||४ महाभारते विराटपर्वम् ||
वैराटपर्व
१
जनमेजय उवाच||
कथं विराटनगरे मम पूर्वपितामहाः |
अज्ञातवासमुषिता दुर्योधनभयार्दिताः ||१||
वैशम्पायन उवाच||
तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः |
गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् ||२||
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः |
अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ||३||
ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः |
संनिवर्त्यानुजान्सर्वानिति होवाच भारत ||४||
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् |
त्रयोदशोऽयं सम्प्राप्तः कृच्छ्रः परमदुर्वसः ||५||
स साधु कौन्तेय इतो वासमर्जुन रोचय |
यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः ||६||
अर्जुन उवाच||
तस्यैव वरदानेन धर्मस्य मनुजाधिप |
अज्ञाता विचरिष्यामो नराणां भरतर्षभ ||७||
किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित् |
रमणीयानि गुप्तानि तेषां किञ्चित्स्म रोचय ||८||
सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् |
पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ||९||
दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगन्धराः ||९||
एतेषां कतमो राजन्निवासस्तव रोचते |
वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम् ||१०||
युधिष्ठिर उवाच||
एवमेतन्महाबाहो यथा स भगवान्प्रभुः |
अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा ||११||
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् |
संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम् ||१२||
मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान् |
धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः ||१३||
विराटनगरे तात संवत्सरमिमं वयम् |
कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत ||१४||
यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् |
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः ||१५||
अर्जुन उवाच||
नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि |
विराटनृपतेः साधो रंस्यसे केन कर्मणा ||१६||
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः |
राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव ||१७||
न दुःखमुचितं किञ्चिद्राजन्वेद यथा जनः |
स इमामापदं प्राप्य कथं घोरां तरिष्यसि ||१८||
युधिष्ठिर उवाच||
शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः |
विराटमनुसम्प्राप्य राजानं पुरुषर्षभम् ||१९||
सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः |
कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता ||२०||
वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह |
कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् ||२१||
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा |
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ||२२||
इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा |
वृकोदर विराटे त्वं रंस्यसे केन कर्मणा ||२३||
२
भीम उवाच||
पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः |
उपस्थास्यामि राजानं विराटमिति मे मतिः ||१||
सूपानस्य करिष्यामि कुशलोऽस्मि महानसे |
कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः ||२||
तानप्यभिभविष्यामि प्रीतिं सञ्जनयन्नहम् ||२||
आहरिष्यामि दारूणां निचयान्महतोऽपि च |
तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति ||३||
द्विपा वा बलिनो राजन्वृषभा वा महाबलाः |
विनिग्राह्या यदि मया निग्रहीष्यामि तानपि ||४||
ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः |
तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् ||५||
न त्वेतान्युध्यमानान्वै हनिष्यामि कथञ्चन |
तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षयम् ||६||
आरालिको गोविकर्ता सूपकर्ता नियोधकः |
आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः ||७||
आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते |
इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा ||८||
युधिष्ठिर उवाच||
यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम् |
दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा ||९||
महाबलं महाबाहुमजितं कुरुनन्दनम् |
सोऽयं किं कर्म कौन्तेयः करिष्यति धनञ्जयः ||१०||
योऽयमासाद्य तं दावं तर्पयामास पावकम् |
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ||११||
श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति ||११||
सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः |
आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः ||१२||
आयुधानां वरो वर्जः ककुद्मी च गवां वरः |
ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः ||१३||
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः |
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा ||१४||
यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर |
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ||१५||
सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत |
गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति ||१६||
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि |
दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता ||१७||
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् |
यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ ||१८||
दक्षिणे चैव सव्ये च गवामिव वहः कृतः ||१८||
हिमवानिव शैलानां समुद्रः सरितामिव |
त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् ||१९||
मृगाणामिव शार्दूलो गरुडः पततामिव |
वरः संनह्यमानानामर्जुनः किं करिष्यति ||२०||
अर्जुन उवाच||
प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते |
ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ ||२१||
कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे |
वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा ||२२||
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः |
रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान् ||२३||
गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा |
शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः ||२४||
प्रजानां समुदाचारं बहु कर्मकृतं वदन् |
छादयिष्यामि कौन्तेय माययात्मानमात्मना ||२५||
युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका |
उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत ||२६||
एतेन विधिना छन्नः कृतकेन यथा नलः |
विहरिष्यामि राजेन्द्र विराटभवने सुखम् ||२७||
३
युधिष्ठिर उवाच||
किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि |
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ||१||
नकुल उवाच||
अश्वबन्धो भविष्यामि विराटनृपतेरहम् |
ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम ||२||
कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते |
प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव ||३||
ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः |
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ||४||
युधिष्ठिर उवाच||
सहदेव कथं तस्य समीपे विहरिष्यसि |
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ||५||
सहदेव उवाच||
गोसङ्ख्याता भविष्यामि विराटस्य महीपतेः |
प्रतिषेद्धा च दोग्धा च सङ्ख्याने कुशलो गवाम् ||६||
तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते |
निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः ||७||
अहं हि भवता गोषु सततं प्रकृतः पुरा |
तत्र मे कौशलं कर्म अवबुद्धं विशां पते ||८||
लक्षणं चरितं चापि गवां यच्चापि मङ्गलम् |
तत्सर्वं मे सुविदितमन्यच्चापि महीपते ||९||
वृषभानपि जानामि राजन्पूजितलक्षणान् |
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ||१०||
सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा |
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव ||११||
युधिष्ठिर उवाच||
इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी |
मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा ||१२||
केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति |
न हि किञ्चिद्विजानाति कर्म कर्तुं यथा स्त्रियः ||१३||
सुकुमारी च बाला च राजपुत्री यशस्विनी |
पतिव्रता महाभागा कथं नु विचरिष्यति ||१४||
माल्यगन्धानलङ्कारान्वस्त्राणि विविधानि च |
एतान्येवाभिजानाति यतो जाता हि भामिनी ||१५||
द्रौपद्युवाच||
सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत |
नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः ||१६||
साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि |
आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि ||१७||
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् |
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ||१८||
युधिष्ठिर उवाच||
कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् |
न पापमभिजानासि साधु साध्वीव्रते स्थिता ||१९||
४
युधिष्ठिर उवाच||
कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ |
मम चापि यथाबुद्धि रुचितानि विनिश्चयात् ||१||
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु |
सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने ||२||
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् |
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ||३||
इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः |
पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ||४||
सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः |
गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति ||५||
धौम्य उवाच||
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः |
अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत ||६||
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः |
यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति ||७||
दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि |
अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् ||८||
दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत् |
तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः ||९||
नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् |
आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् ||१०||
अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः |
न तत्रोपविशेज्जातु स राजवसतिं वसेत् ||११||
न चानुशिष्येद्राजानमपृच्छन्तं कदाचन |
तूष्णीं त्वेनमुपासीत काले समभिपूजयन् ||१२||
असूयन्ति हि राजानो जनाननृतवादिनः |
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ||१३||
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथञ्चन |
अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ||१४||
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि |
एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् ||१५||
यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह |
अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम् ||१६||
यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत् |
प्रमादमवहेलां च कोपं च परिवर्जयेत् ||१७||
समर्थनासु सर्वासु हितं च प्रियमेव च |
संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् ||१८||
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च |
अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् ||१९||
नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः |
अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् ||२०||
नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् |
स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ||२१||
दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः |
रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते ||२२||
नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् ||२२||
न च संदर्शने किञ्चित्प्रवृद्धमपि सञ्जपेत् |
अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ||२३||
न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् |
यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् ||२४||
शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः |
प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् ||२५||
ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः |
अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ||२६||
यस्य कोपो महाबाधः प्रसादश्च महाफलः |
कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः ||२७||
न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् |
सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः ||२८||
हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् |
नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ||२९||
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा |
स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ||३०||
लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः |
असंमूढश्च यो नित्यं स राजवसतिं वसेत् ||३१||
राजानं राजपुत्रं वा संवर्तयति यः सदा |
अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् ||३२||
प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः |
न निर्बध्नाति राजानं लभते प्रग्रहं पुनः ||३३||
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः |
उपजीवी भवेद्राज्ञो विषये चापि यो वसेत् ||३४||
अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः |
न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ||३५||
श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् |
विशेषयेन्न राजानं योग्याभूमिषु सर्वदा ||३६||
अम्लानो बलवाञ्शूरश्छायेवानपगः सदा |
सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ||३७||
अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् |
अहं किं करवाणीति स राजवसतिं वसेत् ||३८||
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा |
आदिष्टो न विकल्पेत स राजवसतिं वसेत् ||३९||
यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत् |
दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ||४०||
समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् |
मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ||४१||
न कर्मणि नियुक्तः सन्धनं किञ्चिदुपस्पृशेत् |
प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् ||४२||
यानं वस्त्रमलङ्कारं यच्चान्यत्सम्प्रयच्छति |
तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् ||४३||
संवत्सरमिमं तात तथाशीला बुभूषवः |
अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ ||४४||
युधिष्ठिर उवाच||
अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन |
कुन्तीमृते मातरं नो विदुरं च महामतिम् ||४५||
यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति |
तारणायास्य दुःखस्य प्रस्थानाय जयाय च ||४६||
वैशम्पायन उवाच||
एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः |
अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते ||४७||
तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः |
समृद्धिवृद्धिलाभाय पृथिवीविजयाय च ||४८||
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान् |
याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ||४९||
५
वैशम्पायन उवाच||
ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः |
बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः ||१||
ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः |
वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः ||२||
विध्यन्तो मृगजातानि महेष्वासा महाबलाः |
उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु ||३||
अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः |
लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात् ||४||
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् |
पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च ||५||
व्यक्तं दूरे विराटस्य राजधानी भविष्यति |
वसामेह परां रात्रिं बलवान्मे परिश्रमः ||६||
युधिष्ठिर उवाच||
धनञ्जय समुद्यम्य पाञ्चालीं वह भारत |
राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः ||७||
वैशम्पायन उवाच||
तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव |
सम्प्राप्य नगराभ्याशमवतारयदर्जुनः ||८||
स राजधानीं सम्प्राप्य कौन्तेयोऽर्जुनमब्रवीत् |
क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् ||९||
सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि |
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ||१०||
ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः |
एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा ||११||
अर्जुन उवाच||
इयं कूटे मनुष्येन्द्र गहना महती शमी |
भीमशाखा दुरारोहा श्मशानस्य समीपतः ||१२||
न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव |
उत्पथे हि वने जाता मृगव्यालनिषेविते ||१३||
समासज्यायुधान्यस्यां गच्छामो नगरं प्रति |
एवमत्र यथाजोषं विहरिष्याम भारत ||१४||
वैशम्पायन उवाच||
एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् |
प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ ||१५||
येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् |
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः ||१६||
तदुदारं महाघोषं सपत्नगणसूदनम् |
अपज्यमकरोत्पार्थो गाण्डीवमभयङ्करम् ||१७||
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परन्तपः |
अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः ||१८||
पाञ्चालान्येन सङ्ग्रामे भीमसेनोऽजयत्प्रभुः |
प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये ||१९||
निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे |
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ||२०||
सैन्धवं येन राजानं परामृषत चानघ |
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ||२१||
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः |
तस्य मौर्वीमपाकर्षच्छूरः सङ्क्रन्दनो युधि ||२२||
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः |
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ||२३||
खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान् |
विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह ||२४||
तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम् |
यानि तस्यावकाशानि दृढरूपाण्यमन्यत ||२५||
यत्र चापश्यत स वै तिरो वर्षाणि वर्षति |
तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ||२६||
शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः |
विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् ||२७||
आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् ||२७||
अशीतिशतवर्षेयं माता न इति वादिनः |
कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च ||२८||
समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते ||२८||
आ गोपालाविपालेभ्य आचक्षाणाः परन्तपाः |
आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः ||२९||
जयो जयन्तो विजयो जयत्सेनो जयद्बलः |
इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ||३०||
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् |
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ||३१||
६
वैशम्पायन उवाच||
ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायामुपविष्टमाव्रजत् |
वैडूर्यरूपान्प्रतिमुच्य काञ्चना; नक्षान्स कक्षे परिगृह्य वाससा ||१||
नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः |
महानुभावो नरराजसत्कृतो; दुरासदस्तीक्ष्णविषो यथोरगः ||२||
बालेन रूपेण नरर्षभो महा; नथार्चिरूपेण यथामरस्तथा |
महाभ्रजालैरिव संवृतो रवि; र्यथानलो भस्मवृतश्च वीर्यवान् ||३||
तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम् |
मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते ||४||
पप्रच्छ कोऽयं प्रथमं समेयिवा; ननेन योऽयं प्रसमीक्षते सभाम् ||४||
न तु द्विजोऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम् |
न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायमिन्द्रवत् ||५||
शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽयमितीव मानसम् |
समीपमायाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः ||६||
वितर्कयन्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् |
सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम् ||७||
इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो |
तमब्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसङ्गृहाण च ||८||
कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषयादिहागतः |
गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम् ||९||
युधिष्ठिर उवाच||
युधिष्ठिरस्यासमहं पुरा सखा; वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः |
अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः ||१०||
विराट उवाच||
ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव |
प्रिया हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति ||११||
युधिष्ठिर उवाच||
आप्तो विवादः परमो विशां पते; न विद्यते किञ्चन मत्स्य हीनतः |
न मे जितः कश्चन धारयेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः ||१२||
विराट उवाच||
हन्यामवध्यं यदि तेऽप्रियं चरे; त्प्रव्राजयेयं विषयाद्द्विजांस्तथा |
शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस्तथा ||१३||
समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः |
पश्येस्त्वमन्तश्च बहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मया ||१४||
ये त्वानुवादेयुरवृत्तिकर्शिता; ब्रूयाश्च तेषां वचनेन मे सदा |
दास्यामि सर्वं तदहं न संशयो; न ते भयं विद्यति संनिधौ मम ||१५||
वैशम्पायन उवाच||
एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा |
उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं बुबोध तत् ||१६||
७
वैशम्पायन उवाच||
अथापरो भीमबलः श्रिया ज्वल; न्नुपाययौ सिंहविलासविक्रमः |
खजं च दर्वीं च करेण धारय; न्नसिं च कालाङ्गमकोशमव्रणम् ||१||
स सूदरूपः परमेण वर्चसा; रविर्यथा लोकमिमं प्रभासयन् |
सुकृष्णवासा गिरिराजसारवा; न्स मत्स्यराजं समुपेत्य तस्थिवान् ||२||
तं प्रेक्ष्य राजा वरयन्नुपागतं; ततोऽब्रवीज्जानपदान्समागतान् |
सिंहोन्नतांसोऽयमतीव रूपवा; न्प्रदृश्यते को नु नरर्षभो युवा ||३||
अदृष्टपूर्वः पुरुषो रविर्यथा; वितर्कयन्नास्य लभामि सम्पदम् |
तथास्य चित्तं ह्यपि संवितर्कय; न्नरर्षभस्याद्य न यामि तत्त्वतः ||४||
ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः |
उवाच सूदोऽस्मि नरेन्द्र बल्लवो; भजस्व मां व्यञ्जनकारमुत्तमम् ||५||
विराट उवाच||
न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे |
श्रिया च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्विह ||६||
भीम उवाच||
नरेन्द्र सूदः परिचारकोऽस्मि ते; जानामि सूपान्प्रथमेन केवलान् |
आस्वादिता ये नृपते पुराभव; न्युधिष्ठिरेणापि नृपेण सर्वशः ||७||
बलेन तुल्यश्च न विद्यते मया; नियुद्धशीलश्च सदैव पार्थिव |
गजैश्च सिंहैश्च समेयिवानहं; सदा करिष्यामि तवानघ प्रियम् ||८||
विराट उवाच||
ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे |
न चैव मन्ये तव कर्म तत्समं; समुद्रनेमिं पृथिवीं त्वमर्हसि ||९||
यथा हि कामस्तव तत्तथा कृतं; महानसे त्वं भव मे पुरस्कृतः |
नराश्च ये तत्र ममोचिताः पुरा; भवस्व तेषामधिपो मया कृतः ||१०||
वैशम्पायन उवाच||
तथा स भीमो विहितो महानसे; विराटराज्ञो दयितोऽभवद्दृढम् |
उवास राजन्न च तं पृथग्जनो; बुबोध तत्रानुचरश्च कश्चन ||११||
८
वैशम्पायन उवाच||
ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान् |
जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना ||१||
वासश्च परिधायैकं कृष्णं सुमलिनं महत् |
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ||२||
तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन् |
अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि ||३||
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता |
कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति ||४||
तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा |
नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् ||५||
विराटस्य तु कैकेयी भार्या परमसंमता |
अवलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ||६||
सा समीक्ष्य तथारूपामनाथामेकवाससम् |
समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि ||७||
सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता |
कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति ||८||
सुदेष्णोवाच||
नैवंरूपा भवन्त्येवं यथा वदसि भामिनि |
प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून् ||९||
गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता |
रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी ||१०||
सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा |
तेन तेनैव सम्पन्ना काश्मीरीव तुरङ्गमा ||११||
स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा |
कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ||१२||
का त्वं ब्रूहि यथा भद्रे नासि दासी कथञ्चन |
यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः ||१३||
अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी |
इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः ||१४||
देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे ||१४||
द्रौपद्युवाच||
नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी |
सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते ||१५||
केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम् |
ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः ||१६||
आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् |
कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम् ||१७||
तत्र तत्र चराम्येवं लभमाना सुशोभनम् |
वासांसि यावच्च लभे तावत्तावद्रमे तथा ||१८||
मालिनीत्येव मे नाम स्वयं देवी चकार सा |
साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम् ||१९||
सुदेष्णोवाच||
मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते |
नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा ||२०||
स्त्रियो राजकुले पश्य याश्चेमा मम वेश्मनि |
प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः ||२१||
वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि |
तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः ||२२||
राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम् |
विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा ||२३||
यं हि त्वमनवद्याङ्गि नरमायतलोचने |
प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् ||२४||
यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि |
एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् ||२५||
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः |
तथाविधमहं मन्ये वासं तव शुचिस्मिते ||२६||
द्रौपद्युवाच||
नास्मि लभ्या विराटेन न चान्येन कथञ्चन |
गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि ||२७||
पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित् |
रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम् ||२८||
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् |
प्रीयेयुस्तेन वासेन गन्धर्वाः पतयो मम ||२९||
यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः |
तामेव स ततो रात्रिं प्रविशेदपरां तनुम् ||३०||
न चाप्यहं चालयितुं शक्या केनचिदङ्गने |
दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः ||३१||
सुदेष्णोवाच||
एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि |
न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथञ्चन ||३२||
वैशम्पायन उवाच||
एवं कृष्णा विराटस्य भार्यया परिसान्त्विता |
न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय ||३३||
९
वैशम्पायन उवाच||
सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम् |
भाषां चैषां समास्थाय विराटमुपयादथ ||१||
तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम् |
समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् ||२||
कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि |
न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ ||३||
स प्राप्य राजानममित्रतापन; स्ततोऽब्रवीन्मेघमहौघनिःस्वनः |
वैश्योऽस्मि नाम्नाहमरिष्टनेमि; र्गोसङ्ख्य आसं कुरुपुङ्गवानाम् ||४||
वस्तुं त्वयीच्छामि विशां वरिष्ठ; तान्राजसिंहान्न हि वेद्मि पार्थान् |
न शक्यते जीवितुमन्यकर्मणा; न च त्वदन्यो मम रोचते नृपः ||५||
विराट उवाच||
त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि; समुद्रनेमीश्वररूपवानसि |
आचक्ष्व मे तत्त्वममित्रकर्शन; न वैश्यकर्म त्वयि विद्यते समम् ||६||
कस्यासि राज्ञो विषयादिहागतः; किं चापि शिल्पं तव विद्यते कृतम् |
कथं त्वमस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम् ||७||
सहदेव उवाच||
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः |
तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः ||८||
अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे |
तेषां गोसङ्ख्य आसं वै तन्तिपालेति मां विदुः ||९||
भूतं भव्यं भविष्यच्च यच्च सङ्ख्यागतं क्वचित् |
न मेऽस्त्यविदितं किञ्चित्समन्ताद्दशयोजनम् ||१०||
गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः |
आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ||११||
क्षिप्रं हि गावो बहुला भवन्ति; न तासु रोगो भवतीह कश्चित् |
तैस्तैरुपायैर्विदितं मयैत; देतानि शिल्पानि मयि स्थितानि ||१२||
वृषभांश्चापि जानामि राजन्पूजितलक्षणान् |
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ||१३||
विराट उवाच||
शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः |
पशून्सपालान्भवते ददाम्यहं; त्वदाश्रया मे पशवो भवन्त्विह ||१४||
वैशम्पायन उवाच||
तथा स राज्ञोऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वरः |
न चैनमन्येऽपि विदुः कथञ्चन; प्रादाच्च तस्मै भरणं यथेप्सितम् ||१५||
१०
वैशम्पायन उवाच||
अथापरोऽदृश्यत रूपसम्पदा; स्त्रीणामलङ्कारधरो बृहत्पुमान् |
प्राकारवप्रे प्रतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे ||१||
बहूंश्च दीर्घांश्च विकीर्य मूर्धजा; न्महाभुजो वारणमत्तविक्रमः |
गतेन भूमिमभिकम्पयंस्तदा; विराटमासाद्य सभासमीपतः ||२||
तं प्रेक्ष्य राजोपगतं सभातले; सत्रप्रतिच्छन्नमरिप्रमाथिनम् |
विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम् ||३||
सर्वानपृच्छच्च समीपचारिणः; कुतोऽयमायाति न मे पुरा श्रुतः |
न चैनमूचुर्विदितं तदा नराः; सविस्मितं वाक्यमिदं नृपोऽब्रवीत् ||४||
सर्वोपपन्नः पुरुषो मनोरमः; श्यामो युवा वारणयूथपोपमः |
विमुच्य कम्बू परिहाटके शुभे; विमुच्य वेणीमपिनह्य कुण्डले ||५||
शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा |
आरुह्य यानं परिधावतां भवा; न्सुतैः समो मे भव वा मया समः ||६||
वृद्धो ह्यहं वै परिहारकामः; सर्वान्मत्स्यांस्तरसा पालयस्व |
नैवंविधाः क्लीबरूपा भवन्ति; कथञ्चनेति प्रतिभाति मे मनः ||७||
अर्जुन उवाच||
गायामि नृत्याम्यथ वादयामि; भद्रोऽस्मि नृत्ते कुशलोऽस्मि गीते |
त्वमुत्तरायाः परिदत्स्व मां स्वयं; भवामि देव्या नरदेव नर्तकः ||८||
इदं तु रूपं मम येन किं नु त; त्प्रकीर्तयित्वा भृशशोकवर्धनम् |
बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम् ||९||
विराट उवाच||
ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश्च तादृशीः |
इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं त्वमर्हसि ||१०||
वैशम्पायन उवाच||
बृहन्नडां तामभिवीक्ष्य मत्स्यरा; ट्कलासु नृत्ते च तथैव वादिते |
अपुंस्त्वमप्यस्य निशम्य च स्थिरं; ततः कुमारीपुरमुत्ससर्ज तम् ||११||
स शिक्षयामास च गीतवादितं; सुतां विराटस्य धनञ्जयः प्रभुः |
सखीश्च तस्याः परिचारिकास्तथा; प्रियश्च तासां स बभूव पाण्डवः ||१२||
तथा स सत्रेण धनञ्जयोऽवस; त्प्रियाणि कुर्वन्सह ताभिरात्मवान् |
तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्यथवान्तरेचराः ||१३||
११
वैशम्पायन उवाच||
अथापरोऽदृश्यत पाण्डवः प्रभु; र्विराटराज्ञस्तुरगान्समीक्षतः |
तमापतन्तं ददृशे पृथग्जनो; विमुक्तमभ्रादिव सूर्यमण्डलम् ||१||
स वै हयानैक्षत तांस्ततस्ततः; समीक्षमाणं च ददर्श मत्स्यराट् |
ततोऽब्रवीत्ताननुगानमित्रहा; कुतोऽयमायाति नरोऽमरप्रभः ||२||
अयं हयान्वीक्षति मामकान्दृढं; ध्रुवं हयज्ञो भविता विचक्षणः |
प्रवेश्यतामेष समीपमाशु मे; विभाति वीरो हि यथामरस्तथा ||३||
अभ्येत्य राजानममित्रहाब्रवी; ज्जयोऽस्तु ते पार्थिव भद्रमस्तु च |
हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्यहम् ||४||
विराट उवाच||
ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वमर्हसि |
कुतोऽसि कस्यासि कथं त्वमागतः; प्रब्रूहि शिल्पं तव विद्यते च यत् ||५||
नकुल उवाच||
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः |
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ||६||
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः |
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ||७||
न कातरं स्यान्मम जातु वाहनं; न मेऽस्ति दुष्टा वडवा कुतो हयाः |
जनस्तु मामाह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकमेव नामतः ||८||
विराट उवाच||
यदस्ति किञ्चिन्मम वाजिवाहनं; तदस्तु सर्वं त्वदधीनमद्य वै |
ये चापि केचिन्मम वाजियोजका; स्त्वदाश्रयाः सारथयश्च सन्तु मे ||९||
इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत्ते प्रसमीक्षितं वसु |
न तेऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम ||१०||
युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम् |
कथं तु भृत्यैः स विनाकृतो वने; वसत्यनिन्द्यो रमते च पाण्डवः ||११||
वैशम्पायन उवाच||
तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः |
न चैनमन्येऽपि विदुः कथञ्चन; प्रियाभिरामं विचरन्तमन्तरा ||१२||
एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिरमोघदर्शनाः |
अज्ञातचर्यां व्यचरन्समाहिताः; समुद्रनेमीपतयोऽतिदुःखिताः ||१३||
१२
जनमेजय उवाच||
एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः |
अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज ||१||
वैशम्पायन उवाच||
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः |
आराधयन्तो राजानं यदकुर्वन्त तच्छृणु ||२||
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः |
तथैव च विराटस्य सपुत्रस्य विशां पते ||३||
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः |
अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् ||४||
अज्ञातं च विराटस्य विजित्य वसु धर्मराट् |
भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति ||५||
भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च |
अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे ||६||
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः |
विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ||७||
सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः |
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ||८||
नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् |
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ||९||
कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी |
यथा पुनरविज्ञाता तथा चरति भामिनी ||१०||
एवं सम्पादयन्तस्ते तथान्योन्यं महारथाः |
प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप ||११||
अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः |
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ||१२||
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः |
महाकाया महावीर्याः कालखञ्जा इवासुराः ||१३||
वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः |
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः ||१४||
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ ||१४||
तेषामेको महानासीत्सर्वमल्लान्समाह्वयत् |
आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन ||१५||
यदा सर्वे विमनसस्ते मल्ला हतचेतसः |
अथ सूदेन तं मल्लं योधयामास मत्स्यराट् ||१६||
चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम् |
न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् ||१७||
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् |
प्रविवेश महारङ्गं विराटमभिहर्षयन् ||१८||
बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम् |
ततस्तं वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ||१९||
तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ |
मत्ताविव महाकायौ वारणौ षष्टिहायनौ ||२०||
चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा |
विनदन्तमभिक्रोशञ्शार्दूल इव वारणम् ||२१||
तमुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् |
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ||२२||
भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् |
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः ||२३||
तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते |
विराटः परमं हर्षमगच्छद्बान्धवैः सह ||२४||
संहर्षात्प्रददौ वित्तं बहु राजा महामनाः |
बल्लवाय महारङ्गे यथा वैश्रवणस्तथा ||२५||
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् |
विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् ||२६||
यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते |
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ||२७||
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः |
योध्यते स्म विराटेन सिंहैर्मत्तैर्महाबलैः ||२८||
बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः |
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ||२९||
अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः |
तोषयामास नकुलो राजानं राजसत्तम ||३०||
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु |
विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो ||३१||
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः |
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ||३२||
कीचकवधपर्व
१३
वैशम्पायन उवाच||
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा |
महारथेषु छन्नेषु मासा दश समत्ययुः ||१||
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते |
अवसत्परिचारार्हा सुदुःखं जनमेजय ||२||
तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने |
सेनापतिर्विराटस्य ददर्श जलजाननाम् ||३||
तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव |
कीचकः कामयामास कामबाणप्रपीडितः ||४||
स तु कामाग्निसन्तप्तः सुदेष्णामभिगम्य वै |
प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ||५||
नेयं पुरा जातु मयेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा |
रूपेण चोन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी ||६||
का देवरूपा हृदयङ्गमा शुभे; आचक्ष्व मे का च कुतश्च शोभना |
चित्तं हि निर्मथ्य करोति मां वशे; न चान्यदत्रौषधमद्य मे मतम् ||७||
अहो तवेयं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति मामियम् |
अयुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच्च ममास्ति किञ्चन ||८||
प्रभूतनागाश्वरथं महाधनं; समृद्धियुक्तं बहुपानभोजनम् |
मनोहरं काञ्चनचित्रभूषणं; गृहं महच्छोभयतामियं मम ||९||
ततः सुदेष्णामनुमन्त्र्य कीचक; स्ततः समभ्येत्य नराधिपात्मजाम् |
उवाच कृष्णामभिसान्त्वयंस्तदा; मृगेन्द्रकन्यामिव जम्बुको वने ||१०||
इदं च रूपं प्रथमं च ते वयो; निरर्थकं केवलमद्य भामिनि |
अधार्यमाणा स्रगिवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती ||११||
त्यजामि दारान्मम ये पुरातना; भवन्तु दास्यस्तव चारुहासिनि |
अहं च ते सुन्दरि दासवत्स्थितः; सदा भविष्ये वशगो वरानने ||१२||
द्रौपद्युवाच||
अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे |
विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् ||१३||
परदारास्मि भद्रं ते न युक्तं त्वयि साम्प्रतम् |
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ||१४||
परदारे न ते बुद्धिर्जातु कार्या कथञ्चन |
विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् ||१५||
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः |
अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम् ||१६||
मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् |
दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम् ||१७||
न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम |
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ||१८||
अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि |
यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् ||१९||
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ||१९||
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः; समुद्रपारं यदि वा प्रधावसि |
तथापि तेषां न विमोक्षमर्हसि; प्रमाथिनो देवसुता हि मे वराः ||२०||
त्वं कालरात्रीमिव कश्चिदातुरः; किं मां दृढं प्रार्थयसेऽद्य कीचक |
किं मातुरङ्के शयितो यथा शिशु; श्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ||२१||
१४
वैशम्पायन उवाच||
प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत् |
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ||१||
यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम् |
तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम् ||२||
तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा |
विराटमहिषी देवी कृपां चक्रे मनस्विनी ||३||
स्वमर्थमभिसन्धाय तस्यार्थमनुचिन्त्य च |
उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् ||४||
पर्विणीं त्वं समुद्दिष्य सुरामन्नं च कारय |
तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् ||५||
तत्र सम्प्रेषितामेनां विजने निरवग्रहाम् |
सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि ||६||
कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा |
सुरामाहारयामास राजार्हां सुपरिस्रुताम् ||७||
आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान् |
कारयामास कुशलैरन्नपानं सुशोभनम् ||८||
तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता |
सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम् ||९||
सुदेष्णोवाच||
उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् |
पानमानय कल्याणि पिपासा मां प्रबाधते ||१०||
द्रौपद्युवाच||
न गच्छेयमहं तस्य राजपुत्रि निवेशनम् |
त्वमेव राज्ञि जानासि यथा स निरपत्रपः ||११||
न चाहमनवद्याङ्गि तव वेश्मनि भामिनि |
कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी ||१२||
त्वं चैव देवि जानासि यथा स समयः कृतः |
प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि ||१३||
कीचकश्च सुकेशान्ते मूढो मदनदर्पितः |
सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने ||१४||
सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः |
अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते ||१५||
सुदेष्णोवाच||
नैव त्वां जातु हिंस्यात्स इतः सम्प्रेषितां मया |
वैशम्पायन उवाच||
इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् |
सा शङ्कमाना रुदती दैवं शरणमीयुषी ||१७||
प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् ||१७||
द्रौपद्युवाच||
यथाहमन्यं पाण्डुभ्यो नाभिजानामि कञ्चन |
तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः ||१८||
वैशम्पायन उवाच||
उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः |
स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् ||१९||
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् |
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ||२०||
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् |
उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः ||२१||
१५
कीचक उवाच||
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम |
स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम् ||१||
सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके |
आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च ||२||
अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम् |
एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् ||३||
द्रौपद्युवाच||
अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम् |
पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत् ||४||
कीचक उवाच||
अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् |
वैशम्पायन उवाच||
इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत् |
सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम् ||६||
सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ||६||
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् |
अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् ||७||
ततो योऽसौ तदार्केण राक्षसः संनियोजितः |
स कीचकमपोवाह वातवेगेन भारत ||८||
स पपात ततो भूमौ रक्षोबलसमाहतः |
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ||९||
तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ |
अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् ||१०||
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः |
दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः ||११||
अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट् |
प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत् ||१२||
सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत् |
अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः ||१३||
आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम् |
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ||१४||
द्रौपद्युवाच||
येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन् |
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||१५||
ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः |
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||१६||
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम् |
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||१७||
ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः |
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||१८||
सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये |
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||१९||
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् |
चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः ||२०||
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् |
मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः ||२१||
क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते |
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना ||२२||
मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् |
यः पश्यन्मां मर्षयति वध्यमानामनागसम् ||२३||
न राजन्राजवत्किञ्चित्समाचरसि कीचके |
दस्यूनामिव धर्मस्ते न हि संसदि शोभते ||२४||
न कीचकः स्वधर्मस्थो न च मत्स्यः कथञ्चन |
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ||२५||
नोपालभे त्वां नृपते विराट जनसंसदि |
नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके ||२६||
सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् ||२६||
विराट उवाच||
परोक्षं नाभिजानामि विग्रहं युवयोरहम् |
अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम ||२७||
वैशम्पायन उवाच||
ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन् |
साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् ||२८||
सभ्या ऊचुः||
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा |
परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ||२९||
वैशम्पायन उवाच||
एवं सम्पूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः |
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् ||३०||
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् |
गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् ||३१||
भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः |
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ||३२||
मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव |
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ||३३||
अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि |
विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि ||३४||
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् ||३४||
द्रौपद्युवाच||
अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी |
तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता ||३५||
वैशम्पायन उवाच||
इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम् |
केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा ||३६||
शुशुभे वदनं तस्या रुदन्त्या विरतं तदा |
मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् ||३७||
सुदेष्णोवाच||
कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने |
कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् ||३८||
द्रौपद्युवाच||
कीचको मावधीत्तत्र सुराहारीं गतां तव |
सभायां पश्यतो राज्ञो यथैव विजने तथा ||३९||
सुदेष्णोवाच||
घातयामि सुकेशान्ते कीचकं यदि मन्यसे |
योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते ||४०||
द्रौपद्युवाच||
अन्ये वै तं वधिष्यन्ति येषामागः करोति सः |
मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति ||४१||
१६
वैशम्पायन उवाच||
सा हता सूतपुत्रेण राजपुत्री समज्वलत् |
वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी ||१||
जगामावासमेवाथ तदा सा द्रुपदात्मजा ||१||
कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा |
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ||२||
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् |
किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम ||३||
इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत् |
नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम् ||४||
तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् |
प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती ||५||
दुःखेन महता युक्ता मानसेन मनस्विनी ||५||
सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता |
सर्वश्वेतेव माहेयी वने जाता त्रिहायनी ||६||
उपातिष्ठत पाञ्चाली वाशितेव महागजम् ||६||
सा लतेव महाशालं फुल्लं गोमतितीरजम् |
बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता ||७||
सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव ||७||
वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता |
अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता ||८||
उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः |
नामृतस्य हि पापीयान्भार्यामालभ्य जीवति ||९||
तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि |
तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे ||१०||
स सम्प्रहाय शयनं राजपुत्र्या प्रबोधितः |
उपातिष्ठत मेघाभः पर्यङ्के सोपसङ्ग्रहे ||११||
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् |
केनास्यर्थेन सम्प्राप्ता त्वरितेव ममान्तिकम् ||१२||
न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे |
आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा ||१३||
सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् |
यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम् ||१४||
अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु |
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ||१५||
शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् |
गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते ||१६||
१७
द्रौपद्युवाच||
अशोच्यं नु कुतस्तस्या यस्या भर्ता युधिष्ठिरः |
जानन्सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि ||१||
यन्मां दासीप्रवादेन प्रातिकामी तदानयत् |
सभायां पार्षदो मध्ये तन्मां दहति भारत ||२||
पार्थिवस्य सुता नाम का नु जीवेत मादृशी |
अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो ||३||
वनवासगतायाश्च सैन्धवेन दुरात्मना |
परामर्शं द्वितीयं च सोढुमुत्सहते नु का ||४||
मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः |
कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ||५||
एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत |
न मां जानासि कौन्तेय किं फलं जीवितेन मे ||६||
योऽयं राज्ञो विराटस्य कीचको नाम भारत |
सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ||७||
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि |
नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ||८||
तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन् |
कालेनेव फलं पक्वं हृदयं मे विदीर्यते ||९||
भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् |
यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ||१०||
को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह |
प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् ||११||
यदि निष्कसहस्रेण यच्चान्यत्सारवद्धनम् |
सायम्प्रातरदेविष्यदपि संवत्सरान्बहून् ||१२||
रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् |
अश्वाश्वतरसङ्घांश्च न जातु क्षयमावहेत् ||१३||
सोऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः |
तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ||१४||
दश नागसहस्राणि पद्मिनां हेममालिनाम् |
यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति ||१५||
तथा शतसहस्राणि नृणाममिततेजसाम् |
उपासते महाराजमिन्द्रप्रस्थे युधिष्ठिरम् ||१६||
शतं दासीसहस्राणि यस्य नित्यं महानसे |
पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत ||१७||
एष निष्कसहस्राणि प्रदाय ददतां वरः |
द्यूतजेन ह्यनर्थेन महता समुपावृतः ||१८||
एनं हि स्वरसम्पन्ना बहवः सूतमागधाः |
सायम्प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ||१९||
सहस्रमृषयो यस्य नित्यमासन्सभासदः |
तपःश्रुतोपसम्पन्नाः सर्वकामैरुपस्थिताः ||२०||
अन्धान्वृद्धांस्तथानाथान्सर्वान्राष्ट्रेषु दुर्गतान् |
बिभर्त्यविमना नित्यमानृशंस्याद्युधिष्ठिरः ||२१||
स एष निरयं प्राप्तो मत्स्यस्य परिचारकः |
सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः ||२२||
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः |
आसन्बलिभृतः सर्वे सोऽद्यान्यैर्भृतिमिच्छति ||२३||
पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः |
स वशे विवशो राजा परेषामद्य वर्तते ||२४||
प्रताप्य पृथिवीं सर्वां रश्मिवानिव तेजसा |
सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ||२५||
यमुपासन्त राजानः सभायामृषिभिः सह |
तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ||२६||
अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंश्रितम् |
दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम् ||२७||
उपास्ते स्म सभायां यं कृत्स्ना वीर वसुन्धरा |
तमुपासीनमद्यान्यं पश्य भारत भारतम् ||२८||
एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत् |
शोकसागरमध्यस्थां किं मां भीम न पश्यसि ||२९||
१८
द्रौपद्युवाच||
इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत |
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ||१||
शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा |
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् ||२||
प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत् |
प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव ||३||
स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता |
योध्यमानं महावीर्यैरिमं समनुशोचति ||४||
कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः |
स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ ||५||
सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी |
अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ ||६||
इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत् |
क्रुध्यन्तीं मां च सम्प्रेक्ष्य समशङ्कत मां त्वयि ||७||
तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत् |
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ||८||
यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् |
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ||९||
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् |
सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ||१०||
यस्माद्भयममित्राणां सदैव पुरुषर्षभात् |
स लोकपरिभूतेन वेषेणास्ते धनञ्जयः ||११||
यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः |
स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते ||१२||
किरीटं सूर्यसङ्काशं यस्य मूर्धनि शोभते |
वेणीविकृतकेशान्तः सोऽयमद्य धनञ्जयः ||१३||
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि |
आधारः सर्वविद्यानां स धारयति कुण्डले ||१४||
यं स्म राजसहस्राणि तेजसाप्रतिमानि वै |
समरे नातिवर्तन्ते वेलामिव महार्णवः ||१५||
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा |
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ||१६||
यस्य स्म रथघोषेण समकम्पत मेदिनी |
सपर्वतवना भीम सहस्थावरजङ्गमा ||१७||
यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत |
स शोचयति मामद्य भीमसेन तवानुजः ||१८||
भूषितं तमलङ्कारैः कुण्डलैः परिहाटकैः |
कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः ||१९||
तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम् |
कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः ||२०||
यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् |
प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः ||२१||
मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम् |
पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा ||२२||
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनञ्जयम् |
अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् ||२३||
तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् |
गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत ||२४||
सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः |
न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् ||२५||
यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः ||२५||
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् |
गोषु गोवृषसङ्काशं मत्स्येनाभिनिवेशितम् ||२६||
संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् |
विराटमभिनन्दन्तमथ मे भवति ज्वरः ||२७||
सहदेवं हि मे वीरं नित्यमार्या प्रशंसति |
महाभिजनसम्पन्नो वृत्तवाञ्शीलवानिति ||२८||
ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे |
स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि ||२९||
तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् |
सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव ||३०||
यस्त्रिभिर्नित्यसम्पन्नो रूपेणास्त्रेण मेधया |
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ||३१||
अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् |
विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः ||३२||
अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् |
विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः ||३३||
किं नु मां मन्यसे पार्थ सुखितेति परन्तप |
एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ||३४||
अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत |
वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि ||३५||
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत |
शोषयन्ति शरीरं मे किं नु दुःखमतः परम् ||३६||
१९
द्रौपद्युवाच||
अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि |
शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ||१||
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप |
आसे कालमुपासीना सर्वं दुःखं किलार्तवत् ||२||
अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ |
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ||३||
य एव हेतुर्भवति पुरुषस्य जयावहः |
पराजये च हेतुः स इति च प्रतिपालये ||४||
दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे |
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ||५||
न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम् |
इति चाप्यागमं भूयो दैवस्य प्रतिपालये ||६||
स्थितं पूर्वं जलं यत्र पुनस्तत्रैव तिष्ठति |
इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः ||७||
दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते |
दैवस्य चागमे यत्नस्तेन कार्यो विजानता ||८||
यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम् |
पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते ||९||
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च |
इमामवस्थां सम्प्राप्ता का मदन्या जिजीविषेत् ||१०||
कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत |
पाण्डवेयांश्च सम्प्राप्तो मम क्लेशो ह्यरिंदम ||११||
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन् |
एवं समुदिता नारी का न्वन्या दुःखिता भवेत् ||१२||
नूनं हि बालया धातुर्मया वै विप्रियं कृतम् |
यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ ||१३||
वर्णावकाशमपि मे पश्य पाण्डव यादृशम् |
यादृशो मे न तत्रासीद्दुःखे परमके तदा ||१४||
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा |
साहं दासत्वमापन्ना न शान्तिमवशा लभे ||१५||
नादैविकमिदं मन्ये यत्र पार्थो धनञ्जयः |
भीमधन्वा महाबाहुरास्ते शान्त इवानलः ||१६||
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः |
विनिपातमिमं मन्ये युष्माकमविचिन्तितम् ||१७||
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा |
सा प्रेक्षे मुखमन्यासामवराणां वरा सती ||१८||
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा |
युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् ||१९||
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी |
आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी ||२०||
यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः |
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ||२१||
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् ||२१||
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः |
अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् ||२२||
पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा ||२२||
वैशम्पायन उवाच||
इत्यस्य दर्शयामास किणबद्धौ करावुभौ |
द्रौपद्युवाच||
बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन |
साद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी ||२४||
किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा |
नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते ||२५||
वैशम्पायन उवाच||
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी |
रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती ||२६||
सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः |
हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत् ||२७||
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा |
अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव ||२८||
ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः |
मुखमानीय वेपन्त्या रुरोद परवीरहा ||२९||
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् |
ततः परमदुःखार्त इदं वचनमब्रवीत् ||३०||
२०
भीमसेन उवाच||
धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च |
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ ||१||
सभायां स्म विराटस्य करोमि कदनं महत् |
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् ||२||
तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि ||२||
यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः |
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ||३||
दुःशासनस्य पापस्य यन्मया न हृतं शिरः |
तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम् ||४||
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ||४||
इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः |
शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम् ||५||
धनञ्जयो वा सुश्रोणि यमौ वा तनुमध्यमे |
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ||६||
सुकन्या नाम शार्याती भार्गवं च्यवनं वने |
वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी ||७||
नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता |
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ||८||
दुहिता जनकस्यापि वैदेही यदि ते श्रुता |
पतिमन्वचरत्सीता महारण्यनिवासिनम् ||९||
रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया |
क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत ||१०||
लोपामुद्रा तथा भीरु वयोरूपसमन्विता |
अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान् ||११||
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः |
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ||१२||
मादीर्घं क्षम कालं त्वं मासमध्यर्धसंमितम् |
पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि ||१३||
द्रौपद्युवाच||
आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम् |
अपारयन्त्या दुःखानि न राजानमुपालभे ||१४||
विमुक्तेन व्यतीतेन भीमसेन महाबल |
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ||१५||
ममेह भीम कैकेयी रूपाभिभवशङ्कया |
नित्यमुद्विजते राजा कथं नेयादिमामिति ||१६||
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः |
कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् ||१७||
तमहं कुपिता भीम पुनः कोपं नियम्य च |
अब्रुवं कामसंमूढमात्मानं रक्ष कीचक ||१८||
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया |
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ||१९||
एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह |
नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते ||२०||
शतं सहस्रमपि वा गन्धर्वाणामहं रणे |
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ||२१||
इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः |
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ||२२||
धर्मे स्थितास्मि सततं कुलशीलसमन्विता |
नेच्छामि कञ्चिद्वध्यन्तं तेन जीवसि कीचक ||२३||
एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा |
न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति ||२४||
पापात्मा पापभावश्च कामरागवशानुगः |
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ||२५||
दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम् ||२५||
तद्धर्मे यतमानानां महान्धर्मो नशिष्यति |
समयं रक्षमाणानां भार्या वो न भविष्यति ||२६||
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता |
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ||२७||
वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम् |
क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् ||२८||
पश्यतो धर्मराजस्य कीचको मां पदावधीत् |
तव चैव समक्षं वै भीमसेन महाबल ||२९||
त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात् |
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह ||३०||
जहीममपि पापं त्वं योऽयं मामवमन्यते |
कीचको राजवाल्लभ्याच्छोककृन्मम भारत ||३१||
तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि |
यो निमित्तमनर्थानां बहूनां मम भारत ||३२||
तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति |
विषमालोड्य पास्यामि मा कीचकवशं गमम् ||३३||
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ||३३||
वैशम्पायन उवाच||
इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता |
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च ||३४||
कीचकं मनसागच्छत्सृक्किणी परिसंलिहन् ||३४||
२१
भीमसेन उवाच||
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे |
अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् ||१||
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन सङ्गमम् |
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ||२||
यैषा नर्तनशाला वै मत्स्यराजेन कारिता |
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ||३||
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् |
तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ||४||
यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् |
कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत् ||५||
वैशम्पायन उवाच||
तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ |
रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा ||६||
तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः |
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ||७||
सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् |
न चैवालभथास्त्राणमभिपन्ना बलीयसा ||८||
प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते |
अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ||९||
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते |
अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम् ||१०||
दासीशतं च ते दद्यां दासानामपि चापरम् |
रथं चाश्वतरीयुक्तमस्तु नौ भीरु सङ्गमः ||११||
द्रौपद्युवाच||
एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक |
न त्वां सखा वा भ्राता वा जानीयात्सङ्गतं मया ||१२||
अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम् |
एवं मे प्रतिजानीहि ततोऽहं वशगा तव ||१३||
कीचक उवाच||
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे |
एको भद्रे गमिष्यामि शून्यमावसथं तव ||१४||
समागमार्थं रम्भोरु त्वया मदनमोहितः |
यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः ||१५||
द्रौपद्युवाच||
यदिदं नर्तनागारं मत्स्यराजेन कारितम् |
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ||१६||
तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते |
तत्र दोषः परिहृतो भविष्यति न संशयः ||१७||
वैशम्पायन उवाच||
तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह |
दिवसार्धं समभवन्मासेनैव समं नृप ||१८||
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः |
सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् ||१९||
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः |
अलञ्चकार सोऽऽत्मानं सत्वरः काममोहितः ||२०||
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् |
अनुचिन्तयतश्चापि तामेवायतलोचनाम् ||२१||
आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः |
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ||२२||
कृतसम्प्रत्ययस्तत्र कीचकः काममोहितः |
नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् ||२३||
ततस्तु द्रौपदी गत्वा तदा भीमं महानसे |
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ||२४||
तमुवाच सुकेशान्ता कीचकस्य मया कृतः |
सङ्गमो नर्तनागारे यथावोचः परन्तप ||२५||
शून्यं स नर्तनागारमागमिष्यति कीचकः |
एको निशि महाबाहो कीचकं तं निषूदय ||२६||
तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् |
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ||२७||
दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते |
तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर ||२८||
अश्रु दुःखाभिभूताया मम मार्जस्व भारत |
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ||२९||
भीमसेन उवाच||
स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम् |
न ह्यस्य कञ्चिदिच्छामि सहायं वरवर्णिनि ||३०||
या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे |
हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि ||३१||
सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते |
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ||३२||
तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् |
अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् ||३३||
ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुन्धराम् |
कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः ||३४||
द्रौपद्युवाच||
यथा न सन्त्यजेथास्त्वं सत्यं वै मत्कृते विभो |
निगूढस्त्वं तथा वीर कीचकं विनिपातय ||३५||
भीमसेन उवाच||
एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे |
अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते ||३६||
नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः |
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ||३७||
वैशम्पायन उवाच||
भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् |
मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ||३८||
कीचकश्चाप्यलङ्कृत्य यथाकाममुपाव्रजत् |
तां वेलां नर्तनागारे पाञ्चालीसङ्गमाशया ||३९||
मन्यमानः स सङ्केतमागारं प्राविशच्च तम् |
प्रविश्य च स तद्वेश्म तमसा संवृतं महत् ||४०||
पूर्वागतं ततस्तत्र भीममप्रतिमौजसम् |
एकान्तमास्थितं चैनमाससाद सुदुर्मतिः ||४१||
शयानं शयने तत्र मृत्युं सूतः परामृशत् |
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह ||४२||
उपसङ्गम्य चैवैनं कीचकः काममोहितः |
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ||४३||
प्रापितं ते मया वित्तं बहुरूपमनन्तकम् |
तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः ||४४||
नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः |
सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् ||४५||
भीमसेन उवाच||
दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि |
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ||४६||
वैशम्पायन उवाच||
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः |
समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् ||४७||
भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ||४७||
स केशेषु परामृष्टो बलेन बलिनां वरः |
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ||४८||
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः |
वसन्ते वाशिताहेतोर्बलवद्गजयोरिव ||४९||
ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् |
कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि ||५०||
पातितो भुवि भीमस्तु कीचकेन बलीयसा |
उत्पपाताथ वेगेन दण्डाहत इवोरगः ||५१||
स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ |
निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने ||५२||
ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः |
बलवच्चापि सङ्क्रुद्धावन्योन्यं तावगर्जताम् ||५३||
तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली |
कीचको रोषसन्तप्तः पदान्न चलितः पदम् ||५४||
मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् |
बलादहीयत तदा सूतो भीमबलार्दितः ||५५||
तं हीयमानं विज्ञाय भीमसेनो महाबलः |
वक्षस्यानीय वेगेन ममन्थैनं विचेतसम् ||५६||
क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः |
जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् ||५७||
गृहीत्वा कीचकं भीमो विरुराव महाबलः |
शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् ||५८||
तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः |
काये प्रवेशयामास पशोरिव पिनाकधृक् ||५९||
तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम् |
कृष्णायै दर्शयामास भीमसेनो महाबलः ||६०||
उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः |
पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः ||६१||
तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् |
आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम् ||६२||
कीचकं घातयित्वा तु द्रौपदी योषितां वरा |
प्रहृष्टा गतसन्तापा सभापालानुवाच ह ||६३||
कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम |
परस्त्रीकामसंमत्तः समागच्छत पश्यत ||६४||
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः |
सहसैव समाजग्मुरादायोल्काः सहस्रशः ||६५||
ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम् |
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ||६६||
क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा |
इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा ||६७||
२२
वैशम्पायन उवाच||
तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः |
रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ||१||
सर्वे संहृष्टरोमाणः सन्त्रस्ताः प्रेक्ष्य कीचकम् |
तथा सर्वाङ्गसम्भुग्नं कूर्मं स्थल इवोद्धृतम् ||२||
पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् |
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ||३||
ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः |
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ||४||
समवेतेषु सूतेषु तानुवाचोपकीचकः |
हन्यतां शीघ्रमसती यत्कृते कीचको हतः ||५||
अथ वा नेह हन्तव्या दह्यतां कामिना सह |
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ||६||
ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः |
सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ||७||
पराक्रमं तु सूतानां मत्वा राजान्वमोदत |
सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ||८||
तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् |
मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ||९||
ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् |
जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ||१०||
ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता |
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ||११||
द्रौपद्युवाच||
जयो जयन्तो विजयो जयत्सेनो जयद्बलः |
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ||१२||
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः |
व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ||१३||
रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् |
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ||१४||
वैशम्पायन उवाच||
तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः |
श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् ||१५||
भीमसेन उवाच||
अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् |
तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते ||१६||
वैशम्पायन उवाच||
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया |
ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ||१७||
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ||१७||
स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् |
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ||१८||
स तं वृक्षं दशव्यामं सस्कन्धविटपं बली |
प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः ||१९||
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः |
भूमौ निपतिता वृक्षाः सङ्घशस्तत्र शेरते ||२०||
तं सिंहमिव सङ्क्रुद्धं दृष्ट्वा गन्धर्वमागतम् |
वित्रेसुः सर्वतः सूता विषादभयकम्पिताः ||२१||
तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा |
दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः ||२२||
परस्परमथोचुस्ते विषादभयकम्पिताः ||२२||
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् |
सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् ||२३||
ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् |
विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ||२४||
द्रवतस्तांस्तु सम्प्रेक्ष्य स वज्री दानवानिव |
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ||२५||
तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते |
उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् ||२६||
अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ||२६||
एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् |
प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ||२७||
अन्येनाहं गमिष्यामि विराटस्य महानसम् ||२७||
पञ्चाधिकं शतं तच्च निहतं तत्र भारत |
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ||२८||
एवं ते निहता राजञ्शतं पञ्च च कीचकाः |
स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ||२९||
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च सङ्गताः |
विस्मयं परमं गत्वा नोचुः किञ्चन भारत ||३०||
२३
वैशम्पायन उवाच||
ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् |
गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः ||१||
यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः |
विनिकीर्णं प्रदृश्येत तथा सूता महीतले ||२||
सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् |
सर्वं संशयितं राजन्नगरं ते भविष्यति ||३||
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः |
पुंसामिष्टश्च विषयो मैथुनाय न संशयः ||४||
यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम् |
विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् ||५||
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः |
अब्रवीत्क्रियतामेषां सूतानां परमक्रिया ||६||
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने |
दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः ||७||
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः |
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् ||८||
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले |
बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् ||९||
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् |
स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ||१०||
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च |
मोक्षिता भीमसेनेन जगाम नगरं प्रति ||११||
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी |
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ||१२||
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश |
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन् ||१३||
ततो महानसद्वारि भीमसेनमवस्थितम् |
ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ||१४||
तं विस्मयन्ती शनकैः सञ्ज्ञाभिरिदमब्रवीत् |
गन्धर्वराजाय नमो येनास्मि परिमोचिता ||१५||
भीमसेन उवाच||
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः |
तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत ||१६||
वैशम्पायन उवाच||
ततः सा नर्तनागारे धनञ्जयमपश्यत |
राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् ||१७||
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः |
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ||१८||
कन्या ऊचुः||
दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता |
दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ||१९||
बृहन्नडोवाच||
कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः |
इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् ||२०||
सैरन्ध्र्युवाच||
बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै |
या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् ||२१||
न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते |
तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव ||२२||
बृहन्नडोवाच||
बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम् |
तिर्यग्योनिगता बाले न चैनामवबुध्यसे ||२३||
वैशम्पायन उवाच||
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् |
प्रविवेश सुदेष्णायाः समीपमपलायिनी ||२४||
तामब्रवीद्राजपुत्री विराटवचनादिदम् |
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ||२५||
राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् |
त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि ||२६||
सैरन्ध्र्युवाच||
त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि |
कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः ||२७||
ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् |
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ||२८||
गोग्रहणपर्व
२४
वैशम्पायन उवाच||
कीचकस्य तु घातेन सानुजस्य विशां पते |
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ||१||
तस्मिन्पुरे जनपदे सञ्जल्पोऽभूच्च सर्वशः |
शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः ||२||
आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः |
स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः ||३||
इत्यजल्पन्महाराज परानीकविशातनम् |
देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् ||४||
अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः |
मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च ||५||
संविधाय यथादिष्टं यथादेशप्रदर्शनम् |
कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति ||६||
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् |
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ||७||
सङ्गतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः |
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ||८||
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा |
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ||९||
निर्जने मृगसङ्कीर्णे नानाद्रुमलतावृते |
लताप्रतानबहुले नानागुल्मसमावृते ||१०||
न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः |
मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा ||११||
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च |
जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च ||१२||
नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान् |
अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ ||१३||
वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम |
कञ्चित्कालं मनुष्येन्द्र सूतानामनुगा वयम् ||१४||
मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः |
प्राप्ता द्वारवतीं सूता ऋते पार्थैः परन्तप ||१५||
न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता |
सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ ||१६||
न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् |
पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् ||१७||
स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते ||१७||
अन्वेषणे पाण्डवानां भूयः किं करवामहे |
इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम् ||१८||
येन त्रिगर्ता निकृता बलेन महता नृप |
सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना ||१९||
स हतः पतितः शेते गन्धर्वैर्निशि भारत |
अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत ||२०||
प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम् |
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ||२१||
२५
वैशम्पायन उवाच||
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा |
चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः ||१||
सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः |
तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः ||२||
अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः |
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ||३||
अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः |
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ||४||
क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः |
दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ||५||
अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः |
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ||६||
तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम् |
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ||७||
अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत |
अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः ||८||
चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान् |
तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च ||९||
परिचारेषु तीर्थेषु विविधेष्वाकरेषु च |
विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया ||१०||
विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः |
अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः ||११||
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च |
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ||१२||
अथाग्रजानन्तरजः पापभावानुरागिणम् |
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ||१३||
एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा |
यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः ||१४||
एते चान्ये च भूयांसो देशाद्देशं यथाविधि ||१४||
न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते |
अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः ||१५||
व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः |
अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ||१६||
तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन |
कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप ||१७||
२६
वैशम्पायन उवाच||
अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् |
न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ||१||
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः |
धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः ||२||
नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् |
धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् ||३||
अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप |
अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम् ||४||
तेषां तथा विधेयानां निभृतानां महात्मनाम् |
किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति ||५||
तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम् |
न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया ||६||
साम्प्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम् |
क्रियतां साधु सञ्चिन्त्य वासश्चैषां प्रचिन्त्यताम् ||७||
यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् |
दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः ||८||
शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः |
तेजोराशिरसङ्ख्येयो गृह्णीयादपि चक्षुषी ||९||
विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे |
ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः ||१०||
२७
वैशम्पायन उवाच||
ततः शान्तनवो भीष्मो भरतानां पितामहः |
श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् ||१||
आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत् |
हितार्थं स उवाचेमां भारतीं भारतान्प्रति ||२||
युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् |
असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा ||३||
भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् ||३||
यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् |
सर्वलक्षणसम्पन्ना नाशं नार्हन्ति पाण्डवाः ||४||
श्रुतवृत्तोपसम्पन्नाः साधुव्रतसमन्विताः |
वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः ||५||
समयं समयज्ञास्ते पालयन्तः शुचिव्रताः |
नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम् ||६||
धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः |
न नाशमधिगच्छेयुरिति मे धीयते मतिः ||७||
तत्र बुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत |
न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः ||८||
यत्तु शक्यमिहास्माभिस्तान्वै सञ्चिन्त्य पाण्डवान् |
बुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निबोध तत् ||९||
सा त्वियं साधु वक्तव्या न त्वनीतिः कथञ्चन |
वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ||१०||
अवश्यं त्विह धीरेण सतां मध्ये विवक्षता |
यथामति विवक्तव्यं सर्वशो धर्मलिप्सया ||११||
तत्र नाहं तथा मन्ये यथायमितरो जनः |
पुरे जनपदे वापि यत्र राजा युधिष्ठिरः ||१२||
नासूयको न चापीर्षुर्नातिवादी न मत्सरी |
भविष्यति जनस्तत्र स्वं स्वं धर्ममनुव्रतः ||१३||
ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च |
क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ||१४||
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः |
सम्पन्नसस्या च मही निरीतीका भविष्यति ||१५||
रसवन्ति च धान्यानि गुणवन्ति फलानि च |
गन्धवन्ति च माल्यानि शुभशब्दा च भारती ||१६||
वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् |
भयं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः ||१७||
गावश्च बहुलास्तत्र न कृशा न च दुर्दुहाः |
पयांसि दधिसर्पींषि रसवन्ति हितानि च ||१८||
गुणवन्ति च पानानि भोज्यानि रसवन्ति च |
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ||१९||
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः |
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ||२०||
स्वैः स्वैर्गुणैः सुसंयुक्तास्तस्मिन्वर्षे त्रयोदशे |
देशे तस्मिन्भविष्यन्ति तात पाण्डवसंयुते ||२१||
सम्प्रीतिमाञ्जनस्तत्र सन्तुष्टः शुचिरव्ययः |
देवतातिथिपूजासु सर्वभूतानुरागवान् ||२२||
इष्टदानो महोत्साहः शश्वद्धर्मपरायणः |
अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः ||२३||
भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः ||२३||
त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः |
शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः ||२४||
भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः ||२४||
धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः |
किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः ||२५||
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा |
ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ||२६||
तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः |
गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा ||२७||
एवमेतत्तु सञ्चिन्त्य यत्कृतं मन्यसे हितम् |
तत्क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे ||२८||
२८
वैशम्पायन उवाच||
ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा |
युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भाषितम् ||१||
धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुमत् |
तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु ||२||
तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम् |
नीतिर्विधीयतां चापि साम्प्रतं या हिता भवेत् ||३||
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता |
किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे ||४||
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु |
गूढभावेषु छन्नेषु काले चोदयमागते ||५||
स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः |
उदये पाण्डवानां च प्राप्ते काले न संशयः ||६||
निवृत्तसमयाः पार्था महात्मानो महाबलाः |
महोत्साहा भविष्यन्ति पाण्डवा ह्यतितेजसः ||७||
तस्माद्बलं च कोशं च नीतिश्चापि विधीयताम् |
यथा कालोदये प्राप्ते सम्यक्तैः संदधामहे ||८||
तात मन्यामि तत्सर्वं बुध्यस्व बलमात्मनः |
नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ||९||
उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत |
प्रहृष्टमप्रहृष्टं च संदधाम तथा परैः ||१०||
साम्ना भेदेन दानेन दण्डेन बलिकर्मणा |
न्यायेनानम्य च परान्बलाच्चानम्य दुर्बलान् ||११||
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् |
सकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि ||१२||
योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः |
अन्यैस्त्वं पाण्डवैर्वापि हीनस्वबलवाहनैः ||१३||
एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः |
यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ||१४||
२९
वैशम्पायन उवाच||
अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः |
प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् ||१||
असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह |
सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः ||२||
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो |
स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत ||३||
असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा |
प्रणेता कीचकश्चास्य बलवानभवत्पुरा ||४||
क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः |
निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् ||५||
तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः |
भविष्यति निरुत्साहो विराट इति मे मतिः ||६||
तत्र यात्रा मम मता यदि ते रोचतेऽनघ |
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ||७||
एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम् |
राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् ||८||
आददामोऽस्य रत्नानि विविधानि वसूनि च |
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ||९||
अथ वा गोसहस्राणि बहूनि च शुभानि च |
विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् ||१०||
कौरवैः सह सङ्गम्य त्रिगर्तैश्च विशां पते |
गास्तस्यापहरामाशु सह सर्वैः सुसंहताः ||११||
सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् |
हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे ||१२||
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् |
भवतो बलवृद्धिश्च भविष्यति न संशयः ||१३||
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् |
सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः ||१४||
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् |
विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ ||१५||
प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः |
आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा ||१६||
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् |
संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः ||१७||
किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः |
अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् ||१८||
यामो राजन्ननुद्विग्ना विराटविषयं वयम् |
आदास्यामो हि गास्तस्य विविधानि वसूनि च ||१९||
ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् |
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् ||२०||
शासने नित्यसंयुक्तं दुःशासनमनन्तरम् |
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ||२१||
यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः |
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः ||२२||
त्रिगर्तैः सहितो राजा समग्रबलवाहनः |
प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति ||२३||
जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् |
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ||२४||
ते यात्वा सहसा तत्र विराटनगरं प्रति |
क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् ||२५||
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च |
वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् ||२६||
स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः |
आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् ||२७||
अपरं दिवसं सर्वे राजन्सम्भूय कौरवाः |
अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः ||२८||
३०
वैशम्पायन उवाच||
ततस्तेषां महाराज तत्रैवामिततेजसाम् |
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ||१||
व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे |
कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ||२||
ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत |
सुशर्मणा गृहीतं तु गोधनं तरसा बहु ||३||
ततो जवेन महता गोपाः पुरमथाव्रजत् |
अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली ||४||
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः |
सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः ||५||
तं सभायां महाराजमासीनं राष्ट्रवर्धनम् |
सोऽब्रवीदुपसङ्गम्य विराटं प्रणतस्तदा ||६||
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् |
गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते ||७||
तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव ||७||
तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् |
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ||८||
राजानो राजपुत्राश्च तनुत्राण्यत्र भेजिरे |
भानुमन्ति विचित्राणि सूपसेव्यानि भागशः ||९||
सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम् |
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ||१०||
सर्वपारसवं वर्म कल्याणपटलं दृढम् |
शतानीकादवरजो मदिराश्वोऽभ्यहारयत् ||११||
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् |
अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ||१२||
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च |
सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत् ||१३||
दृढमायसगर्भं तु श्वेतं वर्म शताक्षिमत् |
विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ||१४||
शतशश्च तनुत्राणि यथास्वानि महारथाः |
योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः ||१५||
सूपस्करेषु शुभ्रेषु महत्सु च महारथाः |
पृथक्काञ्चनसंनाहान्रथेष्वश्वानयोजयन् ||१६||
सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः |
महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा ||१७||
अथान्यान्विविधाकारान्ध्वजान्हेमविभूषितान् |
यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ||१८||
अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् |
कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् ||१९||
युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ||१९||
एतेषामपि दीयन्तां रथा ध्वजपताकिनः |
कवचानि विचित्राणि दृढानि च मृदूनि च ||२०||
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ||२०||
वीराङ्गरूपाः पुरुषा नागराजकरोपमाः |
नेमे जातु न युध्येरन्निति मे धीयते मतिः ||२१||
एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः |
शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् ||२२||
सहदेवाय राज्ञे च भीमाय नकुलाय च ||२२||
तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः |
निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् ||२३||
कवचानि विचित्राणि दृढानि च मृदूनि च |
विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् ||२४||
तान्यामुच्य शरीरेषु दंशितास्ते परन्तपाः ||२४||
तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः |
विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः ||२५||
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ||२५||
भीमाश्च मत्तमातङ्गाः प्रभिन्नकरटामुखाः |
क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः ||२६||
स्वारूढा युद्धकुशलैः शिक्षितैर्हस्तिसादिभिः |
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ||२७||
विशारदानां वश्यानां हृष्टानां चानुयायिनाम् |
अष्टौ रथसहस्राणि दश नागशतानि च ||२८||
षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः ||२८||
तदनीकं विराटस्य शुशुभे भरतर्षभ |
सम्प्रयातं महाराज निनीषन्तं गवां पदम् ||२९||
तद्बलाग्र्यं विराटस्य सम्प्रस्थितमशोभत |
दृढायुधजनाकीर्णं गजाश्वरथसङ्कुलम् ||३०||
३१
वैशम्पायन उवाच||
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः |
त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति ||१||
ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः |
अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः ||२||
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः |
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ||३||
तेषां समागमो घोरस्तुमुलो लोमहर्षणः |
देवासुरसमो राजन्नासीत्सूर्ये विलम्बति ||४||
उदतिष्ठद्रजो भौमं न प्रज्ञायत किञ्चन |
पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः ||५||
इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत |
खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत ||६||
रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् |
पततां लोकवीराणां सव्यदक्षिणमस्यताम् ||७||
रथा रथैः समाजग्मुः पादातैश्च पदातयः |
सादिभिः सादिनश्चैव गजैश्चापि महागजाः ||८||
असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि |
संरब्धाः समरे राजन्निजघ्नुरितरेतरम् ||९||
निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः |
न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् ||१०||
कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलङ्कृतम् |
अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् ||११||
अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः |
शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे ||१२||
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः |
आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ||१३||
उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता |
कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत ||१४||
शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् |
प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ ||१५||
आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि ||१५||
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् |
जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः ||१६||
विराटस्तत्र सङ्ग्रामे हत्वा पञ्चशतान्रथान् |
हयानां च शतान्यत्र हत्वा पञ्च महारथान् ||१७||
चरन्स विविधान्मार्गान्रथेषु रथयूथपः |
त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ||१८||
तौ व्यावहरतां तत्र महात्मानौ महाबलौ |
अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव ||१९||
ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः |
शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव ||२०||
अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ |
कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ ||२१||
ततो राजा सुशर्माणं विव्याध दशभिः शरैः |
पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् ||२२||
तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः |
पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् ||२३||
ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः |
नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते ||२४||
३२
वैशम्पायन उवाच||
तमसाभिप्लुते लोके रजसा चैव भारत |
व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः ||१||
ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः |
कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि ||२||
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत |
घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् ||३||
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा |
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ||४||
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ |
गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् ||५||
तथैव तेषां तु बलानि तानि; क्रुद्धान्यथान्योन्यमभिद्रवन्ति |
गदासिखड्गैश्च परश्वधैश्च; प्रासैश्च तीक्ष्णाग्रसुपीतधारैः ||६||
बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा |
प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटमोजस्विनमभ्यधावत् ||७||
तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी |
विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् ||८||
तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव |
स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः ||९||
तस्मिन्गृहीते विरथे विराटे बलवत्तरे |
प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम् ||१०||
तेषु सन्त्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः |
अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम् ||११||
मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा |
तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम् ||१२||
उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः |
भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः ||१३||
भीमसेन उवाच||
अहमेनं परित्रास्ये शासनात्तव पार्थिव |
पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः ||१४||
स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह |
एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम् ||१५||
सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः |
एनमेव समारुज्य द्रावयिष्यामि शात्रवान् ||१६||
वैशम्पायन उवाच||
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् |
अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ||१७||
मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः |
मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् ||१८||
जनाः समवबुध्येरन्भीमोऽयमिति भारत ||१८||
अन्यदेवायुधं किञ्चित्प्रतिपद्यस्व मानुषम् |
चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् ||१९||
यदेव मानुषं भीम भवेदन्यैरलक्षितम् |
तदेवायुधमादाय मोक्षयाशु महीपतिम् ||२०||
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ |
व्यूहतः समरे तात मत्स्यराजं परीप्सतः ||२१||
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् |
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ||२२||
तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः |
वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् ||२३||
सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः |
भीमः सप्तशतान्योधान्परलोकमदर्शयत् ||२४||
नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ||२४||
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् |
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ||२५||
भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ ||२५||
ततो युधिष्ठिरो राजा त्वरमाणो महारथः |
अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम् ||२६||
सुशर्मापि सुसङ्क्रुद्धस्त्वरमाणो युधिष्ठिरम् |
अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् ||२७||
ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः |
समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् ||२८||
पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः |
अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत् ||२९||
चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः |
स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा ||३०||
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः |
गदामस्य परामृश्य तमेवाजघ्निवान्बली ||३१||
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ||३१||
भीमस्तु भीमसङ्काशो रथात्प्रस्कन्द्य कुण्डली |
त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा ||३२||
तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे |
अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् ||३३||
निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः |
अवजित्य सुशर्माणं धनं चादाय सर्वशः ||३४||
स्वबाहुबलसम्पन्ना ह्रीनिषेधा यतव्रताः |
सङ्ग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ||३५||
ततो विराटः कौन्तेयानतिमानुषविक्रमान् |
अर्चयामास वित्तेन मानेन च महारथान् ||३६||
विराट उवाच||
यथैव मम रत्नानि युष्माकं तानि वै तथा |
कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् ||३७||
ददान्यलङ्कृताः कन्या वसूनि विविधानि च |
मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ||३८||
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह |
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ||३९||
वैशम्पायन उवाच||
तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक् |
ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः ||४०||
प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते |
एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः ||४१||
अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम् |
पुनरेव महाबाहुर्विराटो राजसत्तमः ||४२||
एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान् ||४२||
मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण |
तत्तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान् ||४३||
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा |
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते ||४४||
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च |
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ||४५||
ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत |
प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे ||४६||
आनृशंस्यपरो नित्यं सुसुखः सततं भव |
गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव ||४७||
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ||४७||
ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् |
आचक्षध्वं पुरं गत्वा सङ्ग्रामे विजयं मम ||४८||
कुमाराः समलङ्कृत्य पर्यागच्छन्तु मे पुरात् |
वादित्राणि च सर्वाणि गणिकाश्च स्वलङ्कृताः ||४९||
ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति |
विराटस्य पुराभ्याशे दूता जयमघोषयन् ||५०||
३३
वैशम्पायन उवाच||
याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति |
दुर्योधनः सहामात्यो विराटमुपयादथ ||१||
भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित् |
द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः ||२||
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् |
दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः ||३||
एते मत्स्यानुपागम्य विराटस्य महीपतेः |
घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा ||४||
षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते |
महता रथवंशेन परिवार्य समन्ततः ||५||
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः |
आरावः सुमहानासीत्सम्प्रहारे भयङ्करे ||६||
गवाध्यक्षस्तु सन्त्रस्तो रथमास्थाय सत्वरः |
जगाम नगरायैव परिक्रोशंस्तदार्तवत् ||७||
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः |
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ||८||
दृष्ट्वा भूमिञ्जयं नाम पुत्रं मत्स्यस्य मानिनम् |
तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ||९||
षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते |
तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् ||१०||
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् |
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ||११||
त्वया परिषदो मध्ये श्लाघते स नराधिपः |
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ||१२||
इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः |
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ||१३||
आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर |
निर्दहैषामनीकानि भीमेन शरतेजसा ||१४||
धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः |
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ||१५||
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् |
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ||१६||
श्वेता रजतसङ्काशा रथे युज्यन्तु ते हयाः |
ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः ||१७||
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया |
छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः ||१८||
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् |
यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ||१९||
त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः |
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ||२०||
स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयङ्करम् |
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ||२१||
३४
उत्तर उवाच||
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् |
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ||१||
तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः |
पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः ||२||
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः |
यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः ||३||
स लभेयं यदि त्वन्यं हययानविदं नरम् |
त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् ||४||
विगाह्य तत्परानीकं गजवाजिरथाकुलम् |
शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् ||५||
दुर्योधनं शान्तनवं कर्णं वैकर्तनं कृपम् |
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ||६||
वित्रासयित्वा सङ्ग्रामे दानवानिव वज्रभृत् |
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ||७||
शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम् |
किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् ||८||
पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः |
किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते ||९||
वैशम्पायन उवाच||
तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः |
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ||१०||
अथैनमुपसङ्गम्य स्त्रीमध्यात्सा तपस्विनी |
व्रीडमानेव शनकैरिदं वचनमब्रवीत् ||११||
योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः |
बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः ||१२||
धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः |
दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति ||१३||
यदा तत्पावको दावमदहत्खाण्डवं महत् |
अर्जुनस्य तदानेन सङ्गृहीता हयोत्तमाः ||१४||
तेन सारथिना पार्थः सर्वभूतानि सर्वशः |
अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः ||१५||
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी |
अस्याः स वचनं वीर करिष्यति न संशयः ||१६||
यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम् |
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ||१७||
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत |
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् ||१८||
सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् |
यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः ||१९||
३५
वैशम्पायन उवाच||
स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा |
प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत ||१||
तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम् |
प्रणयं भावयन्ती स्म सखीमध्य इदं वचः ||२||
गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे |
तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः ||३||
नचिरं च हतस्तस्य सङ्ग्रामे रथसारथिः |
तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत् ||४||
तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे |
आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव ||५||
सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे |
पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः ||६||
अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि |
प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम् ||७||
एवमुक्तस्तु सुश्रोण्या तया सख्या परन्तपः |
जगाम राजपुत्रस्य सकाशममितौजसः ||८||
तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् |
अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव ||९||
दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत |
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ||१०||
पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः |
सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् ||११||
संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे |
कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः ||१२||
अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा |
त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः ||१३||
एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा |
का शक्तिर्मम सारथ्यं कर्तुं सङ्ग्राममूर्धनि ||१४||
गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् |
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि ||१५||
उत्तर उवाच||
बृहन्नडे गायनो वा नर्तनो वा पुनर्भव |
क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् ||१६||
वैशम्पायन उवाच||
स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु |
उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम ||१७||
ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत |
कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः ||१८||
स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः |
कवचेन महार्हेण समनह्यद्बृहन्नडाम् ||१९||
स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम् |
ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् ||२०||
धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून् |
आदाय प्रययौ वीरः स बृहन्नडसारथिः ||२१||
अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा |
बृहन्नडे आनयेथा वासांसि रुचिराणि नः ||२२||
पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च |
विजित्य सङ्ग्रामगतान्भीष्मद्रोणमुखान्कुरून् ||२३||
अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः |
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः ||२४||
यद्युत्तरोऽयं सङ्ग्रामे विजेष्यति महारथान् |
अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च ||२५||
एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् |
कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः ||२६||
३६
वैशम्पायन उवाच||
स राजधान्या निर्याय वैराटिः पृथिवीञ्जयः |
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ||१||
समवेतान्कुरून्यावज्जिगीषूनवजित्य वै |
गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम् ||२||
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः |
ते हया नरसिंहेन चोदिता वातरंहसः ||३||
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ||३||
नातिदूरमथो यात्वा मत्स्यपुत्रधनञ्जयौ |
अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् ||४||
श्मशानमभितो गत्वा आससाद कुरूनथ ||४||
तदनीकं महत्तेषां विबभौ सागरस्वनम् |
सर्पमाणमिवाकाशे वनं बहुलपादपम् ||५||
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता |
दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम ||६||
तदनीकं महद्दृष्ट्वा गजाश्वरथसङ्कुलम् |
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ||७||
द्रोणेन च सपुत्रेण महेष्वासेन धीमता |
हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत् ||८||
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे |
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् ||९||
प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् ||९||
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् |
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ||१०||
दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे ||१०||
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः |
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ||११||
दुर्योधनस्तथा वीरो राजा च रथिनां वरः |
द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ||१२||
दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः |
हृषितानि च रोमाणि कश्मलं चागतं मम ||१३||
वैशम्पायन उवाच||
अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः |
परिदेवयते मन्दः सकाशे सव्यसाचिनः ||१४||
त्रिगर्तान्मे पिता यातः शून्ये सम्प्रणिधाय माम् |
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ||१५||
सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः |
प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे ||१६||
अर्जुन उवाच||
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः |
न च तावत्कृतं किञ्चित्परैः कर्म रणाजिरे ||१७||
स्वयमेव च मामात्थ वह मां कौरवान्प्रति |
सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ||१८||
मध्यमामिषगृध्राणां कुरूणामाततायिनाम् |
नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम् ||१९||
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च |
कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे ||२०||
न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि |
प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च सङ्गताः ||२१||
अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि |
न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ||२२||
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च |
कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव ||२३||
उत्तर उवाच||
कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् |
प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे ||२४||
वैशम्पायन उवाच||
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली |
त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः ||२५||
बृहन्नडोवाच||
नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् |
श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम् ||२६||
वैशम्पायन उवाच||
एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात् |
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ||२७||
दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी ||२७||
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा |
सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम् ||२८||
तं शीघ्रमभिधावन्तं सम्प्रेक्ष्य कुरवोऽब्रुवन् |
क एष वेषप्रच्छन्नो भस्मनेव हुताशनः ||२९||
किञ्चिदस्य यथा पुंसः किञ्चिदस्य यथा स्त्रियः |
सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च ||३०||
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ |
तद्वदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ||३१||
अमरेष्विव देवेन्द्रो मानुषेषु धनञ्जयः |
एकः कोऽस्मानुपायायादन्यो लोके धनञ्जयात् ||३२||
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे |
स एष किल निर्यातो बालभावान्न पौरुषात् ||३३||
सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् |
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः ||३४||
स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति |
तं नूनमेष धावन्तं जिघृक्षति धनञ्जयः ||३५||
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् |
न च व्यवसितुं किञ्चिदुत्तरं शक्नुवन्ति ते ||३६||
छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत ||३६||
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः |
गत्वा पदशतं तूर्णं केशपक्षे परामृशत् ||३७||
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् |
बहुलं कृपणं चैव विराटस्य सुतस्तदा ||३८||
शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते |
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् ||३९||
हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः |
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे ||४०||
वैशम्पायन उवाच||
एवमादीनि वाक्यानि विलपन्तमचेतसम् |
प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत् ||४१||
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् |
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन ||४२||
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ||४२||
प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः |
अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः ||४३||
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप |
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ||४४||
प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् |
यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह ||४५||
एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः |
समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ ||४६||
तत एनं विचेष्टन्तमकामं भयपीडितम् |
रथमारोपयामास पार्थः प्रहरतां वरः ||४७||
३७
वैशम्पायन उवाच||
तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुङ्गवम् |
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ||१||
भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः |
वित्रस्तमनसः सर्वे धनञ्जयकृताद्भयात् ||२||
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् |
गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत ||३||
चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः |
भस्मवर्णप्रकाशेन तमसा संवृतं नभः ||४||
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः |
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ||५||
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः |
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ||६||
यादृशान्यत्र रूपाणि संदृश्यन्ते बहून्यपि |
यत्ता भवन्तस्तिष्ठन्तु स्याद्युद्धं समुपस्थितम् ||७||
रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि |
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ||८||
एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः |
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ||९||
स एष पार्थो विक्रान्तः सव्यसाची परन्तपः |
नायुद्धेन निवर्तेत सर्वैरपि मरुद्गणैः ||१०||
क्लेशितश्च वने शूरो वासवेन च शिक्षितः |
अमर्षवशमापन्नो योत्स्यते नात्र संशयः ||११||
नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः |
महादेवोऽपि पार्थेन श्रूयते युधि तोषितः ||१२||
कर्ण उवाच||
सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे |
न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा ||१३||
दुर्योधन उवाच||
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम |
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान् ||१४||
अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः |
शरैरेनं सुनिशितैः पातयिष्यामि भूतले ||१५||
वैशम्पायन उवाच||
तस्मिन्ब्रुवति तद्वाक्यं धार्तराष्ट्रे परन्तपे |
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ||१६||
३८
वैशम्पायन उवाच||
तां शमीमुपसङ्गम्य पार्थो वैराटिमब्रवीत् |
सुकुमारं समाज्ञातं सङ्ग्रामे नातिकोविदम् ||१||
समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर |
नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् ||२||
भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् |
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः ||३||
तस्माद्भूमिञ्जयारोह शमीमेतां पलाशिनीम् |
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत ||४||
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा |
ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च ||५||
अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् |
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ||६||
व्यायामसहमत्यर्थं तृणराजसमं महत् |
सर्वायुधमहामात्रं शत्रुसम्बाधकारकम् ||७||
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् |
अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् ||८||
तादृशान्येव सर्वाणि बलवन्ति दृढानि च ||८||
उत्तर उवाच||
अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् |
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ||९||
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना |
महता राजपुत्रेण मन्त्रयज्ञविदा सता ||१०||
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् |
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे ||११||
बृहन्नडोवाच||
व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि |
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ||१२||
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् |
कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज ||१३||
वैशम्पायन उवाच||
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली |
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ||१४||
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः |
परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद ||१५||
तथा संनहनान्येषां परिमुच्य समन्ततः |
अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह ||१६||
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् |
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ||१७||
स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् |
हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत ||१८||
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च |
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ||१९||
उत्तर उवाच||
बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः |
सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् ||२०||
वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः |
सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् ||२१||
तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः |
पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् ||२२||
सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः |
तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् ||२३||
शालभा यत्र सौवर्णास्तपनीयविचित्रिताः |
सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् ||२४||
इमे च कस्य नाराचाः सहस्रा लोमवाहिनः |
समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये ||२५||
विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः |
हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः ||२६||
कस्यायमसितावापः पञ्चशार्दूललक्षणः |
वराहकर्णव्यामिश्रः शरान्धारयते दश ||२७||
कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः |
शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः ||२८||
कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः |
उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः ||२९||
कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः |
वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् ||३०||
सुफलश्चित्रकोशश्च किङ्किणीसायको महान् |
कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः ||३१||
कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः |
हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ||३२||
कस्य पाञ्चनखे कोशे सायको हेमविग्रहः |
प्रमाणरूपसम्पन्नः पीत आकाशसंनिभः ||३३||
कस्य हेममये कोशे सुतप्ते पावकप्रभे |
निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः ||३४||
निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे |
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ||३५||
बृहन्नडोवाच||
यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम् |
गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः ||३६||
सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् |
एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम् ||३७||
यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम् |
येन देवान्मनुष्यांश्च पार्थो विषहते मृधे ||३८||
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः |
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ||३९||
ततोऽनन्तरमेवाथ प्रजापतिरधारयत् |
त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च ||४०||
सोमः पञ्चशतं राजा तथैव वरुणः शतम् |
पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः ||४१||
महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम् |
पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः ||४२||
सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः |
येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परन्तपः ||४३||
इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम् |
राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम् ||४४||
सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः |
तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम् ||४५||
शलभा यत्र सौवर्णास्तपनीयविचित्रिताः |
एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम् ||४६||
ये त्विमे क्षुरसङ्काशाः सहस्रा लोमवाहिनः |
एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः ||४७||
एते ज्वलन्तः सङ्ग्रामे तेजसा शीघ्रगामिनः |
भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून् ||४८||
ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः |
एते भीमस्य निशिता रिपुक्षयकराः शराः ||४९||
हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः |
नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः ||५०||
येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे |
कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः ||५१||
ये त्विमे भास्कराकाराः सर्वपारशवाः शराः |
एते चित्राः क्रियोपेताः सहदेवस्य धीमतः ||५२||
ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः |
हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः ||५३||
यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः |
अर्जुनस्यैष सङ्ग्रामे गुरुभारसहो दृढः ||५४||
वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः |
गुरुभारसहो दिव्यः शात्रवाणां भयङ्करः ||५५||
सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः |
निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः ||५६||
यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने |
नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः ||५७||
यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः |
सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम् ||५८||
३९
उत्तर उवाच||
सुवर्णविकृतानीमान्यायुधानि महात्मनाम् |
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ||१||
क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः |
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ||२||
सर्व एव महात्मानः सर्वामित्रविनाशनाः |
राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन ||३||
द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता |
जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् ||४||
अर्जुन उवाच||
अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः |
बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः ||५||
अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले |
सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः ||६||
उत्तर उवाच||
दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे |
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ||७||
अर्जुन उवाच||
हन्त तेऽहं समाचक्षे दश नामानि यानि मे |
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः ||८||
बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ||८||
उत्तर उवाच||
केनासि विजयो नाम केनासि श्वेतवाहनः |
किरीटी नाम केनासि सव्यसाची कथं भवान् ||९||
अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च |
धनञ्जयश्च केनासि प्रब्रूहि मम तत्त्वतः ||१०||
श्रुता मे तस्य वीरस्य केवला नामहेतवः ||१०||
अर्जुन उवाच||
सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम् |
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम् ||११||
अभिप्रयामि सङ्ग्रामे यदहं युद्धदुर्मदान् |
नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ||१२||
श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः |
सङ्ग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ||१३||
उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा |
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ||१४||
पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः |
किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् ||१५||
न कुर्यां कर्म बीभत्सं युध्यमानः कथञ्चन |
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ||१६||
उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे |
तेन देवमनुष्येषु सव्यसाचीति मां विदुः ||१७||
पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः |
करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः ||१८||
अहं दुरापो दुर्धर्षो दमनः पाकशासनिः |
तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः ||१९||
कृष्ण इत्येव दशमं नाम चक्रे पिता मम |
कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै ||२०||
वैशम्पायन उवाच||
ततः पार्थं स वैराटिरभ्यवादयदन्तिकात् |
अहं भूमिञ्जयो नाम नाम्नाहमपि चोत्तरः ||२१||
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनञ्जय |
लोहिताक्ष महाबाहो नागराजकरोपम ||२२||
यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम ||२२||
यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् |
अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि ||२३||
४०
उत्तर उवाच||
आस्थाय विपुलं वीर रथं सारथिना मया |
कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ||१||
अर्जुन उवाच||
प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव |
सर्वान्नुदामि ते शत्रून्रणे रणविशारद ||२||
स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह |
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत् ||३||
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे |
एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ||४||
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ||४||
सङ्कल्पपक्षविक्षेपं बाहुप्राकारतोरणम् |
त्रिदण्डतूणसम्बाधमनेकध्वजसङ्कुलम् ||५||
ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि |
नगरं ते मया गुप्तं रथोपस्थं भविष्यति ||६||
अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्वना |
अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ||७||
उत्तर उवाच||
बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि |
केशवेनापि सङ्ग्रामे साक्षादिन्द्रेण वा समम् ||८||
इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् |
निश्चयं चापि दुर्मेधा न गच्छामि कथञ्चन ||९||
एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च |
केन कर्मविपाकेन क्लीबत्वमिदमागतम् ||१०||
मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् |
गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् ||११||
अर्जुन उवाच||
भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् |
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ||१२||
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः |
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ||१३||
उत्तर उवाच||
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा |
न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः ||१४||
सहायवानस्मि रणे युध्येयममरैरपि |
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ||१५||
अहं ते सङ्ग्रहीष्यामि हयाञ्शत्रुरथारुजः |
शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ ||१६||
दारुको वासुदेवस्य यथा शक्रस्य मातलिः |
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ||१७||
यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् |
दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः ||१८||
योऽयं धुरं धुर्यवरो वामं वहति शोभनः |
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ||१९||
योऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः |
वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् ||२०||
योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः |
बलाहकादपि मतः स जवे वीर्यवत्तरः ||२१||
त्वामेवायं रथो वोढुं सङ्ग्रामेऽर्हति धन्विनम् |
त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम ||२२||
वैशम्पायन उवाच||
ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान् |
चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत्तले शुभे ||२३||
कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा |
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ||२४||
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः |
यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः ||२५||
सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् |
भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम् ||२६||
तं शब्दं कुरवोऽजानन्विस्फोटमशनेरिव |
यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे ||२७||
४१
वैशम्पायन उवाच||
उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् |
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ||१||
ध्वजं सिंहं रथात्तस्मादपनीय महारथः |
प्रणिधाय शमीमूले प्रायादुत्तरसारथिः ||२||
दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा |
काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् ||३||
मनसा चिन्तयामास प्रसादं पावकस्य च |
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् ||४||
सपताकं विचित्राङ्गं सोपासङ्गं महारथः |
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः ||५||
बद्धासिः सतनुत्राणः प्रगृहीतशरासनः |
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ||६||
स्वनवन्तं महाशङ्खं बलवानरिमर्दनः |
प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् ||७||
ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् |
उत्तरश्चापि सन्त्रस्तो रथोपस्थ उपाविशत् ||८||
संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः |
उत्तरं च परिष्वज्य समाश्वासयदर्जुनः ||९||
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप |
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ||१०||
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः |
कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् ||११||
स त्वं कथमिहानेन शङ्खशब्देन भीषितः |
विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ||१२||
उत्तर उवाच||
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः |
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् ||१३||
नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः |
ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् ||१४||
धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् ||१४||
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च |
रथस्य च निनादेन मनो मुह्यति मे भृशम् ||१५||
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे |
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे ||१६||
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ||१६||
अर्जुन उवाच||
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय |
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ||१७||
वैशम्पायन उवाच||
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च |
गाण्डीवस्य च घोषेण पृथिवी समकम्पत ||१८||
द्रोण उवाच||
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते |
कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः ||१९||
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः |
अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम् ||२०||
प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः |
ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम् ||२१||
शकुनाश्चापसव्या नो वेदयन्ति महद्भयम् ||२१||
गोमायुरेष सेनाया रुवन्मध्येऽनुधावति |
अनाहतश्च निष्क्रान्तो महद्वेदयते भयम् ||२२||
भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये ||२२||
पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति |
विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ||२३||
गाः सम्प्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः ||२३||
४२
वैशम्पायन उवाच||
अथ दुर्योधनो राजा समरे भीष्ममब्रवीत् |
द्रोणं च रथशार्दूलं कृपं च सुमहारथम् ||१||
उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत् |
पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् ||२||
पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान् |
वने जनपदेऽज्ञातैरेष एव पणो हि नः ||३||
तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम् |
अज्ञातवासं बीभत्सुरथास्माभिः समागतः ||४||
अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः |
पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः ||५||
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् |
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ||६||
अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः |
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ||७||
उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम् |
यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः ||८||
त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः |
मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन् ||९||
तेषां भयाभिपन्नानां तदस्माभिः प्रतिश्रुतम् |
प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत् ||१०||
सप्तमीमपराह्णे वै तथा नस्तैः समाहितम् |
अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति ||११||
ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः |
अस्मान्वाप्यतिसन्धाय कुर्युर्मत्स्येन सङ्गतम् ||१२||
अथ वा तानुपायातो मत्स्यो जानपदैः सह |
सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः ||१३||
तेषामेव महावीर्यः कश्चिदेव पुरःसरः |
अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत् ||१४||
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः |
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ||१५||
अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः |
भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च ||१६||
सम्भ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः |
नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम् ||१७||
आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा |
यमेन वापि सङ्ग्रामे को हास्तिनपुरं व्रजेत् ||१८||
शरैरभिप्रणुन्नानां भग्नानां गहने वने |
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ||१९||
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ||१९||
जानाति हि मतं तेषामतस्त्रासयतीव नः |
अर्जुनेनास्य सम्प्रीतिमधिकामुपलक्षये ||२०||
तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति |
यथा सेना न भज्येत तथा नीतिर्विधीयताम् ||२१||
अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता |
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ||२२||
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे |
स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः ||२३||
सदा च वायवो वान्ति नित्यं वर्षति वासवः |
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ||२४||
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते |
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात् ||२५||
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः |
नैते महाभये प्राप्ते सम्प्रष्टव्याः कथञ्चन ||२६||
प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च |
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः ||२७||
बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि |
इष्वस्त्रे चारुसन्धाने पण्डितास्तत्र शोभनाः ||२८||
परेषां विवरज्ञाने मनुष्याचरितेषु च |
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ||२९||
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः |
विधीयतां तथा नीतिर्यथा वध्येत वै परः ||३०||
गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् |
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान् ||३१||
४३
कर्ण उवाच||
सर्वानायुष्मतो भीतान्सन्त्रस्तानिव लक्षये |
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ||१||
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः |
अहमावारयिष्यामि वेलेव मकरालयम् ||२||
मम चापप्रमुक्तानां शराणां नतपर्वणाम् |
नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम् ||३||
रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया |
छादयन्तु शराः पार्थं शलभा इव पादपम् ||४||
शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् |
श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव ||५||
समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च |
जातस्नेहश्च युद्धस्य मयि सम्प्रहरिष्यति ||६||
पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव |
शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः ||७||
एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः |
अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित् ||८||
इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः |
दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम् ||९||
अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम् |
धार्तराष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम् ||१०||
अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम् |
शलभानामिवाकाशे प्रचारः सम्प्रदृश्यताम् ||११||
इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् |
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ||१२||
तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम् |
पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान् ||१३||
अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् |
शरधारो महामेघः शमयिष्यामि पाण्डवम् ||१४||
मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः |
शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः ||१५||
जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात् |
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ||१६||
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया |
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ||१७||
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् |
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ||१८||
अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम् |
समूलमुद्धरिष्यामि बीभत्सुं पातयन्रथात् ||१९||
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् |
निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ||२०||
कामं गच्छन्तु कुरवो धनमादाय केवलम् |
रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ||२१||
४४
कृप उवाच||
सदैव तव राधेय युद्धे क्रूरतरा मतिः |
नार्थानां प्रकृतिं वेत्थ नानुबन्धमवेक्षसे ||१||
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः |
तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः ||२||
देशकालेन संयुक्तं युद्धं विजयदं भवेत् |
हीनकालं तदेवेह फलवन्न भवत्युत ||३||
देशे काले च विक्रान्तं कल्याणाय विधीयते ||३||
आनुकूल्येन कार्याणामन्तरं संविधीयताम् |
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः ||४||
परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः |
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ||५||
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् |
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् ||६||
अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत् ||६||
एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत |
एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः ||७||
एको गन्धर्वराजानं चित्रसेनमरिंदमः |
विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ||८||
तथा निवातकवचाः कालखञ्जाश्च दानवाः |
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ||९||
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा |
एकैकेन यथा तेषां भूमिपाला वशीकृताः ||१०||
इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति |
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ||११||
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् |
अविमृश्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ||१२||
अथ वा कुञ्जरं मत्तमेक एव चरन्वने |
अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि ||१३||
समिद्धं पावकं वापि घृतमेदोवसाहुतम् |
घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि ||१४||
आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम् |
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम पौरुषम् ||१५||
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः |
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ||१६||
अस्माभिरेष निकृतो वर्षाणीह त्रयोदश |
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ||१७||
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् |
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ||१८||
सह युध्यामहे पार्थमागतं युद्धदुर्मदम् |
सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः ||१९||
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् |
सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः ||२०||
वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम् |
षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः ||२१||
व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः |
युध्यामहेऽर्जुनं सङ्ख्ये दानवा वासवं यथा ||२२||
४५
अश्वत्थामोवाच||
न च तावज्जिता गावो न च सीमान्तरं गताः |
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ||१||
सङ्ग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम् |
विजित्य च परां भूमिं नाहुः किञ्चन पौरुषम् ||२||
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः |
तूष्णीं धारयते लोकान्वसुधा सचराचरान् ||३||
चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः |
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ||४||
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च |
क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत् ||५||
वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् ||५||
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् |
सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि ||६||
प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति |
तथा नृशंसरूपेण यथान्यः प्राकृतो जनः ||७||
तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः |
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ||८||
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम् |
नकुलं सहदेवं च धनं येषां त्वया हृतम् ||९||
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः |
इन्द्रप्रस्थं त्वया कस्मिन्सङ्ग्रामे निर्जितं पुरा ||१०||
तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया |
एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला ||११||
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा |
कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत् ||१२||
यथाशक्ति मनुष्याणां शममालक्षयामहे |
अन्येषां चैव सत्त्वानामपि कीटपिपीलिके ||१३||
द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति |
दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ||१४||
त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि |
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ||१५||
नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान् |
भयादिह न युध्येत कुन्तीपुत्रो धनञ्जयः ||१६||
यं यमेषोऽभिसङ्क्रुद्धः सङ्ग्रामेऽभिपतिष्यति |
वृक्षं गरुडवेगेन विनिहत्य तमेष्यति ||१७||
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् |
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ||१८||
दैवं दैवेन युध्येत मानुषेण च मानुषम् |
अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान् ||१९||
पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः |
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ||२०||
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः |
यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् ||२१||
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः |
दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह ||२२||
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च |
ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम् ||२३||
न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः |
अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः ||२४||
अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः |
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ||२५||
युध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् |
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम् ||२६||
४६
भीष्म उवाच||
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति |
कर्णस्तु क्षत्रधर्मेण यथावद्योद्धुमिच्छति ||१||
आचार्यो नाभिषक्तव्यः पुरुषेण विजानता |
देशकालौ तु सम्प्रेक्ष्य योद्धव्यमिति मे मतिः ||२||
यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः |
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ||३||
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः |
तस्माद्राजन्ब्रवीम्येष वाक्यं ते यदि रोचते ||४||
कर्णो यदभ्यवोचन्नस्तेजःसञ्जननाय तत् |
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ||५||
नायं कालो विरोधस्य कौन्तेये समुपस्थिते |
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ||६||
भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा |
यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते ||७||
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ||७||
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते |
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुमः ||८||
अन्यत्र भारताचार्यात्सपुत्रादिति मे मतिः |
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ||९||
आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने |
सर्वे संहत्य युध्यामः पाकशासनिमागतम् ||१०||
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः |
मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः ||११||
अश्वत्थामोवाच||
आचार्य एव क्षमतां शान्तिरत्र विधीयताम् |
अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम् ||१२||
वैशम्पायन उवाच||
ततो दुर्योधनो द्रोणं क्षमयामास भारत |
सह कर्णेन भीष्मेण कृपेण च महात्मना ||१३||
द्रोण उवाच||
यदेव प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत् |
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ||१४||
यथा दुर्योधनेऽयत्ते नागः स्पृशति सैनिकान् |
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ||१५||
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः |
धनं वालभमानोऽत्र नाद्य नः क्षन्तुमर्हति ||१६||
यथा नायं समायुज्याद्धार्तराष्ट्रान्कथञ्चन |
यथा च न पराजय्यात्तथा नीतिर्विधीयताम् ||१७||
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् |
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ||१८||
४७
भीष्म उवाच||
कलांशास्तात युज्यन्ते मुहूर्ताश्च दिनानि च |
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ||१||
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि |
एवं कालविभागेन कालचक्रं प्रवर्तते ||२||
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् |
पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः ||३||
तेषामभ्यधिका मासाः पञ्च द्वादश च क्षपाः |
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ||४||
सर्वं यथावच्चरितं यद्यदेभिः परिश्रुतम् |
एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः ||५||
सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः |
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ||६||
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् |
न चापि केवलं राज्यमिच्छेयुस्तेऽनुपायतः ||७||
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः |
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ||८||
यच्चानृत इति ख्यायेद्यच्च गच्छेत्पराभवम् |
वृणुयुर्मरणं पार्था नानृतत्वं कथञ्चन ||९||
प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः |
अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः ||१०||
प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम् |
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् ||११||
तत्संविधीयतां क्षिप्रं मा नो ह्यर्थोऽतिगात्परान् ||११||
न हि पश्यामि सङ्ग्रामे कदाचिदपि कौरव |
एकान्तसिद्धिं राजेन्द्र सम्प्राप्तश्च धनञ्जयः ||१२||
सम्प्रवृत्ते तु सङ्ग्रामे भावाभावौ जयाजयौ |
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ||१३||
तस्माद्युद्धावचरिकं कर्म वा धर्मसंहितम् |
क्रियतामाशु राजेन्द्र सम्प्राप्तो हि धनञ्जयः ||१४||
दुर्योधन उवाच||
नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह |
युद्धावचारिकं यत्तु तच्छीघ्रं संविधीयताम् ||१५||
भीष्म उवाच||
अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते |
क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति ||१६||
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ||१६||
वयं त्वर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम् |
मत्स्यं वा पुनरायातमथ वापि शतक्रतुम् ||१७||
आचार्यो मध्यतस्तिष्ठत्वश्वत्थामा तु सव्यतः |
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ||१८||
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः |
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ||१९||
४८
वैशम्पायन उवाच||
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः |
उपायादर्जुनस्तूर्णं रथघोषेण नादयन् ||१||
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् |
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ||२||
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् |
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ||३||
एतद्ध्वजाग्रं पार्थस्य दूरतः सम्प्रकाशते |
एष घोषः सजलदो रोरवीति च वानरः ||४||
एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् |
उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् ||५||
इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ |
अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ ||६||
निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् |
अभिवादयते पार्थः श्रोत्रे च परिपृच्छति ||७||
अर्जुन उवाच||
इषुपाते च सेनाया हयान्संयच्छ सारथे |
यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः ||८||
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् |
तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः ||९||
एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् |
भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः ||१०||
राजानं नात्र पश्यामि गाः समादाय गच्छति |
दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः ||११||
उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः |
तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् ||१२||
तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः ||१२||
वैशम्पायन उवाच||
एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः |
नियम्य च ततो रश्मीन्यत्र ते कुरुपुङ्गवाः ||१३||
अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः ||१३||
उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने |
अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत् ||१४||
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति |
तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः ||१५||
न ह्येनमभिसङ्क्रुद्धमेको युध्येत संयुगे |
अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात् ||१६||
किं नो गावः करिष्यन्ति धनं वा विपुलं तथा |
दुर्योधनः पार्थजले पुरा नौरिव मज्जति ||१७||
तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः |
शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् ||१८||
कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः |
नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः ||१९||
तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः |
शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा ||२०||
ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् |
विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत् ||२१||
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च |
अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् ||२२||
ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः |
गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम् ||२३||
४९
वैशम्पायन उवाच||
स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः |
दुर्योधनायाभिमुखं प्रयातो; भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् ||१||
गोषु प्रयातासु जवेन मत्स्या; न्किरीटिनं कृतकार्यं च मत्वा |
दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः ||२||
तेषामनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि |
मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिमामन्त्र्य ततोऽभ्युवाच ||३||
एतेन तूर्णं प्रतिपादयेमा; ञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान् |
जवेन सर्वेण कुरु प्रयत्न; मासादयैतद्रथसिंहवृन्दम् ||४||
गजो गजेनेव मया दुरात्मा; यो योद्धुमाकाङ्क्षति सूतपुत्रः |
तमेव मां प्रापय राजपुत्र; दुर्योधनापाश्रयजातदर्पम् ||५||
स तैर्हयैर्वातजवैर्बृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः |
विध्वंसयंस्तद्रथिनामनीकं; ततोऽवहत्पाण्डवमाजिमध्ये ||६||
तं चित्रसेनो विशिखैर्विपाठैः; सङ्ग्रामजिच्छत्रुसहो जयश्च |
प्रत्युद्ययुर्भारतमापतन्तं; महारथाः कर्णमभीप्समानाः ||७||
ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः |
व्रातान्रथानामदहत्स मन्यु; र्वनं यथाग्निः कुरुपुङ्गवानाम् ||८||
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णोऽतिरथं रथेन |
विपाठवर्षेण कुरुप्रवीरो; भीमेन भीमानुजमाससाद ||९||
ततो विकर्णस्य धनुर्विकृष्य; जाम्बूनदाग्र्योपचितं दृढज्यम् |
अपातयद्ध्वजमस्य प्रमथ्य; छिन्नध्वजः सोऽप्यपयाज्जवेन ||१०||
तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणममानुषाणि |
शत्रुन्तपः कोपममृष्यमाणः; समर्पयत्कूर्मनखेन पार्थम् ||११||
स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम् |
शत्रुन्तपं पञ्चभिराशु विद्ध्वा; ततोऽस्य सूतं दशभिर्जघान ||१२||
ततः स विद्धो भरतर्षभेण; बाणेन गात्रावरणातिगेन |
गतासुराजौ निपपात भूमौ; नगो नगाग्रादिव वातरुग्णः ||१३||
रथर्षभास्ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः |
चकम्पिरे वातवशेन काले; प्रकम्पितानीव महावनानि ||१४||
हतास्तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः |
वसुप्रदा वासवतुल्यवीर्याः; पराजिता वासवजेन सङ्ख्ये ||१५||
सुवर्णकार्ष्णायसवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः ||१५||
तथा स शत्रून्समरे विनिघ्न; न्गाण्डीवधन्वा पुरुषप्रवीरः |
चचार सङ्ख्ये प्रदिशो दिशश्च; दहन्निवाग्निर्वनमातपान्ते ||१६||
प्रकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलो नुदन्खे |
तथा सपत्नान्विकिरन्किरीटी; चचार सङ्ख्येऽतिरथो रथेन ||१७||
शोणाश्ववाहस्य हयान्निहत्य; वैकर्तनभ्रातुरदीनसत्त्वः |
एकेन सङ्ग्रामजितः शरेण; शिरो जहाराथ किरीटमाली ||१८||
तस्मिन्हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यमथाददानः |
प्रगृह्य दन्ताविव नागराजो; महर्षभं व्याघ्र इवाभ्यधावत् ||१९||
स पाण्डवं द्वादशभिः पृषत्कै; र्वैकर्तनः शीघ्रमुपाजघान |
विव्याध गात्रेषु हयांश्च सर्वा; न्विराटपुत्रं च शरैर्निजघ्ने ||२०||
स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान्निशितान्निषङ्गात् |
आकर्णपूर्णं च धनुर्विकृष्य; विव्याध बाणैरथ सूतपुत्रम् ||२१||
अथास्य बाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी |
स्थितस्य बाणैर्युधि निर्बिभेद; गाण्डीवमुक्तैरशनिप्रकाशैः ||२२||
स पार्थमुक्तैर्विशिखैः प्रणुन्नो; गजो गजेनेव जितस्तरस्वी |
विहाय सङ्ग्रामशिरः प्रयातो; वैकर्तनः पाण्डवबाणतप्तः ||२३||
५०
वैशम्पायन उवाच||
अपयाते तु राधेये दुर्योधनपुरोगमाः |
अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् ||१||
बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः |
अभियानीयमाज्ञाय वैराटिरिदमब्रवीत् ||२||
आस्थाय रुचिरं जिष्णो रथं सारथिना मया |
कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ||३||
अर्जुन उवाच||
लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि |
नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर ||४||
कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम् |
एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः ||५||
कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः |
आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः ||६||
सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् |
अत्रैव चाविरोधेन एष धर्मः सनातनः ||७||
यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति |
ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति ||८||
अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते |
आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः ||९||
सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि |
एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः ||१०||
य एष तु रथानीके सुवर्णकवचावृतः |
सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति ||११||
यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः |
धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः ||१२||
एतस्याभिमुखं वीर रथं पररथारुजः |
प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः ||१३||
एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः |
एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः ||१४||
नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति |
एष वैकर्तनः कर्णो विदितः पूर्वमेव ते ||१५||
एतस्य रथमास्थाय राधेयस्य दुरात्मनः |
यत्तो भवेथाः सङ्ग्रामे स्पर्धत्येष मया सदा ||१६||
यस्तु नीलानुसारेण पञ्चतारेण केतुना |
हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् ||१७||
यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः |
यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति ||१८||
महतो रथवंशस्य नानाध्वजपताकिनः |
बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः ||१९||
हैमं चन्द्रार्कसङ्काशं कवचं यस्य दृश्यते |
जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः ||२०||
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः |
राजश्रियावबद्धस्तु दुर्योधनवशानुगः ||२१||
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् |
एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् ||२२||
ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् |
यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनञ्जयम् ||२३||
५१
वैशम्पायन उवाच||
तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् |
संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः ||१||
अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः |
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ||२||
ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् |
सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः ||३||
तद्देवयक्षगन्धर्वमहोरगसमाकुलम् |
शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् ||४||
अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् |
तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे ||५||
शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः |
मणिरत्नमयाश्चान्याः प्रासादमुपधारयन् ||६||
तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् |
विमानं देवराजस्य शुशुभे खेचरं तदा ||७||
तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः |
गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः ||८||
तथा राजा वसुमना बलाक्षः सुप्रतर्दनः |
अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः ||९||
मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः |
विमाने देवराजस्य समदृश्यन्त सुप्रभाः ||१०||
अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः |
तथा धातुर्विधातुश्च कुबेरस्य यमस्य च ||११||
अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः |
यथाभागं यथोद्देशं विमानानि चकाशिरे ||१२||
सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः |
अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः ||१३||
दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः |
प्रससार वसन्ताग्रे वनानामिव पुष्पिताम् ||१४||
रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् |
आतपत्राणि वासांसि स्रजश्च व्यजनानि च ||१५||
उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः |
दिव्यान्गन्धानुपादाय वायुर्योधानसेवत ||१६||
प्रभासितमिवाकाशं चित्ररूपमलङ्कृतम् |
सम्पतद्भिः स्थितैश्चैव नानारत्नावभासितैः ||१७||
विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः ||१७||
५२
वैशम्पायन उवाच||
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः |
आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः ||१||
अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः ||१||
तौ रथौ सूर्यसङ्काशौ योत्स्यमानौ महाबलौ |
शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ||२||
पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम् |
विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः ||३||
तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान् |
कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः ||४||
ततः पार्थश्च सङ्क्रुद्धश्चित्रान्मार्गान्प्रदर्शयन् |
दिशः सञ्छादयन्बाणैः प्रदिशश्च महारथः ||५||
एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः |
प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ||६||
स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः |
तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् ||७||
अर्पयित्वा महात्मानं ननाद समरे कृपः ||७||
ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः |
त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः ||८||
चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः ||८||
ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः |
उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् ||९||
च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः |
नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् ||१०||
स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् |
विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः ||११||
ततः पार्थो धनुस्तस्य भल्लेन निशितेन च |
चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत् ||१२||
अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः |
व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् ||१३||
तस्य निर्मुच्यमानस्य कवचात्काय आबभौ |
समये मुच्यमानस्य सर्पस्येव तनुर्यथा ||१४||
छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम् |
चकार गौतमः सज्यं तदद्भुतमिवाभवत् ||१५||
स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा |
एवमन्यानि चापानि बहूनि कृतहस्तवत् ||१६||
शारद्वतस्य चिच्छेद पाण्डवः परवीरहा ||१६||
स छिन्नधनुरादाय अथ शक्तिं प्रतापवान् |
प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव ||१७||
तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम् |
वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः ||१८||
सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता ||१८||
युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः |
तमाशु निशितैः पार्थं बिभेद दशभिः शरैः ||१९||
ततः पार्थो महातेजा विशिखानग्नितेजसः |
चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् ||२०||
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् |
षष्ठेन च शिरः कायाच्छरेण रथसारथेः ||२१||
त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः |
द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा ||२२||
ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव |
त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत् ||२३||
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् ||२४||
सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता |
अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् ||२५||
ततो योधाः परीप्सन्तः शारद्वतममर्षणम् |
सर्वतः समरे पार्थं शरवर्षैरवाकिरन् ||२६||
ततो विराटस्य सुतः सव्यमावृत्य वाजिनः |
यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत् ||२७||
ततः कृपमुपादाय विरथं ते नरर्षभाः |
अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनञ्जयात् ||२८||
५३
अर्जुन उवाच||
यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा |
उच्छ्रिता काञ्चने दण्डे पताकाभिरलङ्कृता ||१||
तत्र मां वह भद्रं ते द्रोणानीकाय मारिष ||१||
अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः |
स्निग्धविद्रुमसङ्काशास्ताम्रास्याः प्रियदर्शनाः ||२||
युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ||२||
दीर्घबाहुर्महातेजा बलरूपसमन्वितः |
सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् ||३||
बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये |
वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च ||४||
ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष |
धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ||५||
क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् |
एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे ||६||
तेनाहं योद्धुमिच्छामि महाभागेन संयुगे |
तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय ||७||
वैशम्पायन उवाच||
अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् |
चोदयामास तानश्वान्भारद्वाजरथं प्रति ||८||
तमापतन्तं वेगेन पाण्डवं रथिनां वरम् |
द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ||९||
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् |
प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः ||१०||
अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः |
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः ||११||
तौ रथौ वीर्यसम्पन्नौ दृष्ट्वा सङ्ग्राममूर्धनि |
आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ||१२||
समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ |
दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् ||१३||
हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् |
रथं रथेन द्रोणस्य समासाद्य महारथः ||१४||
अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः |
उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा ||१५||
उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः |
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ||१६||
अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ |
इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति ||१७||
ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् |
अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् ||१८||
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् |
अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् ||१९||
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः |
समं विमुञ्चतोः सङ्ख्ये विशिखान्दीप्ततेजसः ||२०||
तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे |
उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ ||२१||
क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् ||२१||
व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः |
शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन् ||२२||
द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् |
रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत ||२३||
इत्यब्रुवञ्जनास्तत्र सङ्ग्रामशिरसि स्थिताः ||२३||
वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ |
छादयेतां शरव्रातैरन्योन्यमपराजितौ ||२४||
विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् |
संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत ||२५||
स सायकमयैर्जालैरर्जुनस्य रथं प्रति |
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ||२६||
पार्थं च स महाबाहुर्महावेगैर्महारथः |
विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् ||२७||
तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः |
शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् ||२८||
विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् ||२८||
नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् |
तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् ||२९||
स रथेन चरन्पार्थः प्रेक्षणीयो धनञ्जयः |
युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत् ||३०||
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः |
नादृश्यत तदा द्रोणो नीहारेणेव संवृतः ||३१||
तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः |
जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः ||३२||
दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् |
स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् ||३३||
अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् |
व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः ||३४||
महानभूत्ततः शब्दो वंशानामिव दह्यताम् ||३४||
जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः |
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ||३५||
ततः कनकपुङ्खानां शराणां नतपर्वणाम् |
वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः ||३६||
द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् |
एको दीर्घ इवादृश्यदाकाशे संहतः शरः ||३७||
एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् |
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ||३८||
शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः |
पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव ||३९||
युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः |
द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव ||४०||
तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् |
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||४१||
तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ |
उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः ||४२||
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् |
न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः ||४३||
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः |
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ||४४||
जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् |
आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः ||४५||
अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः ||४५||
दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे |
अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत् ||४६||
तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः |
अमर्षिणोस्तदान्योन्यं देवदानवयोरिव ||४७||
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः |
द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः ||४८||
एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान् |
एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः ||४९||
ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु |
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ||५०||
ततो नागा रथाश्चैव सादिनश्च विशां पते |
शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः ||५१||
बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः |
सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ||५२||
योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः |
बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे ||५३||
विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने |
आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः ||५४||
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् |
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ||५५||
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् |
जेतारं देवदैत्यानां सर्पाणां च महारथम् ||५६||
अविश्रमं च शिक्षां च लाघवं दूरपातिताम् |
पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः ||५७||
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः |
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ ||५८||
तस्य बाणमयं वर्षं शलभानामिवायतम् |
न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् ||५९||
अनिशं संदधानस्य शरानुत्सृजतस्तदा |
ददृशे नान्तरं किञ्चित्पार्थस्याददतोऽपि च ||६०||
तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे |
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् ||६१||
ततः शतसहस्राणि शराणां नतपर्वणाम् |
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ||६२||
अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना |
हाहाकारो महानासीत्सैन्यानां भरतर्षभ ||६३||
पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् |
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ||६४||
ततो वृन्देन महता रथानां रथयूथपः |
आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् ||६५||
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः |
पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् ||६६||
स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे |
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ||६७||
आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् |
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ||६८||
स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः |
छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः ||६९||
५४
वैशम्पायन उवाच||
तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम् |
शरजालेन महता वर्षमाणमिवाम्बुदम् ||१||
तयोर्देवासुरसमः संनिपातो महानभूत् |
किरतोः शरजालानि वृत्रवासवयोरिव ||२||
न स्म सूर्यस्तदा भाति न च वाति समीरणः |
शरगाढे कृते व्योम्नि छायाभूते समन्ततः ||३||
महांश्चटचटाशब्दो योधयोर्हन्यमानयोः |
दह्यतामिव वेणूनामासीत्परपुरञ्जय ||४||
हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान् |
स राजन्न प्रजानाति दिशं काञ्चन मोहितः ||५||
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः |
विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह ||६||
तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम् ||६||
ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम् |
पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः ||७||
ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा |
योजयामास नवया मौर्व्या गाण्डीवमोजसा ||८||
ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत् |
वारणेनेव मत्तेन मत्तो वारणयूथपः ||९||
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः |
रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम् ||१०||
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः |
युध्यमानौ महात्मानौ यूथपाविव सङ्गतौ ||११||
तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ |
शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः ||१२||
अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः |
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ||१३||
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे |
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ||१४||
ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा |
अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत् ||१५||
तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः |
ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत् ||१६||
स रोषवशमापन्नः कर्णमेव जिघांसया |
अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुङ्गवः ||१७||
तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् |
त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः ||१८||
उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनञ्जयः |
अभिदुद्राव सहसा कर्णमेव सपत्नजित् ||१९||
तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः |
कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत् ||२०||
५५
अर्जुन उवाच||
कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम् |
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ||१||
अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम् |
इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् ||२||
यत्त्वया कथितं पूर्वं मामनासाद्य किञ्चन |
तदद्य कुरु राधेय कुरुमध्ये मया सह ||३||
यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः |
दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् ||४||
धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा |
तस्य राधेय कोपस्य विजयं पश्य मे मृधे ||५||
एहि कर्ण मया सार्धं प्रतिपद्यस्व सङ्गरम् |
प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः ||६||
कर्ण उवाच||
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर |
अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि ||७||
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् |
इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् ||८||
धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा |
तथैव बद्धमात्मानमबद्धमिव मन्यसे ||९||
यदि तावद्वने वासो यथोक्तश्चरितस्त्वया |
तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि ||१०||
यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् |
तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः ||११||
अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः |
योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् ||१२||
अर्जुन उवाच||
इदानीमेव तावत्त्वमपयातो रणान्मम |
तेन जीवसि राधेय निहतस्त्वनुजस्तव ||१३||
भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः |
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ||१४||
वैशम्पायन उवाच||
इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः |
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ||१५||
प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान् |
शरवर्षेण महता वर्षमाण इवाम्बुदः ||१६||
उत्पेतुः शरजालानि घोररूपाणि सर्वशः |
अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् ||१७||
सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् |
चिच्छेद निशिताग्रेण शरेण नतपर्वणा ||१८||
उपासङ्गादुपादाय कर्णो बाणानथापरान् |
विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत ||१९||
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् |
स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः ||२०||
ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः |
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ||२१||
ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः |
आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि ||२२||
अथापरेण बाणेन ज्वलितेन महाभुजः |
विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् ||२३||
तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः |
ततः स तमसाविष्टो न स्म किञ्चित्प्रजज्ञिवान् ||२४||
स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः |
ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः ||२५||
५६
वैशम्पायन उवाच||
ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् |
एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः ||१||
अत्र शान्तनवो भीष्मो रथेऽस्माकं पितामहः |
काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः ||२||
आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे ||२||
अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय |
शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे ||३||
सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम |
दक्षिणेनाथ वामेन कतरेण स्विदस्यति ||४||
इति मां सङ्गताः सर्वे तर्कयिष्यन्ति शत्रवः ||४||
शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् |
नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् ||५||
पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् |
वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः ||६||
जयतः कौरवीं सेनामेकस्य मम धन्विनः |
शतं मार्गा भविष्यन्ति पावकस्येव कानने ||७||
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ||७||
असम्भ्रान्तो रथे तिष्ठ समेषु विषमेषु च |
दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः ||८||
अहमिन्द्रस्य वचनात्सङ्ग्रामेऽभ्यहनं पुरा |
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ||९||
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् |
प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः ||१०||
अहं पारे समुद्रस्य हिरण्यपुरमारुजम् |
जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् ||११||
ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् |
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ||१२||
तानहं रथनीडेभ्यः शरैः संनतपर्वभिः |
एकः सङ्कालयिष्यामि वज्रपाणिरिवासुरान् ||१३||
रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि |
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः ||१४||
वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् ||१४||
धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् |
अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् ||१५||
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना |
व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः ||१६||
तमायान्तं महाबाहुं जिगीषन्तं रणे परान् |
अभ्यवारयदव्यग्रः क्रूरकर्मा धनञ्जयम् ||१७||
तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः |
आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः ||१८||
दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः |
आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् ||१९||
दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् |
द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे ||२०||
तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् |
चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् ||२१||
अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे |
सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः ||२२||
तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः |
विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः ||२३||
ततस्तमपि कौन्तेयः शरेणानतपर्वणा |
ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् ||२४||
ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः |
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ||२५||
तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनञ्जयः |
विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् ||२६||
तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ |
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ||२७||
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः |
किरीटमाली कौन्तेयो लब्धलक्षो महाबलः ||२८||
५७
वैशम्पायन उवाच||
अथ सङ्गम्य सर्वे तु कौरवाणां महारथाः |
अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत ||१||
स सायकमयैर्जालैः सर्वतस्तान्महारथान् |
प्राच्छादयदमेयात्मा नीहार इव पर्वतान् ||२||
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः |
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ||३||
नराश्वकायान्निर्भिद्य लोहानि कवचानि च |
पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः ||४||
त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे |
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ||५||
उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा |
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ||६||
शरैः सन्ताड्यमानानां कवचानां महात्मनाम् |
ताम्रराजतलोहानां प्रादुरासीन्महास्वनः ||७||
छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् |
गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः ||८||
रथोपस्थाभिपतितैरास्तृता मानवैर्मही |
प्रनृत्यदिव सङ्ग्रामे चापहस्तो धनञ्जयः ||९||
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः |
त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् ||१०||
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च |
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ||११||
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः |
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ||१२||
शिरसां पात्यमानानामन्तरा निशितैः शरैः |
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ||१३||
दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः |
अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च ||१४||
क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः ||१४||
तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् |
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः ||१५||
वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान् |
अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत ||१६||
प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम् |
अस्थिशैवलसम्बाधां युगान्ते कालनिर्मिताम् ||१७||
शरचापप्लवां घोरां मांसशोणितकर्दमाम् |
महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् ||१८||
चकार महतीं पार्थो नदीमुत्तरशोणिताम् ||१८||
आददानस्य हि शरान्सन्धाय च विमुञ्चतः |
विकर्षतश्च गाण्डीवं न किञ्चिद्दृश्यतेऽन्तरम् ||१९||
५८
वैशम्पायन उवाच||
अथ दुर्योधनः कर्णो दुःशासनविविंशती |
द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे ||१||
पुनरीयुः सुसंरब्धा धनञ्जयजिघांसया |
विस्फारयन्तश्चापानि बलवन्ति दृढानि च ||२||
तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा |
प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः ||३||
ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः |
तं महास्त्रैर्महावीर्यं परिवार्य धनञ्जयम् ||४||
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः |
ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम् ||५||
इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः |
अदूरात्पर्यवस्थाय पूरयामासुरादृताः ||६||
तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः |
न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत ||७||
ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः |
अस्त्रमादित्यसङ्काशं गाण्डीवे समयोजयत् ||८||
स रश्मिभिरिवादित्यः प्रतपन्समरे बली |
किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून् ||९||
यथा बलाहके विद्युत्पावको वा शिलोच्चये |
तथा गाण्डीवमभवदिन्द्रायुधमिवाततम् ||१०||
यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि |
तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत् ||११||
त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः |
सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे ||१२||
सङ्ग्रामविमुखाः सर्वे योधास्ते हतचेतसः ||१२||
एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ |
प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते ||१३||
५९
वैशम्पायन उवाच||
ततः शान्तनवो भीष्मो दुराधर्षः प्रतापवान् |
वध्यमानेषु योधेषु धनञ्जयमुपाद्रवत् ||१||
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् |
शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः ||२||
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा ||३||
प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् |
प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् ||४||
तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा |
प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः ||५||
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् |
समपर्यन्महावेगाञ्श्वसमानानिवोरगान् ||६||
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः |
ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् ||७||
ततो भल्लेन महता पृथुधारेण पाण्डवः |
छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि ||८||
ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम् |
शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी ||९||
तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम् |
भीष्मस्य सह पार्थेन बलिवासवयोरिव ||१०||
भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि |
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ||११||
अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः |
गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान् ||१२||
स तैः सञ्छादयामास भीष्मं शरशतैः शितैः |
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ||१३||
तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम् |
व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत् ||१४||
ततस्तानि निकृत्तानि शरजालानि भागशः |
समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति ||१५||
ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् |
पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् ||१६||
व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः ||१६||
ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन् |
दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत् ||१७||
बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः |
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ||१८||
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् |
आचार्यप्रवराद्वापि भारद्वाजान्महाबलात् ||१९||
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ |
चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ ||२०||
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् |
कौबेरं वारुणं चैव याम्यं वायव्यमेव च ||२१||
प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः ||२१||
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा |
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ||२२||
नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान् |
महास्त्राणां सम्प्रयोगः समरे भीष्मपार्थयोः ||२३||
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत |
अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् ||२४||
चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् ||२४||
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे |
समादाय महाबाहुः सज्यं चक्रे महाबलः ||२५||
शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनञ्जये ||२५||
अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून् |
चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे ||२६||
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् |
न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः ||२७||
अथावृणोद्दश दिशः शरैरतिरथस्तदा |
किरीटमाली कौन्तेयः शूरः शान्तनवस्तथा ||२८||
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् |
बभूव तस्मिन्सङ्ग्रामे राजँल्लोके तदद्भुतम् ||२९||
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः |
शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम् ||३०||
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः |
आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः ||३१||
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः |
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ||३२||
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः |
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ||३३||
तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् |
शशंस देवराजाय चित्रसेनः प्रतापवान् ||३४||
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः |
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ||३५||
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते |
पौराणानां महास्त्राणां विचित्रोऽयं समागमः ||३६||
मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे |
न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम् ||३७||
उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ |
उभौ सदृशकर्माणावुभौ युधि दुरासदौ ||३८||
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् |
पूजयामास दिव्येन पुष्पवर्षेण भारत ||३९||
ततो भीष्मः शान्तनवो वामे पार्श्वे समर्पयत् |
अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः ||४०||
ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् |
न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः ||४१||
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे |
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ||४२||
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् |
गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः ||४३||
तं विसञ्ज्ञमपोवाह संयन्ता रथवाजिनाम् |
उपदेशमनुस्मृत्य रक्षमाणो महारथम् ||४४||
६०
वैशम्पायन उवाच||
भीष्मे तु सङ्ग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः |
उच्छ्रित्य केतुं विनदन्महात्मा; स्वयं विगृह्यार्जुनमाससाद ||१||
स भीमधन्वानमुदग्रवीर्यं; धनञ्जयं शत्रुगणे चरन्तम् |
आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये ||२||
स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन |
रराज राजन्महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः ||३||
अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृगजस्रमुष्णम् |
सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म ||४||
स तेन बाणाभिहतस्तरस्वी; दुर्योधनेनोद्धतमन्युवेगः |
शरानुपादाय विषाग्निकल्पा; न्विव्याध राजानमदीनसत्त्वः ||५||
दुर्योधनश्चापि तमुग्रतेजाः; पार्थश्च दुर्योधनमेकवीरः |
अन्योन्यमाजौ पुरुषप्रवीरौ; समं समाजघ्नतुराजमीढौ ||६||
ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर्विकर्णः |
रथैश्चतुर्भिर्गजपादरक्षैः; कुन्तीसुतं जिष्णुमथाभ्यधावत् ||७||
तमापतन्तं त्वरितं गजेन्द्रं; धनञ्जयः कुम्भविभागमध्ये |
आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन ||८||
पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात्प्रविवेश नागम् |
विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतमिन्द्रसृष्टः ||९||
शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा |
संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गमिवाचलस्य ||१०||
निपातिते दन्तिवरे पृथिव्यां; त्रासाद्विकर्णः सहसावतीर्य |
तूर्णं पदान्यष्टशतानि गत्वा; विविंशतेः स्यन्दनमारुरोह ||११||
निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम् |
तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद ||१२||
ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे |
गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना; स्ते योधमुख्याः सहसापजग्मुः ||१३||
दृष्ट्वैव बाणेन हतं तु नागं; योधांश्च सर्वान्द्रवतो निशम्य |
रथं समावृत्य कुरुप्रवीरो; रणात्प्रदुद्राव यतो न पार्थः ||१४||
तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी |
प्राक्ष्वेडयद्योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम् ||१५||
अर्जुन उवाच||
विहाय कीर्तिं विपुलं यशश्च; युद्धात्परावृत्य पलायसे किम् |
न तेऽद्य तूर्याणि समाहतानि; यथावदुद्यान्ति गतस्य युद्धे ||१६||
युधिष्ठिरस्यास्मि निदेशकारी; पार्थस्तृतीयो युधि च स्थिरोऽस्मि |
तदर्थमावृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ||१७||
मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात् |
न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय ||१८||
न ते पुरस्तादथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम् |
परैहि युद्धेन कुरुप्रवीर; प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष ||१९||
६१
वैशम्पायन उवाच||
आहूयमानस्तु स तेन सङ्ख्ये; महामना धृतराष्ट्रस्य पुत्रः |
निवर्तितस्तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन ||१||
सोऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस्तरस्वी |
पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः ||२||
तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः |
दुर्योधनं दक्षिणतोऽभ्यगच्छ; त्पार्थं नृवीरो युधि हेममाली ||३||
भीष्मस्ततः शान्तनवो निवृत्य; हिरण्यकक्ष्यांस्त्वरयंस्तुरङ्गान् |
दुर्योधनं पश्चिमतोऽभ्यरक्ष; त्पार्थान्महाबाहुरधिज्यधन्वा ||४||
द्रोणः कृपश्चैव विविंशतिश्च; दुःशासनश्चैव निवृत्य शीघ्रम् |
सर्वे पुरस्ताद्विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेयुः ||५||
स तान्यनीकानि निवर्तमाना; न्यालोक्य पूर्णौघनिभानि पार्थः |
हंसो यथा मेघमिवापतन्तं; धनञ्जयः प्रत्यपतत्तरस्वी ||६||
ते सर्वतः सम्परिवार्य पार्थ; मस्त्राणि दिव्यानि समाददानाः |
ववर्षुरभ्येत्य शरैः समन्ता; न्मेघा यथा भूधरमम्बुवेगैः ||७||
ततोऽस्त्रमस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुङ्गवानाम् |
संमोहनं शत्रुसहोऽन्यदस्त्रं; प्रादुश्चकारैन्द्रिरपारणीयम् ||८||
ततो दिशश्चानुदिशो विवृत्य; शरैः सुधारैर्निशितैः सुपुङ्खैः |
गाण्डीवघोषेण मनांसि तेषां; महाबलः प्रव्यथयां चकार ||९||
ततः पुनर्भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खमुदारघोषम् |
व्यनादयत्स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता ||१०||
ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन |
उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा बभूवुः ||११||
तथा विसञ्ज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तरायाः |
निर्याहि मध्यादिति मत्स्यपुत्र; मुवाच यावत्कुरवो विसञ्ज्ञाः ||१२||
आचार्य शारद्वतयोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम् |
द्रौणेश्च राज्ञश्च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर ||१३||
भीष्मस्य सञ्ज्ञां तु तथैव मन्ये; जानाति मेऽस्त्रप्रतिघातमेषः |
एतस्य वाहान्कुरु सव्यतस्त्व; मेवं हि यातव्यममूढसञ्ज्ञैः ||१४||
रश्मीन्समुत्सृज्य ततो महात्मा; रथादवप्लुत्य विराटपुत्रः |
वस्त्राण्युपादाय महारथानां; तूर्णं पुनः स्वं रथमारुरोह ||१५||
ततोऽन्वशासच्चतुरः सदश्वा; न्पुत्रो विराटस्य हिरण्यकक्ष्यान् |
ते तद्व्यतीयुर्ध्वजिनामनीकं; श्वेता वहन्तोऽर्जुनमाजिमध्यात् ||१६||
तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैरभ्यहनत्तरस्वी |
स चापि भीष्मस्य हयान्निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः ||१७||
ततोऽर्जुनो भीष्ममपास्य युद्धे; विद्ध्वास्य यन्तारमरिष्टधन्वा |
तस्थौ विमुक्तो रथवृन्दमध्या; द्राहुं विदार्येव सहस्ररश्मिः ||१८||
लब्ध्वा तु सञ्ज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम् |
रणाद्विमुक्तं स्थितमेकमाजौ; स धार्तराष्ट्रस्त्वरितो बभाषे ||१९||
अयं कथं स्विद्भवतां विमुक्त; स्तं वै प्रबध्नीत यथा न मुच्येत् |
तमब्रवीच्छान्तनवः प्रहस्य; क्व ते गता बुद्धिरभूत्क्व वीर्यम् ||२०||
शान्तिं पराश्वस्य यथा स्थितोऽभू; रुत्सृज्य बाणांश्च धनुश्च चित्रम् |
न त्वेव बीभत्सुरलं नृशंसं; कर्तुं न पापेऽस्य मनो निविष्टम् ||२१||
त्रैलोक्यहेतोर्न जहेत्स्वधर्मं; तस्मान्न सर्वे निहता रणेऽस्मिन् |
क्षिप्रं कुरून्याहि कुरुप्रवीर; विजित्य गाश्च प्रतियातु पार्थः ||२२||
दुर्योधनस्तस्य तु तन्निशम्य; पितामहस्यात्महितं वचोऽथ |
अतीतकामो युधि सोऽत्यमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम् ||२३||
तद्भीष्मवाक्यं हितमीक्ष्य सर्वे; धनञ्जयाग्निं च विवर्धमानम् |
निवर्तनायैव मनो निदध्यु; र्दुर्योधनं ते परिरक्षमाणाः ||२४||
तान्प्रस्थितान्प्रीतमनाः स पार्थो; धनञ्जयः प्रेक्ष्य कुरुप्रवीरान् |
आभाषमाणोऽनुययौ मुहूर्तं; सम्पूजयंस्तत्र गुरून्महात्मा ||२५||
पितामहं शान्तनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना |
द्रौणिं कृपं चैव गुरूंश्च सर्वा; ञ्शरैर्विचित्रैरभिवाद्य चैव ||२६||
दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण |
आमन्त्र्य वीरांश्च तथैव मान्या; न्गाण्डीवघोषेण विनाद्य लोकान् ||२७||
स देवदत्तं सहसा विनाद्य; विदार्य वीरो द्विषतां मनांसि |
ध्वजेन सर्वानभिभूय शत्रू; न्स हेमजालेन विराजमानः ||२८||
दृष्ट्वा प्रयातांस्तु कुरून्किरीटी; हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम् |
आवर्तयाश्वान्पशवो जितास्ते; याताः परे याहि पुरं प्रहृष्टः ||२९||
६२
वैशम्पायन उवाच||
ततो विजित्य सङ्ग्रामे कुरून्गोवृषभेक्षणः |
समानयामास तदा विराटस्य धनं महत् ||१||
गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः |
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः ||२||
भयात्सन्त्रस्तमनसः समाजग्मुस्ततस्ततः |
मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा ||३||
क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः |
ऊचुः प्रणम्य सम्भ्रान्ताः पार्थ किं करवाम ते ||४||
अर्जुन उवाच||
स्वस्ति व्रजत भद्रं वो न भेतव्यं कथञ्चन |
नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः ||५||
वैशम्पायन उवाच||
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः |
आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन् ||६||
ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः |
पन्थानमुपसङ्गम्य फल्गुनो वाक्यमब्रवीत् ||७||
राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः |
गोकुलानि महाबाहो वीर गोपालकैः सह ||८||
ततोऽपराह्णे यास्यामो विराटनगरं प्रति |
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः ||९||
गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया |
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ||१०||
वैशम्पायन उवाच||
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः |
वचनादर्जुनस्यैव आचक्षध्वं जयं मम ||११||
वैवाहिकपर्व
६३
वैशम्पायन उवाच||
अवजित्य धनं चापि विराटो वाहिनीपतिः |
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ||१||
जित्वा त्रिगर्तान्सङ्ग्रामे गाश्चैवादाय केवलाः |
अशोभत महाराजः सह पार्थैः श्रिया वृतः ||२||
तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् |
उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह ||३||
सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् |
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ||४||
ततः स राजा मत्स्यानां विराटो वाहिनीपतिः |
उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् ||५||
आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि |
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ||६||
विजेतुमभिसंरब्ध एक एवातिसाहसात् |
बृहन्नडासहायश्च निर्यातः पृथिवीञ्जयः ||७||
उपयातानतिरथान्द्रोणं शान्तनवं कृपम् |
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ||८||
राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्येकरथेन यातम् |
बृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान् ||९||
सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः |
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन ||१०||
तस्माद्गच्छन्तु मे योधा बलेन महता वृताः |
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ||११||
हयांश्च नागांश्च रथांश्च शीघ्रं; पदातिसङ्घांश्च ततः प्रवीरान् |
प्रस्थापयामास सुतस्य हेतो; र्विचित्रशस्त्राभरणोपपन्नान् ||१२||
एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः |
व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् ||१३||
कुमारमाशु जानीत यदि जीवति वा न वा |
यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति ||१४||
तमब्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम् |
बृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः ||१५||
सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरयक्षनागान् |
अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन ||१६||
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः |
विराटनगरं प्राप्य जयमावेदयंस्तदा ||१७||
राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम् |
पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् ||१८||
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः |
उत्तरः सह सूतेन कुशली च परन्तप ||१९||
कङ्क उवाच||
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः |
दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ ||२०||
नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् |
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा ||२१||
वैशम्पायन उवाच||
ततो विराटो नृपतिः सम्प्रहृष्टतनूरुहः |
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः ||२२||
आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् ||२२||
राजमार्गाः क्रियन्तां मे पताकाभिरलङ्कृताः |
पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः ||२३||
कुमारा योधमुख्याश्च गणिकाश्च स्वलङ्कृताः |
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ||२४||
घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम् |
शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम ||२५||
उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता |
शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् ||२६||
श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश्च |
भेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च ||२७||
तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याः |
पुराद्विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम् ||२८||
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलङ्कृताः |
मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् ||२९||
अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् ||२९||
तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत |
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ||३०||
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे |
प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ||३१||
विराट उवाच||
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किञ्चन |
न मे किञ्चित्त्वया रक्ष्यमन्तरेणापि देवितुम् ||३२||
कङ्क उवाच||
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद |
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ||३३||
श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः |
स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् ||३४||
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये |
अथ वा मन्यसे राजन्दीव्याव यदि रोचते ||३५||
वैशम्पायन उवाच||
प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत् |
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ||३६||
ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः |
बृहन्नडा यस्य यन्ता कथं स न विजेष्यति ||३७||
इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत् |
समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि ||३८||
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे |
भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति ||३९||
वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे |
नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि ||४०||
युधिष्ठिर उवाच||
यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः |
दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः ||४१||
मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः |
कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत सङ्गतान् ||४२||
विराट उवाच||
बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि |
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ||४३||
वैशम्पायन उवाच||
ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् |
मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् ||४४||
बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत् |
तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत ||४५||
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् |
सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा ||४६||
पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता |
तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् ||४७||
अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा |
अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् ||४८||
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा |
आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् ||४९||
ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत् |
बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः ||५०||
ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत् |
प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः ||५१||
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् |
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा ||५२||
एतस्य हि महाबाहो व्रतमेतत्समाहितम् |
यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत् ||५३||
अन्यत्र सङ्ग्रामगतान्न स जीवेदसंशयम् ||५३||
न मृष्याद्भृशसङ्क्रुद्धो मां दृष्ट्वैव सशोणितम् |
विराटमिह सामात्यं हन्यात्सबलवाहनम् ||५४||
६४
वैशम्पायन उवाच||
ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवीञ्जयः |
सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत ||१||
स तं रुधिरसंसिक्तमनेकाग्रमनागसम् |
भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् ||२||
ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः |
केनायं ताडितो राजन्केन पापमिदं कृतम् ||३||
विराट उवाच||
मयायं ताडितो जिह्मो न चाप्येतावदर्हति |
प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति ||४||
उत्तर उवाच||
अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् |
मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् ||५||
वैशम्पायन उवाच||
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः |
क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् ||६||
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत |
चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम ||७||
यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः |
सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः ||८||
न दूषयामि ते राजन्यच्च हन्याददूषकम् |
बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् ||९||
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा |
अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत ||१०||
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् |
प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः ||११||
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन |
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ||१२||
पदं पदसहस्रेण यश्चरन्नापराध्नुयात् |
तेन कर्णेन ते तात कथमासीत्समागमः ||१३||
मनुष्यलोके सकले यस्य तुल्यो न विद्यते |
यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः ||१४||
तेन भीष्मेण ते तात कथमासीत्समागमः ||१४||
आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः |
सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः ||१५||
तेन द्रोणेन ते तात कथमासीत्समागमः ||१५||
आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि |
अश्वत्थामेति विख्यातः कथं तेन समागमः ||१६||
रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा |
कृपेण तेन ते तात कथमासीत्समागमः ||१७||
पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः |
दुर्योधनेन ते तात कथमासीत्समागमः ||१८||
उत्तर उवाच||
न मया निर्जिता गावो न मया निर्जिताः परे |
कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् ||१९||
स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् |
स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा ||२०||
तेन ता निर्जिता गावस्तेन ते कुरवो जिताः |
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ||२१||
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् |
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ||२२||
दुर्योधनं च समरे सनागमिव यूथपम् |
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ||२३||
न हास्तिनपुरे त्राणं तव पश्यामि किञ्चन |
व्यायामेन परीप्सस्व जीवितं कौरवात्मज ||२४||
न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु |
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ||२५||
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् |
सचिवैः संवृतो राजा रथे नाग इव श्वसन् ||२६||
तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष |
यदभ्रघनसङ्काशमनीकं व्यधमच्छरैः ||२७||
तत्प्रणुद्य रथानीकं सिंहसंहननो युवा |
कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली ||२८||
एकेन तेन वीरेण षड्रथाः परिवारिताः |
शार्दूलेनेव मत्तेन मृगास्तृणचरा वने ||२९||
विराट उवाच||
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः |
यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे ||३०||
इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम् |
येन मे त्वं च गावश्च रक्षिता देवसूनुना ||३१||
उत्तर उवाच||
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् |
स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ||३२||
वैशम्पायन उवाच||
एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् |
वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् ||३३||
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना |
प्रददौ तानि वासांसि विराटदुहितुः स्वयम् ||३४||
उत्तरा तु महार्हाणि विविधानि तनूनि च |
प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी ||३५||
मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा |
इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे ||३६||
ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ |
सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः ||३७||
६५
वैशम्पायन उवाच||
ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः |
स्नाताः शुक्लाम्बरधराः समये चरितव्रताः ||१||
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः |
अभिपद्मा यथा नागा भ्राजमाना महारथाः ||२||
विराटस्य सभां गत्वा भूमिपालासनेष्वथ |
निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः ||३||
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः |
आजगाम सभां कर्तुं राजकार्याणि सर्वशः ||४||
श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव |
अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम् ||५||
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ||५||
स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः |
अथ राजासने कस्मादुपविष्टोऽस्यलङ्कृतः ||६||
परिहासेप्सया वाक्यं विराटस्य निशम्य तत् |
स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् ||७||
इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति |
ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः ||८||
अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः |
अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ||९||
संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः |
उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः ||१०||
एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् |
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ||११||
त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः |
सदश्वैरुपसम्पन्नाः पृष्ठतोऽनुययुः सदा ||१२||
एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः |
अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः ||१३||
एनं नित्यमुपासन्त कुरवः किङ्करा यथा |
सर्वे च राजन्राजानो धनेश्वरमिवामराः ||१४||
एष सर्वान्महीपालान्करमाहारयत्तदा |
वैश्यानिव महाराज विवशान्स्ववशानपि ||१५||
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् |
उपजीवन्ति राजानमेनं सुचरितव्रतम् ||१६||
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान् |
पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो ||१७||
एष धर्मे दमे चैव क्रोधे चापि यतव्रतः |
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ||१८||
श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः |
सगणः सह कर्णेन सौबलेनापि वा विभुः ||१९||
न शक्यन्ते ह्यस्य गुणाः प्रसङ्ख्यातुं नरेश्वर |
एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः ||२०||
एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः |
कथं नार्हति राजार्हमासनं पृथिवीपतिः ||२१||
६६
विराट उवाच||
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः |
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ||१||
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी |
यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित् ||२||
अर्जुन उवाच||
य एष बल्लवो ब्रूते सूदस्तव नराधिप |
एष भीमो महाबाहुर्भीमवेगपराक्रमः ||३||
एष क्रोधवशान्हत्वा पर्वते गन्धमादने |
सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् ||४||
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् |
व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव ||५||
यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तपः |
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथौ ||६||
शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ |
नानारथसहस्राणां समर्थौ पुरुषर्षभौ ||७||
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी |
सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः ||८||
अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः |
भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः ||९||
उषिताः स्म महाराज सुखं तव निवेशने |
अज्ञातवासमुषिता गर्भवास इव प्रजाः ||१०||
वैशम्पायन उवाच||
यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः |
तदार्जुनस्य वैराटिः कथयामास विक्रमम् ||११||
अयं स द्विषतां मध्ये मृगाणामिव केसरी |
अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान् ||१२||
अनेन विद्धो मातङ्गो महानेकेषुणा हतः |
हिरण्यकक्ष्यः सङ्ग्रामे दन्ताभ्यामगमन्महीम् ||१३||
अनेन विजिता गावो जिताश्च कुरवो युधि |
अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ ||१४||
तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् |
उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ||१५||
प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये |
उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् ||१६||
उत्तर उवाच||
अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् |
पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः ||१७||
विराट उवाच||
अहं खल्वपि सङ्ग्रामे शत्रूणां वशमागतः |
मोक्षितो भीमसेनेन गावश्च विजितास्तथा ||१८||
एतेषां बाहुवीर्येण यदस्माकं जयो मृधे |
वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् ||१९||
प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् ||१९||
यदस्माभिरजानद्भिः किञ्चिदुक्तो नराधिपः |
क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः ||२०||
वैशम्पायन उवाच||
ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार |
राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा ||२१||
पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् |
धनञ्जयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् ||२२||
समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः |
युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ ||२३||
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः |
सम्प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् ||२४||
दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात् |
दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः ||२५||
इदं च राज्यं नः पार्था यच्चान्यद्वसु किञ्चन |
प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया ||२६||
उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः |
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ||२७||
एवमुक्तो धर्मराजः पार्थमैक्षद्धनञ्जयम् |
ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् ||२८||
प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव |
युक्तश्चावां हि सम्बन्धो मत्स्यभारतसत्तमौ ||२९||
६७
विराट उवाच||
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम |
प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि ||१||
अर्जुन उवाच||
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव |
रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ||२||
प्रियो बहुमतश्चाहं नर्तको गीतकोविदः |
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ||३||
वयःस्थया तया राजन्सह संवत्सरोषितः |
अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो ||४||
तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते |
शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया ||५||
स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः |
अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ||६||
अभिषङ्गादहं भीतो मिथ्याचारात्परन्तप |
स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ||७||
स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा |
दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः ||८||
अभिमन्युर्महाबाहुः पुत्रो मम विशां पते |
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ||९||
विराट उवाच||
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जये |
य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः ||१०||
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् |
सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः ||११||
वैशम्पायन उवाच||
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः |
अन्वजानात्स संयोगं समये मत्स्यपार्थयोः ||१२||
ततो मित्रेषु सर्वेषु वासुदेवे च भारत |
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ||१३||
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः |
उपप्लव्ये विराटस्य समपद्यन्त सर्वशः ||१४||
तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम् |
आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः ||१५||
काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे |
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते ||१६||
अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः |
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ||१७||
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः |
समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ||१८||
सर्वे शस्त्रास्त्रसम्पन्नाः सर्वे शूरास्तनुत्यजः ||१८||
तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः |
प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे ||१९||
ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः |
तत्रागमद्वासुदेवो वनमाली हलायुधः ||२०||
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः ||२०||
अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च |
अभिमन्युमुपादाय सह मात्रा परन्तपाः ||२१||
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः |
आययुः सहिताः सर्वे परिसंवत्सरोषिताः ||२२||
दश नागसहस्राणि हयानां च शतायुतम् |
रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् ||२३||
वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः |
अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् ||२४||
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् |
स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः ||२५||
ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः ||२५||
ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा |
पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि ||२६||
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून् |
सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् ||२७||
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा |
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ||२८||
सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः |
आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः ||२९||
वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः |
सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया ||३०||
परिवार्योत्तरां तास्तु राजपुत्रीमलङ्कृताम् |
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ||३१||
तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनञ्जयः |
सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा ||३२||
तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन् |
स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः ||३३||
प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् |
विवाहं कारयामास सौभद्रस्य महात्मनः ||३४||
तस्मै सप्त सहस्राणि हयानां वातरंहसाम् |
द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा ||३५||
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः |
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ||३६||
गोसहस्राणि रत्नानि वस्त्राणि विविधानि च |
भूषणानि च मुख्यानि यानानि शयनानि च ||३७||
तन्महोत्सवसङ्काशं हृष्टपुष्टजनावृतम् |
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ||३८||
Mahabharata Critical Edition Only for Personal Studies
Encoding: ISCII
Electronic text (C) Bhandarkar Oriental Research Institute,
Pune, India, 1999
http://bombay.indology.info/mahabharata/statement.html
for further details
% File name : mbh04.itx
%--------------------------------------------
% Text title : 4 mahAbhArate virATaparva.n
% Author : Veda Vyasa
% Language : sanskrit
% Subject : religion
% Description/comments : Access available at Prof John Smith's site
% http://bombay.indology.info/mahabharata/statement.html
% Transliterated by : Prof. Tokunaga
% Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga
% Latest update : September 16, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .