२-१००-१३ (१५४४८)
एष वै सर्वकल्याणः समाधिस्तव भारत.
नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत ||२-१००-१४ (१५४४९)
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा.
द्वैपायनेन कृष्णेन नगरे वारणावते ||२-१००-१५ (१५४५०)
भृगुतुङ्गे च रामेण दृष्टद्वत्यां च शम्भुना.
अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति ||२-१००-१६ (१५४५१)
कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः.
द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः ||२-१००-१७ (१५४५२)
माहासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम्.
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव ||२-१००-१८ (१५४५३)
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्गोपसेवया.
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे ||२-१००-१९ (१५४५४)
तथा विसर्गे कौबेरे वारुणे कोपविधारणे ||
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् ||२-१००-२० (१५४५५)
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात्.
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम् ||२-१००-२१ (१५४५६)
अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान्.
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः ||२-१००-२२ (१५४५७)
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर.
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत ||२-१००-२३ (१५४५८)
कृतार्थं स्वस्मिमन्तं त्वां द्रक्ष्यामः पुनरागतम्.
न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुराकृतम् ||२-१००-२४ (१५४५९)
वैशम्पायन उवाच ||२-१००-२५क्ष् (१७३१)
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः.
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः ||||२-१००-२५ (१५४६०)
इति श्रीमन्महाभारते सभापर्वणि अनुद्यातपर्वणि शततमोऽध्यायः
||१००. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१००-१४ समाधिर्मनः स्वास्थ्यकरो नियमः ||
२-१००-१९ विधारणे नियमने ||
२-१००-२० विसर्गे दाने | संयमे वशीकरणे | उपजीवनं जीवनहेतुत्वम् ||
सभापर्व -अध्याय १०१
||श्रीः ||
२. १०१. अध्यायः १०१
Mahabharata -Sabha Parva -Chapter Topics
पाण्डवानां वनप्रस्थानेन खिद्यतां पौराणां वचनानि ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
ततः सम्प्रस्थिते तत्र धर्मराजे तदा नृप.
जनाः समन्ताद्द्रष्टुं तं समारुरुहुरातुराः ||२-१०१-१ (१५४६१)
ततः प्रासादवर्याणि विमानशिखराणि च.
गोपुराणि च सर्वाणि वृक्षानन्यांश्च सर्वशः ||२-१०१-२ (१५४६२)
अथाधिरुह्य सस्त्रीका उदासीना व्यलोकयन्.
न हि रथ्यास्तदा शक्या गन्तुं ताश्च जनाकुलाः ||२-१०१-३ (१५४६३)
आरुह्य स्मानतास्तत्र दीनाः पश्यन्ति पाण्डवान्.
पदातिं वर्जितच्छत्रं चेलभूषणवर्जितम् ||२-१०१-४ (१५४६४)
वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास्तदा.
ऊचुर्बहुविधा वाचो भृशोपहतचेतसः ||२-१०१-५ (१५४६५)
जना ऊचुः. २-१०१-६क्ष् (१७३२)
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्.
तमेकं कृष्णया सार्धमनुगच्छन्ति पाण्डवाः ||२-१०१-६ (१५४६६)
चत्वारो भ्रातरश्चैव धौम्यश्चैव पुरोहितः.
भीमार्जुनौ वारयित्वा निकृत्या बद्धकार्मुकौ ||२-१०१-७ (१५४६७)
धर्म एवास्थितो येन त्यक्त्वा राज्यं महात्मना.
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ||२-१०१-८ (१५४६८)
तामद्य कृष्णां पश्यन्ति राजमार्गगता जनाः.
अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीम् ||२-१०१-९ (१५४६९)
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्.
अद्य नूनं पृथा देवी सत्यमाविश्य भाषते ||२-१०१-१० (१५४७०)
पुत्रान्स्नुषां च देवी तु द्रष्टुमद्याथ नार्हति.
निर्गुणस्यापि पुत्रस्य कथं स्याहुः स्वदर्शनम् ||२-१०१-११ (१५४७१)
किम्पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्.
आनृशंस्यमनुक्रोशो धृतिः शीलं दमः शमः ||२-१०१-१२ (१५४७२)
पाण्डवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्.
तस्मादस्योपघातेन प्रजाः परमपीडिताः ||२-१०१-१३ (१५४७३)
औदकानीव सत्वानि ग्रीष्मे सलिलसङ्क्षयात्.
पीडया पीडितं सर्वं जगदस्य जगत्पतेः ||२-१०१-१४ (१५४७४)
मूलस्यैवोपघातेन वृक्षः पुष्पफलोपगः.
मूलं ह्येष मनुष्याणां धर्मराजो महाद्युतिः ||२-१०१-१५ (१५४७५)
पुष्पं फलं च पत्रं च शाखास्तस्येतरे जनाः.
ते भ्रातर इव क्षिप्रं सपुत्राः सहबान्धवाः ||२-१०१-१६ (१५४७६)
गच्छन्तमनुगच्छामो येन गच्छति पाण्डवः.
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ||२-१०१-१७ (१५४७७)
एकदुःखसुखाः पार्थमनुयाम सुधार्मिकम्.
समुच्छ्रितपताकानि परिध्वस्ताजिराणि च ||२-१०१-१८ (१५४७८)
उपात्तधनधान्यानि हृतसाराणि सर्वशः.
रजसाऽप्यवकीर्णानि परित्यक्तानि दैवतैः ||२-१०१-१९ (१५४७९)
मूषकैः परिधावद्भिरुद्बलैरावृतानि च.
अपेतोदकधूमानि हीनसंमार्जनानि च ||२-१०१-२० (१५४८०)
प्रनष्टबलिकर्मेज्यामन्त्रहोमजपानि च.
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ||२-१०१-२१ (१५४८१)
अस्मत्त्यक्तानि वेश्मानि सौबलः प्रतिपद्यताम्.
वनं नगरमेवास्तु येन गच्छन्ति पाण्डवाः ||२-१०१-२२ (१५४८२)
अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्.
बिलानि दंष्ट्रिणः सर्वे वानि मृगपक्षिणः ||२-१०१-२३ (१५४८३)
त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि.
अनाक्रान्तं प्रपद्यन्तः सेवमानं त्यजन्तु च ||२-१०१-२४ (१५४८४)
तृणमांसफलादानां देशांस्त्यक्त्वा मृगद्विजाः.
वयं पार्थैर्वने सम्यक्सह वत्स्याम निर्वृताः ||२-१०१-२५ (१५४८५)
इत्येवं विविधा वाचो नानाजनसमीरिताः.
शुश्राव पार्थः श्रुत्वा च न विचक्रेऽस्य मानसम् ||२-१०१-२६ (१५४८६)
ततः प्रासादसंस्थास्तु समन्ताद्वै गृहे गृहे.
ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषितः ||२-१०१-२७ (१५४८७)
गत्वा स्वगृहजालानि उत्पाट्यावरणानि च.
ददृशुः पाण्डवान्दीनान्वल्कलाजिनवाससः ||२-१०१-२८ (१५४८८)
कृष्णां त्वदृष्टपूर्वां तां व्रजन्तीं पद्भिरेव च.
एकवस्त्रां रुदन्तीं तां मुक्तकेशीं रजस्वलाम् ||२-१०१-२९ (१५४८९)
दृष्ट्वा तदा स्त्रियः सर्वा विवर्णवदना भृशम्.
विलप्य बहुधा मोहाद्दुःखशोकेन पीडिताः.
हाहा धिग्धिग्धिगित्युक्त्वा नेत्रैरश्रूण्यवर्तयन् ||२-१०१-३० (१५४९०)
जनस्याथ वजः श्रुत्वा स राजा भ्रातृभिः सह.
उद्दिश्य वनावासाय प्रतस्थे कृतनिश्चयः ||२-१०१-३१ (१५४९१)
वैशम्पायन उवाच ||२-१०१-३२क्ष् (१७३३)
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम्.
अपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः ||२-१०१-३२ (१५४९२)
ततो निनादः सुमहान्पाण्डवान्तः पुरेऽभवत् ||२-१०१-३३ (१५४९३)
कुन्ती च भृशशन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम्.
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ||२-१०१-३४ (१५४९४)
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत्.
स्त्रीधर्माणामभिज्ञाऽसि शीलाचारवती तथा ||२-१०१-३५ (१५४९५)
न त्वां शन्देष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते.
साध्वी गुणसमापन्ना भूषितं ते कुलद्वयम् ||२-१०१-३६ (१५४९६)
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयाऽनघे.
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ||२-१०१-३७ (१५४९७)
भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते.
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवप्स्यसि ||२-१०१-३८ (१५४९८)
सहदेवश्च मे पुत्रः सदाऽवेक्ष्यो वने वसन्.
यथेदं व्यसनं प्राप्य नायं सीदेन्महामतिः ||२-१०१-३९ (१५४९९)
वैशम्पायन उवाच ||२-१०१-४०क्ष् (१७३४)
तथेन्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला.
शोणिताक्तैकवसना मुक्तकेशी विनिर्ययौ ||२-१०१-४० (१५५००)
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम्.
अथापश्यन्सुतान्सर्वान्हृताभरणवाससः ||२-१०१-४१ (१५५०१)
रुरुचर्मावृततनून्ह्रिया किञ्चिदवाह्मुखान्.
परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् ||२-१०१-४२ (१५५०२)
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला.
स्वजमानाऽवदच्छेकात्तत्तद्विलपती बहु ||२-१०१-४३ (१५५०३)
कुन्त्युवाच. २-१०१-४४क्ष् (१७३५)
कथं सद्धर्मचारित्रान्वृत्तस्थितिविभूषितान्.
अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ||२-१०१-४४ (१५५०४)
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः.
कस्यापध्यानजं चेदमागः पश्यामि वो धिया ||२-१०१-४५ (१५५०५)
स्यात्तु मद्भाग्यदोषोऽयं याऽहं युष्मानजीजनम्.
दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः ||२-१०१-४६ (१५५०६)
कथं वत्स्यथ दुर्गेषु वने ऋद्धिविनाकृताः.
वीर्यसत्वबलोत्साहतेजोभिरकृशाः कृशाः ||२-१०१-४७ (१५५०७)
यद्येवमहमज्ञास्यं वने वासं हि वो ध्रुवम्.
शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ||२-१०१-४८ (१५५०८)
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा.
यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम् ||२-१०१-४९ (१५५०९)
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम्.
मन्ये तु माद्रीं धर्मज्ञां कल्याणीं सर्वथैव तु ||२-१०१-५० (१५५१०)
रत्या मत्या च गत्या च ययाऽहमभिसन्धिता.
जीवितप्रियतां मह्यं धिङ्मां सङ्क्लेशभागिनीम् ||२-१०१-५१ (१५५११)
पुत्रका न विहास्ये वः कृच्छ्रलब्धान्प्रियान्सतः.
साऽहं यास्यामि हि वनं हा कृष्णे किं जहासि माम्. २-१०१-५२ (१५५१२)
अन्तवत्यसुधर्मेऽस्मिन्धात्रा किं नु प्रमादतः.
ममान्तो नैव विहितस्तेनायुर्न जहाति माम् ||२-१०१-५३ (१५५१३)
हा कृष्ण द्वारकावासिन्क्वासि सङ्कर्षणानुज.
कस्मान्न त्रायसे दुःखान्मां चेमांश्च नरोत्तमान् ||२-१०१-५४ (१५५१४)
अनादिनिधनं ये त्वामनुध्यायन्ति वै नराः.
तांस्त्वं पासीत्ययं वादः स गतो व्यर्थतां कथम् ||२-१०१-५५ (१५५१५)
इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः.
नार्हन्ति व्यसनं भोक्तुं नन्वेषां क्रियतां दया ||२-१०१-५६ (१५५१६)
सेयं नीत्यर्थविज्ञेषु कथमापदुपागता ||
स्थितेषु कुलनाथेषु कथमापदुपागता ||२-१०१-५७ (१५५१७)
हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे.
पुत्रान्विवास्यतः साधूनरिभिर्द्यूतनिर्जितान् ||२-१०१-५८ (१५५१८)
सहदेव निवर्तस्व ननु त्वमसि मे प्रियः.
शरीरादपि माद्रेय मां मा त्याक्षीः कुपुत्रवत् ||२-१०१-५९ (१५५१९)
व्रजन्तु ब्रातरस्तेऽमी यदि सत्याभिसन्धिनः.
मत्परित्राणजं धर्ममिहैव त्वमवाप्नुहि ||२-१०१-६० (१५५२०)
वैशम्पायन उवाच ||२-१०१-६१क्ष् (१७३६)
एवं विपलतीं कुन्तीमभिवाद्य प्रणम्य च.
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः ||२-१०१-६१ (१५५२१)
विदुरश्चापि तामार्तां कुन्तीमाश्वास्य हेतुभिः.
प्रावेशयद्गृहं क्षत्ता स्वयमार्ततरः शनैः ||२-१०१-६२ (१५५२२)
धार्तराष्ट्रस्त्रिस्ताश्च निखिलेनोपलभ्य तत्.
गमनं परिकर्षं च कृष्णाया द्यूतमण्डले ||२-१०१-६३ (१५५२३)
रुरुदुः सुस्वनं सर्वा विनिन्दन्त्यः कुरून्भृशम्.
दध्युश्च सुचिरं कालं करासक्तमुखाम्बुजाः ||२-१०१-६४ (१५५२४)
राजा च धृतराष्ट्रस्तु पुत्राणामनयं तदा.
ध्यायन्नुद्विग्नहृदयो न शान्तिमधिजग्मिवान् ||२-१०१-६५ (१५५२५)
स चिन्तयन्ननेकाग्रः शोकव्याकुलचेतनः.
क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति ||२-१०१-६६ (१५५२६)
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम्.
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो जनाधिपः ||||२-१०१-६७ (१५५२७)
इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि
एकोत्तरशततमोऽध्यायः ||१०१. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१०१-४० शोणिताक्तैकवसना रजस्वला ||
२-१०१-५१ मह्यं मम ||
२-१०१-५३ असुधर्मे प्राणधारणे | अन्तवति विनाशवति ||
सभापर्व -अध्याय १०२
||श्रीः ||
२. १०२. अध्यायः १०२
Mahabharata -Sabha Parva -Chapter Topics
धृतराष्ट्रेण विदुरम्प्रति पाण्डवानां वनप्रस्थानसमये
चेष्टविशेषप्रश्ने तत तच्चेष्टाविशेषकथनपूर्वकं
तत्तदभिप्रायाविष्करणम् ||१. . द्रोणेन दुर्योधनाय हितोपदेशः
||२. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
तमागतमथो राजा विदुरं दीर्घदर्शिनम्.
साशङ्क इव प्रपच्छ धृतराष्टोऽम्बिकासुतः ||२-१०२-१ (१५५२८)
कथं गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः.
भीमसेनः सव्यसाची माद्रीपुत्री च पाण्डवौ ||२-१०२-२ (१५५२९)
धौम्यश्चैव कथं क्षत्तर्द्रौपदी च यशस्विनी.
श्रोतुमिच्छाम्यहं सर्वं तेषां शंस विचेष्टितम् ||२-१०२-३ (१५५३०)
विदुर उवाच ||२-१०२-४क्ष् (१७३७)
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः.
बाहू विशालौ सम्पश्यन्भीमो गच्छति पाण्डवः ||२-१०२-४ (१५५३१)
सिकता वपन्सव्यसाची राजानमनुगच्छति.
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ||२-१०२-५ (१५५३२)
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः.
दर्शनीयतमो लोके राजानमनुगच्छति ||२-१०२-६ (१५५३३)
कृष्णा तु केशैः प्रच्छाद्य मुखमायतलोचना.
दर्शनीया प्ररुदती राजानमनुगच्छति ||२-१०२-७ (१५५३४)
धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते.
गायन्गच्छति मार्गेषु कुशानादाय पाणिना ||२-१०२-८ (१५५३५)
धृतराष्ट्र उवाच ||२-१०२-९क्ष् (१७३८)
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः.
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ||२-१०२-९ (१५५३६)
विदुर उवाच ||२-१०२-१०क्ष् (१७३९)
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च.
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ||२-१०२-१० (१५५३७)
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत.
निकृत्या भ्रंशितः क्रोधान्नोन्मीलयति लोचने ||२-१०२-११ (१५५३८)
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा.
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ||२-१०२-१२ (१५५३९)
यथा च भीमो व्रजति निगदतः शृणु.
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ||२-१०२-१३ (१५५४०)
बाहू विशालौ कृत्वाऽसौ तेन भीमोपि गच्छति.
बाहू विदर्शयन्राजन्बाहुद्रविणदर्पितः ||२-१०२-१४ (१५५४१)
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः.
प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा ||२-१०२-१५ (१५५४२)
सिकता वपन्सव्यसाची राजानमनुगच्छति.
असक्ताः सिकतास्तस्य यथा सम्प्रति भारत.
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ||२-१०२-१६ (१५५४३)
न मे कश्चिद्विजानीयान्मुखमद्येति भारत.
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ||२-१०२-१७ (१५५४४)
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो.
पांसूपलिप्तसर्वाङ्गो नकुलस्तेन गच्छति ||२-१०२-१८ (१५५४५)
एकवस्त्रा प्ररुदती मुक्तकेशी रजस्वला.
शोणितेनाक्तवसना द्रौपदी वाक्यमब्रवीत् ||२-१०२-१९ (१५५४६)
यत्कृतेऽहमिदं प्राप्ता तेषां वर्षे चतुर्दशे.
हतपत्यो हतसुता हतबन्धुजनप्रियाः ||२-१०२-२० (१५५४७)
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः.
एवं कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम् ||२-१०२-२१ (१५५४८)
कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः.
सामानि गायन्याम्यानि पुरतो याति भारत ||२-१०२-२२ (१५५४९)
हतेषु भरतेष्वाजौ कुरूणां गुरवस्तदा.
एवं सामानि --न्तीत्युक्त्वा धौम्योपि गच्छति | २-१०२-२३ (१५५५०)
' प्रस्थाप्य पाण्डवाञ्शेषान्निः शेषस्ते भविष्यति.
इति धौम्यो व्यवसितो रौद्रसामानि गायति ||२-१०२-२४ (१५५५१)
धृतराष्ट्र उवाच ||२-१०२-२५क्ष् (१७४०)
किमब्रुवन्नैकृतिकः किं वा नागरिका जनाः.
तथ्येन मे समाचक्ष्व क्षत्तः सर्वमशेषतः ||२-१०२-२५ (१५५५२)
विदुर उवाच ||२-१०२-२६क्ष् (१७४१)
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा येऽन्ये वदन्त्यथ.
तच्छृणुष्व महाराज वक्ष्यते च मया तव ||२-१०२-२६ (१५५५३)
प्रकृतय ऊचुः. २-१०२-२७क्ष् (१७४२)
हाहा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम्.
अहो धिक्कुरुवृद्धानां बालानामिव चेष्टितम् ||२-१०२-२७ (१५५५४)
राष्ट्रेभ्यः पाण्डुदायादाँल्लोभान्निर्वासयन्ति ये.
अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः ||२-१०२-२८ (१५५५५)
दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः.
इति पौराः सुदुः खार्ताः क्रोशन्ति स्म पुनः पुनः ||२-१०२-२९ (१५५५६)
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम्.
कथयन्तश्च कौन्तेया वनं जग्मुर्मनस्विनः ||२-१०२-३० (१५५५७)
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात्.
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ||२-१०२-३१ (१५५५८)
राहुरग्रसदादित्यमपर्वणि विशाम्पते.
उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत ||२-१०२-३२ (१५५५९)
प्रत्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः.
देवायतनचैत्येषु प्राकाराट्टालकेषु च ||२-१०२-३३ (१५५६०)
एवमेते महोत्पाताः प्रादुरासन्दुरासदाः.
भरतानामभावाय राजन्दुर्मन्त्रिते तव ||२-१०२-३४ (१५५६१)
वैशम्पायन उवाच ||२-१०२-३५क्ष् (१७४३)
एवं प्रवदतोरेव तयोस्तत्र विशाम्पते.
धृतराष्ट्रस्य राज्ञश्च विदुरस्य च धीमतः ||२-१०२-३५ (१५५६२)
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः.
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ||२-१०२-३६ (१५५६३)
इतश्चतुर्दशे वर्षे विङ्क्ष्यन्तीह कौरवाः.
दुर्योधनापराधेन भीमार्जुनबलेन च ||२-१०२-३७ (१५५६४)
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत.
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ||२-१०२-३८ (१५५६५)
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः.
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ||२-१०२-३९ (१५५६६)
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम्.
दुःशासनं च कर्णं च सर्वानेव च भारतान् ||२-१०२-४० (१५५६७)
अवध्यान्पाण्डवान्प्राहुर्देवपुत्रान्द्विजातयः.
अहं चै शरणं प्राप्तान्वर्तमानो यथाबलम् ||२-१०२-४१ (१५५६८)
गन्ता सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान्.
नोत्सहेयं परित्यक्तुं दैवं हि बलवत्तरम् ||२-१०२-४२ (१५५६९)
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः.
ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवः ||२-१०२-४३ (१५५७०)
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः.
वैरं निर्यातयिष्यन्ति महद्दुःखाय पाण्डवाः ||२-१०२-४४ (१५५७१)
मया च भ्रंशितो राजन्द्रुपदः सखिविग्रहे.
पुत्रार्थमयजद्राजा वधाय मम भारत ||२-१०२-४५ (१५५७२)
याजोपयाजतपसा पुत्रं लेभे स पावकात्.
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ||२-१०२-४६ (१५५७३)
धृष्टद्युम्नस्तु पार्थानां स्यालः सम्बन्धतो मतः.
पाण्डवानां प्रियरतस्तस्मान्मां भयमाविशत् ||२-१०२-४७ (१५५७४)
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी.
मर्त्यधर्मतया तस्मादद्य मे साध्वसो महान् ||२-१०२-४८ (१५५७५)
गतो हि पक्षतां तेषां पार्षतः परवीरहा.
रथातिरथसङ्ख्यायां योऽग्रणीरर्जुनो युवा ||२-१०२-४९ (१५५७६)
सृष्टप्राणो भृशतरं तेन चेत्सङ्गमो मम.
किमन्यद्दुःखमधिकं परमं भुवि कौरवाः ||२-१०२-५० (१५५७७)
धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितं वचः.
मद्वधायाश्रितोऽप्येष लोके चाप्यतिविश्रुतः ||२-१०२-५१ (१५५७८)
सोऽयं नूनमनुप्राप्तस्त्वत्कृते कालपर्ययः.
त्वरितं कुरुत श्रेयो नैतदेतावता कृतम् ||२-१०२-५२ (१५५७९)
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी.
जयध्वं च महायज्ञैर्भोगानश्नीत दत्त च ||२-१०२-५३ (१५५८०)
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम्.
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि ||२-१०२-५४ (१५५८१)
शमं वा पाण्डुपुत्रेण प्रयुङ्क्ष्व यदि मन्यसे. २-१०२-५५ (१५५८२)
वैशम्पायन उवाच ||
द्रोणस्य --चनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् ||२-१०२-५५क्ष् (१७४४)
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान्.
यदि ते न निवर्तन्ते सत्कृता यान्तु पाण्डवाः. २-१०२-५६ (१५५८३)
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ||||२-१०२-५७ (१५५८४)
इति श्रीमन्महाभारते सभापर्वणि अनुद्यतपर्वणि
द्व्यधिकशततमोऽध्यायः ||१०२. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१०२-१६ असक्ताः परस्परमलग्नाः ||
२-१०२-३९ द्वीपमाश्रयम् ||
२-१०२-४८ देवदत्तो देवैर्दत्तः ||
२-१०२-५० सङ्गमः सङ्ग्रामे इति शेषः ||
२-१०२-५३ हैमनी हेमन्तसम्बन्धिनी ||
२-१०२-५४ वैशसं नाशम् ||
सभापर्व -अध्याय १०३
||श्रीः ||
२. १०३. अध्यायः १०३
Mahabharata -Sabha Parva -Chapter Topics
धृतराष्ट्रसञ्जययोः संवादः ||१. .
Mahabharata -Sabha Parva -Chapter Text
वैशम्पायन उवाच ||
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे.
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ||२-१०३-१ (१५५८५)
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्.
निः श्वसन्तमनेकाग्रमिति होवाच सञ्जयः ||२-१०३-२ (१५५८६)
अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप.
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ||२-१०३-३ (१५५८७)
धृतराष्ट्र उवाच ||२-१०३-४क्ष् (१७४५)
अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति.
पाण्डवैर्युद्धशौण्डैर्हि बलवद्भिर्महारथैः ||२-१०३-४ (१५५८८)
सञ्जय उवाच ||२-१०३-५क्ष् (१७४६)
तवेदं सुकृतं राजन्महद्वैरमुपस्थितम्.
विनाशो येन लोकस्य सानुबन्धो भविष्यति ||२-१०३-५ (१५५८९)
वार्यमाणो हि भीष्मेण द्रोणेन विदुरेण च.
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम्. २-१०३-६ (१५५९०)
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव.
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ||२-१०३-७ (१५५९१)
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्.
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ||२-१०३-८ (१५५९२)
बुद्धौ कलुषभूतायां विनाशे समुपस्थिते.
अनयो नयसङ्काशो हृदयान्नापसर्पति ||२-१०३-९ (१५५९३)
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः.
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते ||२-१०३-१० (१५५९४)
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्.
कालस्य बलमेतार्वाद्वपरीतार्थदर्शनम् ||२-१०३-११ (१५५९५)
आसादितमिदं घोरं तुमुलं रोमहर्षणम्.
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् ||२-१०३-१२ (१५५९६)
अयोनिजां रूपवतीं कुले जातां विभावसोः.
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ||२-१०३-१३ (१५५९७)
पर्यानयेत्सभामध्ये विना दुर्द्यूतदेविनम्.
स्त्रीधर्मिणी वरारोहा शोणितेन परिप्लुता ||२-१०३-१४ (१५५९८)
एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवैक्षत.
हृतस्वान्हृतराज्यांश्च हृतवस्त्रान्हृतश्रियः ||२-१०३-१५ (१५५९९)
विहीनान्सर्वकामेभ्यो दासभावमुपागतान्.
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ||२-१०३-१६ (१५६००)
क्रुद्धां चानर्हतीं कृष्णां दुःखितां कुरुसंसदि.
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ||२-१०३-१७ (१५६०१)
इति सर्वमिदं राजन्नाकुलं प्रतिभाति मे. २-१०३-१८ (१५६०२)
धृतराष्ट्र उवाच ||
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी ||२-१०३-१८क्ष् (१७४७)
अपि शेषं भवेदद्य पुत्राणां मम सञ्जय.
भरतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः ||२-१०३-१९ (१५६०३)
प्राकोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम्.
धर्मिष्टां धर्मपत्नीं च रूपयौवनशालिनीम् ||२-१०३-२० (१५६०४)
प्रजाभिःसह सङ्गम्य ह्यनुशोचन्ति नित्यशः.
अग्निहोत्राणि सायाह्ने च चाहूयन्त सर्वशः ||२-१०३-२१ (१५६०५)
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे.
आसीन्निष्ठानको घोरो निर्घातश्च महानभूत् ||२-१०३-२२ (१५६०६)
दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत्.
अपर्वणि महाघोरं प्रजानां जयन्भयम् ||२-१०३-२३ (१५६०७)
तथैव रथशालासु प्रादुरासीद्धुताशनः.
ध्वजाश्चापि व्यशीर्यन्त भरतानामभूतये ||२-१०३-२४ (१५६०८)
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः.
तास्तदा प्रत्यभाषन्त रासभाः सर्वतो दिशः ||२-१०३-२५ (१५६०९)
प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय.
कृपश्च सोमदत्तश्च बाह्लीकश्च महामनाः ||२-१०३-२६ (१५६१०)
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः.
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ||२-१०३-२७ (१५६११)
अवृणोत्तत्र पाञ्चाली पाण्डवाना --सताम्.
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ||२-१०३-२८ (१५६१२)
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्.
एतदन्तास्तु भरता यद्व-कृष्णा सभां गता ||२-१०३-२९ (१५६१३)
यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा.
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति ||२-१०३-३० (१५६१४)
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ह्यमर्षणाः.
वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः ||२-१०३-३१ (१५६१५)
तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः.
आगमिष्यति बीभत्सुः पञ्चालैः परिवारितः ||२-१०३-३२ (१५६१६)
तेषां मध्ये महेष्वासो भीमसेनो महाबलः.
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः ||२-१०३-३३ (१५६१७)
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः.
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ||२-१०३-३४ (१५६१८)
तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः.
कुरुभ्यो हि सदा मन्ये पाण्डवान्बलवत्तरान् ||२-१०३-३५ (१५६१९)
तथा हि बलवान्राजा जरासन्धो महाद्युतिः.
बाहुप्रहरणेनैव भीमेन निहतो युधि. २-१०३-३६ (१५६२०)
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ.
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ||२-१०३-३७ (१५६२१)
एवं कृते महाराज परं श्रेयस्त्वमाप्स्यसि.
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः ||२-१०३-३८ (१५६२२)
उक्तवान्न गृहीतं वै मया पुत्रहितैषिणा ||||२-१०३-३९ (१५६२३)
इति श्रीमन्महाभारते शतसाहस्रयां
संहितायां वैयासिक्यां सभापर्वणि अनुद्यूतपर्वणि
व्यधिकशततमोऽध्यायः. | १०३. . ||समाप्तमनुद्यूतपर्व सभापर्व
च ||इतः परं वनपर्व भविष्यति तस्यायमाद्यः श्लोकः. जनमेजय
उवाच||एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः. धार्तराष्ट्रैः
सहामात्यैर्निकृत्या द्विजसत्तम||१. .
Mahabharata -Sabha Parva -Chapter Footnotes
२-१०३-२२ निष्ठानकः चण्डवात इत्यर्थः | निर्घातो वज्रशब्दः ||
% File name : mbhK02.itx
%--------------------------------------------
% Text title : 2 sabhAparva
% Author : Veda Vyasa
% Language : sanskrit
% Subject : /hindu/philosohphy/religion
% Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition
% Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya
% 1906-1914
% Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the
% support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof.
% Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others
% Proofread by :
% Latest update : October 13, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .