||६ महाभारते भीष्मपर्वम् ||
जम्बूखण्डविनिर्माणपर्व
१
जनमेजय उवाच||
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः |
पार्थिवाश्च महाभागा नानादेशसमागताः ||१||
वैशम्पायन उवाच||
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः |
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ||२||
अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः |
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ||३||
वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः |
आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे ||४||
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् |
प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ||५||
समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः |
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ||६||
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता |
निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता ||७||
यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् |
तावदेव समावृत्तं बलं पार्थिवसत्तम ||८||
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् |
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ||९||
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ |
आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ||१०||
सञ्ज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः |
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ||११||
अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च |
योजयामास कौरव्यो युद्धकाल उपस्थिते ||१२||
दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः |
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् ||१३||
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् ||१४||
दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः |
दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ||१५||
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः |
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ||१६||
ततो योधान्हर्षयन्तौ वासुदेवधनञ्जयौ |
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ||१७||
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः |
श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः ||१८||
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः |
त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा ||१९||
उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन |
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ||२०||
ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् |
व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् ||२१||
वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः |
विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः ||२२||
उभे सेने तदा राजन्युद्धाय मुदिते भृशम् |
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ||२३||
तयोस्तु सेनयोरासीदद्भुतः स समागमः |
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ||२४||
शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता |
तेन सेनासमूहेन समानीतेन कौरवैः ||२५||
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः |
धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ ||२६||
निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् |
यथापुरं यथायोगं न च स्याच्छलनं पुनः ||२७||
वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् |
निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथञ्चन ||२८||
रथी च रथिना योध्यो गजेन गजधूर्गतः |
अश्वेनाश्वी पदातिश्च पदातेनैव भारत ||२९||
यथायोगं यथावीर्यं यथोत्साहं यथावयः |
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ||३०||
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा |
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथञ्चन ||३१||
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु |
न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन ||३२||
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः |
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ||३३||
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः |
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ||३४||
२
वैशम्पायन उवाच||
ततः पूर्वापरे सन्ध्ये समीक्ष्य भगवानृषिः |
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ||१||
भविष्यति रणे घोरे भरतानां पितामहः |
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ||२||
वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् |
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ||३||
व्यास उवाच||
राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः |
ते हनिष्यन्ति सङ्ग्रामे समासाद्येतरेतरम् ||४||
तेषु कालपरीतेषु विनश्यत्सु च भारत |
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ||५||
यदि त्विच्छसि सङ्ग्रामे द्रष्टुमेनं विशां पते |
चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय ||६||
धृतराष्ट्र उवाच||
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम |
युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ||७||
वैशम्पायन उवाच||
तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति |
वराणामीश्वरो दाता सञ्जयाय वरं ददौ ||८||
व्यास उवाच||
एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति |
एतस्य सर्वं सङ्ग्रामे नपरोक्षं भविष्यति ||९||
चक्षुषा सञ्जयो राजन्दिव्येनैष समन्वितः |
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ||१०||
प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा |
मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः ||११||
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः |
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ||१२||
अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ |
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ||१३||
दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि |
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ||१४||
वैशम्पायन उवाच||
एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः |
पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह ||१५||
इह युद्धे महाराज भविष्यति महान्क्षयः |
यथेमानि निमित्तानि भयायाद्योपलक्षये ||१६||
श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः |
सम्पतन्ति वनान्तेषु समवायांश्च कुर्वते ||१७||
अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः |
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ||१८||
खटाखटेति वाशन्तो भैरवं भयवेदिनः |
कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ||१९||
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत |
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ||२०||
श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः |
त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ||२१||
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् |
अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति ||२२||
अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् |
चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ||२३||
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः |
राजानो राजपुत्राश्च शूराः परिघबाहवः ||२४||
अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः |
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ||२५||
देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च |
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ||२६||
अनाहता दुन्दुभयः प्रणदन्ति विशां पते |
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ||२७||
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा |
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ||२८||
गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः |
अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः ||२९||
उभे सन्ध्ये प्रकाशेते दिशां दाहसमन्विते |
आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ||३०||
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता |
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ||३१||
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः |
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ||३२||
अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् |
वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः ||३३||
३
व्यास उवाच||
खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः |
अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः ||१||
गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान् |
क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् ||२||
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः |
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ||३||
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः |
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ||४||
तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम् |
वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव ||५||
गोवत्सं वडवा सूते श्वा सृगालं महीपते |
क्रकराञ्शारिकाश्चैव शुकांश्चाशुभवादिनः ||६||
स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः |
ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च ||७||
पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि |
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ||८||
प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः |
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ||९||
उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः ||९||
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च |
विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति ||१०||
अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत् |
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ||११||
अभावं हि विशेषेण कुरूणां प्रतिपश्यति |
धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति ||१२||
सेनयोरशिवं घोरं करिष्यति महाग्रहः |
मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ||१३||
भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते |
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते ||१४||
उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते ||१४||
श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः |
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ||१५||
ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते |
चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः ||१६||
वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः |
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ||१७||
सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी |
पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः ||१८||
प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् |
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ||१९||
निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् |
व्यक्तं पश्यन्ति शस्त्राणि सङ्ग्रामं समुपस्थितम् ||२०||
अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च |
कवचानां ध्वजानां च भविष्यति महान्क्षयः ||२१||
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः |
अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् ||२२||
एकपक्षाक्षिचरणः शकुनिः खचरो निशि |
रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः ||२३||
ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ |
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ||२४||
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ |
विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ||२५||
कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् |
वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः ||२६||
त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते |
बुधः सम्पततेऽभीक्ष्णं जनयन्सुमहद्भयम् ||२७||
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् |
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ||२८||
चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम् |
अपर्वणि ग्रहावेतौ प्रजाः सङ्क्षपयिष्यतः ||२९||
रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः |
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ||३०||
मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् |
अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः ||३१||
प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः |
फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव ||३२||
पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः ||३२||
अद्य चैव निशां व्युष्टामुदये भानुराहतः |
ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् ||३३||
आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः |
भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ||३४||
कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः |
सहस्रशो महाशब्दं शिखराणि पतन्ति च ||३५||
महाभूता भूमिकम्पे चतुरः सागरान्पृथक् |
वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः ||३६||
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः |
पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च ||३७||
पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः |
वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः ||३८||
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ||३८||
धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः |
मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा ||३९||
प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि |
गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः ||४०||
पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च |
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ||४१||
ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः |
रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः ||४२||
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् |
यथा लोकः समुच्छेदं नायं गच्छेत भारत ||४३||
वैशम्पायन उवाच||
पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् |
दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः ||४४||
क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे |
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ||४५||
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् |
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ||४६||
४
वैशम्पायन उवाच||
एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम |
पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् ||१||
पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः |
असंशयं पार्थिवेन्द्र कालः सङ्क्षिपते जगत् ||२||
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् |
ज्ञातीनां च कुरूणां च सम्बन्धिसुहृदां तथा ||३||
धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे |
क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ||४||
कालोऽयं पुत्ररूपेण तव जातो विशां पते |
न वधः पूज्यते वेदे हितं नैतत्कथञ्चन ||५||
हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम् |
कालेनोत्पथगन्तासि शक्ये सति यथापथि ||६||
कुलस्यास्य विनाशाय तथैव च महीक्षिताम् |
अनर्थो राज्यरूपेण त्यज्यतामसुखावहः ||७||
लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् |
किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् ||८||
यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि |
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ||९||
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः |
आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः ||१०||
धृतराष्ट्र उवाच||
यथा भवान्वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत् |
स्वार्थे हि संमुह्यति तात लोको; मां चापि लोकात्मकमेव विद्धि ||११||
प्रसादये त्वामतुलप्रभावं; त्वं नो गतिर्दर्शयिता च धीरः |
न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुमिहार्हसे माम् ||१२||
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः |
कुरूणां पाण्डवानां च मान्यश्चासि पितामहः ||१३||
व्यास उवाच||
वैचित्रवीर्य नृपते यत्ते मनसि वर्तते |
अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् ||१४||
धृतराष्ट्र उवाच||
यानि लिङ्गानि सङ्ग्रामे भवन्ति विजयिष्यताम् |
तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः ||१५||
व्यास उवाच||
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः |
पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः ||१६||
गम्भीरघोषाश्च महास्वनाश्च; शङ्खा मृदङ्गाश्च नदन्ति यत्र |
विशुद्धरश्मिस्तपनः शशी च; जयस्यैतद्भाविनो रूपमाहुः ||१७||
इष्टा वाचः पृष्ठतो वायसानां; सम्प्रस्थितानां च गमिष्यतां च |
ये पृष्ठतस्ते त्वरयन्ति राज; न्ये त्वग्रतस्ते प्रतिषेधयन्ति ||१८||
कल्याणवाचः शकुना राजहंसाः; शुकाः क्रौञ्चाः शतपत्राश्च यत्र |
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये; ध्रुवं जयं तत्र वदन्ति विप्राः ||१९||
अलङ्कारैः कवचैः केतुभिश्च; मुखप्रसादैर्हेमवर्णैश्च नॄणाम् |
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्ते विजयन्ति शत्रून् ||२०||
हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत |
न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् ||२१||
इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः |
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते ||२२||
शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः |
सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः ||२३||
अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च |
अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च ||२४||
एतानि जयमानानां लक्षणानि विशां पते |
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ||२५||
अल्पायां वा महत्यां वा सेनायामिति निश्चितम् |
हर्षो योधगणस्यैकं जयलक्षणमुच्यते ||२६||
एको दीर्णो दारयति सेनां सुमहतीमपि |
तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि ||२७||
दुर्निवारतमा चैव प्रभग्ना महती चमूः |
अपामिव महावेगस्त्रस्ता मृगगणा इव ||२८||
नैव शक्या समाधातुं संनिपाते महाचमूः |
दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि ||२९||
भीतान्भग्नांश्च सम्प्रेक्ष्य भयं भूयो विवर्धते ||२९||
प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः |
नैव स्थापयितुं शक्या शूरैरपि महाचमूः ||३०||
सम्भृत्य महतीं सेनां चतुरङ्गां महीपतिः |
उपायपूर्वं मेधावी यतेत सततोत्थितः ||३१||
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् |
जघन्य एष विजयो यो युद्धेन विशां पते ||३२||
महादोषः संनिपातस्ततो व्यङ्गः स उच्यते ||३२||
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः |
पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् ||३३||
अथ वा पञ्च षट्सप्त विजयन्त्यनिवर्तिनः ||३३||
न वैनतेयो गरुडः प्रशंसति महाजनम् |
दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत ||३४||
न बाहुल्येन सेनाया जयो भवति भारत |
अध्रुवो हि जयो नाम दैवं चात्र परायणम् ||३५||
जयन्तो ह्यपि सङ्ग्रामे क्षयवन्तो भवन्त्युत ||३५||
५
वैशम्पायन उवाच||
एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते |
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत ||१||
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः |
सञ्जयं संशितात्मानमपृच्छद्भरतर्षभ ||२||
सञ्जयेमे महीपालाः शूरा युद्धाभिनन्दिनः |
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि ||३||
पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः |
न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम् ||४||
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् |
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय ||५||
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च |
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ||६||
देशानां च परीमाणं नगराणां च सञ्जय |
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ||७||
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा |
प्रसादात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ||८||
सञ्जय उवाच||
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् |
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ||९||
द्विविधानीह भूतानि त्रसानि स्थावराणि च |
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ||१०||
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः |
जरायुजानां प्रवरा मानवाः पशवश्च ये ||११||
नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश |
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ||१२||
सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा |
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ||१३||
गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः |
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ||१४||
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश |
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ||१५||
ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम् |
सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् ||१६||
उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः |
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ||१७||
एषां विंशतिरेकोना महाभूतेषु पञ्चसु |
चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता ||१८||
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् |
तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति ||१९||
भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति |
भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् ||२०||
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् |
तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ||२१||
६
धृतराष्ट्र उवाच||
नदीनां पर्वतानां च नामधेयानि सञ्जय |
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ||१||
प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः |
निखिलेन समाचक्ष्व काननानि च सञ्जय ||२||
सञ्जय उवाच||
पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात् |
जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः ||३||
भूमिरापस्तथा वायुरग्निराकाशमेव च |
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ||४||
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ||५||
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते |
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ||६||
शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च ||६||
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु |
वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः ||७||
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा |
यदा तु विषमीभावमाविशन्ति परस्परम् ||८||
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ||८||
आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः |
सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् ||९||
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः |
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ||१०||
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् |
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ||११||
सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन |
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ||१२||
नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः |
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ||१३||
वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान् |
लावणेन समुद्रेण समन्तात्परिवारितः ||१४||
यथा च पुरुषः पश्येदादर्शे मुखमात्मनः |
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ||१५||
द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान् |
सर्वौषधिसमावापैः सर्वतः परिबृंहितः ||१६||
आपस्ततोऽन्या विज्ञेया एष सङ्क्षेप उच्यते ||१६||
७
धृतराष्ट्र उवाच||
उक्तो द्वीपस्य सङ्क्षेपो विस्तरं ब्रूहि सञ्जय |
यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे ||१||
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ||१||
वैशम्पायन उवाच||
एवमुक्तः स राज्ञा तु सञ्जयो वाक्यमब्रवीत् |
प्रागायता महाराज षडेते रत्नपर्वताः ||२||
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ||२||
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः |
नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः ||३||
सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः ||३||
एते वै पर्वता राजन्सिद्धचारणसेविताः |
तेषामन्तरविष्कम्भो योजनानि सहस्रशः ||४||
तत्र पुण्या जनपदास्तानि वर्षाणि भारत |
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ||५||
इदं तु भारतं वर्षं ततो हैमवतं परम् |
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ||६||
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च |
प्रागायतो महाराज माल्यवान्नाम पर्वतः ||७||
ततः परं माल्यवतः पर्वतो गन्धमादनः |
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ||८||
आदित्यतरुणाभासो विधूम इव पावकः |
योजनानां सहस्राणि षोडशाधः किल स्मृतः ||९||
उच्चैश्च चतुराशीतिर्योजनानां महीपते |
ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति ||१०||
तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो |
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत ||११||
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ||११||
विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल |
स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् ||१२||
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् |
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ||१३||
तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः |
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् ||१४||
स पर्वतो महाराज दिव्यपुष्पफलान्वितः |
भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः ||१५||
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः |
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः ||१६||
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः |
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ||१७||
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः |
अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो ||१८||
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः |
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ||१९||
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते |
तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः ||२०||
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते |
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ||२१||
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् |
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ||२२||
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः |
उमासहायो भगवान्रमते भूतभावनः ||२३||
कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् |
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः ||२४||
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः |
पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ||२५||
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर |
त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना ||२६||
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा |
पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे ||२७||
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ||२७||
तां धारयामास पुरा दुर्धरां पर्वतैरपि |
शतं वर्षसहस्राणां शिरसा वै महेश्वरः ||२८||
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते |
जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः ||२९||
आयुर्दश सहस्राणि वर्षाणां तत्र भारत |
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ||३०||
अनामया वीतशोका नित्यं मुदितमानसाः |
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ||३१||
गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः |
संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः ||३२||
गन्धमादनपादेषु परेष्वपरगण्डिकाः |
एकादश सहस्राणि वर्षाणां परमायुषः ||३३||
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः |
स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ||३४||
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् |
वर्षमैरावतं नाम ततः शृङ्गवतः परम् ||३५||
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे |
इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह ||३६||
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः |
आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ||३७||
समन्वितानि भूतानि तेषु वर्षेषु भारत |
एवमेषा महाराज पर्वतैः पृथिवी चिता ||३८||
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः |
यत्र वैश्रवणो राजा गुह्यकैः सह मोदते ||३९||
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति |
हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ||४०||
तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् |
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ||४१||
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ||४१||
यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः |
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ||४२||
सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः |
उपास्यते तिग्मतेजा वृतो भूतैः समागतैः ||४३||
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ||४३||
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता |
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ||४४||
वस्वोकसारा नलिनी पावना च सरस्वती |
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ||४५||
अचिन्त्या दिव्यसङ्कल्पा प्रभोरेषैव संविधिः |
उपासते यत्र सत्रं सहस्रयुगपर्यये ||४६||
दृश्यादृश्या च भवति तत्र तत्र सरस्वती |
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ||४७||
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः |
सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः ||४८||
देवासुराणां च गृहं श्वेतः पर्वत उच्यते |
गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप ||४९||
शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः ||४९||
इत्येतानि महाराज सप्त वर्षाणि भागशः |
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ||५०||
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी |
अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता ||५१||
यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् |
पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे ||५२||
कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च ||५२||
ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः |
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ||५३||
८
धृतराष्ट्र उवाच||
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय |
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ||१||
सञ्जय उवाच||
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे |
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ||२||
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः |
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ||३||
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप |
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ||४||
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् |
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ||५||
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका |
सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप ||६||
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः |
तुल्यरूपगुणोपेताः समेषु विषमेषु च ||७||
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः |
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ||८||
मिथुनं जायमानं वै समं तच्च प्रवर्धते |
तुल्यरूपगुणोपेतं समवेषं तथैव च ||९||
एकैकमनुरक्तं च चक्रवाकसमं विभो ||९||
निरामया वीतशोका नित्यं मुदितमानसाः |
दश वर्षसहस्राणि दश वर्षशतानि च ||१०||
जीवन्ति ते महाराज न चान्योन्यं जहत्युत ||१०||
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः |
ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च ||११||
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः |
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ||१२||
तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते |
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ||१३||
कालाम्रश्च महाराज नित्यपुष्पफलः शुभः |
द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः ||१४||
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः |
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ||१५||
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः |
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः ||१६||
दश वर्षसहस्राणि तत्रायुर्भरतर्षभ |
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ||१७||
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु |
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ||१८||
सर्वकामफलः पुण्यः सिद्धचारणसेवितः |
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ||१९||
योजनानां सहस्रं च शतं च भरतर्षभ |
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ||२०||
अरत्नीनां सहस्रं च शतानि दश पञ्च च |
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ||२१||
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् |
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् ||२२||
तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप |
मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् ||२३||
पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप |
तस्मिन्फलरसे पीते न जरा बाधते च तान् ||२४||
तत्र जाम्बूनदं नाम कनकं देवभूषणम् |
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ||२५||
तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् |
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ||२६||
तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका |
योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः ||२७||
महारजतसङ्काशा जायन्ते तत्र मानवाः |
ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः ||२८||
तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः |
रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् ||२९||
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च |
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ||३०||
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च |
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ||३१||
९
धृतराष्ट्र उवाच||
वर्षाणां चैव नामानि पर्वतानां च सञ्जय |
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ||१||
सञ्जय उवाच||
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु |
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ||२||
शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः |
रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः ||३||
दश वर्षसहस्राणि शतानि दश पञ्च च |
जीवन्ति ते महाराज नित्यं मुदितमानसाः ||४||
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च |
वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ||५||
यक्षानुगा महाराज धनिनः प्रियदर्शनाः |
महाबलास्तत्र सदा राजन्मुदितमानसाः ||६||
एकादश सहस्राणि वर्षाणां ते जनाधिप |
आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ||७||
शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप |
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् ||८||
सर्वरत्नमयं चैकं भवनैरुपशोभितम् |
तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली ||९||
उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप |
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ||१०||
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः |
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ||११||
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः |
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ||१२||
अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः |
देवलोकच्युताः सर्वे तथा विरजसो नृप ||१३||
त्रयोदश सहस्राणि वर्षाणां ते जनाधिप |
आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम ||१४||
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः |
हरिर्वसति वैकुण्ठः शकटे कनकात्मके ||१५||
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् |
अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् ||१६||
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ |
सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता च सः ||१७||
पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव |
स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ||१८||
वैशम्पायन उवाच||
एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः |
ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ||१९||
स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः |
असंशयं सूतपुत्र कालः सङ्क्षिपते जगत् ||२०||
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ||२०||
नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत् |
देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् ||२१||
१०
धृतराष्ट्र उवाच||
यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम् |
यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम ||१||
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः |
एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि सञ्जय ||२||
सञ्जय उवाच||
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम |
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ||३||
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः |
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ||४||
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् |
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ||५||
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः |
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ||६||
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च |
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ||७||
अन्येषां च महाराज क्षत्रियाणां बलीयसाम् |
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ||८||
तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम |
शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ||९||
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि |
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ||१०||
तेषां सहस्रशो राजन्पर्वतास्तु समीपतः |
अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ||११||
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः |
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ||१२||
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् |
गोदावरीं नर्मदां च बाहुदां च महानदीम् ||१३||
शतद्रुं चन्द्रभागां च यमुनां च महानदीम् |
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ||१४||
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् |
इरावतीं वितस्तां च पयोष्णीं देविकामपि ||१५||
वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम् |
करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् ||१६||
गोमतीं धूतपापां च वन्दनां च महानदीम् |
कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् ||१७||
रथस्थां शतकुम्भां च सरयूं च नरेश्वर |
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ||१८||
शतावरीं पयोष्णीं च परां भैमरथीं तथा |
कावेरीं चुलुकां चापि वापीं शतबलामपि ||१९||
निचीरां महितां चापि सुप्रयोगां नराधिप |
पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् ||२०||
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा |
पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् ||२१||
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् |
पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा ||२२||
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव |
सदानीरामधृष्यां च कुशधारां महानदीम् ||२३||
शशिकान्तां शिवां चैव तथा वीरवतीमपि |
वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् ||२४||
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् |
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ||२५||
उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् |
वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् ||२६||
विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि |
शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् ||२७||
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् |
कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् ||२८||
दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् |
चरक्षां महिरोहीं च तथा जम्बुनदीमपि ||२९||
सुनसां तमसां दासीं त्रसामन्यां वराणसीम् |
लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् ||३०||
मानवीं वृषभां चैव महानद्यो जनाधिप |
सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् ||३१||
ब्रह्माणीं च महागौरीं दुर्गामपि च भारत |
चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् ||३२||
मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् |
शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् ||३३||
लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् |
कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत ||३४||
सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष |
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः ||३५||
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः |
इत्येताः सरितो राजन्समाख्याता यथास्मृति ||३६||
अत ऊर्ध्वं जनपदान्निबोध गदतो मम |
तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः ||३७||
शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च |
मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः ||३८||
चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः |
उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह ||३९||
पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगन्धराः |
सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः ||४०||
जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत |
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ||४१||
गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः |
अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः ||४२||
आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् |
वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः ||४३||
विदेहका मागधाश्च सुह्माश्च विजयास्तथा |
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ||४४||
मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः |
वाहीका वाटधानाश्च आभीराः कालतोयकाः ||४५||
अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः |
अटवीशबराश्चैव मरुभौमाश्च मारिष ||४६||
उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा |
कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः ||४७||
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च |
बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः ||४८||
मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप |
पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा ||४९||
शका निषादा निषधास्तथैवानर्तनैरृताः |
दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा ||५०||
तीरग्राहास्तरतोया राजिका रस्यकागणाः |
तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः ||५१||
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा |
अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा ||५२||
दर्वीकाः सकचा दर्वा वातजामरथोरगाः |
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ||५३||
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा |
वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः ||५४||
कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः |
किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः ||५५||
ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष |
अथापरे जनपदा दक्षिणा भरतर्षभ ||५६||
द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः |
उन्नत्यका माहिषका विकल्पा मूषकास्तथा ||५७||
कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः |
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः ||५८||
समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः |
ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः सर्वसेनयः ||५९||
त्र्यङ्गाः केकरकाः प्रोष्ठाः परसञ्चरकास्तथा |
तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ||६०||
मालका मल्लकाश्चैव तथैवापरवर्तकाः |
कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा ||६१||
मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः |
आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा ||६२||
हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः |
उत्तराश्चापरे म्लेच्छा जना भरतसत्तम ||६३||
यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः |
सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह ||६४||
तथैव मरधाश्चीनास्तथैव दशमालिकाः |
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ||६५||
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह |
खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः ||६६||
आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः |
औपकाश्च कलिङ्गाश्च किरातानां च जातयः ||६७||
तामरा हंसमार्गाश्च तथैव करभञ्जकाः |
उद्देशमात्रेण मया देशाः सङ्कीर्तिताः प्रभो ||६८||
यथागुणबलं चापि त्रिवर्गस्य महाफलम् |
दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता ||६९||
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः |
ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः ||७०||
देवमानुषकायानां कामं भूमिः परायणम् |
अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् ||७१||
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् |
न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् ||७२||
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः |
साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ||७३||
पिता माता च पुत्रश्च खं द्यौश्च नरपुङ्गव |
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी ||७४||
११
धृतराष्ट्र उवाच||
भारतस्यास्य वर्षस्य तथा हैमवतस्य च |
प्रमाणमायुषः सूत फलं चापि शुभाशुभम् ||१||
अनागतमतिक्रान्तं वर्तमानं च सञ्जय |
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ||२||
सञ्जय उवाच||
चत्वारि भारते वर्षे युगानि भरतर्षभ |
कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन ||३||
पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो |
सङ्क्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते ||४||
चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम |
आयुःसङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम ||५||
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप |
द्विसहस्रं द्वापरे तु शते तिष्ठति सम्प्रति ||६||
न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ |
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ||७||
महाबला महासत्त्वाः प्रजागुणसमन्विताः |
अजायन्त कृते राजन्मुनयः सुतपोधनाः ||८||
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः |
जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः ||९||
आयुष्मन्तो महावीरा धनुर्धरवरा युधि |
जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः ||१०||
सर्ववर्णा महाराज जायन्ते द्वापरे सति |
महोत्साहा महावीर्याः परस्परवधैषिणः ||११||
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप |
लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत ||१२||
ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च |
पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत ||१३||
सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप |
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ||१४||
भूमिपर्व
१२
धृतराष्ट्र उवाच||
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय |
विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः ||१||
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन |
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ||२||
शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च |
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ||३||
सञ्जय उवाच||
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत् |
सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा ||४||
अष्टादश सहस्राणि योजनानां विशां पते |
षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ||५||
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः |
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ||६||
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः |
सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः ||७||
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव |
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ||८||
जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप |
विष्कम्भेण महाराज सागरोऽपि विभागशः ||९||
क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः ||९||
तत्र पुण्या जनपदा न तत्र म्रियते जनः |
कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ||१०||
शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ |
उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि ||११||
धृतराष्ट्र उवाच||
शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय |
उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः ||१२||
सञ्जय उवाच||
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः |
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ||१३||
अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप ||१३||
देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते |
प्रागायतो महाराज मलयो नाम पर्वतः ||१४||
यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ||१४||
ततः परेण कौरव्य जलधारो महागिरिः |
यत्र नित्यमुपादत्ते वासवः परमं जलम् ||१५||
यतो वर्षं प्रभवति वर्षाकाले जनेश्वर ||१५||
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः |
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ||१६||
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः |
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ||१७||
धृतराष्ट्र उवाच||
सुमहान्संशयो मेऽद्य प्रोक्तं सञ्जय यत्त्वया |
प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह ||१८||
सञ्जय उवाच||
सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन |
गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप ||१९||
श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत |
आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः ||२०||
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः |
केसरी केसरयुतो यतो वातः प्रवायति ||२१||
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः |
वर्षाणि तेषु कौरव्य सम्प्रोक्तानि मनीषिभिः ||२२||
महामेरुर्महाकाशो जलदः कुमुदोत्तरः |
जलधारात्परो राजन्सुकुमार इति स्मृतः ||२३||
रैवतस्य तु कौमारः श्यामस्य तु मणीचकः |
केसरस्याथ मोदाकी परेण तु महापुमान् ||२४||
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च |
जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः ||२५||
शाको नाम महाराज तस्य द्वीपस्य मध्यगः |
तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः ||२६||
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च |
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ||२७||
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते |
दीर्घायुषो महाराज जरामृत्युविवर्जिताः ||२८||
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः |
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः ||२९||
सुकुमारी कुमारी च सीता कावेरका तथा |
महानदी च कौरव्य तथा मणिजला नदी ||३०||
इक्षुवर्धनिका चैव तथा भरतसत्तम ||३०||
ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह |
सहस्राणां शतान्येव यतो वर्षति वासवः ||३१||
न तासां नामधेयानि परिमाणं तथैव च |
शक्यते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः ||३२||
तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः |
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ||३३||
मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप |
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ||३४||
मानसेषु महाराज वैश्याः कर्मोपजीविनः |
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ||३५||
शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ||३५||
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः |
स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् ||३६||
एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् |
एतावदेव श्रोतव्यं शाकद्वीपे महौजसि ||३७||
१३
सञ्जय उवाच||
उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा |
यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे ||१||
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः |
सुरोदः सागरश्चैव तथान्यो घर्मसागरः ||२||
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप |
सर्वतश्च महाराज पर्वतैः परिवारिताः ||३||
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् |
पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप ||४||
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः |
प्रजापतिमुपासीनः प्रजानां विदधे सुखम् ||५||
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह |
सम्पूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप ||६||
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः |
सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा ||७||
गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् |
यत्र नित्यं निवसति श्रीमान्कमललोचनः ||८||
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ||८||
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः |
सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ||९||
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः |
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ||१०||
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः |
तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः ||११||
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् |
तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् ||१२||
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम् |
सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः ||१३||
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर |
विहरन्ति रमन्ते च न तेषु म्रियते जनः ||१४||
न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप |
गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ||१५||
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर |
यथाश्रुतं महाराज तदव्यग्रमनाः शृणु ||१६||
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः |
क्रौञ्चात्परो वामनको वामनादन्धकारकः ||१७||
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः |
मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः ||१८||
गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः |
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ||१९||
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु |
क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ||२०||
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह |
उष्णात्परः प्रावरकः प्रावरादन्धकारकः ||२१||
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः |
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ||२२||
सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप |
एते देशा महाराज देवगन्धर्वसेविताः ||२३||
पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् |
तत्र नित्यं निवसति स्वयं देवः प्रजापतिः ||२४||
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः |
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप ||२५||
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत |
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन ||२६||
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च |
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः ||२७||
एको जनपदो राजन्द्वीपेष्वेतेषु भारत |
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ||२८||
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः |
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ||२९||
स राजा स शिवो राजन्स पिता स पितामहः |
गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ||३०||
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् |
सिद्धमेव महाराज भुञ्जते तत्र नित्यदा ||३१||
ततः परं समा नाम दृश्यते लोकसंस्थितिः |
चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् ||३२||
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः |
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ||३३||
सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः ||३३||
तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे |
असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ||३४||
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च |
असम्बाधा महाराज तान्निगृह्णन्ति ते गजाः ||३५||
पुष्करैः पद्मसङ्काशैर्वर्ष्मवद्भिर्महाप्रभैः |
ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः ||३६||
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः |
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ||३७||
धृतराष्ट्र उवाच||
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः |
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ||३८||
सञ्जय उवाच||
उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः |
स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः ||३९||
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः |
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ||४०||
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ |
षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ||४१||
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः |
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ||४२||
एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः ||४२||
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन |
विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् ||४३||
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ |
श्रूयते परमोदारः पतङ्गोऽसौ विभावसुः ||४४||
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ||४४||
स राहुश्छादयत्येतौ यथाकालं महत्तया |
चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः ||४५||
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा |
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ||४६||
यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत् |
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ||४७||
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् |
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः ||४८||
आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते ||४८||
यः शृणोति महीपाल पर्वणीदं यतव्रतः |
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ||४९||
इदं तु भारतं वर्षं यत्र वर्तामहे वयम् |
पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि ||५०||
भगवद्गीतापर्व
१४
वैशम्पायन उवाच||
अथ गावल्गणिर्धीमान्समरादेत्य सञ्जयः |
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ||१||
ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः |
आचष्ट निहतं भीष्मं भरतानाममध्यमम् ||२||
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ |
हतो भीष्मः शान्तनवो भरतानां पितामहः ||३||
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् |
शरतल्पगतः सोऽद्य शेते कुरुपितामहः ||४||
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् |
स शेते निहतो राजन्सङ्ख्ये भीष्मः शिखण्डिना ||५||
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे |
जिगायैकरथेनैव काशिपुर्यां महारथः ||६||
जामदग्न्यं रणे राममायोध्य वसुसम्भवः |
न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ||७||
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव |
समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः ||८||
शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः |
नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ||९||
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे |
प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः ||१०||
परिरक्ष्य स सेनां ते दशरात्रमनीकहा |
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ||११||
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः |
जघान युधि योधानामर्बुदं दशभिर्दिनैः ||१२||
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः |
तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ||१३||
१५
धृतराष्ट्र उवाच||
कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना |
कथं रथात्स न्यपतत्पिता मे वासवोपमः ||१||
कथमासंश्च मे पुत्रा हीना भीष्मेण सञ्जय |
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ||२||
तस्मिन्हते महासत्त्वे महेष्वासे महाबले |
महारथे नरव्याघ्रे किमु आसीन्मनस्तदा ||३||
आर्तिः परा माविशति यतः शंससि मे हतम् |
कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् ||४||
के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः |
केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त सञ्जय ||५||
के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् |
रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ||६||
यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा |
सहस्ररश्मिप्रतिमः परेषां भयमादधत् ||७||
अकरोद्दुष्करं कर्म रणे कौरवशासनात् ||७||
ग्रसमानमनीकानि य एनं पर्यवारयन् |
कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके ||८||
कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ||८||
निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् |
चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ||९||
अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् |
पातयामास कौन्तेयः कथं तमजितं युधि ||१०||
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे |
परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः ||११||
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे |
कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः ||१२||
परिकृष्य स सेनां मे दशरात्रमनीकहा |
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ||१३||
यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् |
जघान युधि योधानामर्बुदं दशभिर्दिनैः ||१४||
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः |
मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः ||१५||
कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी |
प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ||१६||
कथं भीष्मेण सङ्ग्राममकुर्वन्पाण्डुनन्दनाः |
कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय ||१७||
कृपे संनिहिते तत्र भरद्वाजात्मजे तथा |
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ||१८||
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना |
भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः ||१९||
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् |
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ||२०||
तं हतं समरे भीष्मं महारथबलोचितम् |
सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे ||२१||
मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् |
दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ||२२||
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः |
कच्चिन्न कुरवो भीतास्तत्यजुः सञ्जयाच्युतम् ||२३||
मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् |
धनुर्ह्वादमहाशब्दो महामेघ इवोन्नतः ||२४||
यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् |
निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् ||२५||
इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् |
कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् ||२६||
गदासिमकरावर्तं हयग्राहं गजाकुलम् ||२६||
हयान्गजान्पदातांश्च रथांश्च तरसा बहून् |
निमज्जयन्तं समरे परवीरापहारिणम् ||२७||
विदह्यमानं कोपेन तेजसा च परन्तपम् |
वेलेव मकरावासं के वीराः पर्यवारयन् ||२८||
भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा |
दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् ||२९||
केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः |
पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः ||३०||
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके |
केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः ||३१||
वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान् |
समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् ||३२||
पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् |
समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय ||३३||
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते |
दुर्जयानामनीकानि नाजयंस्तरसा युधि ||३४||
सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः |
कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः ||३५||
यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः |
तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय ||३६||
यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः |
न पाण्डवानगणयत्कथं स निहतः परैः ||३७||
यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः |
काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः ||३८||
यस्मिञ्जाते महावीर्ये शन्तनुर्लोकशङ्करे |
शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि ||३९||
प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् |
वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् ||४०||
सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् |
हतं शान्तनवं श्रुत्वा मन्ये शेषं बलं हतम् ||४१||
धर्मादधर्मो बलवान्सम्प्राप्त इति मे मतिः |
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ||४२||
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः |
अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ||४३||
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् |
हतं शंससि भीष्मं मे किं नु दुःखमतः परम् ||४४||
असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः |
जामदग्न्यस्तथा रामः परवीरनिघातिना ||४५||
तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् |
तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः ||४६||
यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् |
परमास्त्रविदं वीरं जघान भरतर्षभम् ||४७||
के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि |
शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः ||४८||
योषेव हतवीरा मे सेना पुत्रस्य सञ्जय |
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ||४९||
पौरुषं सर्वलोकस्य परं यस्य महाहवे |
परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ||५०||
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय |
घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ||५१||
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः |
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ||५२||
अद्रिसारमयं नूनं सुदृढं हृदयं मम |
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ||५३||
यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे |
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ||५४||
न चास्त्रेण न शौर्येण तपसा मेधया न च |
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ||५५||
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः |
यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ||५६||
पुत्रशोकाभिसन्तप्तो महद्दुःखमचिन्तयन् |
आशंसेऽहं पुरा त्राणं भीष्माच्छन्तनुनन्दनात् ||५७||
यदादित्यमिवापश्यत्पतितं भुवि सञ्जय |
दुर्योधनः शान्तनवं किं तदा प्रत्यपद्यत ||५८||
नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् |
शेषं किञ्चित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ||५९||
दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः |
यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ||६०||
वयं वा राज्यमिच्छामो घातयित्वा पितामहम् |
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ||६१||
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय |
पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् ||६२||
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् |
कथं शान्तनवं तात पाण्डुपुत्रा न्यपातयन् ||६३||
कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः |
कथं वा निहतो भीष्मः पिता सञ्जय मे परैः ||६४||
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः |
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ||६५||
यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् |
शरशक्तिगदाखड्गतोमराक्षां भयावहाम् ||६६||
प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् |
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ||६७||
केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः |
अन्ये भीष्माच्छान्तनवात्तन्ममाचक्ष्व सञ्जय ||६८||
न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् |
पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् ||६९||
आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम् |
त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि सञ्जय ||७०||
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् |
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ||७१||
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् |
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ||७२||
सङ्ग्रामे पृथिवीशानां मन्दस्याबुद्धिसम्भवम् |
अपनीतं सुनीतं वा तन्ममाचक्ष्व सञ्जय ||७३||
यत्कृतं तत्र भीष्मेण सङ्ग्रामे जयमिच्छता |
तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ||७४||
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः |
क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् ||७५||
१६
सञ्जय उवाच||
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि |
न तु दुर्योधने दोषमिममासक्तुमर्हसि ||१||
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः |
एनसा तेन नान्यं स उपाशङ्कितुमर्हति ||२||
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् |
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ||३||
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया |
अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ||४||
हयानां च गजानां च शूराणां चामितौजसाम् |
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ||५||
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः |
दिष्टमेतत्पुरा नूनमेवम्भावि नराधिप ||६||
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते |
यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् ||७||
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च |
परचित्तस्य विज्ञानमतीतानागतस्य च ||८||
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा |
शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ||९||
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् |
भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् ||१०||
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः |
दुर्योधनो महाराज दुःशासनमथाब्रवीत् ||११||
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः |
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ||१२||
अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः |
पाण्डवानां ससैन्यानां कुरूणां च समागमः ||१३||
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् |
हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ||१४||
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् |
श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ||१५||
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः |
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ||१६||
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः |
सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् ||१७||
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् |
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ||१८||
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् |
गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ||१९||
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः |
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ||२०||
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् |
क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ||२१||
शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत |
हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा ||२२||
गजानां बृंहतां चैव योधानां चाभिगर्जताम् |
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ||२३||
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः |
सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ||२४||
तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ||२४||
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः |
विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ||२५||
रथानीकान्यदृश्यन्त नगराणीव भूरिशः |
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ||२६||
धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः |
योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः ||२७||
गजा रथाः पदाताश्च तुरगाश्च विशां पते |
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ||२८||
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः |
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ||२९||
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः |
अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः ||३०||
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव |
संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः ||३१||
उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः |
ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ||३२||
शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः |
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ||३३||
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः |
बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ||३४||
दशैते पुरुषव्याघ्राः शूराः परिघबाहवः |
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ||३५||
एते चान्ये च बहवो दुर्योधनवशानुगाः |
राजानो राजपुत्राश्च नीतिमन्तो महाबलाः ||३६||
संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः |
बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः ||३७||
सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः |
समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः ||३८||
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः |
अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः ||३९||
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् |
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ||४०||
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् |
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ||४१||
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः |
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ||४२||
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा |
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ||४३||
एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत |
पाण्डवानां तथा सप्त महापुरुषपालिताः ||४४||
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ |
युगान्ते समुपेतौ द्वौ दृश्येते सागराविव ||४५||
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः |
अनीकानां समेतानां समवायस्तथाविधः ||४६||
१७
सञ्जय उवाच||
यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् |
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ||१||
मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत |
दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः ||२||
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत |
ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि ||३||
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः |
लिप्समानाः शरीराणि मांसशोणितभोजनाः ||४||
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः |
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ||५||
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ |
युयुधाते तवार्थाय यथा स समयः कृतः ||६||
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव |
समानीय महीपालानिदं वचनमब्रवीत् ||७||
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् |
गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् ||८||
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः |
सम्भावयत चात्मानमव्यग्रमनसो युधि ||९||
नाभागो हि ययातिश्च मान्धाता नहुषो नृगः |
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ||१०||
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे |
यदाजौ निधनं याति सोऽस्य धर्मः सनातनः ||११||
एवमुक्ता महीपाला भीष्मेण भरतर्षभ |
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ||१२||
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः |
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ||१३||
अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः |
निर्ययुः सिंहनादेन नादयन्तो दिशो दश ||१४||
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः |
तान्यनीकान्यशोभन्त रथैरथ पदातिभिः ||१५||
भेरीपणवशब्दैश्च पटहानां च निस्वनैः |
रथनेमिनिनादैश्च बभूवाकुलिता मही ||१६||
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः |
भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव ||१७||
तालेन महता भीष्मः पञ्चतारेण केतुना |
विमलादित्यसङ्काशस्तस्थौ कुरुचमूपतिः ||१८||
ये त्वदीया महेष्वासा राजानो भरतर्षभ |
अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते ||१९||
स तु गोवासनः शैब्यः सहितः सर्वराजभिः |
ययौ मातङ्गराजेन राजार्हेण पताकिना ||२०||
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ||२०||
अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः |
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ||२१||
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः |
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ||२२||
स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः ||२२||
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् |
भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः ||२३||
जाम्बूनदमयी वेदिः कमण्डलुविभूषिता |
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ||२४||
अनेकशतसाहस्रमनीकमनुकर्षतः |
महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ||२५||
तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः |
क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः ||२६||
स्यन्दनेन महार्हेण केतुना वृषभेण च |
प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ ||२७||
तदङ्गपतिना गुप्तं कृपेण च महात्मना |
शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् ||२८||
अनीकप्रमुखे तिष्ठन्वराहेण महायशाः |
शुशुभे केतुमुख्येन राजतेन जयद्रथः ||२९||
शतं रथसहस्राणां तस्यासन्वशवर्तिनः |
अष्टौ नागसहस्राणि सादिनामयुतानि षट् ||३०||
तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् |
अनन्तरथनागाश्वमशोभत महद्बलम् ||३१||
षष्ट्या रथसहस्रैस्तु नागानामयुतेन च |
पतिः सर्वकलिङ्गानां ययौ केतुमता सह ||३२||
तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः |
यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः ||३३||
शुशुभे केतुमुख्येन पादपेन कलिङ्गपः |
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ||३४||
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् |
आस्थितः समरे राजन्मेघस्थ इव भानुमान् ||३५||
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः |
भगदत्तो ययौ राजा यथा वज्रधरस्तथा ||३६||
गजस्कन्धगतावास्तां भगदत्तेन संमितौ |
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ||३७||
स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् |
वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः ||३८||
द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च |
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च ||३९||
१८
सञ्जय उवाच||
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः |
अश्रूयत महाराज योधानां प्रयुयुत्सताम् ||१||
शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः |
रथानां नेमिघोषैश्च दीर्यतीव वसुन्धरा ||२||
हयानां हेषमाणानां योधानां तत्र गर्जताम् |
क्षणेन खं दिशश्चैव शब्देनापूरितं तदा ||३||
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च |
समकम्पन्त सैन्यानि परस्परसमागमे ||४||
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः |
भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ||५||
ध्वजा बहुविधाकारास्तावकानां नराधिप |
काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ||६||
स्वेषां चैव परेषां च समदृश्यन्त भारत |
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ||७||
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः |
संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव ||८||
उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः |
ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ||९||
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप |
दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ||१०||
विविंशतिश्चित्रसेनो विकर्णश्च महारथः |
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ||११||
रथा विंशतिसाहस्रास्तथैषामनुयायिनः |
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||१२||
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा |
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ||१३||
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः |
महता रथवंशेन तेऽभ्यरक्षन्पितामहम् ||१४||
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् |
मागधो येन नृपतिस्तद्रथानीकमन्वयात् ||१५||
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम् |
अभूवन्वाहिनीमध्ये शतानामयुतानि षट् ||१६||
पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः |
अनेकशतसाहस्रा नखरप्रासयोधिनः ||१७||
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत |
अदृश्यन्त महाराज गङ्गेव यमुनान्तरे ||१८||
१९
धृतराष्ट्र उवाच||
अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः |
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ||१||
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् |
कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः ||२||
सञ्जय उवाच||
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः |
अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् ||३||
महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः |
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ||४||
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह |
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ||५||
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव |
तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुणः ||६||
एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम् |
अचलं नाम वज्राख्यं विहितं वज्रपाणिना ||७||
यः स वात इवोद्धूतः समरे दुःसहः परैः |
स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः ||८||
तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः |
अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः ||९||
यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः |
निवर्तिष्यन्ति सम्भ्रान्ताः सिंहं क्षुद्रमृगा इव ||१०||
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम् |
भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः ||११||
न हि सोऽस्ति पुमाँल्लोके यः सङ्क्रुद्धं वृकोदरम् |
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ||१२||
भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् |
चरन्वेगेन महता समुद्रमपि शोषयेत् ||१३||
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् |
एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर ||१४||
धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत् |
ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष ||१५||
अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ||१५||
एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः |
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा ||१६||
सम्प्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः |
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ||१७||
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः |
नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् ||१८||
समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः |
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ||१९||
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती |
द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः ||२०||
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः |
सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः ||२१||
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः |
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ||२२||
पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः |
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ||२३||
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः |
बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ||२४||
अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः |
विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी ||२५||
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः |
नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ||२६||
समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः |
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ||२७||
त्वदीयानां परेषां च रथेषु विविधान्ध्वजान् |
अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः ||२८||
पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः |
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ||२९||
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः |
शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ||३०||
क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः |
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ||३१||
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् |
प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः ||३२||
तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् |
न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके ||३३||
वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः |
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ||३४||
यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् |
अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ||३५||
सन्ध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति |
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ||३६||
विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः |
रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत् ||३७||
पपात महती चोल्का प्राङ्मुखी भरतर्षभ |
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ||३८||
अथ सज्जीयमानेषु सैन्येषु भरतर्षभ |
निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह ||३९||
व्यशीर्यत सनादा च तदा भरतसत्तम ||३९||
निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् |
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किञ्चन ||४०||
ध्वजानां धूयमानानां सहसा मातरिश्वना |
किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः ||४१||
महतां सपताकानामादित्यसमतेजसाम् |
सर्वं झणझणीभूतमासीत्तालवनेष्विव ||४२||
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः |
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ||४३||
स्रंसन्त इव मज्जानो योधानां भरतर्षभ |
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ||४४||
२०
धृतराष्ट्र उवाच||
सूर्योदये सञ्जय के नु पूर्वं; युयुत्सवो हृष्यमाणा इवासन् |
मामका वा भीष्मनेत्राः समीके; पाण्डवा वा भीमनेत्रास्तदानीम् ||१||
केषां जघन्यौ सोमसूर्यौ सवायू; केषां सेनां श्वापदा व्याभषन्त |
केषां यूनां मुखवर्णाः प्रसन्नाः; सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ||२||
सञ्जय उवाच||
उभे सेने तुल्यमिवोपयाते; उभे व्यूहे हृष्टरूपे नरेन्द्र |
उभे चित्रे वनराजिप्रकाशे; तथैवोभे नागरथाश्वपूर्णे ||३||
उभे सेने बृहती भीमरूपे; तथैवोभे भारत दुर्विषह्ये |
तथैवोभे स्वर्गजयाय सृष्टे; तथा ह्युभे सत्पुरुषार्यगुप्ते ||४||
पश्चान्मुखाः कुरवो धार्तराष्ट्राः; स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः |
दैत्येन्द्रसेनेव च कौरवाणां; देवेन्द्रसेनेव च पाण्डवानाम् ||५||
शुक्रो वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ्श्वापदा व्याभषन्त |
गजेन्द्राणां मदगन्धांश्च तीव्रा; न्न सेहिरे तव पुत्रस्य नागाः ||६||
दुर्योधनो हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् |
समास्थितो मध्यगतः कुरूणां; संस्तूयमानो बन्दिभिर्मागधैश्च ||७||
चन्द्रप्रभं श्वेतमस्यातपत्रं; सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे |
तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः ||८||
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः; श्वेतच्छत्रः श्वेतधनुः सशङ्खः |
श्वेतोष्णीषः पाण्डुरेण ध्वजेन; श्वेतैरश्वैः श्वेतशैलप्रकाशः ||९||
तस्य सैन्यं धार्तराष्ट्राश्च सर्वे; बाह्लीकानामेकदेशः शलश्च |
ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ; तथा सौवीराः पञ्चनदाश्च शूराः ||१०||
शोणैर्हयै रुक्मरथो महात्मा; द्रोणो महाबाहुरदीनसत्त्वः |
आस्ते गुरुः प्रयशाः सर्वराज्ञां; पश्चाच्चमूमिन्द्र इवाभिरक्षन् ||११||
वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रो जयश्च |
शाल्वा मत्स्याः केकयाश्चापि सर्वे; गजानीकैर्भ्रातरो योत्स्यमानाः ||१२||
शारद्वतश्चोत्तरधूर्महात्मा; महेष्वासो गौतमश्चित्रयोधी |
शकैः किरातैर्यवनैः पह्लवैश्च; सार्धं चमूमुत्तरतोऽभिपाति ||१३||
महारथैरन्धकवृष्णिभोजैः; सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः |
बृहद्बलः कृतवर्माभिगुप्तो; बलं त्वदीयं दक्षिणतोऽभिपाति ||१४||
संशप्तकानामयुतं रथानां; मृत्युर्जयो वार्जुनस्येति सृष्टाः |
येनार्जुनस्तेन राजन्कृतास्त्राः; प्रयाता वै ते त्रिगर्ताश्च शूराः ||१५||
साग्रं शतसहस्रं तु नागानां तव भारत |
नागे नागे रथशतं शतं चाश्वा रथे रथे ||१६||
अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः |
एवं व्यूढान्यनीकानि भीष्मेण तव भारत ||१७||
अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् |
दिवसे दिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ||१८||
महारथौघविपुलः समुद्र इव पर्वणि |
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ||१९||
अनन्तरूपा ध्वजिनी त्वदीया; नरेन्द्र भीमा न तु पाण्डवानाम् |
तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश्चार्जुनश्च ||२०||
२१
सञ्जय उवाच||
बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम् |
विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ||१||
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः |
अभेद्यमिव सम्प्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् ||२||
धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे |
धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः ||३||
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना |
कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा ||४||
ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन |
कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति ||५||
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा |
विषण्णमभिसम्प्रेक्ष्य तव राजन्ननीकिनीम् ||६||
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि |
जयन्त्यल्पतरा येन तन्निबोध विशां पते ||७||
तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे |
नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ||८||
एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् |
पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ||९||
न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः |
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ||१०||
त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः |
युध्यध्वमनहङ्कारा यतो धर्मस्ततो जयः ||११||
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः |
यथा मे नारदः प्राह यतः कृष्णस्ततो जयः ||१२||
गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम् |
अन्यथा विजयश्चास्य संनतिश्चापरो गुणः ||१३||
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः |
पुरुषः सनातनतमो यतः कृष्णस्ततो जयः ||१४||
पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः |
सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ||१५||
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् |
तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ||१६||
तस्य ते न व्यथां काञ्चिदिह पश्यामि भारत |
यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः ||१७||
२२
सञ्जय उवाच||
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् |
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ||१||
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः |
स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः ||२||
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना |
धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् ||३||
अनीकं दक्षिणं राजन्युयुधानेन पालितम् |
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ||४||
महेन्द्रयानप्रतिमं रथं तु; सोपस्करं हाटकरत्नचित्रम् |
युधिष्ठिरः काञ्चनभाण्डयोक्त्रं; समास्थितो नागकुलस्य मध्ये ||५||
समुच्छ्रितं दान्तशलाकमस्य; सुपाण्डुरं छत्रमतीव भाति |
प्रदक्षिणं चैनमुपाचरन्ति; महर्षयः संस्तुतिभिर्नरेन्द्रम् ||६||
पुरोहिताः शत्रुवधं वदन्तो; महर्षिवृद्धाः श्रुतवन्त एव |
जप्यैश्च मन्त्रैश्च तथौषधीभिः; समन्ततः स्वस्त्ययनं प्रचक्रुः ||७||
ततः स वस्त्राणि तथैव गाश्च; फलानि पुष्पाणि तथैव निष्कान् |
कुरूत्तमो ब्राह्मणसान्महात्मा; कुर्वन्ययौ शक्र इवामरेभ्यः ||८||
सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्यजाम्बूनदहेमचित्रः |
रथोऽर्जुनस्याग्निरिवार्चिमाली; विभ्राजते श्वेतहयः सुचक्रः ||९||
तमास्थितः केशवसङ्गृहीतं; कपिध्वजं गाण्डिवबाणहस्तः |
धनुर्धरो यस्य समः पृथिव्यां; न विद्यते नो भविता वा कदाचित् ||१०||
उद्वर्तयिष्यंस्तव पुत्रसेना; मतीव रौद्रं स बिभर्ति रूपम् |
अनायुधो यः सुभुजो भुजाभ्यां; नराश्वनागान्युधि भस्म कुर्यात् ||११||
स भीमसेनः सहितो यमाभ्यां; वृकोदरो वीररथस्य गोप्ता |
तं प्रेक्ष्य मत्तर्षभसिंहखेलं; लोके महेन्द्रप्रतिमानकल्पम् ||१२||
समीक्ष्य सेनाग्रगतं दुरासदं; प्रविव्यथुः पङ्कगता इवोष्ट्राः |
वृकोदरं वारणराजदर्पं; योधास्त्वदीया भयविग्नसत्त्वाः ||१३||
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् |
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ||१४||
वासुदेव उवाच||
य एष गोप्ता प्रतपन्बलस्थो; यो नः सेनां सिंह इवेक्षते च |
स एष भीष्मः कुरुवंशकेतु; र्येनाहृतास्त्रिंशतो वाजिमेधाः ||१५||
एतान्यनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम् |
एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण ||१६||
धृतराष्ट्र उवाच||
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय |
उदग्रमनसः केऽत्र के वा दीना विचेतसः ||१७||
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने |
मामकाः पाण्डवानां वा तन्ममाचक्ष्व सञ्जय ||१८||
कस्य सेनासमुदये गन्धमाल्यसमुद्भवः |
वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् ||१९||
सञ्जय उवाच||
उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा |
स्रग्धूपपानगन्धानामुभयत्र समुद्भवः ||२०||
संहतानामनीकानां व्यूढानां भरतर्षभ |
संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् ||२१||
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः |
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ||२२||
२३
धृतराष्ट्र उवाच||
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||१||
सञ्जय उवाच||
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ||२||
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||३||
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
युयुधानो विराटश्च द्रुपदश्च महारथः ||४||
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ||५||
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||६||
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ||७||
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||८||
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||९||
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१०||
अयनेषु च सर्वेषु यथाभागमवस्थिताः |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||११||
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१२||
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१३||
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१४||
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१५||
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१६||
काश्यश्च परमेष्वासः शिखण्डी च महारथः |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१७||
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ||१८||
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ||१९||
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ||२०||
हृषीकेशं तदा वाक्यमिदमाह महीपते |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||२१||
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ||२२||
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ||२३||
एवमुक्तो हृषीकेशो गुडाकेशेन भारत |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||२४||
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||२५||
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||२६||
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||२७||
कृपया परयाविष्टो विषीदन्निदमब्रवीत् |
दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् ||२८||
सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||२९||
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||३०||
निमित्तानि च पश्यामि विपरीतानि केशव |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||३१||
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||३२||
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||३३||
आचार्याः पितरः पुत्रास्तथैव च पितामहाः |
मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ||३४||
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||३५||
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ||३६||
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् |
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||३७||
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||३८||
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||३९||
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ||४०||
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः |
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||४१||
सङ्करो नरकायैव कुलघ्नानां कुलस्य च |
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||४२||
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||४३||
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
नरके नियतं वासो भवतीत्यनुशुश्रुम ||४४||
अहो बत महत्पापं कर्तुं व्यवसिता वयम् |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||४५||
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||४६||
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् |
विसृज्य सशरं चापं शोकसंविग्नमानसः ||४७||
२४
सञ्जय उवाच||
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||१||
श्रीभगवानुवाच||
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२||
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते |
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||३||
अर्जुन उवाच||
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||४||
गुरूनहत्वा हि महानुभावा; ञ्श्रेयो भोक्तुं भैक्षमपीह लोके |
हत्वार्थकामांस्तु गुरूनिहैव; भुञ्जीय भोगान्रुधिरप्रदिग्धान् ||५||
न चैतद्विद्मः कतरन्नो गरीयो; यद्वा जयेम यदि वा नो जयेयुः |
यानेव हत्वा न जिजीविषाम; स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||६||
कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः |
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे; शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||७||
न हि प्रपश्यामि ममापनुद्या; द्यच्छोकमुच्छोषणमिन्द्रियाणाम् |
अवाप्य भूमावसपत्नमृद्धं; राज्यं सुराणामपि चाधिपत्यम् ||८||
सञ्जय उवाच||
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप |
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||९||
तमुवाच हृषीकेशः प्रहसन्निव भारत |
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||१०||
श्रीभगवानुवाच||
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||११||
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |
न चैव न भविष्यामः सर्वे वयमतः परम् ||१२||
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||१३||
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः |
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||१४||
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||१५||
नासतो विद्यते भावो नाभावो विद्यते सतः |
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ||१६||
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||१७||
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः |
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||१८||
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||१९||
न जायते म्रियते वा कदा चि; न्नायं भूत्वा भविता वा न भूयः |
अजो नित्यः शाश्वतोऽयं पुराणो; न हन्यते हन्यमाने शरीरे ||२०||
वेदाविनाशिनं नित्यं य एनमजमव्ययम् |
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२१||
वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरोऽपराणि |
तथा शरीराणि विहाय जीर्णा; न्यन्यानि संयाति नवानि देही ||२२||
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ||२३||
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च |
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२४||
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||२५||
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |
तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ||२६||
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२७||
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |
अव्यक्तनिधनान्येव तत्र का परिदेवना ||२८||
आश्चर्यवत्पश्यति कश्चिदेन; माश्चर्यवद्वदति तथैव चान्यः |
आश्चर्यवच्चैनमन्यः शृणोति; श्रुत्वाप्येनं वेद न चैव कश्चित् ||२९||
देही नित्यमवध्योऽयं देहे सर्वस्य भारत |
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||३०||
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||३१||
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||३२||
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि |
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||३३||
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् |
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ||३४||
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||३५||
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः |
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||३६||
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||३७||
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ||३८||
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु |
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||३९||
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||४०||
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ||४१||
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ||४२||
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||४३||
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||४४||
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |
निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||४५||
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||४६||
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||४७||
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||४८||
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||४९||
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ||५०||
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः |
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||५१||
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||५२||
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ||५३||
अर्जुन उवाच||
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ||५४||
श्रीभगवानुवाच||
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ||५५||
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः |
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ||५६||
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||५७||
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||५८||
विषया विनिवर्तन्ते निराहारस्य देहिनः |
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ||५९||
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः |
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||६०||
तानि सर्वाणि संयम्य युक्त आसीत मत्परः |
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||६१||
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते |
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ||६२||
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः |
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ||६३||
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् |
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||६४||
प्रसादे सर्वदुःखानां हानिरस्योपजायते |
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ||६५||
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||६६||
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||६७||
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||६८||
या निशा सर्वभूतानां तस्यां जागर्ति संयमी |
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||६९||
आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत् |
तद्वत्कामा यं प्रविशन्ति सर्वे; स शान्तिमाप्नोति न कामकामी ||७०||
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः |
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||७१||
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति |
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ||७२||
२५
अर्जुन उवाच||
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |
तत्किं कर्मणि घोरे मां नियोजयसि केशव ||१||
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे |
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ||२||
श्रीभगवानुवाच||
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ |
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ||३||
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते |
न च संन्यसनादेव सिद्धिं समधिगच्छति ||४||
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ||५||
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ||६||
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन |
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ||७||
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः |
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ||८||
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः |
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ||९||
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ||१०||
देवान्भावयतानेन ते देवा भावयन्तु वः |
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ||११||
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः |
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ||१२||
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः |
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ||१३||
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः |
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ||१४||
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् |
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||१५||
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः |
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ||१६||
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः |
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ||१७||
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन |
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ||१८||
तस्मादसक्तः सततं कार्यं कर्म समाचर |
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ||१९||
कर्मणैव हि संसिद्धिमास्थिता जनकादयः |
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ||२०||
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः |
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ||२१||
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन |
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ||२२||
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||२३||
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् |
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ||२४||
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ||२५||
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् |
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ||२६||
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः |
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ||२७||
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः |
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||२८||
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु |
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ||२९||
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ||३०||
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः |
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ||३१||
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् |
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ||३२||
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||३३||
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ||३४||
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ||३५||
अर्जुन उवाच||
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः |
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ||३६||
श्रीभगवानुवाच||
काम एष क्रोध एष रजोगुणसमुद्भवः |
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ||३७||
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च |
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ||३८||
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा |
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ||३९||
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते |
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ||४०||
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ |
पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् ||४१||
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः |
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ||४२||
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना |
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ||४३||
२६
श्रीभगवानुवाच||
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ||१||
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः |
स कालेनेह महता योगो नष्टः परन्तप ||२||
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः |
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ||३||
अर्जुन उवाच||
अपरं भवतो जन्म परं जन्म विवस्वतः |
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ||४||
श्रीभगवानुवाच||
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ||५||
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् |
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ||६||
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ||७||
परित्राणाय साधूनां विनाशाय च दुष्कृताम् |
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ||८||
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः |
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ||९||
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः |
बहवो ज्ञानतपसा पूता मद्भावमागताः ||१०||
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||११||
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः |
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ||१२||
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः |
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ||१३||
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा |
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ||१४||
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः |
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ||१५||
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः |
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||१६||
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः |
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ||१७||
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः |
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ||१८||
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः |
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ||१९||
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः |
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ||२०||
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः |
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ||२१||
यदृच्छालाभसन्तुष्टो द्वंद्वातीतो विमत्सरः |
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ||२२||
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः |
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ||२३||
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् |
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||२४||
दैवमेवापरे यज्ञं योगिनः पर्युपासते |
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ||२५||
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति |
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ||२६||
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे |
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ||२७||
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे |
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ||२८||
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे |
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ||२९||
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति |
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ||३०||
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् |
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ||३१||
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे |
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ||३२||
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप |
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ||३३||
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ||३४||
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव |
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ||३५||
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः |
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ||३६||
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ||३७||
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ||३८||
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः |
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ||३९||
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति |
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ||४०||
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् |
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ||४१||
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः |
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ||४२||
२७
अर्जुन उवाच||
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ||१||
श्रीभगवानुवाच||
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ |
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ||२||
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति |
निर्द्वंद्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ||३||
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः |
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ||४||
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते |
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ||५||
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः |
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ||६||
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः |
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ||७||
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ||८||
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि |
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ||९||
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः |
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ||१०||
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ||११||
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |
अयुक्तः कामकारेण फले सक्तो निबध्यते ||१२||
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ||१३||
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः |
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ||१४||
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः |
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||१५||
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः |
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ||१६||
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः |
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ||१७||
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ||१८||
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः |
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ||१९||
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् |
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ||२०||
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् |
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ||२१||
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते |
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ||२२||
शक्नोतीहैव यः सोढुं प्राक्षरीरविमोक्षणात् |
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ||२३||
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः |
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ||२४||
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः |
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ||२५||
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् |
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ||२६||
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः |
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ||२७||
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः |
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ||२८||
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् |
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ||२९||
२८
श्रीभगवानुवाच||
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ||१||
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव |
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ||२||
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते |
योगारूढस्य तस्यैव शमः कारणमुच्यते ||३||
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते |
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ||४||
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् |
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ||५||
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ||६||
जितात्मनः प्रशान्तस्य परमात्मा समाहितः |
शीतोष्णसुखदुःखेषु तथा मानावमानयोः ||७||
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः |
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ||८||
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु |
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ||९||
योगी युञ्जीत सततमात्मानं रहसि स्थितः |
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ||१०||
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः |
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ||११||
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः |
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ||१२||
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः |
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ||१३||
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः |
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ||१४||
युञ्जन्नेवं सदात्मानं योगी नियतमानसः |
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ||१५||
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः |
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ||१६||
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु |
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ||१७||
यदा विनियतं चित्तमात्मन्येवावतिष्ठते |
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ||१८||
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता |
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ||१९||
यत्रोपरमते चित्तं निरुद्धं योगसेवया |
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ||२०||
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् |
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ||२१||
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः |
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ||२२||
तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् |
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ||२३||
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः |
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ||२४||
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया |
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ||२५||
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ||२६||
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् |
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ||२७||
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः |
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ||२८||
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ||२९||
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति |
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ||३०||
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः |
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ||३१||
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन |
सुखं वा यदि वा दुःखं स योगी परमो मतः ||३२||
अर्जुन उवाच||
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन |
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ||३३||
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ||३४||
श्रीभगवानुवाच||
असंशयं महाबाहो मनो दुर्निग्रहं चलम् |
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ||३५||
असंयतात्मना योगो दुष्प्राप इति मे मतिः |
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ||३६||
अर्जुन उवाच||
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः |
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ||३७||
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ||३८||
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः |
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ||३९||
श्रीभगवानुवाच||
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते |
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ||४०||
प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः |
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ||४१||
अथ वा योगिनामेव कुले भवति धीमताम् |
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ||४२||
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् |
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ||४३||
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः |
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ||४४||
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः |
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ||४५||
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः |
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ||४६||
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना |
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ||४७||
२९
श्रीभगवानुवाच||
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः |
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ||१||
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः |
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ||२||
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये |
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ||३||
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च |
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ||४||
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् |
जीवभूतां महाबाहो ययेदं धार्यते जगत् ||५||
एतद्योनीनि भूतानि सर्वाणीत्युपधारय |
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ||६||
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय |
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ||७||
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः |
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ||८||
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ |
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ||९||
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् |
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ||१०||
बलं बलवतां चाहं कामरागविवर्जितम् |
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ||११||
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये |
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ||१२||
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् |
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ||१३||
दैवी ह्येषा गुणमयी मम माया दुरत्यया |
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ||१४||
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः |
माययापहृतज्ञाना आसुरं भावमाश्रिताः ||१५||
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन |
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ||१६||
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ||१७||
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् |
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ||१८||
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते |
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ||१९||
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः |
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ||२०||
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति |
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ||२१||
स तया श्रद्धया युक्तस्तस्या राधनमीहते |
लभते च ततः कामान्मयैव विहितान्हि तान् ||२२||
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् |
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ||२३||
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः |
परं भावमजानन्तो ममाव्ययमनुत्तमम् ||२४||
नाहं प्रकाशः सर्वस्य योगमायासमावृतः |
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ||२५||
वेदाहं समतीतानि वर्तमानानि चार्जुन |
भविष्याणि च भूतानि मां तु वेद न कश्चन ||२६||
इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत |
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ||२७||
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् |
ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ||२८||
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये |
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ||२९||
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः |
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ||३०||
३०
अर्जुन उवाच||
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ||१||
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन |
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ||२||
श्रीभगवानुवाच||
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते |
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ||३||
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् |
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ||४||
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् |
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ||५||
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् |
तं तमेवैति कौन्तेय सदा तद्भावभावितः ||६||
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च |
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ||७||
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना |
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ||८||
कविं पुराणमनुशासितार; मणोरणीयांसमनुस्मरेद्यः |
सर्वस्य धातारमचिन्त्यरूप; मादित्यवर्णं तमसः परस्तात् ||९||
प्रयाणकाले मनसाचलेन; भक्त्या युक्तो योगबलेन चैव |
भ्रुवोर्मध्ये प्राणमावेश्य सम्य; क्स तं परं पुरुषमुपैति दिव्यम् ||१०||
यदक्षरं वेदविदो वदन्ति; विशन्ति यद्यतयो वीतरागाः |
यदिच्छन्तो ब्रह्मचर्यं चरन्ति; तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ||११||
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च |
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ||१२||
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् |
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ||१३||
अनन्यचेताः सततं यो मां स्मरति नित्यशः |
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ||१४||
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् |
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ||१५||
आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन |
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ||१६||
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः |
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ||१७||
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे |
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ||१८||
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते |
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ||१९||
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः |
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||२०||
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् |
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ||२१||
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया |
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ||२२||
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः |
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ||२३||
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् |
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ||२४||
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् |
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||२५||
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते |
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ||२६||
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन |
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ||२७||
वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत्पुण्यफलं प्रदिष्टम् |
अत्येति तत्सर्वमिदं विदित्वा; योगी परं स्थानमुपैति चाद्यम् ||२८||
३१
श्रीभगवानुवाच||
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||१||
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् |
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ||२||
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप |
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ||३||
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना |
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ||४||
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् |
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ||५||
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् |
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ||६||
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् |
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ||७||
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः |
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ||८||
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय |
उदासीनवदासीनमसक्तं तेषु कर्मसु ||९||
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् |
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ||१०||
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् |
परं भावमजानन्तो मम भूतमहेश्वरम् ||११||
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः |
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ||१२||
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः |
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ||१३||
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः |
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ||१४||
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते |
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ||१५||
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् |
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ||१६||
पिताहमस्य जगतो माता धाता पितामहः |
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ||१७||
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् |
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ||१८||
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च |
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ||१९||
त्रैविद्या मां सोमपाः पूतपापा; यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते |
ते पुण्यमासाद्य सुरेन्द्रलोक; मश्नन्ति दिव्यान्दिवि देवभोगान् ||२०||
ते तं भुक्त्वा स्वर्गलोकं विशालं; क्षीणे पुण्ये मर्त्यलोकं विशन्ति |
एवं त्रयीधर्ममनुप्रपन्ना; गतागतं कामकामा लभन्ते ||२१||
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते |
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ||२२||
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः |
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ||२३||
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च |
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ||२४||
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः |
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ||२५||
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति |
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ||२६||
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् |
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ||२७||
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः |
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ||२८||
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः |
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ||२९||
अपि चेत्सुदुराचारो भजते मामनन्यभाक् |
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ||३०||
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ||३१||
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः |
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||३२||
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा |
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ||३३||
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ||३४||
३२
श्रीभगवानुवाच||
भूय एव महाबाहो शृणु मे परमं वचः |
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ||१||
न मे विदुः सुरगणाः प्रभवं न महर्षयः |
अहमादिर्हि देवानां महर्षीणां च सर्वशः ||२||
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् |
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ||३||
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः |
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ||४||
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः |
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ||५||
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा |
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ||६||
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः |
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ||७||
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते |
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ||८||
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ||९||
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् |
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ||१०||
तेषामेवानुकम्पार्थमहमज्ञानजं तमः |
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ||११||
अर्जुन उवाच||
परं ब्रह्म परं धाम पवित्रं परमं भवान् |
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ||१२||
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा |
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||१३||
सर्वमेतदृतं मन्ये यन्मां वदसि केशव |
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ||१४||
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |
भूतभावन भूतेश देवदेव जगत्पते ||१५||
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः |
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ||१६||
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ||१७||
विस्तरेणात्मनो योगं विभूतिं च जनार्दन |
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ||१८||
श्रीभगवानुवाच||
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः |
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||१९||
अहमात्मा गुडाकेश सर्वभूताशयस्थितः |
अहमादिश्च मध्यं च भूतानामन्त एव च ||२०||
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ||२१||
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः |
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ||२२||
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् |
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ||२३||
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ||२४||
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ||२५||
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः |
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||२६||
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् |
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||२७||
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ||२८||
अनन्तश्चास्मि नागानां वरुणो यादसामहम् |
पितॄणामर्यमा चास्मि यमः संयमतामहम् ||२९||
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् |
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ||३०||
पवनः पवतामस्मि रामः शस्त्रभृतामहम् |
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ||३१||
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ||३२||
अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च |
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ||३३||
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् |
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ||३४||
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् |
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ||३५||
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ||३६||
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः |
मुनीनामप्यहं व्यासः कवीनामुशना कविः ||३७||
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ||३८||
यच्चापि सर्वभूतानां बीजं तदहमर्जुन |
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ||३९||
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप |
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ||४०||
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ||४१||
अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन |
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ||४२||
३३
अर्जुन उवाच||
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् |
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ||१||
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ||२||
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||३||
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ||४||
श्रीभगवानुवाच||
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः |
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||५||
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा |
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||६||
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् |
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ||७||
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||८||
सञ्जय उवाच||
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः |
दर्शयामास पार्थाय परमं रूपमैश्वरम् ||९||
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् |
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ||१०||
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् |
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ||११||
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ||१२||
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ||१३||
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः |
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ||१४||
अर्जुन उवाच||
पश्यामि देवांस्तव देव देहे; सर्वांस्तथा भूतविशेषसङ्घान् |
ब्रह्माणमीशं कमलासनस्थ; मृषींश्च सर्वानुरगांश्च दिव्यान् ||१५||
अनेकबाहूदरवक्त्रनेत्रं; पश्यामि त्वा सर्वतोऽनन्तरूपम् |
नान्तं न मध्यं न पुनस्तवादिं; पश्यामि विश्वेश्वर विश्वरूप ||१६||
किरीटिनं गदिनं चक्रिणं च; तेजोराशिं सर्वतो दीप्तिमन्तम् |
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता; द्दीप्तानलार्कद्युतिमप्रमेयम् ||१७||
त्वमक्षरं परमं वेदितव्यं; त्वमस्य विश्वस्य परं निधानम् |
त्वमव्ययः शाश्वतधर्मगोप्ता; सनातनस्त्वं पुरुषो मतो मे ||१८||
अनादिमध्यान्तमनन्तवीर्य; मनन्तबाहुं शशिसूर्यनेत्रम् |
पश्यामि त्वां दीप्तहुताशवक्त्रं; स्वतेजसा विश्वमिदं तपन्तम् ||१९||
द्यावापृथिव्योरिदमन्तरं हि; व्याप्तं त्वयैकेन दिशश्च सर्वाः |
दृष्ट्वाद्भुतं रूपमिदं तवोग्रं; लोकत्रयं प्रव्यथितं महात्मन् ||२०||
अमी हि त्वा सुरसङ्घा विशन्ति; केचिद्भीताः प्राञ्जलयो गृणन्ति |
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||२१||
रुद्रादित्या वसवो ये च साध्या; विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |
गन्धर्वयक्षासुरसिद्धसङ्घा; वीक्षन्ते त्वा विस्मिताश्चैव सर्वे ||२२||
रूपं महत्ते बहुवक्त्रनेत्रं; महाबाहो बहुबाहूरुपादम् |
बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ||२३||
नभःस्पृशं दीप्तमनेकवर्णं; व्यात्ताननं दीप्तविशालनेत्रम् |
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णो ||२४||
दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि |
दिशो न जाने न लभे च शर्म; प्रसीद देवेश जगन्निवास ||२५||
अमी च त्वां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसङ्घैः |
भीष्मो द्रोणः सूतपुत्रस्तथासौ; सहास्मदीयैरपि योधमुख्यैः ||२६||
वक्त्राणि ते त्वरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि |
केचिद्विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ||२७||
यथा नदीनां बहवोऽम्बुवेगाः; समुद्रमेवाभिमुखा द्रवन्ति |
तथा तवामी नरलोकवीरा; विशन्ति वक्त्राण्यभिविज्वलन्ति ||२८||
यथा प्रदीप्तं ज्वलनं पतङ्गा; विशन्ति नाशाय समृद्धवेगाः |
तथैव नाशाय विशन्ति लोका; स्तवापि वक्त्राणि समृद्धवेगाः ||२९||
लेलिह्यसे ग्रसमानः समन्ता; ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः |
तेजोभिरापूर्य जगत्समग्रं; भासस्तवोग्राः प्रतपन्ति विष्णो ||३०||
आख्याहि मे को भवानुग्ररूपो; नमोऽस्तु ते देववर प्रसीद |
विज्ञातुमिच्छामि भवन्तमाद्यं; न हि प्रजानामि तव प्रवृत्तिम् ||३१||
श्रीभगवानुवाच||
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो; लोकान्समाहर्तुमिह प्रवृत्तः |
ऋतेऽपि त्वा न भविष्यन्ति सर्वे; येऽवस्थिताः प्रत्यनीकेषु योधाः ||३२||
तस्मात्त्वमुत्तिष्ठ यशो लभस्व; जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् |
मयैवैते निहताः पूर्वमेव; निमित्तमात्रं भव सव्यसाचिन् ||३३||
द्रोणं च भीष्मं च जयद्रथं च; कर्णं तथान्यानपि योधवीरान् |
मया हतांस्त्वं जहि मा व्यथिष्ठा; युध्यस्व जेतासि रणे सपत्नान् ||३४||
सञ्जय उवाच||
एतच्छ्रुत्वा वचनं केशवस्य; कृताञ्जलिर्वेपमानः किरीटी |
नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः प्रणम्य ||३५||
अर्जुन उवाच||
स्थाने हृषीकेश तव प्रकीर्त्या; जगत्प्रहृष्यत्यनुरज्यते च |
रक्षांसि भीतानि दिशो द्रवन्ति; सर्वे नमस्यन्ति च सिद्धसङ्घाः ||३६||
कस्माच्च ते न नमेरन्महात्म; न्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
अनन्त देवेश जगन्निवास; त्वमक्षरं सदसत्तत्परं यत् ||३७||
त्वमादिदेवः पुरुषः पुराण; स्त्वमस्य विश्वस्य परं निधानम् |
वेत्तासि वेद्यं च परं च धाम; त्वया ततं विश्वमनन्तरूप ||३८||
वायुर्यमोऽग्निर्वरुणः शशाङ्कः; प्रजापतिस्त्वं प्रपितामहश्च |
नमो नमस्तेऽस्तु सहस्रकृत्वः; पुनश्च भूयोऽपि नमो नमस्ते ||३९||
नमः पुरस्तादथ पृष्ठतस्ते; नमोऽस्तु ते सर्वत एव सर्व |
अनन्तवीर्यामितविक्रमस्त्वं; सर्वं समाप्नोषि ततोऽसि सर्वः ||४०||
सखेति मत्वा प्रसभं यदुक्तं; हे कृष्ण हे यादव हे सखेति |
अजानता महिमानं तवेदं; मया प्रमादात्प्रणयेन वापि ||४१||
यच्चावहासार्थमसत्कृतोऽसि; विहारशय्यासनभोजनेषु |
एकोऽथ वाप्यच्युत तत्समक्षं; तत्क्षामये त्वामहमप्रमेयम् ||४२||
पितासि लोकस्य चराचरस्य; त्वमस्य पूज्यश्च गुरुर्गरीयान् |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो; लोकत्रयेऽप्यप्रतिमप्रभाव ||४३||
तस्मात्प्रणम्य प्रणिधाय कायं; प्रसादये त्वामहमीशमीड्यम् |
पितेव पुत्रस्य सखेव सख्युः; प्रियः प्रियायार्हसि देव सोढुम् ||४४||
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा; भयेन च प्रव्यथितं मनो मे |
तदेव मे दर्शय देव रूपं; प्रसीद देवेश जगन्निवास ||४५||
किरीटिनं गदिनं चक्रहस्त; मिच्छामि त्वां द्रष्टुमहं तथैव |
तेनैव रूपेण चतुर्भुजेन; सहस्रबाहो भव विश्वमूर्ते ||४६||
श्रीभगवानुवाच||
मया प्रसन्नेन तवार्जुनेदं; रूपं परं दर्शितमात्मयोगात् |
तेजोमयं विश्वमनन्तमाद्यं; यन्मे त्वदन्येन न दृष्टपूर्वम् ||४७||
न वेदयज्ञाध्ययनैर्न दानै; र्न च क्रियाभिर्न तपोभिरुग्रैः |
एवंरूपः शक्य अहं नृलोके; द्रष्टुं त्वदन्येन कुरुप्रवीर ||४८||
मा ते व्यथा मा च विमूढभावो; दृष्ट्वा रूपं घोरमीदृङ्ममेदम् |
व्यपेतभीः प्रीतमनाः पुनस्त्वं; तदेव मे रूपमिदं प्रपश्य ||४९||
सञ्जय उवाच||
इत्यर्जुनं वासुदेवस्तथोक्त्वा; स्वकं रूपं दर्शयामास भूयः |
आश्वासयामास च भीतमेनं; भूत्वा पुनः सौम्यवपुर्महात्मा ||५०||
अर्जुन उवाच||
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ||५१||
श्रीभगवानुवाच||
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ||५२||
नाहं वेदैर्न तपसा न दानेन न चेज्यया |
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ||५३||
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||५४||
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः |
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ||५५||
३४
अर्जुन उवाच||
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||१||
श्रीभगवानुवाच||
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ||२||
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ||३||
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ||४||
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् |
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||५||
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः |
अनन्येनैव योगेन मां ध्यायन्त उपासते ||६||
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ||७||
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ||८||
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ||९||
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ||१०||
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||११||
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ||१२||
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च |
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||१३||
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ||१४||
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ||१५||
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ||१६||
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ||१७||
समः शत्रौ च मित्रे च तथा मानावमानयोः |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||१८||
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ||१९||
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ||२०||
३५
श्रीभगवानुवाच||
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||१||
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ||२||
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् |
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ||३||
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||४||
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च |
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ||५||
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ||६||
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||७||
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च |
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||८||
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ||९||
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी |
विविक्तदेशसेवित्वमरतिर्जनसंसदि ||१०||
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ||११||
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते |
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ||१२||
सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् |
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||१३||
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||१४||
बहिरन्तश्च भूतानामचरं चरमेव च |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ||१५||
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् |
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||१६||
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते |
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ||१७||
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ||१८||
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि |
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ||१९||
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते |
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ||२०||
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् |
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ||२१||
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ||२२||
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह |
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ||२३||
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना |
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ||२४||
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते |
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ||२५||
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ||२६||
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् |
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ||२७||
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ||२८||
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः |
यः पश्यति तथात्मानमकर्तारं स पश्यति ||२९||
यदा भूतपृथग्भावमेकस्थमनुपश्यति |
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||३०||
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ||३१||
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते |
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||३२||
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ||३३||
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा |
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ||३४||
३६
श्रीभगवानुवाच||
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ||१||
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः |
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ||२||
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
सम्भवः सर्वभूतानां ततो भवति भारत ||३||
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ||४||
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ||५||
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ||६||
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् |
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ||७||
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ||८||
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत |
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ||९||
रजस्तमश्चाभिभूय सत्त्वं भवति भारत |
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ||१०||
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ||११||
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा |
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ||१२||
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ||१३||
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् |
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ||१४||
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते |
तथा प्रलीनस्तमसि मूढयोनिषु जायते ||१५||
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् |
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ||१६||
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ||१७||
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ||१८||
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति |
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ||१९||
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् |
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ||२०||
अर्जुन उवाच||
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो |
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ||२१||
श्रीभगवानुवाच||
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ||२२||
उदासीनवदासीनो गुणैर्यो न विचाल्यते |
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ||२३||
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ||२४||
मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः |
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ||२५||
मां च योऽव्यभिचारेण भक्तियोगेन सेवते |
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ||२६||
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ||२७||
३७
श्रीभगवानुवाच||
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् |
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ||१||
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः |
अधश्च मूलान्यनुसन्ततानि; कर्मानुबन्धीनि मनुष्यलोके ||२||
न रूपमस्येह तथोपलभ्यते; नान्तो न चादिर्न च सम्प्रतिष्ठा |
अश्वत्थमेनं सुविरूढमूल; मसङ्गशस्त्रेण दृढेन छित्त्वा ||३||
ततः पदं तत्परिमार्गितव्यं; यस्मिन्गता न निवर्तन्ति भूयः |
तमेव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी ||४||
निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः |
द्वंद्वैर्विमुक्ताः सुखदुःखसञ्ज्ञै; र्गच्छन्त्यमूढाः पदमव्ययं तत् ||५||
न तद्भासयते सूर्यो न शशाङ्को न पावकः |
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ||६||
ममैवांशो जीवलोके जीवभूतः सनातनः |
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ||७||
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः |
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ||८||
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च |
अधिष्ठाय मनश्चायं विषयानुपसेवते ||९||
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||१०||
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ||११||
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् |
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ||१२||
गामाविश्य च भूतानि धारयाम्यहमोजसा |
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||१३||
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ||१४||
सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर्ज्ञानमपोहनं च |
वेदैश्च सर्वैरहमेव वेद्यो; वेदान्तकृद्वेदविदेव चाहम् ||१५||
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ||१६||
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः |
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ||१७||
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||१८||
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् |
स सर्वविद्भजति मां सर्वभावेन भारत ||१९||
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ |
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ||२०||
३८
श्रीभगवानुवाच||
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ||१||
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् |
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ||२||
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता |
भवन्ति सम्पदं दैवीमभिजातस्य भारत ||३||
दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च |
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ||४||
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ||५||
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ||६||
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||७||
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् |
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||८||
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ||९||
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः |
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ||१०||
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः |
कामोपभोगपरमा एतावदिति निश्चिताः ||११||
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः |
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ||१२||
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् |
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ||१३||
असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ||१४||
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ||१५||
अनेकचित्तविभ्रान्ता मोहजालसमावृताः |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ||१६||
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ||१७||
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः |
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ||१८||
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ||१९||
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ||२०||
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः |
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ||२१||
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः |
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ||२२||
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ||२३||
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ||२४||
३९
अर्जुन उवाच||
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ||१||
श्रीभगवानुवाच||
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||२||
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ||३||
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः |
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ||४||
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः |
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ||५||
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः |
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ||६||
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ||७||
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः |
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ||८||
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः |
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||९||
यातयामं गतरसं पूति पर्युषितं च यत् |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ||१०||
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते |
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ||११||
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ||१२||
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ||१३||
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ||१४||
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ||१५||
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ||१६||
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः |
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ||१७||
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ||१८||
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ||१९||
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ||२०||
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ||२१||
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ||२२||
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ||२३||
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः |
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ||२४||
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः |
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ||२५||
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते |
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ||२६||
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ||२७||
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् |
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ||२८||
४०
अर्जुन उवाच||
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् |
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ||१||
श्रीभगवानुवाच||
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः |
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ||२||
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः |
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ||३||
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम |
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ||४||
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् |
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ||५||
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च |
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ||६||
नियतस्य तु संन्यासः कर्मणो नोपपद्यते |
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ||७||
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् |
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ||८||
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन |
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ||९||
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते |
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ||१०||
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः |
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ||११||
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् |
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ||१२||
पञ्चैतानि महाबाहो कारणानि निबोध मे |
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ||१३||
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् |
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ||१४||
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः |
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ||१५||
तत्रैवं सति कर्तारमात्मानं केवलं तु यः |
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ||१६||
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते |
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ||१७||
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना |
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ||१८||
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः |
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ||१९||
सर्वभूतेषु येनैकं भावमव्ययमीक्षते |
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ||२०||
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् |
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ||२१||
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् |
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ||२२||
नियतं सङ्गरहितमरागद्वेषतः कृतम् |
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ||२३||
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः |
क्रियते बहुलायासं तद्राजसमुदाहृतम् ||२४||
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् |
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ||२५||
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः |
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ||२६||
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः |
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ||२७||
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः |
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ||२८||
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु |
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ||२९||
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये |
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ||३०||
यया धर्ममधर्मं च कार्यं चाकार्यमेव च |
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ||३१||
अधर्मं धर्ममिति या मन्यते तमसावृता |
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ||३२||
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः |
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||३३||
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन |
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ||३४||
यया स्वप्नं भयं शोकं विषादं मदमेव च |
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ||३५||
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ |
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ||३६||
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् |
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ||३७||
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् |
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ||३८||
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः |
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ||३९||
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः |
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ||४०||
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप |
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ||४१||
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च |
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ||४२||
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् |
दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम् ||४३||
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् |
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ||४४||
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः |
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ||४५||
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् |
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ||४६||
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ||४७||
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् |
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ||४८||
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः |
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ||४९||
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे |
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ||५०||
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च |
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ||५१||
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः |
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ||५२||
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् |
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ||५३||
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति |
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ||५४||
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः |
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ||५५||
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः |
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ||५६||
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः |
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ||५७||
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि |
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ||५८||
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे |
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ||५९||
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा |
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ||६०||
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति |
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ||६१||
तमेव शरणं गच्छ सर्वभावेन भारत |
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ||६२||
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया |
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ||६३||
सर्वगुह्यतमं भूयः शृणु मे परमं वचः |
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ||६४||
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ||६५||
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ||६६||
इदं ते नातपस्काय नाभक्ताय कदाचन |
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ||६७||
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति |
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ||६८||
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः |
भविता न च मे तस्मादन्यः प्रियतरो भुवि ||६९||
अध्येष्यते च य इमं धर्म्यं संवादमावयोः |
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ||७०||
श्रद्धावाननसूयश्च शृणुयादपि यो नरः |
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ||७१||
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ||७२||
अर्जुन उवाच||
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत |
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ||७३||
सञ्जय उवाच||
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः |
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ||७४||
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् |
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ||७५||
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् |
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ||७६||
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः |
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ||७७||
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः |
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||७८||
भीष्मवधपर्व
प्रथमयुद्धदिवसः
४१
सञ्जय उवाच||
ततो धनञ्जयं दृष्ट्वा बाणगाण्डीवधारिणम् |
पुनरेव महानादं व्यसृजन्त महारथाः ||१||
पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः |
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसम्भवान् ||२||
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः |
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ||३||
अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर |
सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया ||४||
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् |
समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् ||५||
ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते |
ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप ||६||
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् |
अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः ||७||
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः |
वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् ||८||
तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनञ्जयः |
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ||९||
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह |
यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः ||१०||
अर्जुन उवाच||
किं ते व्यवसितं राजन्यदस्मानपहाय वै |
पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ||११||
भीमसेन उवाच||
क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः |
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ||१२||
नकुल उवाच||
एवङ्गते त्वयि ज्येष्ठे मम भ्रातरि भारत |
भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ||१३||
सहदेव उवाच||
अस्मिन्रणसमूहे वै वर्तमाने महाभये |
योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप ||१४||
सञ्जय उवाच||
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन |
नोवाच वाग्यतः किञ्चिद्गच्छत्येव युधिष्ठिरः ||१५||
तानुवाच महाप्राज्ञो वासुदेवो महामनाः |
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ||१६||
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च |
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ||१७||
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः |
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ||१८||
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः |
ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ||१९||
एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति |
हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ||२०||
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः |
मिथः सङ्कथयां चक्रुर्नेशोऽस्ति कुलपांसनः ||२१||
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् |
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ||२२||
धनञ्जये कथं नाथे पाण्डवे च वृकोदरे |
नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः ||२३||
न नूनं क्षत्रियकुले जातः सम्प्रथिते भुवि |
यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे ||२४||
ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् |
हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् ||२५||
व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते |
युधिष्ठिरं ससोदर्यं सहितं केशवेन ह ||२६||
ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् |
निःशब्दमभवत्तूर्णं पुनरेव विशां पते ||२७||
किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति |
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ||२८||
विवक्षितं किमस्येति संशयः सुमहानभूत् |
उभयोः सेनयो राजन्युधिष्ठिरकृते तदा ||२९||
स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् |
भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः ||३०||
तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः |
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् ||३१||
युधिष्ठिर उवाच||
आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह |
अनुजानीहि मां तात आशिषश्च प्रयोजय ||३२||
भीष्म उवाच||
यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते |
शपेयं त्वां महाराज पराभावाय भारत ||३३||
प्रीतोऽस्मि पुत्र युध्यस्व जयमाप्नुहि पाण्डव |
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ||३४||
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि |
एवं गते महाराज न तवास्ति पराजयः ||३५||
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् |
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ||३६||
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन |
हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ||३७||
युधिष्ठिर उवाच||
मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः |
युध्यस्व कौरवस्यार्थे ममैष सततं वरः ||३८||
भीष्म उवाच||
राजन्किमत्र साह्यं ते करोमि कुरुनन्दन |
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ||३९||
युधिष्ठिर उवाच||
कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् |
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ||४०||
भीष्म उवाच||
न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे |
विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः ||४१||
युधिष्ठिर उवाच||
हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते |
जयोपायं ब्रवीहि त्वमात्मनः समरे परैः ||४२||
भीष्म उवाच||
न शत्रुं तात पश्यामि समरे यो जयेत माम् |
न तावन्मृत्युकालो मे पुनरागमनं कुरु ||४३||
सञ्जय उवाच||
ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन |
शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ||४४||
प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति |
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ||४५||
स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् |
उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः ||४६||
आमन्त्रये त्वां भगवन्योत्स्ये विगतकल्मषः |
जयेयं च रिपून्सर्वाननुज्ञातस्त्वया द्विज ||४७||
द्रोण उवाच||
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः |
शपेयं त्वां महाराज पराभावाय सर्वशः ||४८||
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयानघ |
अनुजानामि युध्यस्व विजयं समवाप्नुहि ||४९||
करवाणि च ते कामं ब्रूहि यत्तेऽभिकाङ्क्षितम् |
एवं गते महाराज युद्धादन्यत्किमिच्छसि ||५०||
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् |
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ||५१||
अतस्त्वां क्लीबवद्ब्रूमो युद्धादन्यत्किमिच्छसि |
योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया ||५२||
युधिष्ठिर उवाच||
जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम् |
युध्यस्व कौरवस्यार्थे वर एष वृतो मया ||५३||
द्रोण उवाच||
ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव |
अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि ||५४||
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः |
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ||५५||
युधिष्ठिर उवाच||
पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद्विवक्षितम् |
कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् ||५६||
द्रोण उवाच||
न तेऽस्ति विजयस्तावद्यावद्युध्याम्यहं रणे |
ममाशु निधने राजन्यतस्व सह सोदरैः ||५७||
युधिष्ठिर उवाच||
हन्त तस्मान्महाबाहो वधोपायं वदात्मनः |
आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ||५८||
द्रोण उवाच||
न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम् |
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ||५९||
ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् |
हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते ||६०||
शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम् |
श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते ||६१||
सञ्जय उवाच||
एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः |
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ||६२||
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् |
उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः ||६३||
अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः |
जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ ||६४||
कृप उवाच||
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः |
शपेयं त्वां महाराज पराभावाय सर्वशः ||६५||
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् |
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ||६६||
तेषामर्थे महाराज योद्धव्यमिति मे मतिः |
अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत्किमिच्छसि ||६७||
युधिष्ठिर उवाच||
हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः |
सञ्जय उवाच||
इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः |
तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् ||६९||
अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि ||६९||
प्रीतस्त्वभिगमेनाहं जयं तव नराधिप |
आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ||७०||
एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा |
अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ||७१||
स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् |
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ||७२||
अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः |
जयेयं च महाराज अनुज्ञातस्त्वया रिपून् ||७३||
शल्य उवाच||
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः |
शपेयं त्वां महाराज पराभावाय वै रणे ||७४||
तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते |
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ||७५||
ब्रूहि चैव परं वीर केनार्थः किं ददामि ते |
एवं गते महाराज युद्धादन्यत्किमिच्छसि ||७६||
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् |
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ||७७||
करिष्यामि हि ते कामं भागिनेय यथेप्सितम् |
ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ||७८||
युधिष्ठिर उवाच||
मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् |
कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम् ||७९||
शल्य उवाच||
ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम |
कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः ||८०||
युधिष्ठिर उवाच||
स एव मे वरः सत्य उद्योगे यस्त्वया कृतः |
सूतपुत्रस्य सङ्ग्रामे कार्यस्तेजोवधस्त्वया ||८१||
शल्य उवाच||
सम्पत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः |
गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव ||८२||
सञ्जय उवाच||
अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् |
निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः ||८३||
वासुदेवस्तु राधेयमाहवेऽभिजगाम वै |
तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ||८४||
श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि |
अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ||८५||
हते तु भीष्मे राधेय पुनरेष्यसि संयुगे |
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ||८६||
कर्ण उवाच||
न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव |
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ||८७||
सञ्जय उवाच||
तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत |
युधिष्ठिरपुरोगैश्च पाण्डवैः सह सङ्गतः ||८८||
अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः |
योऽस्मान्वृणोति तदहं वरये साह्यकारणात् ||८९||
अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् |
प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ||९०||
अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् |
युष्मदर्थे महाराज यदि मां वृणुषेऽनघ ||९१||
युधिष्ठिर उवाच||
एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् |
युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ||९२||
वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् |
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ||९३||
भजस्वास्मान्राजपुत्र भजमानान्महाद्युते |
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ||९४||
सञ्जय उवाच||
ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव |
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् ||९५||
ततो युधिष्ठिरो राजा सम्प्रहृष्टः सहानुजैः |
जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् ||९६||
प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः |
ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ||९७||
अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् |
सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ||९८||
रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः |
धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे मुदा ||९९||
गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् |
दृष्ट्वा महीक्षितस्तत्र पूजयां चक्रिरे भृशम् ||१००||
सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् |
दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः ||१०१||
साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः |
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः ||१०२||
म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा |
वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ||१०३||
ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान् |
शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ||१०४||
४२
धृतराष्ट्र उवाच||
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च |
के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ||१||
सञ्जय उवाच||
भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव |
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ||२||
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः |
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ||३||
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः |
भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ||४||
उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन् |
वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ||५||
महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः |
चकम्पिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना ||६||
नरेन्द्रनागाश्वरथाकुलाना; मभ्यायतीनामशिवे मुहूर्ते |
बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ||७||
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे |
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ||८||
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् |
सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ||९||
हयानां हेषमाणानामनीकेषु सहस्रशः |
सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः ||१०||
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः |
जीमूतस्येव नदतः शक्राशनिसमस्वनम् ||११||
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः |
शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ||१२||
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् |
विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् ||१३||
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् |
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ||१४||
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः |
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप ||१५||
विविंशतिश्चित्रसेनो विकर्णश्च महारथः |
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ||१६||
महाचापानि धुन्वन्तो जलदा इव विद्युतः |
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ||१७||
अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः |
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ||१८||
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः |
वज्रैरिव महावेगैः शिखराणि धराभृताम् ||१९||
तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने |
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ||२०||
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ |
निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् ||२१||
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा |
विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ||२२||
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत |
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ||२३||
ततस्ते जातसंरम्भाः परस्परकृतागसः |
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ||२४||
कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले |
शुशुभाते रणेऽतीव पटे चित्रगते इव ||२५||
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः |
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ||२६||
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः |
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ||२७||
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः |
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ||२८||
प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि |
नात्र स्वेषां परेषां वा विशेषः समजायत ||२९||
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये |
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ||३०||
४३
सञ्जय उवाच||
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते |
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ||१||
कुरूणां पाण्डवानां च सङ्ग्रामे विजिगीषताम् |
सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् ||२||
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह |
जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ||३||
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ |
पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः ||४||
तोत्त्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः |
घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम् ||५||
तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे |
बभूव रथनिर्घोषः पर्जन्यनिनदोपमः ||६||
ते मनः क्रूरमाधाय समभित्यक्तजीविताः |
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ||७||
स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम् |
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ||८||
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् |
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ||९||
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ |
गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ||१०||
तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि ||१०||
सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् |
तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् ||११||
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् |
आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ||१२||
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ |
वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ ||१३||
अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् |
ततः कोसलको राजा सौभद्रस्य विशां पते ||१४||
ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् ||१४||
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ |
बृहद्बलं महाराज विव्याध नवभिः शरैः ||१५||
अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः |
ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ||१६||
अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः ||१६||
मानिनं समरे दृप्तं कृतवैरं महारथम् |
भीमसेनस्तव सुतं दुर्योधनमयोधयत् ||१७||
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ |
अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ||१८||
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ |
विस्मयः सर्वभूतानां समपद्यत भारत ||१९||
दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् |
अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ||२०||
तस्य माद्रीसुतः केतुं सशरं च शरासनम् |
चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ||२१||
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् ||२१||
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे |
युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् ||२२||
दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् |
विव्याध शरवर्षेण यतमानं महाहवे ||२३||
सहदेवस्ततो वीरो दुर्मुखस्य महाहवे |
शरेण भृशतीक्ष्णेन पातयामास सारथिम् ||२४||
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ |
त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ||२५||
युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् |
तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ||२६||
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः |
अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ||२७||
ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः |
छादयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ||२८||
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत |
तस्य द्रोणः सुसङ्क्रुद्धः परासुकरणं दृढम् ||२९||
त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् ||२९||
शरं चैव महाघोरं कालदण्डमिवापरम् |
प्रेषयामास समरे सोऽस्य काये न्यमज्जत ||३०||
अथान्यद्धनुरादाय सायकांश्च चतुर्दश |
द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ||३१||
तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् ||३१||
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि |
प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् ||३२||
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् |
सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ||३३||
तयोः समभवद्युद्धं घोररूपं विशां पते |
दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव ||३४||
बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते |
अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ||३५||
बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् |
शरैर्बहुभिरानर्छत्सिंहनादमथानदत् ||३६||
चेदिराजस्तु सङ्क्रुद्धो बाह्लीकं नवभिः शरैः |
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ||३७||
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः |
समीयतुः सुसङ्क्रुद्धावङ्गारकबुधाविव ||३८||
राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः |
अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ||३९||
घटोत्कचस्तु सङ्क्रुद्धो राक्षसं तं महाबलम् |
नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ||४०||
अलम्बुसस्तु समरे भैमसेनिं महाबलम् |
बहुधा वारयामास शरैः संनतपर्वभिः ||४१||
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ |
यथा देवासुरे युद्धे बलशक्रौ महाबलौ ||४२||
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली |
अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् ||४३||
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् |
शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ||४४||
सायकेन सुपीतेन तीक्ष्णेन निशितेन च |
तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ||४५||
भगदत्तं रणे शूरं विराटो वाहिनीपतिः |
अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ||४६||
विराटो भगदत्तेन शरवर्षेण ताडितः |
अभ्यवर्षत्सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम् ||४७||
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् |
छादयामास समरे मेघः सूर्यमिवोदितम् ||४८||
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ |
तं कृपः शरवर्षेण छादयामास भारत ||४९||
गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् |
तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै ||५०||
विरथावसियुद्धाय समीयतुरमर्षणौ |
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ||५१||
द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम् |
अभ्युद्ययौ सम्प्रहृष्टो हृष्टरूपं परन्तप ||५२||
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः |
ताडयामास समरे स च तं प्रत्यविध्यत ||५३||
तयोः समभवद्युद्धं घोररूपं सुदारुणम् |
ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव ||५४||
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् |
अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत ||५५||
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः |
सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ||५६||
सुशर्माणं नरव्याघ्रं चेकितानो महारथः |
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी ||५७||
सुशर्मा तु महाराज चेकितानं महारथम् |
महता शरवर्षेण वारयामास संयुगे ||५८||
चेकितानोऽपि संरब्धः सुशर्माणं महाहवे |
प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ||५९||
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी |
अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् ||६०||
यौधिष्ठिरस्तु सङ्क्रुद्धः सौबलं निशितैः शरैः |
व्यदारयत सङ्ग्रामे मघवानिव दानवम् ||६१||
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे |
व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः ||६२||
सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् |
श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ||६३||
सुदक्षिणस्तु समरे साहदेविं महारथम् |
विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ||६४||
श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् |
शरैर्बहुभिरानर्छद्दारयन्निव सर्वशः ||६५||
इरावानथ सङ्क्रुद्धः श्रुतायुषममर्षणम् |
प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः ||६६||
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः |
ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् ||६७||
श्रुतायुस्त्वथ सङ्क्रुद्धः फाल्गुनेः समरे हयान् |
निजघान गदाग्रेण ततो युद्धमवर्तत ||६८||
विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् |
ससेनं ससुतं वीरं संससज्जतुराहवे ||६९||
तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् |
यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह ||७०||
अनुविन्दस्तु गदया कुन्तिभोजमताडयत् |
कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् ||७१||
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः |
स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ||७२||
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष |
ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ||७३||
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् |
उत्तरं योधयामास विव्याध निशितैः शरैः ||७४||
उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः ||७४||
चेदिराट्समरे राजन्नुलूकं समभिद्रवत् |
उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ||७५||
तयोर्युद्धं समभवद्घोररूपं विशां पते |
दारयेतां सुसङ्क्रुद्धावन्योन्यमपराजितौ ||७६||
एवं द्वंद्वसहस्राणि रथवारणवाजिनाम् |
पदातीनां च समरे तव तेषां च सङ्कुलम् ||७७||
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् |
तत उन्मत्तवद्राजन्न प्राज्ञायत किञ्चन ||७८||
गजो गजेन समरे रथी च रथिनं ययौ |
अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् ||७९||
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत |
शूराणां समरे तत्र समासाद्य परस्परम् ||८०||
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः |
प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् ||८१||
ततो दन्तिसहस्राणि रथानां चापि मारिष |
अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ||८२||
तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः |
सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ||८३||
४४
सञ्जय उवाच||
राजञ्शतसहस्राणि तत्र तत्र तदा तदा |
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ||१||
न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् |
न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः ||२||
मातुलं न च स्वस्रीयो न सखायं सखा तथा |
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ||३||
रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः |
अभज्यन्त युगैरेव युगानि भरतर्षभ ||४||
रथेषाश्च रथेषाभिः कूबरा रथकूबरैः |
संहताः संहतैः केचित्परस्परजिघांसवः ||५||
न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः |
प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः ||६||
बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् |
सतोमरपताकैश्च वारणाः परवारणैः ||७||
अभिसृत्य महाराज वेगवद्भिर्महागजैः |
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ||८||
अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः |
सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ||९||
प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः |
क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः ||१०||
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः |
ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः ||११||
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः |
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ||१२||
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः |
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः ||१३||
गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः |
आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः ||१४||
प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः |
व्यदृश्यन्त महाराज परस्परजिघांसवः ||१५||
राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः |
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ||१६||
अवक्षिप्तावधूतानामसीनां वीरबाहुभिः |
सञ्जज्ञे तुमुलः शब्दः पततां परमर्मसु ||१७||
गदामुसलरुग्णानां भिन्नानां च वरासिभिः |
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ||१८||
तत्र तत्र नरौघाणां क्रोशतामितरेतरम् |
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ||१९||
हयैरपि हयारोहाश्चामरापीडधारिभिः |
हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः ||२०||
तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः |
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः ||२१||
अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान् |
शिरांस्याददिरे वीरा रथिनामश्वसादिनः ||२२||
बहूनपि हयारोहान्भल्लैः संनतपर्वभिः |
रथी जघान सम्प्राप्य बाणगोचरमागतान् ||२३||
नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः |
पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः ||२४||
पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः |
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ||२५||
साश्वारोहान्हयान्केचिदुन्मथ्य वरवारणाः |
सहसा चिक्षिपुस्तत्र सङ्कुले भैरवे सति ||२६||
साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः |
रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः ||२७||
पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः |
साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ||२८||
केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः |
विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः ||२९||
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः |
नराश्वकायान्निर्भिद्य लौहानि कवचानि च ||३०||
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः |
महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते ||३१||
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशयैरपि |
विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे ||३२||
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् |
विदर्शयन्तः सम्पेतुः खड्गचर्मपरश्वधैः ||३३||
शक्तिभिर्दारिताः केचित्सञ्छिन्नाश्च परश्वधैः |
हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरङ्गमैः ||३४||
रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः |
विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् ||३५||
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः |
मातुलान्भागिनेयांश्च परानपि च संयुगे ||३६||
विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत |
बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः ||३७||
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ||३७||
तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते |
भूमौ निपतिताः सङ्ख्ये जलमेव ययाचिरे ||३८||
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत |
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च सङ्गतान् ||३९||
अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् |
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष ||४०||
तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् ||४०||
निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् |
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् ||४१||
अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः |
निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः ||४२||
अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे |
प्रार्थयाना निपतिताः सङ्क्षुण्णा वरवारणैः ||४३||
अशोभन्त महाराज पुष्पिता इव किंशुकाः ||४३||
सम्बभूवुरनीकेषु बहवो भैरवस्वनाः |
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये ||४४||
अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे |
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ||४५||
सखायं च सखा राजन्सम्बन्धी बान्धवं तथा |
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ||४६||
वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे |
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ||४७||
केतुना पञ्चतारेण तालेन भरतर्षभ |
राजतेन महाबाहुरुच्छ्रितेन महारथे ||४८||
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ||४८||
४५
सञ्जय उवाच||
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे |
वर्तमाने महारौद्रे महावीरवरक्षये ||१||
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः |
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ||२||
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ |
पाण्डवानामनीकानि विजगाहे महारथः ||३||
चेदिकाशिकरूषेषु पाञ्चालेषु च भारत |
भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत ||४||
शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् |
निचकर्त महावेगैर्भल्लैः संनतपर्वभिः ||५||
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ |
केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ||६||
अभिमन्युः सुसङ्क्रुद्धः पिशङ्गैस्तुरगोत्तमैः |
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ||७||
जाम्बूनदविचित्रेण कर्णिकारेण केतुना |
अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् ||८||
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा |
भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह ||९||
कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः |
विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् ||१०||
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च |
ध्वजमेकेन विव्याध जाम्बूनदविभूषितम् ||११||
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना |
जहार सारथेः कायाच्छिरः संनतपर्वणा ||१२||
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् |
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ||१३||
जघान परमक्रुद्धो नृत्यन्निव महारथः |
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ||१४||
लब्धलक्ष्यतया कर्ष्णेः सर्वे भीष्ममुखा रथाः |
सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जयम् ||१५||
तस्य लाघवमार्गस्थमलातसदृशप्रभम् |
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ||१६||
तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः |
विव्याध समरे तूर्णमार्जुनिं परवीरहा ||१७||
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः |
सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ||१८||
तथैव कृतवर्मा च कृपः शल्यश्च मारिष |
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ||१९||
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः |
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ||२०||
ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः |
ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान् ||२१||
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत |
यतमानस्य समरे भीष्ममर्दयतः शरैः ||२२||
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् |
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ||२३||
ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः |
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ||२४||
स राजतो महास्कन्धस्तालो हेमविभूषितः |
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ||२५||
ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ |
दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् ||२६||
अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च |
प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः ||२७||
ततः शतसहस्रेण सौभद्रं प्रपितामहः |
अवाकिरदमेयात्मा शराणां नतपर्वणाम् ||२८||
ततो दश महेष्वासाः पाण्डवानां महारथाः |
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ||२९||
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः |
भीमश्च केकयाश्चैव सात्यकिश्च विशां पते ||३०||
जवेनापततां तेषां भीष्मः शान्तनवो रणे |
पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः ||३१||
पूर्णायतविसृष्टेन क्षुरेण निशितेन च |
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ||३२||
जाम्बूनदमयः केतुः केसरी नरसत्तम |
पपात भीमसेनस्य भीष्मेण मथितो रथात् ||३३||
भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे |
कृपमेकेन विव्याध कृतवर्माणमष्टभिः ||३४||
प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना |
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ||३५||
तस्य वारणराजस्य जवेनापततो रथी |
शल्यो निवारयामास वेगमप्रतिमं रणे ||३६||
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः |
पदा युगमधिष्ठाय जघान चतुरो हयान् ||३७||
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् |
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ||३८||
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः |
स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः ||३९||
समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात् |
वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् ||४०||
भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः |
भीममार्तस्वरं कृत्वा पपात च ममार च ||४१||
एतदीदृशकं कृत्वा मद्रराजो महारथः |
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ||४२||
उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् |
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ||४३||
शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ||४३||
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् |
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली ||४४||
महता रथवंशेन समन्तात्परिवारितः |
सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति ||४५||
तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम् |
तावकानां रथाः सप्त समन्तात्पर्यवारयन् ||४६||
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ||४६||
ततो भीष्मो महाबाहुर्विनद्य जलदो यथा |
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ||४७||
तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् |
सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः ||४८||
तत्रार्जुनः सन्त्वरितः शङ्खस्यासीत्पुरःसरः |
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ||४९||
हाहाकारो महानासीद्योधानां युधि युध्यताम् |
तेजस्तेजसि सम्पृक्तमित्येवं विस्मयं ययुः ||५०||
अथ शल्यो गदापाणिरवतीर्य महारथात् |
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ||५१||
स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः |
बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत ||५२||
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः |
यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् ||५३||
पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् |
भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः ||५४||
उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् |
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ||५५||
प्रियं सम्बन्धिनं राजञ्शरानवकिरन्बहून् ||५५||
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये |
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह ||५६||
अतिष्ठत रणे भीष्मो विधूम इव पावकः ||५६||
मध्यंदिने यथादित्यं तपन्तमिव तेजसा |
न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ||५७||
वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः |
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ||५८||
हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते |
हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ||५९||
ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः |
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ||६०||
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः |
जघान पाण्डवरथानादिश्यादिश्य भारत ||६१||
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः |
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किञ्चन ||६२||
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे |
अवहारमकुर्वन्त सैन्यानां भरतर्षभ ||६३||
द्वितीययुद्धदिवसः
४६
सञ्जय उवाच||
कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ |
भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा ||१||
धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् |
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ||२||
शुचा परमया युक्तश्चिन्तयानः पराजयम् |
वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् ||३||
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् |
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ||४||
कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् |
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ||५||
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् |
दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् ||६||
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे |
वरुणः पाशभृच्चापि कुबेरो वा गदाधरः ||७||
न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः |
सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः ||८||
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव |
वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् ||९||
न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे |
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ||१०||
यथानलं प्रज्वलितं पतङ्गाः समभिद्रुताः |
विनाशायैव गच्छन्ति तथा मे सैनिको जनः ||११||
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी |
भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः ||१२||
मत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् |
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ||१३||
जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् |
न घातयिष्यामि रणे मित्राणीमानि केशव ||१४||
रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः |
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ||१५||
किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम् |
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ||१६||
एको भीमः परं शक्त्या युध्यत्येष महाभुजः |
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ||१७||
गदया वीरघातिन्या यथोत्साहं महामनाः |
करोत्यसुकरं कर्म गजाश्वरथपत्तिषु ||१८||
नालमेष क्षयं कर्तुं परसैन्यस्य मारिष |
आर्जवेनैव युद्धेन वीर वर्षशतैरपि ||१९||
एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते |
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ||२०||
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः |
धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ||२१||
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः |
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ||२२||
स त्वं पश्य महेष्वासं योगीष्वर महारथम् |
यो भीष्मं शमयेत्सङ्ख्ये दावाग्निं जलदो यथा ||२३||
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः |
स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ति सबान्धवाः ||२४||
एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः |
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ||२५||
शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् |
अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ||२६||
मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि |
यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः ||२७||
अहं च प्रियकृद्राजन्सात्यकिश्च महारथः |
विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः ||२८||
तथैव सबलाः सर्वे राजानो राजसत्तम |
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते ||२९||
एष ते पार्षतो नित्यं हितकामः प्रिये रतः |
सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ||३०||
शिखण्डी च महाबाहो भीष्मस्य निधनं किल ||३०||
एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् |
अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः ||३१||
धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष |
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ||३२||
भवान्सेनापतिर्मह्यं वासुदेवेन संमतः |
कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा ||३३||
तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ||३३||
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् |
अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष ||३४||
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः |
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ||३५||
तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत |
अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा ||३६||
रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् |
सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ||३७||
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः |
समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ||३८||
तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् |
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ||३९||
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् |
तं यथावत्प्रतिव्यूह परानीकविनाशनम् ||४०||
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ||४०||
तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव |
प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् ||४१||
आदित्यपथगः केतुस्तस्याद्भुतमनोरमः |
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ||४२||
इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः |
आकाशग इवाकाशे गन्धर्वनगरोपमः ||४३||
नृत्यमान इवाभाति रथचर्यासु मारिष ||४३||
तेन रत्नवता पार्थः स च गाण्डीवधन्वना |
बभूव परमोपेतः स्वयम्भूरिव भानुना ||४४||
शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः |
कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर ||४५||
दाशार्णकाः प्रयागाश्च दाशेरकगणैः सह |
अनूपगाः किराताश्च ग्रीवायां भरतर्षभ ||४६||
पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा |
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः ||४७||
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः |
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ||४८||
पिशाचा दरदाश्चैव पुण्ड्राः कुण्डीविषैः सह |
मडका लडकाश्चैव तङ्गणाः परतङ्गणाः ||४९||
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत |
एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ||५०||
अग्निवेष्या जगत्तुण्डाः पलदाशाश्च भारत |
शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः ||५१||
नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः ||५१||
रथानामयुतं पक्षौ शिरश्च नियुतं तथा |
पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः ||५२||
ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः ||५२||
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः |
जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ||५३||
जघनं पालयामास विराटः सह केकयैः |
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ||५४||
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः |
सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः ||५५||
तेषामादित्यवर्णानि विमलानि महान्ति च |
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ||५६||
४७
सञ्जय उवाच||
क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव |
व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा ||१||
आचार्यमुपसङ्गम्य कृपं शल्यं च मारिष |
सौमदत्तिं विकर्णं च अश्वत्थामानमेव च ||२||
दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत |
अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् ||३||
प्राहेदं वचनं काले हर्षयंस्तनयस्तव |
नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः ||४||
एकैकशः समर्था हि यूयं सर्वे महारथाः |
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ||५||
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |
पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः ||६||
संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा |
आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा ||७||
शत्रुञ्जयेन सहितास्तथा दुःशासनेन च |
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ||८||
चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः |
भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः ||९||
ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष |
अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने ||१०||
भीष्मः सैन्येन महता समन्तात्परिवारितः |
ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव ||११||
तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् |
कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते ||१२||
विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि |
सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् ||१३||
गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः |
शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् ||१४||
ततो दुर्योधनो राजा सहितः सर्वसोदरैः |
अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः ||१५||
दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः |
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ||१६||
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष |
विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ||१७||
सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः |
शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः ||१८||
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |
महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः ||१९||
पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः |
केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ||२०||
ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत |
दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् ||२१||
तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||२२||
ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः |
आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||२३||
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ||२४||
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||२५||
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||२६||
काशिराजश्च शैब्यश्च शिखण्डी च महारथः |
धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः ||२७||
पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः |
सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे ||२८||
स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः |
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् ||२९||
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः |
पुनर्युद्धाय सञ्जग्मुस्तापयानाः परस्परम् ||३०||
४८
धृतराष्ट्र उवाच||
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च |
कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे ||१||
सञ्जय उवाच||
समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः |
अपारमिव संदृश्य सागरप्रतिमं बलम् ||२||
तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव |
अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः ||३||
ते मनः क्रूरमास्थाय समभित्यक्तजीविताः |
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ||४||
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् |
तावकानां परेषां च व्यतिषक्तरथद्विपम् ||५||
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः |
संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च ||६||
तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः |
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ||७||
सौभद्रे भीमसेने च शैनेये च महारथे |
केकये च विराटे च धृष्टद्युम्ने च पार्षते ||८||
एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः |
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ||९||
प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे |
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ||१०||
सादितध्वजनागाश्च हतप्रवरवाजिनः |
विप्रयातरथानीकाः समपद्यन्त पाण्डवाः ||११||
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् |
वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ||१२||
एष भीष्मः सुसङ्क्रुद्धो वार्ष्णेय मम वाहिनीम् |
नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ||१३||
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन |
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ||१४||
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना |
सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन ||१५||
तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय |
एष त्वा प्रापये वीर पितामहरथं प्रति ||१६||
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् |
प्रापयामास भीष्माय रथं प्रति जनेश्वर ||१७||
चञ्चद्बहुपताकेन बलाकावर्णवाजिना |
समुच्छ्रितमहाभीमनदद्वानरकेतुना ||१८||
महता मेघनादेन रथेनादित्यवर्चसा ||१८||
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः |
आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः ||१९||
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् |
त्रासयानं रणे शूरान्पातयन्तं च सायकैः ||२०||
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः |
सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ||२१||
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् |
द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति ||२२||
ततो भीष्मो महाराज कौरवाणां पितामहः |
अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् ||२३||
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः |
दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः ||२४||
सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः |
विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ||२५||
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः |
न विव्यथे महाबाहुर्भिद्यमान इवाचलः ||२६||
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः |
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ||२७||
आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः |
प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ||२८||
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः |
द्रौपदेयाभिमन्युश्च परिवव्रुर्धनञ्जयम् ||२९||
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् |
अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः ||३०||
भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् |
अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः ||३१||
तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् |
प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् ||३२||
तेषां तु रथसिंहानां मध्यं प्राप्य धनञ्जयः |
चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् ||३३||
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः |
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ||३४||
एष पाण्डुसुतस्तात कृष्णेन सहितो बली |
यततां सर्वसैन्यानां मूलं नः परिकृन्तति ||३५||
त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे ||३५||
त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः |
न युध्यति रणे पार्थं हितकामः सदा मम ||३६||
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः |
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव ||३७||
धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति ||३७||
उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः |
सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत ||३८||
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः |
परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ||३९||
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् |
स्थिता युद्धाय महते ततो युद्धमवर्तत ||४०||
गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः |
तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः ||४१||
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः |
अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ||४२||
शरजालं ततस्तत्तु शरजालेन कौरव |
वारयामास पार्थस्य भीष्मः शान्तनवस्तथा ||४३||
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ |
निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ||४४||
भीष्मचापविमुक्तानि शरजालानि सङ्घशः |
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः ||४५||
तथैवार्जुनमुक्तानि शरजालानि भागशः |
गाङ्गेयशरनुन्नानि न्यपतन्त महीतले ||४६||
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः |
भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः ||४७||
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ |
रथेषां रथचक्रे च चिक्रीडतुररिंदमौ ||४८||
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः |
वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ||४९||
भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः |
विरराज रणे राजन्सपुष्प इव किंशुकः ||५०||
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् |
गाङ्गेयसारथिं सङ्ख्ये निर्बिभेद त्रिभिः शरैः ||५१||
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति |
नाशक्नुतां तदान्योन्यमभिसन्धातुमाहवे ||५२||
मण्डलानि विचित्राणि गतप्रत्यागतानि च |
अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ||५३||
अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ |
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ||५४||
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः |
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ||५५||
तयोः शङ्खप्रणादेन रथनेमिस्वनेन च |
दारिता सहसा भूमिश्चकम्प च ननाद च ||५६||
न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ |
बलिनौ समरे शूरावन्योन्यसदृशावुभौ ||५७||
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः |
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ||५८||
तयोर्नृवरयो राजन्दृश्य तादृक्पराक्रमम् |
विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे ||५९||
न तयोर्विवरं कश्चिद्रणे पश्यति भारत |
धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ||६०||
उभौ हि शरजालेन तावदृश्यौ बभूवतुः |
प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ||६१||
तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः |
अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ||६२||
न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ |
सदेवासुरगन्धर्वैर्लोकैरपि कथञ्चन ||६३||
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् |
नैतादृशानि युद्धानि भविष्यन्ति कथञ्चन ||६४||
नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता |
सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे ||६५||
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् |
न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ||६६||
इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः |
गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशां पते ||६७||
त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत |
अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे ||६८||
शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः |
शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि ||६९||
उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् ||६९||
वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे |
द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ||७०||
४९
धृतराष्ट्र उवाच||
कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः |
रणे समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय ||१||
दिष्टमेव परं मन्ये पौरुषादपि सञ्जय |
यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् ||२||
भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् |
स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा ||३||
सञ्जय उवाच||
शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् |
न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः ||४||
द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत् |
सारथिं चास्य भल्लेन रथनीडादपातयत् ||५||
तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः |
पीडयामास सङ्क्रुद्धो धृष्टद्युम्नस्य मारिष ||६||
धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः |
विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् ||७||
ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् |
शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् ||८||
आददे च शरं घोरं पार्षतस्य वधं प्रति |
शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम् ||९||
हाहाकारो महानासीत्सर्वसैन्यस्य भारत |
तमिषुं सन्धितं दृष्ट्वा भारद्वाजेन संयुगे ||१०||
तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् |
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ||११||
तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः |
चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ||१२||
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह |
धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ||१३||
ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् |
द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ||१४||
तामापतन्तीं सहसा शक्तिं कनकभूषणाम् |
त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव ||१५||
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् |
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर ||१६||
शरवर्षं ततस्तं तु संनिवार्य महायशाः |
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ||१७||
स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः |
द्रोणाय प्रेषयामास गिरिसारमयीं बली ||१८||
सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया |
तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् ||१९||
लाघवाद्व्यंसयामास गदां हेमविभूषिताम् |
व्यंसयित्वा गदां तां च प्रेषयामास पार्षते ||२०||
भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान् |
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ||२१||
अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः |
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः ||२२||
रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ |
वसन्तसमये राजन्पुष्पिताविव किंशुकौ ||२३||
अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे |
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् ||२४||
अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः |
अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम् ||२५||
सारथिं चास्य भल्लेन रथनीडादपातयत् |
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ||२६||
पातयामास समरे सिंहनादं ननाद च |
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ||२७||
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः |
गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् ||२८||
तामस्य विशिखैस्तूर्णं पातयामास भारत |
रथादनवरूढस्य तदद्भुतमिवाभवत् ||२९||
ततः स विपुलं चर्म शतचन्द्रं च भानुमत् |
खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ||३०||
अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया |
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ||३१||
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् |
लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ||३२||
यदेनं शरवर्षेण वारयामास पार्षतम् |
न शशाक ततो गन्तुं बलवानपि संयुगे ||३३||
तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् |
वारयाणं शरौघांश्च चर्मणा कृतहस्तवत् ||३४||
ततो भीमो महाबाहुः सहसाभ्यपतद्बली |
साहाय्यकारी समरे पार्षतस्य महात्मनः ||३५||
स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः |
पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् ||३६||
ततो दुर्योधनो राजा कलिङ्गं समचोदयत् |
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ||३७||
ततः सा महती सेना कलिङ्गानां जनेश्वर |
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ||३८||
पाञ्चाल्यमभिसन्त्यज्य द्रोणोऽपि रथिनां वरः |
विराटद्रुपदौ वृद्धौ योधयामास सङ्गतौ ||३९||
धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् ||३९||
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |
कलिङ्गानां च समरे भीमस्य च महात्मनः ||४०||
जगतः प्रक्षयकरं घोररूपं भयानकम् ||४०||
५०
धृतराष्ट्र उवाच||
तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः |
कथमद्भुतकर्माणं भीमसेनं महाबलम् ||१||
चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् |
योधयामास समरे कलिङ्गः सह सेनया ||२||
सञ्जय उवाच||
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः |
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ||३||
तामापतन्तीं सहसा कलिङ्गानां महाचमूम् |
रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ||४||
भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् |
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ||५||
ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह |
आससाद रणे भीमं व्यूढानीकेषु चेदिषु ||६||
रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः |
अयुतेन गजानां च निषादैः सह केतुमान् ||७||
भीमसेनं रणे राजन्समन्तात्पर्यवारयत् ||७||
चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः |
अभ्यवर्तन्त सहसा निषादान्सह राजभिः ||८||
ततः प्रववृते युद्धं घोररूपं भयानकम् |
प्रजानन्न च योधान्स्वान्परस्परजिघांसया ||९||
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः |
यथेन्द्रस्य महाराज महत्या दैत्यसेनया ||१०||
तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत |
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ||११||
अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते |
महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ||१२||
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया |
स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः ||१३||
विमर्दः सुमहानासीदल्पानां बहुभिः सह |
कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ||१४||
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः |
भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ||१५||
सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु |
स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः ||१६||
न चचाल रथोपस्थाद्भीमसेनो महाबलः |
शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् ||१७||
कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः |
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ||१८||
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः |
योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः ||१९||
शक्रदेवस्तु समरे विसृजन्सायकान्बहून् |
अश्वाञ्जघान समरे भीमसेनस्य सायकैः ||२०||
ववर्ष शरवर्षाणि तपान्ते जलदो यथा ||२०||
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः |
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ||२१||
स तया निहतो राजन्कलिङ्गस्य सुतो रथात् |
सध्वजः सह सूतेन जगाम धरणीतलम् ||२२||
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः |
रथैरनेकसाहस्रैर्भिमस्यावारयद्दिशः ||२३||
ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् |
उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ||२४||
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ |
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ||२५||
कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह |
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ||२६||
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ||२६||
तमापतन्तं वेगेन प्रेरितं निशितं शरम् |
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ||२७||
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ||२७||
कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे |
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ||२८||
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः |
चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना ||२९||
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश |
भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ||३०||
भानुमांस्तु ततो भीमं शरवर्षेण छादयन् |
ननाद बलवन्नादं नादयानो नभस्तलम् ||३१||
न तं स ममृषे भीमः सिंहनादं महारणे |
ततः स्वरेण महता विननाद महास्वनम् ||३२||
तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी |
न भीमं समरे मेने मानुषं भरतर्षभ ||३३||
ततो भीमो महाराज नदित्वा विपुलं स्वनम् |
सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ||३४||
आरुरोह ततो मध्यं नागराजस्य मारिष |
खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ||३५||
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः |
गुरुभारसहस्कन्धे नागस्यासिमपातयत् ||३६||
छिन्नस्कन्धः स विनदन्पपात गजयूथपः |
आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ||३७||
ततस्तस्मादवप्लुत्य गजाद्भारत भारतः |
खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ||३८||
स चचार बहून्मार्गानभीतः पातयन्गजान् |
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ||३९||
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः |
पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः ||४०||
श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः ||४०||
छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः |
खड्गेन शितधारेण संयुगे गजयोधिनाम् ||४१||
पदातिरेकः सङ्क्रुद्धः शत्रूणां भयवर्धनः |
मोहयामास च तदा कालान्तकयमोपमः ||४२||
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् |
सासिमुत्तमवेगेन विचरन्तं महारणे ||४३||
निकृत्य रथिनामाजौ रथेषाश्च युगानि च |
जघान रथिनश्चापि बलवानरिमर्दनः ||४४||
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत |
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ||४५||
सम्पातं समुदीर्यं च दर्शयामास पाण्डवः ||४५||
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना |
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ||४६||
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे |
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ||४७||
निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ||४७||
छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च |
परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ||४८||
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा |
तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ||४९||
अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह |
घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि ||५०||
पततः पतितांश्चैव पश्यामः सह सादिभिः ||५०||
छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः |
आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ||५१||
विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः |
अश्वारोहवरांश्चापि पातयामास भारत ||५२||
तद्घोरमभवद्युद्धं तस्य तेषां च भारत ||५२||
खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः |
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ||५३||
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च |
तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ||५४||
प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा |
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ||५५||
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः |
पातयामास खड्गेन सध्वजानपि पाण्डवः ||५६||
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः |
मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः ||५७||
निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् |
खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ||५८||
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले |
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ||५९||
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् |
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ||६०||
ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ |
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ||६१||
तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः |
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ||६२||
कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः |
भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ||६३||
अथाशोकः समादाय रथं हेमपरिष्कृतम् |
भीमं सम्पादयामास रथेन रथसारथिः ||६४||
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः |
कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ||६५||
ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् |
प्रेषयामास सङ्क्रुद्धो दर्शयन्पाणिलाघवम् ||६६||
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः |
समाहतो भृशं राजन्कलिङ्गेन महायशाः ||६७||
सञ्चुक्रुधे भृशं भीमो दण्डाहत इवोरगः ||६७||
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः |
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ||६८||
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ |
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ||६९||
ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः |
केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ||७०||
ततः कलिङ्गाः सङ्क्रुद्धा भीमसेनममर्षणम् |
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ||७१||
ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः |
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ||७२||
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् |
गदामादाय तरसा परिप्लुत्य महाबलः ||७३||
भीमः सप्तशतान्वीराननयद्यमसादनम् ||७३||
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः |
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ||७४||
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः |
बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ||७५||
हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना |
विप्रजग्मुरनीकेषु मेघा वातहता इव ||७६||
मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ||७६||
ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली |
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ||७७||
मोहश्चापि कलिङ्गानामाविवेश परन्तप |
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ||७८||
भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः |
मार्गान्बहून्विचरता धावता च ततस्ततः ||७९||
मुहुरुत्पतता चैव संमोहः समजायत ||७९||
भीमसेनभयत्रस्तं सैन्यं च समकम्पत |
क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत्सरः ||८०||
त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा |
पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ||८१||
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः |
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ||८२||
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः |
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ||८३||
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः |
महता मेघवर्णेन नागानीकेन पृष्ठतः ||८४||
एवं सञ्चोद्य सर्वाणि स्वान्यनीकानि पार्षतः |
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ||८५||
न हि पाञ्चालराजस्य लोके कश्चन विद्यते |
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ||८६||
सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् |
भीमसेनं महाबाहुं पार्षतः परवीरहा ||८७||
ननर्द बहुधा राजन्हृष्टश्चासीत्परन्तपः |
शङ्खं दध्मौ च समरे सिंहनादं ननाद च ||८८||
स च पारावताश्वस्य रथे हेमपरिष्कृते |
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ||८९||
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् |
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ||९०||
तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ |
कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ ||९१||
स तत्र गत्वा शैनेयो जवेन जयतां वरः |
पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ||९२||
स कृत्वा कदनं तत्र प्रगृहीतशरासनः |
आस्थितो रौद्रमात्मानं जघान समरे परान् ||९३||
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् |
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ||९४||
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् |
सन्ततार सुदुस्तारां भीमसेनो महाबलः ||९५||
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप |
कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ||९६||
ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे |
अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ||९७||
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः |
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ||९८||
परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे |
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा ||९९||
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव |
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ||१००||
ततः शरसहस्रेण संनिवार्य महारथान् |
हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः ||१०१||
हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् |
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ||१०२||
अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव |
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ||१०३||
ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् |
भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ ||१०४||
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया |
सारथिं कुरुवृद्धस्य पातयामास सायकैः ||१०५||
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः |
वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ||१०६||
भीमसेनस्ततो राजन्नपनीते महाव्रते |
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ||१०७||
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत |
नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ||१०८||
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः |
पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ||१०९||
सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ |
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ||११०||
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः |
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ||१११||
दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान् |
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ||११२||
स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः |
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ||११३||
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः |
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ||११४||
ततः स्वरथमारुह्य पुनरेव महारथः |
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ||११५||
५१
सञ्जय उवाच||
गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत |
रथनागाश्वपत्तीनां सादिनां च महाक्षये ||१||
द्रोणपुत्रेण शल्येन कृपेण च महात्मना |
समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः ||२||
स लोकविदितानश्वान्निजघान महाबलः |
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ||३||
ततः शल्यरथं तूर्णमास्थाय हतवाहनः |
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ||४||
धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत |
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ||५||
स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः |
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ ||६||
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा |
शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः ||७||
लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् |
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ||८||
दौर्योधनिस्तु सङ्क्रुद्धः सौभद्रं नवभिः शरैः |
विव्याध समरे राजंस्तदद्भुतमिवाभवत् ||९||
अभिमन्युस्तु सङ्क्रुद्धो भ्रातरं भरतर्षभ |
शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत ||१०||
लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा |
मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः ||११||
तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा |
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ||१२||
तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ |
अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ||१३||
ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् |
पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः ||१४||
संनिवृत्ते तव सुते सर्व एव जनाधिपाः |
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ||१५||
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः |
न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः ||१६||
सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनञ्जयः |
अभिदुद्राव सङ्क्रुद्धस्त्रातुकामः स्वमात्मजम् ||१७||
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः |
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ||१८||
उद्धूतं सहसा भौमं नागाश्वरथसादिभिः |
दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत ||१९||
तानि नागसहस्राणि भूमिपालशतानि च |
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ||२०||
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः |
कुरूणामनयस्तीव्रः समदृश्यत दारुणः ||२१||
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः |
प्रजज्ञे भरतश्रेष्ठ शरसङ्घैः किरीटिनः ||२२||
सादितध्वजनागास्तु हताश्वा रथिनो भृशम् |
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ||२३||
विरथा रथिनश्चान्ये धावमानाः समन्ततः |
तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ||२४||
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः |
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ||२५||
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः |
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः ||२६||
सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते |
सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ||२७||
साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् |
निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा ||२८||
परिघाणां प्रवृद्धानां मुद्गराणां च मारिष |
प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे ||२९||
परश्वधानां तीक्ष्णानां तोमराणां च भारत |
वर्मणां चापविद्धानां कवचानां च भूतले ||३०||
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः |
छत्राणां हेमदण्डानां चामराणां च भारत ||३१||
प्रतोदानां कशानां च योक्त्राणां चैव मारिष |
राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ||३२||
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत |
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथञ्चन ||३३||
यो यो हि समरे पार्थं पत्युद्याति विशां पते |
स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते ||३४||
तेषु विद्रवमाणेषु तव योधेषु सर्वशः |
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ||३५||
तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव |
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ||३६||
एष पाण्डुसुतो वीरः कृष्णेन सहितो बली |
तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः ||३७||
न ह्येष समरे शक्यो जेतुमद्य कथञ्चन |
यथास्य दृश्यते रूपं कालान्तकयमोपमम् ||३८||
न निवर्तयितुं चापि शक्येयं महती चमूः |
अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी ||३९||
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते |
वपूंषि सर्वलोकस्य संहरन्निव सर्वथा ||४०||
तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ |
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन ||४१||
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् |
अवहारमथो चक्रे तावकानां महारथः ||४२||
ततोऽवहारः सैन्यानां तव तेषां च भारत |
अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ||४३||
तृतीययुद्धदिवसः
५२
सञ्जय उवाच||
प्रभातायां तु शर्वर्यां भीष्मः शान्तनवस्ततः |
अनीकान्यनुसंयाने व्यादिदेशाथ भारत ||१||
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा |
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ||२||
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव |
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ||३||
अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ |
त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ ||४||
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष |
मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ||५||
जयद्रथेन सहिता ग्रीवायां संनिवेशिताः |
पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः ||६||
विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह |
पुच्छमासन्महाराज शूरसेनाश्च सर्वशः ||७||
मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह |
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ||८||
काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा |
बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः ||९||
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परन्तपः |
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ||१०||
अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् ||१०||
दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत |
नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः ||११||
तदन्वेव विराटश्च द्रुपदश्च महारथः |
तदनन्तरमेवासीन्नीलो नीलायुधैः सह ||१२||
नीलादनन्तरं चैव धृष्टकेतुर्महारथः |
चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः ||१३||
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः |
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत ||१४||
तथैव धर्मराजोऽपि गजानीकेन संवृतः |
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ||१५||
अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् |
भैमसेनिस्ततो राजन्केकयाश्च महारथाः ||१६||
ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः |
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः ||१७||
एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः |
वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः ||१८||
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् |
तावकानां परेषां च निघ्नतामितरेतरम् ||१९||
हयौघाश्च रथौघाश्च तत्र तत्र विशां पते |
सम्पतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् ||२०||
धावतां च रथौघानां निघ्नतां च पृथक्पृथक् |
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः ||२१||
दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम् |
सम्प्रहारे सुतुमुले तव तेषां च भारत ||२२||
५३
सञ्जय उवाच||
ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च |
धनञ्जयो रथानीकमवधीत्तव भारत ||१||
शरैरतिरथो युद्धे पातयन्रथयूथपान् ||१||
ते वध्यमानाः पार्थेन कालेनेव युगक्षये |
धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् ||२||
प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ||२||
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् |
बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे ||३||
द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च |
पाण्डवैः कौरवैश्चैव न प्रज्ञायत किञ्चन ||४||
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् |
दिशः प्रतिदिशो वापि तत्र जज्ञुः कथञ्चन ||५||
अनुमानेन सञ्ज्ञाभिर्नामगोत्रैश्च संयुगे |
वर्तते स्म तदा युद्धं तत्र तत्र विशां पते ||६||
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन |
रक्षितः सत्यसन्धेन भारद्वाजेन धीमता ||७||
तथैव पाण्डवेयानां रक्षितः सव्यसाचिना |
नाभिध्यत महाव्यूहो भीमेन च सुरक्षितः ||८||
सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः |
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ||९||
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे |
ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे ||१०||
रथी रथिनमासाद्य शरैः कनकभूषणैः |
पातयामास समरे तस्मिन्नतिभयङ्करे ||११||
गजारोहा गजारोहान्नाराचशरतोमरैः |
संसक्ताः पातयामासुस्तव तेषां च सङ्घशः ||१२||
पत्तिसङ्घा रणे पत्तीन्भिण्डिपालपरश्वधैः |
न्यपातयन्त संहृष्टाः परस्परकृतागसः ||१३||
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् |
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ||१४||
गजारोहा हयारोहान्पातयां चक्रिरे तदा |
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ||१५||
गजारोहवरैश्चापि तत्र तत्र पदातयः |
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ||१६||
पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः |
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ||१७||
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा |
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ||१८||
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि |
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ||१९||
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः |
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ||२०||
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे |
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ||२१||
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः |
दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर ||२२||
उत्थितान्यगणेयानि कबन्धानि समन्ततः |
चिह्नभूतानि जगतो विनाशार्थाय भारत ||२३||
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे |
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ||२४||
ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः |
पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः ||२५||
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः |
पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः ||२६||
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः |
सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत ||२७||
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः |
द्रावयामासुराजौ ते त्रिदशा दानवानिव ||२८||
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः |
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ||२९||
विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि |
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले ||३०||
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव |
अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् ||३१||
तथैव पाण्डवाः सर्वे महत्या सेनया सह |
द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ ||३२||
किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् |
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ||३३||
ततः प्रववृते भूयः सङ्ग्रामो लोमहर्षणः |
तावकानां परेषां च समरे विजिगीषताम् ||३४||
५४
सञ्जय उवाच||
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे |
रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ||१||
अथैनं रथवृन्देन कोष्टकीकृत्य भारत |
शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ||२||
शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह |
प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि ||३||
चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति ||३||
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् |
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ||४||
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् |
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ||५||
साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ||५||
सात्यकिं चाभिमन्युं च महत्या सेनया सह |
गान्धाराः समरे शूरा रुरुधुः सहसौबलाः ||६||
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् |
तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ||७||
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये |
अभिमन्यो रथं तूर्णमारुरोह परन्तपः ||८||
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् |
व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः ||९||
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् |
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ||१०||
ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ |
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ||११||
तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् |
यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ||१२||
कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ |
दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् ||१३||
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् |
अतीत्य पितरं युद्धे यदयुध्यत भारत ||१४||
भीमसेनस्तु सङ्क्रुद्धो दुर्योधनममर्षणम् |
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ||१५||
ततो दुर्योधनो राजा प्रहारवरमोहितः |
निषसाद रथोपस्थे कश्मलं च जगाम ह ||१६||
तं विसञ्ज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः |
अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत ||१७||
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः |
निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ||१८||
पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः |
द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ||१९||
जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः ||१९||
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे |
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ||२०||
वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते |
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः ||२१||
ततो रथसहस्रेषु विद्रवत्सु ततस्ततः |
तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ ||२२||
सौबलीं समरे सेनां शातयेतां समन्ततः ||२२||
शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ |
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ||२३||
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते |
ववर्ष शरवर्षेण धाराभिरिव तोयदः ||२४||
वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे |
दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ||२५||
द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ |
न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ||२६||
ततो दुर्योधनो राजा समाश्वस्य विशां पते |
न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः ||२७||
यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत |
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः ||२८||
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः |
अन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे ||२९||
पुनरावर्ततां तेषां वेग आसीद्विशां पते |
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ||३०||
संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः |
अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः ||३१||
पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत |
नानुरूपमहं मन्ये त्वयि जीवति कौरव ||३२||
द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने |
कृपे चैव महेष्वासे द्रवतीयं वरूथिनी ||३३||
न पाण्डवाः प्रतिबलास्तव राजन्कथञ्चन |
तथा द्रोणस्य सङ्ग्रामे द्रौणेश्चैव कृपस्य च ||३४||
अनुग्राह्याः पाण्डुसुता नूनं तव पितामह |
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ||३५||
सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे |
न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी ||३६||
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च |
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ||३७||
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे |
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ||३८||
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः |
अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ||३९||
बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः |
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ||४०||
यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम |
करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः ||४१||
अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः |
मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः ||४२||
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर |
दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् ||४३||
पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत् |
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् ||४४||
५५
धृतराष्ट्र उवाच||
प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे |
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ||१||
भीष्मः किमकरोत्तत्र पाण्डवेयेषु सञ्जय |
पितामहे वा पाञ्चालास्तन्ममाचक्ष्व सञ्जय ||२||
सञ्जय उवाच||
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत |
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु ||३||
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव |
अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् ||४||
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ||४||
प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् |
अस्माकं पाण्डवैः सार्धमनयात्तव भारत ||५||
धनुषां कूजतां तत्र तलानां चाभिहन्यताम् |
महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ||६||
तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव |
स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः ||७||
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च |
शिलानामिव शैलेषु पतितानामभूत्स्वनः ||८||
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः |
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ||९||
हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः |
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः ||१०||
प्रावर्तत महावेगा नदी रुधिरवाहिनी |
मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा ||११||
वराश्वनरनागानां शरीरप्रभवा तदा |
परलोकार्णवमुखी गृध्रगोमायुमोदिनी ||१२||
न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप |
यथा तव सुतानां च पाण्डवानां च भारत ||१३||
नासीद्रथपथस्तत्र योधैर्युधि निपातितैः |
गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् ||१४||
विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष |
शुशुभे तद्रणस्थानं शरदीव नभस्तलम् ||१५||
विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः |
अभीताः समरे शत्रूनभ्यधावन्त दंशिताः ||१६||
तात भ्रातः सखे बन्धो वयस्य मम मातुल |
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ||१७||
आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि |
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ||१८||
तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः |
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ||१९||
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः |
जघान पाण्डवरथानादिश्यादिश्य भारत ||२०||
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् |
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ||२१||
तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा |
अनेकशतसाहस्रं समपश्यन्त लाघवात् ||२२||
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे |
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ||२३||
उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो |
एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत ||२४||
न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् |
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ||२५||
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् |
व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु ||२६||
अमानुषेण रूपेण चरन्तं पितरं तव ||२६||
शलभा इव राजानः पतन्ति विधिचोदिताः |
भीष्माग्निमभि सङ्क्रुद्धं विनाशाय सहस्रशः ||२७||
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे |
नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः ||२८||
भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा |
गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् ||२९||
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि |
नाराचेन सुतीक्ष्णेन निजघान पिता तव ||३०||
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन |
मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते ||३१||
एवं सा धर्मराजस्य वध्यमाना महाचमूः |
भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा ||३२||
प्रकीर्यत महासेना शरवर्षाभितापिता |
पश्यतो वासुदेवस्य पार्थस्य च महात्मनः ||३३||
यतमानापि ते वीरा द्रवमाणान्महारथान् |
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः ||३४||
महेन्द्रसमवीर्येण वध्यमाना महाचमूः |
अभज्यत महाराज न च द्वौ सह धावतः ||३५||
आविद्धनरनागाश्वं पतितध्वजकूबरम् |
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ||३६||
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा |
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ||३७||
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः |
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ||३८||
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम् |
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ||३९||
प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः |
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ||४०||
अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया |
प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे ||४१||
यत्त्वया कथितं वीर पुरा राज्ञां समागमे |
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ||४२||
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे |
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम ||४३||
बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः |
द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले ||४४||
दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम् |
भयार्ताः सम्प्रणश्यन्ति सिंहं क्षुद्रमृगा इव ||४५||
एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः |
चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम् ||४६||
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः |
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ||४७||
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् |
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ||४८||
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः |
धनञ्जयरथं तूर्णं शरवर्षैरवाकिरत् ||४९||
क्षणेन स रथस्तस्य सहयः सहसारथिः |
शरवर्षेण महता सञ्छन्नो न प्रकाशते ||५०||
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान् |
चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ||५१||
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् |
पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः ||५२||
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः |
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ||५३||
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् |
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ||५४||
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः |
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ||५५||
त्वय्येवैतद्युक्तरूपं महत्कर्म धनञ्जय |
प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह ||५६||
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः |
मुमोच समरे वीरः शरान्पार्थरथं प्रति ||५७||
अदर्शयद्वासुदेवो हययाने परं बलम् |
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु ||५८||
तथापि भीष्मः सुदृढं वासुदेवधनञ्जयौ |
विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष ||५९||
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ |
गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ ||६०||
पुनश्चापि सुसङ्क्रुद्धः शरैः संनतपर्वभिः |
कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः ||६१||
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः |
मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा ||६२||
ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् |
सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ||६३||
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि |
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ||६४||
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् |
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ||६५||
अमृष्यमाणो भगवान्केशवः परवीरहा |
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ||६६||
एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् |
किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ||६७||
द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः |
एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् ||६८||
आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् ||६८||
सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः |
भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ||६९||
अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे |
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् ||७०||
तथा चिन्तयतस्तस्य भूय एव पितामहः |
प्रेषयामास सङ्क्रुद्धः शरान्पार्थरथं प्रति ||७१||
तेषां बहुत्वाद्धि भृशं शराणां; दिशोऽथ सर्वाः पिहिता बभूवुः |
न चान्तरिक्षं न दिशो न भूमि; र्न भास्करोऽदृश्यत रश्मिमाली ||७२||
ववुश्च वातास्तुमुलाः सधूमा; दिशश्च सर्वाः क्षुभिता बभूवुः ||७२||
द्रोणो विकर्णोऽथ जयद्रथश्च; भूरिश्रवाः कृतवर्मा कृपश्च |
श्रुतायुरम्बष्ठपतिश्च राजा; विन्दानुविन्दौ च सुदक्षिणश्च ||७३||
प्राच्याश्च सौवीरगणाश्च सर्वे; वसातयः क्षुद्रकमालवाश्च |
किरीटिनं त्वरमाणाभिसस्रु; र्निदेशगाः शान्तनवस्य राज्ञः ||७४||
तं वाजिपादातरथौघजालै; रनेकसाहस्रशतैर्ददर्श |
किरीटिनं सम्परिवार्यमाणं; शिनेर्नप्ता वारणयूथपैश्च ||७५||
ततस्तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात् |
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरोऽभिससार तूर्णम् ||७६||
स तान्यनीकानि महाधनुष्मा; ञ्शिनिप्रवीरः सहसाभिपत्य |
चकार साहाय्यमथार्जुनस्य; विष्णुर्यथा वृत्रनिषूदनस्य ||७७||
विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयोधम् |
युधिष्ठिरानीकमभिद्रवन्तं; प्रोवाच संदृश्य शिनिप्रवीरः ||७८||
क्व क्षत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात्कथितः पुराणैः |
मा स्वां प्रतिज्ञां जहत प्रवीराः; स्वं वीरधर्मं परिपालयध्वम् ||७९||
तान्वासवानन्तरजो निशम्य; नरेन्द्रमुख्यान्द्रवतः समन्तात् |
पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च सङ्ख्ये समुदीर्यमाणम् ||८०||
अमृष्यमाणः स ततो महात्मा; यशस्विनं सर्वदशार्हभर्ता |
उवाच शैनेयमभिप्रशंस; न्दृष्ट्वा कुरूनापततः समन्तात् ||८१||
ये यान्ति यान्त्वेव शिनिप्रवीर; येऽपि स्थिताः सात्वत तेऽपि यान्तु |
भीष्मं रथात्पश्य निपात्यमानं; द्रोणं च सङ्ख्ये सगणं मयाद्य ||८२||
नासौ रथः सात्वत कौरवाणां; क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् |
तस्मादहं गृह्य रथाङ्गमुग्रं; प्राणं हरिष्यामि महाव्रतस्य ||८३||
निहत्य भीष्मं सगणं तथाजौ; द्रोणं च शैनेय रथप्रवीरम् |
प्रीतिं करिष्यामि धनञ्जयस्य; राज्ञश्च भीमस्य तथाश्विनोश्च ||८४||
निहत्य सर्वान्धृतराष्ट्रपुत्रां; स्तत्पक्षिणो ये च नरेन्द्रमुख्याः |
राज्येन राजानमजातशत्रुं; सम्पादयिष्याम्यहमद्य हृष्टः ||८५||
ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम् |
क्षुरान्तमुद्यम्य भुजेन चक्रं; रथादवप्लुत्य विसृज्य वाहान् ||८६||
सङ्कम्पयन्गां चरणैर्महात्मा; वेगेन कृष्णः प्रससार भीष्मम् |
मदान्धमाजौ समुदीर्णदर्पः; सिंहो जिघांसन्निव वारणेन्द्रम् ||८७||
सोऽभ्यद्रवद्भीष्ममनीकमध्ये; क्रुद्धो महेन्द्रावरजः प्रमाथी |
व्यालम्बिपीतान्तपटश्चकाशे; घनो यथा खेऽचिरभापिनद्धः ||८८||
सुदर्शनं चास्य रराज शौरे; स्तच्चक्रपद्मं सुभुजोरुनालम् |
यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम् ||८९||
तत्कृष्णकोपोदयसूर्यबुद्धं; क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् |
तस्यैव देहोरुसरःप्ररूढं; रराज नारायणबाहुनालम् ||९०||
तमात्तचक्रं प्रणदन्तमुच्चैः; क्रुद्धं महेन्द्रावरजं समीक्ष्य |
सर्वाणि भूतानि भृशं विनेदुः; क्षयं कुरूणामिति चिन्तयित्वा ||९१||
स वासुदेवः प्रगृहीतचक्रः; संवर्तयिष्यन्निव जीवलोकम् |
अभ्युत्पतँल्लोकगुरुर्बभासे; भूतानि धक्ष्यन्निव कालवह्निः ||९२||
तमापतन्तं प्रगृहीतचक्रं; समीक्ष्य देवं द्विपदां वरिष्ठम् |
असम्भ्रमात्कार्मुकबाणपाणी; रथे स्थितः शान्तनवोऽभ्युवाच ||९३||
एह्येहि देवेश जगन्निवास; नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे |
प्रसह्य मां पातय लोकनाथ; रथोत्तमाद्भूतशरण्य सङ्ख्ये ||९४||
त्वया हतस्येह ममाद्य कृष्ण; श्रेयः परस्मिन्निह चैव लोके |
सम्भावितोऽस्म्यन्धकवृष्णिनाथ; लोकैस्त्रिभिर्वीर तवाभियानात् ||९५||
रथादवप्लुत्य ततस्त्वरावा; न्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् |
जग्राह पीनोत्तमलम्बबाहुं; बाह्वोर्हरिं व्यायतपीनबाहुः ||९६||
निगृह्यमाणश्च तदादिदेवो; भृशं सरोषः किल नाम योगी |
आदाय वेगेन जगाम विष्णु; र्जिष्णुं महावात इवैकवृक्षम् ||९७||
पार्थस्तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णमभिद्रवन्तम् |
बलान्निजग्राह किरीटमाली; पदेऽथ राजन्दशमे कथञ्चित् ||९८||
अवस्थितं च प्रणिपत्य कृष्णं; प्रीतोऽर्जुनः काञ्चनचित्रमाली |
उवाच कोपं प्रतिसंहरेति; गतिर्भवान्केशव पाण्डवानाम् ||९९||
न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सोदरैश्च |
अन्तं करिष्यामि यथा कुरूणां; त्वयाहमिन्द्रानुज सम्प्रयुक्तः ||१००||
ततः प्रतिज्ञां समयं च तस्मै; जनार्दनः प्रीतमना निशम्य |
स्थितः प्रिये कौरवसत्तमस्य; रथं सचक्रः पुनरारुरोह ||१०१||
स तानभीषून्पुनराददानः; प्रगृह्य शङ्खं द्विषतां निहन्ता |
विनादयामास ततो दिशश्च; स पाञ्चजन्यस्य रवेण शौरिः ||१०२||
व्याविद्धनिष्काङ्गदकुण्डलं तं; रजोविकीर्णाञ्चितपक्ष्मनेत्रम् |
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं; विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ||१०३||
मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश्च |
ससिंहनादाश्च बभूवुरुग्राः; सर्वेष्वनीकेषु ततः कुरूणाम् ||१०४||
गाण्डीवघोषः स्तनयित्नुकल्पो; जगाम पार्थस्य नभो दिशश्च |
जग्मुश्च बाणा विमलाः प्रसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः ||१०५||
तं कौरवाणामधिपो बलेन; भीष्मेण भूरिश्रवसा च सार्धम् |
अभ्युद्ययावुद्यतबाणपाणिः; कक्षं दिधक्षन्निव धूमकेतुः ||१०६||
अथार्जुनाय प्रजहार भल्ला; न्भूरिश्रवाः सप्त सुवर्णपुङ्खान् |
दुर्योधनस्तोमरमुग्रवेगं; शल्यो गदां शान्तनवश्च शक्तिम् ||१०७||
स सप्तभिः सप्त शरप्रवेका; न्संवार्य भूरिश्रवसा विसृष्टान् |
शितेन दुर्योधनबाहुमुक्तं; क्षुरेण तत्तोमरमुन्ममाथ ||१०८||
ततः शुभामापततीं स शक्तिं; विद्युत्प्रभां शान्तनवेन मुक्ताम् |
गदां च मद्राधिपबाहुमुक्तां; द्वाभ्यां शराभ्यां निचकर्त वीरः ||१०९||
ततो भुजाभ्यां बलवद्विकृष्य; चित्रं धनुर्गाण्डिवमप्रमेयम् |
माहेन्द्रमस्त्रं विधिवत्सुघोरं; प्रादुश्चकाराद्भुतमन्तरिक्षे ||११०||
तेनोत्तमास्त्रेण ततो महात्मा; सर्वाण्यनीकानि महाधनुष्मान् |
शरौघजालैर्विमलाग्निवर्णै; र्निवारयामास किरीटमाली ||१११||
शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान्ध्वजाग्राणि धनूंषि बाहून् |
निकृत्य देहान्विविशुः परेषां; नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ||११२||
ततो दिशश्चानुदिशश्च पार्थः; शरैः सुधारैर्निशितैर्वितत्य |
गाण्डीवशब्देन मनांसि तेषां; किरीटमाली व्यथयां चकार ||११३||
तस्मिंस्तथा घोरतमे प्रवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश्च |
अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुरुग्राश्च रणप्रणादाः ||११४||
गाण्डीवशब्दं तमथो विदित्वा; विराटराजप्रमुखा नृवीराः |
पाञ्चालराजो द्रुपदश्च वीर; स्तं देशमाजग्मुरदीनसत्त्वाः ||११५||
सर्वाणि सैन्यानि तु तावकानि; यतो यतो गाण्डिवजः प्रणादः |
ततस्ततः संनतिमेव जग्मु; र्न तं प्रतीपोऽभिससार कश्चित् ||११६||
तस्मिन्सुघोरे नृपसम्प्रहारे; हताः प्रवीराः सरथाः ससूताः |
गजाश्च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः ||११७||
परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः |
दृढाहताः पत्रिभिरुग्रवेगैः; पार्थेन भल्लैर्निशितैः शिताग्रैः ||११८||
निकृत्तयन्त्रा निहतेन्द्रकीला; ध्वजा महान्तो ध्वजिनीमुखेषु |
पदातिसङ्घाश्च रथाश्च सङ्ख्ये; हयाश्च नागाश्च धनञ्जयेन ||११९||
बाणाहतास्तूर्णमपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुरुर्व्याम् |
ऐन्द्रेण तेनास्त्रवरेण राज; न्महाहवे भिन्नतनुत्रदेहाः ||१२०||
ततः शरौघैर्निशितैः किरीटिना; नृदेहशस्त्रक्षतलोहितोदा |
नदी सुघोरा नरदेहफेना; प्रवर्तिता तत्र रणाजिरे वै ||१२१||
वेगेन सातीव पृथुप्रवाहा; प्रसुस्रुता भैरवारावरूपा |
परेतनागाश्वशरीररोधा; नरान्त्रमज्जाभृतमांसपङ्का ||१२२||
प्रभूतरक्षोगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला |
शरीरसङ्घातसहस्रवाहिनी; विशीर्णनानाकवचोर्मिसङ्कुला ||१२३||
नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा |
तां कङ्कमालावृतगृध्रकह्वैः; क्रव्यादसङ्घैश्च तरक्षुभिश्च ||१२४||
उपेतकूलां ददृशुः समन्ता; त्क्रूरां महावैतरणीप्रकाशाम् |
प्रवर्तितामर्जुनबाणसङ्घै; र्मेदोवसासृक्प्रवहां सुभीमाम् ||१२५||
ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश्च सर्वे सहिताः प्रणेदुः |
वित्रास्य सेनां ध्वजिनीपतीनां; सिंहो मृगाणामिव यूथसङ्घान् ||१२६||
विनेदतुस्तावतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश्च ||१२६||
ततो रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः |
तदैन्द्रमस्त्रं विततं सुघोर; मसह्यमुद्वीक्ष्य युगान्तकल्पम् ||१२७||
अथापयानं कुरवः सभीष्माः; सद्रोणदुर्योधनबाह्लिकाश्च |
चक्रुर्निशां सन्धिगतां समीक्ष्य; विभावसोर्लोहितराजियुक्ताम् ||१२८||
अवाप्य कीर्तिं च यशश्च लोके; विजित्य शत्रूंश्च धनञ्जयोऽपि |
ययौ नरेन्द्रैः सह सोदरैश्च; समाप्तकर्मा शिबिरं निशायाम् ||१२९||
ततः प्रजज्ञे तुमुलः कुरूणां; निशामुखे घोरतरः प्रणादः ||१२९||
रणे रथानामयुतं निहत्य; हता गजाः सप्तशतार्जुनेन |
प्राच्याश्च सौवीरगणाश्च सर्वे; निपातिताः क्षुद्रकमालवाश्च ||१३०||
महत्कृतं कर्म धनञ्जयेन; कर्तुं यथा नार्हति कश्चिदन्यः ||१३०||
श्रुतायुरम्बष्ठपतिश्च राजा; तथैव दुर्मर्षणचित्रसेनौ |
द्रोणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन् ||१३१||
स्वबाहुवीर्येण जिताः सभीष्माः; किरीटिना लोकमहारथेन ||१३१||
इति ब्रुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये त्वदीयाः |
उल्कासहस्रैश्च सुसम्प्रदीप्तै; र्विभ्राजमानैश्च तथा प्रदीपैः ||१३२||
किरीटिवित्रासितसर्वयोधा; चक्रे निवेशं ध्वजिनी कुरूणाम् ||१३२||
चतुर्थयुद्धदिवसः
५६
सञ्जय उवाच||
व्युष्टां निशां भारत भारताना; मनीकिनीनां प्रमुखे महात्मा |
ययौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः ||१||
तं द्रोणदुर्योधनबाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौ |
जयद्रथश्चातिबलो बलौघै; र्नृपास्तथान्येऽनुययुः समन्तात् ||२||
स तैर्महद्भिश्च महारथै; श्च तेजस्विभिर्वीर्यवद्भिश्च राजन् |
रराज राजोत्तम राजमुख्यै; र्वृतः स देवैरिव वज्रपाणिः ||३||
तस्मिन्ननीकप्रमुखे विषक्ता; दोधूयमानाश्च महापताकाः |
सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः ||४||
सा वाहिनी शान्तनवेन राज्ञा; महारथैर्वारणवाजिभिश्च |
बभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौरिव जातमेघा ||५||
ततो रणायाभिमुखी प्रयाता; प्रत्यर्जुनं शान्तनवाभिगुप्ता |
सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः ||६||
तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम् |
व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः ||७||
स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरः |
वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम् ||८||
सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनामृषभेण सङ्ख्ये |
कपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेयाः ||९||
प्रकर्षता गुप्तमुदायुधेन; किरीटिना लोकमहारथेन |
तं व्यूहराजं ददृशुस्त्वदीया; श्चतुश्चतुर्व्यालसहस्रकीर्णम् ||१०||
यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन |
तथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः ||११||
ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौ |
शङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः ||१२||
ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः |
क्षणेन भेरीपणवप्रणादा; नन्तर्दधुः शङ्खमहास्वनाश्च ||१३||
तच्छङ्खशब्दावृतमन्तरिक्ष; मुद्धूतभौमद्रुतरेणुजालम् |
महावितानावततप्रकाश; मालोक्य वीराः सहसाभिपेतुः ||१४||
रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः |
गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः ||१५||
आवर्तमानान्यभिवर्तमानै; र्बाणैः क्षतान्यद्भुतदर्शनानि |
प्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः ||१६||
सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः |
विदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् ||१७||
गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुः |
गजर्षभाश्चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम् ||१८||
गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याः |
आर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम् ||१९||
सम्भ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम् |
महारथैः सम्परिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम् ||२०||
तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः |
महास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शान्तनवोऽभ्यधावत् ||२१||
तथैव शक्रप्रतिमानकल्प; मिन्द्रात्मजं द्रोणमुखाभिसस्रुः |
कृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन् ||२२||
ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्मा |
जवेन शूरोऽभिससार सर्वां; स्तथार्जुनस्यात्र सुतोऽभिमन्युः ||२३||
तेषां महास्त्राणि महारथाना; मसक्तकर्मा विनिहत्य कार्ष्णिः |
बभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः ||२४||
ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम् |
जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः ||२५||
ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्वादमहास्वनेन |
विपाठजालेन महास्त्रजालं; विनाशयामास किरीटमाली ||२६||
तमुत्तमं सर्वधनुर्धराणा; मसक्तकर्मा कपिराजकेतुः |
भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः ||२७||
एवंविधं कार्मुकभीमनाद; मदीनवत्सत्पुरुषोत्तमाभ्याम् |
ददर्श लोकः कुरुसृञ्जयाश्च; तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ||२८||
५७
सञ्जय उवाच||
द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष |
पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् ||१||
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः |
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ||२||
नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे |
बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ||३||
तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम् |
दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् ||४||
पीडयानं च तत्सैन्यं पौत्रं तव विशां पते |
दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ||५||
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् |
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ||६||
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् |
व्यदृश्यत महच्चापं समरे युध्यतः परैः ||७||
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः |
ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् ||८||
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना |
शितेनोरगसङ्काशां पत्रिणा विजहार ताम् ||९||
शल्यस्य च महाघोरानस्यतः शतशः शरान् |
निवार्यार्जुनदायादो जघान समरे हयान् ||१०||
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः |
नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् ||११||
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः |
पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः ||१२||
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि |
सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ||१३||
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ |
ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् ||१४||
स वारणरथौघानां सहस्रैर्बहुभिर्वृतः |
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ||१५||
धनुर्विस्फार्य सङ्क्रुद्धश्चोदयित्वा वरूथिनीम् |
ययौ तन्मद्रकानीकं केकयांश्च परन्तपः ||१६||
तेन कीर्तिमता गुप्तमनीकं दृढधन्वना |
प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत ||१७||
सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन |
त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत् ||१८||
ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः |
हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः ||१९||
दमनं चापि दायादं पौरवस्य महात्मनः |
जघान विपुलाग्रेण नाराचेन परन्तपः ||२०||
ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् |
अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् ||२१||
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् |
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ||२२||
अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् |
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ||२३||
स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ |
पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ||२४||
स सङ्गृह्य महाघोरं निस्त्रिंशवरमायसम् |
पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् ||२५||
तं महौघमिवायान्तं खात्पतन्तमिवोरगम् |
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ||२६||
दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् |
अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ||२७||
तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः |
शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ||२८||
बाणवेगमतीतस्य रथाभ्याशमुपेयुषः |
त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ||२९||
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् |
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ||३०||
तं निहत्य गदाग्रेण लेभे स परमं यशः |
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ||३१||
तस्मिन्हते महेष्वासे राजपुत्रे महारथे |
हाहाकारो महानासीत्तव सैन्यस्य मारिष ||३२||
ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् |
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ||३३||
तौ तत्र समरे वीरौ समेतौ रथिनां वरौ |
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ||३४||
ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा |
आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् ||३५||
तथैव पार्षतं शूरं शल्यः समितिशोभनः |
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ||३६||
पञ्चमयुद्धदिवसः
५८
धृतराष्ट्र उवाच||
दैवमेव परं मन्ये पौरुषादपि सञ्जय |
यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते ||१||
नित्यं हि मामकांस्तात हतानेव हि शंससि |
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् ||२||
हीनान्पुरुषकारेण मामकानद्य सञ्जय |
पतितान्पात्यमानांश्च हतानेव च शंससि ||३||
युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति |
पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः ||४||
सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च |
अश्रौषं सततं तात दुःसहानि बहूनि च ||५||
तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः |
मामका वा जयं युद्धे प्राप्नुयुर्येन सञ्जय ||६||
सञ्जय उवाच||
क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् |
शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ||७||
धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः |
पीडयामास सङ्क्रुद्धो मद्राधिपतिमायसैः ||८||
तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् |
न्यवारयत यत्तूर्णं शल्यं समितिशोभनम् ||९||
नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे |
मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ||१०||
ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे |
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ||११||
अथैनं शरवर्षेण छादयामास भारत |
गिरिं जलागमे यद्वज्जलदा जलधारिणः ||१२||
अभिमन्युस्तु सङ्क्रुद्धो धृष्टद्युम्ने निपीडिते |
अभिदुद्राव वेगेन मद्रराजरथं प्रति ||१३||
ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः |
आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः ||१४||
ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे |
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ||१५||
दुर्योधनो विकर्णश्च दुःशासनविविंशती |
दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः ||१६||
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत |
एते मद्राधिपरथं पालयन्तः स्थिता रणे ||१७||
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः |
द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ||१८||
नानारूपाणि शस्त्राणि विसृजन्तो विशां पते |
अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः ||१९||
ते वै समीयुः सङ्ग्रामे राजन्दुर्मन्त्रिते तव ||१९||
तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे |
तावकानां परेषां च प्रेक्षका रथिनोऽभवन् ||२०||
शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः |
अन्योन्यमभिनर्दन्तः सम्प्रहारं प्रचक्रिरे ||२१||
ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः |
महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः ||२२||
दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नं महारणे |
विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् ||२३||
दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः |
दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ||२४||
विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ||२४||
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः |
एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ||२५||
सत्यव्रतं तु समरे पुरुमित्रं च भारत |
अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः ||२६||
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ |
छादयेतां शरव्रातैस्तदद्भुतमिवाभवत् ||२७||
ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ |
शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ ||२८||
छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः ||२८||
अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः |
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ||२९||
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ||३०||
दुर्योधनस्तु सङ्क्रुद्धो मागधं समचोदयत् |
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ||३१||
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ||३१||
आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः |
गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् ||३२||
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् |
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ||३३||
स गजान्गदया निघ्नन्व्यचरत्समरे बली |
भीमसेनो महाबाहुः सवज्र इव वासवः ||३४||
तस्य नादेन महता मनोहृदयकम्पिना |
व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः ||३५||
ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः |
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ||३६||
पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् |
अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा ||३७||
क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि |
पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् ||३८||
शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः |
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ||३९||
हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः |
अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव ||४०||
धृष्टद्युम्नहतानन्यानपश्याम महागजान् |
पतितान्पात्यमानांश्च पार्षतेन महात्मना ||४१||
मागधोऽथ महीपालो गजमैरावतोपमम् |
प्रेषयामास समरे सौभद्रस्य रथं प्रति ||४२||
तमापतन्तं सम्प्रेक्ष्य मागधस्य गजोत्तमम् |
जघानैकेषुणा वीरः सौभद्रः परवीरहा ||४३||
तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः |
राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः ||४४||
विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः |
व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव ||४५||
एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् |
अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ||४६||
भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् |
भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् ||४७||
नदतः सीदतश्चान्यान्विमुखान्समरे गजान् |
विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् ||४८||
भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान् |
अपश्याम हतान्नागान्निष्टनन्तस्तथापरे ||४९||
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः |
विह्वलन्तो गता भूमिं शैला इव धरातले ||५०||
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः |
व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ||५१||
गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः |
घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् ||५२||
निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः |
सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् ||५३||
तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः |
पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ||५४||
शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः |
कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत ||५५||
व्यायच्छमानं गदया दिक्षु सर्वासु भारत |
नृत्यमानमपश्याम नृत्यन्तमिव शङ्करम् ||५६||
यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् |
अपश्याम महाराज रौद्रां विशसनीं गदाम् ||५७||
विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च |
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ||५८||
यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत् |
तथा भीमो गजानीकं गदया पर्यकालयत् ||५९||
गदया वध्यमानास्ते मार्गणैश्च समन्ततः |
स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव ||६०||
महावात इवाभ्राणि विधमित्वा स वारणान् |
अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ||६१||
५९
सञ्जय उवाच||
तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव |
भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ||१||
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् |
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ||२||
तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम् |
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ||३||
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् |
अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् ||४||
तं भीमसेनः समरे महोदधिमिवापरम् |
सेनासागरमक्षोभ्यं वेलेव समवारयत् ||५||
तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् |
भीमसेनस्य समरे राजन्कर्मातिमानुषम् ||६||
उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् |
असम्भ्रमं भीमसेनो गदया समताडयत् ||७||
स संवार्य बलौघांस्तान्गदया रथिनां वरः |
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ||८||
तस्मिन्सुतुमुले घोरे काले परमदारुणे |
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ||९||
द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः |
न प्राजहन्भीमसेनं भये जाते महाबलम् ||१०||
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् |
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ||११||
पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः ||११||
व्यचरत्समरे भीमो युगान्ते पावको यथा |
विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः ||१२||
ऊरुवेगेन सङ्कर्षन्रथजालानि पाण्डवः |
प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः ||१३||
मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः |
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः ||१४||
तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः |
रणाङ्गणं तदभवन्मृत्योराघातसंनिभम् ||१५||
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् |
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ||१६||
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ||१६||
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः |
बभौ रूपं महाघोरं कालस्येव युगक्षये ||१७||
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः |
दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् ||१८||
यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः |
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ||१९||
प्रदारयन्तं सैन्यानि बलौघेनापराजितम् |
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ||२०||
तं तथा भीमकर्माणं प्रगृहीतमहागदम् |
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ||२१||
महता मेघघोषेण रथेनादित्यवर्चसा |
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ||२२||
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् |
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः ||२३||
तस्मिन्क्षणे सात्यकिः सत्यसन्धः; शिनिप्रवीरोऽभ्यपतत्पितामहम् |
निघ्नन्नमित्रान्धनुषा दृढेन; स कम्पयंस्तव पुत्रस्य सेनाम् ||२४||
तं यान्तमश्वै रजतप्रकाशैः; शरान्धमन्तं धनुषा दृढेन |
नाशक्नुवन्वारयितुं तदानीं; सर्वे गणा भारत ये त्वदीयाः ||२५||
अविध्यदेनं निशितैः शराग्रै; रलम्बुसो राजवरार्श्यशृङ्गिः |
तं वै चतुर्भिः प्रतिविध्य वीरो; नप्ता शिनेरभ्यपतद्रथेन ||२६||
अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम् |
प्रावर्तयन्तं कुरुपुङ्गवांश्च; पुनः पुनश्च प्रणदन्तमाजौ ||२७||
नाशक्नुवन्वारयितुं वरिष्ठं; मध्यंदिने सूर्यमिवातपन्तम् |
न तत्र कश्चिन्नविषण्ण आसी; दृते राजन्सोमदत्तस्य पुत्रात् ||२८||
स ह्याददानो धनुरुग्रवेगं; भूरिश्रवा भारत सौमदत्तिः |
दृष्ट्वा रथान्स्वान्व्यपनीयमाना; न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ||२९||
६०
सञ्जय उवाच||
ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः |
अविध्यद्भृशसङ्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ||१||
कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः |
अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः ||२||
ततो दुर्योधनो राजा सोदर्यैः परिवारितः |
सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ||३||
तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे |
परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ||४||
भीमसेनस्तु सङ्क्रुद्धो गदामुद्यम्य भारत |
दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ||५||
रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः |
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ||६||
विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः ||६||
दुर्योधनस्तु समरे भीमसेनं महाबलम् |
आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः ||७||
ततो भीमो महाबाहुः स्वरथं सुमहाबलः |
आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ||८||
एते महारथाः शूरा धार्तराष्ट्रा महाबलाः |
मामेव भृशसङ्क्रुद्धा हन्तुमभ्युद्यता युधि ||९||
एतानद्य हनिष्यामि पश्यतस्ते न संशयः |
तस्मान्ममाश्वान्सङ्ग्रामे यत्तः संयच्छ सारथे ||१०||
एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव |
विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः ||११||
नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ||११||
तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् |
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ||१२||
भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम् |
मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव ||१३||
भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा |
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ||१४||
अमृष्यमाणः सङ्क्रुद्धो धनुर्दिव्यं परामृशत् |
पुत्रस्य ते महाराज वधार्थं भरतर्षभ ||१५||
समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् |
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ||१६||
सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव |
अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ||१७||
सन्धत्त विशिखं घोरं कालमृत्युसमप्रभम् |
तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे ||१८||
स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् |
स निषण्णो रथोपस्थे मूर्छामभिजगाम ह ||१९||
तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः |
नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः ||२०||
ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् |
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ||२१||
प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः |
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ||२२||
शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः |
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ||२३||
प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश |
सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ||२४||
उग्रो भीमरथो भीमो भीमबाहुरलोलुपः |
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ||२५||
विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः |
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ||२६||
पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः |
सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा ||२७||
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ||२७||
जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् |
सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे ||२८||
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि |
पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् ||२९||
भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम् |
निनाय समरे भीमः परलोकाय मारिष ||३०||
भीमं भीमरथं चोभौ भीमसेनो हसन्निव |
भ्रातरौ रभसौ राजन्ननयद्यमसादनम् ||३१||
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे |
मिषतां सर्वसैन्यानामनयद्यमसादनम् ||३२||
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् |
शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः ||३३||
विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ||३३||
ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान् |
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ||३४||
यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च सङ्गतान् |
निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः ||३५||
एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः |
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनं महाबलम् ||३६||
भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते |
अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः ||३७||
आपतन्नेव च रणे भीमसेनं शिलाशितैः |
अदृश्यं समरे चक्रे जीमूत इव भास्करम् ||३८||
अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः |
भीमस्याच्छादनं सङ्ख्ये स्वबाहुबलमाश्रिताः ||३९||
त एनं शरवर्षेण समन्तात्पर्यवारयन् |
गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः ||४०||
स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम् |
प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ||४१||
सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे |
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ||४२||
स चोदितो मदस्रावी भगदत्तेन वारणः |
अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः ||४३||
द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् ||४३||
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः |
असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् ||४४||
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे |
आजघान नरव्याघ्र शरेण नतपर्वणा ||४५||
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः |
मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः ||४६||
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम् |
ननाद बलवन्नादं भगदत्तः प्रतापवान् ||४७||
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् |
सङ्क्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत ||४८||
स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् |
अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः ||४९||
ऐरावतं समारुह्य स्वयं मायामयं कृतम् |
तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः ||५०||
अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः |
त्रय एते महानागा राक्षसैः समधिष्ठिताः ||५१||
महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु |
तेजोवीर्यबलोपेता महाबलपराक्रमाः ||५२||
घटोत्कचस्तु स्वं नागं चोदयामास तं ततः |
सगजं भगदत्तं तु हन्तुकामः परन्तपः ||५३||
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः |
परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् ||५४||
भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् ||५४||
सम्पीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः |
सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् ||५५||
तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् |
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ||५६||
एष युध्यति सङ्ग्रामे हैडिम्बेन दुरात्मना |
भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते ||५७||
राक्षसश्च महामायः स च राजातिकोपनः |
तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ ||५८||
श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः |
हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः ||५९||
तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् |
अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते ||६०||
ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे |
महान्हि वर्तते रौद्रः सङ्ग्रामो लोमहर्षणः ||६१||
भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः |
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः ||६२||
भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः |
सहिताः सर्वराजानो भगदत्तपरीप्सया ||६३||
उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् ||६३||
तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः |
पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् ||६४||
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् |
ननाद सुमहानादं विस्फोटमशनेरिव ||६५||
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः |
भीष्मः शान्तनवो भूयो भारद्वाजमभाषत ||६६||
न रोचते मे सङ्ग्रामो हैडिम्बेन दुरात्मना |
बलवीर्यसमाविष्टः ससहायश्च साम्प्रतम् ||६७||
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् |
लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः ||६८||
पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ||६८||
तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः |
घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह ||६९||
पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः |
उपायेनापयानं ते घटोत्कचभयार्दिताः ||७०||
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः |
सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह ||७१||
एवं तदभवद्युद्धं दिवसं भरतर्षभ |
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ||७२||
कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् |
व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ||७३||
शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः |
युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे ||७४||
पुरस्कृत्य महाराज भीमसेनघटोत्कचौ |
पूजयन्तस्तदान्योन्यं मुदा परमया युताः ||७५||
नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् |
सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः ||७६||
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् |
घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष ||७७||
प्रयाताः शिबिरायैव निशाकाले परन्तपाः ||७७||
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च |
मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः ||७८||
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि |
प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः ||७९||
६१
धृतराष्ट्र उवाच||
भयं मे सुमहज्जातं विस्मयश्चैव सञ्जय |
श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ||१||
पुत्राणां च पराभवं श्रुत्वा सञ्जय सर्वशः |
चिन्ता मे महती सूत भविष्यति कथं त्विति ||२||
ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम |
यथा हि दृश्यते सर्वं दैवयोगेन सञ्जय ||३||
यत्र भीष्ममुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् |
पाण्डवानामनीकानि योधयन्ति प्रहारिणः ||४||
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः |
केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ||५||
येन क्षयं न गच्छन्ति दिवि तारागणा इव ||५||
पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः |
मय्येव दण्डः पतति दैवात्परमदारुणः ||६||
यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः |
एतन्मे सर्वमाचक्ष्व यथातत्त्वेन सञ्जय ||७||
न हि पारं प्रपश्यामि दुःखस्यास्य कथञ्चन |
समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः ||८||
पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् |
घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः ||९||
न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे |
ध्रुवं विनाशः समरे पुत्राणां मम सञ्जय ||१०||
तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः |
पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि ||११||
दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे |
भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः ||१२||
द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ||१२||
निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् |
विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय ||१३||
सञ्जय उवाच||
शृणु राजन्नवहितः श्रुत्वा चैवावधारय |
नैव मन्त्रकृतं किञ्चिन्नैव मायां तथाविधाम् ||१४||
न वै विभीषिकां काञ्चिद्राजन्कुर्वन्ति पाण्डवाः ||१४||
युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे |
धर्मेण सर्वकार्याणि कीर्तितानीति भारत ||१५||
आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः ||१५||
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः |
श्रिया परमया युक्ता यतो धर्मस्ततो जयः ||१६||
तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव ||१६||
तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा |
निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे ||१७||
सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर |
निकृतानीह पाण्डूनां नीचैरिव यथा नरैः ||१८||
सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् |
सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज ||१९||
न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते ||१९||
तस्य पापस्य सततं क्रियमाणस्य कर्मणः |
सम्प्राप्तं सुमहद्घोरं फलं किम्पाकसंनिभम् ||२०||
स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः ||२०||
नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः |
विदुरेणाथ भीष्मेण द्रोणेन च महात्मना ||२१||
तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि |
वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् ||२२||
पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ||२२||
शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि |
कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ||२३||
तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम ||२३||
दुर्योधनेन सम्पृष्ट एतमर्थं पितामहः |
दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् ||२४||
शोकसंमूढहृदयो निशाकाले स्म कौरवः |
पितामहं महाप्राज्ञं विनयेनोपगम्य ह ||२५||
यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ||२५||
दुर्योधन उवाच||
त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च |
कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः ||२६||
भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् |
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ||२७||
त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः |
पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ||२८||
तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः |
यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे ||२९||
भीष्म उवाच||
शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव |
बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् ||३०||
क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम |
एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो ||३१||
भुञ्जेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी |
दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ||३२||
न च मे क्रोशतस्तात श्रुतवानसि वै पुरा |
तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ||३३||
यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् |
तं शृणुष्व महाराज मम कीर्तयतः प्रभो ||३४||
नास्ति लोकेषु तद्भूतं भविता नो भविष्यति |
यो जयेत्पाण्डवान्सङ्ख्ये पालिताञ्शार्ङ्गधन्वना ||३५||
यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः |
पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ||३६||
पुरा किल सुराः सर्वे ऋषयश्च समागताः |
पितामहमुपासेदुः पर्वते गन्धमादने ||३७||
मध्ये तेषां समासीनः प्रजापतिरपश्यत |
विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे ||३८||
ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् |
नमश्चकार हृष्टात्मा परमं परमेश्वरम् ||३९||
ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् |
स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ||४०||
यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः |
जगाद जगतः स्रष्टा परं परमधर्मवित् ||४१||
विश्वावसुर्विश्वमूर्तिर्विश्वेशो; विष्वक्सेनो विश्वकर्मा वशी च |
विश्वेश्वरो वासुदेवोऽसि तस्मा; द्योगात्मानं दैवतं त्वामुपैमि ||४२||
जय विश्व महादेव जय लोकहिते रत |
जय योगीश्वर विभो जय योगपरावर ||४३||
पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर |
भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ||४४||
असङ्ख्येयगुणाजेय जय सर्वपरायण |
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ||४५||
सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय |
विश्वेश्वर महाबाहो जय लोकार्थतत्पर ||४६||
महोरग वराहाद्य हरिकेश विभो जय |
हरिवास विशामीश विश्वावासामिताव्यय ||४७||
व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय |
असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद ||४८||
अनन्त विदितप्रज्ञ नित्यं भूतविभावन |
कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय ||४९||
गुह्यात्मन्सर्वभूतात्मन्स्फुटसम्भूतसम्भव |
भूतार्थतत्त्व लोकेश जय भूतविभावन ||५०||
आत्मयोने महाभाग कल्पसङ्क्षेपतत्पर |
उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय ||५१||
निसर्गसर्गाभिरत कामेश परमेश्वर |
अमृतोद्भव सद्भाव युगाग्ने विजयप्रद ||५२||
प्रजापतिपते देव पद्मनाभ महाबल |
आत्मभूत महाभूत कर्मात्मञ्जय कर्मद ||५३||
पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः |
मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ||५४||
बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो |
तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसम्भवाः ||५५||
अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती |
वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ||५६||
न सङ्ख्यां न परीमाणं न तेजो न पराक्रमम् |
न बलं योगयोगीश जानीमस्ते न सम्भवम् ||५७||
त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः |
अर्चयामः सदा विष्णो परमेशं महेश्वरम् ||५८||
ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः |
पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ||५९||
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् |
पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन ||६०||
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् |
त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ||६१||
पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् |
तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ||६२||
धर्मसंस्थापनार्थाय दैतेयानां वधाय च |
जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो ||६३||
यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो |
वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ||६४||
सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना |
कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसम्भवम् ||६५||
प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् |
अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ||६६||
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः |
विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ||६७||
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै |
धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ||६८||
त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम |
तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् ||६९||
स्थिताश्च सर्वे त्वयि भूतसङ्घाः; कृत्वाश्रयं त्वां वरदं सुबाहो |
अनादिमध्यान्तमपारयोगं; लोकस्य सेतुं प्रवदन्ति विप्राः ||७०||
६२
भीष्म उवाच||
ततः स भगवान्देवो लोकानां परमेश्वरः |
ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा ||१||
विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् |
तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ||२||
ततो देवर्षिगन्धर्वा विस्मयं परमं गताः |
कौतूहलपराः सर्वे पितामहमथाब्रुवन् ||३||
को न्वयं यो भगवता प्रणम्य विनयाद्विभो |
वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ||४||
एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः |
देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ||५||
यत्तत्परं भविष्यं च भवितव्यं च यत्परम् |
भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् ||६||
तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः |
जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः ||७||
मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः |
असुराणां वधार्थाय सम्भवस्व महीतले ||८||
सङ्ग्रामे निहता ये ते दैत्यदानवराक्षसाः |
त इमे नृषु सम्भूता घोररूपा महाबलाः ||९||
तेषां वधार्थं भगवान्नरेण सहितो वशी |
मानुषीं योनिमास्थाय चरिष्यति महीतले ||१०||
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ |
सहितौ मानुषे लोके सम्भूतावमितद्युती ||११||
अजेयौ समरे यत्तौ सहितावमरैरपि |
मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ||१२||
तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः |
वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ||१३||
तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः |
नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ||१४||
एतत्परमकं गुह्यमेतत्परमकं पदम् |
एतत्परमकं ब्रह्म एतत्परमकं यशः ||१५||
एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत् |
एतत्पुरुषसञ्ज्ञं वै गीयते ज्ञायते न च ||१६||
एतत्परमकं तेज एतत्परमकं सुखम् |
एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ||१७||
तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः |
नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ||१८||
यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः |
हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ||१९||
योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् |
अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः ||२०||
देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् |
पद्मनाभं न जानाति तमाहुस्तामसं जनाः ||२१||
किरीटकौस्तुभधरं मित्राणामभयङ्करम् |
अवजानन्महात्मानं घोरे तमसि मज्जति ||२२||
एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः |
वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ||२३||
एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा |
विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् ||२४||
ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च |
कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ||२५||
एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् |
वासुदेवं कथयतां समवाये पुरातनम् ||२६||
जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः |
व्यासनारदयोश्चापि श्रुतं श्रुतविशारद ||२७||
एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् |
वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ||२८||
यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता |
कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ||२९||
वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः |
मा गच्छ संयुगं तेन वासुदेवेन धीमता ||३०||
मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे ||३०||
मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः |
यस्माद्द्विषसि गोविन्दं पाण्डवं च धनञ्जयम् ||३१||
नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः ||३१||
तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः |
सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ||३२||
लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः |
योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ||३३||
राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः |
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ||३४||
तस्य माहात्म्ययोगेन योगेनात्मन एव च |
धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ||३५||
श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः |
बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ||३६||
स एष शाश्वतो देवः सर्वगुह्यमयः शिवः |
वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ||३७||
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः |
सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः ||३८||
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च |
सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः ||३९||
स एष सर्वासुरमर्त्यलोकं; समुद्रकक्ष्यान्तरिताः पुरीश्च |
युगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः ||४०||
६३
दुर्योधन उवाच||
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते |
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ||१||
भीष्म उवाच||
वासुदेवो महद्भूतं सम्भूतं सह दैवतैः |
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ||२||
मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् ||२||
सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः |
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ||३||
स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः |
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ||४||
सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह ||४||
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च |
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः ||५||
एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह |
निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः ||६||
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः |
एष कर्ता च कार्यं च पूर्वदेवः स्वयम्प्रभुः ||७||
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् |
उभे सन्ध्ये दिशः खं च नियमं च जनार्दनः ||८||
ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् |
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ||९||
अग्रजं सर्वभूतानां सङ्कर्षणमकल्पयत् |
शेषं चाकल्पयद्देवमनन्तमिति यं विदुः ||१०||
यो धारयति भूतानि धरां चेमां सपर्वताम् |
ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् ||११||
कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् |
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ||१२||
ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः ||१२||
तस्य तात वधादेव देवदानवमानवाः |
मधुसूदनमित्याहुरृषयश्च जनार्दनम् ||१३||
वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः ||१३||
एष माता पिता चैव सर्वेषां प्राणिनां हरिः |
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ||१४||
मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा |
वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च ||१५||
तपसा नियतो देवो निधानं सर्वदेहिनाम् ||१५||
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च |
योगभूतं परिचरन्केशवं महदाप्नुयात् ||१६||
केशवः परमं तेजः सर्वलोकपितामहः |
एवमाहुर्हृषीकेशं मुनयो वै नराधिप ||१७||
एवमेनं विजानीहि आचार्यं पितरं गुरुम् |
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ||१८||
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् |
सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ||१९||
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः |
भये महति ये मग्नाः पाति नित्यं जनार्दनः ||२०||
एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत |
सर्वात्मना महात्मानं केशवं जगदीश्वरम् ||२१||
प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् ||२१||
६४
भीष्म उवाच||
शृणु चेदं महाराज ब्रह्मभूतस्तवं मम |
ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ||१||
साध्यानामपि देवानां देवदेवेश्वरः प्रभुः |
लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ||२||
भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह ||२||
यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि |
देवानामपि देवं च त्वामाह भगवान्भृगुः ||३||
पुराणे भैरवं रूपं विष्णो भूतपतेति वै ||३||
वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा |
देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ||४||
पूर्वे प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम् |
स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् ||५||
अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् |
देवा वाक्सम्भवाश्चेति देवलस्त्वसितोऽब्रवीत् ||६||
शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता |
जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ||७||
एवं त्वामभिजानन्ति तपसा भाविता नराः |
आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः ||८||
राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् |
सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ||९||
एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः |
केशवस्य यथातत्त्वं सुप्रीतो भव केशवे ||१०||
सञ्जय उवाच||
पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव |
केशवं बहु मेने स पाण्डवांश्च महारथान् ||११||
तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः |
माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः ||१२||
नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि |
यदर्थं नृषु सम्भूतौ नरनारायणावुभौ ||१३||
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ |
यथा च पाण्डवा राजन्नगम्या युधि कस्यचित् ||१४||
प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु |
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ||१५||
पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी |
नरनारायणौ देवाववज्ञाय नशिष्यसि ||१६||
एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते |
व्यसर्जयच्च राजानं शयनं च विवेश ह ||१७||
राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने |
शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ ||१८||
६५
सञ्जय उवाच||
व्युषितायां च शर्वर्यामुदिते च दिवाकरे |
उभे सेने महाराज युद्धायैव समीयतुः ||१||
अभ्यधावंश्च सङ्क्रुद्धाः परस्परजिगीषवः |
ते सर्वे सहिता युद्धे समालोक्य परस्परम् ||२||
पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव |
व्यूहौ च व्यूह्य संरब्धाः सम्प्रयुद्धाः प्रहारिणः ||३||
अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः |
तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ||४||
स निर्ययौ रथानीकं पिता देवव्रतस्तव |
महता रथवंशेन संवृतो रथिनां वरः ||५||
इतरेतरमन्वीयुर्यथाभागमवस्थिताः |
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ||६||
तान्दृष्ट्वा प्रोद्यतान्सङ्ख्ये पाण्डवाश्च यशस्विनः |
श्येनेन व्यूहराजेन तेनाजय्येन संयुगे ||७||
अशोभत मुखे तस्य भीमसेनो महाबलः |
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ||८||
शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः |
विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ||९||
अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा |
महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ||१०||
दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः |
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ||११||
पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः |
भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः ||१२||
प्रविश्य तु रणे भीमो मकरं मुखतस्तदा |
भीष्ममासाद्य सङ्ग्रामे छादयामास सायकैः ||१३||
ततो भीष्मो महास्त्राणि पातयामास भारत |
मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ||१४||
संमुह्यति तदा सैन्ये त्वरमाणो धनञ्जयः |
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ||१५||
परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे |
स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः ||१६||
ततो दुर्योधनो राजा भारद्वाजमभाषत |
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ||१७||
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः ||१७||
आचार्य सततं त्वं हि हितकामो ममानघ |
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ||१८||
देवानपि रणे जेतुं प्रार्थयामो न संशयः |
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ||१९||
एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष |
अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ||२०||
सात्यकिस्तु तदा द्रोणं वारयामास भारत |
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ||२१||
शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् |
अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ||२२||
भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत |
संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ||२३||
ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष |
भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः ||२४||
तत्राभिमन्युः सङ्क्रुद्धो द्रौपदेयाश्च मारिष |
विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् ||२५||
भीष्मद्रोणौ च सङ्क्रुद्धावापतन्तौ महाबलौ |
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ||२६||
प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् |
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ||२७||
शिखण्डिनं समासाद्य भरतानां पितामहः |
अवर्जयत सङ्ग्रामे स्त्रीत्वं तस्यानुसंस्मरन् ||२८||
ततो द्रोणो महाराज अभ्यद्रवत तं रणे |
रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः ||२९||
शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् |
अवर्जयत सङ्ग्रामे युगान्ताग्निमिवोल्बणम् ||३०||
ततो बलेन महता पुत्रस्तव विशां पते |
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ||३१||
तथैव पाण्डवा राजन्पुरस्कृत्य धनञ्जयम् |
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ||३२||
तद्युद्धमभवद्घोरं देवानां दानवैरिव |
जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम् ||३३||
६६
सञ्जय उवाच||
अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा |
भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ||१||
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत |
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ||२||
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये |
अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ||३||
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः |
भेरीशङ्खनिनादैश्च तुमुलः समपद्यत ||४||
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः |
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः ||५||
शिरसां पात्यमानानां समरे निशितैः शरैः |
अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ ||६||
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च |
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ||७||
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः |
सहस्ताभरणैश्चान्यैरभवच्छादिता मही ||८||
कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः |
मुखैश्च चन्द्रसङ्काशै रक्तान्तनयनैः शुभैः ||९||
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते |
आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा ||१०||
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः |
आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ||११||
स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः |
प्रावर्तत कुरूणां च पाण्डवानां च भारत ||१२||
तस्मिन्महाभये घोरे तुमुले लोमहर्षणे |
ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ||१३||
क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः |
तावकानां परेषां च संयुगे भरतोत्तम ||१४||
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ||१४||
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः |
तावकानां परेषां च योधानां भरतर्षभ ||१५||
अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् |
सङ्घाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते ||१६||
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः |
जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः ||१७||
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि |
बहुधा समसज्जन्त आयसैः परिघैरिव ||१८||
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते |
अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह ||१९||
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः |
अन्योन्यमभिधावन्त परस्परवधैषिणः ||२०||
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः |
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ||२१||
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् |
भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः ||२२||
६७
सञ्जय उवाच||
दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् |
तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनञ्जयः ||१||
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च |
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ||२||
असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् |
बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् ||३||
अपश्याम महाराज ध्वजं गाण्डिवधन्वनः ||३||
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे |
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे ||४||
अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः |
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ||५||
चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् |
दिशः सम्प्लावयन्सर्वाः शरवर्षैः समन्ततः ||६||
अभ्यधावत गाङ्गेयं भैरवास्त्रो धनञ्जयः |
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ||७||
कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः |
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ||८||
भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः |
तेषामार्तायनमभूद्भीष्मः शन्तनवो रणे ||९||
समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा |
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ||१०||
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः |
सर्वसैन्यानि भीतानि व्यवलीयन्त भारत ||११||
अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः |
गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः ||१२||
मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते |
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ||१३||
नागा नरगणौघाश्च दुःशासनपुरःसराः |
जयद्रथश्च नृपतिः सहितः सर्वराजभिः ||१४||
हयारोहवराश्चैव तव पुत्रेण चोदिताः |
चतुर्दश सहस्राणि सौबलं पर्यवारयन् ||१५||
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः |
पाण्डवान्समरे जग्मुस्तावका भरतर्षभ ||१६||
रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् |
घोरमायोधनं जज्ञे महाभ्रसदृशं रजः ||१७||
तोमरप्रासनाराचगजाश्वरथयोधिनाम् |
बलेन महता भीष्मः समसज्जत्किरीटिना ||१८||
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः |
अजातशत्रुर्मद्राणामृषभेण यशस्विना ||१९||
सहपुत्रः सहामात्यः शल्येन समसज्जत ||१९||
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना |
मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते ||२०||
द्रुपदश्चेकितानश्च सात्यकिश्च महारथः |
द्रोणेन समसज्जन्त सपुत्रेण महात्मना ||२१||
कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ ||२१||
एवं प्रजविताश्वानि भ्रान्तनागरथानि च |
सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः ||२२||
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः |
प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते ||२३||
प्रववौ च महावातः पांसुवर्षं पपात च |
नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः ||२४||
प्रमोहः सर्वसत्त्वानामतीव समपद्यत |
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ||२५||
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् |
सङ्घातः शरजालानां तुमुलः समपद्यत ||२६||
प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः |
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ||२७||
आर्षभाणि विचित्राणि रुक्मजालावृतानि च |
सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ||२८||
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः |
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ||२९||
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः |
हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः ||३०||
परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः |
रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ||३१||
शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः |
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत ||३२||
अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः |
एकेन बलिना राजन्वारणेन हता रथाः ||३३||
गन्धहस्तिमदस्रावमाघ्राय बहवो रणे |
संनिपाते बलौघानां वीतमाददिरे गजाः ||३४||
सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः |
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ||३५||
संनिपाते बलौघानां प्रेषितैर्वरवारणैः |
निपेतुर्युधि सम्भग्नाः सयोधाः सध्वजा रथाः ||३६||
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे |
व्यदृश्यन्त महाराज सम्भग्ना रथकूबराः ||३७||
विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः |
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ||३८||
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः |
विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः ||३९||
तेषां तथा कर्षतां च गजानां रूपमाबभौ |
सरःसु नलिनीजालं विषक्तमिव कर्षताम् ||४०||
एवं सञ्छादितं तत्र बभूवायोधनं महत् |
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ||४१||
६८
सञ्जय उवाच||
शिखण्डी सह मत्स्येन विराटेन विशां पते |
भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ||१||
द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान् |
राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनञ्जयः ||२||
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः |
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ||३||
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् |
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ||४||
सहदेवस्तु शकुनिमुलूकं च महारथम् |
पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ||५||
युधिष्ठिरो महाराज गजानीकं महारथः |
समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव ||६||
माद्रीपुत्रस्तु नकुलः शूरः सङ्क्रन्दनो युधि |
त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः ||७||
अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान् |
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ||८||
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः |
पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ||९||
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः |
द्रोणेन समरे राजन्समियायेन्द्रकर्मणा ||१०||
एवमेते महेष्वासास्तावकाः पाण्डवैः सह |
समेत्य समरे शूराः सम्प्रहारं प्रचक्रिरे ||११||
मध्यंदिनगते सूर्ये नभस्याकुलतां गते |
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ||१२||
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे |
सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ||१३||
समेतानां च समरे जिगीषूणां परस्परम् |
बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ||१४||
तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम् |
यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह ||१५||
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन |
विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः ||१६||
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् |
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ||१७||
कवचानां विचित्राणां भूषणानां प्रभास्तथा |
खं दिशः प्रदिशश्चैव भासयामासुरोजसा ||१८||
विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् ||१८||
रथसिंहासनव्याघ्राः समायान्तश्च संयुगे |
विरेजुः समरे राजन्ग्रहा इव नभस्तले ||१९||
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् |
अवारयत सङ्क्रुद्धः सर्वसैन्यस्य पश्यतः ||२०||
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः |
अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः ||२१||
तस्य शक्तिं महावेगां भीमसेनो महाबलः |
क्रुद्धाशीविषसङ्काशां प्रेषयामास भारत ||२२||
तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् |
चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः ||२३||
ततोऽपरेण भल्लेन पीतेन निशितेन च |
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ||२४||
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे |
शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर ||२५||
ततः सन्धाय वै तीक्ष्णं शरं परमदारुणम् |
वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् ||२६||
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ |
तेन तेनैव धावन्ति मनोमारुतरंहसः ||२७||
ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् |
हाहाकारश्च सञ्जज्ञे पाण्डवानां महात्मनाम् ||२८||
अभिद्रवत गृह्णीत हयान्यच्छत धावत |
इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ||२९||
एतस्मिन्नेव काले तु भीष्मः शान्तनवः पुनः |
व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा ||३०||
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह |
आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ||३१||
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे |
अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ||३२||
तथैव तावका राजन्भीष्मद्रोणमुखाः परान् |
अभ्यधावन्त वेगेन ततो युद्धमवर्तत ||३३||
६९
सञ्जय उवाच||
विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् |
विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः ||१||
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः |
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ||२||
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः |
अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे ||३||
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा |
अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ||४||
सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः |
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ||५||
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः |
वासुदेवं च सप्तत्या विव्याध परमेषुभिः ||६||
ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः |
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः ||७||
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः |
गाण्डीवधन्वा सङ्क्रुद्धः शितान्संनतपर्वणः ||८||
जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् ||८||
तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम् |
तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ||९||
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना |
तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः ||१०||
तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् ||१०||
तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः |
यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे ||११||
स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः |
अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ||१२||
ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः |
ब्राह्मणश्च विशेषेण माननीयो ममेति च ||१३||
समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः |
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ||१४||
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः |
युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ||१५||
दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः |
भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् ||१६||
भीमसेनस्तु सङ्क्रुद्धः परासुकरणं दृढम् |
चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ||१७||
आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः |
अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ||१८||
तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः |
रराजोरसि वै सूर्यो ग्रहैरिव समावृतः ||१९||
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः |
नामृष्यत यथा नागस्तलशब्दं समीरितम् ||२०||
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः |
भीमं विव्याध सङ्क्रुद्धस्त्रासयानो वरूथिनीम् ||२१||
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ |
पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ ||२२||
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा |
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ||२३||
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि |
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ||२४||
तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः |
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ||२५||
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् |
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ||२६||
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ||२६||
ततस्ते तावका वीरा राजपुत्रा महारथाः |
समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः ||२७||
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ||२७||
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव |
दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् ||२८||
अपेतशिशिरे काले समिद्धमिव पावकः |
अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् ||२९||
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते |
लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे ||३०||
अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम् |
विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः ||३१||
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः |
अविध्यत महाराज तदद्भुतमिवाभवत् ||३२||
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः |
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ||३३||
हताश्वे तु रथे तुष्ठँल्लक्ष्मणः परवीरहा |
शक्तिं चिक्षेप सङ्क्रुद्धः सौभद्रस्य रथं प्रति ||३४||
तामापतन्तीं सहसा घोररूपां दुरासदाम् |
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ||३५||
ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा |
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ||३६||
ततः समाकुले तस्मिन्वर्तमाने महाभये |
अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ||३७||
तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः |
जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ||३८||
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः |
बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह ||३९||
ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् |
सेनां जघान सङ्क्रुद्धो दिव्यैरस्त्रैर्महाबलः ||४०||
हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः |
रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ||४१||
७०
सञ्जय उवाच||
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः |
विकृष्य चापं समरे भारसाधनमुत्तमम् ||१||
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् |
प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम् ||२||
तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः |
आददानस्य भूयश्च संदधानस्य चापरान् ||३||
क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः |
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ||४||
तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः |
रथानामयुतं तस्य प्रेषयामास भारत ||५||
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः |
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ||६||
स कृत्वा दारुणं कर्म प्रगृहीतशरासनः |
आससाद ततो वीरो भूरिश्रवसमाहवे ||७||
स हि संदृश्य सेनां तां युयुधानेन पातिताम् |
अभ्यधावत सङ्क्रुद्धः कुरूणां कीर्तिवर्धनः ||८||
इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः |
व्यसृजद्वज्रसङ्काशाञ्शरानाशीविषोपमान् ||९||
सहस्रशो महाराज दर्शयन्पाणिलाघवम् ||९||
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः |
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ||१०||
विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् ||१०||
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः |
महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः ||११||
समासाद्य महेष्वासं भूरिश्रवसमाहवे |
ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ||१२||
भो भो कौरवदायाद सहास्माभिर्महाबल |
एहि युध्यस्व सङ्ग्रामे समस्तैः पृथगेव वा ||१३||
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे |
वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः ||१४||
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः |
वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् ||१५||
साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः |
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ||१६||
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः |
महता शरवर्षेण अभ्यवर्षन्नरिंदमम् ||१७||
अपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत् |
एकस्य च बहूनां च समेतानां रणाजिरे ||१८||
तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् |
प्रावृषीव महाशैलं सिषिचुर्जलदा नृप ||१९||
तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान् |
असम्प्राप्तानसम्प्राप्तांश्चिच्छेदाशु महारथः ||२०||
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् |
यदेको बहुभिर्युद्धे समसज्जदभीतवत् ||२१||
विसृज्य शरवृष्टिं तां दश राजन्महारथाः |
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ||२२||
सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत |
चिच्छेद दशभिर्बाणैर्निमेषेण महारथः ||२३||
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः |
चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः ||२४||
ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः ||२४||
तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान् |
वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् ||२५||
रथं रथेन समरे पीडयित्वा महाबलौ |
तावन्योन्यस्य समरे निहत्य रथवाजिनः ||२६||
विरथावभिवल्गन्तौ समेयातां महारथौ ||२६||
प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ |
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ||२७||
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् |
भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ||२८||
तवापि तनयो राजन्भूरिश्रवसमाहवे |
आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ||२९||
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् |
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ||३०||
लोहितायति चादित्ये त्वरमाणो धनञ्जयः |
पञ्चविंशतिसाहस्रान्निजघान महारथान् ||३१||
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे |
सम्प्राप्यैव गता नाशं शलभा इव पावकम् ||३२||
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः |
परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ||३३||
एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति |
सर्वेषामेव सैन्यानां प्रमोहः समजायत ||३४||
अवहारं ततश्चक्रे पिता देवव्रतस्तव |
सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः ||३५||
पाण्डवानां कुरूणां च परस्परसमागमे |
ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ||३६||
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत |
पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि ||३७||
षष्ठयुद्धदिवसः
७१
सञ्जय उवाच||
विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः |
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ||१||
तत्र शब्दो महानासीत्तव तेषां च भारत |
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ||२||
संनह्यतां पदातीनां हयानां चैव भारत |
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ||३||
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत |
व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् ||४||
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः |
व्यादिदेश महाराज रथिनो रथिनां वरः ||५||
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः |
चक्षुषी सहदेवश्च नकुलश्च महारथः ||६||
तुण्डमासीन्महाराज भीमसेनो महाबलः ||६||
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः |
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ||७||
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः |
धृष्टद्युम्नेन सहितो महत्या सेनया वृतः ||८||
केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः |
धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् ||९||
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ||९||
पादयोस्तु महाराज स्थितः श्रीमान्महारथः |
कुन्तिभोजः शतानीको महत्या सेनया वृतः ||१०||
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली |
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ||११||
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः |
सूर्योदये महाराज पुनर्युद्धाय दंशिताः ||१२||
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः |
समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ||१३||
व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव |
क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ||१४||
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत |
अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ||१५||
कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः |
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ||१६||
ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष |
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ||१७||
प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः |
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ||१८||
स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः |
वामं पक्षं समाश्रित्य दंशितः समवस्थितः ||१९||
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः |
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ||२०||
श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष |
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ||२१||
ततो युद्धाय सञ्जग्मुः पाण्डवाः कौरवैः सह |
सूर्योदये महाराज ततो युद्धमभून्महत् ||२२||
प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः |
हयारोहा हयारोहान्रथिनश्चापि सादिनः ||२३||
सारथिं च रथी राजन्कुञ्जरांश्च महारणे |
हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ||२४||
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः |
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ||२५||
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः |
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ||२६||
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः |
तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता ||२७||
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी |
अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ||२८||
द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः |
विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ||२९||
दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे |
सारथिं प्रेषयामास यमस्य सदनं प्रति ||३०||
स सङ्गृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् |
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ||३१||
ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम |
सृञ्जयाः केकयैः सार्धं पलायनपराभवन् ||३२||
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् |
मुह्यते तत्र तत्रैव समदेव वराङ्गना ||३३||
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये |
आसीद्व्यतिकरो घोरस्तव तेषां च भारत ||३४||
तदद्भुतमपश्याम तावकानां परैः सह |
एकायनगताः सर्वे यदयुध्यन्त भारत ||३५||
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते |
युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ||३६||
७२
धृतराष्ट्र उवाच||
एवं बहुगुणं सैन्यमेवं बहुविधं परम् |
व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ||१||
पुष्टमस्माकमत्यन्तमभिकामं च नः सदा |
प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ||२||
नातिवृद्धमबालं च न कृशं न च पीवरम् |
लघुवृत्तायतप्रायं सारगात्रमनामयम् ||३||
आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् |
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ||४||
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च |
भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ||५||
कम्पनेषु च चापेषु कणपेषु च सर्वशः |
क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् ||६||
अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम् |
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ||७||
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते |
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ||८||
नागाश्वरथयानेषु बहुशः सुपरीक्षितम् |
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ||९||
न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः |
न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः ||१०||
समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम् |
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ||११||
सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः |
लोकपालोपमैस्तात पालितं लोकविश्रुतैः ||१२||
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः |
अस्मानभिगतैः कामात्सबलैः सपदानुगैः ||१३||
महोदधिमिवापूर्णमापगाभिः समन्ततः |
अपक्षैः पक्षसङ्काशै रथैर्नागैश्च संवृतम् ||१४||
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् |
क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् ||१५||
ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् |
वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम् ||१६||
अपारमिव गर्जन्तं सागरप्रतिमं महत् |
द्रोणभीष्माभिसङ्गुप्तं गुप्तं च कृतवर्मणा ||१७||
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा |
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ||१८||
गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः |
यदहन्यत सङ्ग्रामे दिष्टमेतत्पुरातनम् ||१९||
नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः |
ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ||२०||
ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसम्पदा |
वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः ||२१||
विपरीतमिदं सर्वं प्रतिभाति स्म सञ्जय |
यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान् ||२२||
अथ वा पाण्डवार्थाय देवास्तत्र समागताः |
युध्यन्ते मामकं सैन्यं यदवध्यन्त सञ्जय ||२३||
उक्तो हि विदुरेणेह हितं पथ्यं च सञ्जय |
न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम ||२४||
तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः |
आसीद्यथागतं तात येन दृष्टमिदं पुरा ||२५||
अथ वा भाव्यमेवं हि सञ्जयैतेन सर्वथा |
पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा ||२६||
७३
सञ्जय उवाच||
आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् |
न हि दुर्योधनस्तानि पश्यते भरतर्षभ ||१||
यानि त्वं दृष्टवान्राजन्धर्मसङ्करकारिते ||१||
तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते |
तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः ||२||
त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ||२||
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते |
इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ||३||
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् |
शृणु युद्धं यथावृत्तं शंसतो मम मारिष ||४||
भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम् |
आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ||५||
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् |
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ||६||
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च |
एतानन्यांश्च सुबहून्समीपस्थान्महारथान् ||७||
धार्तराष्ट्रान्सुसङ्क्रुद्धान्दृष्ट्वा भीमो महाबलः |
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ||८||
अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः |
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ||९||
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः |
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ||१०||
सम्प्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् |
यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् ||११||
ततः शतसहस्राणि रथिनां सर्वशः प्रभो |
छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे ||१२||
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः |
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ||१३||
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् |
समस्तानां वधे राजन्मतिं चक्रे महामनाः ||१४||
ततो रथं समुत्सृज्य गदामादाय पाण्डवः |
जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् ||१५||
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः |
द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः ||१६||
विदार्य महतीं सेनां तावकानां नरर्षभः |
आससाद रथं शून्यं भीमसेनस्य संयुगे ||१७||
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् |
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ||१८||
अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन् |
मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ||१९||
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः |
संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् ||२०||
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् |
मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः ||२१||
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् |
यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः ||२२||
ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम् |
सर्वेषामेव सैन्यानां सङ्घर्षः समजायत ||२३||
तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके |
भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ||२४||
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः |
प्रत्युवाच ततः सूतं रणमध्ये महाबलः ||२५||
न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम् |
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ||२६||
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति |
एकायनगते भीमे मयि चावस्थिते युधि ||२७||
अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः |
यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् ||२८||
मम भीमः सखा चैव सम्बन्धी च महाबलः |
भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ||२९||
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः |
निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् ||३०||
एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम् |
भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ||३१||
स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् |
वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान् ||३२||
ते हन्यमानाः समरे रथिनः सादिनस्तथा |
पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् ||३३||
हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष |
वध्यतो भीमसेनेन कृतिना चित्रयोधिना ||३४||
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् |
अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः ||३५||
अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लोकवीरैः |
सैन्येन घोरेण सुसङ्गतेन; दृष्ट्वा बली पार्षतो भीमसेनम् ||३६||
अथोपगच्छच्छरविक्षताङ्गं; पदातिनं क्रोधविषं वमन्तम् |
आश्वासयन्पार्षतो भीमसेनं; गदाहस्तं कालमिवान्तकाले ||३७||
निःशल्यमेनं च चकार तूर्ण; मारोपयच्चात्मरथं महात्मा |
भृशं परिष्वज्य च भीमसेन; माश्वासयामास च शत्रुमध्ये ||३८||
भ्रातॄनथोपेत्य तवापि पुत्र; स्तस्मिन्विमर्दे महति प्रवृत्ते |
अयं दुरात्मा द्रुपदस्य पुत्रः; समागतो भीमसेनेन सार्धम् ||३९||
तं यात सर्वे सहिता निहन्तुं; मा वो रिपुः प्रार्थयतामनीकम् ||३९||
श्रुत्वा तु वाक्यं तममृष्यमाणा; ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः |
वधाय निष्पेतुरुदायुधास्ते; युगक्षये केतवो यद्वदुग्राः ||४०||
प्रगृह्य चित्राणि धनूंषि वीरा; ज्यानेमिघोषैः प्रविकम्पयन्तः |
शरैरवर्षन्द्रुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः ||४१||
निहत्य तांश्चापि शरैः सुतीक्ष्णै; र्न विव्यथे समरे चित्रयोधी ||४१||
समभ्युदीर्णांश्च तवात्मजांस्तथा; निशाम्य वीरानभितः स्थितान्रणे |
जिघांसुरुग्रं द्रुपदात्मजो युवा; प्रमोहनास्त्रं युयुजे महारथः ||४२||
क्रुद्धो भृशं तव पुत्रेषु राज; न्दैत्येषु यद्वत्समरे महेन्द्रः ||४२||
ततो व्यमुह्यन्त रणे नृवीराः; प्रमोहनास्त्राहतबुद्धिसत्त्वाः |
प्रदुद्रुवुः कुरवश्चैव सर्वे; सवाजिनागाः सरथाः समन्तात् ||४३||
परीतकालानिव नष्टसञ्ज्ञा; न्मोहोपेतांस्तव पुत्रान्निशम्य ||४३||
एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः |
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ||४४||
सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः |
अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् ||४५||
जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् |
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ||४६||
अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः |
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ||४७||
ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात् |
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ||४८||
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ||४८||
मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः |
ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् ||४९||
अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः |
पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ ||५०||
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् |
गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि ||५१||
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः |
प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः ||५२||
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः |
बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः ||५३||
मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ||५३||
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् |
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ||५४||
ते कृत्वा समरे व्यूहं सूचीमुखमरिंदमाः |
बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ||५५||
तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् |
भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ||५६||
न सन्धारयितुं शक्ता तव सेना जनाधिप |
मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता ||५७||
तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः |
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ ||५८||
तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् |
बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् ||५९||
दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः |
नाशंसत वधं वीरः पुत्राणां तव पार्षतः ||६०||
ततो रथं समारोप्य केकयस्य वृकोदरम् |
अभ्यधावत्सुसङ्क्रुद्धो द्रोणमिष्वस्त्रपारगम् ||६१||
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् |
क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः ||६२||
अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते |
दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ||६३||
अथान्यद्धनुरादाय पार्षतः परवीरहा |
द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः ||६४||
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः |
हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ||६५||
वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान् |
सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे ||६६||
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः |
आरुरोह महाबाहुरभिमन्योर्महारथम् ||६७||
ततः सरथनागाश्वा समकम्पत वाहिनी |
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ||६८||
तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा |
नाशक्नुवन्वारयितुं समस्तास्ते महारथाः ||६९||
वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः |
व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः ||७०||
तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव |
दृष्ट्वाचार्यं च सङ्क्रुद्धं दहन्तं रिपुवाहिनीम् ||७१||
चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत ||७१||
७४
सञ्जय उवाच||
ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा |
शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ||१||
एकीभूताः पुनश्चैव तव पुत्रा महारथाः |
समेत्य समरे भीमं योधयामासुरुद्यताः ||२||
भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः |
समारुह्य महाबाहुर्ययौ येन तवात्मजः ||३||
प्रगृह्य च महावेगं परासुकरणं दृढम् |
चित्रं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतान् ||४||
ततो दुर्योधनो राजा भीमसेनं महाबलम् |
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ||५||
सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना |
क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् ||६||
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् |
स तथाभिहतो राजा नाचलद्गिरिराडिव ||७||
तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् |
दुर्योधनानुजाः सर्वे शूराः सन्त्यक्तजीविताः ||८||
संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः |
निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः ||९||
तानापतत एवाजौ भीमसेनो महाबलः |
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ||१०||
भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् |
चित्रसेनं महाराज तव पुत्रं महायशाः ||११||
तथेतरांस्तव सुतांस्ताडयामास भारत |
शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुवेगितैः ||१२||
ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः |
अभिमन्युप्रभृतयस्ते द्वादश महारथाः ||१३||
प्रेषिता धर्मराजेन भीमसेनपदानुगाः |
प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् ||१४||
दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः |
सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ||१५||
महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् |
तत्यजुः समरे भीमं तव पुत्रा महाबलाः ||१६||
तान्नामृष्यत कौन्तेयो जीवमाना गता इति |
अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ||१७||
अथाभिमन्युं समरे भीमसेनेन सङ्गतम् |
पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महारथाः ||१८||
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः |
भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ||१९||
अपराह्णे ततो राजन्प्रावर्तत महान्रणः |
तावकानां च बलिनां परेषां चैव भारत ||२०||
अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् |
अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् ||२१||
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः |
आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् ||२२||
स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ |
आर्जुनिः शरजालेन छादयामास भारत ||२३||
दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः |
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः ||२४||
दुःशासनस्तु समरे केकयान्पञ्च मारिष |
योधयामास राजेन्द्र तदद्भुतमिवाभवत् ||२५||
द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् |
एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते ||२६||
पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे |
सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ||२७||
तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः |
गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः ||२८||
भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् |
कालयामास बलवान्पालः पशुगणानिव ||२९||
ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते |
दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः ||३०||
उत्तस्थुः समरे तत्र कबन्धानि समन्ततः |
कुरूणां चापि सैन्येषु पाण्डवानां च भारत ||३१||
शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम् |
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ||३२||
छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः |
पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः ||३३||
निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः |
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ||३४||
तत्राद्भुतमपश्याम तव तेषां च भारत |
न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति ||३५||
एवं युयुधिरे वीराः प्रार्थयाना महद्यशः |
तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि ||३६||
७५
सञ्जय उवाच||
ततो दुर्योधनो राजा लोहितायति भास्करे |
सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ||१||
तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् |
भीमसेनः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ||२||
अयं स कालः सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः |
अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ||३||
अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः |
द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि ||४||
यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे |
तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ||५||
कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा |
अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ||६||
याचमानं च यन्मोहाद्दाशार्हमवमन्यसे |
उलूकस्य समादेशं यद्ददासि च हृष्टवत् ||७||
अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम् |
समीकरिष्ये तत्पापं यत्पुरा कृतवानसि ||८||
एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् |
समादाय शरान्घोरान्महाशनिसमप्रभान् ||९||
षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने |
ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ||१०||
ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे |
चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ||११||
द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः |
छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् ||१२||
त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् |
छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ||१३||
रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः |
पपात सहसा भूमिं विद्युज्जलधरादिव ||१४||
ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम् |
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ||१५||
अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम् |
आजघान रणे भीमः स्मयन्निव महारथः ||१६||
ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः |
दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ||१७||
कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् |
आरोपयद्रथं राजन्दुर्योधनममर्षणम् ||१८||
स गाढविद्धो व्यथितो भीमसेनेन संयुगे |
निषसाद रथोपस्थे राजा दुर्योधनस्तदा ||१९||
परिवार्य ततो भीमं हन्तुकामो जयद्रथः |
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ||२०||
धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् |
केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ||२१||
चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः |
चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ||२२||
अष्टावेते महेष्वासाः सुकुमारा यशस्विनः |
अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ||२३||
आजघान ततस्तूर्णमभिमन्युर्महामनाः |
एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ||२४||
वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ||२४||
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् |
ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ||२५||
स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः |
अभिमन्युर्महाराज तावकान्समकम्पयत् ||२६||
यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ||२६||
विकर्णस्य ततो भल्लान्प्रेषयामास भारत |
चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ||२७||
ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे ||२७||
पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् |
प्रेषयामास सौभद्रो विकर्णाय महाबलः ||२८||
ते विकर्णं समासाद्य कङ्कबर्हिणवाससः |
भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ||२९||
ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले |
विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ||३०||
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः |
अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ||३१||
अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः |
अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः ||३२||
दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः |
ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः ||३३||
अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः |
जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् ||३४||
स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः |
शक्तिं चिक्षेप सङ्क्रुद्धो महोल्कां ज्वलितामिव ||३५||
सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः |
विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना ||३६||
तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः |
पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ||३७||
श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव |
अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ||३८||
तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः |
चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव ||३९||
क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ||३९||
तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् |
अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः ||४०||
शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् |
विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ||४१||
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना |
शतानीको जयत्सेनं विव्याध हृदये भृशम् ||४२||
तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके |
चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः ||४३||
अथान्यद्धनुरादाय भारसाधनमुत्तमम् |
समादत्त शितान्बाणाञ्शतानीको महाबलः ||४४||
तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः |
मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव ||४५||
ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष |
चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ||४६||
अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः |
जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ||४७||
अथापरेण भल्लेन सुमुक्तेन निपातिना |
दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् ||४८||
दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः |
जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् ||४९||
छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् |
अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः ||५०||
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः |
प्रत्युद्ययुर्महाराज गजा इव महागजान् ||५१||
दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा |
शत्रुञ्जयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः ||५२||
प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ||५२||
रथैर्नगरसङ्काशैर्हयैर्युक्तैर्मनोजवैः |
नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ||५३||
वरचापधरा वीरा विचित्रकवचध्वजाः |
विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ||५४||
तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् |
अवर्तत महारौद्रं निघ्नतामितरेतरम् ||५५||
अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ||५५||
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् |
रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः ||५६||
ततः शान्तनवः क्रुद्धः शरैः संनतपर्वभिः |
नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् ||५७||
पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ||५७||
एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् |
कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप ||५८||
धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ |
मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ ||५९||
सप्तमयुद्धदिवसः
७६
सञ्जय उवाच||
अथ शूरा महाराज परस्परकृतागसः |
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ||१||
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् |
संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया ||२||
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः |
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ||३||
सैन्यानि रौद्राणि भयानकानि; व्यूढानि सम्यग्बहुलध्वजानि |
विदार्य हत्वा च निपीड्य शूरा; स्ते पाण्डवानां त्वरिता रथौघाः ||४||
संमोह्य सर्वान्युधि कीर्तिमन्तो; व्यूहं च तं मकरं वज्रकल्पम् |
प्रविश्य भीमेन निबर्हितोऽस्मि; घोरैः शरैर्मृत्युदण्डप्रकाशैः ||५||
क्रुद्धं तमुद्वीक्ष्य भयेन राज; न्संमूर्छितो नालभं शान्तिमद्य |
इच्छे प्रसादात्तव सत्यसन्ध; प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ||६||
तेनैवमुक्तः प्रहसन्महात्मा; दुर्योधनं जातमन्युं विदित्वा |
तं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः ||७||
परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र |
इच्छामि दातुं विजयं सुखं च; न चात्मानं छादयेऽहं त्वदर्थे ||८||
एते तु रौद्रा बहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राः |
ये पाण्डवानां समरे सहाया; जितक्लमाः क्रोधविषं वमन्ति ||९||
ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास्त्वया च |
अहं ह्येतान्प्रतियोत्स्यामि राज; न्सर्वात्मना जीवितं त्यज्य वीर ||१०||
रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य |
सर्वांस्तवार्थाय सदेवदैत्याँ; ल्लोकान्दहेयं किमु शत्रूंस्तवेह ||११||
तत्पाण्डवान्योधयिष्यामि राज; न्प्रियं च ते सर्वमहं करिष्ये |
श्रुत्वैव चैतत्परमप्रतीतो; दुर्योधनः प्रीतमना बभूव ||१२||
सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्याह नृपांश्च सर्वान् |
तदाज्ञया तानि विनिर्ययुर्द्रुतं; रथाश्वपादातगजायुतानि ||१३||
प्रहर्षयुक्तानि तु तानि राज; न्महान्ति नानाविधशस्त्रवन्ति |
स्थितानि नागाश्वपदातिमन्ति; विरेजुराजौ तव राजन्बलानि ||१४||
वृन्दैः स्थिताश्चापि सुसम्प्रयुक्ता; श्चकाशिरे दन्तिगणाः समन्तात् |
शस्त्रास्त्रविद्भिर्नरदेव योधै; रधिष्ठिताः सैन्यगणास्त्वदीयाः ||१५||
रथैश्च पादातगजाश्वसङ्घैः; प्रयाद्भिराजौ विधिवत्प्रणुन्नैः |
समुद्धतं वै तरुणार्कवर्णं; रजो बभौ छादयत्सूर्यरश्मीन् ||१६||
रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात् |
नानारङ्गाः समरे तत्र राज; न्मेघैर्युक्ता विद्युतः खे यथैव ||१७||
धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस्तुमुलोऽतिघोरः |
विमथ्यतो देवमहासुरौघै; र्यथार्णवस्यादियुगे तदानीम् ||१८||
तदुग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णमेवम् |
बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम् ||१९||
७७
सञ्जय उवाच||
अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् |
अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः ||१||
अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः |
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः ||२||
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः |
त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः ||३||
बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः |
रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः ||४||
देशजाश्च हया राजन्स्वारूढा हयसादिभिः |
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ||५||
पदाताश्च तथा शूरा नानाप्रहरणायुधाः |
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ||६||
एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः |
देवानपि रणे जेतुं समर्था इति मे मतिः ||७||
अवश्यं तु मया राजंस्तव वाच्यं हितं सदा |
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ||८||
वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ||८||
सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव |
पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ||९||
एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् |
ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा ||१०||
ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् |
अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ||११||
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् |
सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ||१२||
रथैरनेकसाहस्रैः समन्तात्परिवारितम् |
अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ||१३||
नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे |
अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ||१४||
एवंव्यूहं महाराज तव सैन्यं महारथैः |
स्थितं रणाय महते भीष्मेण युधि पालितम् ||१५||
दशाश्वानां सहस्राणि दन्तिनां च तथैव च |
रथानामयुतं चापि पुत्राश्च तव दंशिताः ||१६||
चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् ||१६||
रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते |
संनद्धाः समदृश्यन्त राजानश्च महाबलाः ||१७||
दुर्योधनस्तु समरे दंशितो रथमास्थितः |
व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ||१८||
ततः शब्दो महानासीत्पुत्राणां तव भारत |
रथघोषश्च तुमुलो वादित्राणां च निस्वनः ||१९||
भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि |
मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् ||२०||
सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ||२०||
मण्डलं तु समालोक्य व्यूहं परमदारुणम् |
स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् ||२१||
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः |
रथिनः सादिनश्चैव सिंहनादमथानदन् ||२२||
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः |
इतरेतरतः शूराः सहसैन्याः प्रहारिणः ||२३||
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् |
स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ||२४||
नकुलः सहदेवश्च राजन्मद्रेशमीयतुः |
विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ||२५||
सर्वे नृपास्तु समरे धनञ्जयमयोधयन् |
भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् ||२६||
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो |
आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ||२७||
प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः |
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ||२८||
अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् |
ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् ||२९||
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् |
श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः ||३०||
चेकितानस्तु समरे कृपमेवान्वयोधयत् |
शेषाः प्रतिययुर्यत्ता भीममेव महारथम् ||३१||
ततो राजसहस्राणि परिवव्रुर्धनञ्जयम् |
शक्तितोमरनाराचगदापरिघपाणयः ||३२||
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् |
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ||३३||
व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ||३३||
युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् |
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ||३४||
अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन |
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ||३५||
एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च |
ववर्ष शरवर्षाणि नराधिपगणान्प्रति ||३६||
तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् |
तडागमिव धाराभिर्यथा प्रावृषि तोयदा ||३७||
हाहाकारो महानासीत्तव सैन्ये विशां पते |
छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे ||३८||
देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः |
विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ||३९||
ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् |
तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ||४०||
शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् |
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते ||४१||
तेषां राजसहस्राणां हयानां दन्तिनां तथा |
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ||४२||
ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः |
अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा ||४३||
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् |
सञ्चुक्षुभे महाराज वातैरिव महार्णवः ||४४||
७८
सञ्जय उवाच||
तथा प्रवृत्ते सङ्ग्रामे निवृत्ते च सुशर्मणि |
प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना ||१||
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव |
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ||२||
दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् |
त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ||३||
तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् |
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः ||४||
एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् |
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ||५||
तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् |
संयत्ताः समरे सर्वे पालयध्वं पितामहम् ||६||
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः |
नरेन्द्राणां महाराज समाजग्मुः पितामहम् ||७||
ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् |
रणे भारतमायान्तमाससाद महाबलम् ||८||
महाश्वेताश्वयुक्तेन भीमवानरकेतुना |
महता मेघनादेन रथेनाति विराजत ||९||
समरे सर्वसैन्यानामुपयातं धनञ्जयम् |
अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ||१०||
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् |
मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ||११||
तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् |
न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् ||१२||
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः |
भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः ||१३||
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा |
ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ||१४||
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः |
अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ||१५||
शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव ||१५||
द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः |
ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः ||१६||
धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः ||१६||
तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः |
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ||१७||
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः |
आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः ||१८||
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ |
महता शरवर्षेण वारयामासतुर्बलात् ||१९||
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् |
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर ||२०||
स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे |
जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः ||२१||
स पपात रथात्तूर्णं भारद्वाजशराहतः |
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ||२२||
हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् |
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ||२३||
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् |
दारयामास समरे शतशोऽथ सहस्रशः ||२४||
शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे |
आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः ||२५||
स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः |
शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ||२६||
अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः |
सूतं ध्वजमथो राजंस्तुरगानायुधं तथा ||२७||
शरैर्बहुभिरुद्दिश्य पातयामास संयुगे ||२७||
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः |
खड्गमादाय निशितं विमलं च शरावरम् ||२८||
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ||२८||
सखड्गस्य महाराज चरतस्तस्य संयुगे |
नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ||२९||
ततः शरसहस्राणि बहूनि भरतर्षभ |
प्रेषयामास समरे द्रौणिः परमकोपनः ||३०||
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् |
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ||३१||
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् |
चर्माच्छिनदसिं चास्य खण्डयामास संयुगे ||३२||
शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः ||३२||
शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः |
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ||३३||
तमापतन्तं सहसा कालानलसमप्रभम् |
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ||३४||
शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ||३४||
शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः |
आरुरोह रथं तूर्णं माधवस्य महात्मनः ||३५||
सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे |
अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली ||३६||
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत |
अर्धचन्द्रेण समरे तं च विव्याध सायकैः ||३७||
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ||३७||
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् |
नासम्भ्रमद्यत्समरे वध्यमानः शितैः शरैः ||३८||
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत |
विजयाद्यदनुप्राप्तं माधवेन यशस्विना ||३९||
तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा |
अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः ||४०||
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ||४०||
तत्तथा पीडितं तेन माधवेन महात्मना |
प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे ||४१||
तमजेयं राक्षसेन्द्रं सङ्ख्ये मघवता अपि |
शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् ||४२||
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः |
निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ||४३||
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली |
धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् ||४४||
छादयामास समरे शरैः संनतपर्वभिः ||४४||
सञ्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत |
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः ||४५||
धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः |
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ||४६||
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष |
हयांश्च चतुरः शीघ्रं निजघान महारथः ||४७||
शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ||४७||
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली |
पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति ||४८||
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः |
राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ||४९||
ततो नृपं पराजित्य पार्षतः परवीरहा |
न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् ||५०||
कृतवर्मा रणे भीमं शरैरार्छन्महारथम् |
प्रच्छादयामास च तं महामेघो रविं यथा ||५१||
ततः प्रहस्य समरे भीमसेनः परन्तपः |
प्रेषयामास सङ्क्रुद्धः सायकान्कृतवर्मणे ||५२||
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः |
नाकम्पत महाराज भीमं चार्छच्छितैः शरैः ||५३||
तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः |
सारथिं पातयामास ध्वजं च सुपरिष्कृतम् ||५४||
शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा |
शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत ||५५||
हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ |
स्यालस्य ते महाराज तव पुत्रस्य पश्यतः ||५६||
भीमसेनोऽपि सङ्क्रुद्धस्तव सैन्यमुपाद्रवत् |
निजघान च सङ्क्रुद्धो दण्डपाणिरिवान्तकः ||५७||
७९
धृतराष्ट्र उवाच||
बहूनीह विचित्राणि द्वैरथानि स्म सञ्जय |
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ||१||
न चैव मामकं कञ्चिद्धृष्टं शंससि सञ्जय |
नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि ||२||
जीयमानान्विमनसो मामकान्विगतौजसः |
वदसे संयुगे सूत दिष्टमेतदसंशयम् ||३||
सञ्जय उवाच||
यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः |
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ||४||
गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् |
महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति ||५||
तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् |
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ||६||
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् |
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ||७||
तवापराधात्सुमहान्सपुत्रस्य विशां पते |
पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ||८||
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप |
न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् ||९||
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः |
चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः ||१०||
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः |
तन्ममैकमना भूत्वा शृणु देवासुरोपमम् ||११||
आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ |
इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ ||१२||
तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् ||१२||
इरावांस्तु सुसङ्क्रुद्धो भ्रातरौ देवरूपिणौ |
विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः ||१३||
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ||१३||
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत |
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ||१४||
इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः |
चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ||१५||
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष |
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ||१६||
त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः |
धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम् ||१७||
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ |
शरान्मुमुचतुस्तूर्णमिरावति महात्मनि ||१८||
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः |
दिवाकरपथं प्राप्य छादयामासुरम्बरम् ||१९||
इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ |
ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ||२०||
तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ |
रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः ||२१||
तौ स जित्वा महाराज नागराजसुतासुतः |
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ||२२||
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः |
वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः ||२३||
हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् |
रथेनादित्यवर्णेन सध्वजेन महाबलः ||२४||
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः |
यथा वज्रधरः पूर्वं सङ्ग्रामे तारकामये ||२५||
तत्र देवाः सगन्धर्वा ऋषयश्च समागताः |
विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ||२६||
यथा सुरपतिः शक्रस्त्रासयामास दानवान् |
तथैव समरे राजंस्त्रासयामास पाण्डवान् ||२७||
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् |
त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत ||२८||
भैमसेनिं रथस्थं तु तत्रापश्याम भारत |
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ||२९||
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत |
आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे ||३०||
घटोत्कचस्ततो राजन्भगदत्तं महारणे |
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ||३१||
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् |
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ||३२||
स ताड्यमानो बहुभिः शरैः संनतपर्वभिः |
न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः ||३३||
तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश |
प्रेषयामास समरे तांश्च चिच्छेद राक्षसः ||३४||
स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः |
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ||३५||
ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत |
तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ||३६||
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् |
शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति ||३७||
तामापतन्तीं सहसा हेमदण्डां सुवेगिताम् |
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् ||३८||
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् |
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ||३९||
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् |
अजेयं समरे राजन्यमेन वरुणेन च ||४०||
पाण्डवीं समरे सेनां संममर्द सकुञ्जरः |
यथा वनगजो राजन्मृद्नंश्चरति पद्मिनीम् ||४१||
मद्रेश्वरस्तु समरे यमाभ्यां सह सङ्गतः |
स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ ||४२||
सहदेवस्तु समरे मातुलं वीक्ष्य सङ्गतम् |
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ||४३||
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् |
तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ||४४||
ततः प्रहस्य समरे नकुलस्य महारथः |
अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः ||४५||
प्रेषयामास समरे यमस्य सदनं प्रति ||४५||
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |
आरुरोह ततो यानं भ्रातुरेव यशस्विनः ||४६||
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके |
मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात् ||४७||
स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः |
स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः ||४८||
प्रहसन्निव तां चापि शरवृष्टिं जघान ह ||४८||
सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् |
मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ||४९||
स शरः प्रेषितस्तेन गरुत्मानिव वेगवान् |
मद्रराजं विनिर्भिद्य निपपात महीतले ||५०||
स गाढविद्धो व्यथितो रथोपस्थे महारथः |
निषसाद महाराज कश्मलं च जगाम ह ||५१||
तं विसञ्ज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे |
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ||५२||
दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् |
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ||५३||
निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ |
दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः ||५४||
अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते |
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ||५५||
८०
सञ्जय उवाच||
ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे |
श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः ||१||
अभ्यधावत्ततो राजा श्रुतायुषमरिंदमम् |
विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ||२||
स संवार्य रणे राजा प्रेषितान्धर्मसूनुना |
शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् ||३||
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे |
असूनिव विचिन्वन्तो देहे तस्य महात्मनः ||४||
पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना |
रणे वराहकर्णेन राजानं हृदि विव्यधे ||५||
अथापरेण भल्लेन केतुं तस्य महात्मनः |
रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ||६||
केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः |
पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः ||७||
ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः |
यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः ||८||
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः |
प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् ||९||
सर्वेषां चैव भूतानामिदमासीन्मनोगतम् |
त्रीँल्लोकानद्य सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै ||१०||
ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् |
लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा ||११||
स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् |
दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम् ||१२||
ततः सर्वाणि सैन्यानि तावकानि विशां पते |
निराशान्यभवंस्तत्र जीवितं प्रति भारत ||१३||
स तु धैर्येण तं कोपं संनिवार्य महायशाः |
श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः ||१४||
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे |
निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ||१५||
सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः |
निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ||१६||
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् |
विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ||१७||
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे |
दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम् ||१८||
एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः |
व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ||१९||
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् |
प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ||२०||
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि |
चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः ||२१||
अथापरेण भल्लेन धनुश्चिच्छेद मारिष |
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ||२२||
हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी ||२२||
सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः |
स तया वीरघातिन्या गदया गदिनां वरः ||२३||
गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ||२३||
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश |
ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् ||२४||
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् |
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः ||२५||
तामापतन्तीं विमलामश्मगर्भां महागदाम् |
शरैरनेकसाहस्रैर्वारयामास गौतमः ||२६||
चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत |
लाघवं परमास्थाय गौतमं समुपाद्रवत् ||२७||
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम् |
वेगेन महता राजंश्चेकितानमुपाद्रवत् ||२८||
तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ |
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः ||२९||
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ |
धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ||३०||
मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ ||३०||
ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया |
चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् ||३१||
रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः ||३१||
तथैव शकुनिः शूरः स्यालस्तव विशां पते |
आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ||३२||
सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः |
नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ||३३||
सौमदत्तिरुरःस्थैस्तैर्भृशं बाणैरशोभत |
मध्यंदिने महाराज रश्मिभिस्तपनो यथा ||३४||
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् |
हतसूतहयं चक्रे विरथं सायकोत्तमैः ||३५||
विरथं चैनमालोक्य हताश्वं हतसारथिम् |
महता शरवर्षेण छादयामास संयुगे ||३६||
स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः |
आरुरोह ततो यानं शतानीकस्य मारिष ||३७||
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा |
रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः ||३८||
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत |
शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ||३९||
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे |
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ||४०||
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः |
संवृतं समरे भीष्मं देवैरपि दुरासदम् ||४१||
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव |
अभिमन्युं समुद्दिश्य बालमेकं महारथम् ||४२||
वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ||४२||
चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः |
एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः ||४३||
यथा न हन्युर्नः सेनां तथा माधव चोदय ||४३||
एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा |
रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ||४४||
निष्टानको महानासीत्तव सैन्यस्य मारिष |
यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ||४५||
समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः |
सुशर्माणमथो राजन्निदं वचनमब्रवीत् ||४६||
जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् |
पर्यायस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् ||४७||
अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ||४७||
एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः |
श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ||४८||
न चैनमब्रवीत्किञ्चिच्छुभं वा यदि वाशुभम् ||४८||
अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः |
पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ||४९||
परिवार्यार्जुनं सङ्ख्ये तव पुत्रैः सहानघ |
शरैः सञ्छादयामास मेघैरिव दिवाकरम् ||५०||
ततः प्रवृत्तः सुमहान्सङ्ग्रामः शोणितोदकः |
तावकानां च समरे पाण्डवानां च भारत ||५१||
८१
सञ्जय उवाच||
स तुद्यमानस्तु शरैर्धनञ्जयः; पदा हतो नाग इव श्वसन्बली |
बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे प्रसह्य ||१||
सञ्छिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां क्षणेन |
विव्याध बाणैर्युगपन्महात्मा; निःशेषतां तेष्वथ मन्यमानः ||२||
निपेतुराजौ रुधिरप्रदिग्धा; स्ते ताडिताः शक्रसुतेन राजन् |
विभिन्नगात्राः पतितोत्तमाङ्गा; गतासवश्छिन्नतनुत्रकायाः ||३||
महीं गताः पार्थबलाभिभूता; विचित्ररूपा युगपद्विनेशुः |
दृष्ट्वा हतांस्तान्युधि राजपुत्रां; स्त्रिगर्तराजः प्रययौ क्षणेन ||४||
तेषां रथानामथ पृष्ठगोपा; द्वात्रिंशदन्येऽब्यपतन्त पार्थम् |
तथैव ते सम्परिवार्य पार्थं; विकृष्य चापानि महारवाणि ||५||
अवीवृषन्बाणमहौघवृष्ट्या; यथा गिरिं तोयधरा जलौघैः ||५||
सम्पीड्यमानस्तु शरौघवृष्ट्या; धनञ्जयस्तान्युधि जातरोषः |
षष्ट्या शरैः संयति तैलधौतै; र्जघान तानप्यथ पृष्ठगोपान् ||६||
षष्टिं रथांस्तानवजित्य सङ्ख्ये; धनञ्जयः प्रीतमना यशस्वी |
अथात्वरद्भीष्मवधाय जिष्णु; र्बलानि राज्ञां समरे निहत्य ||७||
त्रिगर्तराजो निहतान्समीक्ष्य; महारथांस्तानथ बन्धुवर्गान् |
रणे पुरस्कृत्य नराधिपांस्ता; ञ्जगाम पार्थं त्वरितो वधाय ||८||
अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनञ्जयं वीक्ष्य शिखण्डिमुख्याः |
अभ्युद्ययुस्ते शितशस्त्रहस्ता; रिरक्षिषन्तो रथमर्जुनस्य ||९||
पार्थोऽपि तानापततः समीक्ष्य; त्रिगर्तराज्ञा सहितान्नृवीरान् |
विध्वंसयित्वा समरे धनुष्मा; न्गाण्डीवमुक्तैर्निशितैः पृषत्कैः ||१०||
भीष्मं यियासुर्युधि संददर्श; दुर्योधनं सैन्धवादींश्च राज्ञः ||१०||
आवारयिष्णूनभिसम्प्रयाय; मुहूर्तमायोध्य बलेन वीरः |
उत्सृज्य राजानमनन्तवीर्यो; जयद्रथादींश्च नृपान्महौजाः ||११||
ययौ ततो भीमबलो मनस्वी; गाङ्गेयमाजौ शरचापपाणिः ||११||
युधिष्ठिरश्चोग्रबलो महात्मा; समाययौ त्वरितो जातकोपः |
मद्राधिपं समभित्यज्य सङ्ख्ये; स्वभागमाप्तं तमनन्तकीर्तिः ||१२||
सार्धं स माद्रीसुतभीमसेनै; र्भीष्मं ययौ शान्तनवं रणाय ||१२||
तैः सम्प्रयुक्तः स महारथाग्र्यै; र्गङ्गासुतः समरे चित्रयोधी |
न विव्यथे शान्तनवो महात्मा; समागतैः पाण्डुसुतैः समस्तैः ||१३||
अथैत्य राजा युधि सत्यसन्धो; जयद्रथोऽत्युग्रबलो मनस्वी |
चिच्छेद चापानि महारथानां; प्रसह्य तेषां धनुषा वरेण ||१४||
युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि सञ्जातकोपः |
दुर्योधनः क्रोधविषो महात्मा; जघान बाणैरनलप्रकाशैः ||१५||
कृपेण शल्येन शलेन चैव; तथा विभो चित्रसेनेन चाजौ |
विद्धाः शरैस्तेऽतिविवृद्धकोपै; र्देवा यथा दैत्यगणैः समेतैः ||१६||
छिन्नायुधं शान्तनवेन राजा; शिखण्डिनं प्रेक्ष्य च जातकोपः |
अजातशत्रुः समरे महात्मा; शिखण्डिनं क्रुद्ध उवाच वाक्यम् ||१७||
उक्त्वा तथा त्वं पितुरग्रतो मा; महं हनिष्यामि महाव्रतं तम् |
भीष्मं शरौघैर्विमलार्कवर्णैः; सत्यं वदामीति कृता प्रतिज्ञा ||१८||
त्वया न चैनां सफलां करोषि; देवव्रतं यन्न निहंसि युद्धे |
मिथ्याप्रतिज्ञो भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश्च ||१९||
प्रेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस्तपन्तं मम सैन्यसङ्घान् |
शरौघजालैरतितिग्मतेजैः; कालं यथा मृत्युकृतं क्षणेन ||२०||
निकृत्तचापः समरानपेक्षः; पराजितः शान्तनवेन राज्ञा |
विहाय बन्धूनथ सोदरांश्च; क्व यास्यसे नानुरूपं तवेदम् ||२१||
दृष्ट्वा हि भीष्मं तमनन्तवीर्यं; भग्नं च सैन्यं द्रवमाणमेवम् |
भीतोऽसि नूनं द्रुपदस्य पुत्र; तथा हि ते मुखवर्णोऽप्रहृष्टः ||२२||
आज्ञायमानेऽपि धनञ्जयेन; महाहवे सम्प्रसक्ते नृवीर |
कथं हि भीष्मात्प्रथितः पृथिव्यां; भयं त्वमद्य प्रकरोषि वीर ||२३||
स धर्मराजस्य वचो निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम् |
प्रत्यादेशं मन्यमानो महात्मा; प्रतत्वरे भीष्मवधाय राजन् ||२४||
तमापतन्तं महता जवेन; शिखण्डिनं भीष्ममभिद्रवन्तम् |
आवारयामास हि शल्य एनं; शस्त्रेण घोरेण सुदुर्जयेन ||२५||
स चापि दृष्ट्वा समुदीर्यमाण; मस्त्रं युगान्ताग्निसमप्रभावम् |
नासौ व्यमुह्यद्द्रुपदस्य पुत्रो; राजन्महेन्द्रप्रतिमप्रभावः ||२६||
तस्थौ च तत्रैव महाधनुष्मा; ञ्शरैस्तदस्त्रं प्रतिबाधमानः |
अथाददे वारुणमन्यदस्त्रं; शिखण्ड्यथोग्रं प्रतिघाताय तस्य ||२७||
तदस्त्रमस्त्रेण विदार्यमाणं; खस्थाः सुरा ददृशुः पार्थिवाश्च ||२७||
भीष्मस्तु राजन्समरे महात्मा; धनुः सुचित्रं ध्वजमेव चापि |
छित्त्वानदत्पाण्डुसुतस्य वीरो; युधिष्ठिरस्याजमीढस्य राज्ञः ||२८||
ततः समुत्सृज्य धनुः सबाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम् |
गदां प्रगृह्याभिपपात सङ्ख्ये; जयद्रथं भीमसेनः पदातिः ||२९||
तमापतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम् |
विव्याध घोरैर्यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात् ||३०||
अचिन्तयित्वा स शरांस्तरस्वी; वृकोदरः क्रोधपरीतचेताः |
जघान वाहान्समरे समस्ता; नारट्टजान्सिन्धुराजस्य सङ्ख्ये ||३१||
ततोऽभिवीक्ष्याप्रतिमप्रभाव; स्तवात्मजस्त्वरमाणो रथेन |
अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः ||३२||
भीमोऽप्यथैनं सहसा विनद्य; प्रत्युद्ययौ गदया तर्जमानः |
समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात् ||३३||
विहाय सर्वे तव पुत्रमुग्रं; पातं गदायाः परिहर्तुकामाः |
अपक्रान्तास्तुमुले संविमर्दे; सुदारुणे भारत मोहनीये ||३४||
अमूढचेतास्त्वथ चित्रसेनो; महागदामापतन्तीं निरीक्ष्य |
रथं समुत्सृज्य पदातिराजौ; प्रगृह्य खड्गं विमलं च चर्म ||३५||
अवप्लुतः सिंह इवाचलाग्रा; ज्जगाम चान्यं भुवि भूमिदेशम् ||३५||
गदापि सा प्राप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य सङ्ख्ये |
जगाम भूमिं ज्वलिता महोल्का; भ्रष्टाम्बराद्गामिव सम्पतन्ती ||३६||
आश्चर्यभूतं सुमहत्त्वदीया; दृष्ट्वैव तद्भारत सम्प्रहृष्टाः |
सर्वे विनेदुः सहिताः समन्ता; त्पुपूजिरे तव पुत्रं ससैन्याः ||३७||
८२
सञ्जय उवाच||
विरथं तं समासाद्य चित्रसेनं मनस्विनम् |
रथमारोपयामास विकर्णस्तनयस्तव ||१||
तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम् |
भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ||२||
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः |
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ||३||
यिधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः |
महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ||४||
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि |
भीष्मं सञ्छादयामास यथा मेघो दिवाकरम् ||५||
तेन सम्यक्प्रणीतानि शरजालानि भारत |
पतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः ||६||
तथैव शरजालानि भीष्मेणास्तानि मारिष |
आकाशे समदृश्यन्त खगमानां व्रजा इव ||७||
निमेषार्धाच्च कौन्तेयं भीष्मः शान्तनवो युधि |
अदृश्यं समरे चक्रे शरजालेन भागशः ||८||
ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः |
नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ||९||
असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः |
चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ||१०||
तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् |
निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ||११||
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः |
आरुरोह रथं तूर्णं नकुलस्य महात्मनः ||१२||
यमावपि सुसङ्क्रुद्धः समासाद्य रणे तदा |
शरैः सञ्छादयामास भीष्मः परपुरञ्जयः ||१३||
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ |
जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया ||१४||
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् |
भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ||१५||
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् |
महता रथवंशेन परिवव्रुः पितामहम् ||१६||
स समन्तात्परिवृतः पिता देवव्रतस्तव |
चिक्रीद धनुषा राजन्पातयानो महारथान् ||१७||
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि |
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ||१८||
तर्जयानं रणे शूरांस्त्रासयानं च सायकैः |
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ||१९||
रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम् |
अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ||२०||
शिरांसि रथिनां भीष्मः पातयामास संयुगे |
तालेभ्य इव पक्वानि फलानि कुशलो नरः ||२१||
पतद्भिश्च महाराज शिरोभिर्धरणीतले |
बभूव तुमुलः शब्दः पततामश्मनामिव ||२२||
तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे |
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ||२३||
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् |
एकमेकं समाहूय युद्धायैवोपतस्थिरे ||२४||
शिखण्डी तु समासाद्य भरतानां पितामहम् |
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ||२५||
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे |
प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः ||२६||
सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् |
सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् ||२७||
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् |
अपरां दिशमास्थाय स्थिते सवितरि प्रभो ||२८||
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः |
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ||२९||
शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे ||२९||
ते हन्यमानाः समरे तावकाः पुरुषर्षभ |
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् ||३०||
यथोत्साहं च समरे जघ्नुर्लोकं महारथाः ||३०||
तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् |
वध्यतां समरे राजन्पार्षतेन महात्मना ||३१||
तं श्रुत्वा निनदं घोरं तावकानां महारथौ |
विन्दानुविन्दावावन्त्यौ पार्षतं पत्युपस्थितौ ||३२||
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ |
छादयामासतुरुभौ शरवर्षेण पार्षतम् ||३३||
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः |
आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः ||३४||
ततो युधिष्ठिरो राजा महत्या सेनया वृतः |
आवन्त्यौ समरे क्रुद्धावभ्ययात्स परन्तपौ ||३५||
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष |
विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् ||३६||
अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान्क्षत्रियर्षभ |
अयोधयत सङ्ग्रामे वज्रपाणिरिवासुरान् ||३७||
द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव |
व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ||३८||
दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते |
परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ||३९||
ततो दुर्योधनो राजा लोहितायति भास्करे |
अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ||४०||
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् |
अस्तं गिरिमथारूढे नप्रकाशति भास्करे ||४१||
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी |
गोमायुगणसङ्कीर्णा क्षणेन रजनीमुखे ||४२||
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् |
घोरमायोधनं जज्ञे भूतसङ्घसमाकुलम् ||४३||
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः |
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ||४४||
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् |
विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ||४५||
युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा |
ययौ स्वशिबिरं राजा निशायां सेनया वृतः ||४६||
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् |
अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति ||४७||
दुर्योधनोऽपि नृपतिः परिवार्य महारणे |
भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ||४८||
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः |
परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति ||४९||
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः |
परिवार्य रणे योधान्ययतुः शिबिरं प्रति ||५०||
एवमेते महाराज तावकाः पाण्डवैः सह |
पर्यवर्तन्त सहिता निशाकाले परन्तपाः ||५१||
ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा |
न्यविशन्त महाराज पूजयन्तः परस्परम् ||५२||
रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि |
अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः ||५३||
कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः |
गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ||५४||
मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम् |
न हि युद्धकथां काञ्चित्तत्र चक्रुर्महारथाः ||५५||
ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप |
हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः ||५६||
अष्टमयुद्धदिवसः
८३
सञ्जय उवाच||
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः |
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ||१||
ततः शब्दो महानासीत्सेनयोरुभयोरपि |
निर्गच्छमानयोः सङ्ख्ये सागरप्रतिमो महान् ||२||
ततो दुर्योधनो राजा चित्रसेनो विविंशतिः |
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ||३||
एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः |
व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः ||४||
भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते |
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ||५||
अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ |
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ||६||
ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् |
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ||७||
द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् |
मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते ||८||
प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः |
मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः ||९||
बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः |
काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ||१०||
द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत |
प्रययौ सिंहनादेन नादयानो धरातलम् ||११||
तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा |
द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ||१२||
दुर्योधनादनु कृपस्ततः शारद्वतो ययौ |
एवमेष महाव्यूहः प्रययौ सागरोपमः ||१३||
रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो |
अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च ||१४||
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः |
युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ||१५||
पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् |
प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् ||१६||
ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् |
शृङ्गाटकं महाराज परव्यूहविनाशनम् ||१७||
शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः |
रथैरनेकसाहस्रैस्तथा हयपदातिभिः ||१८||
नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः |
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ||१९||
अथेतरे महेष्वासाः सहसैन्या नराधिपाः |
व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ||२०||
अभिमन्युस्ततः पश्चाद्विराटश्च महारथः |
द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः ||२१||
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः |
अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ||२२||
भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः |
क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् ||२३||
ततः शूराः समासाद्य समरे ते परस्परम् |
नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः ||२४||
मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् |
युद्धाय समवर्तन्त समाहूयेतरेतरम् ||२५||
ततः प्रववृते युद्धं घोररूपं भयावहम् |
तावकानां परेषां च निघ्नतामितरेतरम् ||२६||
नाराचा निशिताः सङ्ख्ये सम्पतन्ति स्म भारत |
व्यात्तानना भयकरा उरगा इव सङ्घशः ||२७||
निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः |
अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ||२८||
गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः |
पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः ||२९||
निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः ||२९||
आर्षभाणि च चर्माणि शतचन्द्राणि भारत |
अशोभन्त रणे राजन्पतमानानि सर्वशः ||३०||
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप |
अशोभेतां यथा दैत्यदेवसेने समुद्यते ||३१||
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ||३१||
रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे |
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ||३२||
दन्तिनां युध्यमानानां सङ्घर्षात्पावकोऽभवत् |
दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् ||३३||
प्रासैरभिहताः केचिद्गजयोधाः समन्ततः |
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ||३४||
पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् |
चित्ररूपधराः शूरा नखरप्रासयोधिनः ||३५||
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः |
शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ||३६||
ततः शान्तनवो भीष्मो रथघोषेण नादयन् |
अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन् ||३७||
पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् |
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ||३८||
ततः प्रववृते युद्धं तव तेषां च भारत |
नराश्वरथनागानां व्यतिषक्तं परस्परम् ||३९||
८४
सञ्जय उवाच||
भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः |
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ||१||
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् |
अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ||२||
स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जयान् |
पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ||३||
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह |
भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ||४||
स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि |
चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ||५||
विरथान्रथिनश्चक्रे पिता देवव्रतस्तव |
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ||६||
निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् |
अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् ||७||
न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते |
अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् ||८||
स हि भीष्मं समासाद्य ताडयामास संयुगे |
ततो निष्टानको घोरो भीष्मभीमसमागमे ||९||
बभूव सर्वसैन्यानां घोररूपो भयानकः |
तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ||१०||
ततो दुर्योधनो राजा सोदर्यैः परिवारितः |
भीष्मं जुगोप समरे वर्तमाने जनक्षये ||११||
भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः |
विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ||१२||
सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा ||१२||
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि |
हते तस्मिन्महाराज तव पुत्रे महारथे ||१३||
नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे ||१३||
आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः |
अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ||१४||
पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः |
अभ्यद्रवन्त सङ्ग्रामे योद्धुकामारिमर्दनाः ||१५||
महोदरस्तु समरे भीमं विव्याध पत्रिभिः |
नवभिर्वज्रसङ्काशैर्नमुचिं वृत्रहा यथा ||१६||
आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः |
नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः ||१७||
अपराजितो महाराज पराजिष्णुर्महारथः |
शरैर्बहुभिरानर्छद्भीमसेनं महाबलम् ||१८||
रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत् |
स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे ||१९||
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः |
शिरश्चिच्छेद समरे शरेण नतपर्वणा ||२०||
अपराजितस्य सुनसं तव पुत्रस्य संयुगे |
पराजितस्य भीमेन निपपात शिरो महीम् ||२१||
अथापरेण भल्लेन कुण्डधारं महारथम् |
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ||२२||
ततः पुनरमेयात्मा प्रसन्धाय शिलीमुखम् |
प्रेषयामास समरे पण्डितं प्रति भारत ||२३||
स शरः पण्डितं हत्वा विवेश धरणीतलम् |
यथा नरं निहत्याशु भुजगः कालचोदितः ||२४||
विशालाक्षशिरश्छित्त्वा पातयामास भूतले |
त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ||२५||
महोदरं महेष्वासं नाराचेन स्तनान्तरे |
विव्याध समरे राजन्स हतो न्यपतद्भुवि ||२६||
आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे |
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा ||२७||
बह्वाशिनं ततो भीमः शरेण नतपर्वणा |
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ||२८||
प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते |
मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ||२९||
ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः |
अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् ||३०||
एवमेते महेष्वासाः पुत्रास्तव विशां पते |
भ्रातॄन्संदृश्य निहतान्प्रास्मरंस्ते हि तद्वचः ||३१||
यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् |
तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ||३२||
लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप |
न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ||३३||
तथैव हि वधार्थाय पुत्राणां पाण्डवो बली |
नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ||३४||
ततो दुर्योधनो राजा भीष्ममासाद्य मारिष |
दुःखेन महताविष्टो विललापातिकर्शितः ||३५||
निहता भ्रातरः शूरा भीमसेनेन मे युधि |
यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ||३६||
भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते |
सोऽहं कापथमारूढः पश्य दैवमिदं मम ||३७||
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव |
दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् ||३८||
उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च |
गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ||३९||
समयश्च मया पूर्वं कृतो वः शत्रुकर्शन |
नाहं युधि विमोक्तव्यो नाप्याचार्यः कथञ्चन ||४०||
यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे |
हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते ||४१||
स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् |
योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ||४२||
न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः |
तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत ||४३||
८५
धृतराष्ट्र उवाच||
दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन सञ्जय |
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ||१||
अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय |
मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम् ||२||
यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत |
यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ||३||
सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः |
अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् ||४||
अन्येषां चैव वीराणां मध्यगास्तनया मम |
यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेयतः ||५||
न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत |
वार्यमाणो मया तात भीष्मेण विदुरेण च ||६||
गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया |
नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् ||७||
यद्भीमसेनः समरे पुत्रान्मम विचेतसः |
अहन्यहनि सङ्क्रुद्धो नयते यमसादनम् ||८||
सञ्जय उवाच||
इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् |
न बुद्धवानसि विभो प्रोच्यमानं हितं तदा ||९||
निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च |
सुहृदां हितकामानां ब्रुवतां तत्तदेव च ||१०||
न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् |
तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् ||११||
विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम् |
अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ||१२||
तदेतत्समतिक्रान्तं पूर्वमेव विशां पते |
तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत ||१३||
मध्याह्ने सुमहारौद्रः सङ्ग्रामः समपद्यत |
लोकक्षयकरो राजंस्तन्मे निगदतः शृणु ||१४||
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् |
संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया ||१५||
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः |
युक्तानीका महाराज भीष्ममेव समभ्ययुः ||१६||
अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे |
दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ||१७||
अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः |
भीमसेनश्च सङ्क्रुद्धस्तेऽभ्यधावन्त कौरवान् ||१८||
त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि |
तथैव कौरवे राजन्नवध्यन्त परे रणे ||१९||
द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह |
अभ्यद्रवत सङ्क्रुद्धः प्रेषयिष्यन्यमक्षयम् ||२०||
तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम् |
वध्यतां समरे राजन्भारद्वाजेन धन्विना ||२१||
द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे |
विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव ||२२||
कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे |
अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव ||२३||
तथैव कौरवेयाणां भीमसेनो महाबलः |
चकार कदनं घोरं क्रुद्धः काल इवापरः ||२४||
वध्यतां तत्र सैन्यानामन्योन्येन महारणे |
प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी ||२५||
स सङ्ग्रामो महाराज घोररूपोऽभवन्महान् |
कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः ||२६||
ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः |
गजानीकं समासाद्य प्रेषयामास मृत्यवे ||२७||
तत्र भारत भीमेन नाराचाभिहता गजाः |
पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः ||२८||
छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष |
क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे ||२९||
नकुलः सहदेवश्च हयानीकमभिद्रुतौ |
ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ||३०||
वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ||३०||
पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी |
निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ||३१||
हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ||३१||
अर्जुनेन हतैः सङ्ख्ये तथा भारत वाजिभिः |
प्रबभौ वसुधा घोरा तत्र तत्र विशां पते ||३२||
रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः |
हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ||३३||
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः |
अनुकर्षैः शुभै राजन्योक्त्रैश्चव्यसुरश्मिभिः ||३४||
सञ्छन्ना वसुधा भाति वसन्ते कुसुमैरिव ||३४||
एवमेष क्षयो वृत्तः पाण्डूनामपि भारत |
क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ||३५||
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि |
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ||३६||
८६
सञ्जय उवाच||
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये |
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ||१||
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा |
अभ्यद्रवत सङ्ग्रामे पाण्डवानामनीकिनीम् ||२||
ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् |
आरट्टानां महीजानां सिन्धुजानां च सर्वशः ||३||
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् |
ये चापरे तित्तिरजा जवना वातरंहसः ||४||
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः |
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ||५||
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपः ||५||
अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् |
सुतायां नागराजस्य जातः पार्थेन धीमता ||६||
ऐरावतेन सा दत्ता अनपत्या महात्मना |
पत्यौ हते सुपर्णेन कृपणा दीनचेतना ||७||
भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् |
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ||८||
स नागलोके संवृद्धो मात्रा च परिरक्षितः |
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ||९||
रूपवान्वीर्यसम्पन्नो गुणवान्सत्यविक्रमः |
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ||१०||
सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् |
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ||११||
इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो ||११||
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् |
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ||१२||
परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः |
प्रीतिमानभवत्पार्थो देवराजनिवेशने ||१३||
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप |
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ||१४||
युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो ||१४||
बाढमित्येवमुक्त्वा च युद्धकाल उपागतः |
कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप ||१५||
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः |
उत्पेतुः सहसा राजन्हंसा इव महोदधौ ||१६||
ते त्वदीयान्समासाद्य हयसङ्घान्महाजवान् |
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ||१७||
निपेतुः सहसा राजन्सुवेगाभिहता भुवि ||१७||
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् |
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ||१८||
तथैव च महाराज समेत्यान्योन्यमाहवे |
परस्परवधं घोरं चक्रुस्ते हयसादिनः ||१९||
तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम् |
उभयोरपि संशान्ता हयसङ्घाः समन्ततः ||२०||
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः |
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ||२१||
ततः क्षीणे हयानीके किञ्चिच्छेषे च भारत |
सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि ||२२||
वायुवेगसमस्पर्शा जवे वायुसमांस्तथा |
आरुह्य शीलसम्पन्नान्वयःस्थांस्तुरगोत्तमान् ||२३||
गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः |
षडेते बलसम्पन्ना निर्ययुर्महतो बलात् ||२४||
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः |
संनद्धा युद्धकुशला रौद्ररूपा महाबलाः ||२५||
तदनीकं महाबाहो भित्त्वा परमदुर्जयम् |
बलेन महता युक्ताः स्वर्गाय विजयैषिणः ||२६||
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ||२६||
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् |
अब्रवीत्समरे योधान्विचित्राभरणायुधान् ||२७||
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः |
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ||२८||
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः |
जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः ||२९||
तदनीकमनीकेन समरे वीक्ष्य पातितम् |
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ||३०||
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ||३०||
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् |
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ||३१||
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः |
स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः ||३२||
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः |
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ||३३||
इरावानथ सङ्क्रुद्धः सर्वांस्तान्निशितैः शरैः |
मोहयामास समरे विद्ध्वा परपुरञ्जयः ||३४||
प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः |
तैरेव ताडयामास सुबलस्यात्मजान्रणे ||३५||
निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् |
पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि ||३६||
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः |
भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् ||३७||
इरावानपि खड्गेन दर्शयन्पाणिलाघवम् |
अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः ||३८||
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः |
अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः ||३९||
भूमिष्ठमथ तं सङ्ख्ये सम्प्रदृश्य ततः पुनः |
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ||४०||
अथाभ्याशगतानां स खड्गेनामित्रकर्शनः |
उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत ||४१||
आयुधानि च सर्वेषां बाहूनपि च भूषितान् |
अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः ||४२||
वृषकस्तु महाराज बहुधा परिविक्षतः |
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ||४३||
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः |
अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम् ||४४||
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिंदमम् |
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ||४५||
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली |
मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् ||४६||
त्वं च कामगमस्तात मायास्त्रे च विशारदः |
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ||४७||
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः |
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ||४८||
स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः |
वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः ||४९||
निहन्तुकामः समरे इरावन्तं महाबलम् ||४९||
इरावानपि सङ्क्रुद्धस्त्वरमाणः पराक्रमी |
हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् ||५०||
तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः |
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ||५१||
तेन मायामयाः कॢप्ता हयास्तावन्त एव हि |
स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः ||५२||
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः |
अचिराद्गमयामासुः प्रेतलोकं परस्परम् ||५३||
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ |
सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ ||५४||
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् |
इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः ||५५||
समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः |
चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् ||५६||
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् |
इरावन्तमभिक्रुद्धं मोहयन्निव मायया ||५७||
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् |
विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः ||५८||
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ||५८||
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः |
सम्बभूव महाराज समवाप च यौवनम् ||५९||
माया हि सहजा तेषां वयो रूपं च कामजम् |
एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत ||६०||
इरावानपि सङ्क्रुद्धो राक्षसं तं महाबलम् |
परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः ||६१||
स तेन बलिना वीरश्छिद्यमान इव द्रुमः |
राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् ||६२||
परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु |
ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे ||६३||
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् |
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ||६४||
सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ||६४||
तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः |
इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे ||६५||
तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः |
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ||६६||
स नागैर्बहुशो राजन्सर्वतः संवृतो रणे |
दधार सुमहद्रूपमनन्त इव भोगवान् ||६७||
ततो बहुविधैर्नागैश्छादयामास राक्षसम् ||६७||
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः |
सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् ||६८||
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके |
विमोहितमिरावन्तमसिना राक्षसोऽवधीत् ||६९||
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् |
इरावतः शिरो रक्षः पातयामास भूतले ||७०||
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे |
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ||७१||
तस्मिन्महति सङ्ग्रामे तादृशे भैरवे पुनः |
महान्व्यतिकरो घोरः सेनयोः समपद्यत ||७२||
हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः |
रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ||७३||
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे |
रथिभिर्निहता राजंस्तव तेषां च सङ्कुले ||७४||
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् |
जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ||७५||
तथैव तावका राजन्सृञ्जयाश्च महाबलाः |
जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् ||७६||
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः |
बाहुभिः समयुध्यन्त समवेताः परस्परम् ||७७||
तथा मर्मातिगैर्भीष्मो निजघान महारथान् |
कम्पयन्समरे सेनां पाण्डवानां महाबलः ||७८||
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः |
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ||७९||
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् |
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ||८०||
तथैव भीमसेनस्य पार्षतस्य च भारत |
रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः ||८१||
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् |
एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् ||८२||
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः |
इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ||८३||
वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ |
उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ||८४||
आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः |
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ||८५||
न स्म पश्यामहे कञ्चिद्यः प्राणान्परिरक्षति |
सङ्ग्रामे दैत्यसङ्काशे तस्मिन्योद्धा नराधिप ||८६||
८७
धृतराष्ट्र उवाच||
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः |
सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ||१||
सञ्जय उवाच||
इरावन्तं तु निहतं सङ्ग्रामे वीक्ष्य राक्षसः |
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ||२||
नदतस्तस्य शब्देन पृथिवी सागराम्बरा |
सपर्वतवना राजंश्चचाल सुभृशं तदा ||३||
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ||३||
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत |
ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ||४||
सर्व एव च राजेन्द्र तावका दीनचेतसः |
सर्पवत्समवेष्टन्त सिंहभीता गजा इव ||५||
निनदत्सुमहानादं निर्घातमिव राक्षसः |
ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ||६||
नानाप्रहरणैर्घोरैर्वृतो राक्षसपुङ्गवैः |
आजगाम सुसङ्क्रुद्धः कालान्तकयमोपमः ||७||
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् |
स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ||८||
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् |
प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ||९||
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः |
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ||१०||
तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम् |
पुत्रं तव महाराज चुकोप स निशाचरः ||११||
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |
राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ||१२||
गजानीकं च सम्प्रेक्ष्य मेघवृन्दमिवोद्यतम् |
अभ्यधावन्त सङ्क्रुद्धा राक्षसाः शस्त्रपाणयः ||१३||
नदन्तो विविधान्नादान्मेघा इव सविद्युतः |
शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ||१४||
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः |
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ||१५||
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् |
अपश्याम महाराज वध्यमानान्निशाचरैः ||१६||
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु |
दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ||१७||
अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः |
मुमोच निशितान्बाणान्राक्षसेषु महाबलः ||१८||
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् |
सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ||१९||
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् |
शरैश्चतुर्भिश्चतुरो निजघान महारथः ||२०||
ततः पुनरमेयात्मा शरवर्षं दुरासदम् |
मुमोच भरतश्रेष्ठ निशाचरबलं प्रति ||२१||
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष |
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ||२२||
विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् |
अभिदुद्राव वेगेन दुर्योधनमरिंदमम् ||२३||
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् |
न विव्यथे महाराज पुत्रो दुर्योधनस्तव ||२४||
अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः |
ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ||२५||
यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ||२५||
यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला |
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ||२६||
तव च प्रियकामेन आश्रमस्था दुरात्मना |
सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम ||२७||
एतेषामवमानानामन्येषां च कुलाधम |
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ||२८||
एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् |
संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ||२९||
शरवर्षेण महता दुर्योधनमवाकिरत् |
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ||३०||
८८
सञ्जय उवाच||
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि |
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ||१||
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः |
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ||२||
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् |
तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ||३||
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ||३||
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः |
दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ||४||
जग्राह च महाशक्तिं गिरीणामपि दारणीम् ||४||
सम्प्रदीप्तां महोल्काभामशनीं मघवानिव |
समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव ||५||
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् |
कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत् ||६||
स नागप्रवरेणाजौ बलिना शीघ्रगामिना |
यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत ||७||
रथं च वारयामास कुञ्जरेण सुतस्य ते ||७||
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता |
घटोत्कचो महाराज क्रोधसंरक्तलोचनः ||८||
उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे ||८||
स तयाभिहतो राजंस्तेन बाहुविमुक्तया |
सञ्जातरुधिरोत्पीडः पपात च ममार च ||९||
पतत्यथ गजे चापि वङ्गानामीश्वरो बली |
जवेन समभिद्रुत्य जगाम धरणीतलम् ||१०||
दुर्योधनोऽपि सम्प्रेक्ष्य पातितं वरवारणम् |
प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ||११||
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् |
प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ||१२||
सन्धाय च शितं बाणं कालाग्निसमतेजसम् |
मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे ||१३||
तमापतन्तं सम्प्रेक्ष्य बाणमिन्द्राशनिप्रभम् |
लाघवाद्वञ्चयामास महाकायो घटोत्कचः ||१४||
भूय एव ननादोग्रः क्रोधसंरक्तलोचनः |
त्रासयन्सर्वभूतानि युगान्ते जलदो यथा ||१५||
तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः |
आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽब्रवीत् ||१६||
यथैष निनदो घोरः श्रूयते राक्षसेरितः |
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह ||१७||
नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केनचित् |
तत्र गच्छत भद्रं वो राजानं परिरक्षत ||१८||
अभिद्रुतं महाभागं राक्षसेन दुरात्मना |
एतद्धि परमं कृत्यं सर्वेषां नः परन्तपाः ||१९||
पितामहवचः श्रुत्वा त्वरमाणा महारथाः |
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ||२०||
द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः |
कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः ||२१||
अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः |
रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ||२२||
अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ||२२||
तदनीकमनाधृष्यं पालितं लोकसत्तमैः |
आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ||२३||
नाकम्पत महाबाहुर्मैनाक इव पर्वतः ||२३||
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः |
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ||२४||
ततः समभवद्युद्धं तुमुलं लोमहर्षणम् |
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ||२५||
धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् |
अश्रूयत महाराज वंशानां दह्यतामिव ||२६||
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् |
शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् ||२७||
वीरबाहुविसृष्टानां तोमराणां विशां पते |
रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव ||२८||
ततः परमसङ्क्रुद्धो विस्फार्य सुमहद्धनुः |
राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् ||२९||
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् |
सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् ||३०||
बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे |
कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ||३१||
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च |
जत्रुदेशे समासाद्य विकर्णं समताडयत् ||३२||
न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः ||३२||
ततः पुनरमेयात्मा नाराचान्दश पञ्च च |
भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ ||३३||
ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् ||३३||
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् |
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ||३४||
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् |
उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ||३५||
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः |
जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ||३६||
पूर्णायतविसृष्टेन पीतेन निशितेन च |
निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ||३७||
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ||३७||
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः |
चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् ||३८||
बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ||३८||
८९
सञ्जय उवाच||
विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः |
जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ||१||
तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम् |
अभ्यधावज्जिघांसन्तस्तावका युद्धदुर्मदाः ||२||
तालमात्राणि चापानि विकर्षन्तो महाबलाः |
तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ||३||
अथैनं शरवर्षेण समन्तात्पर्यवारयन् |
पर्वतं वारिधाराभिः शरदीव बलाहकाः ||४||
स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः |
उत्पपात तदाकाशं समन्ताद्वैनतेयवत् ||५||
व्यनदत्सुमहानादं जीमूत इव शारदः |
दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः ||६||
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः |
उवाच भरतश्रेष्ठो भीमसेनमिदं वचः ||७||
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः |
यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् ||८||
अतिभारं च पश्यामि तत्र तात समाहितम् ||८||
पितामहश्च सङ्क्रुद्धः पाञ्चालान्हन्तुमुद्यतः |
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ||९||
एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् |
गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् ||१०||
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः |
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ||११||
वेगेन महता राजन्पर्वकाले यथोदधिः ||११||
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः |
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ||१२||
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः |
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ||१३||
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः |
महता रथवंशेन हैडिम्बं पर्यवारयन् ||१४||
कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः |
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ||१५||
सिंहनादेन महता नेमिघोषेण चैव हि |
खुरशब्दनिनादैश्च कम्पयन्तो वसुन्धराम् ||१६||
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् |
भीमसेनभयोद्विग्नं विवर्णवदनं तथा ||१७||
परिवृत्तं महाराज परित्यज्य घटोत्कचम् ||१७||
ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् |
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ||१८||
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः |
अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ||१९||
व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् ||१९||
हया गजैः समाजग्मुः पादाता रथिभिः सह |
अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः ||२०||
सहसा चाभवत्तीव्रं संनिपातान्महद्रजः |
रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् ||२१||
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् |
नैव स्वे न परे राजन्समजानन्परस्परम् ||२२||
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा |
निर्मर्यादे तथा भूते वैशसे लोमहर्षणे ||२३||
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् |
सुमहानभवच्छब्दो वंशानामिव दह्यताम् ||२४||
गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी |
प्रावर्तत नदी तत्र केशशैवलशाद्वला ||२५||
नराणां चैव कायेभ्यः शिरसां पततां रणे |
शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव ||२६||
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः |
अश्वैः सम्भिन्नदेहैश्च सङ्कीर्णाभूद्वसुन्धरा ||२७||
नानाविधानि शस्त्राणि विसृजन्तो महारथाः |
अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ||२८||
हया हयान्समासाद्य प्रेषिता हयसादिभिः |
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ||२९||
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् |
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ||३०||
प्रेषिताश्च महामात्रैर्वारणाः परवारणाः |
अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे ||३१||
ते जातरुधिरापीडाः पताकाभिरलङ्कृताः |
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ||३२||
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः |
विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव ||३३||
केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे |
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ||३४||
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः |
मुमुचुः शोणितं भूरि धातूनिव महीधराः ||३५||
नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः |
हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः ||३६||
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः |
रथान्हयान्पदातांश्च ममृदुः शतशो रणे ||३७||
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः |
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ||३८||
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः |
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ||३९||
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् |
प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ||४०||
तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे |
धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् ||४१||
९०
सञ्जय उवाच||
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् |
अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ||१||
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् |
महता शरवर्षेण पाण्डवं समवाकिरत् ||२||
अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवाहिनम् |
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ||३||
तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः |
संदधे निशितं बाणं गिरीणामपि दारणम् ||४||
तेनोरसि महाबाहुर्भीमसेनमताडयत् ||४||
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् |
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ||५||
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः |
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ||६||
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः |
समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः ||७||
सम्प्रेक्ष्य तानापततः सङ्क्रुद्धाञ्जातसम्भ्रमान् |
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ||८||
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत |
संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ||९||
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः |
भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ||१०||
नानाविधानि शस्त्राणि विसृजन्तो जये रताः |
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ||११||
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः |
तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ||१२||
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः |
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ||१३||
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ||१३||
ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे |
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ||१४||
एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् |
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ||१५||
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् |
पर्वतं वारिधाराभिः शरदीव बलाहकः ||१६||
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः |
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ||१७||
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत |
प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् ||१८||
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् |
द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ ||१९||
तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ |
भीमसेनो महाबाहुर्गदामादाय सत्वरः ||२०||
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः |
समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ||२१||
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ||२२||
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ |
अभ्यधावत वेगेन त्वरमाणो वृकोदरः ||२३||
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् |
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ||२४||
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया |
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ||२५||
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ||२५||
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् |
अभिमन्युप्रभृतयः पाण्डवानां महारथाः ||२६||
अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ||२६||
अनूपाधिपतिः शूरो भीमस्य दयितः सखा |
नीलो नीलाम्बुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्ययात् ||२७||
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ||२७||
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा |
यथा शक्रो महाराज पुरा विव्याध दानवम् ||२८||
विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम् |
येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ||२९||
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा |
सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ||३०||
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् |
दध्रे नीलविनाशाय मतिं मतिमतां वरः ||३१||
ततः सन्धाय विमलान्भल्लान्कर्मारपायितान् |
जघान चतुरो वाहान्पातयामास च ध्वजम् ||३२||
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि |
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ||३३||
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् |
घटोत्कचोऽपि सङ्क्रुद्धो भ्रातृभिः परिवारितः ||३४||
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् |
तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ||३५||
तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम् |
अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ||३६||
निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् |
योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ||३७||
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः |
अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ||३८||
प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् |
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ||३९||
ततस्ते तावकाः सर्वे मायया विमुखीकृताः |
अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ||४०||
विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ||४०||
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च |
प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ||४१||
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः |
हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ||४२||
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति |
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ||४३||
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे |
घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ||४४||
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ||४४||
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः |
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ||४५||
शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ||४५||
एवं तव बलं सर्वं हैडिम्बेन दुरात्मना |
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ||४६||
९१
सञ्जय उवाच||
तस्मिन्महति सङ्क्रन्दे राजा दुर्योधनस्तदा |
गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च ||१||
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे |
घटोत्कचस्य विजयमात्मनश्च पराजयम् ||२||
कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः |
अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ||३||
भवन्तं समुपाश्रित्य वासुदेवं यथा परैः |
पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ||४||
एकादश समाख्याता अक्षौहिण्यश्च या मम |
निदेशे तव तिष्ठन्ति मया सार्धं परन्तप ||५||
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः |
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ||६||
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः |
तदिच्छामि महाभाग त्वत्प्रसादात्परन्तप ||७||
राक्षसापसदं हन्तुं स्वयमेव पितामह |
त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ||८||
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम |
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ||९||
शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव |
यथा त्वया महाराज वर्तितव्यं परन्तप ||१०||
आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिंदम |
धर्मराजेन सङ्ग्रामस्त्वया कार्यः सदानघ ||११||
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः |
राजधर्मं पुरस्कृत्य राजा राजानमृच्छति ||१२||
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः |
शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः ||१३||
तव च भ्रातरः शूरा दुःशासनपुरोगमाः |
त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् ||१४||
तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् |
अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः ||१५||
भगदत्तो महीपालः पुरंदरसमो युधि ||१५||
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् |
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ||१६||
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् |
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ||१७||
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ||१७||
तव दिव्यानि चास्त्राणि विक्रमश्च परन्तप |
समागमश्च बहुभिः पुराभूदसुरैः सह ||१८||
त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे |
स्वबलेन वृतो राजञ्जहि राक्षसपुङ्गवम् ||१९||
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः |
प्रययौ सिंहनादेन परानभिमुखो द्रुतम् ||२०||
तमाद्रवन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम् |
अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः ||२१||
भिमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः |
द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष ||२२||
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा |
सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ||२३||
ततः समभवद्युद्धं घोररूपं भयानकम् |
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ||२४||
प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः |
ते निपेतुर्महाराज नागेषु च रथेषु च ||२५||
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः |
परस्परं समासाद्य संनिपेतुरभीतवत् ||२६||
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे |
बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ||२७||
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः |
चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् ||२८||
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः |
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ||२९||
रथिनश्च तथा राजन्कर्णिनालीकसायकैः |
निहत्य समरे वीरान्सिंहनादान्विनेदिरे ||३०||
तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे |
भगदत्तो महेष्वासो भीमसेनमथाद्रवत् ||३१||
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् |
पर्वतेन यथा तोयं स्रवमाणेन सर्वतः ||३२||
किरञ्शरसहस्राणि सुप्रतीकशिरोगतः |
ऐरावतस्थो मघवान्वारिधारा इवानघ ||३३||
स भीमं शरधाराभिस्ताडयामास पार्थिवः |
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ||३४||
भीमसेनस्तु सङ्क्रुद्धः पादरक्षान्परःशतान् |
निजघान महेष्वासः सङ्क्रुद्धः शरवृष्टिभिः ||३५||
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् |
चोदयामास नागेन्द्रं भीमसेनरथं प्रति ||३६||
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा |
अभ्यधावत वेगेन भीमसेनमरिंदमम् ||३७||
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथाः |
अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ||३८||
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः |
दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ||३९||
चेदिपश्चित्रकेतुश्च सङ्क्रुद्धाः सर्व एव ते ||३९||
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः |
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ||४०||
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः |
सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ||४१||
दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् |
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ||४२||
तमापतन्तं समरे गजं गजपतिः स च |
दधार सुप्रतीकोऽपि वेलेव मकरालयम् ||४३||
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः |
साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् ||४४||
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश |
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ||४५||
तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् |
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः ||४६||
स गाढविद्धो व्यथितो नागो भरतसत्तम |
उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः ||४७||
प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् |
स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ||४८||
तस्मिन्पराजिते नागे पाण्डवानां महारथाः |
सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे ||४९||
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् |
किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च ||५०||
तेषामापततां राजन्सङ्क्रुद्धानाममर्षिणाम् |
श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः ||५१||
भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ||५१||
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि |
तस्मिन्क्षणे समभवत्संवर्तक इवानलः ||५२||
रथसङ्घांस्तथा नागान्हयांश्च सह सादिभिः |
पादातांश्च सुसङ्क्रुद्धः शतशोऽथ सहस्रशः ||५३||
अमृद्नात्समरे राजन्सम्प्रधावंस्ततस्ततः ||५३||
तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत् |
सञ्चुकोच महाराज चर्मेवाग्नौ समाहितम् ||५४||
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता |
घटोत्कचोऽथ सङ्क्रुद्धो भगदत्तमुपाद्रवत् ||५५||
विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः |
रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ||५६||
जग्राह विपुलं शूलं गिरीणामपि दारणम् |
नागं जिघांसुः सहसा चिक्षेप च महाबलः ||५७||
सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम् ||५७||
तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे |
चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः ||५८||
चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् ||५८||
निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम् |
महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ||५९||
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः |
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् ||६०||
चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् ||६०||
तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीमिव |
उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ||६१||
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत |
पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ||६२||
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा |
दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ||६३||
पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः |
साधु साध्विति नादेन पृथिवीमनुनादयन् ||६४||
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् |
नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ||६५||
स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम् |
अभिदुद्राव वेगेन पाण्डवानां महारथान् ||६६||
विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ||६६||
भीममेकेन विव्याध राक्षसं नवभिः शरैः |
अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा ||६७||
पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा |
बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे ||६८||
पपात सहसा तस्य सशरं धनुरुत्तमम् ||६८||
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् |
भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान् ||६९||
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः |
निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ||७०||
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् |
विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ||७१||
ततो भीमो महाराज विरथो रथिनां वरः |
गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् ||७२||
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् |
तावकानां भयं घोरं समपद्यत भारत ||७३||
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः |
आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः ||७४||
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परन्तपौ |
प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ ||७५||
दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान् |
त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् ||७६||
ततो दुर्योधनो राजा त्वरमाणो महारथः |
सेनामचोदयत्क्षिप्रं रथनागाश्वसङ्कुलाम् ||७७||
तामापतन्तीं सहसा कौरवाणां महाचमूम् |
अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ||७८||
भगदत्तोऽपि समरे तेन नागेन भारत |
विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ||७९||
तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष |
पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः ||८०||
भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ |
आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम् ||८१||
९२
सञ्जय उवाच||
पुत्रं तु निहतं श्रुत्वा इरावन्तं धनञ्जयः |
दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा ||१||
अब्रवीत्समरे राजन्वासुदेवमिदं वचः |
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ||२||
कुरूणां पाण्डवानां च क्षयं घोरं महामतिः |
ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् ||३||
अवध्या बहवो वीराः सङ्ग्रामे मधुसूदन |
निहताः कौरवैः सङ्ख्ये तथास्माभिश्च ते हताः ||४||
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् |
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः ||५||
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् |
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ||६||
दुर्योधनापराधेन शकुनेः सौबलस्य च |
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ||७||
इदानीं च विजानामि सुकृतं मधुसूदन |
कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् ||८||
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः ||८||
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले |
निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ||९||
अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे |
युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन ||१०||
सञ्चोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति |
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ||११||
नायं क्लीबयितुं कालो विद्यते माधव क्वचित् ||११||
एवमुक्तस्तु पार्थेन केशवः परवीरहा |
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ||१२||
अथ शब्दो महानासीत्तव सैन्यस्य भारत |
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ||१३||
अपराह्णे महाराज सङ्ग्रामः समपद्यत |
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ||१४||
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् |
परिवार्य रणे द्रोणं वसवो वासवं यथा ||१५||
ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः |
भगदत्तः सुशर्मा च धनञ्जयमुपाद्रवन् ||१६||
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ |
अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् ||१७||
शेषास्त्वन्ये महाराज शेषानेव महारथान् |
ततः प्रववृते युद्धं घोररूपं भयावहम् ||१८||
भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर |
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ||१९||
पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः |
प्रावृषीव महाराज जलदाः पर्वतं यथा ||२०||
स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते |
सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः ||२१||
व्यूढोरस्कं ततो भीमः पातयामास पार्थिव |
क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ||२२||
अपरेण तु भल्लेन पीतेन निशितेन च |
अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ||२३||
ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् |
स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष ||२४||
प्रेषिता भीमसेनेन शरास्ते दृढधन्वना |
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ||२५||
अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् |
दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् ||२६||
प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ |
वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव ||२७||
ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते |
तं कालमिव मन्यन्तो भीमसेनं महाबलम् ||२८||
द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव |
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ||२९||
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् |
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ||३०||
यथा हि गोवृषो वर्षं सन्धारयति खात्पतत् |
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ||३१||
अद्भुतं च महाराज तत्र चक्रे वृकोदरः |
यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्ययोधयत् ||३२||
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः |
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ||३३||
यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः |
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ||३४||
गाङ्गेयो भगदत्तश्च गौतमश्च महारथः |
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ||३५||
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे |
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ||३६||
अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् |
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ||३७||
विरथो वध्यमानः स सौभद्रेण यशस्विना |
अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः ||३८||
असिं चिक्षेप समरे सौभद्रस्य महात्मनः |
आरुरोह रथं चैव हार्दिक्यस्य महात्मनः ||३९||
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः |
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ||४०||
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा |
साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते ||४१||
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् |
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ||४२||
तत्राक्रन्दो महानासीत्तव तेषां च भारत |
निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् ||४३||
अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष |
नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ||४४||
बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः |
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ||४५||
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे |
व्याकुलीकृतसङ्कल्पा युयुधुस्तत्र मानवाः ||४६||
रणे चारूणि चापानि हेमपृष्ठानि भारत |
हतानामपविद्धानि कलापाश्च महाधनाः ||४७||
जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः |
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ||४८||
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् |
चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् ||४९||
सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् |
जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः ||५०||
अपकृत्ताश्च पतिता मुसलानि गुरूणि च |
परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष ||५१||
पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः |
कुथाश्च बहुधाकाराश्चामरव्यजनानि च ||५२||
नानाविधानि शस्त्राणि विसृज्य पतिता नराः |
जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ||५३||
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः |
गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ||५४||
तथैवाश्वनृनागानां शरीरैराबभौ तदा |
सञ्छन्ना वसुधा राजन्पर्वतैरिव सर्वतः ||५५||
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः |
निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः ||५६||
परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च |
शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी ||५७||
निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः |
गतासुभिरमित्रघ्न विबभौ संवृता मही ||५८||
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः |
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ||५९||
बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः |
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ||६०||
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः |
रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः ||६१||
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः |
विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः ||६२||
रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः |
वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः ||६३||
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि |
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ||६४||
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही |
नानारूपैरलङ्कारैः प्रमदेवाभ्यलङ्कृता ||६५||
दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः |
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ||६६||
विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः ||६६||
नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् |
वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ||६७||
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः |
विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा ||६८||
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च |
यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः ||६९||
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः |
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ||७०||
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः |
उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः ||७१||
विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः |
अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ||७२||
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः |
छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि ||७३||
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः |
कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ||७४||
अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः |
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धरा ||७५||
एवमेते महासेने मृदिते तत्र भारत |
परस्परं समासाद्य तव तेषां च संयुगे ||७६||
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत |
रात्रिः समभवद्घोरा नापश्याम ततो रणम् ||७७||
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः |
घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे ||७८||
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः |
न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा ||७९||
नवमयुद्धदिवसः
९३
सञ्जय उवाच||
ततो दुर्योधनो राजा शकुनिश्चापि सौबलः |
दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ||१||
समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् |
कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति ||२||
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः |
सूतपुत्रं समाभाष्य सौबलं च महाबलम् ||३||
द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे |
न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् ||४||
अवध्यमानास्ते चापि क्षपयन्ति बलं मम |
सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ||५||
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि |
सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ||६||
तमब्रवीन्महाराज सूतपुत्रो नराधिपम् |
मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव ||७||
भीष्मः शान्तनवस्तूर्णमपयातु महारणात् |
निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ||८||
अहं पार्थान्हनिष्यामि सनितान्सर्वसोमकैः |
पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ||९||
पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै |
अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ||१०||
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः |
स कथं पाण्डवान्युद्धे जेष्यते तात सङ्गतान् ||११||
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति |
अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत ||१२||
न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् |
मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ||१३||
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव |
अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ||१४||
अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः |
दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ||१५||
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः |
अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् ||१६||
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम |
ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् ||१७||
निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते |
सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः ||१८||
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् |
आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा ||१९||
अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः |
धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् ||२०||
भाण्डीपुष्पनिकाशेन तपनीयनिभेन च |
अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना ||२१||
अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः |
शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः ||२२||
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति |
अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः ||२३||
भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ||२३||
हयानन्ये समारुह्य गजानन्ये च भारत |
रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः ||२४||
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः |
प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ||२५||
सम्पूज्यमानः कुरुभिः कौरवाणां महारथः |
प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः ||२६||
अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः ||२६||
दक्षिणं दक्षिणः काले सम्भृत्य स्वभुजं तदा |
हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् ||२७||
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् |
शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ||२८||
संस्तूयमानः सूतैश्च मागधैश्च महायशाः |
पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः ||२९||
प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः |
परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः ||३०||
स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः |
शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः ||३१||
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः |
प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् ||३२||
सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् |
अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ||३३||
अभिवाद्य ततो भीष्मं निषण्णः परमासने |
काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते ||३४||
उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ||३४||
त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन |
उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ||३५||
किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् |
तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो ||३६||
जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् ||३६||
पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् |
पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत ||३७||
तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् |
सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ||३८||
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो |
मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ||३९||
अनुजानीहि समरे कर्णमाहवशोभिनम् |
स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ||४०||
एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव |
नोवाच वचनं किञ्चिद्भीष्मं भीमपराक्रमम् ||४१||
९४
सञ्जय उवाच||
वाक्षल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः |
दुःखेन महताविष्टो नोवाचाप्रियमण्वपि ||१||
स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः |
श्वसमानो यथा नागः प्रणुन्नो वै शलाकया ||२||
उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत |
सदेवासुरगन्धर्वं लोकं लोकविदां वरः ||३||
अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः ||३||
किं नु दुर्योधनैवं मां वाक्षल्यैरुपविध्यसि |
घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् ||४||
जुह्वानं समरे प्राणांस्तवैव हितकाम्यया ||४||
यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् |
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ||५||
यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा |
अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ||६||
द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो |
सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ||७||
यच्च नः सहितान्सर्वान्विराटनगरे तदा |
एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् ||८||
द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे |
कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् ||९||
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ||९||
निवातकवचान्युद्धे वासवेनापि दुर्जयान् |
जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ||१०||
को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे |
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन ||११||
मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान् |
तथा त्वमपि गान्धारे विपरीतानि पश्यसि ||१२||
स्वयं वैरं महत्कृत्वा पाण्डवैः सहसृञ्जयैः |
युध्यस्व तानद्य रणे पश्यामः पुरुषो भव ||१३||
अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान् |
निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ||१४||
तैर्वाहं निहतः सङ्ख्ये गमिष्ये यमसादनम् |
तान्वा निहत्य सङ्ग्रामे प्रीतिं दास्यामि वै तव ||१५||
पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि |
वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी ||१६||
तामहं न हनिष्यामि प्राणत्यागेऽपि भारत |
यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी ||१७||
सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् |
यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ||१८||
एवमुक्तस्तव सुतो निर्जगाम जनेश्वर |
अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् ||१९||
आगम्य तु ततो राजा विसृज्य च महाजनम् |
प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः ||२०||
प्रविष्टः स निशां तां च गमयामास पार्थिवः ||२०||
९५
सञ्जय उवाच||
प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः |
राज्ञः समाज्ञापयत सेनां योजयतेति ह ||१||
अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् ||१||
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु |
मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ||२||
निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् |
दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ||३||
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् |
दुर्योधनो महाराज दुःशासनमचोदयत् ||४||
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः |
द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय ||५||
इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् |
पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ||६||
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् |
स नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे ||७||
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् |
स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मया ||८||
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया |
राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ||९||
नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथञ्चन |
हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ||१०||
अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः |
उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी ||११||
कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत |
तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथञ्चन ||१२||
युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः |
सर्वानन्यान्हनिष्यामि सम्प्राप्तान्बाणगोचरान् ||१३||
एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् |
तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् ||१४||
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने |
मा वृकेणेव शार्दूलं घातयेम शिखण्डिना ||१५||
मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः |
यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ||१६||
एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा |
सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ||१७||
पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा |
कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ||१८||
तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः |
परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ||१९||
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् |
सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ||२०||
ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् |
सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ||२१||
गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ||२१||
स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः |
यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ||२२||
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव |
भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह ||२३||
भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम् |
अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ||२४||
शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ |
स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत ||२५||
ततः शान्तनवो भीष्मो निर्ययौ सेनया सह |
व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे ||२६||
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः |
शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः ||२७||
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत |
अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ||२८||
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष |
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ||२९||
अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ |
महत्या सेनया युक्ता वामं पक्षमपालयन् ||३०||
दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः |
व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ||३१||
अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः |
पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ||३२||
एवमेते तदा व्यूहं कृत्वा भारत तावकाः |
संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ||३३||
तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः |
नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ||३४||
अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ||३४||
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः |
स्थिताः सैन्येन महता परानीकविनाशनाः ||३५||
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः |
चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ||३६||
स्थिता रणे महाराज महत्या सेनया वृताः ||३६||
अभिमन्युर्महेष्वासो द्रुपदश्च महारथः |
केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः ||३७||
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् |
पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष ||३८||
तावकास्तु रणे यत्ताः सहसेना नराधिपाः |
अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप ||३९||
तथैव पाण्डवा राजन्भीमसेनपुरोगमाः |
भीष्मं युद्धपरिप्रेप्सुं सङ्ग्रामे विजिगीषवः ||४०||
क्ष्वेडाः किलिकिलाशब्दान्क्रकचान्गोविषाणिकाः |
भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् ||४१||
पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् ||४१||
भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः |
उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ||४२||
वयं प्रतिनदन्तस्तानभ्यगच्छाम सत्वराः |
सहसैवाभिसङ्क्रुद्धास्तदासीत्तुमुलं महत् ||४३||
ततोऽन्योन्यं प्रधावन्तः सम्प्रहारं प्रचक्रिरे |
ततः शब्देन महता प्रचकम्पे वसुन्धरा ||४४||
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः |
सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ||४५||
ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम् |
घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ||४६||
वेदयन्त्यो महाराज महद्वैशसमागतम् ||४६||
दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च |
रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च ||४७||
रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् |
सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते ||४८||
अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ |
रक्षसां पुरुषादानां नदतां भैरवान्रवान् ||४९||
सम्पतन्तः स्म दृश्यन्ते गोमायुबकवायसाः |
श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे ||५०||
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् |
निपेतुः सहसा भूमौ वेदयाना महद्भयम् ||५१||
महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः |
प्रकाशिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना ||५२||
नरेन्द्रनागाश्वसमाकुलाना; मभ्यायतीनामशिवे मुहूर्ते |
बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ||५३||
९६
सञ्जय उवाच||
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः |
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ||१||
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः ||१||
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् |
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् ||२||
निवारयितुमप्याजौ त्वदीयाः कुरुपुङ्गवाः ||२||
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः |
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ||३||
यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् |
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ||४||
रथिनं च रथात्तूर्णं हयपृष्ठाच्च सादिनम् |
गजारोहांश्च सगजान्पातयामास फाल्गुनिः ||५||
तस्य तत्कुर्वतः कर्म महत्सङ्ख्येऽद्भुतं नृपाः |
पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ||६||
तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत |
तूलराशिमिवाधूय मारुतः सर्वतोदिशम् ||७||
तेन विद्राव्यमाणानि तव सैन्यानि भारत |
त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः ||८||
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः |
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ||९||
न चैनं तावकाः सर्वे विषेहुररिघातिनम् |
प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ||१०||
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः |
अदृश्यत महेष्वासः सवज्र इव वज्रभृत् ||११||
हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः |
तोयदेषु यथा राजन्भ्राजमानाः शतह्वदाः ||१२||
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे |
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ||१३||
तथैव चरतस्तस्य सौभद्रस्य महात्मनः |
रथेन मेघघोषेण ददृशुर्नान्तरं जनाः ||१४||
मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् |
सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च ||१५||
मण्डलीकृतमेवास्य धनुः पश्याम मारिष |
सूर्यमण्डलसङ्काशं तपतस्तव वाहिनीम् ||१६||
तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः |
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ||१७||
तेनार्दिता महाराज भारती सा महाचमूः |
बभ्राम तत्र तत्रैव योषिन्मदवशादिव ||१८||
द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् |
नन्दयामास सुहृदो मयं जित्वेव वासवः ||१९||
तेन विद्राव्यमाणानि तव सैन्यानि संयुगे |
चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् ||२०||
तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष |
मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि ||२१||
दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत ||२१||
एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः |
चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ||२२||
तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् |
ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् ||२३||
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे |
वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः ||२४||
स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् |
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् ||२५||
नर्दमानो महानादं प्रावृषीव बलाहकः ||२५||
तस्य शब्देन महता पाण्डवानां महद्बलम् |
प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः ||२६||
बहवश्च नरा राजंस्तस्य नादेन भीषिताः |
प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ||२७||
कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः |
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ||२८||
ततः स राक्षसः क्रुद्धः सम्प्राप्यैवार्जुनिं रणे |
नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् ||२९||
सा वध्यमाना समरे पाण्डवानां महाचमूः |
प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम् ||३०||
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष |
रक्षसा घोररूपेण वध्यमानस्य संयुगे ||३१||
ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् |
व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् ||३२||
सा वध्यमाना च तथा पाण्डवानामनीकिनी |
रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ||३३||
तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा |
ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् ||३४||
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः |
राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् ||३५||
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः |
यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ||३६||
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः |
सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ||३७||
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः |
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ||३८||
विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः |
आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ||३९||
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे |
विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः ||४०||
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव |
अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ||४१||
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष |
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ||४२||
प्रतिलभ्य ततः सञ्ज्ञां क्रोधेन द्विगुणीकृतः |
चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ||४३||
एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव |
अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ||४४||
त्वरमाणश्च सङ्क्रुद्धो हयांस्तेषां महात्मनाम् |
जघान राक्षसः क्रुद्धः सारथींश्च महाबलः ||४५||
बिभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः |
शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ||४६||
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः |
अभिदुद्राव वेगेन हन्तुकामो निशाचरः ||४७||
तानर्दितान्रणे तेन राक्षसेन दुरात्मना |
दृष्ट्वार्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ||४८||
तयोः समभवद्युद्धं वृत्रवासवयोरिव |
ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः ||४९||
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् |
महाबलौ महाराज क्रोधसंरक्तलोचनौ ||५०||
परस्परमवेक्षेतां कालानलसमौ युधि ||५०||
तयोः समागमो घोरो बभूव कटुकोदयः |
यथा देवासुरे युद्धे शक्रशम्बरयोरिव ||५१||
९७
धृतराष्ट्र उवाच||
आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् |
अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ||१||
आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा |
तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे ||२||
धनञ्जयश्च किं चक्रे मम सैन्येषु सञ्जय |
भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः ||३||
नकुलः सहदेवो वा सात्यकिर्वा महारथः |
एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय ||४||
सञ्जय उवाच||
हन्त तेऽहं प्रवक्ष्यामि सङ्ग्रामं लोमहर्षणम् |
यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ||५||
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः |
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ||६||
तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः |
अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् ||७||
अलम्बुसस्तु समरे अभिमन्युं महारथम् |
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ||८||
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ||८||
सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः |
आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् ||९||
ततः समेयतुः सङ्ख्ये त्वरितौ नरराक्षसौ |
रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ ||१०||
मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः ||१०||
ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः |
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः ||११||
अलम्बुसोऽपि सङ्क्रुद्धः कार्ष्णिं नवभिराशुगैः |
हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् ||१२||
ततः शरसहस्रेण क्षिप्रकारी निशाचरः |
अर्जुनस्य सुतं सङ्ख्ये पीडयामास भारत ||१३||
अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् |
चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि ||१४||
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि |
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ||१५||
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ||१५||
स धारयञ्शरान्हेमपुङ्खानपि महाबलः |
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ||१६||
ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः |
महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः ||१७||
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः |
अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् ||१८||
तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः |
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ||१९||
सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः |
चक्रे विमुखमासाद्य मयं शक्र इवाहवे ||२०||
विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा |
प्रादुश्चक्रे महामायां तामसीं परतापनः ||२१||
ततस्ते तमसा सर्वे हृता ह्यासन्महीतले |
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ||२२||
अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः |
प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः ||२३||
ततः प्रकाशमभवज्जगत्सर्वं महीपते |
तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः ||२४||
सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः |
छादयामास समरे शरैः संनतपर्वभिः ||२५||
बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा |
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः ||२६||
हतमायं ततो रक्षो वध्यमानं च सायकैः |
रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात् ||२७||
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे |
आर्जुनिः समरे सैन्यं तावकं संममर्द ह ||२८||
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ||२८||
ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् |
महता रथवंशेन सौभद्रं पर्यवारयत् ||२९||
कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः |
एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ||३०||
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः |
सदृशो वासुदेवस्य विक्रमेण बलेन च ||३१||
उभयोः सदृशं कर्म स पितुर्मातुलस्य च |
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ||३२||
ततो धनञ्जयो राजन्विनिघ्नंस्तव सैनिकान् |
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ||३३||
तथैव समरे राजन्पिता देवव्रतस्तव |
आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ||३४||
ततः सरथनागाश्वाः पुत्रास्तव विशां पते |
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ||३५||
तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् |
रणाय महते युक्ता दंशिता भरतर्षभ ||३६||
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् |
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ||३७||
पत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः |
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ||३८||
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः |
हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः ||३९||
शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः |
गौतमान्तकरं घोरं समादत्त शिलीमुखम् ||४०||
तमापतन्तं वेगेन शक्राशनिसमद्युतिम् |
द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः ||४१||
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् |
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ||४२||
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत |
अथैनं छिन्नधन्वानं ताडयामास सायकैः ||४३||
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् |
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ||४४||
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः |
निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः ||४५||
प्रतिलभ्य ततः सञ्ज्ञां द्रोणपुत्रः प्रतापवान् |
वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् ||४६||
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् |
वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ||४७||
ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् |
चिच्छेद समरे द्रौणिः सिंहनादं ननाद च ||४८||
पुनश्चैनं शरैर्घोरैश्छादयामास भारत |
निदाघान्ते महाराज यथा मेघो दिवाकरम् ||४९||
सात्यकिश्च महाराज शरजालं निहत्य तत् |
द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा ||५०||
तापयामास च द्रौणिं शैनेयः परवीरहा |
विमुक्तो मेघजालेन यथैव तपनस्तथा ||५१||
शराणां च सहस्रेण पुनरेनं समुद्यतम् |
सात्यकिश्छादयामास ननाद च महाबलः ||५२||
दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् |
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ||५३||
विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे |
परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् ||५४||
सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् |
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ||५५||
तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः |
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ||५६||
ततो द्रोणश्च पार्थश्च समेयातां महामृधे |
यथा बुधश्च शुक्रश्च महाराज नभस्तले ||५७||
९८
धृतराष्ट्र उवाच||
कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः |
समीयतू रणे शूरौ तन्ममाचक्ष्व सञ्जय ||१||
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः |
आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ||२||
तावुभौ रथिनौ सङ्ख्ये दृप्तौ सिंहाविवोत्कटौ |
कथं समीयतुर्युद्धे भारद्वाजधनञ्जयौ ||३||
सञ्जय उवाच||
न द्रोणः समरे पार्थं जानीते प्रियमात्मनः |
क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ||४||
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् |
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ||५||
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः |
नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि ||६||
शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे |
प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः ||७||
ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः |
वारयामास राजेन्द्र नचिरादिव भारत ||८||
ततो दुर्योधनो राजा सुशर्माणमचोदयत् |
द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ||९||
त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् |
छादयामास समरे पार्थं बाणैरयोमुखैः ||१०||
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे |
हंसा इव महाराज शरत्काले नभस्तले ||११||
ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो |
फलभारनतं यद्वत्स्वादुवृक्षं विहङ्गमाः ||१२||
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः |
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ||१३||
ते वध्यमानाः पार्थेन कालेनेव युगक्षये |
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ||१४||
मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ||१४||
शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः |
प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ||१५||
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् |
विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् ||१६||
यदेको वारयामास मारुतोऽभ्रगणानिव |
कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ||१७||
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत |
मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ||१८||
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् |
पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ||१९||
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् |
शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ||२०||
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे |
प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः ||२१||
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् |
निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ||२२||
ततो दुर्योधनो राजा कृपश्च रथिनां वरः |
अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः ||२३||
विन्दानुविन्दावावन्त्यौ बाह्लिकश्च सबाह्लिकः |
महता रथवंशेन पार्थस्यावारयन्दिशः ||२४||
तथैव भगदत्तश्च श्रुतायुश्च महाबलः |
गजानीकेन भीमस्य ताववारयतां दिशः ||२५||
भूरिश्रवाः शलश्चैव सौबलश्च विशां पते |
शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन् ||२६||
भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः |
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ||२७||
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः |
लेलिहन्सृक्किणी वीरो मृगराडिव कानने ||२८||
ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे |
अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् ||२९||
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः |
परिवव्रू रणे यत्ता भीमसेनं समन्ततः ||३०||
गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत |
मेघजालस्य महतो यथा मध्यगतो रविः ||३१||
व्यधमत्स गजानीकं गदया पाण्डवर्षभः |
महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ||३२||
ते वध्यमाना बलिना भीमसेनेन दन्तिनः |
आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ||३३||
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः |
फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ||३४||
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् |
विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् ||३५||
पातयामास समरे दण्डहस्त इवान्तकः ||३५||
शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः |
कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत ||३६||
एवं ते वध्यमानास्तु हतशेषा महागजाः |
प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं बलम् ||३७||
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ |
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ||३८||
९९
सञ्जय उवाच||
मध्याह्ने तु महाराज सङ्ग्रामः समपद्यत |
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ||१||
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् |
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ||२||
संममर्द च तत्सैन्यं पिता देवव्रतस्तव |
धान्यानामिव लूनानां प्रकरं गोगणा इव ||३||
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा |
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ||४||
धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः |
द्रुपदस्य च नाराचं प्रेषयामास भारत ||५||
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना |
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ||६||
शिखण्डी तं च विव्याध भरतानां पितामहम् |
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ||७||
धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् |
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||८||
द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः |
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ||९||
सोऽतिविद्धो महाराज भीष्मः सङ्ख्ये महात्मभिः |
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ||१०||
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः |
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ||११||
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः |
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ||१२||
ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः |
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ||१३||
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरहितेप्सया |
रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखन्रणे ||१४||
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः |
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ||१५||
तत्रासीत्सुमहद्युद्धं तव तेषां च सङ्कुलम् |
नराश्वरथनागानां यमराष्ट्रविवर्धनम् ||१६||
रथी रथिनमासाद्य प्राहिणोद्यमसादनम् |
तथेतरान्समासाद्य नरनागाश्वसादिनः ||१७||
अनयन्परलोकाय शरैः संनतपर्वभिः |
अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते ||१८||
रथाश्च रथिभिर्हीना हतसारथयस्तथा |
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ||१९||
मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे |
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ||२०||
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः |
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः ||२१||
देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि |
ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् ||२२||
सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते |
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ||२३||
दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः |
मृद्नन्तः स्वान्यनीकानि सम्पेतुः सर्वशब्दगाः ||२४||
वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष |
कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा ||२५||
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश |
नगमेघप्रतीकाशैर्जलदोदयनिस्वनैः ||२६||
तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते |
प्रधावन्तोऽन्वपश्याम तव तेषां च सङ्कुले ||२७||
नानादेशसमुत्थांश्च तुरगान्हेमभूषितान् |
वातायमानानद्राक्षं शतशोऽथ सहस्रशः ||२८||
अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः |
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ||२९||
गजो गजं समासाद्य द्रवमाणं महारणे |
ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा ||३०||
तथैव च रथान्राजन्संममर्द रणे गजः |
रथश्चैव समासाद्य पदातिं तुरगं तथा ||३१||
व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे |
एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् ||३२||
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये |
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ||३३||
अस्थिसञ्चयसङ्घाटा केशशैवलशाद्वला |
रथह्रदा शरावर्ता हयमीना दुरासदा ||३४||
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला |
कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा ||३५||
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी |
क्रव्यादसङ्घसङ्कीर्णा यमराष्ट्रविवर्धिनी ||३६||
तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः |
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे ||३७||
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् |
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ||३८||
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् |
दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः ||३९||
गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः |
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ||४०||
एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत |
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ||४१||
ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः |
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ||४२||
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत |
युध्यध्वमनहङ्काराः किं चिरं कुरुथेति च ||४३||
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह |
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ||४४||
यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः |
वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् ||४५||
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः |
रक्षन्ति समरे प्राणान्कौरवा वा विशां पते ||४६||
एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः |
दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ||४७||
१००
सञ्जय उवाच||
अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान् |
अनयत्प्रेतराजस्य भवनं सायकैः शितैः ||१||
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे |
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ||२||
तान्निवार्य शरौघेण शक्रसूनुर्महारथः |
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ||३||
ते वध्यमानाः पार्थेन कालेनेव युगक्षये |
व्यद्रवन्त रणे राजन्भये जाते महारथाः ||४||
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष |
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ||५||
अपरे तुद्यमानास्तु वाजिनागरथा रणात् |
त्वरया परया युक्ताः प्राद्रवन्त विशां पते ||६||
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे |
निरपेक्षा व्यधावन्त तेन तेन स्म भारत ||७||
वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा |
तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ||८||
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव |
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् ||९||
सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् |
त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते ||१०||
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् |
भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः ||११||
तथैव पण्डवा राजन्सर्वोद्योगेन दंशिताः |
प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः ||१२||
जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः |
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ||१३||
ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम् |
छादयामास समरे शरैः संनतपर्वभिः ||१४||
एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह |
अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ||१५||
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः |
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ||१६||
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः |
पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः ||१७||
भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम् |
विद्ध्वानदन्महानादं शार्दूल इव कानने ||१८||
आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः |
चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् ||१९||
समागतौ तौ तु रणे महामात्रौ व्यरोचताम् |
यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ||२०||
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः |
ननाद बलवन्नादं सौभद्रः परवीरहा ||२१||
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |
आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते ||२२||
द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः |
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ||२३||
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे |
अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ||२४||
भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् |
व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ||२५||
ससम्भ्रमो महाराज संशयं परमं गतः |
अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः ||२६||
आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः ||२६||
सात्यकिः कृतवर्माणं वारयित्वा महारथः |
शरैर्बहुविधै राजन्नाससाद पितामहम् ||२७||
स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः |
ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः ||२८||
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः |
हेमचित्रां महावेगां नागकन्योपमां शुभाम् ||२९||
तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम् |
ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः ||३०||
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा |
न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा ||३१||
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् |
वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ||३२||
वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे |
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ||३३||
तामापतन्तीं सहसा द्विधा चिच्छेद भारत |
क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले ||३४||
छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः |
आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः ||३५||
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज |
परिवव्रू रणे भीष्मं माधवत्राणकारणात् ||३६||
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |
पाण्डवानां कुरूणां च समरे विजयैषिणाम् ||३७||
१०१
सञ्जय उवाच||
दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् |
यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ||१||
दुर्योधनो महाराज दुःशासनमभाषत |
एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः ||२||
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ |
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ||३||
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः |
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ||४||
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् |
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः ||५||
स भवान्सर्वसैन्येन परिवार्य पितामहम् |
समरे दुष्करं कर्म कुर्वाणं परिरक्षतु ||६||
एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव |
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ||७||
ततः शतसहस्रेण हयानां सुबलात्मजः |
विमलप्रासहस्तानामृष्टितोमरधारिणाम् ||८||
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् |
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ||९||
नकुलं सहदेवं च धर्मराजं च पाण्डवम् |
न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः ||१०||
ततो दुर्योधनो राजा शूराणां हयसादिनाम् |
अयुतं प्रेषयामास पाण्डवानां निवारणे ||११||
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे |
खुराहता धरा राजंश्चकम्पे च ननाद च ||१२||
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा |
महावंशवनस्येव दह्यमानस्य पर्वते ||१३||
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः |
दिवाकरपथं प्राप्य छादयामास भास्करम् ||१४||
वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम् |
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ||१५||
हेषतां चैव शब्देन न प्राज्ञायत किञ्चन ||१५||
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ |
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ||१६||
उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः |
पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ||१७||
ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः |
न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम् ||१८||
ते निपेतुर्महाराज निहता दृढधन्विभिः |
नागैरिव महानागा यथा स्युर्गिरिगह्वरे ||१९||
तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः |
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ||२०||
अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ |
अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् ||२१||
ससादिनो हया राजंस्तत्र तत्र निषूदिताः |
पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः ||२२||
वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः |
यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः ||२३||
पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे |
दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ||२४||
ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम् |
अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः ||२५||
एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान् |
पश्यतां नो महाबाहो सेनां द्रावयते बली ||२६||
तं वारय महाबाहो वेलेव मकरालयम् |
त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ||२७||
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् |
प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः ||२८||
तदापतद्वै सहसा शल्यस्य सुमहद्बलम् |
महौघवेगं समरे वारयामास पाण्डवः ||२९||
मद्रराजं च समरे धर्मराजो महारथः |
दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ||३०||
नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः ||३०||
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः |
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ||३१||
माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् ||३१||
ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे |
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा ||३२||
अभ्यद्रवत सङ्ग्रामे युधिष्ठिरममित्रजित् ||३२||
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् |
अपरां दिशमास्थाय द्योतमाने दिवाकरे ||३३||
१०२
सञ्जय उवाच||
ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः |
आजघान रणे पार्थान्सहसेनान्समन्ततः ||१||
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः |
नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः ||२||
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् |
धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः ||३||
तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः |
धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः ||४||
युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ||४||
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत |
एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ||५||
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः |
तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ||६||
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः |
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||७||
सङ्ग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ||७||
तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः |
पाण्डवानभ्यवर्तन्त विविधायुधपाणयः ||८||
तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ||८||
स समन्तात्परिवृतो रथौघैरपराजितः |
गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ||९||
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः |
शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ||१०||
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः |
कर्णिनालीकनाराचैश्छादयामास तद्बलम् ||११||
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः |
मुण्डतालवनानीव चकार स रथव्रजान् ||१२||
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे |
अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ||१३||
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |
निशम्य सर्वभूतानि समकम्पन्त भारत ||१४||
अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ |
नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ||१५||
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः |
अपश्याम महाराज ह्रियमाणान्रणाजिरे ||१६||
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश |
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ||१७||
अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ||१७||
सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् |
निमग्नाः परलोकाय सवाजिरथकुञ्जराः ||१८||
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः |
अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः ||१९||
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः |
शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते ||२०||
गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः |
अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ||२१||
बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः |
तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः ||२२||
चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी ||२२||
हतारोहा गजा राजन्हयाश्च हतसादिनः |
परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ||२३||
यतमानाश्च ते वीरा द्रवमाणान्महारथान् |
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ||२४||
महेन्द्रसमवीर्येण वध्यमाना महाचमूः |
अभज्यत महाराज न च द्वौ सह धावतः ||२५||
आविद्धरथनागाश्वं पतितध्वजकूबरम् |
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ||२६||
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा |
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ||२७||
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः |
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ||२८||
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम् |
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ||२९||
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः |
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ||३०||
अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्तव |
प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे ||३१||
यत्पुरा कथितं वीर त्वया राज्ञां समागमे |
विराटनगरे पार्थ सञ्जयस्य समीपतः ||३२||
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् |
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ||३३||
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम |
क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ ||३४||
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः |
अकाम इव बीभत्सुरिदं वचनमब्रवीत् ||३५||
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् |
दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ||३६||
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव |
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ||३७||
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः |
यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव ||३८||
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् |
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ||३९||
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः |
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ||४०||
क्षणेन स रथस्तस्य सहयः सहसारथिः |
शरवर्षेण महता न प्राज्ञायत किञ्चन ||४१||
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सात्वतः |
चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ||४२||
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् |
पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ||४३||
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः |
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ||४४||
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् |
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ||४५||
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः |
साधु पार्थ महाबाहो साधु कुन्तीसुतेति च ||४६||
समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः |
मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ||४७||
अदर्शयद्वासुदेवो हययाने परं बलम् |
मोघान्कुर्वञ्शरांस्तस्य मण्डलानि विदर्शयन् ||४८||
शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ |
गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ||४९||
वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम् |
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ||५०||
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः |
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ||५१||
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले |
नामृष्यत महाबाहुर्माधवः परवीरहा ||५२||
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष |
क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् ||५३||
अभिदुद्राव भीष्मं स भुजप्रहरणो बली ||५३||
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः |
दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः ||५४||
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः |
ग्रसन्निव च चेतांसि तावकानां महाहवे ||५५||
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे |
हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः ||५६||
क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः ||५६||
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः |
शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ||५७||
स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् |
अभिदुद्राव तेजस्वी विनदन्यादवर्षभः ||५८||
तमापतन्तं सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे |
असम्भ्रमं रणे भीष्मो विचकर्ष महद्धनुः ||५९||
उवाच चैनं गोविन्दमसम्भ्रान्तेन चेतसा ||५९||
एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते |
मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे ||६०||
त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ |
श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च ||६१||
सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे ||६१||
अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम् |
निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ||६२||
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः |
जगाम चैनमादाय वेगेन पुरुषोत्तमः ||६३||
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा |
निजघ्राह हृषीकेशं कथञ्चिद्दशमे पदे ||६४||
तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम् |
निःश्वसन्तं यथा नागमर्जुनः परवीरहा ||६५||
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि |
यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ||६६||
मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव |
ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् ||६७||
शपे माधव सख्येन सत्येन सुकृतेन च |
अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन ||६८||
अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम् |
तारापतिमिवापूर्णमन्तकाले यदृच्छया ||६९||
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः |
नकिञ्चिदुक्त्वा सक्रोध आरुरोह रथं पुनः ||७०||
तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः |
ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ ||७१||
प्राणांश्चादत्त योधानां पिता देवव्रतस्तव |
गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ||७२||
यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः |
तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ||७३||
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः |
निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ||७४||
मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ||७४||
ते वध्यमाना भीष्मेण कालेनेव युगक्षये |
वीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः ||७५||
त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव |
पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ||७६||
महारथं भारत दुष्प्रधर्षं; शरौघिणं प्रतपन्तं नरेन्द्रान् |
भीष्मं न शेकुः प्रतिवीक्षितुं ते; शरार्चिषं सूर्यमिवातपन्तम् ||७७||
विमृद्नतस्तस्य तु पाण्डुसेना; मस्तं जगामाथ सहस्ररश्मिः |
ततो बलानां श्रमकर्शितानां; मनोऽवहारं प्रति सम्बभूव ||७८||
दशमयुद्धदिवसः
१०३
सञ्जय उवाच||
युध्यतामेव तेषां तु भास्करेऽस्तमुपागते |
सन्ध्या समभवद्घोरा नापश्याम ततो रणम् ||१||
ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत |
वध्यमानं बलं चापि भीष्मेणामित्रघातिना ||२||
मुक्तशस्त्रं परावृत्तं पलायनपरायणम् |
भीष्मं च युधि संरब्धमनुयान्तं महारथान् ||३||
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् |
चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् ||४||
ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः |
तथैव तव सैन्यानामवहारो ह्यभूत्तदा ||५||
ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः |
न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे क्षतविक्षताः ||६||
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः |
नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः ||७||
भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः |
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ||८||
न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः |
ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ||९||
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह |
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ||१०||
आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः |
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ||११||
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप |
वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह ||१२||
पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम् |
गजं नलवनानीव विमृद्नन्तं बलं मम ||१३||
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् |
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ||१४||
यथा घोरो महानागस्तक्षको वै विषोल्बणः |
तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान् ||१५||
गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान् |
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ||१६||
वरुणः पाशभृद्वापि सगदो वा धनेश्वरः |
न तु भीष्मः सुसङ्क्रुद्धः शक्यो जेतुं महाहवे ||१७||
सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे |
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ||१८||
वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम् |
न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा ||१९||
यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् |
एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् ||२०||
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी |
भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः ||२१||
मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः |
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ||२२||
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् |
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ||२३||
यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव |
स्वधर्मस्याविरोधेन तदुदाहर केशव ||२४||
एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् |
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ||२५||
धर्मपुत्र विषादं त्वं मा कृथाः सत्यसङ्गर |
यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः ||२६||
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ |
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ ||२७||
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव |
त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे ||२८||
हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् |
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ||२९||
यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव |
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ||३०||
पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे |
विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् ||३१||
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः |
मदर्था भवदर्था ये ये मदीयास्तवैव ते ||३२||
तव भ्राता मम सखा सम्बन्धी शिष्य एव च |
मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते ||३३||
एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् |
एष नः समयस्तात तारयेम परस्परम् ||३४||
स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम् ||३४||
प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः |
घातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ ||३५||
परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः |
अनुज्ञातं तु पार्थेन मया कार्यं न संशयः ||३६||
अथ वा फल्गुनस्यैष भारः परिमितो रणे |
निहनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम् ||३७||
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः |
त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ||३८||
निहन्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ||३८||
विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः |
भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ||३९||
युधिष्ठिर उवाच||
एवमेतन्महाबाहो यथा वदसि माधव |
सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे ||४०||
नियतं समवाप्स्यामि सर्वमेव यथेप्सितम् |
यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः ||४१||
सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर |
त्वया नाथेन गोविन्द किमु भीष्मं महाहवे ||४२||
न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात् |
अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव ||४३||
समयस्तु कृतः कश्चिद्भीष्मेण मम माधव |
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन ||४४||
दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो ||४४||
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव |
तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ||४५||
भवता सहिताः सर्वे पृच्छामो मधुसूदन ||४५||
तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् |
रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् ||४६||
स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन |
यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ||४७||
स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः |
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ||४८||
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव |
पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् ||४९||
सञ्जय उवाच||
ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् |
रोचते मे महाबाहो सततं तव भाषितम् ||५०||
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् |
गम्यतां स वधोपायं प्रष्टुं सागरगासुतः ||५१||
वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः ||५१||
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् |
प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव ||५२||
स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् ||५२||
एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज |
जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ||५३||
विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ||५३||
प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे |
पूजयन्तो महाराज पाण्डवा भरतर्षभ ||५४||
प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः ||५४||
तानुवाच महाबाहुर्भीष्मः कुरुपितामहः |
स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ||५५||
स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ||५५||
किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् |
सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् ||५६||
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः |
उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः ||५७||
कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि |
प्रजानां सङ्क्षयो न स्यात्कथं तन्मे वदाभिभो ||५८||
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः |
भवन्तं समरे राजन्विषहेम कथं वयम् ||५९||
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह |
मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे ||६०||
नाददानं संदधानं विकर्षन्तं धनुर्न च |
पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् ||६१||
नराश्वरथनागानां हन्तारं परवीरहन् |
क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ ||६२||
वर्षता शरवर्षाणि महान्ति पुरुषोत्तम |
क्षयं नीता हि पृतना भवता महती मम ||६३||
यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम |
भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह ||६४||
ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज |
न कथञ्चन कौन्तेय मयि जीवति संयुगे ||६५||
युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः ||६५||
निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् |
क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ||६६||
अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ||६६||
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् |
हते मयि हतं सर्वं तस्मादेवं विधीयताम् ||६७||
युधिष्ठिर उवाच||
ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि |
भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् ||६८||
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा |
न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ||६९||
भीष्म उवाच||
सत्यमेतन्महाबाहो यथा वदसि पाण्डव |
नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः ||७०||
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः |
न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः ||७१||
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे |
द्रवमाणे च भीते च तवास्मीति च वादिनि ||७२||
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके |
अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम ||७३||
इमं च शृणु मे पार्थ सङ्कल्पं पूर्वचिन्तितम् |
अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथञ्चन ||७४||
य एष द्रौपदो राजंस्तव सैन्ये महारथः |
शिखण्डी समराकाङ्क्षी शूरश्च समितिञ्जयः ||७५||
यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः |
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ||७६||
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् |
मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः ||७७||
अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः |
न प्रहर्तुमभीप्सामि गृहीतेषुं कथञ्चन ||७८||
तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः |
शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ||७९||
न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् |
ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ||८०||
एष तस्मात्पुरोधाय कञ्चिदन्यं ममाग्रतः |
मां पातयतु बीभत्सुरेवं ते विजयो भवेत् ||८१||
एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम |
ततो जेष्यसि सङ्ग्रामे धार्तराष्ट्रान्समागतान् ||८२||
सञ्जय उवाच||
तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति |
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ||८३||
तथोक्तवति गाङ्गेये परलोकाय दीक्षिते |
अर्जुनो दुःखसन्तप्तः सव्रीडमिदमब्रवीत् ||८४||
गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता |
पितामहेन सङ्ग्रामे कथं योत्स्यामि माधव ||८५||
क्रीडता हि मया बाल्ये वासुदेव महामनाः |
पांसुरूषितगात्रेण महात्मा परुषीकृतः ||८६||
यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज |
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ||८७||
नाहं तातस्तव पितुस्तातोऽस्मि तव भारत |
इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ||८८||
कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना |
जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ||८९||
श्रीकृष्ण उवाच||
प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे |
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ||९०||
पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम् |
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ||९१||
दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते |
हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा ||९२||
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् |
त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् ||९३||
जहि भीष्मं महाबाहो शृणु चेदं वचो मम |
यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ||९४||
ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम् |
आततायिनमामन्त्र्य हन्याद्घातकमागतम् ||९५||
शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय |
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ||९६||
अर्जुन उवाच||
शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् |
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ||९७||
ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् |
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ||९८||
अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः |
शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु ||९९||
श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् |
कन्या ह्येषा पुरा जाता पुरुषः समपद्यत ||१००||
सञ्जय उवाच||
इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः |
शयनानि यथास्वानि भेजिरे पुरुषर्षभाः ||१०१||
१०४
धृतराष्ट्र उवाच||
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे |
पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व सञ्जय ||१||
सञ्जय उवाच||
ततः प्रभाते विमले सूर्यस्योदयनं प्रति |
वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ||२||
ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः |
शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ||३||
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् |
शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते ||४||
चक्ररक्षौ ततस्तस्य भीमसेनधनञ्जयौ |
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ||५||
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः |
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ||६||
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः |
प्रययौ सिंहनादेन नादयन्भरतर्षभ ||७||
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः |
द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् ||८||
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् |
जघनं पालयामास पाण्डुसैन्यस्य भारत ||९||
एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् |
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः ||१०||
तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् |
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ||११||
पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः |
ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः ||१२||
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः |
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ||१३||
काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः |
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ||१४||
तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः |
जघनं पालयामासुस्तव सैन्यस्य भारत ||१५||
दिवसे दिवसे प्राप्ते भीष्मः शान्तनवो युधि |
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ||१६||
ततः प्रववृते युद्धं तव तेषां च भारत |
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ||१७||
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् |
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ||१८||
तत्र भारत भीमेन पीडितास्तावकाः शरैः |
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ||१९||
नकुलः सहदेवश्च सात्यकिश्च महारथः |
तव सैन्यं समासाद्य पीडयामासुरोजसा ||२०||
ते वध्यमानाः समरे तावका भरतर्षभ |
नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ||२१||
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः |
सम्प्राद्रवद्दिशो राजन्काल्यमानं महारथैः ||२२||
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ |
वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः ||२३||
धृतराष्ट्र उवाच||
पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी |
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ||२४||
कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परन्तपः |
विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व सञ्जय ||२५||
सञ्जय उवाच||
आचक्षे ते महाराज यदकार्षीत्पितामहः |
पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः ||२६||
प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज |
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ||२७||
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् |
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ||२८||
स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जयान् |
अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ||२९||
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् |
आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः ||३०||
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ||३०||
निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु |
रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः ||३१||
सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् |
गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् ||३२||
तमेकं समरे भीष्मं त्वरमाणं महारथम् |
पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः ||३३||
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्शरान् |
दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः ||३४||
मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत |
सङ्ग्रामे युध्यमानस्य शक्रचापनिभं महत् ||३५||
तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते |
विस्मयं परमं प्राप्ताः पितामहमपूजयन् ||३६||
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव |
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ||३७||
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ||३७||
दशमेऽहनि सम्प्राप्ते रथानीकं शिखण्डिनः |
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ||३८||
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे |
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ||३९||
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् |
अनिच्छन्नपि सङ्क्रुद्धः प्रहसन्निदमब्रवीत् ||४०||
काममभ्यस वा मा वा न त्वां योत्स्ये कथञ्चन |
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ||४१||
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः |
उवाच भीष्मं समरे सृक्किणी परिलेलिहन् ||४२||
जानामि त्वां महाबाहो क्षत्रियाणां क्षयङ्करम् |
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ||४३||
दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः |
जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ||४४||
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम |
अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम ||४५||
ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः |
एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर ||४६||
काममभ्यस वा मा वा न मे जीवन्विमोक्ष्यसे |
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय ||४७||
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः |
अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः ||४८||
तस्य तद्वचनं श्रुत्वा सव्यसाची परन्तपः |
कालोऽयमिति सञ्चिन्त्य शिखण्डिनमचोदयत् ||४९||
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः |
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ||५०||
न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः |
तस्मादद्य महाबाहो वीर भीष्ममभिद्रव ||५१||
अहत्वा समरे भीष्मं यदि यास्यसि मारिष |
अवहास्योऽस्य लोकस्य भविष्यसि मया सह ||५२||
नावहास्या यथा वीर भवेम परमाहवे |
तथा कुरु रणे यत्नं साधयस्व पितामहम् ||५३||
अहं ते रक्षणं युद्धे करिष्यामि परन्तप |
वारयन्रथिनः सर्वान्साधयस्व पितामहम् ||५४||
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् |
चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् ||५५||
विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् |
भगदत्तं तथा शूरं मागधं च महारथम् ||५६||
सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम् |
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ||५७||
अहमावारयिष्यामि वेलेव मकरालयम् ||५७||
कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः |
निवारयिष्यामि रणे साधयस्व पितामहम् ||५८||
१०५
धृतराष्ट्र उवाच||
कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् |
पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ||१||
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम् |
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ||२||
कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि |
अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः ||३||
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् |
कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः ||४||
सञ्जय उवाच||
नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत् |
युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ ||५||
निघ्नतः समरे शत्रूञ्शरैः संनतपर्वभिः ||५||
अनेकशतसाहस्रास्तावकानां महारथाः |
रथदन्तिगणा राजन्हयाश्चैव सुसज्जिताः ||६||
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ||६||
यथाप्रतिज्ञं कौरव्य स चापि समितिञ्जयः |
पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ||७||
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः |
पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन् ||८||
दशमेऽहनि सम्प्राप्ते तताप रिपुवाहिनीम् |
कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ||९||
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज |
अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् ||१०||
अथोपायान्महाराज सव्यसाची परन्तपः |
त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ||११||
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः |
शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ||१२||
तस्य शब्देन वित्रस्तास्तावका भरतर्षभ |
सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ||१३||
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् |
दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ||१४||
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः |
दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम् ||१५||
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः |
पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ||१६||
यथा पशुगणान्पालः सङ्कालयति कानने |
तथेदं मामकं सैन्यं काल्यते शत्रुतापन ||१७||
धनञ्जयशरैर्भग्नं द्रवमाणमितस्ततः |
भीमो ह्येष दुराधर्षो विद्रावयति मे बलम् ||१८||
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ |
अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम ||१९||
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः |
व्यद्रावयेतां सहसा सैन्यं मम महाबलौ ||२०||
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः |
नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ||२१||
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम |
पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव ||२२||
एवमुक्तो महाराज पिता देवव्रतस्तव |
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ||२३||
तव सन्धारयन्पुत्रमब्रवीच्छन्तनोः सुतः ||२३||
दुर्योधन विजानीहि स्थिरो भव विशां पते |
पूर्वकालं तव मया प्रतिज्ञातं महाबल ||२४||
हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम् |
सङ्ग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् ||२५||
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ||२५||
अद्य चापि महत्कर्म प्रकरिष्ये महाहवे |
अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान् ||२६||
अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् |
भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे ||२७||
इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपञ्शरैः |
आससाद दुराधर्षः पाण्डवानामनीकिनीम् ||२८||
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ |
आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन् ||२९||
दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः |
राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ||३०||
पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः |
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ||३१||
हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम् |
सारोहाणां महाराज हयानां चायुतं पुनः ||३२||
पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः |
प्रजज्वाल रणे भीष्मो विधूम इव पावकः ||३३||
न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् |
उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ||३४||
ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः |
वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ||३५||
स युध्यमानो बहुभिर्भीष्मः शान्तनवस्तदा |
अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः ||३६||
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् |
महत्या सेनया सार्धं ततो युद्धमवर्तत ||३७||
१०६
सञ्जय उवाच||
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् |
शिखण्डिनमथोवाच समभ्येहि पितामहम् ||१||
न चापि भीस्त्वया कार्या भीष्मादद्य कथञ्चन |
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ||२||
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ |
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ||३||
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः |
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ||४||
विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः |
अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ||५||
नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् |
तथेतराणि सैन्यानि सर्वाण्येव विशां पते ||६||
समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ||६||
प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् |
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ||७||
चित्रसेनो महाराज चेकितानं समभ्ययात् |
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ||८||
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् |
त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् ||९||
भीमसेनं सुसङ्क्रुद्धं गाङ्गेयस्य वधैषिणम् |
त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ||१०||
तथैव नकुलं वीरं किरन्तं सायकान्बहून् |
विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ||११||
सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति |
वारयामास सङ्क्रुद्धः कृपः शारद्वतो युधि ||१२||
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् |
भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली ||१३||
सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत् |
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति ||१४||
सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् ||१४||
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ |
अश्वत्थामा ततः क्रुद्धो वारयामास भारत ||१५||
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् |
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ||१६||
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् |
भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश ||१७||
दुःशासनो महेष्वासो वारयामास संयुगे ||१७||
अन्ये च तावका योधाः पाण्डवानां महारथान् |
भीष्मायाभिमुखं यातान्वारयामासुराहवे ||१८||
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः |
अभिद्रवत संरब्धा भीष्ममेकं महाबलम् ||१९||
एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः |
अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः ||२०||
अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः |
किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः ||२१||
इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः |
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति ||२२||
आगच्छतस्तान्समरे वार्योघान्प्रबलानिव |
न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः ||२३||
दुःशासनो महाराज भयं त्यक्त्वा महारथः |
भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् ||२४||
तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति |
अभ्यद्रवन्त सङ्ग्रामे तव पुत्रान्महारथान् ||२५||
तत्राद्भुतमपश्याम चित्ररूपं विशां पते |
दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत ||२६||
यथा वारयते वेला क्षुभितं वै महार्णवम् |
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् ||२७||
उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ |
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत ||२८||
तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ |
समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा ||२९||
दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः |
वासुदेवं च विंशत्या ताडयामास संयुगे ||३०||
ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् |
दुःशासनं शतेनाजौ नाराचानां समार्पयत् ||३१||
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ||३१||
दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः |
ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः ||३२||
ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः |
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ||३३||
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना |
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ||३४||
दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः |
पर्वणीव सुसङ्क्रुद्धो राहुरुग्रो निशाकरम् ||३५||
पीड्यमानो बलवता पुत्रस्तव विशां पते |
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ||३६||
तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी |
आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः ||३७||
सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः |
अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत् ||३८||
तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः |
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ||३९||
अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव |
यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ||४०||
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव ||४०||
ततः क्रुद्धो रणे पार्थः शरान्सन्धाय कार्मुके |
प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान् ||४१||
न्यमज्जंस्ते महाराज तस्य काये महात्मनः |
यथा हंसा महाराज तडागं प्राप्य भारत ||४२||
पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना |
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् ||४३||
अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ||४३||
प्रतिलभ्य ततः सञ्ज्ञां पुत्रस्तव विशां पते |
अवारयत्ततः शूरो भूय एव पराक्रमी ||४४||
शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम् |
निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात् ||४५||
१०७
सञ्जय उवाच||
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा |
आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ||१||
माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः |
आजघान रणे राजन्प्रहसन्निव भारत ||२||
तथैव राक्षसो राजन्माधवं निशितैः शरैः |
अर्दयामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् ||३||
शैनेयः शरसङ्घं तु प्रेषयामास संयुगे |
राक्षसाय सुसङ्क्रुद्धो माधवः परवीरहा ||४||
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् |
विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ||५||
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा |
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ||६||
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः |
ताडयामास समरे तोत्त्रैरिव महागजम् ||७||
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः |
प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ||८||
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः |
चिच्छेद शितधारेण भल्लेन कृतहस्तवत् ||९||
अथान्यद्धनुरादाय वेगवत्परवीरहा |
भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः ||१०||
सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः |
शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ||११||
यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै ||११||
तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम् |
सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः ||१२||
सा पपात तदा भूमौ महोल्केव हतप्रभा ||१२||
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते |
महता रथवंशेन वारयामास माधवम् ||१३||
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् |
दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह ||१४||
तथा कुरुत कौरव्या यथा वः सात्यको युधि |
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ||१५||
अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ||१५||
तत्तथेति वचस्तस्य परिगृह्य महारथाः |
शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा ||१६||
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे |
काम्बोजराजो बलवान्वारयामास संयुगे ||१७||
आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः |
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् ||१८||
सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः |
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ||१९||
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे |
यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः ||२०||
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् |
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ||२१||
अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः |
ततः प्रववृते युद्धं तव तेषां च भारत ||२२||
विराटो दशभिर्भल्लैराजघान परन्तप |
यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ||२३||
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा |
गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् ||२४||
अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः |
विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ ||२५||
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् |
यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि ||२६||
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् |
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ||२७||
कृपश्च समरे राजन्माद्रीपुत्रं महारथम् |
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ||२८||
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः |
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ||२९||
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् |
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ||३०||
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ||३०||
तथैव पाण्डवो राजञ्शारद्वतममर्षणम् |
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ||३१||
तयोर्युद्धं समभवद्घोररूपं भयावहम् ||३१||
नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः |
विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् ||३२||
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना |
विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ||३३||
तत्र तौ नरशार्दूलौ भीष्महेतोः परन्तपौ |
अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ||३४||
घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् |
दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी ||३५||
हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम् |
आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः ||३६||
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः |
षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ||३७||
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् |
हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् ||३८||
वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः |
पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे ||३९||
तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः |
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ||४०||
तयोः समभवद्युद्धं भीष्महेतोर्महारणे |
अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः ||४१||
भीमसेनमथायान्तं भीष्मं प्रति महाबलम् |
भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ||४२||
सौमदत्तिरथो भीममाजघान स्तनान्तरे |
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ||४३||
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् |
स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ||४४||
तौ शरान्सूर्यसङ्काशान्कर्मारपरिमार्जितान् |
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः ||४५||
भीमो भीष्मवधाकान्ष्की सौमदत्तिं महारथम् |
तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम् ||४६||
कृतप्रतिकृते यत्तौ योधयामासतू रणे ||४६||
युधिष्ठिरं महाराज महत्या सेनया वृतम् |
भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् ||४७||
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् |
श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ||४८||
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे |
द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ||४९||
चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर |
चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ||५०||
भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः |
चेकितानं परं शक्त्या योधयामास भारत ||५१||
तथैव चेकितानोऽपि चित्रसेनमयोधयत् |
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे ||५२||
अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते |
विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह ||५३||
दुःशासनोऽपि परया शक्त्या पार्थमवारयत् |
कथं भीष्मं परो हन्यादिति निश्चित्य भारत ||५४||
सा वध्यमाना समरे पुत्रस्य तव वाहिनी |
लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत ||५५||
१०८
सञ्जय उवाच||
अथ वीरो महेष्वासो मत्तवारणविक्रमः |
समादाय महच्चापं मत्तवारणवारणम् ||१||
विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् |
पृतनां पाण्डवेयानां पातयानो महारथः ||२||
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् |
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ||३||
अयं स दिवसस्तात यत्र पार्थो महारथः |
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ||४||
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे |
योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः ||५||
दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः |
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ||६||
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः |
रसते व्यथते भूमिरनुष्टनति वाहनम् ||७||
कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः |
शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम् ||८||
पपात महती चोल्का मध्येनादित्यमण्डलात् |
सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ||९||
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् |
वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ||१०||
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः |
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ||११||
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् |
अवाक्षिराश्च भगवानुदतिष्ठत चन्द्रमाः ||१२||
वपूंषि च नरेन्द्राणां विगतानीव लक्षये |
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः ||१३||
सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान् |
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः ||१४||
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे |
अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् ||१५||
हृष्यन्ति रोमकूपानि सीदतीव च मे मनः |
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ||१६||
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् |
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ||१७||
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् |
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ||१८||
अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः |
न चामङ्गलकेतोः स प्रहरेदापगासुतः ||१९||
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् |
अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् ||२०||
युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः |
मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् ||२१||
मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः |
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ||२२||
अजेयः समरे चैव देवैरपि सवासवैः |
बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ||२३||
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः |
तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् ||२४||
पश्य चैतन्महाबाहो वैशसं समुपस्थितम् |
हेमचित्राणि शूराणां महान्ति च शुभानि च ||२५||
कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः |
छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च ||२६||
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः |
वैजयन्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना ||२७||
नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः |
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ||२८||
हयनागरथावर्तां महाघोरां सुदुस्तराम् |
रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः ||२९||
ब्रह्मण्यता दमो दानं तपश्च चरितं महत् |
इहैव दृश्यते राज्ञो भ्राता यस्य धनञ्जयः ||३०||
भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ |
वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ||३१||
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः |
तपोदग्धशरीरस्य कोपो दहति भारतान् ||३२||
एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः |
दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ||३३||
एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना |
महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् ||३४||
हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे |
याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ||३५||
दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः |
समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ||३६||
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ |
परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् ||३७||
उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः |
एष गच्छत्यनीकानि द्वितीय इव फल्गुनः ||३८||
उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः |
पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् ||३९||
को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः |
क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे ||४०||
एष चापि रणे भीष्मो दहते वै महाचमूम् |
युद्धे सुसदृशस्तात यमस्य वरुणस्य च ||४१||
१०९
सञ्जय उवाच||
भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः |
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ||१||
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा |
दशैते तावका योधा भीमसेनमयोधयन् ||२||
महत्या सेनया युक्ता नानादेशसमुत्थया |
भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ||३||
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् |
कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः ||४||
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष |
दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् ||५||
सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत् |
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ||६||
दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः ||६||
स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् |
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ||७||
विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः ||७||
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः |
कृपस्य सशरं चापं मध्ये चिच्छेद भारत ||८||
अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः ||८||
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् |
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ||९||
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् |
विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ||१०||
अथान्यद्धनुरादाय गौतमो रथिनां वरः |
भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ||११||
स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः |
ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् ||१२||
गौतमं ताडयामास शरैर्बहुभिराहवे ||१२||
सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः |
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ||१३||
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |
शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ||१४||
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत |
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ||१५||
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः |
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ||१६||
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः |
महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः ||१७||
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ||१७||
नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् |
स सन्धाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् ||१८||
भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् ||१८||
कृपश्च कृतवर्मा च भगदत्तश्च मारिष |
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ||१९||
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् |
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः ||२०||
स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः |
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ||२१||
तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः |
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ||२२||
विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् |
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||२३||
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः |
ताडयामास समरे सिंहवच्च ननाद च ||२४||
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् |
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ||२५||
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे |
पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ||२६||
शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः |
प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् ||२७||
ततस्तु सशरं चापं सात्वतस्य महात्मनः |
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ||२८||
अथान्यद्धनुरादाय कृतवर्मा वृकोदरम् |
आजघान भ्रुवोर्मध्ये नाराचेन परन्तप ||२९||
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः |
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ||३०||
द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् |
ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः ||३१||
स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः |
मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ||३२||
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् |
प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः ||३३||
तस्य शक्तिं महावेगां भगदत्तो महारथः |
चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् ||३४||
तोमरं सैन्धवो राजा पट्टिशं च महाभुजः |
शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे ||३५||
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् |
भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा ||३६||
तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः |
पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ||३७||
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः |
मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः ||३८||
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे |
तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः ||३९||
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् |
तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ||४०||
ततो धनञ्जयस्तत्र वर्तमाने महारणे |
जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् ||४१||
निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ||४१||
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ |
नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ ||४२||
अथार्जुनो रणे भीष्मं योधयन्वै महारथम् |
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ||४३||
आससाद रणे योधांस्तावकान्दश भारत |
ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः ||४४||
बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ||४४||
ततो दुर्योधनो राजा सुशर्माणमचोदयत् |
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ||४५||
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः |
जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ||४६||
तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः |
अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ||४७||
रथैरनेकसाहस्रैः परिवव्रे समन्ततः |
ततः प्रववृते युद्धमर्जुनस्य परैः सह ||४८||
११०
सञ्जय उवाच||
अर्जुनस्तु रणे शल्यं यतमानं महारथम् |
छादयामास समरे शरैः संनतपर्वभिः ||१||
सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत |
प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ||२||
चित्रसेनं विकर्णं च कृतवर्माणमेव च |
दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ ||३||
एकैकं त्रिभिरानर्छत्कङ्कबर्हिणवाजितैः |
शरैरतिरथो युद्धे पीडयन्वाहिनीं तव ||४||
जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः |
भीमं विव्याध तरसा चित्रसेनरथे स्थितः ||५||
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः |
विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः ||६||
चित्रसेनादयश्चैव पुत्रास्तव विशां पते |
पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः ||७||
आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष ||७||
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ |
अपीडयेतां समरे त्रिगर्तानां महद्बलम् ||८||
सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः |
ननाद बलवन्नादं नादयन्वै नभस्तलम् ||९||
अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ |
विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ||१०||
तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ |
क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् ||११||
आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ ||११||
छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे |
पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ||१२||
रथाश्च बहवो भग्ना हयाश्च शतशो हताः |
गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे ||१३||
रथिनः सादिनश्चैव तत्र तत्र निसूदिताः |
दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः ||१४||
हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः |
रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ||१५||
छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः |
अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ||१६||
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा |
उष्णीषैरपविद्धैश्च चामरव्यजनैरपि ||१७||
तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः |
ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ||१८||
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् |
शरैः संवार्य तान्वीरान्निजघान बलं तव ||१९||
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् |
गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये ||२०||
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः |
विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा ||२१||
ततो भीमो महेष्वासः फल्गुनश्च महारथः |
कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ||२२||
ततो बर्हिणवाजानामयुतान्यर्बुदानि च |
धनञ्जयरथे तूर्णं पातयन्ति स्म संयुगे ||२३||
ततस्ताञ्शरजालेन संनिवार्य महारथान् |
पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ||२४||
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः |
आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः ||२५||
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः |
अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ||२६||
अथान्यद्धनुरादाय समरे भारसाधनम् |
मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ||२७||
त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः |
भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ||२८||
ततो द्रोणो महाराज मागधश्च महारथः |
दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ||२९||
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः |
कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ ||३०||
जयत्सेनस्तु समरे भीमं भीमायुधं युवा |
विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ||३१||
तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः |
सारथिं चास्य भल्लेन रथनीडादपाहरत् ||३२||
उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः |
मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः ||३३||
द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः |
विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः ||३४||
तं भीमः समरश्लाघी गुरुं पितृसमं रणे |
विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत ||३५||
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः |
व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः ||३६||
ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः |
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ ||३७||
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः |
अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ||३८||
शिखण्डी तु समासाद्य भारतानां पितामहम् |
अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् ||३९||
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् |
अयोधयन्रणे भीष्मं संहताः सह सृञ्जयैः ||४०||
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् |
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ||४१||
ततः प्रववृते युद्धं कौरवाणां भयावहम् |
तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ||४२||
तावकानां रणे भीष्मो ग्लह आसीद्विशां पते |
तत्र हि द्यूतमायातं विजयायेतराय वा ||४३||
धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत् |
अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः ||४४||
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी |
भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ||४५||
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् |
आपतन्तीं महाराज वेलामिव महोदधिः ||४६||
१११
धृतराष्ट्र उवाच||
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय |
अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः ||१||
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् |
आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ||२||
सञ्जय उवाच||
कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत |
यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः ||३||
प्रेषिताः परलोकाय परमास्त्रैः किरीटिना |
अहन्यहनि सम्प्राप्तास्तावकानां रथव्रजाः ||४||
यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जयः |
पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ||५||
कुरुभिः सहितं भीष्मं युध्यमानं महारथम् |
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ||६||
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे |
अवर्तत महारौद्रः सततं समितिक्षयः ||७||
तस्मिन्नयुतशो राजन्भूयश्च स परन्तपः |
भीष्मः शान्तनवो योधाञ्जघान परमास्त्रवित् ||८||
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव |
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ||९||
दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् |
निरविद्यत धर्मात्मा जीवितेन परन्तपः ||१०||
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे |
न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति ||११||
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव |
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ||१२||
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद |
शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ||१३||
निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत |
घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ||१४||
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा |
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ||१५||
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः |
भीष्मं प्रतिययौ यत्तः सङ्ग्रामे सह सृञ्जयैः ||१६||
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः |
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ||१७||
अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे |
रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ||१८||
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः |
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ||१९||
न वै भीष्माद्भयं किञ्चित्कर्तव्यं युधि सृञ्जयाः |
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ||२०||
तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः |
ब्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्छिताः ||२१||
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् |
भीष्मस्य पातने यत्नं परमं ते समास्थिताः ||२२||
ततस्तव सुतादिष्टा नानाजनपदेश्वराः |
द्रोणेन सहपुत्रेण सहसेना महाबलाः ||२३||
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः |
भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा ||२४||
ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम् |
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ||२५||
चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः |
ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ||२६||
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् |
युधामन्युः सहामात्यं दुर्योधनमयोधयत् ||२७||
विराटस्तु सहानीकः सहसेनं जयद्रथम् |
वृद्धक्षत्रस्य दायादमाससाद परन्तपः ||२८||
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः |
भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् ||२९||
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् |
द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः ||३०||
कर्णिकारध्वजं चापि सिंहकेतुररिंदमः |
प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ||३१||
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् |
राजभिः समरे सार्धमभिपेतुर्जिघांसवः ||३२||
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे |
सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत ||३३||
तान्यनीकान्यनीकेषु समसज्जन्त भारत |
तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ||३४||
ततस्तेषां प्रयततामन्योन्यमभिधावताम् |
प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत ||३५||
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः |
सिंहनादैश्च सैन्यानां दारुणः समपद्यत ||३६||
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा |
वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत ||३७||
रजोमेघाश्च सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः |
धनुषां चैव निर्घोषो दारुणः समपद्यत ||३८||
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः |
रथगोषश्च सञ्जग्मुः सेनयोरुभयोरपि ||३९||
प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् |
निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ||४०||
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे |
कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः ||४१||
तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह |
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ||४२||
तयोः समागमो घोरो बभूव युधि भारत |
अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे ||४३||
११२
सञ्जय उवाच||
अभिमन्युर्महाराज तव पुत्रमयोधयत् |
महत्या सेनया युक्तो भीष्महेतोः पराक्रमी ||१||
दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः |
आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः ||२||
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम् |
प्रेषयामास सङ्क्रुद्धो दुर्योधनरथं प्रति ||३||
तामापतन्तीं सहसा घोररूपां विशां पते |
द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ||४||
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः |
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||५||
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे |
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ||६||
तद्युद्धमभवद्घोरं चित्ररूपं च भारत |
ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् ||७||
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च |
युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ||८||
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः |
आजघानोरसि क्रुद्धो नाराचेन परन्तपः ||९||
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत |
अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ||१०||
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः |
त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ||११||
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः |
द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ||१२||
पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे |
बहुधा दारयां चक्रे महेष्वासं महारथम् ||१३||
तथैव पौरवं युद्धे धृष्टकेतुर्महारथः |
त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः ||१४||
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः |
ननाद बलवन्नादं विव्याध दशभिः शरैः ||१५||
सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः |
आजघान महाराज त्रिसप्तत्या शिलीमुखैः ||१६||
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ |
महता शरवर्षेण परस्परमवर्षताम् ||१७||
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत |
विरथावसियुद्धाय सङ्गतौ तौ महारथौ ||१८||
आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते |
तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ ||१९||
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ |
वाशितासङ्गमे यत्तौ सिंहाविव महावने ||२०||
मण्डलानि विचित्राणि गतप्रत्यागतानि च |
चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ||२१||
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना |
ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ||२२||
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् |
आजघान शिताग्रेण जत्रुदेशे महासिना ||२३||
तावन्योन्यं महाराज समासाद्य महाहवे |
अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ||२४||
ततः स्वरथमारोप्य पौरवं तनयस्तव |
जयत्सेनो रथे राजन्नपोवाह रणाजिरात् ||२५||
धृष्टकेतुं च समरे माद्रीपुत्रः परन्तपः |
अपोवाह रणे राजन्सहदेवः प्रतापवान् ||२६||
चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः |
पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः ||२७||
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते |
दशभिर्दशभिश्चैव विव्याध निशितैः शरैः ||२८||
चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम् |
आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत ||२९||
भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ||२९||
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् |
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ||३०||
पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः ||३०||
बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः |
नाकम्पयत सङ्ग्रामे विव्याध च पुनः पुनः ||३१||
कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः |
आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः ||३२||
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः |
फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ||३३||
तयोर्युद्धं समभवद्भीष्महेतोः परन्तप |
संरब्धयोर्महाराज समरे चित्रयोधिनोः ||३४||
यथा देवासुरे युद्धे मयवासवयोरभूत् ||३४||
भीमसेनो गजानीकं योधयन्बह्वशोभत |
यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ||३५||
ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः |
निपेतुरुर्व्यां सहिता नादयन्तो वसुन्धराम् ||३६||
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः |
विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः ||३७||
युधिष्ठिरो महेष्वासो मद्रराजानमाहवे |
महत्या सेनया गुप्तं पीडयामास सङ्गतः ||३८||
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् |
पीडयामास संरब्धो भीष्महेतोः पराक्रमी ||३९||
विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः |
नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् ||४०||
विराटश्च महाराज सैन्धवं वाहिनीमुखे |
त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे ||४१||
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ |
रेजतुश्चित्ररूपौ तौ सङ्ग्रामे मत्स्यसैन्धवौ ||४२||
द्रोणः पाञ्चालपुत्रेण समागम्य महारणे |
महासमुदयं चक्रे शरैः संनतपर्वभिः ||४३||
ततो द्रोणो महाराज पार्षतस्य महद्धनुः |
छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ||४४||
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा |
द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ||४५||
ताञ्शराञ्शरसङ्घैस्तु संनिवार्य महारथः |
द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ||४६||
तस्य क्रुद्धो महाराज पार्षतः परवीरहा |
द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ||४७||
तामापतन्तीं सहसा हेमपट्टविभूषिताम् |
शरैः पञ्चाशता द्रोणो वारयामास संयुगे ||४८||
सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैः |
चूर्णीकृता विशीर्यन्ती पपात वसुधातले ||४९||
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः |
द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ||५०||
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत |
पार्षतं च महेष्वासं पीडयामास संयुगे ||५१||
एवमेतन्महद्युद्धं द्रोणपार्षतयोरभूत् |
भीष्मं प्रति महाराज घोररूपं भयानकम् ||५२||
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः |
अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् ||५३||
प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् |
त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ||५४||
तमापतन्तं सहसा महेन्द्रगजसंनिभम् |
परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत ||५५||
ततो गजगतो राजा भगदत्तः प्रतापवान् |
अर्जुनं शरवर्षेण वारयामास संयुगे ||५६||
अर्जुनस्तु रणे नागमायान्तं रजतोपमम् |
विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ||५७||
शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् |
भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ||५८||
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज |
प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ||५९||
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् |
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ||६०||
ततस्ते तावकाः शूराः पाण्डवं रभसं रणे |
सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ||६१||
नानाविधान्यनीकानि पुत्राणां ते जनाधिप |
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ||६२||
शिखण्डी तु समासाद्य भरतानां पितामहम् |
इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ||६३||
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् |
न्यवारयत सैन्यं च पाण्डवानां महारथः ||६४||
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः |
शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् ||६५||
यथा हि सुमहानग्निः कक्षे चरति सानिलः |
तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ||६६||
सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः |
नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः ||६७||
पातयन्रथिनो राजन्गजांश्च सह सादिभिः |
मुण्डतालवनानीव चकार स रथव्रजान् ||६८||
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे |
चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः ||६९||
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |
निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ||७०||
अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर |
नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः ||७१||
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः |
वातायमानान्पश्याम ह्रियमाणान्विशां पते ||७२||
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश |
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ||७३||
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः |
सङ्ग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ||७४||
जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ||७४||
न तत्रासीन्महाराज सोमकानां महारथः |
यः सम्प्राप्य रणे भीष्मं जीविते स्म मनो दधे ||७५||
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति |
नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ||७६||
न कश्चिदेनं समरे प्रत्युद्याति महारथः |
ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ||७७||
शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ||७७||
शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ |
दशभिर्दशभिर्बाणैराजघान महाहवे ||७८||
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा |
अवैक्षत कटाक्षेण निर्दहन्निव भारत ||७९||
स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः |
न जघान रणे भीष्मः स च तं नावबुद्धवान् ||८०||
अर्जुनस्तु महाराज शिखण्डिनमभाषत |
अभित्वरस्व त्वरितो जहि चैनं पितामहम् ||८१||
किं ते विवक्षया वीर जहि भीष्मं महारथम् |
न ह्यन्यमनुपश्यामि कञ्चिद्यौधिष्ठिरे बले ||८२||
यः शक्तः समरे भीष्मं योधयेत पितामहम् |
ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ||८३||
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ |
शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ||८४||
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव |
अर्जुनं समरे क्रुद्धं वारयामास सायकैः ||८५||
तथैव च चमूं सर्वां पाण्डवानां महारथः |
अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष ||८६||
तथैव पाण्डवा राजन्सैन्येन महता वृताः |
भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् ||८७||
स समन्तात्परिवृतो भारतो भरतर्षभ |
निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् ||८८||
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् |
अयोधयत यत्पार्थं जुगोप च यतव्रतम् ||८९||
कर्मणा तेन समरे तव पुत्रस्य धन्विनः |
दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ||९०||
यदेकः समरे पार्थान्सानुगान्समयोधयत् |
न चैनं पाण्डवा युद्धे वायरामासुरुल्बणम् ||९१||
दुःशासनेन समरे रथिनो विरथीकृताः |
सादिनश्च महाराज दन्तिनश्च महाबलाः ||९२||
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले |
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ||९३||
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः |
तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् ||९४||
तं भारतमहामात्रं पाण्डवानां महारथः |
जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथञ्चन ||९५||
ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् ||९५||
स हि तं समरे राजन्विजित्य विजयोऽर्जुनः |
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ||९६||
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः |
पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः ||९७||
अर्जुनं च रणे राजन्योधयन्स व्यराजत ||९७||
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् |
शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ||९८||
न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर |
स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा ||९९||
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति |
तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ||१००||
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे |
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ||१०१||
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष |
अभिद्रवत सङ्ग्रामे फल्गुनं सर्वतो रथैः ||१०२||
भीष्मो वः समरे सर्वान्पलयिष्यति धर्मवित् |
ते भयं सुमहत्त्वक्त्वा पाण्डवान्प्रतियुध्यत ||१०३||
एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् |
सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ||१०४||
त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् |
किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः ||१०५||
तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे ||१०५||
अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम् |
सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः ||१०६||
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः |
अर्जुनं प्रति संयत्ता बलवन्तो महारथाः ||१०७||
ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह |
अभिपेतुर्निषादाश्च सौवीराश्च महारणे ||१०८||
बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः |
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||१०९||
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह |
अभिपेतू रणे पार्थं पतङ्गा इव पावकम् ||११०||
स तान्सर्वान्सहानीकान्महाराज महारथान् |
दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय धनञ्जयः ||१११||
स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः |
शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः ||११२||
तस्य बाणसहस्राणि सृजतो दृढधन्विनः |
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ||११३||
ते शरार्ता महाराज विप्रकीर्णरथध्वजाः |
नाब्यवर्तन्त राजानः सहिता वानरध्वजम् ||११४||
सध्वजा रथिनः पेतुर्हयारोहा हयैः सह |
गजाः सह गजारोहैः किरीटिशरताडिताः ||११५||
ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुन्धरा |
विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः ||११६||
अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम् |
दुःशासनाय समरे प्रेषयामास सायकान् ||११७||
ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः |
धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ||११८||
हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ||११८||
विविंशतिं च विंशत्या विरथं कृतवान्प्रभो |
आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ||११९||
कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैः |
चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ||१२०||
एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष |
दुःशासनो विकर्णश्च तथैव च विविंशतिः ||१२१||
सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना ||१२१||
पूर्वाह्णे तु तथा राजन्पराजित्य महारथान् |
प्रजज्वाल रणे पार्थो विधूम इव पावकः ||१२२||
तथैव शरवर्षेण भास्करो रश्मिवानिव |
अन्यानपि महाराज पातयामास पार्थिवान् ||१२३||
पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान् |
प्रावर्तयत सङ्ग्रामे शोणितोदां महानदीम् ||१२४||
मध्येन कुरुसैन्यानां पाण्डवानां च भारत ||१२४||
गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः |
रथाश्च निहता नागैर्नागा हयपदातिभिः ||१२५||
अन्तरा छिध्यमानानि शरीराणि शिरांसि च |
निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ||१२६||
छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिः |
पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ||१२७||
रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः |
पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः ||१२८||
गजाश्वरथसङ्घाश्च परिपेतुः समन्ततः |
विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः ||१२९||
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् |
छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ||१३०||
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह |
प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ||१३१||
ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः |
दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ||१३२||
काञ्चनानि च दामानि पताकाश्च महाधनाः |
धूमायमाना दृश्यन्ते सहसा मारुतेरिताः ||१३३||
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः |
विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः ||१३४||
सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ||१३४||
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः |
समन्ततो व्यदृश्यन्त पतिता धरणीतले ||१३५||
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् |
अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ||१३६||
तं शिखण्डी रणे यत्तमभ्यधावत दंशितः |
सञ्जहार ततो भीष्मस्तदस्त्रं पावकोपमम् ||१३७||
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः |
निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ||१३८||
११३
सञ्जय उवाच||
एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु |
ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ||१||
न ह्यनीकमनीकेन समसज्जत सङ्कुले |
न रथा रथिभिः सार्धं न पदाताः पदातिभिः ||२||
अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः |
महान्व्यतिकरो रौद्रः सेनयोः समपद्यत ||३||
नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः |
क्षये तस्मिन्महारौद्रे निर्विशेषमजायत ||४||
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत |
दुःशासनो विकर्णश्च रथानास्थाय सत्वराः ||५||
पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ||५||
सा वध्यमाना समरे पाण्डुसेना महात्मभिः |
त्रातारं नाध्यगच्छद्वै मज्जमानेव नौर्जले ||६||
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति |
तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत ||७||
अतीव तव सैन्यस्य पार्थेन च महात्मना |
नगमेघप्रतीकाशाः पातिता बहुधा गजाः ||८||
मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः |
इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ||९||
पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः |
आबद्धाभरणैः कायैर्निहतानां महात्मनाम् ||१०||
छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः |
तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये ||११||
भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये ||११||
ते पराक्रान्तमालोक्य राजन्युधि पितामहम् |
न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः ||१२||
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् |
पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये ||१३||
पाण्डवापि महाराज स्मरन्तो विविधान्बहून् |
क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ||१४||
भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः |
तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ||१५||
सेनापतिस्तु समरे प्राह सेनां महारथः |
अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ||१६||
सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः |
अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः ||१७||
वध्यमानस्ततो राजन्पिता शान्तनवस्तव |
अमर्षवशमापन्नो योधयामास सृञ्जयान् ||१८||
तस्य कीर्तिमतस्तात पुरा रामेण धीमता |
सम्प्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी ||१९||
स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम् |
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ||२०||
भीष्मो दश सहस्राणि जघान परवीरहा ||२०||
तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ |
भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे ||२१||
गजाश्वममितं हत्वा हताः सप्त महारथाः ||२१||
हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः |
नराणां च महायुद्धे सहस्राणि चतुर्दश ||२२||
तथा दन्तिसहस्रं च हयानामयुतं पुनः |
शिक्षाबलेन निहतं पित्रा तव विशां पते ||२३||
ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम् |
विराटस्य प्रियो भ्राता शतानीको निपातितः ||२४||
शतानीकं च समरे हत्वा भीष्मः प्रतापवान् |
सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत् ||२५||
ये च केचन पार्थानामभियाता धनञ्जयम् |
राजानो भीष्ममासाद्य गतास्ते यमसादनम् ||२६||
एवं दश दिशो भीष्मः शरजालैः समन्ततः |
अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ||२७||
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि |
सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ||२८||
न चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम् |
मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ||२९||
यथा दैत्यचमूं शक्रस्तापयामास संयुगे |
तथा भीष्मः पाण्डवेयांस्तापयामास भारत ||३०||
तथा च तं पराक्रान्तमालोक्य मधुसूदनः |
उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ||३१||
एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः |
नानिहत्य बलादेनं विजयस्ते भविष्यति ||३२||
यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः |
न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ||३३||
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः |
सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ||३४||
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् |
शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् ||३५||
तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् |
पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ||३६||
यमौ च चेकितानश्च केकयाः पञ्च चैव ह |
सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः ||३७||
द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् |
सुशर्मा च विराटश्च पाण्डवेया महाबलाः ||३८||
एते चान्ये च बहवः पीडिता भीष्मसायकैः |
समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ||३९||
ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् |
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ||४०||
ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् |
भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ||४१||
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः |
विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ||४२||
दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ||४२||
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः |
दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः ||४३||
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः |
बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः ||४४||
विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः |
पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ||४५||
कृत्वा शरविघातं च क्रीडन्निव पितामहः ||४५||
नाभिसन्धत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः |
स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः ||४६||
जघान द्रुपदानीके रथान्सप्त महारथः ||४६||
ततः किलकिलाशब्दः क्षणेन समपद्यत |
मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ||४७||
ते वराश्वरथव्रातैर्वारणैः सपदातिभिः |
तमेकं छादयामासुर्मेघा इव दिवाकरम् ||४८||
भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ||४८||
ततस्तस्य च तेषां च युद्धे देवासुरोपमे |
किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम् ||४९||
११४
सञ्जय उवाच||
एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् |
विव्यधुः समरे भीष्मं परिवार्य समन्ततः ||१||
शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः |
मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः ||२||
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः |
नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत ||३||
अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ||३||
स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा |
विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु ||४||
स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः |
नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः ||५||
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः |
युगान्ताग्निसमो भीष्मः परेषां समपद्यत ||६||
निपत्य रथसङ्घानामन्तरेण विनिःसृतः |
दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन् ||७||
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च |
पाण्डवानीकिनीमध्यमाससाद स वेगितः ||८||
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् |
द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ||९||
भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः |
षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः ||१०||
तस्य ते निशितान्बाणान्संनिवार्य महारथाः |
दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ||११||
शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते |
ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः ||१२||
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत |
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ||१३||
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः |
द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ||१४||
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च |
सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ||१५||
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः |
अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् ||१६||
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति |
उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये ||१७||
हतानयत गृह्णीत युध्यतापि च कृन्तत |
इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ||१८||
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः |
अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ||१९||
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः |
विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः ||२०||
अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्छिताः |
समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ||२१||
तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् |
सङ्ग्रामे भरतश्रेष्ठ देवानां दानवैरिव ||२२||
शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना |
अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे ||२३||
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ||२३||
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् |
तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः ||२४||
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः |
धनुर्भीष्मस्य चिच्छेद सव्यसाची परन्तपः ||२५||
स च्छिन्नधन्वा सङ्क्रुद्धः सृक्किणी परिसंलिहन् |
शक्तिं जग्राह सङ्क्रुद्धो गिरीणामपि दारणीम् ||२६||
तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति ||२६||
तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव |
समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ||२७||
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः |
सङ्क्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् ||२८||
सा पपात परिच्छिन्ना सङ्क्रुद्धेन किरीटिना |
मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ||२९||
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः |
अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः ||३०||
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् |
यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ||३१||
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः |
अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ||३२||
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत् |
स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ||३३||
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ||३३||
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः |
ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ||३४||
यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम् |
तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय ||३५||
तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः |
अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ||३६||
देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः |
पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव ||३७||
न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप |
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ||३८||
सम्भ्रमश्च महानासीत्त्रिदशानां विशां पते |
पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ||३९||
इति देवगणानां च श्रुत्वा वाक्यं महामनाः |
ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ||४०||
भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ||४०||
शिखण्डी तु महाराज भरतानां पितामहम् |
आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ||४१||
स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः |
नाकम्पत महाराज क्षितिकम्पे यथाचलः ||४२||
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः |
गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् ||४३||
पुनः शरशतेनैनं त्वरमाणो धनञ्जयः |
सर्वगात्रेषु सङ्क्रुद्धः सर्वमर्मस्वताडयत् ||४४||
एवमन्यैरपि भृशं वध्यमानो महारणे |
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ||४५||
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत |
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ||४६||
अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे |
सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ||४७||
सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम् |
तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् ||४८||
निमेषान्तरमात्रेण आत्तमात्तं महारणे ||४८||
एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि |
ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ||४९||
अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् |
सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ||५०||
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः |
शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे ||५१||
न चैष शक्यः समरे जेतुं वज्रभृता अपि |
न चापि सहिता वीरा देवदानवराक्षसाः ||५२||
मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः ||५२||
एवं तयोः संवदतोः फल्गुनो निशितैः शरैः |
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ||५३||
ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत |
अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना ||५४||
वज्राशनिसमस्पर्शाः शिताग्राः सम्प्रवेशिताः |
विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः ||५५||
निकृन्तमाना मर्माणि दृढावरणभेदिनः |
मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः ||५६||
ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः |
मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ||५७||
भुजगा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः |
ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ||५८||
नाशयन्तीव मे प्राणान्यमदूता इवाहिताः |
गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ||५९||
कृन्तन्ति मम गात्राणि माघमासे गवामिव |
अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ||६०||
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः |
वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ||६१||
इति ब्रुवञ्शान्तनवो दिधक्षुरिव पाण्डवम् |
सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत ||६२||
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् |
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ||६३||
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् |
खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा ||६४||
तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः |
रथादनवरूढस्य तदद्भुतमिवाभवत् ||६५||
विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत् |
अभिद्रवत गाङ्गेयं मां वोऽस्तु भयमण्वपि ||६६||
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः |
पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा ||६७||
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः |
सिंहनादस्ततो घोरः पाण्डवानामजायत ||६८||
तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः |
तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे ||६९||
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह |
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ||७०||
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव |
सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ||७१||
अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् |
समं च विषमं चैव न प्राज्ञायत किञ्चन ||७२||
योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि |
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ||७३||
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनञ्जयः |
मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ||७४||
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् |
पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् ||७५||
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः |
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||७६||
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह |
द्वादशैते जनपदाः शरार्ता व्रणपीडिताः ||७७||
सङ्ग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना ||७७||
ततस्तमेकं बहवः परिवार्य समन्ततः |
परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् ||७८||
निपातयत गृह्णीत विध्यताथ च कर्षत |
इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ||७९||
अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः |
न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् ||८०||
एवं विभो तव पिता शरैर्विशकलीकृतः |
शिताग्रैः फल्गुनेनाजौ प्राक्षिराः प्रापतद्रथात् ||८१||
किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ||८१||
हा हेति दिवि देवानां पार्थिवानां च सर्वशः |
पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः ||८२||
तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् |
सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ||८३||
स पपात महाबाहुर्वसुधामनुनादयन् |
इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ||८४||
धरणीं नास्पृशच्चापि शरसङ्घैः समाचितः ||८४||
शरतल्पे महेष्वासं शयानं पुरुषर्षभम् |
रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ||८५||
अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी |
पतन्स ददृशे चापि खर्वितं च दिवाकरम् ||८६||
सञ्ज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत |
अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः ||८७||
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः |
कालं कर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने ||८८||
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् |
धारयामास च प्राणान्पतितोऽपि हि भूतले ||८९||
उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः ||८९||
तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता |
महर्षीन्हंसरूपेण प्रेषयामास तत्र वै ||९०||
ततः सम्पातिनो हंसास्त्वरिता मानसौकसः |
आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ||९१||
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ||९१||
ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः |
अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम् ||९२||
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् |
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ||९३||
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः |
भीष्म एव महात्मा सन्संस्थाता दक्षिणायने ||९४||
इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् |
सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ||९५||
तानब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन |
दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम् ||९६||
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् |
उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः ||९७||
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया |
ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम् ||९८||
तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने ||९८||
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना |
छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा ||९९||
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति |
इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः ||१००||
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि |
पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ||१०१||
तस्मिन्हते महासत्त्वे भरतानाममध्यमे |
न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ||१०२||
संमोहश्चैव तुमुलः कुरूणामभवत्तदा ||१०२||
नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः |
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ||१०३||
दध्युश्चैव महाराज न युद्धे दधिरे मनः |
ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ||१०४||
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि |
अभावः सुमहान्राजन्कुरूनागादतन्द्रितः ||१०५||
हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः |
कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ||१०६||
पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् |
सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः ||१०७||
सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर ||१०७||
ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः |
आस्फोटयामास भृशं भीमसेनो ननर्त च ||१०८||
सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते |
संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः ||१०९||
प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे |
क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् ||११०||
ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् |
भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ||१११||
महोपनिषदं चैव योगमास्थाय वीर्यवान् |
जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ||११२||
११५
धृतराष्ट्र उवाच||
कथमासंस्तदा योधा हीना भीष्मेण सञ्जय |
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ||१||
तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान् |
न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे ||२||
ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति |
यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः ||३||
अश्मसारमयं नूनं हृदयं मम सञ्जय |
श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ||४||
पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे |
न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा ||५||
यदद्य निहतेनाजौ भीष्मेण जयमिच्छता |
चेष्टितं नरसिंहेन तन्मे कथय सञ्जय ||६||
सञ्जय उवाच||
सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् |
पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः ||७||
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा |
भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले ||८||
हा हेति तुमुलः शब्दो भूतानां समपद्यत |
सीमावृक्षे निपतिते कुरूणां समितिक्षये ||९||
उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत् |
भीष्मं शन्तनवं दृष्ट्वा विशीर्णकवचध्वजम् ||१०||
कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते ||१०||
खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा |
ररास पृथिवी चैव भीष्मे शान्तनवे हते ||११||
अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः |
इत्यभाषन्त भूतानि शयानं भरतर्षभम् ||१२||
अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा |
ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ||१३||
इति स्म शरतल्पस्थं भरतानाममध्यमम् |
ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः ||१४||
हते शान्तनवे भीष्मे भरतानां पितामहे |
न किञ्चित्प्रत्यपद्यन्त पुत्रास्तव च भारत ||१५||
विवर्णवदनाश्चासन्गतश्रीकाश्च भारत |
अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ||१६||
पाण्डवाश्च जयं लब्ध्वा सङ्ग्रामशिरसि स्थिताः |
सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान् ||१७||
भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ |
अपश्याम रणे राजन्भीमसेनं महाबलम् ||१८||
आक्रीडमानं कौन्तेयं हर्षेण महता युतम् ||१८||
निहत्य समरे शत्रून्महाबलसमन्वितान् |
संमोहश्चापि तुमुलः कुरूणामभवत्तदा ||१९||
कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः |
तथा निपतिते भीष्मे कौरवाणां धुरन्धरे ||२०||
हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत ||२०||
दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव |
उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत् ||२१||
भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः |
प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन् ||२२||
तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् |
दुःशासनं महाराज किमयं वक्ष्यतीति वै ||२३||
ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः |
द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात् ||२४||
स सञ्ज्ञामुपलभ्याथ भारद्वाजः प्रतापवान् |
निवारयामास तदा स्वान्यनीकानि मारिष ||२५||
विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् |
दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन् ||२६||
विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः |
विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ||२७||
व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः |
उपतस्थुर्महात्मानं प्रजापतिमिवामराः ||२८||
ते तु भीष्मं समासाद्य शयानं भरतर्षभम् |
अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह ||२९||
अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् |
अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ||३०||
स्वागतं वो महाभागाः स्वागतं वो महारथाः |
तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ||३१||
अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत् |
शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ||३२||
ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च |
उपधानानि मुख्यानि नैच्छत्तानि पितामहः ||३३||
अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान् |
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ||३४||
ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् |
धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ||३५||
धनञ्जय महाबाहो शिरसो मेऽस्य लम्बतः |
दीयतामुपधानं वै यद्युक्तमिह मन्यसे ||३६||
स संन्यस्य महच्चापमभिवाद्य पितामहम् |
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ||३७||
आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर |
प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ||३८||
तमब्रवीच्छान्तनवः शिरो मे तात लम्बते |
उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे ||३९||
शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे ||३९||
त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् |
क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः ||४०||
फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः |
प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः ||४१||
अनुमान्य महात्मानं भरतानाममध्यमम् |
त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः ||४२||
अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना |
अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् ||४३||
उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् |
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ||४४||
अनुरूपं शयानस्य पाण्डवोपहितं त्वया |
यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा ||४५||
एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् |
स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ||४६||
एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः |
राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् ||४७||
शयेयमस्यां शय्यायां यावदावर्तनं रवेः |
ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः ||४८||
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः |
अर्चिष्मान्प्रतपँल्लोकान्रथेनोत्तमतेजसा ||४९||
विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि ||४९||
परिखा खन्यतामत्र ममावसदने नृपाः |
उपासिष्ये विवस्वन्तमेवं शरशताचितः ||५०||
उपारमध्वं सङ्ग्रामाद्वैराण्युत्सृज्य पार्थिवाः ||५०||
उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः |
सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः ||५१||
तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा |
दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ||५२||
एवङ्गते न हीदानीं वैद्यैः कार्यमिहास्ति मे |
क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ||५३||
नैष धर्मो महीपालाः शरतल्पगतस्य मे |
एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः ||५४||
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव |
वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ||५५||
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः |
स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ||५६||
उपधानं ततो दत्त्वा पितुस्तव जनेश्वर |
सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ||५७||
उपगम्य महात्मानं शयानं शयने शुभे |
तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् ||५८||
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः |
वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ||५९||
निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ||५९||
निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् |
भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् ||६०||
उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् ||६०||
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः |
अवध्यो मानुषैरेष सत्यसन्धो महारथः ||६१||
अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः |
त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा ||६२||
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् |
तव प्रसादाद्विजयः क्रोधात्तव पराजयः ||६३||
त्वं हि नः शरणं कृष्ण भक्तानामभयङ्करः ||६३||
अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव |
रष्किता समरे नित्यं नित्यं चापि हिते रतः ||६४||
सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः ||६४||
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः |
त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम ||६५||
११६
सञ्जय उवाच||
व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः |
पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् ||१||
तं वीरशयने वीरं शयानं कुरुसत्तमम् |
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ||२||
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः |
स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः ||३||
समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ||३||
तूर्याणि गणिका वारास्तथैव नटनर्तकाः |
उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् ||४||
उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च |
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ||५||
अन्वासत दुराधर्षं देवव्रतमरिंदमम् |
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ||६||
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता |
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ||७||
विबभौ च नृपाणां सा पितामहमुपासताम् |
देवानामिव देवेशं पितामहमुपासताम् ||८||
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ |
अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत् ||९||
शराभितप्तकायोऽहं शरसन्तापमूर्छितः |
पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत ||१०||
ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः |
भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान् ||११||
उपनीतं च तद्दृष्ट्वा भीष्मः शान्तनवोऽब्रवीत् |
नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान् ||१२||
उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम् |
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ||१३||
एवमुक्त्वा शान्तनवो दीनवाक्सर्वपार्थिवान् |
धनञ्जयं महाबाहुमभ्यभाषत भारत ||१४||
अथोपेत्य महाबाहुरभिवाद्य पितामहम् |
अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ||१५||
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् |
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनञ्जयम् ||१६||
दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः |
मर्माणि परिदूयन्ते वदनं मम शुष्यति ||१७||
ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन |
त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि ||१८||
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् |
अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ||१९||
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |
वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः ||२०||
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः |
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ||२१||
सन्धाय च शरं दीप्तमभिमन्त्र्य महायशाः |
पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः ||२२||
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ||२२||
उत्पपात ततो धारा विमला वारिणः शिवा |
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ||२३||
अतर्पयत्ततः पार्थः शीतया वारिधारया |
भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः ||२४||
कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः |
विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः ||२५||
तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम् |
सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव ||२६||
विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः |
शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत् ||२७||
तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् |
सर्वपार्थिववीराणां संनिधौ पूजयन्निव ||२८||
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन |
कथितो नारदेनासि पूर्वर्षिरमितद्युतिः ||२९||
वासुदेवसहायस्त्वं महत्कर्म करिष्यसि |
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ||३०||
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः |
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ||३१||
मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः |
सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ||३२||
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः |
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् ||३३||
न वै श्रुतं धार्तराष्ट्रेण वाक्यं; सम्बोध्यमानं विदुरेण चैव |
द्रोणेन रामेण जनार्दनेन; मुहुर्मुहुः सञ्जयेनापि चोक्तम् ||३४||
परीतबुद्धिर्हि विसञ्ज्ञकल्पो; दुर्योधनो नाभ्यनन्दद्वचो मे |
स शेष्यते वै निहतश्चिराय; शास्त्रातिगो भीमबलाभिभूतः ||३५||
ततः श्रुत्वा तद्वचः कौरवेन्द्रो; दुर्योधनो दीनमना बभूव |
तमब्रवीच्छान्तनवोऽभिवीक्ष्य; निबोध राजन्भव वीतमन्युः ||३६||
दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता |
जलस्य धारा जनिता शीतस्यामृतगन्धिनः ||३७||
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते ||३७||
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् |
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ||३८||
धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः ||३८||
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः |
कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन ||३९||
न शक्याः पाण्डवास्तात युद्धे जेतुं कथञ्चन ||३९||
अमानुषाणि कर्माणि यस्यैतानि महात्मनः |
तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना ||४०||
कृतिना समरे राजन्सन्धिस्ते तात युज्यताम् ||४०||
यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि |
तावत्पार्थेन शूरेण सन्धिस्ते तात युज्यताम् ||४१||
यावच्चमूं न ते शेषां शरैः संनतपर्वभिः |
नाशयत्यर्जुनस्तावत्सन्धिस्ते तात युज्यताम् ||४२||
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः |
नृपाश्च बहवो राजंस्तावत्सन्धिः प्रयुज्यताम् ||४३||
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् |
युधिष्ठिरो हि तावद्वै सन्धिस्ते तात युज्यताम् ||४४||
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः |
यावच्चमूं महाराज नाशयन्ति न सर्वशः ||४५||
तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् ||४५||
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः |
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ ||४६||
एतत्क्षेममहं मन्ये तव चैव कुलस्य च ||४६||
त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः; पर्याप्तमेतद्यत्कृतं फल्गुनेन |
भीष्मस्यान्तादस्तु वः सौहृदं वा; सम्प्रश्लेषः साधु राजन्प्रसीद ||४७||
राज्यस्यार्धं दीयतां पाण्डवाना; मिन्द्रप्रस्थं धर्मराजोऽनुशास्तु |
मा मित्रध्रुक्पार्थिवानां जघन्यः; पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र ||४८||
ममावसानाच्छान्तिरस्तु प्रजानां; सङ्गच्छन्तां पार्थिवाः प्रीतिमन्तः |
पिता पुत्रं मातुलं भागिनेयो; भ्राता चैव भ्रातरं प्रैतु राजन् ||४९||
न चेदेवं प्राप्तकालं वचो मे; मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या |
भीष्मस्यान्तादेतदन्ताः स्थ सर्वे; सत्यामेतां भारतीमीरयामि ||५०||
एतद्वाक्यं सौहृदादापगेयो; मध्ये राज्ञां भारतं श्रावयित्वा |
तूष्णीमासीच्छल्यसन्तप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य ||५१||
११७
सञ्जय उवाच||
ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः |
तूष्णीम्भूते महाराज भीष्मे शन्तनुनन्दने ||१||
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः |
ईषदागतसन्त्रासः त्वरयोपजगाम ह ||२||
स ददर्श महात्मानं शरतल्पगतं तदा |
जन्मशय्यागतं देवं कार्त्तिकेयमिव प्रभुम् ||३||
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः |
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ||४||
राधेयोऽहं कुरुश्रेष्ठ नित्यं चाष्किगतस्तव |
द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ||५||
तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः |
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ||६||
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः |
पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना ||७||
एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह |
यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम् ||८||
कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम |
कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः ||९||
न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते |
तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् ||१०||
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम |
येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन ||११||
जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव |
ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् ||१२||
न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम |
कुलभेदं च मत्वाहं सदा परुषमुक्तवान् ||१३||
इष्वस्त्रे भारसन्धाने लाघवेऽस्त्रबले तथा |
सदृशः फल्गुनेनासि कृष्णेन च महात्मना ||१४||
कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता |
तस्यार्थे कुरुराजस्य राजानो मृदिता युधि ||१५||
तथा च बलवान्राजा जरासन्धो दुरासदः |
समरे समरश्लाघी त्वया न सदृशोऽभवत् ||१६||
ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः |
देवगर्भोऽजितः सङ्ख्ये मनुष्यैरधिको भुवि ||१७||
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः |
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ||१८||
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन |
सङ्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ||१९||
मया भवतु निर्वृत्तं वैरमादित्यनन्दन |
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ||२०||
कर्ण उवाच||
जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः |
यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः ||२१||
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः |
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ||२२||
वसु चैव शरीरं च यदुदारं तथा यशः |
सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ||२३||
कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् ||२३||
अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम् |
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ||२४||
पृथिवीक्षयशंसीनि निमित्तानि पितामह |
भवद्भिरुपलब्धानि कथितानि च संसदि ||२५||
पाण्डवा वासुदेवश्च विदिता मम सर्वशः |
अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे ||२६||
अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा |
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ||२७||
दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा |
यन्मयापकृतं किञ्चित्तदनुक्षन्तुमर्हसि ||२८||
भीष्म उवाच||
न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् |
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ||२९||
विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि |
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ||३०||
अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि |
क्षत्रधर्मजिताँल्लोकान्सम्प्राप्स्यसि न संशयः ||३१||
युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः |
धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||३२||
प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया |
न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ||३३||
सञ्जय उवाच||
एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च |
राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ||३४||
Mahabharata Critical Edition Only for Personal Studies
Encoding: ISCII
Electronic text (C) Bhandarkar Oriental Research Institute,
Pune, India, 1999
http://bombay.indology.info/mahabharata/statement.html
for further details
% File name : mbh06.itx
%--------------------------------------------
% Text title : 6 mahAbhArate bhIShmaparva.n
% Author : Veda Vyasa
% Language : sanskrit
% Subject : religion
% Description/comments : Access available at Prof John Smith's site
% http://bombay.indology.info/mahabharata/statement.html
% Transliterated by : Prof. Tokunaga
% Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga
% Latest update : September 16, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .