||७ महाभारते द्रोणपर्वम् ||
द्रोणाभिषेकपर्व
१
जनमेजय उवाच||
तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् |
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ||१||
धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः |
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ||२||
तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः |
पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ||३||
तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् |
यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम ||४||
वैशम्पायन उवाच||
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः |
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः ||५||
तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् |
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ||६||
शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम् |
आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत ||७||
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् |
पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ||८||
धृतराष्ट्र उवाच||
संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् |
किमकार्षुः परं तात कुरवः कालचोदिताः ||९||
तस्मिन्विनिहते शूरे दुराधर्षे महौजसि |
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ||१०||
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय |
भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् ||११||
देवव्रते तु निहते कुरूणामृषभे तदा |
यदकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय ||१२||
सञ्जय उवाच||
शृणु राजन्नेकमना वचनं ब्रुवतो मम |
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ||१३||
निहते तु तदा भीष्मे राजन्सत्यपराक्रमे |
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ||१४||
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते |
स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने ||१५||
शयनं कल्पयामासुर्भीष्मायामिततेजसे |
सोपधानं नरव्याघ्र शरैः संनतपर्वभिः ||१६||
विधाय रक्षां भीष्माय समाभाष्य परस्परम् |
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् ||१७||
क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् |
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ||१८||
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः |
तावकानामनीकानि परेषां चापि निर्ययुः ||१९||
व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते |
अमर्षवशमापन्नाः कालोपहतचेतसः ||२०||
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः |
निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः ||२१||
मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च |
कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः ||२२||
अजावय इवागोपा वने श्वापदसङ्कुले |
भृशमुद्विग्नमनसो हीना देवव्रतेन ते ||२३||
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी |
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना ||२४||
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा |
आसुरीव यथा सेना निगृहीते पुरा बलौ ||२५||
विधवेव वरारोहा शुष्कतोयेव निम्नगा |
वृकैरिव वने रुद्धा पृषती हतयूथपा ||२६||
स्वाधर्षा हतसिंहेव महती गिरिकन्दरा |
भारती भरतश्रेष्ठ पतिते जाह्नवीसुते ||२७||
विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे |
बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ||२८||
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा |
विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ ||२९||
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः |
पाताल इव मज्जन्तो हीना देवव्रतेन ते ||३०||
कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः ||३०||
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् |
बन्धुमापद्गतस्येव तमेवोपागमन्मनः ||३१||
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः |
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ||३२||
स हि नायुध्यत तदा दशाहानि महायशाः |
सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् ||३३||
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः |
रथेषु गण्यमानेषु बलविक्रमशालिषु ||३४||
सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ||३४||
रथातिरथसङ्ख्यायां योऽग्रणीः शूरसंमतः |
पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् ||३५||
स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् |
त्वयि जीवति कौरव्य नाहं योत्स्ये कथञ्चन ||३६||
त्वया तु पाण्डवेयेषु निहतेषु महामृधे |
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ||३७||
पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि |
हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् ||३८||
एवमुक्त्वा महाराज दशाहानि महायशाः |
नायुध्यत ततः कर्णः पुत्रस्य तव संमते ||३९||
भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव |
जघान समरे योधानसङ्ख्येयपराक्रमः ||४०||
तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि |
त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ||४१||
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः |
हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् ||४२||
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् |
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ||४३||
स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात् |
त्रिदशानिव गोविन्दः सततं सुमहाभयात् ||४४||
वैशम्पायन उवाच||
तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः |
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ||४५||
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा |
अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् ||४६||
अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः |
सम्भ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् ||४७||
अपि तत्पूरयां चक्रे धनुर्धरवरो युधि |
यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् ||४८||
तत्खण्डं पूरयामास परेषामादधद्भयम् |
कृतवान्मम पुत्राणां जयाशां सफलामपि ||४९||
२
सञ्जय उवाच||
हतं भीष्ममाधिरथिर्विदित्वा; भिन्नां नावमिवात्यगाधे कुरूणाम् |
सोदर्यवद्व्यसनात्सूतपुत्रः; सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ||१||
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं; निपातितं शान्तनवं महारथम् |
अथोपायात्तूर्णममित्रकर्शनो; धनुर्धराणां प्रवरस्तदा वृषः ||२||
हते तु भीष्मे रथसत्तमे परै; र्निमज्जतीं नावमिवार्णवे कुरून् |
पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः; सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ||३||
कर्ण उवाच||
यस्मिन्धृतिर्बुद्धिपराक्रमौजो; दमः सत्यं वीरगुणाश्च सर्वे |
अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः; प्रिया च वागनपायीनि भीष्मे ||४||
ब्रह्मद्विषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म |
स चेत्प्रशान्तः परवीरहन्ता; मन्ये हतानेव हि सर्वयोधान् ||५||
नेह ध्रुवं किञ्चन जातु विद्यते; अस्मिँल्लोके कर्मणोऽनित्ययोगात् |
सूर्योदये को हि विमुक्तसंशयो; भावं कुर्वीताद्य महाव्रते हते ||६||
वसुप्रभावे वसुवीर्यसम्भवे; गते वसूनेव वसुन्धराधिपे |
वसूनि पुत्रांश्च वसुन्धरां तथा; कुरूंश्च शोचध्वमिमां च वाहिनीम् ||७||
सञ्जय उवाच||
महाप्रभावे वरदे निपातिते; लोकश्रेष्ठे शान्तनवे महौजसि |
पराजितेषु भरतेषु दुर्मनाः; कर्णो भृशं न्यश्वसदश्रु वर्तयन् ||८||
इदं तु राधेयवचो निशम्य ते; सुताश्च राजंस्तव सैनिकाश्च ह |
परस्परं चुक्रुशुरार्तिजं भृशं; तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् ||९||
प्रवर्तमाने तु पुनर्महाहवे; विगाह्यमानासु चमूषु पार्थिवैः |
अथाब्रवीद्धर्षकरं वचस्तदा; रथर्षभान्सर्वमहारथर्षभः ||१०||
कर्ण उवाच||
जगत्यनित्ये सततं प्रधावति; प्रचिन्तयन्नस्थिरमद्य लक्षये |
भवत्सु तिष्ठत्स्विह पातितो रणे; गिरिप्रकाशः कुरुपुङ्गवः कथम् ||११||
निपातिते शान्तनवे महारथे; दिवाकरे भूतलमास्थिते यथा |
न पार्थिवाः सोढुमलं धनञ्जयं; गिरिप्रवोढारमिवानिलं द्रुमाः ||१२||
हतप्रधानं त्विदमार्तरूपं; परैर्हतोत्साहमनाथमद्य वै |
मया कुरूणां परिपाल्यमाहवे; बलं यथा तेन महात्मना तथा ||१३||
समाहितं चात्मनि भारमीदृशं; जगत्तथानित्यमिदं च लक्षये |
निपातितं चाहवशौण्डमाहवे; कथं नु कुर्यामहमाहवे भयम् ||१४||
अहं तु तान्कुरुवृषभानजिह्मगैः; प्रवेरयन्यमसदनं रणे चरन् |
यशः परं जगति विभाव्य वर्तिता; परैर्हतो युधि शयिताथ वा पुनः ||१५||
युधिष्ठिरो धृतिमतिधर्मतत्त्ववा; न्वृकोदरो गजशततुल्यविक्रमः |
तथार्जुनस्त्रिदशवरात्मजो यतो; न तद्बलं सुजयमथामरैरपि ||१६||
यमौ रणे यत्र यमोपमौ बले; ससात्यकिर्यत्र च देवकीसुतः |
न तद्बलं कापुरुषोऽभ्युपेयिवा; न्निवर्तते मृत्युमुखादिवासकृत् ||१७||
तपोऽभ्युदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः |
मनश्च मे शत्रुनिवारणे ध्रुवं; स्वरक्षणे चाचलवद्व्यवस्थितम् ||१८||
एवं चैषां बुध्यमानः प्रभावं; गत्वैवाहं ताञ्जयाम्यद्य सूत |
मित्रद्रोहो मर्षणीयो न मेऽयं; भग्ने सैन्ये यः सहायः स मित्रम् ||१९||
कर्तास्म्येतत्सत्पुरुषार्यकर्म; त्यक्त्वा प्राणाननुयास्यामि भीष्मम् |
सर्वान्सङ्ख्ये शत्रुसङ्घान्हनिष्ये; हतस्तैर्वा वीरलोकं गमिष्ये ||२०||
सम्प्राक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे |
मया कृत्यमिति जानामि सूत; तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये ||२१||
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसं; स्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् |
सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य; दास्याम्यहं धार्तराष्ट्राय राज्यम् ||२२||
निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि |
शिरस्त्राणं चार्कसमानभासं; धनुः शरांश्चापि विषाहिकल्पान् ||२३||
उपासङ्गान्षोडश योजयन्तु; धनूंषि दिव्यानि तथाहरन्तु |
असींश्च शक्तीश्च गदाश्च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम् ||२४||
एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे ध्वजमिन्दीवराभम् |
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा सजालाम् ||२५||
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशा; न्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः |
तप्तैर्भाण्डैः काञ्चनैरभ्युपेता; ञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व ||२६||
रथं चाग्र्यं हेमजालावनद्धं; रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः |
द्रव्यैर्युक्तं सम्प्रहारोपपन्नै; र्वाहैर्युक्तं तूर्णमावर्तयस्व ||२७||
चित्राणि चापानि च वेगवन्ति; ज्याश्चोत्तमाः संहननोपपन्नाः |
तूणांश्च पूर्णान्महतः शराणा; मासज्य गात्रावरणानि चैव ||२८||
प्रायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीरकांस्यं च हैमम् |
आनीय मालामवबध्य चाङ्गे; प्रवादयन्त्वाशु जयाय भेरीः ||२९||
प्रयाहि सूताशु यतः किरीटी; वृकोदरो धर्मसुतो यमौ च |
तान्वा हनिष्यामि समेत्य सङ्ख्ये; भीष्माय वैष्यामि हतो द्विषद्भिः ||३०||
यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः; समास्थितो भीमसेनार्जुनौ च |
वासुदेवः सात्यकिः सृञ्जयाश्च; मन्ये बलं तदजय्यं महीपैः ||३१||
तं चेन्मृत्युः सर्वहरोऽभिरक्षे; त्सदाप्रमत्तः समरे किरीटिनम् |
तथापि हन्तास्मि समेत्य सङ्ख्ये; यास्यामि वा भीष्मपथा यमाय ||३२||
न त्वेवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत्तथाहं ब्रवीमि |
मित्रद्रुहो दुर्बलभक्तयो ये; पापात्मानो न ममैते सहायाः ||३३||
सञ्जय उवाच||
स सिद्धिमन्तं रथमुत्तमं दृढं; सकूबरं हेमपरिष्कृतं शुभम् |
पताकिनं वातजवैर्हयोत्तमै; र्युक्तं समास्थाय ययौ जयाय ||३४||
सम्पूज्यमानः कुरुभिर्महात्मा; रथर्षभः पाण्डुरवाजियाता |
ययौ तदायोधनमुग्रधन्वा; यत्रावसानं भरतर्षभस्य ||३५||
वरूथिना महता सध्वजेन; सुवर्णमुक्तामणिवज्रशालिना |
सदश्वयुक्तेन रथेन कर्णो; मेघस्वनेनार्क इवामितौजाः ||३६||
हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै स्वरथे धनुर्धरः |
स्थितो रराजाधिरथिर्महारथः; स्वयं विमाने सुरराडिव स्थितः ||३७||
३
सञ्जय उवाच||
शरतल्पे महात्मानं शयानममितौजसम् |
महावातसमूहेन समुद्रमिव शोषितम् ||१||
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना |
जयाशां तव पुत्राणां सम्भग्नां शर्म वर्म च ||२||
अपाराणामिव द्वीपमगाधे गाधमिच्छताम् |
स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् ||३||
महान्तमिव मैनाकमसह्यं भुवि पातितम् |
नभश्च्युतमिवादित्यं पतितं धरणीतले ||४||
शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम् |
मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् ||५||
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् |
धनञ्जयशरव्याप्तं पितरं ते महाव्रतम् ||६||
तं वीरशयने वीरं शयानं पुरुषर्षभम् |
भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् ||७||
अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम् |
अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ||८||
कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत |
पुण्यया क्षेमया वाचा चक्षुषा चावलोकय ||९||
न नूनं सुकृतस्येह फलं कश्चित्समश्नुते |
यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ||१०||
कोशसञ्जनने मन्त्रे व्यूहप्रहरणेषु च |
नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम ||११||
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् |
योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि ||१२||
अद्य प्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम् |
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ||१३||
अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः |
कुरवः सन्त्रसिष्यन्ति वज्रपाणेरिवासुराः ||१४||
अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः |
त्रासयिष्यति सङ्ग्रामे कुरूनन्यांश्च पार्थिवान् ||१५||
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् |
धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः ||१६||
येन येन प्रसरतो वाय्वग्नी सहितौ वने |
तेन तेन प्रदहतो भगवन्तौ यदिच्छतः ||१७||
यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः |
यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः ||१८||
नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च |
श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ||१९||
कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः |
शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ||२०||
को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति |
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ||२१||
अमानुषश्च सङ्ग्रामस्त्र्यम्बकेन च धीमतः |
तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः ||२२||
तमद्याहं पाण्डवं युद्धशौण्ड; ममृष्यमाणो भवतानुशिष्टः |
आशीविषं दृष्टिहरं सुघोर; मियां पुरस्कृत्य वधं जयं वा ||२३||
४
सञ्जय उवाच||
तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः |
देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः ||१||
समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः |
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा ||२||
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव |
बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः ||३||
स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा |
कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया ||४||
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः |
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया ||५||
हिमवद्दुर्गनिलयाः किराता रणकर्कशाः |
दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा ||६||
तत्र तत्र च सङ्ग्रामे दुर्योधनहितैषिणा |
बहवश्च जिता वीरास्त्वया कर्ण महौजसा ||७||
यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः |
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव ||८||
शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः |
अनुशाधि कुरून्सङ्ख्ये धत्स्व दुर्योधने जयम् ||९||
भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा |
तवापि धर्मतः सर्वे यथा तस्य वयं तथा ||१०||
यौनात्सम्बन्धकाल्लोके विशिष्टं सङ्गतं सताम् |
सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः ||११||
स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितम् |
कुरूणां पालय बलं यथा दुर्योधनस्तथा ||१२||
इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च |
ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति ||१३||
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् |
व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत् ||१४||
कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम् |
क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि ||१५||
धनुःशब्दैश्च विविधैः कुरवः समपूजयन् ||१५||
५
सञ्जय उवाच||
रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् |
हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् ||१||
सनाथमिदमत्यर्थं भवता पालितं बलम् |
मन्ये किं तु समर्थं यद्धितं तत्सम्प्रधार्यताम् ||२||
कर्ण उवाच||
ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप |
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ||३||
ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर |
नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम ||४||
दुर्योधन उवाच||
भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च |
श्रुतेन च सुसम्पन्नः सर्वैर्योधगुणैस्तथा ||५||
तेनातियशसा कर्ण घ्नता शत्रुगणान्मम |
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना ||६||
तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् |
कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् ||७||
न ऋते नायकं सेना मुहूर्तमपि तिष्ठति |
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ||८||
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा |
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् ||९||
स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु |
पश्य सेनापतिं युक्तमनु शान्तनवादिह ||१०||
यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे |
तं वयं सहिताः सर्वे प्रकरिष्याम मारिष ||११||
कर्ण उवाच||
सर्व एव महात्मान इमे पुरुषसत्तमाः |
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा ||१२||
कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः |
युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः ||१३||
युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः |
एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः ||१४||
अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि |
शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत ||१५||
अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः |
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः ||१६||
को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे |
सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात् ||१७||
न च स ह्यस्ति ते योधः सर्वराजसु भारत |
यो द्रोणं समरे यान्तं नानुयास्यति संयुगे ||१८||
एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि |
एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते ||१९||
एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु |
जिगीषन्तोऽसुरान्सङ्ख्ये कार्त्तिकेयमिवामराः ||२०||
सञ्जय उवाच||
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा |
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् ||२१||
वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया |
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् ||२२||
तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि |
युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते ||२३||
स भवान्पातु नः सर्वान्विबुधानिव वासवः |
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम ||२४||
रुद्राणामिव कापाली वसूनामिव पावकः |
कुबेर इव यक्षाणां मरुतामिव वासवः ||२५||
वसिष्ठ इव विप्राणां तेजसामिव भास्करः |
पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट् ||२६||
नक्षत्राणामिव शशी दितिजानामिवोशनाः |
श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव ||२७||
अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ |
ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव ||२८||
प्रयातु नो भवानग्रे देवानामिव पावकिः |
अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम् ||२९||
उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः |
अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते ||३०||
ध्रुवं युधिष्ठिरं सङ्ख्ये सानुबन्धं सबान्धवम् |
जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि ||३१||
एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः |
सिंहनादेन महता हर्षयन्तस्तवात्मजम् ||३२||
सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् |
दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः ||३३||
द्रोण उवाच||
वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् |
त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च ||३४||
ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः |
चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान् ||३५||
सञ्जय उवाच||
स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः |
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा ||३६||
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः |
सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः ||३७||
ततो वादित्रघोषेण सह पुंसां महास्वनैः |
प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा ||३८||
ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च |
संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् ||३९||
जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा |
सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान् ||४०||
६
सञ्जय उवाच||
सेनापत्यं तु सम्प्राप्य भारद्वाजो महारथः |
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह ||१||
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः |
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः ||२||
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः |
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः ||३||
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः |
दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् ||४||
तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः |
ययुरश्वैर्महावेगैः शकाश्च यवनैः सह ||५||
मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः |
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह ||६||
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः |
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ||७||
हर्षयन्सर्वसैन्यानि बलेषु बलमादधत् |
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ||८||
तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् |
हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः ||९||
न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत |
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह ||१०||
हृष्टाश्च बहवो योधास्तत्राजल्पन्त सङ्गताः |
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ||११||
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् |
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ||१२||
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना |
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् ||१३||
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते |
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः ||१४||
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् |
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् ||१५||
प्रीयमाणेन विहितो धर्मराजेन भारत ||१५||
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ |
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनञ्जयौ ||१६||
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् |
आदित्यपथगः केतुः पार्थस्यामिततेजसः ||१७||
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः |
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुन्धराम् ||१८||
अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् |
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् ||१९||
चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः |
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ||२०||
एवमेतौ महात्मानौ बलसेनाग्रगावुभौ |
तावकानां मुखं कर्णः परेषां च धनञ्जयः ||२१||
ततो जाताभिसंरम्भौ परस्परवधैषिणौ |
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ ||२२||
ततः प्रयाते सहसा भारद्वाजे महारथे |
अन्तर्नादेन घोरेण वसुधा समकम्पत ||२३||
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् |
वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् ||२४||
अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत |
गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः ||२५||
उपर्युपरि सेनां ते तदा पर्यपतन्नृप ||२५||
गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् |
अकार्षुरपसव्यं च बहुशः पृतनां तव ||२६||
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् ||२६||
अपतद्दीप्यमाना च सनिर्घाता सकम्पना |
उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः ||२७||
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् |
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ ||२८||
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः |
उत्पाता युधि वीराणां जीवितक्षयकारकाः ||२९||
ततः प्रववृते युद्धं परस्परवधैषिणाम् |
कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत् ||३०||
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह |
प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः ||३१||
स पाण्डवानां महतीं महेष्वासो महाद्युतिः |
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ||३२||
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः |
प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् ||३३||
सङ्क्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः |
व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः ||३४||
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे |
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ||३५||
ते वध्यमाना द्रोणेन वासवेनेव दानवाः |
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ||३६||
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः |
अभिनच्छरवर्षेण द्रोणानीकमनेकधा ||३७||
द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः |
संनिवार्य ततः सेनां कुरूनप्यवधीद्बली ||३८||
संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे |
स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् ||३९||
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति |
मघवान्समभिक्रुद्धः सहसा दानवेष्विव ||४०||
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः |
पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः ||४१||
अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली |
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ||४२||
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम् |
स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरमधिरूढः सञ्जहारारिसेनाम् ||४३||
७
सञ्जय उवाच||
तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् |
व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् ||१||
ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ |
अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् ||२||
तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः |
पर्यगृह्णंस्ततः सर्वे समायान्तं महारथाः ||३||
केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः |
युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा ||४||
द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः |
चेकितानश्च सङ्क्रुद्धो युयुत्सुश्च महारथः ||५||
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः |
कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः ||६||
सङ्गृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे |
व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत ||७||
स तीव्रं कोपमास्थाय रथे समरदुर्मदः |
व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः ||८||
रथानश्वान्नरान्नागानभिधावंस्ततस्ततः |
चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा ||९||
तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः |
आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः ||१०||
तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् |
दृष्ट्वा सम्प्राद्रवन्योधाः पाण्डवस्य ततस्ततः ||११||
तेषां प्रद्रवतां भीमः पुनरावर्ततामपि |
वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः ||१२||
शूराणां हर्षजननो भीरूणां भयवर्धनः |
द्यावापृथिव्योर्विवरं पूरयामास सर्वतः ||१३||
ततः पुनरपि द्रोणो नाम विश्रावयन्युधि |
अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान् ||१४||
स तथा तान्यनीकानि पाण्डवेयस्य धीमतः |
कालवन्न्यवधीद्द्रोणो युवेव स्थविरो बली ||१५||
उत्कृत्य च शिरांस्युग्रो बाहूनपि सभूषणान् |
कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः ||१६||
तस्य हर्षप्रणादेन बाणवेगेन चाभिभो |
प्राकम्पन्त रणे योधा गावः शीतार्दिता इव ||१७||
द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च |
धनुःशब्देन चाकाशे शब्दः समभवन्महान् ||१८||
अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः |
व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु ||१९||
तं कार्मुकमहावेगमस्त्रज्वलितपावकम् |
द्रोणमासादयां चक्रुः पाञ्चालाः पाण्डवैः सह ||२०||
तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् |
द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् ||२१||
तन्वता परमास्त्राणि शरान्सततमस्यता |
द्रोणेन विहितं दिक्षु बाणजालमदृश्यत ||२२||
पदातिषु रथाश्वेषु वारणेषु च सर्वशः |
तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत ||२३||
स केकयानां प्रवरांश्च पञ्च; पाञ्चालराजं च शरैः प्रमृद्य |
युधिष्ठिरानीकमदीनयोधी; द्रोणोऽभ्ययात्कार्मुकबाणपाणिः ||२४||
तं भीमसेनश्च धनञ्जयश्च; शिनेश्च नप्ता द्रुपदात्मजश्च |
शैब्यात्मजः काशिपतिः शिबिश्च; हृष्टा नदन्तो व्यकिरञ्शरौघैः ||२५||
तेषामथो द्रोणधनुर्विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः |
भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर्महीं शोणितदिग्धवाजाः ||२६||
सा योधसङ्घैश्च रथैश्च भूमिः; शरैर्विभिन्नैर्गजवाजिभिश्च |
प्रच्छाद्यमाना पतितैर्बभूव; समन्ततो द्यौरिव कालमेघैः ||२७||
शैनेयभीमार्जुनवाहिनीपा; ञ्शैब्याभिमन्यू सह काशिराज्ञा |
अन्यांश्च वीरान्समरे प्रमृद्ना; द्द्रोणः सुतानां तव भूतिकामः ||२८||
एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा |
प्रताप्य लोकानिव कालसूर्यो; द्रोणो गतः स्वर्गमितो हि राजन् ||२९||
एवं रुक्मरथः शूरो हत्वा शतसहस्रशः |
पाण्डवानां रणे योधान्पार्षतेन निपातितः ||३०||
अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् |
निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् ||३१||
पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः |
हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् ||३२||
ततो निनादो भूतानामाकाशे समजायत |
सैन्यानां च ततो राजन्नाचार्ये निहते युधि ||३३||
द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् |
अहो धिगिति भूतानां शब्दः समभवन्महान् ||३४||
देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः |
ददृशुर्निहतं तत्र भारद्वाजं महारथम् ||३५||
पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे |
तेन नादेन महता समकम्पत मेदिनी ||३६||
८
धृतराष्ट्र उवाच||
किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः |
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ||१||
रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः |
प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् ||२||
कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् |
किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः ||३||
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् |
दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् ||४||
पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् |
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ||५||
व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः |
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ||६||
अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् |
तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् ||७||
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् |
जातरूपपरिष्कारं नाद्य शोकमपानुदे ||८||
न नूनं परदुःखेन कश्चिन्म्रियति सञ्जय |
यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये ||९||
अश्मसारमयं नूनं हृदयं सुदृढं मम |
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ||१०||
ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः |
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः ||११||
शोषणं सागरस्येव मेरोरिव विसर्पणम् |
पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ||१२||
दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता |
योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परन्तपः ||१३||
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे |
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ||१४||
ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः |
रथे वातजवा युक्ताः सर्वशब्दातिगा रणे ||१५||
बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः |
दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः ||१६||
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् |
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ||१७||
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः |
हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः ||१८||
ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः |
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ||१९||
जातरूपपरिष्कारमास्थाय रथमुत्तमम् |
भारद्वाजः किमकरोच्छूरः सङ्क्रन्दनो युधि ||२०||
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः |
स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि ||२१||
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् |
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ||२२||
ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः |
दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् ||२३||
उताहो सर्वसैन्येन धर्मराजः सहानुजः |
पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् ||२४||
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः |
ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् ||२५||
न ह्यन्यं परिपश्यामि वधे कञ्चन शुष्मिणः |
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ||२६||
तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः |
केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः ||२७||
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा |
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ||२८||
योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान् |
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ||२९||
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ||२९||
अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया |
अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् ||३०||
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः |
स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम् ||३१||
दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः |
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ||३२||
क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः |
न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति ||३३||
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन |
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् ||३४||
नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् |
कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम् ||३५||
केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः |
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ||३६||
के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन् |
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ||३७||
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय |
पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् ||३८||
मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् |
भूयस्तु लब्धसञ्ज्ञस्त्वा परिप्रक्ष्यामि सञ्जय ||३९||
९
वैशम्पायन उवाच||
एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् |
जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ ||१||
तं विसञ्ज्ञं निपतितं सिषिचुः परिचारकाः |
जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना ||२||
पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः |
परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः ||३||
उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् |
आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः ||४||
आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः |
निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः ||५||
स लब्ध्वा शनकैः सञ्ज्ञां वेपमानो महीपतिः |
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ||६||
यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः |
आयादजातशत्रुर्वै कस्तं द्रोणादवारयत् ||७||
प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम् |
आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम् ||८||
वाशितासङ्गमे यद्वदजय्यं प्रतियूथपैः ||८||
अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः |
यो ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा ||९||
कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः ||९||
चक्षुर्हणं जये सक्तमिष्वासवररक्षितम् |
दान्तं बहुमतं लोके के शूराः पर्यवारयन् ||१०||
के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम् |
समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः ||११||
तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत् |
तं भीमसेनमायान्तं के शूराः पर्यवारयन् ||१२||
यदायाज्जलदप्रख्यो रथः परमवीर्यवान् |
पर्जन्य इव बीभत्सुस्तुमुलामशनिं सृजन् ||१३||
ववर्ष शरवर्षाणि वर्षाणि मघवानिव |
इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः ||१४||
अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च ||१४||
चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः |
रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः ||१५||
रोषनिर्जितजीमूतो मनोऽभिप्रायशीघ्रगः |
मर्मातिगो बाणधारस्तुमुलः शोणितोदकः ||१६||
सम्प्लावयन्महीं सर्वां मानवैरास्तरंस्तदा |
गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः ||१७||
युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः |
गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा ||१८||
कच्चिद्गाण्डीवशब्देन न प्रणश्यत वै बलम् |
यद्वः स भैरवं कुर्वन्नर्जुनो भृशमभ्यगात् ||१९||
कच्चिन्नापानुदद्द्रोणादिषुभिर्वो धनञ्जयः |
वातो मेघानिवाविध्यन्प्रवाञ्शरवनानिलः ||२०||
को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति ||२०||
यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् |
के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् ||२१||
के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् |
अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम् ||२२||
न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः |
गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम् ||२३||
विष्वक्सेनो यस्य यन्ता योद्धा चैव धनञ्जयः |
अशक्यः स रथो जेतुं मन्ये देवासुरैरपि ||२४||
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः |
मेधावी निपुणो धीमान्युधि सत्यपराक्रमः ||२५||
आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान् |
यदायान्नकुलो धीमान्के शूराः पर्यवारयन् ||२६||
आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् |
शत्रूणां कदनं कुर्वञ्जेतासौ दुर्जयो युधि ||२७||
आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम् |
द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् ||२८||
यः स सौवीरराजस्य प्रमथ्य महतीं चमूम् |
आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम् ||२९||
सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् |
सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे ||३०||
बलिनं सत्यकर्माणमदीनमपराजितम् |
वासुदेवसमं युद्धे वासुदेवादनन्तरम् ||३१||
युक्तं धनञ्जयप्रेष्ये शूरमाचार्यकर्मणि |
पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् ||३२||
वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् |
रामेण सममस्त्रेषु यशसा विक्रमेण च ||३३||
सत्यं धृतिर्दमः शौर्यं ब्रह्मचर्यमनुत्तमम् |
सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे ||३४||
तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः |
समासाद्य महेष्वासं के वीराः पर्यवारयन् ||३५||
पाञ्चालेषूत्तमं शूरमुत्तमाभिजनप्रियम् |
नित्यमुत्तमकर्माणमुत्तमौजसमाहवे ||३६||
युक्तं धनञ्जयहिते ममानर्थाय चोत्तमम् |
यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् ||३७||
महारथसमाख्यातं द्रोणायोद्यन्तमाहवे |
त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन् ||३८||
एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः |
धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत् ||३९||
योऽवधीत्केतुमाञ्शूरो राजपुत्रं सुदर्शनम् |
अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत् ||४०||
स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान् |
शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि ||४१||
देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः |
द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ||४२||
यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात् |
यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा ||४३||
वासुदेवसमं वीर्ये धनञ्जयसमं बले |
तेजसादित्यसदृशं बृहस्पतिसमं मतौ ||४४||
अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् |
द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ||४५||
तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा |
यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम् ||४६||
द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः |
यद्द्रोणमाद्रवन्सङ्ख्ये के वीरास्तानवारयन् ||४७||
ये ते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः |
अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् ||४८||
क्षत्रञ्जयः क्षत्रदेवः क्षत्रधर्मा च मानिनः |
धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ||४९||
शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः |
चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ||५०||
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि |
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् ||५१||
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः |
इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः ||५२||
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः |
तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ||५३||
यं योधयन्तो राजानो नाजयन्वारणावते |
षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम् ||५४||
धनुष्मतां वरं शूरं सत्यसन्धं महाबलम् |
द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् ||५५||
यः पुत्रं काशिराजस्य वाराणस्यां महारथम् |
समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् ||५६||
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् |
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च ||५७||
निर्दहन्तं रणे योधान्दारयन्तं च सर्वशः |
द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ||५८||
उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् |
शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन् ||५९||
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् |
महता रथवंशेन मुख्यारिघ्नो महारथः ||६०||
दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् |
निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ||६१||
पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन् |
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ||६२||
न पूर्वे नापरे चक्रुरिदं केचन मानवाः |
इति सञ्चुक्रुशुर्देवाः कृते कर्मणि दुष्करे ||६३||
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु |
जातं वापि जनिष्यं वा द्वितीयं वापि सम्प्रति ||६४||
अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत |
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ||६५||
तस्य नप्तारमायान्तं शैब्यं कः समवारयत् |
द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम् ||६६||
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः |
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ||६७||
सद्यो वृकोदराज्जातो महाबलपराक्रमः |
मायावी राक्षसो घोरो यस्मान्मम महद्भयम् ||६८||
पार्थानां जयकामं तं पुत्राणां मम कण्टकम् |
घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत् ||६९||
एते चान्ये च बहवो येषामर्थाय सञ्जय |
त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ||७०||
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः |
हितार्थी चापि पार्थानां कथं तेषां पराजयः ||७१||
लोकानां गुरुरत्यन्तं लोकनाथः सनातनः |
नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः ||७२||
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः |
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ||७३||
१०
धृतराष्ट्र उवाच||
शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय |
कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् ||१||
संवर्धता गोपकुले बालेनैव महात्मना |
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय ||२||
उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे |
जघान हयराजं यो यमुनावनवासिनम् ||३||
दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम् |
वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह ||४||
प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् |
मुरुं चाचलसङ्काशमवधीत्पुष्करेक्षणः ||५||
तथा कंसो महातेजा जरासन्धेन पालितः |
विक्रमेणैव कृष्णेन सगणः शातितो रणे ||६||
सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः |
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ||७||
बलदेवद्वितीयेन कृष्णेनामित्रघातिना |
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ||८||
दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः |
आराधितः सदारेण स चास्मै प्रददौ वरान् ||९||
तथा गान्धारराजस्य सुतां वीरः स्वयंवरे |
निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः ||१०||
अमृष्यमाणा राजानो यस्य जात्या हया इव |
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ||११||
जरासन्धं महाबाहुमुपायेन जनार्दनः |
परेण घातयामास पृथगक्षौहिणीपतिम् ||१२||
चेदिराजं च विक्रान्तं राजसेनापतिं बली |
अर्घे विवदमानं च जघान पशुवत्तदा ||१३||
सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् |
समुद्रकुक्षौ विक्रम्य पातयामास माधवः ||१४||
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् |
वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे ||१५||
आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् |
काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् ||१६||
काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च सञ्जय |
त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ||१७||
नानादिग्भ्यश्च सम्प्राप्तान्व्रातानश्वशकान्प्रति |
जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् ||१८||
प्रविश्य मकरावासं यादोभिरभिसंवृतम् |
जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा ||१९||
युधि पञ्चजनं हत्वा पातालतलवासिनम् |
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ||२०||
खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् |
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ||२१||
वैनतेयं समारुह्य त्रासयित्वामरावतीम् |
महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ||२२||
तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् |
राज्ञां चाप्यजितं कञ्चित्कृष्णेनेह न शुश्रुम ||२३||
यच्च तन्महदाश्चर्यं सभायां मम सञ्जय |
कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति ||२४||
यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम् |
तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् ||२५||
नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः |
कर्मणः शक्यते गन्तुं हृषीकेशस्य सञ्जय ||२६||
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः |
आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः ||२७||
उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान् |
पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः ||२८||
एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः |
कथञ्चित्पाण्डवानीकं श्रयेयुः समरे स्थिताः ||२९||
आहूता वृष्णिवीरेण केशवेन महात्मना |
ततः संशयितं सर्वं भवेदिति मतिर्मम ||३०||
नागायुतबलो वीरः कैलासशिखरोपमः |
वनमाली हली रामस्तत्र यत्र जनार्दनः ||३१||
यमाहुः सर्वपितरं वासुदेवं द्विजातयः |
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय ||३२||
स यदा तात संनह्येत्पाण्डवार्थाय केशवः |
न तदा प्रत्यनीकेषु भविता तस्य कश्चन ||३३||
यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् |
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ||३४||
ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे |
कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् ||३५||
यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः |
रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः ||३६||
न केनचिदुपायेन कुरूणां दृश्यते जयः |
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ||३७||
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः |
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती ||३८||
प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः |
मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् ||३९||
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः |
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् ||४०||
पूर्वदेवौ महात्मानौ नरनारायणावुभौ |
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि ||४१||
मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ |
नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः ||४२||
युगस्येव विपर्यासो लोकानामिव मोहनम् |
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ||४३||
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च |
न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते ||४४||
लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ |
भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि सञ्जय ||४५||
यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे |
अद्य तामनुजानीमो भीष्मद्रोणवधेन च ||४६||
तथा च मत्कृते प्राप्तः कुरूणामेष सङ्क्षयः |
पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि ||४७||
अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः |
यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ ||४८||
प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति |
क्रूरः सर्वविनाशाय कालः समतिवर्तते ||४९||
अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः |
अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ||५०||
तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे |
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ||५१||
११
सञ्जय उवाच||
हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् |
यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः ||१||
सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः |
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ||२||
यत्कौरवाणामृषभादापगेयादनन्तरम् |
सेनापत्येन मां राजन्नद्य सत्कृतवानसि ||३||
सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव |
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ||४||
ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः |
तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् ||५||
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् |
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय ||६||
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः |
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ||७||
धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि |
न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि ||८||
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि |
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ||९||
आहो स्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते |
यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि ||१०||
अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् |
राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ||११||
धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः |
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ||१२||
द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत |
सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते ||१३||
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि |
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ||१४||
वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम |
हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् ||१५||
न च शक्यो रणे सर्वैर्निहन्तुममरैरपि |
य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् ||१६||
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते |
पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः ||१७||
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति |
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ||१८||
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् |
तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान् ||१९||
द्रोण उवाच||
न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि |
मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः ||२०||
न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि |
प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् ||२१||
असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि |
तरुणः कीर्तियुक्तश्च एकायनगतश्च सः ||२२||
अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् |
अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् ||२३||
स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते |
अपनीते ततः पार्थे धर्मराजो जितस्त्वया ||२४||
ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ |
एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति ||२५||
अहं गृहीत्वा राजानं सत्यधर्मपरायणम् |
आनयिष्यामि ते राजन्वशमद्य न संशयः ||२६||
यदि स्थास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः |
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये ||२७||
फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः |
ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः ||२८||
सञ्जय उवाच||
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे |
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ||२९||
पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः |
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ||३०||
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् |
सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम ||३१||
१२
सञ्जय उवाच||
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् |
सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह ||१||
तत्तु सर्वं यथावृत्तं धर्मराजेन भारत |
आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् ||२||
ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः |
अब्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः ||३||
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् |
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ||४||
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन |
तच्चान्तरममोघेषौ त्वयि तेन समाहितम् ||५||
स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् |
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ||६||
अर्जुन उवाच||
यथा मे न वधः कार्य आचार्यस्य कथञ्चन |
तथा तव परित्यागो न मे राजंश्चिकीर्षितः ||७||
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि |
प्रतीयां नाहमाचार्यं त्वां न जह्यां कथञ्चन ||८||
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति |
न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथञ्चन ||९||
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् |
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ||१०||
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् |
देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे ||११||
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि |
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ||१२||
न स्मराम्यनृतां वाचं न स्मरामि पराजयम् |
न स्मरामि प्रतिश्रुत्य किञ्चिदप्यनपाकृतम् ||१३||
सञ्जय उवाच||
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह |
प्रावाद्यन्त महाराज पाण्डवानां निवेशने ||१४||
सिंहनादश्च सञ्जज्ञे पाण्डवानां महात्मनाम् |
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ||१५||
तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः |
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ||१६||
ततो व्यूढान्यनीकानि तव तेषां च भारत |
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ||१७||
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ||१८||
यतमानाः प्रयत्नेन द्रोणानीकविशातने |
न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् ||१९||
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः |
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना ||२०||
आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् |
सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ||२१||
ततो रुक्मरथो राजन्नर्केणेव विराजता |
वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे ||२२||
तमुद्यतं रथेनैकमाशुकारिणमाहवे |
अनेकमिव सन्त्रासान्मेनिरे पाण्डुसृञ्जयाः ||२३||
तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् |
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ||२४||
मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः |
यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत ||२५||
न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष |
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ||२६||
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् |
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः ||२७||
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः |
पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् ||२८||
१३
सञ्जय उवाच||
ततः स पाण्डवानीके जनयंस्तुमुलं महत् |
व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः ||१||
निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् |
दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः ||२||
प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः |
ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः ||३||
रथिनः सादिनश्चैव नागानश्वान्पदातिनः |
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ||४||
नानद्यमानः पर्जन्यः सानिलः शुचिसङ्क्षये |
अश्मवर्षमिवावर्षत्परेषामावहद्भयम् ||५||
व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः |
वर्धयामास सन्त्रासं शात्रवाणाममानुषम् ||६||
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् |
भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः ||७||
स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः |
युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम् ||८||
अमर्षवेगप्रभवां क्रव्यादगणसङ्कुलाम् |
बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् ||९||
शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् |
कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् ||१०||
मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम् |
सङ्ग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् ||११||
नरनागाश्वसम्भूतां शरवेगौघवाहिनीम् |
शरीरदारुशृङ्गाटां भुजनागसमाकुलाम् ||१२||
उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम् |
रथनागह्रदोपेतां नानाभरणनीरजाम् ||१३||
महारथशतावर्तां भूमिरेणूर्मिमालिनीम् |
महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम् ||१४||
शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् |
छिन्नच्छत्रमहाहंसां मुकुटाण्डजसङ्कुलाम् ||१५||
चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् |
बडगृध्रसृगालानां घोरसङ्घैर्निषेविताम् ||१६||
निहतान्प्राणिनः सङ्ख्ये द्रोणेन बलिना शरैः |
वहन्तीं पितृलोकाय शतशो राजसत्तम ||१७||
शरीरशतसम्बाधां केशशैवलशाद्वलाम् |
नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् ||१८||
तं जयन्तमनीकानि तानि तान्येव भारत |
सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः ||१९||
तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः |
सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम् ||२०||
शतमायस्तु शकुनिः सहदेवं समाद्रवत् |
सनियन्तृध्वजरथं विव्याध निशितैः शरैः ||२१||
तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि |
नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम् ||२२||
सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् |
स तस्य गदया राजन्रथात्सूतमपातयत् ||२३||
ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ |
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ ||२४||
द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः |
बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः ||२५||
विविंशतिं भीमसेनो विंशत्या निशितैः शरैः |
विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् ||२६||
विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् |
भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् ||२७||
स तन्न ममृषे वीरः शत्रोर्विजयमाहवे |
ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत् ||२८||
शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः |
विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव ||२९||
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः |
निपात्य नकुलः सङ्ख्ये शङ्खं दध्मौ प्रतापवान् ||३०||
धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान् |
कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः ||३१||
तं कृपः शरवर्षेण महता समवाकिरत् |
निवार्य च रणे विप्रो धृष्टकेतुमयोधयत् ||३२||
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे |
विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव ||३३||
सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः |
नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् ||३४||
सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत् |
स चापि तं तोमरेण जत्रुदेशे अताडयत् ||३५||
वैकर्तनं तु समरे विराटः प्रत्यवारयत् |
सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् ||३६||
तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् |
यत्सैन्यं वारयामास शरैः संनतपर्वभिः ||३७||
द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः |
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ||३८||
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ ||३८||
भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् |
महता सायकौघेन छादयामास वीर्यवान् ||३९||
शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते |
नवत्या सायकानां तु कम्पयामास भारत ||४०||
राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ |
चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ ||४१||
मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् |
अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ ||४२||
चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम् |
यथा देवासुरे युद्धे बलशक्रौ महाबलौ ||४३||
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् |
यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे ||४४||
ततः प्रजविताश्वेन विधिवत्कल्पितेन च |
रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् ||४५||
ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः |
तेन चक्रे महद्युद्धमभिमन्युररिंदमः ||४६||
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् |
तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् ||४७||
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः |
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ||४८||
ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः |
समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् ||४९||
द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः |
तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा ||५०||
उद्बबर्ह सितं खड्गमाददानः शरावरम् ||५०||
स तेनानेकतारेण चर्मणा कृतहस्तवत् |
भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः ||५१||
भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम् |
चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत ||५२||
स पौरवरथस्येषामाप्लुत्य सहसा नदन् |
पौरवं रथमास्थाय केशपक्षे परामृशत् ||५३||
जघानास्य पदा सूतमसिनापातयद्ध्वजम् |
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् ||५४||
तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः |
उक्षाणमिव सिंहेन पात्यमानमचेतनम् ||५५||
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् |
पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः ||५६||
स बर्हिणमहावाजं किङ्किणीशतजालवत् |
चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् ||५७||
ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् |
उत्पपात रथात्तूर्णं श्येनवन्निपपात च ||५८||
प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः सम्प्रवेरितान् |
चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च ||५९||
स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः |
तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली ||६०||
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् |
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् ||६१||
तौ परस्परमासाद्य खड्गदन्तनखायुधौ |
हृष्टवत्सम्प्रजह्राते व्याघ्रकेसरिणाविव ||६२||
सम्पातेष्वभिपातेषु निपातेष्वसिचर्मणोः |
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ||६३||
अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् |
बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत ||६४||
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् |
ददृशाते महात्मानौ सपक्षाविव पर्वतौ ||६५||
ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः |
शरावरणपक्षान्ते प्रजहार जयद्रथः ||६६||
रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे |
सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ||६७||
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् |
सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः ||६८||
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् |
सहिताः सर्वराजानः परिवव्रुः समन्ततः ||६९||
ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः |
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् ||७०||
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा |
तापयामास तत्सैन्यं भुवनं भास्करो यथा ||७१||
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् |
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ||७२||
तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् |
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ||७३||
तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः |
सहिताः सर्वराजानः सिंहनादमथानदन् ||७४||
ततस्तामेव शल्यस्य सौभद्रः परवीरहा |
मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् ||७५||
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा |
जघान सूतं शल्यस्य रथाच्चैनमपातयत् ||७६||
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः |
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ ||७७||
यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः ||७७||
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः |
प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् ||७८||
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् ||७८||
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः |
अभ्याकिरन्महाराज जलदा इव पर्वतम् ||७९||
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात् |
आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् ||८०||
१४
धृतराष्ट्र उवाच||
बहूनि सुविचित्राणि द्वंद्वयुद्धानि सञ्जय |
त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् ||१||
आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः |
कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् ||२||
न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् |
तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे ||३||
सञ्जय उवाच||
सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम् |
समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् ||४||
तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् |
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ||५||
सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् |
एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः ||६||
वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् |
शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः ||७||
तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् |
ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् ||८||
ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः |
सिंहनादाश्च सञ्जज्ञुर्भेरीणां च महास्वनाः ||९||
पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम् |
पाण्डवानां कुरूणां च साधु साध्विति निस्वनः ||१०||
न हि मद्राधिपादन्यः सर्वराजसु भारत |
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ||११||
तथा मद्राधिपस्यापि गदावेगं महात्मनः |
सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् ||१२||
पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी |
प्रजज्वाल तथाविद्धा भीमेन महती गदा ||१३||
तथैव चरतो मार्गान्मण्डलानि च भागशः |
महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा ||१४||
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः |
आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ ||१५||
मण्डलावर्तमार्गेषु गदाविहरणेषु च |
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ||१६||
ताडिता भीमसेनेन शल्यस्य महती गदा |
साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत ||१७||
तथैव भीमसेनस्य द्विषताभिहता गदा |
वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ ||१८||
गदा क्षिप्ता तु समरे मद्रराजेन भारत |
व्योम संदीपयाना सा ससृजे पावकं बहु ||१९||
तथैव भीमसेनेन द्विषते प्रेषिता गदा |
तापयामास तत्सैन्यं महोल्का पतती यथा ||२०||
ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् |
श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् ||२१||
नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ |
तौ विचेरतुरासाद्य गदाभ्यां च परस्परम् ||२२||
ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ |
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ||२३||
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः |
गदाभिघातसंह्रादः शक्राशनिरिवोपमः ||२४||
गदया मद्रराजेन सव्यदक्षिणमाहतः |
नाकम्पत तदा भीमो भिद्यमान इवाचलः ||२५||
तथा भीमगदावेगैस्ताड्यमानो महाबलः |
धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः ||२६||
आपेततुर्महावेगौ समुच्छ्रितमहागदौ |
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ||२७||
अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव |
सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः ||२८||
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ |
युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव ||२९||
ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः |
शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः ||३०||
दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् |
विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् ||३१||
ततः सगदमारोप्य मद्राणामधिपं रथम् |
अपोवाह रणात्तूर्णं कृतवर्मा महारथः ||३२||
क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः |
भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत ||३३||
ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् |
सनागरथपत्त्यश्वाः समकम्पन्त मारिष ||३४||
ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः |
भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव ||३५||
निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः |
व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः ||३६||
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः |
भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह ||३७||
१५
सञ्जय उवाच||
तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् |
दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया ||१||
शरा दश दिशो मुक्ता वृषसेनेन मारिष |
विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् ||२||
तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः |
भानोरिव महाबाहो ग्रीष्मकाले मरीचयः ||३||
तेनार्दिता महाराज रथिनः सादिनस्तथा |
निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः ||४||
हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः |
अपातयद्रणे राजञ्शतशोऽथ सहस्रशः ||५||
दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् |
सहिताः सर्वराजानः परिवव्रुः समन्ततः ||६||
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् |
विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः ||७||
तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् |
तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः ||८||
कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा |
तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः ||९||
छादयन्तो महाराज द्रौपदेयान्महारथान् |
शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव ||१०||
तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः |
पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः ||११||
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् |
त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः ||१२||
एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः |
परस्परमुदीक्षन्तः परस्परकृतागसः ||१३||
तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् |
युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम् ||१४||
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः |
बभासे स रणोद्देशः कालसूर्यैरिवोदितैः ||१५||
तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् |
महाबलानां बलिभिर्दानवानां यथा सुरैः ||१६||
ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् |
त्वदीयमवधीत्सैन्यं सम्प्रद्रुतमहारथम् ||१७||
तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् |
अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत ||१८||
ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः |
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् ||१९||
तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः |
तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत् ||२०||
चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः |
दधार द्रोणमायान्तं वेलेव सरितां पतिम् ||२१||
द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् |
सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् ||२२||
कुमारस्तु ततो द्रोणं सायकेन महाहवे |
विव्याधोरसि सङ्क्रुद्धः सिंहवच्चानदन्मुहुः ||२३||
संवार्य तु रणे द्रोणः कुमारं वै महाबलः |
शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः ||२४||
तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् |
चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः ||२५||
स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः |
तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः ||२६||
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् |
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः ||२७||
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः |
सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः ||२८||
व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् |
अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ||२९||
युगन्धरस्ततो राजन्भारद्वाजं महारथम् |
वारयामास सङ्क्रुद्धं वातोद्धूतमिवार्णवम् ||३०||
युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः |
युगन्धरं च भल्लेन रथनीडादपाहरत् ||३१||
ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः |
व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् ||३२||
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् |
आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् ||३३||
व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः |
पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः ||३४||
त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् |
प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम् ||३५||
ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च |
तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् ||३६||
ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् |
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली ||३७||
तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् |
युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः ||३८||
ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले |
हृतो राजेति योधानां समीपस्थे यतव्रते ||३९||
अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् |
अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति ||४०||
आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे ||४०||
एवं सञ्जल्पतां तेषां तावकानां महारथः |
आयाज्जवेन कौन्तेयो रथघोषेण नादयन् ||४१||
शोणितोदां रथावर्तां कृत्वा विशसने नदीम् |
शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम् ||४२||
तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् |
नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः ||४३||
ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् |
छादयन्निषुजालेन महता मोहयन्निव ||४४||
शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् |
नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः ||४५||
न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी |
अदृश्यत महाराज बाणभूतमिवाभवत् ||४६||
नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे |
बाणान्धकारे महति कृते गाण्डीवधन्वना ||४७||
सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते |
नाज्ञायत तदा शत्रुर्न सुहृन्न च किञ्चन ||४८||
ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः |
तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान् ||४९||
स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् |
ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः ||५०||
पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः ||५०||
एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः |
पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः ||५१||
मसारगल्वर्कसुवर्णरूप्यै; र्वज्रप्रवालस्फटिकैश्च मुख्यैः |
चित्रे रथे पाण्डुसुतो बभासे; नक्षत्रचित्रे वियतीव चन्द्रः ||५२||
संशप्तकवधपर्व
१६
सञ्जय उवाच||
ते सेने शिबिरं गत्वा न्यविशेतां विशां पते |
यथाभागं यथान्यायं यथागुल्मं च सर्वशः ||१||
कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः |
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् ||२||
उक्तमेतन्मया पूर्वं न तिष्ठति धनञ्जये |
शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः ||३||
इति तद्वः प्रयततां कृतं पार्थेन संयुगे |
मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ ||४||
अपनीते तु योगेन केनचिच्छ्वेतवाहने |
तत एष्यति ते राजन्वशमद्य युधिष्ठिरः ||५||
कश्चिदाह्वयतां सङ्ख्ये देशमन्यं प्रकर्षतु |
तमजित्वा तु कौन्तेयो न निवर्तेत्कथञ्चन ||६||
एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप |
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ||७||
अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम् |
मामुपायान्तमालोक्य गृहीतमिति विद्धि तम् ||८||
एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम् |
समानेष्यामि सगणं वशमद्य न संशयः ||९||
यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः |
अथापयाति सङ्ग्रामाद्विजयात्तद्विशिष्यते ||१०||
द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः |
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् ||११||
वयं विनिकृता राजन्सदा गाण्डीवधन्वना |
अनागःस्वपि चागस्कृदस्मासु भरतर्षभ ||१२||
ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् |
क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः ||१३||
स नो दिव्यास्त्रसम्पन्नश्चक्षुर्विषयमागतः |
कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम् ||१४||
भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् |
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः ||१५||
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः |
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति ||१६||
एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत |
सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च ||१७||
सहिता भ्रातरः पञ्च रथानामयुतेन च |
न्यवर्तन्त महाराज कृत्वा शपथमाहवे ||१८||
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः |
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः ||१९||
माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि |
रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह ||२०||
नानाजनपदेभ्यश्च रथानामयुतं पुनः |
समुत्थितं विशिष्टानां संशपार्थमुपागतम् ||२१||
ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक् |
जगृहुः कुशचीराणि चित्राणि कवचानि च ||२२||
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः |
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः ||२३||
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः |
योक्ष्यमाणास्तदात्मानं यशसा विजयेन च ||२४||
ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः |
प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः ||२५||
ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक् |
गाश्च वासांसि च पुनः समाभाष्य परस्परम् ||२६||
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम् |
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः ||२७||
शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे |
धृत्वा धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे ||२८||
ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम् |
पानपस्य च ये लोका गुरुदाररतस्य च ||२९||
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः |
शरणागतं च त्यजतो याचमानं तथा घ्नतः ||३०||
अगारदाहिनां ये च ये च गां निघ्नतामपि |
अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि ||३१||
जायां च ऋतुकाले वै ये मोहादभिगच्छताम् |
श्राद्धसङ्गतिकानां च ये चाप्यात्मापहारिणाम् ||३२||
न्यासापहारिणां ये च श्रुतं नाशयतां च ये |
कोपेन युध्यमानानां ये च नीचानुसारिणाम् ||३३||
नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम् |
तानाप्नुयामहे लोकान्ये च पापकृतामपि ||३४||
यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम् |
तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः ||३५||
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे |
इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः ||३६||
एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे |
आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति ||३७||
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्जयः |
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् ||३८||
आहूतो न निवर्तेयमिति मे व्रतमाहितम् |
संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः ||३९||
एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे |
वधाय सगणस्यास्य मामनुज्ञातुमर्हसि ||४०||
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ |
सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि ||४१||
युधिष्ठिर उवाच||
श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम् |
यथा तदनृतं तस्य भवेत्तद्वत्समाचर ||४२||
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः |
प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ ||४३||
अर्जुन उवाच||
अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि |
ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति ||४४||
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो |
सर्वैरपि समेतैर्वा न स्थातव्यं कथञ्चन ||४५||
सञ्जय उवाच||
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः |
प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः ||४६||
विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली |
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव ||४७||
ततो दौर्योधनं सैन्यं मुदा परमया युतम् |
गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे ||४८||
ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा |
गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके ||४९||
१७
सञ्जय उवाच||
ततः संशप्तका राजन्समे देशे व्यवस्थिताः |
व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः ||१||
ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष |
उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ||२||
स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् |
आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः ||३||
अतीव सम्प्रहृष्टांस्तानुपलभ्य धनञ्जयः |
किञ्चिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ||४||
पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे |
भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् ||५||
अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम् |
कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् ||६||
एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः |
आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् ||७||
स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् |
दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः ||८||
तेन शब्देन वित्रस्ता संशप्तकवरूथिनी |
निश्चेष्टावस्थिता सङ्क्ये अश्मसारमयी यथा ||९||
वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः |
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः ||१०||
उपलभ्य च ते सञ्ज्ञामवस्थाप्य च वाहिनीम् |
युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ||११||
तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः |
अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः ||१२||
ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः |
प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ||१३||
एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः |
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ||१४||
भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम् |
आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ||१५||
ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति |
भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने ||१६||
ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः |
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ||१७||
तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः |
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ||१८||
हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः |
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ||१९||
ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् |
सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् ||२०||
तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः |
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् ||२१||
सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः |
अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ||२२||
तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः |
व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् ||२३||
ततो जघान सङ्क्रुद्धो वासविस्तां महाचमूम् |
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ||२४||
ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः |
सव्यसाचिनि सङ्क्रुद्धे त्रैगर्तान्भयमाविशत् ||२५||
ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः |
अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव ||२६||
ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान् |
अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ||२७||
शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः |
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः ||२८||
नावहास्याः कथं लोके कर्मणानेन संयुगे |
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ||२९||
एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः |
शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ||३०||
ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः |
नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् ||३१||
१८
सञ्जय उवाच||
दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः |
वासुदेवं महात्मानमर्जुनः समभाषत ||१||
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति |
नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः ||२||
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च |
अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ||३||
ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् |
प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ||४||
बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा |
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ||५||
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च |
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ||६||
अथ नारायणाः क्रुद्धा विविधायुधपाणयः |
छादयन्तः शरव्रातैः परिवव्रुर्धनञ्जयम् ||७||
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ |
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम् ||८||
क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः |
गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे ||९||
बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् |
देवदत्तं महाशङ्खं पूरयामास पाण्डवः ||१०||
अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः |
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ||११||
आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः |
अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे ||१२||
अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ |
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ||१३||
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् |
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ||१४||
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् |
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ||१५||
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि |
माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ||१६||
ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः |
व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च ||१७||
ततो नैवार्जुनस्तत्र न रथो न च केशवः |
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ||१८||
ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः |
हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा ||१९||
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः |
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ||२०||
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् |
क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ||२१||
तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः |
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ||२२||
ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् |
उवाह भगवान्वायुः शुष्कपर्णचयानिव ||२३||
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना |
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ||२४||
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः |
जघान निशितैर्बाणैः सहस्राणि शतानि च ||२५||
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् |
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ||२६||
पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् |
नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः ||२७||
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् |
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ||२८||
मुण्डतालवनानीव तत्र तत्र चकाशिरे |
छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् ||२९||
सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः |
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ||३०||
चामरापीडकवचाः स्रस्तान्त्रनयनासवः |
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ||३१||
विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः |
पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः ||३२||
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि |
भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ ||३३||
रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः |
मही चाप्यभवद्दुर्गा कबन्धशतसङ्कुला ||३४||
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे |
आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् ||३५||
ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः |
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ||३६||
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः |
आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः ||३७||
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि |
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ||३८||
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः |
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ||३९||
१९
सञ्जय उवाच||
परिणाम्य निशां तां तु भारद्वाजो महारथः |
बहूक्त्वा च ततो राजन्राजानं च सुयोधनम् ||१||
विधाय योगं पार्थेन संशप्तकगणैः सह |
निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति ||२||
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् |
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया ||३||
व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा |
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः ||४||
मुखमासीत्सुपर्णस्य भारद्वाजो महारथः |
शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह ||५||
चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः |
भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् ||६||
कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः |
शका यवनकाम्बोजास्तथा हंसपदाश्च ये ||७||
ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः |
गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः ||८||
भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः |
अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः ||९||
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः |
वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः ||१०||
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौन्द्रमद्रकाः |
गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः ||११||
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः |
महत्या सेनया तस्थौ नानाध्वजसमुत्थया ||१२||
जयद्रथो भीमरथः सांयात्रिकसभो जयः |
भूमिञ्जयो वृषक्राथो नैषधश्च महाबलः ||१३||
वृता बलेन महता ब्रह्मलोकपुरस्कृताः |
व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः ||१४||
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः |
वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते ||१५||
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः |
सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे ||१६||
तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् |
आस्थितः शुशुभे राजन्नंशुमानुदये यथा ||१७||
माल्यदामवता राजा श्वेतच्छत्रेण धार्यता |
कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना ||१८||
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ |
अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् ||१९||
नानानृपतिभिर्वीरैर्विविधायुधभूषणैः |
समन्वितः पार्वतीयैः शक्रो देवगणैरिव ||२०||
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् |
अजय्यमरिभिः सङ्ख्ये पार्षतं वाक्यमब्रवीत् ||२१||
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो |
पारावतसवर्णाश्व तथा नीतिर्विधीयताम् ||२२||
धृष्टद्युम्न उवाच||
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत |
अहमावारयिष्यामि द्रोणमद्य सहानुगम् ||२३||
मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि |
न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन ||२४||
सञ्जय उवाच||
एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली |
पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् ||२५||
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् |
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव ||२६||
तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः |
प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत् ||२७||
स सम्प्रहारस्तुमुलः समरूप इवाभवत् |
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत ||२८||
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् |
भारद्वाजं शरौघेण महता समवारयत् ||२९||
द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः |
नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् ||३०||
तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः |
द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः ||३१||
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः |
तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् ||३२||
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् |
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ||३३||
नैव स्वे न परे राजन्नज्ञायन्त परस्परम् |
अनुमानेन सञ्ज्ञाभिर्युद्धं तत्समवर्तत ||३४||
चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु |
तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे ||३५||
तत्प्रकीर्णपताकानां रथवारणवाजिनाम् |
बलाकाशबलाभ्राभं ददृशे रूपमाहवे ||३६||
नरानेव नरा जघ्नुरुदग्राश्च हया हयान् |
रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् ||३७||
समुच्छ्रितपताकानां गजानां परमद्विपैः |
क्षणेन तुमुलो घोरः सङ्ग्रामः समवर्तत ||३८||
तेषां संसक्तगात्राणां कर्षतामितरेतरम् |
दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत ||३९||
विप्रकीर्णपताकास्ते विषाणजनिताग्नयः |
बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः ||४०||
विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः |
सम्बभूव मही कीर्णा मेघैर्द्यौरिव शारदी ||४१||
तेषामाहन्यमानानां बाणतोमरवृष्टिभिः |
वारणानां रवो जज्ञे मेघानामिव सम्प्लवे ||४२||
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः |
वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन् ||४३||
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः |
चक्रुरार्तस्वरं घोरमुत्पातजलदा इव ||४४||
प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः |
उन्मथ्य पुनराजह्रुः प्रेरिताः परमाङ्कुशैः ||४५||
महामात्रा महामात्रैस्ताडिताः शरतोमरैः |
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः ||४६||
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः |
छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम् ||४७||
हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः |
दिशो जग्मुर्महानागाः केचिदेकचरा इव ||४८||
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः |
पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः ||४९||
तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः |
आहता सहसा भूमिश्चकम्पे च ननाद च ||५०||
सादितैः सगजारोहैः सपताकैः समन्ततः |
मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः ||५१||
गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे |
रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः ||५२||
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः |
परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश ||५३||
गजाश्वरथसङ्घानां शरीरौघसमावृता |
बभूव पृथिवी राजन्मांसशोणितकर्दमा ||५४||
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः |
सचक्राश्च विचक्राश्च रथैरेव महारथाः ||५५||
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः |
हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः ||५६||
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा |
इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किञ्चन ||५७||
आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे |
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः ||५८||
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च |
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत ||५९||
हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः |
संवृत्ताः पुनरावृत्ता बहुधा रथनेमिभिः ||६०||
स गजौघमहावेगः परासुनरशैवलः |
रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः ||६१||
तं वाहनमहानौभिर्योधा जयधनैषिणः |
अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे ||६२||
शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु |
न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः ||६३||
वर्तमाने तथा युद्धे घोररूपे भयङ्करे |
मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् ||६४||
२०
सञ्जय उवाच||
ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् |
महता शरवर्षेण प्रत्यगृह्णादभीतवत् ||१||
ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले |
जिघृक्षति महासिंहे गजानामिव यूथपम् ||२||
दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः |
युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् ||३||
तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम् |
विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव ||४||
ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः |
अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः ||५||
स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् |
द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः ||६||
ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे |
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत् ||७||
सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् |
चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह ||८||
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे |
विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् ||९||
द्रोणस्तु शरवर्षेण छाद्यमानो महारथः |
वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी ||१०||
ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च |
षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् ||११||
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् |
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् ||१२||
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे |
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् ||१३||
हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी |
अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः ||१४||
तथा सञ्छिद्यमानेषु कार्मुकेषु पुनः पुनः |
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् ||१५||
स सत्यजितमालक्ष्य तथोदीर्णं महाहवे |
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः ||१६||
तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे |
अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः ||१७||
पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः |
युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् ||१८||
ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा |
व्यधमत्तान्यनीकानि तूलराशिमिवानिलः ||१९||
निर्दहन्तमनीकानि तानि तानि पुनः पुनः |
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत ||२०||
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः |
षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम् ||२१||
तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् |
क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः ||२२||
मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि |
पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः ||२३||
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् |
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः ||२४||
उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः |
ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे ||२५||
नागानश्वान्पदातींश्च रथिनो गजसादिनः |
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ||२६||
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये |
अश्मवर्षमिवावर्षत्परेषां भयमादधत् ||२७||
सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव |
बली शूरो महेष्वासो मित्राणामभयङ्करः ||२८||
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् |
दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः ||२९||
द्रोणस्तु पाण्डवानीके चकार कदनं महत् |
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः ||३०||
स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः |
महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् ||३१||
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् |
गजवाजिमहाग्राहामसिमीनां दुरासदाम् ||३२||
वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् |
चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् ||३३||
शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम् |
रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् ||३४||
मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् ||३४||
उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम् |
वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् ||३५||
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् |
क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम् ||३६||
द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् ||३६||
क्रव्यादगणसङ्घुष्टां श्वशृगालगणायुताम् |
निषेवितां महारौद्रैः पिशिताशैः समन्ततः ||३७||
तं दहन्तमनीकानि रथोदारं कृतान्तवत् |
सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः ||३८||
तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः |
राजानो राजपुत्राश्च समन्तात्पर्यवारयन् ||३९||
ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः |
अभ्यतीत्य रथानीकं दृढसेनमपातयत् ||४०||
ततो राजानमासाद्य प्रहरन्तमभीतवत् |
अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् ||४१||
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः |
त्राता ह्यभवदन्येषां न त्रातव्यः कथञ्चन ||४२||
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् |
वसुदानं च भल्लेन प्रेषयद्यमसादनम् ||४३||
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् |
क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् ||४४||
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् |
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् ||४५||
ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः |
अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् ||४६||
तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत् |
स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् ||४७||
तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे |
हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् ||४८||
तांस्तथा भृशसङ्क्रुद्धान्पाञ्चालान्मत्स्यकेकयान् |
सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली ||४९||
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ |
वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम् ||५०||
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् |
सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः ||५१||
तावकास्तु महाराज जयं लब्ध्वा महाहवे |
पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः ||५२||
ते दानवा इवेन्द्रेण वध्यमाना महात्मना |
पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत ||५३||
२१
धृतराष्ट्र उवाच||
भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे |
पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ||१||
आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् |
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ||२||
स हि वीरो नरः सूत यो भग्नेषु निवर्तते |
अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ||३||
जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् |
त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम् ||४||
महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम् |
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् ||५||
भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम् |
के वीराः संन्यवर्तन्त तन्ममाचक्ष्व सञ्जय ||६||
सञ्जय उवाच||
तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः |
पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् ||७||
द्रोणचापविमुक्तेन शरौघेणासुहारिणा |
सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् ||८||
कौरवाः सिंहनादेन नानावाद्यस्वनेन च |
रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् ||९||
तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः |
दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ||१०||
पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः |
सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ||११||
नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः |
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ||१२||
अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना |
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ||१३||
संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना |
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ||१४||
भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः |
अन्योन्यं समलीयन्त पलायनपरायणाः ||१५||
एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः |
मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् ||१६||
व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः |
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः ||१७||
कर्ण उवाच||
नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् |
न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते ||१८||
न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः |
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ||१९||
विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः |
स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः ||२०||
निकृतो हि महाबाहुरमितौजा वृकोदरः |
वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ||२१||
असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः |
आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ||२२||
तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः |
पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः ||२३||
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः |
विशेषतश्च भीमेन संरब्धेनाभिचोदिताः ||२४||
ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः |
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ||२५||
एकायनगता ह्येते पीडयेयुर्यतव्रतम् |
अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः ||२६||
असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे ||२६||
अतिभारं त्वहं मन्ये भारद्वाजे समाहितम् |
ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः ||२७||
काका इव महानागं मा वै हन्युर्यतव्रतम् ||२७||
सञ्जय उवाच||
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा |
भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ||२८||
तत्रारावो महानासीदेकं द्रोणं जिघांसताम् |
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ||२९||
२२
धृतराष्ट्र उवाच||
सर्वेषामेव मे ब्रूहि रथचिह्नानि सञ्जय |
ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः ||१||
सञ्जय उवाच||
ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् |
रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत ||२||
दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः |
वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः ||३||
कृष्णास्तु मेघसङ्काशाः सहदेवमुदायुधम् |
भीमवेगा नरव्याघ्रमवहन्वातरंहसः ||४||
हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे |
अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् ||५||
राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् |
जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः ||६||
ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि |
राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत ||७||
तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः |
केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च ||८||
स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः ||८||
ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः |
वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः ||९||
हारिद्रसमवर्णास्तु जवना हेममालिनः |
पुत्रं विराटराजस्य सत्वराः समुदावहन् ||१०||
इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः |
जातरूपसमाभासः सर्वे लोहितकध्वजाः ||११||
ते हेममालिनः शूराः सर्वे युद्धविशारदाः |
वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः ||१२||
आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम् |
दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् ||१३||
तथा द्वादशसाहस्राः पाञ्चालानां महारथाः |
तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः ||१४||
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष |
आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः ||१५||
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः |
काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः ||१६||
बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः |
पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् ||१७||
मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलङ्कृताः |
शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् ||१८||
युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः |
काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् ||१९||
श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः |
यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् ||२०||
सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत |
माषपुष्पसवर्णास्तमवहन्वाजिनो रणे ||२१||
सहस्रसोमप्रतिमा बभूवुः; पुरे कुरूणामुदयेन्दुनाम्नि |
तस्मिञ्जातः सोमसङ्क्रन्दमध्ये; यस्मात्तस्मात्सुतसोमोऽभवत्सः ||२२||
नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः |
आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् ||२३||
काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः |
द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन् ||२४||
श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः |
ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः ||२५||
यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे |
अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे ||२६||
एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः |
तं बृहन्तो महाकाया युयुत्सुमवहन्रणे ||२७||
पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् |
ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलङ्कृताः ||२८||
कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः |
सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः ||२९||
रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः |
सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् ||३०||
रुक्ममालाधराः शूरा हेमवर्णाः स्वलङ्कृताः |
काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन् ||३१||
अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् |
तं सत्यधृतिमायान्तमरुणाः समुदावहन् ||३२||
यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत् |
पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् ||३३||
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः |
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो ||३४||
युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः |
भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः ||३५||
प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः |
नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः ||३६||
शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः |
समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः ||३७||
बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः |
ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः ||३८||
इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः |
आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः ||३९||
अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव |
राजानं रोचमानं ते हयाः सङ्ख्ये समावहन् ||४०||
कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः |
जारासन्धिं हयश्रेष्ठाः सहदेवमुदावहन् ||४१||
ये तु पुष्करनालस्य समवर्णा हयोत्तमाः |
जवे श्येनसमाश्चित्राः सुदामानमुदावहन् ||४२||
शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः |
पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् ||४३||
पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः |
तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः ||४४||
माषवर्णास्तु जवना बृहन्तो हेममालिनः |
दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् ||४५||
शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः |
पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् ||४६||
बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः |
कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् ||४७||
शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः |
युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः ||४८||
एकवर्णेन सर्वेण ध्वजेन कवचेन च |
अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत ||४९||
समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् |
अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् ||५०||
नीलोत्पलसवर्णास्तु तपनीयविभूषिताः |
शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः ||५१||
कलायपुष्पवर्णास्तु श्वेतलोहितराजयः |
रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् ||५२||
यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् |
तं पटच्चरहन्तारं शुकवर्णावहन्हयाः ||५३||
चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् |
ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः ||५४||
एकवर्णेन सर्वेण ध्वजेन कवचेन च |
धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत ||५५||
नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः |
वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत ||५६||
ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः |
ते रोचमानस्य सुतं हेमवर्णमुदावहन् ||५७||
योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः |
श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् ||५८||
आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् |
अवहन्रथमुख्यानामयुतानि चतुर्दश ||५९||
नानारूपेण वर्णेन नानाकृतिमुखा हयाः |
रथचक्रध्वजं वीरं घटोत्कचमुदावहन् ||६०||
सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् |
राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः ||६१||
वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः ||६१||
ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः |
प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः ||६२||
अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् |
सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत ||६३||
२३
धृतराष्ट्र उवाच||
व्यथयेयुरिमे सेनां देवानामपि संयुगे |
आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः ||१||
सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः |
तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः ||२||
दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी |
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः ||३||
स एव महतीं सेनां समावर्तयदाहवे |
किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् ||४||
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः |
स तथाकृष्यते तेन न यथा स्वयमिच्छति ||५||
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः |
स पुनर्भागधेयेन सहायानुपलब्धवान् ||६||
अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये |
चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः ||७||
पृथिवी भूयसी तात मम पार्थस्य नो तथा |
इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा ||८||
तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः |
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः ||९||
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् |
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् ||१०||
समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः |
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे ||११||
यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् |
दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह ||१२||
नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि |
पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत् ||१३||
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः |
सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति ||१४||
अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य सञ्जय |
अवशेषं न पश्यामि ककुदे मृदिते सति ||१५||
कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः |
यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ ||१६||
व्यक्तमेव च मे शंस यथा युद्धमवर्तत |
केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् ||१७||
धनञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः |
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः ||१८||
यथासीच्च निवृत्तेषु पाण्डवेषु च सञ्जय |
मम सैन्यावशेषस्य संनिपातः सुदारुणः ||१९||
मामकानां च ये शूराः कांस्तत्र समवारयन् ||१९||
२४
सञ्जय उवाच||
महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु |
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ||१||
तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव |
ततो हतममन्याम द्रोणं दृष्टिपथे हते ||२||
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः |
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ||३||
यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः |
वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ||४||
ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव |
आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् ||५||
तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे |
तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् ||६||
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः |
बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि ||७||
कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते |
पर्यवारयदायान्तं शूरं समितिशोभनम् ||८||
तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् |
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ||९||
सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् |
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् ||१०||
क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके |
नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् ||११||
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् |
विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः ||१२||
युयुत्सुं पाण्डवार्थाय यतमानं महारथम् |
सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् ||१३||
सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ |
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ||१४||
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् |
वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् ||१५||
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् |
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ||१६||
तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् |
क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ||१७||
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः |
आद्रवन्तं सहानीकं सहानीको न्यवारयत् ||१८||
तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः |
यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः ||१९||
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् |
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ||२०||
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् |
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ||२१||
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः |
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ||२२||
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः |
चक्रे विबाहुशिरसं भूतकर्माणमाहवे ||२३||
सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् |
द्रोणायाभिमुखं वीरं विविंशतिरवारयत् ||२४||
सुतसोमस्तु सङ्क्रुद्धः स्वपितृव्यमजिह्मगैः |
विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ||२५||
अथ भीमरथः शाल्वमाशुगैरायसैः शितैः |
षड्भिः साश्वनियन्तारमनयद्यमसादनम् ||२६||
श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः |
चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् ||२७||
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ |
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ||२८||
तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे |
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ||२९||
तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः |
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ||३०||
प्रवपन्निव बीजानि बीजकाले नरर्षभ |
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ||३१||
यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः |
तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ||३२||
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत |
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ||३३||
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् |
पर्यवारयदायान्तं युवानं समरे युवा ||३४||
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् |
विधूय तद्बाणजालं बभौ तव सुतो बली ||३५||
अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे |
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ||३६||
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः |
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ||३७||
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली |
द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् ||३८||
स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् |
तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् ||३९||
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् |
द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ||४०||
ते चैनं भृशसङ्क्रुद्धाः शरव्रातैरवाकिरन् |
स च तांश्छादयामास शरजालैः पुनः पुनः ||४१||
नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः |
साश्वसूतध्वजरथाः परस्परशराचिताः ||४२||
पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह |
नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् ||४३||
तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् |
सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ||४४||
क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि |
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ||४५||
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् |
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ||४६||
राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् |
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ||४७||
तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया |
स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ||४८||
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः |
अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् ||४९||
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ |
ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः ||५०||
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् |
पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् ||५१||
स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने |
पुनः पताकां सूतं च छत्रं चापातयद्रथात् ||५२||
अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा |
साश्वसूतध्वजरथं तं चकर्त वरासिना ||५३||
रथं च स्वं समास्थाय धनुरादाय चापरम् |
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ||५४||
मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः |
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ||५५||
आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् |
सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः ||५६||
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः |
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ||५७||
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः |
तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः ||५८||
एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम् |
पदातीनां च भद्रं ते तव तेषां च सङ्कुलम् ||५९||
नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः |
द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् ||६०||
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो |
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ||६१||
२५
धृतराष्ट्र उवाच||
तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः |
कथं युयुधिरे पार्था मामकाश्च तरस्विनः ||१||
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति |
संशप्तका वा पार्थस्य किमकुर्वत सञ्जय ||२||
सञ्जय उवाच||
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः |
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ||३||
स नाग इव नागेन गोवृषेणेव गोवृषः |
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ||४||
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः |
अभिनत्कुञ्जरानीकमचिरेणैव मारिष ||५||
ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम् |
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ||६||
विधमेदभ्रजालानि यथा वायुः समन्ततः |
व्यधमत्तान्यनीकानि तथैव पवनात्मजः ||७||
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत |
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ||८||
ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः |
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ||९||
तथा गजानां कदनं कुर्वाणमनिलात्मजम् |
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ||१०||
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः |
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ||११||
स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् |
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ||१२||
तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् |
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ||१३||
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष |
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ||१४||
तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् |
कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् ||१५||
तस्य कायं विनिर्भिद्य ममज्ज धरणीतले |
ततः पपात द्विरदो वज्राहत इवाचलः ||१६||
तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः |
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ||१७||
तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः |
सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ||१८||
तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः |
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ||१९||
येन नागेन मघवानजयद्दैत्यदानवान् |
स नागप्रवरो भीमं सहसा समुपाद्रवत् ||२०||
श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च |
व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् ||२१||
ततः सर्वस्य सैन्यस्य नादः समभवन्महान् |
हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ||२२||
तेन नादेन वित्रस्ता पाण्डवानामनीकिनी |
सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ||२३||
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् |
भगदत्तं सपाञ्चालः सर्वतः समवारयत् ||२४||
तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः |
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ||२५||
स विघातं पृषत्कानामङ्कुशेन समाचरन् |
गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ||२६||
तदद्भुतमपश्याम भगदत्तस्य संयुगे |
तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ||२७||
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् |
तिर्यग्यातेन नागेन समदेनाशुगामिना ||२८||
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः |
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ||२९||
प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च |
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ||३०||
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः |
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ||३१||
उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः |
रथानीकेन महता सर्वतः पर्यवारयत् ||३२||
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः |
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ||३३||
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् |
किरतां शरवर्षाणि स नागः पर्यवर्तत ||३४||
ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् |
प्रेषयामास सहसा युयुधानरथं प्रति ||३५||
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः |
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ||३६||
बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः |
तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं पुनः ||३७||
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् |
निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् ||३८||
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः |
तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो नृपाः ||३९||
ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः |
ऐरावतस्थेन यथा देवराजेन दानवाः ||४०||
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः |
गजवाजिकृतः शब्दः सुमहान्समजायत ||४१||
भगदत्तेन समरे काल्यमानेषु पाण्डुषु |
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ||४२||
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा |
सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ||४३||
ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः |
समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ||४४||
ततो रुचिरपर्वाणं शरेण नतपर्वणा |
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ||४५||
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः |
चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ||४६||
त एनं शरधाराभिर्धाराभिरिव तोयदाः |
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ||४७||
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः |
प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ||४८||
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् |
पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम् ||४९||
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः |
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ||५०||
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः |
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ||५१||
सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ |
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ||५२||
नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः |
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ||५३||
गोपाल इव दण्डेन यथा पशुगणान्वने |
आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः ||५४||
क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः |
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ||५५||
स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षोऽद्रिवरो यथा नृप |
भयं तथा रिपुषु समादधद्भृशं; वणिग्गणानां क्षुभितो यथार्णवः ||५६||
ततो ध्वनिर्द्विरदरथाश्वपार्थिवै; र्भयाद्द्रवद्भिर्जनितोऽतिभैरवः |
क्षितिं वियद्द्यां विदिशो दिशस्तथा; समावृणोत्पार्थिव संयुगे तदा ||५७||
स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषतामनीकिनीम् |
पुरा सुगुप्तां विबुधैरिवाहवे; विरोचनो देववरूथिनीमिव ||५८||
भृशं ववौ ज्वलनसखो वियद्रजः; समावृणोन्मुहुरपि चैव सैनिकान् |
तमेकनागं गणशो यथा गजाः; समन्ततो द्रुतमिव मेनिरे जनाः ||५९||
२६
सञ्जय उवाच||
यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि |
तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे ||१||
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् |
भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् ||२||
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन |
त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः ||३||
इन्द्रादनवरः सङ्ख्ये गजयानविशारदः |
प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः ||४||
स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि |
सर्वशब्दातिगः सङ्ख्ये कृतकर्मा जितक्लमः ||५||
सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ |
स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति ||६||
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् |
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ||७||
शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम् |
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ||८||
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः |
दार्यते भगदत्तेन यत्र पाण्डववाहिनी ||९||
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः |
संशप्तकाः समारोहन्सहस्राणि चतुर्दश ||१०||
दशैव तु सहस्राणि त्रिगर्तानां नराधिप |
चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः ||११||
दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष |
आहूयमानस्य च तैरभवद्धृदयं द्विधा ||१२||
किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन् |
इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ||१३||
तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह |
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ||१४||
स संनिवृत्तः सहसा कपिप्रवरकेतनः |
एको रथसहस्राणि निहन्तुं वासवी रणे ||१५||
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः |
अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् ||१६||
स तु संवर्तयामास द्वैधीभावेन पाण्डवः |
रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा ||१७||
ततः शतसहस्राणि शराणां नतपर्वणाम् |
व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः ||१८||
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः |
न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ||१९||
यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः |
ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् ||२०||
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः |
केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ||२१||
द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः |
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ||२२||
विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः |
सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ||२३||
सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः |
सञ्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ||२४||
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष |
सञ्छिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे ||२५||
जज्वालालङ्कृतैः सेना पत्रिभिः प्राणभोजनैः |
नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने ||२६||
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव |
धनञ्जयं भूतगणाः साधु साध्वित्यपूजयन् ||२७||
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः |
विस्मयं परमं गत्वा तलमाहत्य पूजयत् ||२८||
ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः |
भगदत्ताय याहीति पार्थः कृष्णमचोदयत् ||२९||
२७
सञ्जय उवाच||
यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् |
अप्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय पाण्डुरान् ||१||
तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् |
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ||२||
ततः श्वेतहयः कृष्णमब्रवीदजितं जयः |
एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत ||३||
दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन |
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ||४||
किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् |
इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ||५||
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् |
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ||६||
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः |
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ||७||
त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः |
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ||८||
ततो भुजगसङ्काशां सुशर्मा शक्तिमायसीम् |
चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ||९||
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः |
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत ||१०||
तं वासवमिवायान्तं भूरिवर्षशरौघिणम् |
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ||११||
ततो धनञ्जयो बाणैस्तत एव महारथान् |
आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ||१२||
तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः |
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ||१३||
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः |
सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति ||१४||
यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् |
धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम् ||१५||
तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः |
कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ||१६||
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी |
व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ||१७||
ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् |
मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये ||१८||
व्यपेतहृदयत्रास आपद्धर्मातिगो रथः |
आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ||१९||
यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः |
मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ||२०||
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः |
तेन नागेन सहसा धनञ्जयमुपाद्रवत् ||२१||
तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् |
स संनिपातस्तुमुलो बभूव रथनागयोः ||२२||
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च |
सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ ||२३||
ततो जीमूतसङ्काशान्नागादिन्द्र इवाभिभूः |
अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम् ||२४||
स चापि शरवर्षं तच्छरवर्षेण वासविः |
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ||२५||
ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् |
शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत ||२६||
ततः स शरजालेन महताभ्यवकीर्य तौ |
चोदयामास तं नागं वधायाच्युतपार्थयोः ||२७||
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् |
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ||२८||
सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम् |
सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः ||२९||
स तु नागो द्विपरथान्हयांश्चारुज्य मारिष |
प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनञ्जयः ||३०||
२८
धृतराष्ट्र उवाच||
तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः |
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् ||१||
सञ्जय उवाच||
प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ |
मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे ||२||
तथा हि शरवर्षाणि पातयत्यनिशं प्रभो |
भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः ||३||
अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः |
अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ||४||
अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः |
निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः ||५||
तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च |
लाडयन्निव राजानं भगदत्तमयोधयत् ||६||
सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश |
प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत् ||७||
ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः |
शरजालेन स बभौ व्यभ्रः पर्वतराडिव ||८||
ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् |
व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् ||९||
ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः |
विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् ||१०||
सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः |
भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः ||११||
व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च |
तैरर्जुनस्य समरे किरीटं परिवर्तितम् ||१२||
परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः |
सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् ||१३||
एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम् |
अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् ||१४||
तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च |
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् ||१५||
विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् |
अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ||१६||
विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् |
उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः ||१७||
वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि |
ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत ||१८||
अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन |
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि ||१९||
यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे |
ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते ||२०||
सबाणः सधनुश्चाहं ससुरासुरमानवान् |
शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव ||२१||
ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः |
शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ ||२२||
चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः |
आत्मानं प्रविभज्येह लोकानां हितमादधे ||२३||
एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता |
अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी ||२४||
अपरा कुरुते कर्म मानुषं लोकमाश्रिता |
शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् ||२५||
यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम |
वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा ||२६||
तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा |
प्रायाचत वरं यं मां नरकार्थाय तं शृणु ||२७||
देवानामसुराणां च अवध्यस्तनयोऽस्तु मे |
उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि ||२८||
एवं वरमहं श्रुत्वा जगत्यास्तनये तदा |
अमोघमस्त्रमददं वैष्णवं तदहं पुरा ||२९||
अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे |
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति ||३०||
अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः |
भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा ||३१||
तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी |
स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः ||३२||
तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् |
नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष ||३३||
तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् |
वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् ||३४||
वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् |
यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा ||३५||
एवमुक्तस्ततः पार्थः केशवेन महात्मना |
भगदत्तं शितैर्बाणैः सहसा समवाकिरत् ||३६||
ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः |
कुम्भयोरन्तरे नागं नाराचेन समार्पयत् ||३७||
समासाद्य तु तं नागं बाणो वज्र इवाचलम् |
अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः ||३८||
स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ |
नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः ||३९||
ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा |
बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः ||४०||
स भिन्नहृदयो राजा भगदत्तः किरीटिना |
शरासनं शरांश्चैव गतासुः प्रमुमोच ह ||४१||
शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः |
नालताडनविभ्रष्टं पलाशं नलिनादिव ||४२||
स हेममाली तपनीयभाण्डा; त्पपात नागाद्गिरिसंनिकाशात् |
सुपुष्पितो मारुतवेगरुग्णो; महीधराग्रादिव कर्णिकारः ||४३||
निहत्य तं नरपतिमिन्द्रविक्रमं; सखायमिन्द्रस्य तथैन्द्रिराहवे |
ततोऽपरांस्तव जयकाङ्क्षिणो नरा; न्बभञ्ज वायुर्बलवान्द्रुमानिव ||४४||
२९
सञ्जय उवाच||
प्रियमिन्द्रस्य सततं सखायममितौजसम् |
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत ||१||
ततो गान्धारराजस्य सुतौ परपुरञ्जयौ |
आर्छेतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ ||२||
तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ |
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् ||३||
वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् |
तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः ||४||
ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि |
गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः ||५||
ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् |
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः ||६||
हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः |
आरुरोह रथं भ्रातुरन्यच्च धनुराददे ||७||
तावेकरथमारूढौ भ्रातरौ वृषकाचलौ |
शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः ||८||
स्यालौ तव महात्मानौ राजानौ वृषकाचलौ |
भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव ||९||
लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः |
निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा ||१०||
तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ |
संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः ||११||
तौ रथात्सिंहसङ्काशौ लोहिताक्षौ महाभुजौ |
गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ ||१२||
तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ |
यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ ||१३||
दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ |
भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते ||१४||
निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः |
कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः ||१५||
लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः |
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः ||१६||
सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः |
क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसन्धिनः ||१७||
चक्राणि विशिखाः प्रासा विविधान्यायुधानि च |
प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति ||१८||
खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः |
ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः ||१९||
विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति |
सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च ||२०||
ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः |
विसृजन्निषुजालानि सहसा तान्यताडयत् ||२१||
ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः |
विरुवन्तो महारावान्विनेशुः सर्वतो हताः ||२२||
ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति |
तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् ||२३||
तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत् |
हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः ||२४||
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः |
प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ||२५||
एवं बहुविधा मायाः सौबलस्य कृताः कृताः |
जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा ||२६||
तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः |
अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा ||२७||
ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु |
अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् ||२८||
सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी |
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ||२९||
द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः |
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ||३०||
नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम् |
गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ||३१||
शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् |
गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ||३२||
ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम् |
सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् ||३३||
नानाविधान्यनीकानि पुत्राणां तव भारत |
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ||३४||
तं वासवमिवायान्तं भूरिवर्षशरौघिणम् |
महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् ||३५||
ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् |
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः ||३६||
तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः |
शलभा इव सम्पेतुः संवृण्वाना दिशो दश ||३७||
तुरगं रथिनं नागं पदातिमपि मारिष |
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः ||३८||
न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः |
पृथगेकशरारुग्णा निपेतुस्ते गतासवः ||३९||
हतैर्मनुष्यैस्तुरगैश्च सर्वतः; शराभिवृष्टैर्द्विरदैश्च पातितैः |
तदा श्वगोमायुबडाभिनादितं; विचित्रमायोधशिरो बभूव ह ||४०||
पिता सुतं त्यजति सुहृद्वरं सुहृ; त्तथैव पुत्रः पितरं शरातुरः |
स्वरक्षणे कृतमतयस्तदा जना; स्त्यजन्ति वाहानपि पार्थपीडिताः ||४१||
३०
धृतराष्ट्र उवाच||
तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय |
चलितानां द्रुतानां च कथमासीन्मनो हि वः ||१||
अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम् |
दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय ||२||
सञ्जय उवाच||
तथापि तव पुत्रस्य प्रियकामा विशां पते |
यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः ||३||
समुद्यतेषु शस्त्रेषु सम्प्राप्ते च युधिष्ठिरे |
अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ||४||
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः |
सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो ||५||
द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् |
मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् ||६||
द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे |
कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत ||७||
यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् |
तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते ||८||
यथाभागविपर्यासे सङ्ग्रामे भैरवे सति |
वीराः समासदन्वीरानगच्छन्भीरवः परान् ||९||
अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः |
अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः ||१०||
ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः |
त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ||११||
अयसामिव सम्पातः शिलानामिव चाभवत् |
दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् ||१२||
न तु स्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम् |
दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा ||१३||
प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने |
प्रवर्तता बलौघेन महता भारपीडिता ||१४||
घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः |
अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् ||१५||
समासाद्य तु पाण्डूनामनीकानि सहस्रशः |
द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः ||१६||
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा |
पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् ||१७||
तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा |
नैव तस्योपमा काचित्सम्भवेदिति मे मतिः ||१८||
ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् |
शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः ||१९||
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् |
पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत ||२०||
नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा |
मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः ||२१||
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् |
व्याकोशपद्माभमुखं नीलो विव्याध सायकैः ||२२||
तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः |
धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत ||२३||
सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् |
द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् ||२४||
तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् |
भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ ||२५||
सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः |
प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ ||२६||
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला |
आचार्यपुत्रेण हते नीले ज्वलिततेजसि ||२७||
अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः |
कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष ||२८||
दक्षिणेन तु सेनायाः कुरुते कदनं बली |
संशप्तकावशेषस्य नारायणबलस्य च ||२९||
३१
सञ्जय उवाच||
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः |
सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः ||१||
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः |
जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह ||२||
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः |
षड्भिर्दुर्योधनो राजा तत एनमवाकिरत् ||३||
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः |
द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः ||४||
दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः |
आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे ||५||
तस्मिन्सन्त्यजति प्राणान्मृत्युसाधारणीकृते |
अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् ||६||
ते ययुर्भीमसेनस्य समीपममितौजसः |
युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ ||७||
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः |
महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः ||८||
समापेतुर्महावीर्या भीमप्रभृतयो रथाः |
तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः ||९||
महाबलानतिरथान्वीरान्समरशोभिनः |
बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः ||१०||
सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् |
आसीच्छक्त्यसिसम्पातो युद्धमासीत्परश्वधैः ||११||
निकृष्टमसियुद्धं च बभूव कटुकोदयम् |
कुञ्जराणां च सङ्घातैर्युद्धमासीत्सुदारुणम् ||१२||
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्षिराः |
नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष ||१३||
तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः |
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः ||१४||
अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान् |
विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् ||१५||
नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः |
बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान् ||१६||
कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् |
पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव ||१७||
गृध्रपत्राधिवासांसि शयनानि नराधिपाः |
ह्रीमन्तः कालसम्पक्वाः सुदुःखान्यधिशेरते ||१८||
हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते |
पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत ||१९||
अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम् |
युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः ||२०||
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् |
गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ ||२१||
रथिना ताडितो नागो नाराचेनापतद्व्यसुः |
सारोहश्चापतद्वाजी गजेनाताडितो भृशम् ||२२||
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् |
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि ||२३||
प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः |
इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः ||२४||
नरस्याश्वस्य नागस्य समसज्जत शोणितम् |
उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् ||२५||
आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् |
नखैर्दन्तैश्च शूराणमद्वीपे द्वीपमिच्छताम् ||२६||
तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः |
सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा ||२७||
प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् |
अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् ||२८||
शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम् |
स्वानन्योऽथ परानन्यो जघान निशितैः शरैः ||२९||
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः |
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे ||३०||
तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् |
अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् ||३१||
शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् |
बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् ||३२||
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन |
सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत ||३३||
ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् |
नित्याभित्वरितानेव त्वरयामास पाण्डवान् ||३४||
कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः |
सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति ||३५||
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत |
इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति ||३६||
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः |
विन्दानुविन्दाववन्त्यौ शल्यश्चैनानवारयन् ||३७||
ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः |
शरार्ता न जुहुर्द्रोणं पाञ्चालाः पाण्डवैः सह ||३८||
ततो द्रोणोऽभिसङ्क्रुद्धो विसृजञ्शतशः शरान् |
चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् ||३९||
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष |
वज्रसङ्घातसङ्काशस्त्रासयन्पाण्डवान्बहून् ||४०||
एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली |
अब्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति ||४१||
तं शरौघमहावर्तं शोणितोदं महाह्रदम् |
तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः ||४२||
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः |
दीप्यमानमपश्याम तेजसा वानरध्वजम् ||४३||
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः |
स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् ||४४||
प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा |
युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः ||४५||
तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः |
ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः ||४६||
केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः |
पार्थबाणहताः केचिन्निपेतुर्विगतासवः ||४७||
तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान् |
न जघानार्जुनो योधान्योधव्रतमनुस्मरन् ||४८||
ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः |
कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः ||४९||
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् |
मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् ||५०||
स भारतरथश्रेष्ठः सर्वभारतहर्षणः |
प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः ||५१||
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च |
शरौघाञ्शरजालेन विदुधाव धनञ्जयः ||५२||
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् ||५२||
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः |
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ||५३||
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः |
तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः ||५४||
ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव |
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ||५५||
ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः |
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ||५६||
ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः |
ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् ||५७||
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः |
कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः ||५८||
ततः शत्रुञ्जयं हत्वा पार्थः षड्भिरजिह्मगैः |
जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ||५९||
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना |
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः ||६०||
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् |
वरासिना कर्णपक्षाञ्जघान दश पञ्च च ||६१||
पुनः स्वरथमास्थाय धनुरादाय चापरम् |
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ||६२||
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् |
जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् ||६३||
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् |
आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे ||६४||
शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति |
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ||६५||
भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् |
पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||६६||
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः |
निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् ||६७||
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च |
नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ||६८||
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् |
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ||६९||
पदातिरथनागाश्वैर्गजाश्वरथपत्तयः |
रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः ||७०||
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह |
संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः ||७१||
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् |
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् ||७२||
ततो हता नररथवाजिकुञ्जरै; रनेकशो द्विपरथवाजिपत्तयः |
गजैर्गजा रथिभिरुदायुधा रथा; हयैर्हयाः पत्तिगणैश्च पत्तयः ||७३||
रथैर्द्विपा द्विरदवरैर्महाहया; हयैर्नरा वररथिभिश्च वाजिनः |
निरस्तजिह्वादशनेक्षणाः क्षितौ; क्षयं गताः प्रमथितवर्मभूषणाः ||७४||
तथा परैर्बहुकरणैर्वरायुधै; र्हता गताः प्रतिभयदर्शनाः क्षितिम् |
विपोथिता हयगजपादताडिता; भृशाकुला रथखुरनेमिभिर्हताः ||७५||
प्रमोदने श्वापदपक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे |
महाबलास्ते कुपिताः परस्परं; निषूदयन्तः प्रविचेरुरोजसा ||७६||
ततो बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसम्प्लुते |
दिवाकरेऽस्तङ्गिरिमास्थिते शनै; रुभे प्रयाते शिबिराय भारत ||७७||
अभिमन्युवधपर्व
३२
सञ्जय उवाच||
पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा |
द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे ||१||
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः |
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ||२||
अवहारं ततः कृत्वा भारद्वाजस्य संमते |
लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे ||३||
श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् |
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति ||४||
अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः ||४||
ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् |
प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः ||५||
शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः ||५||
नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम |
तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ||६||
इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः |
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ||७||
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि |
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन ||८||
ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम् |
नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये ||९||
ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः |
नालं लोका रणे जेतुं पाल्यमानं किरीटिना ||१०||
विश्वसृग्यत्र गोविन्दः पृतनारिस्तहार्जुनः |
तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः ||११||
सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् |
अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् ||१२||
तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि |
योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् ||१३||
न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन |
तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः ||१४||
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः |
आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम् ||१५||
तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः |
तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् ||१६||
ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत |
चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः ||१७||
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत |
बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा ||१८||
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः |
षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः ||१९||
वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः |
सौभद्रे निहते राजन्नवहारमकुर्वत ||२०||
धृतराष्ट्र उवाच||
पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम् |
रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ||२१||
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः |
यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् ||२२||
बालमत्यन्तसुखिनं विचरन्तमभीतवत् |
कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् ||२३||
बिभित्सता रथानीकं सौभद्रेणामितौजसा |
विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय ||२४||
सञ्जय उवाच||
यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् |
तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः ||२५||
विक्रीडितं कुमारेण यथानीकं बिभित्सता ||२५||
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे |
वनौकसामिवारण्ये त्वदीयानामभूद्भयम् ||२६||
३३
सञ्जय उवाच||
समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः |
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ||१||
सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया |
नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् ||२||
सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः |
सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ||३||
युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान् |
रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ||४||
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः |
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ||५||
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः |
नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् ||६||
श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः |
सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ||७||
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः |
अभिमन्यौ किलैकस्था दृश्यन्ते गुणसञ्चयाः ||८||
युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च |
कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः ||९||
धनञ्जयस्य रूपेण विक्रमेण श्रुतेन च |
विनयात्सहदेवस्य सदृशो नकुलस्य च ||१०||
धृतराष्ट्र उवाच||
अभिमन्युमहं सूत सौभद्रमपराजितम् |
श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ||११||
सञ्जय उवाच||
चक्रव्यूहो महाराज आचार्येणाभिकल्पितः |
तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः ||१२||
सङ्घातो राजपुत्राणां सर्वेषामभवत्तदा |
कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ||१३||
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः |
सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः ||१४||
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् |
पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् ||१५||
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः |
अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ||१६||
कर्णदुःशासनकृपैर्वृतो राजा महारथैः |
देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ||१७||
चामरव्यजनाक्षेपैरुदयन्निव भास्करः ||१७||
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके |
सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः ||१८||
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः |
सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः ||१९||
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा |
पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ||२०||
३४
सञ्जय उवाच||
तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् |
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ||१||
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः |
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ||२||
आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् |
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ||३||
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः |
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ||४||
द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् |
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ||५||
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः |
समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ||६||
समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् |
असम्भ्रान्तः शरौघेण महता समवारयत् ||७||
महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् |
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ||८||
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः |
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ||९||
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् |
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ||१०||
तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः |
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ||११||
अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः |
अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ||१२||
वासुदेवादनवरं फल्गुनाच्चामितौजसम् |
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ||१३||
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु |
चक्रव्यूहस्य न वयं विद्म भेदं कथञ्चन ||१४||
त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा |
चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते ||१५||
अभिमन्यो वरं तात याचतां दातुमर्हसि |
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ||१६||
धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात् |
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ||१७||
अभिमन्युरुवाच||
द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि |
पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च ||१८||
उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने |
नोत्सहे तु विनिर्गन्तुमहं कस्याञ्चिदापदि ||१९||
युधिष्ठिर उवाच||
भिन्ध्यनीकं युधा श्रेष्ठ द्वारं सञ्जनयस्व नः |
वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि ||२०||
धनञ्जयसमं युद्धे त्वां वयं तात संयुगे |
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ||२१||
भीम उवाच||
अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः |
पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः ||२२||
सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः |
वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् ||२३||
अभिमन्युरुवाच||
अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् |
पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम् ||२४||
तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः |
मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे ||२५||
शिशुनैकेन सङ्ग्रामे काल्यमानानि सङ्घशः |
अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया ||२६||
युधिष्ठिर उवाच||
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् |
यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् ||२७||
रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः |
साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः ||२८||
सञ्जय उवाच||
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् |
सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ||२९||
३५
सञ्जय उवाच||
सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः |
अचोदयत यन्तारं द्रोणानीकाय भारत ||१||
तेन सञ्चोद्यमानस्तु याहि याहीति सारथिः |
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ||२||
अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः |
सम्प्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि ||३||
आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः |
अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः ||४||
ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् |
सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा ||५||
ऐरावतगतं शक्रं सहामरगणैरहम् |
योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः ||६||
न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् ||६||
अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज |
पितरं चार्जुनं सङ्ख्ये न भीर्मामुपयास्यति ||७||
ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः |
याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् ||८||
ततः सञ्चोदयामास हयानस्य त्रिहायनान् |
नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ||९||
ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः |
द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः ||१०||
तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः |
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः ||११||
स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिरर्जुनाद्वरः |
युयुत्सया द्रोणमुखान्महारथा; न्समासदत्सिंहशिशुर्यथा गजान् ||१२||
ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे |
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव ||१३||
शूराणां युध्यमानानां निघ्नतामितरेतरम् |
सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ||१४||
प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे |
द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः ||१५||
तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम् |
हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः ||१६||
नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः |
हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः ||१७||
घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति |
असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः ||१८||
बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि |
संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् ||१९||
तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् |
क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः ||२०||
ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः |
अभिपेतुस्तमेवाजौ शलभा इव पावकम् ||२१||
ततस्तेषां शरीरैश्च शरीरावयवैश्च सः |
सन्तस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ||२२||
बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान् |
सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् ||२३||
सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान् |
सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् ||२४||
सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् |
समुद्गरक्षेपणीयान्सपाशपरिघोपलान् ||२५||
सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् |
सञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः ||२६||
तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः |
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ||२७||
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः |
संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु ||२८||
चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः |
विनालनलिनाकारैर्दिवाकरशशिप्रभैः ||२९||
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः |
द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः ||३०||
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् |
वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् ||३१||
विजङ्घकूबराक्षांश्च विनेमीननरानपि |
विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ||३२||
प्रशातितोपकरणान्हतयोधान्सहस्रशः |
शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ||३३||
पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् |
तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् ||३४||
घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् |
शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ||३५||
वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् |
स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ||३६||
स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः |
विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् ||३७||
निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान् |
हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् ||३८||
निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् |
निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत ||३९||
एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् |
तथा विमथितं तेन त्र्यङ्गं तव बलं महत् ||४०||
व्यहनत्स पदात्योघांस्त्वदीयानेव भारत ||४०||
एवमेकेन तां सेनां सौभद्रेण शितैः शरैः |
भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ||४१||
त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश |
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः ||४२||
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये |
गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ||४३||
हतान्पुत्रांस्तथा पितॄन्सुहृत्सम्बन्धिबान्धवान् |
प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् ||४४||
३६
सञ्जय उवाच||
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा |
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ||१||
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे |
दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् ||२||
पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् |
तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् ||३||
ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः |
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ||४||
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः |
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ||५||
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् |
सौभद्रं शरवर्षेण महता समवाकिरन् ||६||
संमोहयित्वा तमथ दुर्योधनममोचयन् |
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ||७||
ताञ्शरौघेण महता साश्वसूतान्महारथान् |
विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ||८||
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः |
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ||९||
त एनं कोष्ठकीकृत्य रथवंशेन मारिष |
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः ||१०||
तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः |
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ||११||
ततस्ते कोपितास्तेन शरैराशीविषोपमैः |
परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् ||१२||
समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् |
अभिमन्युर्दधारैको वेलेव मकरालयम् ||१३||
शूराणां युध्यमानानां निघ्नतामितरेतरम् |
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ||१४||
तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे |
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ||१५||
दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः |
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ||१६||
विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः |
बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ||१७||
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः |
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ||१८||
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः |
नृत्यन्निव महाराज चापहस्तः प्रतापवान् ||१९||
ततोऽभिमन्युः सङ्क्रुद्धस्ताप्यमानस्तवात्मजैः |
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ||२०||
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः |
दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् ||२१||
विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् ||२१||
तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् |
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ||२२||
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे |
सञ्चचाल बलं सर्वं पलायनपरायणम् ||२३||
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः |
शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ||२४||
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः |
वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ||२५||
दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् ||२५||
सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः |
शरमादत्त कर्णाय परकायावभेदनम् ||२६||
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः |
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ||२७||
स तेनातिप्रहारेण व्यथितो विह्वलन्निव |
सञ्चचाल रणे कर्णः क्षितिकम्पे यथाचलः ||२८||
अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् |
कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली ||२९||
कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् |
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ||३०||
स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः |
विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ||३१||
शल्यं च बाणवर्षेण समीपस्थमवाकिरत् |
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ||३२||
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः |
शल्यो राजन्रथोपस्थे निषसाद मुमोह च ||३३||
तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना |
सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ||३४||
प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् |
त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव ||३५||
स तु रणयशसाभिपूज्यमानः; पितृसुरचारणसिद्धयक्षसङ्घैः |
अवनितलगतैश्च भूतसङ्घै; रतिविबभौ हुतभुग्यथाज्यसिक्तः ||३६||
३७
धृतराष्ट्र उवाच||
तथा प्रमथमानं तं महेष्वासमजिह्मगैः |
आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् ||१||
सञ्जय उवाच||
शृणु राजन्कुमारस्य रणे विक्रीडितं महत् |
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् ||२||
मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे |
शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात् ||३||
स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् |
उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् ||४||
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् |
छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् ||५||
चक्रे युगेषां तूणीराननुकर्षं च सायकैः |
पताकां चक्रगोप्तारौ सर्वोपकरणानि च ||६||
व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन ||६||
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः |
वायुनेव महाचैत्यः सम्भग्नोऽमिततेजसा ||७||
अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् ||७||
आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः |
नादेन सर्वभूतानि साधु साध्विति भारत ||८||
शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः |
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् ||९||
अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः |
रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः ||१०||
बाणशब्देन महता खुरनेमिस्वनेन च |
हुङ्कारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः ||११||
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् |
ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति ||१२||
तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव |
यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ||१३||
संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च |
आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत ||१४||
वासुदेवादुपात्तं यद्यदस्त्रं च धनञ्जयात् |
अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन् ||१५||
दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः |
संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ||१६||
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत |
तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा ||१७||
ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः |
महाशनिमुचः काले पयोदस्येव निस्वनः ||१८||
ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः |
संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत ||१९||
मृदुर्भूत्वा महाराज दारुणः समपद्यत |
वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ||२०||
शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान् |
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ||२१||
क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः |
नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि ||२२||
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः |
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ||२३||
३८
धृतराष्ट्र उवाच||
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च सञ्जय |
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ||१||
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः |
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ||२||
सञ्जय उवाच||
हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम् |
एकस्य च बहूनां च यथासीत्तुमुलो रणः ||३||
अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् |
रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ||४||
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् |
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ||५||
नानानृपान्नृपसुतान्सैन्यानि विविधानि च |
अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ||६||
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् |
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ||७||
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः |
समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ||८||
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् |
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ||९||
घट्टयन्निव मर्माणि तव पुत्रस्य मारिष |
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ||१०||
एष गच्छति सौभद्रः पार्थानामग्रतो युवा |
नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ||११||
नकुलं सहदेवं च भीमसेनं च पाण्डवम् |
बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ||१२||
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम् |
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ||१३||
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः |
आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ||१४||
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम् |
दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ||१५||
सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः |
अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ||१६||
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः |
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ||१७||
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति |
पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ||१८||
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः |
आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् ||१९||
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः |
संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ||२०||
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा |
अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ||२१||
अहमेनं हनिष्यामि महाराज ब्रवीमि ते |
मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ||२२||
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ||२२||
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः |
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ||२३||
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ||२३||
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः |
एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ||२४||
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव |
शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ||२५||
एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव |
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ||२६||
तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः |
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ||२७||
दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः |
अयोधयत सौभद्रमभिमन्युश्च तं रणे ||२८||
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् |
चरमाणावयुध्येतां रथशिक्षाविशारदौ ||२९||
अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम् |
निनदमतिभृशं नराः प्रचक्रु; र्लवणजलोद्भवसिंहनादमिश्रम् ||३०||
३९
सञ्जय उवाच||
शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् |
अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ||१||
दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शत्रुमागतम् |
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ||२||
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः |
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ||३||
जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता ||३||
परवित्तापहारस्य क्रोधस्याप्रशमस्य च |
लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ||४||
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् |
तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् ||५||
सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते |
शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ||६||
अद्याहमनृणस्तस्य कोपस्य भविता रणे |
अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ||७||
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि |
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ||८||
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् |
संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ||९||
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् |
अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् ||१०||
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् |
दुःशासनो महाराज कश्मलं चाविशन्महत् ||११||
सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् |
रणमध्यादपोवाह सौभद्रशरपीडितम् ||१२||
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् |
पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ||१३||
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः |
प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ||१४||
पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम् |
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ||१५||
धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा |
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ||१६||
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ |
केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृञ्जयाः ||१७||
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः |
अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः ||१८||
ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह |
जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ||१९||
दुर्योधनो महाराज राधेयमिदमब्रवीत् |
पश्य दुःशासनं वीरमभिमन्युवशं गतम् ||२०||
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे |
सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः ||२१||
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् |
अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ||२२||
तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः |
अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे ||२३||
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः |
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ||२४||
तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे |
आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् ||२५||
ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम् |
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ||२६||
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् |
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ||२७||
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः |
समरेऽमरसङ्काशः सौभद्रो न व्यषीदत ||२८||
ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः |
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ||२९||
स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् ||२९||
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः |
सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ||३०||
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः |
वादित्राणि च सञ्जघ्नुः सौभद्रं चापि तुष्टुवुः ||३१||
४०
सञ्जय उवाच||
सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः |
तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत् ||१||
सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् |
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ||२||
पितृपैतामहं कर्म कुर्वाणमतिमानुषम् |
दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन् ||३||
तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा |
शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि ||४||
कर्णिकारमिवोद्धूतं वातेन मथितं नगात् |
भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ ||५||
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः |
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे ||६||
ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत् |
झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः ||७||
कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना |
अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत ||८||
शलभैरिव चाकाशे धाराभिरिव चावृते |
अभिमन्योः शरै राजन्न प्राज्ञायत किञ्चन ||९||
तावकानां तु योधानां वध्यतां निशितैः शरैः |
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत ||१०||
सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः |
शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ ||११||
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् |
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत ||१२||
रथनागाश्वमनुजानर्दयन्निशितैः शरैः |
स प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम् ||१३||
सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः |
स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः ||१४||
ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः |
निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम् ||१५||
सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे |
दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः ||१६||
शराश्चापानि खड्गाश्च शरीराणि शिरांसि च |
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः ||१७||
अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः |
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः ||१८||
शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः ||१८||
निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते |
अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा ||१९||
वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् |
प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः ||२०||
स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् ||२०||
सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् |
व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन् ||२१||
तं तदा नानुपश्याम सैन्येन रजसावृतम् |
आददानं गजाश्वानां नृणां चायूंषि भारत ||२२||
क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा |
अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् ||२३||
स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः |
अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत ||२४||
४१
धृतराष्ट्र उवाच||
बालमत्यन्तसुखिनमवार्यबलदर्पितम् |
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् ||१||
गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः |
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी ||२||
सञ्जय उवाच||
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ |
धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः ||३||
धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे ||३||
अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः |
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् ||४||
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् |
जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् ||५||
सैन्धवस्य महाराज पुत्रो राजा जयद्रथः |
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ||६||
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् |
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् ||७||
धृतराष्ट्र उवाच||
अतिभारमहं मन्ये सैन्धवे सञ्जयाहितम् |
यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् ||८||
अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे |
तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ||९||
किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः |
सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् ||१०||
सञ्जय उवाच||
द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः |
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ||११||
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः |
क्षुत्पिपासातपसहः कृशो धमनिसन्ततः ||१२||
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् ||१२||
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् |
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् ||१३||
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ||१३||
एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः |
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ||१४||
पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान् |
एको रणे धारयेयं समस्तानिति भारत ||१५||
एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् |
ददामि ते वरं सौम्य विना पार्थं धनञ्जयम् ||१६||
धारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान् |
एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः ||१७||
स तेन वरदानेन दिव्येनास्त्रबलेन च |
एकः सन्धारयामास पाण्डवानामनीकिनीम् ||१८||
तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् |
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ||१९||
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम् |
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् ||२०||
४२
सञ्जय उवाच||
यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् |
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ||१||
तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः |
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ||२||
गन्धर्वनगराकारं विधिवत्कल्पितं रथम् |
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ||३||
श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च |
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ||४||
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् |
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ||५||
स विस्फार्य महच्चापं किरन्निषुगणान्बहून् |
तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः ||६||
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् |
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ||७||
द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् |
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ||८||
युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् |
इषुजालेन महता तदद्भुतमिवाभवत् ||९||
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् |
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ||१०||
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् |
विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ||११||
तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः |
धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् ||१२||
सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् |
भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष ||१३||
स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् |
सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ||१४||
ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः |
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् ||१५||
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा |
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ||१६||
सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः |
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ||१७||
यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः |
पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ||१८||
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः |
तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् ||१९||
४३
सञ्जय उवाच||
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु |
सुघोरमभवद्युद्धं त्वदीयानां परैः सह ||१||
प्रविश्य त्वार्जुनिः सेनां सत्यसन्धो दुरासदाम् |
व्यक्षोभयत तेजस्वी मकरः सागरं यथा ||२||
तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् |
यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ||३||
तेषां तस्य च संमर्दो दारुणः समपद्यत |
सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ||४||
रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः |
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ||५||
तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः |
वातायमानैरथ तैरश्वैरपहृतो रणात् ||६||
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् |
रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः ||७||
तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन् |
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ||८||
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् |
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ||९||
तमयस्मयवर्माणमिषुणा आशुपातिना |
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ||१०||
वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः |
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ||११||
विस्फारयन्तश्चापानि नानारूपाण्यनेकशः |
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ||१२||
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च |
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ||१३||
सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः |
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ||१४||
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः |
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ||१५||
अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः |
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः ||१६||
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः |
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ||१७||
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः |
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ||१८||
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा |
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ||१९||
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च |
धनुषश्च शराणां च तदपश्याम केवलम् ||२०||
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् |
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ||२१||
४४
सञ्जय उवाच||
आददानस्तु शूराणामायूंष्यभवदार्जुनिः |
अन्तकः सर्वभूतानां प्राणान्काल इवागते ||१||
स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली |
अभिमन्युस्तदानीकं लोडयन्बह्वशोभत ||२||
प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः |
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् ||३||
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः |
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ||४||
अहं पूर्वमहं पूर्वमिति क्षत्रियपुङ्गवाः |
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ||५||
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् |
जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ||६||
ये केचन गतास्तस्य समीपमपलायिनः |
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ||७||
महाग्राहगृहीतेव वातवेगभयार्दिता |
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ||८||
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली |
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ||९||
अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते |
अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ||१०||
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् |
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ||११||
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् |
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ||१२||
स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ |
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ||१३||
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् |
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ||१४||
सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः |
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ||१५||
तालमात्राणि चापानि विकर्षन्तो महारथाः |
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ||१६||
शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः |
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ||१७||
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् |
वैवस्वतस्य भवनं गतमेनममन्यत ||१८||
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः |
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ||१९||
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष |
आचितं समपश्याम श्वाविधं शललैरिव ||२०||
स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः |
गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् ||२१||
अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् |
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ||२२||
एकः स शतधा राजन्दृश्यते स्म सहस्रधा |
अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन् ||२३||
रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः |
बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ||२४||
प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः |
राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ||२५||
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् |
शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ||२६||
चूतारामो यथा भग्नः पञ्चवर्षफलोपगः |
राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् ||२७||
क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान् |
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ||२८||
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् |
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ||२९||
तयोः क्षणमिवापूर्णः सङ्ग्रामः समपद्यत |
अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ||३०||
४५
धृतराष्ट्र उवाच||
यथा वदसि मे सूत एकस्य बहुभिः सह |
सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः ||१||
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् |
किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ||२||
दुर्योधनेऽथ विमुखे राजपुत्रशते हते |
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ||३||
सञ्जय उवाच||
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः |
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ||४||
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान् |
उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् ||५||
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः |
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ||६||
अभिद्रुताः सुसङ्क्रुद्धाः सौभद्रमपराजितम् |
तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः ||७||
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः |
इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ||८||
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत |
अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ||९||
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः |
स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ||१०||
पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् |
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ||११||
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् |
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ||१२||
लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा |
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः ||१३||
सङ्क्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः |
पौत्रस्तव महाराज तव पौत्रमभाषत ||१४||
सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि |
पश्यतां बान्धवानां त्वां नयामि यमसादनम् ||१५||
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा |
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् ||१६||
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् |
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ||१७||
लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ||१७||
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते |
हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ||१८||
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः |
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ||१९||
स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः |
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ||२०||
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः |
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ||२१||
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ||२१||
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः |
यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे ||२२||
ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् |
अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः ||२३||
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ||२३||
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् |
शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ||२४||
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः |
छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् ||२५||
कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च |
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् ||२६||
४६
धृतराष्ट्र उवाच||
तथा प्रविष्टं तरुणं सौभद्रमपराजितम् |
कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपलायिनम् ||१||
आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः |
प्लवमानमिवाकाशे के शूराः समवारयन् ||२||
सञ्जय उवाच||
अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः |
अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः ||३||
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः |
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ||४||
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् |
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ||५||
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः |
तालमात्राणि चापानि विकर्षन्तो महारथाः ||६||
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् |
व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा ||७||
द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् |
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ||८||
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः |
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः ||९||
स कर्णं कर्णिना कर्णे पीतेन निशितेन च |
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ||१०||
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी |
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ||११||
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् |
पुत्राणां तव वीराणां पश्यतामवधीद्बली ||१२||
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् |
वरं वरममित्राणामारुजन्तमभीतवत् ||१३||
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष |
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ||१४||
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः |
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् ||१५||
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः |
प्रत्यविध्यन्महातेजा बलवानपकारिणम् ||१६||
तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् |
अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे ||१७||
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश |
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश ||१८||
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः |
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ||१९||
तं कोसलानामधिपः कर्णिनाताडयद्धृदि |
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ ||२०||
अथ कोसलराजस्तु विरथः खड्गचर्मधृत् |
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ||२१||
स कोसलानां भर्तारं राजपुत्रं बृहद्बलम् |
हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् ||२२||
बभञ्ज च सहस्राणि दश राजन्महात्मनाम् |
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ||२३||
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे |
विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः ||२४||
४७
सञ्जय उवाच||
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः |
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ||१||
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः |
स तैराचितसर्वाङ्गो बह्वशोभत भारत ||२||
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् |
कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ||३||
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ |
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ||४||
अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः |
साश्वसूतध्वजरथान्सौभद्रो निजघान ह ||५||
अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः |
प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत् ||६||
मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः |
साश्वं ससूतं तरुणमश्वकेतुमपातयत् ||७||
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् |
क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ||८||
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् |
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ||९||
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः |
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ||१०||
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा |
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ||११||
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् |
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ||१२||
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् |
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ||१३||
तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी |
तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् ||१४||
शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम् |
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ||१५||
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् |
सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ||१६||
अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा |
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः ||१७||
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत |
अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ||१८||
अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् |
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ||१९||
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते |
संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ||२०||
आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः |
प्रहर्षयति मा भूयः सौभद्रः परवीरहा ||२१||
अति मा नन्दयत्येष सौभद्रो विचरन्रणे |
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ||२२||
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः |
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ||२३||
अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः |
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ||२४||
तेजस्विनः कुमारस्य शराः परमदारुणाः |
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ||२५||
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव |
अभेद्यमस्य कवचं युवा चाशुपराक्रमः ||२६||
उपदिष्टा मया अस्य पितुः कवचधारणा |
तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः ||२७||
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः |
अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी ||२८||
एतत्कुरु महेष्वास राधेय यदि शक्यते |
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ||२९||
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः |
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ||३०||
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् |
अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ||३१||
अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी |
शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ||३२||
त्वरमाणास्त्वराकाले विरथं षण्महारथाः |
शरवर्षैरकरुणा बालमेकमवाकिरन् ||३३||
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् |
खड्गचर्मधरः श्रीमानुत्पपात विहायसम् ||३४||
मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च |
आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ||३५||
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः |
विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ||३६||
तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् |
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ||३७||
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् |
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ||३८||
स चक्ररेणूज्ज्वलशोभिताङ्गो; बभावतीवोन्नतचक्रपाणिः |
रणेऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन् ||३९||
स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः |
प्रभुरमितबलो रणेऽभिमन्यु; र्नृपवरमध्यगतो भृशं व्यराजत् ||४०||
४८
सञ्जय उवाच||
विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः |
रराजातिरथः सङ्ख्ये जनार्दन इवापरः ||१||
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् |
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ||२||
तच्चक्रं भृशमुद्विग्नाः सञ्चिच्छिदुरनेकधा |
महारथस्ततः कार्ष्णिः सञ्जग्राह महागदाम् ||३||
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः |
अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् ||४||
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव |
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ||५||
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी |
शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत ||६||
ततः सुबलदायादं कालकेयमपोथयत् |
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ||७||
पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश |
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् ||८||
दौःशासनिरथं साश्वं गदया समपोथयत् ||८||
ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष |
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् ||९||
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ |
भ्रातृव्यौ सम्प्रजह्राते पुरेव त्र्यम्बकान्तकौ ||१०||
तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ |
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परन्तपौ ||११||
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः |
प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ||१२||
गदावेगेन महता व्यायामेन च मोहितः |
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ||१३||
एवं विनिहतो राजन्नेको बहुभिराहवे ||१३||
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः |
अशोभत हतो वीरो व्याधैर्वनगजो यथा ||१४||
तं तथा पतितं शूरं तावकाः पर्यवारयन् |
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ||१५||
विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् |
अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् ||१६||
उपप्लुतं यथा सोमं संशुष्कमिव सागरम् |
पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् ||१७||
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः |
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ||१८||
आसीत्परमको हर्षस्तावकानां विशां पते |
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ||१९||
अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते |
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ||२०||
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः |
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ||२१||
तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी |
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ||२२||
रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता |
उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः ||२३||
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता |
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ||२४||
रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः |
खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ||२५||
चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः |
विविधैरायुधैश्चान्यैः संवृता भूरशोभत ||२६||
वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः |
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ||२७||
साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः |
पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः ||२८||
पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः |
ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः ||२९||
पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः |
भीरूणां त्रासजननी घोररूपाभवन्मही ||३०||
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् |
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ||३१||
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने |
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ||३२||
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते |
अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् ||३३||
स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः |
संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् ||३४||
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः |
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ||३५||
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून् |
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरन्वगात् ||३६||
हत्वा दशसहस्राणि कौसल्यं च महारथम् |
कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् ||३७||
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः |
अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत् ||३८||
वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः |
निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः ||३९||
निरीक्षमाणास्तु वयं परे चायोधनं शनैः |
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ||४०||
ततो निशाया दिवसस्य चाशिवः; शिवारुतः सन्धिरवर्तताद्भुतः |
कुशेशयापीडनिभे दिवाकरे; विलम्बमानेऽस्तमुपेत्य पर्वतम् ||४१||
वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम् |
दिवं च भूमिं च समानयन्निव; प्रियां तनुं भानुरुपैति पावकम् ||४२||
महाभ्रकूटाचलशृङ्गसंनिभै; र्गजैरनेकैरिव वज्रपातितैः |
सवैजयन्त्यङ्कुशवर्मयन्तृभि; र्निपातितैर्निष्टनतीव गौश्चिता ||४३||
हतेश्वरैश्चूर्णितपत्त्युपस्करै; र्हताश्वसूतैर्विपताककेतुभिः |
महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप ||४४||
रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः |
निरस्तजिह्वादशनान्त्रलोचनै; र्धरा बभौ घोरविरूपदर्शना ||४५||
प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः |
महार्हशय्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः ||४६||
अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश्च वृकास्तरक्षवः |
वयांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसङ्घाश्च सुदारुणा रणे ||४७||
त्वचो विनिर्भिद्य पिबन्वसामसृ; क्तथैव मज्जां पिशितानि चाश्नुवन् |
वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः ||४८||
शरीरसङ्घाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसङ्कटा |
मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी ||४९||
महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस्तदा नदी |
उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी ||५०||
पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसङ्घा विविधाः सुभैरवाः |
सुनन्दिताः प्राणभृतां भयङ्कराः; समानभक्षाः श्वसृगालपक्षिणः ||५१||
तथा तदायोधनमुग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम् |
निरीक्षमाणाः शनकैर्जहुर्नराः; समुत्थितारुण्डकुलोपसङ्कुलम् ||५२||
अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम् |
रणेऽभिमन्युं ददृशुस्तदा जना; व्यपोढहव्यं सदसीव पावकम् ||५३||
४९
सञ्जय उवाच||
तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे |
विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः ||१||
उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् |
तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः ||२||
ततो युधिष्ठिरो राजा विललाप सुदुःखितः |
अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ||३||
द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया |
भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी ||४||
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे |
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ||५||
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः |
क्षिप्रं ह्यभिमुखः सङ्क्ये विसञ्ज्ञो विमुखीकृतः ||६||
स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् |
प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम् ||७||
कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् |
सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ||८||
किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम् |
तावुभौ प्रतिवक्ष्यामो हृषीकेशधनञ्जयौ ||९||
अहमेव सुभद्रायाः केशवार्जुनयोरपि |
प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् ||१०||
न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते |
मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् ||११||
यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च |
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ||१२||
कथं हि बालस्तरुणो युद्धानामविशारदः |
सदश्व इव सम्बाधे विषमे क्षेममर्हति ||१३||
नो चेद्धि वयमप्येनं महीमनुशयीमहि |
बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ||१४||
अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली |
वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः ||१५||
यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः |
निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ||१६||
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः |
अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः ||१७||
परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः |
तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात् ||१८||
भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम् |
पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति ||१९||
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः |
व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् ||२०||
न मे जयः प्रीतिकरो न राज्यं; न चामरत्वं न सुरैः सलोकता |
इमं समीक्ष्याप्रतिवीर्यपौरुषं; निपातितं देववरात्मजात्मजम् ||२१||
५०
सञ्जय उवाच||
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये |
आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते ||१||
व्यपयातेषु सैन्येषु वासाय भरतर्षभ |
हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ||२||
प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् |
गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत ||३||
किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव |
स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत ||४||
अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति |
भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् ||५||
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः |
अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ||६||
वासुदेव उवाच||
व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति |
मा शुचः किञ्चिदेवान्यत्तत्रानिष्टं भविष्यति ||७||
सञ्जय उवाच||
ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने |
कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ||८||
ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् |
वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ||९||
ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा |
बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ||१०||
नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन |
मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ||११||
वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह ||११||
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च |
स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ||१२||
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः |
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ||१३||
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव |
न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ||१४||
अपि पाञ्चालराजस्य विराटस्य च मानद |
सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ||१५||
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह |
रणादायान्तमुचितं प्रत्युद्याति हसन्निव ||१६||
एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् |
ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ||१७||
दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः |
अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ||१८||
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते |
न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ||१९||
मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः |
न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे ||२०||
न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः |
कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ||२१||
भित्त्वानीकं महेष्वासः परेषां बहुशो युधि |
कच्चिन्न निहतः शेते सौभद्रः परवीरहा ||२२||
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु |
उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ||२३||
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् |
सदा मम प्रियं ब्रूत कथमायोधने हतः ||२४||
वार्ष्णेयीदयितं शूरं मया सततलालितम् |
अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः ||२५||
सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः |
विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ||२६||
सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च |
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ||२७||
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् |
मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् ||२८||
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा |
बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् ||२९||
महोत्साहं महाबाहुं दीर्घराजीवलोचनम् |
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ||३०||
कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम् |
युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् ||३१||
स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् |
न च पूर्वप्रहर्तारं सङ्ग्रामे नष्टसम्भ्रमम् ||३२||
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ||३२||
सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् |
अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ||३३||
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् |
अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ||३४||
रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम् |
अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे ||३५||
अभिवादनदक्षं तं पितॄणां वचने रतम् |
नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ||३६||
सुकुमारः सदा वीरो महार्हशयनोचितः |
भूमावनाथवच्छेते नूनं नाथवतां वरः ||३७||
शयानं समुपासन्ति यं पुरा परमस्त्रियः |
तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ||३८||
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः |
बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः ||३९||
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् |
नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति ||४०||
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने |
भाग्यहीनस्य कालेन यथा मे नीयसे बलात् ||४१||
साद्य संयमनी नूनं सदा सुकृतिनां गतिः |
स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते ||४२||
नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः |
शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ||४३||
एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा |
दुःखेन महताविष्टो युधिष्ठिरमपृच्छत ||४४||
कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन |
स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभः ||४५||
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः |
असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ||४६||
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् |
इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः ||४७||
अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च |
सुभद्रायां च सम्भूतो नैवं वक्तुमिहार्हति ||४८||
वज्रसारमयं नूनं हृदयं सुदृढं मम |
अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ||४९||
कथं बाले महेष्वासे नृशंसा मर्मभेदिनः |
स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ||५०||
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति |
उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति ||५१||
नूनं स पतितः शेते धरण्यां रुधिरोक्षितः |
शोभयन्मेदिनीं गात्रैरादित्य इव पातितः ||५२||
रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्ष्यति |
सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती ||५३||
द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् ||५३||
वज्रसारमयं नूनं हृदयं यन्न यास्यति |
सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ||५४||
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः |
युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ||५५||
अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः |
किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् ||५६||
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे |
सिंहवन्नदत प्रीताः शोककाल उपस्थिते ||५७||
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः |
अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ||५८||
इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः |
अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ||५९||
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम |
अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् ||६०||
निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् |
मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ||६१||
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् |
क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ||६२||
एषा वै युध्यमानानां शूराणामनिवर्तिनाम् |
विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर ||६३||
ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् |
गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ||६४||
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ |
सङ्ग्रामेऽभिमुखा मृत्युं प्रप्नुयामेति मानद ||६५||
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् |
वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखो रणे ||६६||
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः |
धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ||६७||
इमे ते भ्रातरः सर्वे दीना भरतसत्तम |
त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ||६८||
एतांस्त्वं वचसा साम्ना समाश्वासय मानद |
विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ||६९||
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा |
ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् ||७०||
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः |
अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ||७१||
सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया |
सङ्ग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः ||७२||
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् |
सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ||७३||
यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम |
पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः ||७४||
कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् |
नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ||७५||
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः |
यत्राभिमन्युः समरे पश्यतां वो निपातितः ||७६||
आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान् |
युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान् ||७७||
आहो स्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः |
वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् ||७८||
एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् |
न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ||७९||
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः |
पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा ||८०||
नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् |
अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पाण्डुनन्दनात् ||८१||
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ |
बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः ||८२||
ततस्तं पुत्रशोकेन भृशं पीडितमानसम् |
राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् ||८३||
५१
युधिष्ठिर उवाच||
त्वयि याते महाबाहो संशप्तकबलं प्रति |
प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ||१||
व्याढानीकं वयं द्रोणं वरयामः स्म सर्वशः |
प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ||२||
स वार्यमाणो रथिभी रक्षितेन मया तथा |
अस्मानपि जघानाशु पीडयन्निशितैः शरैः ||३||
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः |
प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ||४||
वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् |
उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो ||५||
स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् |
असह्यमपि तं भारं वोढुमेवोपचक्रमे ||६||
स तवास्त्रोपदेशेन वीर्येण च समन्वितः |
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ||७||
तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे |
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ||८||
ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः |
वरदानेन रुद्रस्य सर्वान्नः समवारयत् ||९||
ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः |
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ||१०||
परिवार्य तु तैः सर्वैर्युधि बालो महारथैः |
यतमानः परं शक्त्या बहुभिर्विरथीकृतः ||११||
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् |
संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् ||१२||
स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् |
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् ||१३||
बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह |
ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् ||१४||
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् |
स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ||१५||
सञ्जय उवाच||
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् |
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ||१६||
विषण्णवदनाः सर्वे परिगृह्य धनञ्जयम् |
नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् ||१७||
प्रतिलभ्य ततः सञ्ज्ञां वासविः क्रोधमूर्छितः |
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ||१८||
पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् |
उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ||१९||
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् |
न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ||२०||
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् |
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ||२१||
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् |
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ||२२||
रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन |
अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः ||२३||
यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः |
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् ||२४||
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् |
गुरुदारगामिनां ये च पिशुनानां च ये तथा ||२५||
साधूनसूयतां ये च ये चापि परिवादिनाम् |
ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् ||२६||
भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् |
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ||२७||
पायसं वा यवान्नं वा शाकं कृसरमेव वा |
संयावापूपमांसानि ये च लोका वृथाश्नताम् ||२८||
तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् ||२८||
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् |
अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् ||२९||
स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् |
याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः ||३०||
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ||३०||
नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः |
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ||३१||
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ||३१||
भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा |
असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् ||३२||
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ||३२||
संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम् |
न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् ||३३||
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च |
अनर्हते च यो दद्याद्वृषलीपत्युरेव च ||३४||
मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः |
तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् ||३५||
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः |
ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् ||३६||
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् ||३६||
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत |
यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति ||३७||
इहैव सम्प्रवेष्टाहं ज्वलितं जातवेदसम् ||३७||
असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वा |
चरमचरमपीदं यत्परं चापि तस्मा; त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ||३८||
यदि विशति रसातलं तदग्र्यं; वियदपि देवपुरं दितेः पुरं वा |
तदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता ||३९||
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् |
तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् ||४०||
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः |
प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं धनञ्जयः ||४१||
स पाञ्चजन्योऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिः |
जगत्सपातालवियद्दिगीश्वरं; प्रकम्पयामास युगात्यये यथा ||४२||
ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः |
सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना ||४३||
प्रतिज्ञापर्व
५२
सञ्जय उवाच||
श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् |
चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः ||१||
शोकसंमूढहृदयो दुःखेनाभिहतो भृशम् |
मज्जमान इवागाधे विपुले शोकसागरे ||२||
जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु |
स तेषां नरदेवानां सकाशे परिदेवयन् ||३||
अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत् |
योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ||४||
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् |
तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया ||५||
अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः |
पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् ||६||
द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः |
दुःशासनादयः शक्तास्त्रातुमप्यन्तकाद्रितम् ||७||
किमङ्ग पुनरेकेन फल्गुनेन जिघांसता |
न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः ||८||
प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम् |
सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः ||९||
वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना |
तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ||१०||
न देवा न च गन्धर्वा नासुरोरगराक्षसाः |
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ||११||
तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः |
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ||१२||
एवं विलपमानं तं भयाद्व्याकुलचेतसम् |
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ||१३||
न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ |
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ||१४||
अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः |
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ||१५||
पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः |
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः ||१६||
दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः |
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः ||१७||
त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः |
स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव ||१८||
अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे |
यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् ||१९||
एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः |
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ||२०||
उपसङ्ग्रहणं कृत्वा द्रोणाय स विशां पते |
उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा ||२१||
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने |
मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च ||२२||
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः |
ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे ||२३||
द्रोण उवाच||
सममाचार्यकं तात तव चैवार्जुनस्य च |
योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ||२४||
न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन |
अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ||२५||
न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि |
व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति ||२६||
तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय |
पितृपैतामहं मार्गमनुयाहि नराधिप ||२७||
अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया |
इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम् ||२८||
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु |
भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् ||२९||
कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः |
अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् ||३०||
पर्यायेण वयं सर्वे कालेन बलिना हताः |
परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः ||३१||
तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः |
क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान् ||३२||
सञ्जय उवाच||
एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः |
अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ||३३||
५३
सञ्जय उवाच||
प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा |
वासुदेवो महाबाहुर्धनञ्जयमभाषत ||१||
भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम् |
सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् ||२||
असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः |
कथं नु सर्वलोकस्य नावहास्या भवेमहि ||३||
धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः |
त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः ||४||
त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे तदा |
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ||५||
तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः |
नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः ||६||
सुमहाञ्शब्दसम्पातः कौरवाणां महाभुज |
आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ||७||
अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनञ्जयः |
रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः ||८||
तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव |
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ||९||
ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव |
आसन्सुयोधनामात्याः स च राजा जयद्रथः ||१०||
अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः |
आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः ||११||
स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः |
सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि ||१२||
मामसौ पुत्रहन्तेति श्वोऽभियाता धनञ्जयः |
प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम ||१३||
तां न देवा न गन्धर्वा नासुरोरगराक्षसाः |
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ||१४||
ते मां रक्षत सङ्ग्रामे मा वो मूर्ध्नि धनञ्जयः |
पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् ||१५||
अथ रक्षा न मे सङ्ख्ये क्रियते कुरुनन्दन |
अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति ||१६||
एवमुक्तस्त्ववाक्षीर्षो विमनाः स सुयोधनः |
श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत ||१७||
तमार्तमभिसम्प्रेक्ष्य राजा किल स सैन्धवः |
मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ||१८||
नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम् |
योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे ||१९||
वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः |
कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ||२०||
महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा |
पदातिना महातेजा गिरौ हिमवति प्रभुः ||२१||
दानवानां सहस्राणि हिरण्यपुरवासिनाम् |
जघानेकरथेनैव देवराजप्रचोदितः ||२२||
समायुक्तो हि कौन्तेयो वासुदेवेन धीमता |
सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः ||२३||
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना |
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ||२४||
स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन |
संविधानं च विहितं रथाश्च किल सज्जिताः ||२५||
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः |
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः ||२६||
शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः |
पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः ||२७||
स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः ||२७||
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि |
अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः ||२८||
एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः ||२८||
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय |
सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा ||२९||
भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै |
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये ||३०||
अर्जुन उवाच||
षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् |
तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षये ||३१||
अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन |
मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा ||३२||
द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः |
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ||३३||
यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः |
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः ||३४||
पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः |
द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः ||३५||
ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च |
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ||३६||
तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया |
सत्येन ते शपे कृष्ण तथैवायुधमालभे ||३७||
यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः |
तमेव प्रथमं द्रोणमभियास्यामि केशव ||३८||
तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः |
तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् ||३९||
द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः |
शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ||४०||
नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् |
पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ||४१||
गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे |
नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः ||४२||
यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया |
उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि ||४३||
ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे |
मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् ||४४||
शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः |
आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि ||४५||
क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् |
सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम् ||४६||
बह्वागस्कृत्कुसम्बन्धी पापदेशसमुद्भवः |
मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति ||४७||
सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे |
मया सराजका बाणैर्नुन्ना नङ्क्ष्यन्ति सैन्धवाः ||४८||
तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः |
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ||४९||
गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ |
त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया ||५०||
यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम् |
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ||५१||
मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम् |
मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम् ||५२||
यथा हि यात्वा सङ्ग्रामे न जीये विजयामि च |
तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम् ||५३||
ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः |
श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः ||५४||
सञ्जय उवाच||
एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना |
संदिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् ||५५||
यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम |
तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम् ||५६||
५४
सञ्जय उवाच||
तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ |
निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ ||१||
नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः |
व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति ||२||
ववुश्च दारुणा वाता रूक्षा गोराभिशंसिनः |
सकबन्धस्तथादित्ये परिघः समदृश्यत ||३||
शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः |
चचाल चापि पृथिवी सशैलवनकानना ||४||
चुक्षुभुश्च महाराज सागरा मकरालयाः |
प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः ||५||
रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् |
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ||६||
वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह |
तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् ||७||
सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ |
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ||८||
अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः |
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ||९||
स्नुषा श्वश्व्रानघायस्ते विशोके कुरु माधव |
साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो ||१०||
ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः |
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ||११||
मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा |
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ||१२||
कुले जतस्य वीरस्य क्षत्रियस्य विशेषतः |
सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः ||१३||
दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः |
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ||१४||
जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे |
गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् ||१५||
तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च |
सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः ||१६||
वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा |
मा शुचस्तनयं भद्रे गतः स परमां गतिम् ||१७||
प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः |
अस्यावलेपस्य फलं ससुहृद्गणबान्धवः ||१८||
व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् |
न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् ||१९||
श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् |
समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः ||२०||
क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् |
यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ||२१||
व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत् |
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ||२२||
अनु जातश्च पितरं मातृपक्षं च वीर्यवान् |
सहस्रशो रिपून्हत्वा हतः शूरो महारथः ||२३||
आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृषम् |
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ||२४||
यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा |
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ||२५||
यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश्च |
रणगतमभियान्ति सिन्धुराजं; न स भविता सह तैरपि प्रभाते ||२६||
५५
सञ्जय उवाच||
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः |
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ||१||
हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह |
निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः ||२||
कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् |
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ||३||
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् |
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम् ||४||
चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् |
भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् ||५||
शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् |
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ||६||
योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः |
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ||७||
योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः |
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते ||८||
पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो |
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ||९||
अतृप्तदर्शना पुत्र दर्शनस्य तवानघ |
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् ||१०||
विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च |
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ||११||
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् |
धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम् ||१२||
धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् |
ये त्वा रणे गतं वीरं न जानन्ति निपातितम् ||१३||
अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् |
अभिमन्युमपश्यन्ती शोकव्याकुललोचना ||१४||
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः |
कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् ||१५||
हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे |
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् ||१६||
इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम् |
कथं सन्धारयिष्यामि विवत्सामिव धेनुकाम् ||१७||
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक |
विहाय फलकाले मां सुगृद्धां तव दर्शने ||१८||
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा |
यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः ||१९||
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् |
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ||२०||
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि |
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ||२१||
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् |
हत्वारीन्निहतानां च सङ्ग्रामे तां गतिं व्रज ||२२||
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः |
नैवेशिकं चाभिमतं ददतां या गतिः शुभा ||२३||
ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रता |
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ||२४||
राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती |
चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः ||२५||
दीनानुकम्पिनां या च सततं संविभागिनाम् |
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ||२६||
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि |
अमोघातिथिनां या च तां गतिं व्रज पुत्रक ||२७||
ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम् |
न चान्यदारसेवीनां तां गतिं व्रज पुत्रक ||२८||
साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः |
नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि ||२९||
मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात् |
परोपतापत्यक्तानां तां गतिं व्रज पुत्रक ||३०||
ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः |
यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक ||३१||
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् |
अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा ||३२||
ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः |
उन्मत्तवत्तदा राजन्विसञ्ज्ञा न्यपतन्क्षितौ ||३३||
सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः |
सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः ||३४||
विसञ्ज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् |
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् ||३५||
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् |
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः ||३६||
ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने |
सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः ||३७||
कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः |
कृतवान्यादृगद्यैकस्तव पुत्रो महारथः ||३८||
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् |
पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः ||३९||
ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः |
विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम् ||४०||
५६
सञ्जय उवाच||
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः |
स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ||१||
सन्तस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः ||१||
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः |
अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः ||२||
ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः |
दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् ||३||
ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् |
अलङ्कृत्योपहारं तं नैशमस्मै न्यवेदयत् ||४||
स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत |
सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ||५||
स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान् |
दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ||६||
शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ||६||
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् |
प्रजागरः सर्वजनमाविवेश विशां पते ||७||
पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना |
सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना ||८||
तत्कथं नु महाबाहुर्वासविः परवीरहा |
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ||९||
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना |
पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता ||१०||
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च |
धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् ||११||
स हत्वा सैन्धवं सङ्ख्ये पुनरेतु धनञ्जयः |
जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् ||१२||
अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति |
न ह्येतदनृतं कर्तुमर्हः पार्थो धनञ्जयः ||१३||
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने |
तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ||१४||
यदि नः सुकृतं किञ्चिद्यदि दत्तं हुतं यदि |
फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ||१५||
एवं कथयतां तेषां जयमाशंसतां प्रभो |
कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ||१६||
तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः |
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ||१७||
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना |
जयद्रथं हनिष्यामि श्वोभूत इति दारुक ||१८||
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति |
यथा जयद्रथं पार्थो न हन्यादिति संयुगे ||१९||
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् |
द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः ||२०||
एको वीरः सहस्राक्षो दैत्यदानवमर्दिता |
सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ||२१||
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः |
अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ||२२||
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः |
कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ||२३||
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक |
उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ||२४||
अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः |
अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः ||२५||
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे |
धनञ्जयार्थं समरे पराक्रान्तस्य दारुक ||२६||
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च |
साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक ||२७||
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् |
मया क्रुद्देन समरे पाण्डवार्थे निपातिताम् ||२८||
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः |
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ||२९||
यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु |
इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ||३०||
यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् |
कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः ||३१||
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् |
आरोप्य वै रथे सूत सर्वोपकरणानि च ||३२||
स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे |
वैनतेयस्य वीरस्य समरे रथशोभिनः ||३३||
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः |
विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् ||३४||
बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च |
युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक ||३५||
पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् |
श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् ||३६||
एकाह्नाहममर्षं च सर्वदुःखानि चैव ह |
भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक ||३७||
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे |
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ||३८||
यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति |
आशंसे सारथे तत्र भवितास्य ध्रुवो जयः ||३९||
दारुक उवाच||
जय एव ध्रुवस्तस्य कुत एव पराजयः |
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ||४०||
एवं चैतत्करिष्यामि यथा मामनुशाससि |
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ||४१||
५७
सञ्जय उवाच||
कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनञ्जयः |
प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ||१||
तं तु शोकेन सन्तप्तं स्वप्ने कपिवरध्वजम् |
आससाद महातेजा ध्यायन्तं गरुडध्वजः ||२||
प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनञ्जयः |
नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ||३||
प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ |
न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा ||४||
ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम् |
कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ||५||
मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः |
कालः सर्वाणि भूतानि नियच्छति परे विधौ ||६||
किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर |
न शोचितव्यं विदुषा शोकः कार्यविनाशनः ||७||
शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् |
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ||८||
इत्युक्तो वासुदेवेन बीभत्सुरपराजितः |
आबभाषे तदा विद्वानिदं वचनमर्थवत् ||९||
मया प्रतिज्ञा महती जयद्रथवधे कृता |
श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ||१०||
मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत |
पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ||११||
दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः |
प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः ||१२||
दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते |
द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ||१३||
शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः |
संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ||१४||
इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः |
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः ||१५||
पार्थ पाशुपतं नाम परमास्त्रं सनातनम् |
येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः ||१६||
यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम् |
अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् ||१७||
तं देवं मनसा ध्यायञ्जोषमास्स्व धनञ्जय |
ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् ||१८||
ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनञ्जयः |
भूमावासीन एकाग्रो जगाम मनसा भवम् ||१९||
ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे |
आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् ||२०||
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् |
वायुवेगगतिः पार्थः खं भेजे सहकेशवः ||२१||
केशवेन गृहीतः स दक्षिणे विभुना भुजे |
प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् ||२२||
उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् |
कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् ||२३||
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् |
सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् ||२४||
सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् |
पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् ||२५||
मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान् |
हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् ||२६||
तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ||२६||
स्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम् |
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् ||२७||
ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ||२७||
सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च |
पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च ||२८||
वृषदंशं च शैलेन्द्रं महामन्दरमेव च |
अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम् ||२९||
तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः |
शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् ||३०||
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् |
समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ||३१||
वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् |
विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् ||३२||
ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् |
अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ||३३||
समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् |
तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् ||३४||
सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा |
शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ||३५||
नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् |
पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः ||३६||
गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम् |
वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् ||३७||
स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः |
गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् ||३८||
वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् |
पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् ||३९||
लोकादिं विश्वकर्माणमजमीशानमव्ययम् |
मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् ||४०||
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् |
देवदानवयक्षाणां मानवानां च साधनम् ||४१||
योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम् |
चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ||४२||
कालकोपं महात्मानं शक्रसूर्यगुणोदयम् |
अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः ||४३||
यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः |
तमजं कारणात्मानं जग्मतुः शरणं भवम् ||४४||
अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत |
ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् ||४५||
ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव |
स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ ||४६||
किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ||४६||
येन कार्येण सम्प्राप्तौ युवां तत्साधयामि वाम् |
व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् ||४७||
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली |
वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती ||४८||
नमो भवाय शर्वाय रुद्राय वरदाय च |
पशूनां पतये नित्यमुग्राय च कपर्दिने ||४९||
महादेवाय भीमाय त्र्यम्बकाय च शम्भवे |
ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने ||५०||
कुमारगुरवे नित्यं नीलग्रीवाय वेधसे |
विलोहिताय धूम्राय व्याधायानपराजिते ||५१||
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे |
हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे ||५२||
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च |
वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे ||५३||
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च |
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ||५४||
नमो नमस्ते सेव्याय भूतानां प्रभवे सदा |
ब्रह्मवक्त्राय शर्वाय शङ्कराय शिवाय च ||५५||
नमोऽस्तु वाचस्पतये प्रजानां पतये नमः |
नमो विश्वस्य पतये महतां पतये नमः ||५६||
नमः सहस्रशिरसे सहस्रभुजमन्यवे |
सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ||५७||
नमो हिरण्यवर्णाय हिरण्यकवचाय च |
भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो ||५८||
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः |
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ||५९||
ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् |
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ||६०||
तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः |
ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् ||६१||
ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः |
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम् ||६२||
ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः |
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ||६३||
सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ |
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ||६४||
येन देवारयः सर्वे मया युधि निपातिताः |
तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् ||६५||
तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह |
प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् ||६६||
निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् |
तज्जग्मतुरसम्भ्रान्तौ नरनारायणावृषी ||६७||
ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम् |
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ||६८||
द्वितीयं चापरं नागं सहस्रशिरसं वरम् |
वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् ||६९||
ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली |
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ||७०||
गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम् |
अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् ||७१||
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ |
धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत ||७२||
ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् |
आजह्रतुर्महात्मानौ ददतुश्च महात्मने ||७३||
ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत |
पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः ||७४||
स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः |
व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् ||७५||
तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः |
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ||७६||
सरस्येव च तं बाणं मुमोचातिबलः प्रभुः |
चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ||७७||
ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा |
वरमारण्यकं दत्तं दर्शनं शङ्करस्य च ||७८||
मनसा चिन्तयामास तन्मे सम्पद्यतामिति ||७८||
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः |
तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ||७९||
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत |
ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् ||८०||
अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ |
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ||८१||
इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ||८१||
५८
सञ्जय उवाच||
तयोः संवदतोरेव कृष्णदारुकयोस्तदा |
सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत ||१||
पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः |
वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ||२||
नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः |
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ||३||
मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः |
आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः ||४||
एवमेतानि सर्वाणि तथान्यान्यपि भारत |
वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः ||५||
स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् |
पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ||६||
प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे |
उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः ||७||
ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम् |
स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ||८||
भद्रासने सूपविष्टः परिधायाम्बरं लघु |
सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ||९||
उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः |
आप्लुतः साधिवासेन जलेन च सुगन्धिना ||१०||
हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः |
स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ||११||
जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः |
ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् ||१२||
समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा |
मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः ||१३||
द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः |
तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् ||१४||
दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च |
सहस्रानुचरान्सौरानष्टौ दशशतानि च ||१५||
अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः |
तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः ||१६||
प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः |
अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ||१७||
तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः |
हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् ||१८||
स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् |
माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् ||१९||
पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा |
स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ||२०||
मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् |
दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः ||२१||
ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः |
सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् ||२२||
परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् |
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ||२३||
तत्र तस्योपविष्टस्य भूषणानि महात्मनः |
उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः ||२४||
युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः |
रूपमासीन्महाराज द्विषतां शोकवर्धनम् ||२५||
पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः |
दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः ||२६||
संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः |
उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ||२७||
ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान् |
नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् ||२८||
ह्रादेन गजघण्टानां शङ्खानां निनदेन च |
नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी ||२९||
ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः |
शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् ||३०||
कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा |
अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै ||३१||
न्यवेदयद्धृषीकेशमुपयातं महात्मने ||३१||
सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् |
अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् ||३२||
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने |
सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः ||३३||
५९
युधिष्ठिर उवाच||
सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन |
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ||१||
सञ्जय उवाच||
वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम् |
ततः क्षत्ता प्रकृतयो न्यवेदयदुपस्थिताः ||२||
अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् |
विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ||३||
शिखण्डिनं यमौ चैव चेकितानं च केकयान् |
युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ||४||
एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् |
उपतस्थुर्महात्मानं विविशुश्चासनेषु ते ||५||
एकस्मिन्नासने वीरावुपविष्टौ महाबलौ |
कृष्णश्च युयुधानश्च महात्मानौ महाद्युती ||६||
ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् |
अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः ||७||
एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः |
प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ||८||
त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् |
क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः ||९||
त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल |
सुखमायत्तमत्यर्थं यात्रा च मधुसूदन ||१०||
स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम |
अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ||११||
स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् |
पारं तितीर्षतामद्य प्लवो नो भव माधव ||१२||
न हि तत्कुरुते सङ्ख्ये कार्तवीर्यसमस्त्वपि |
रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः ||१३||
वासुदेव उवाच||
सामरेष्वपि लोकेषु सर्वेषु न तथाविधः |
शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः ||१४||
वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः |
युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ||१५||
स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः |
सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति ||१६||
अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः |
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः ||१७||
अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् |
अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ||१८||
तस्याद्य गृध्राः श्येनाश्च वडगोमायवस्तथा |
भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ||१९||
यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ |
राजधानीं यमस्याद्य हतः प्राप्स्यति सङ्कुले ||२०||
निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति |
विशोको विज्वरो राजन्भव भूतिपुरस्कृतः ||२१||
६०
सञ्जय उवाच||
तथा सम्भाषतां तेषां प्रादुरासीद्धनञ्जयः |
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् ||१||
तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम् |
समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ||२||
मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना |
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ||३||
व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्ते विजयो महान् |
यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः ||४||
तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् |
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ||५||
ततस्तत्कथयामास यथादृष्टं धनञ्जयः |
आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् ||६||
ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः |
नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् ||७||
अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना |
त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः ||८||
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः |
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ||९||
रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ |
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ||१०||
तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् |
रथं रथवरस्याजौ वानरर्षभलक्षणम् ||११||
स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः |
बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा ||१२||
ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः |
कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ||१३||
तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् |
बाणबाणासनी वाहं प्रदक्षिणमवर्तत ||१४||
ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः |
स्तूयमानो जयाशीभिरारुरोह महारथम् ||१५||
जैत्रैः साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् |
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ||१६||
स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः |
विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः ||१७||
अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ |
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ||१८||
अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः |
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ||१९||
स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः |
सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी ||२०||
सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा |
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये ||२१||
ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः |
प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः ||२२||
सजयाशीः सपुण्याहः सूतमागधनिस्वनः |
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ||२३||
तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः |
ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् ||२४||
प्रादुरासन्निमित्तानि विजयाय बहूनि च |
पाण्डवानां त्वदीयानां विपरीतानि मारिष ||२५||
दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम् |
युयुधानं महेष्वासमिदं वचनमब्रवीत् ||२६||
युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः |
यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव ||२७||
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः |
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ||२८||
यथा परमकं कृत्यं सैन्धवस्य वधे मम |
तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे ||२९||
स त्वमद्य महाबाहो राजानं परिपालय |
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ||३०||
त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे |
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ||३१||
मय्यपेक्षा न कर्तव्या कथञ्चिदपि सात्वत |
राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ||३२||
न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः |
किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ||३३||
एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा |
तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः ||३४||
जयद्रथवधपर्व
६१
धृतराष्ट्र उवाच||
श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः |
अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः ||१||
जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः |
कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ||२||
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् |
आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ||३||
कपिराजध्वजं सङ्ख्ये विधुन्वानं महद्धनुः |
दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः ||४||
किं नु सञ्जय सङ्ग्रामे वृत्तं दुर्योधनं प्रति |
परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् ||५||
बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः |
न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने ||६||
स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम |
सूतमागधसङ्घानां नर्तकानां च सर्वशः ||७||
शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः |
दीनानामद्य तं शब्दं न शृणोमि समीरितम् ||८||
निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय |
आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ||९||
तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम् |
निवेशनं हतोत्साहं पुत्राणां मम लक्षये ||१०||
विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः |
अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ||११||
ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते |
द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ||१२||
वितण्डालापसंलापैर्हुतयाचितवन्दितैः |
गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ||१३||
उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः |
सूत तस्य गृहे शब्धो नाद्य द्रौणेर्यथा पुरा ||१४||
द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये |
अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ||१५||
विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः |
श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ||१६||
नित्यप्रमुदितानां च तालगीतस्वनो महान् |
नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः ||१७||
सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः |
सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ||१८||
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः |
द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् ||१९||
नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः |
वादित्रनादितानां च सोऽद्य न श्रूयते महान् ||२०||
यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः |
आगतः सर्वभूतानामनुकम्पार्थमच्युतः ||२१||
ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा |
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ||२२||
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः |
शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ||२३||
हितार्थमभिजल्पन्तं न तथास्त्यपराजयः ||२३||
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् |
अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ||२४||
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः |
अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः ||२५||
न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति |
सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति ||२६||
शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा |
अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति सञ्जय ||२७||
एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः |
सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ||२८||
श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः |
कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ||२९||
धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम् |
प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ||३०||
अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः |
तेषामपि समुद्रान्ता पितृपैतामही मही ||३१||
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि |
सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ||३२||
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः |
द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च ||३३||
अन्येषां चैव वृद्धानां भरतानां महात्मनाम् |
त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् ||३४||
कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा |
कृष्णो न धर्मं सञ्जह्यात्सर्वे ते च त्वदन्वयाः ||३५||
मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम् |
नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ||३६||
इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् |
न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ||३७||
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः |
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ||३८||
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः |
अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ||३९||
चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः |
द्रौपदेया विराटश्च द्रुपदश्च महारथः ||४०||
यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ||४०||
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः |
दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः ||४१||
अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात् |
दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ||४२||
येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः |
संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ||४३||
तेषां मम विलापानां न हि दुर्योधनः स्मरेत् |
हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे ||४४||
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम् |
दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ||४५||
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् |
अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः ||४६||
आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि सञ्जय |
यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् ||४७||
अभिमन्यौ हते तात कथमासीन्मनो हि वः ||४७||
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः |
अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः ||४८||
किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् |
दुःशासनः सौबलश्च तेषामेवं गते अपि ||४९||
सर्वेषां समवेतानां पुत्राणां मम सञ्जय ||४९||
यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम् |
लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः ||५०||
राज्यकामस्य मूढस्य रागोपहतचेतसः |
दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ||५१||
६२
सञ्जय उवाच||
हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् |
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ||१||
गतोदके सेतुबन्धो यादृक्तादृगयं तव |
विलापो निष्फलो राजन्मा शुचो भरतर्षभ ||२||
अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः |
मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् ||३||
यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् |
निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ||४||
युद्धकाले पुनः प्राप्ते तदैव भवता यदि |
निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ||५||
दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि |
कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् ||६||
तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः |
पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः ||७||
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे |
वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ||८||
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् |
दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ||९||
तत्ते विलपितं सर्वं मया राजन्निशामितम् |
अर्थे निविशमानस्य विषमिश्रं यथा मधु ||१०||
न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा |
न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप ||११||
व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम् |
तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते ||१२||
परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे |
तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् ||१३||
पितृपैतामहं राज्यमपवृत्तं तदानघ |
अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ||१४||
पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा |
ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः ||१५||
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् |
यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना ||१६||
यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप |
बहुधा व्याहरन्दोषान्न तदद्योपपद्यते ||१७||
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे |
चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ||१८||
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ |
रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः ||१९||
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः |
येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः ||२०||
को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः |
अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ||२१||
यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः |
क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः ||२२||
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् |
कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः ||२३||
६३
सञ्जय उवाच||
तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः |
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ||१||
शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम् |
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ||२||
विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च |
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः ||३||
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् |
पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः ||४||
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया |
सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ||५||
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः |
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ||६||
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः |
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ||७||
नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः |
सङ्ग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः ||८||
क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः |
क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा ||९||
ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् |
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः ||१०||
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु |
भारद्वाजो महाराज जयद्रथमथाब्रवीत् ||११||
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः |
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ||१२||
शतं चाश्वसहस्राणां रथानामयुतानि षट् |
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ||१३||
पदातीनां सहस्राणि दंशितान्येकविंशतिः |
गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत ||१४||
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः |
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ||१५||
एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः |
सम्प्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः ||१६||
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः ||१६||
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः |
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ||१७||
ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः ||१७||
मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः |
नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ||१८||
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव |
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ||१९||
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ |
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ||२०||
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः |
व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः ||२१||
नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः |
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ||२२||
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः |
सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः ||२३||
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः |
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ||२४||
अनन्तरं च काम्बोजो जलसन्धश्च मारिष |
दुर्योधनः सहामात्यस्तदनन्तरमेव च ||२५||
ततः शतसहस्राणि योधानामनिवर्तिनाम् |
व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः ||२६||
तेषां च पृष्ठतो राज बलेन महता वृतः |
जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः ||२७||
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः |
अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् ||२८||
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः |
धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः ||२९||
पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् |
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ||३०||
सिद्धचारणसङ्घानां विस्मयः सुमहानभूत् |
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ||३१||
सशैलसागरवनां नानाजनपदाकुलाम् |
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ||३२||
बहुरथमनुजाश्वपत्तिनागं; प्रतिभयनिस्वनमद्भुताभरूपम् |
अहितहृदयभेदनं महद्वै; शकटमवेक्ष्य कृतं ननन्द राजा ||३३||
६४
सञ्जय उवाच||
ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष |
ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च ||१||
अनीकानां च संह्रादे वादित्राणां च निस्वने |
प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे ||२||
अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु |
रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत ||३||
वडानां वायसानां च पुरस्तात्सव्यसाचिनः |
बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत ||४||
मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः |
दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा ||५||
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः |
चचाल च मही कृत्स्ना भये घोरे समुत्थिते ||६||
विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः |
ववुरायाति कौन्तेये सङ्ग्रामे समुपस्थिते ||७||
नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः |
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ||८||
ततो रथसहस्रेण द्विरदानां शतेन च |
त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ||९||
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव |
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ||१०||
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् |
अहमावारयिष्यामि वेलेव मकरालयम् ||११||
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् |
विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि ||१२||
एवं ब्रुवन्महाराज महात्मा स महामतिः |
महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ||१३||
ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः |
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ||१४||
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव |
युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः ||१५||
क्रोधामर्षबलोद्धूतो निवातकवचान्तकः |
जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ||१६||
आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् |
शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली ||१७||
रथप्रवरमास्थाय नरो नारायणानुगः |
विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः ||१८||
सोऽग्रानीकस्य महत इषुपाते धनञ्जयः |
व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् ||१९||
अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष |
प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ||२०||
तयोः शङ्खप्रणादेन तव सैन्ये विशां पते |
आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ||२१||
यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् |
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ||२२||
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः |
एवं सवाहनं सर्वमाविग्नमभवद्बलम् ||२३||
व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष |
विसञ्ज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ||२४||
ततः कपिर्महानादं सह भूतैर्ध्वजालयैः |
अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ||२५||
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह |
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ||२६||
नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः |
सिंहनादैः सवादित्रैः समाहूतैर्महारथैः ||२७||
तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने |
अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ||२८||
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः |
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ||२९||
एवमुक्तो महाबाहुः केशवः सव्यसाचिना |
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ||३०||
स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः |
एकस्य च बहूनां च रथनागनरक्षयः ||३१||
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् |
परानवाकिरत्पार्थः पर्वतानिव नीरदः ||३२||
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् |
अवाकिरन्बाणजालैस्ततः कृष्णधनञ्जयौ ||३३||
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि |
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ||३४||
उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः |
सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ||३५||
पुण्डरीकवनानीव विध्वस्तानि समन्ततः |
विनिकीर्णानि योधानां वदनानि चकाशिरे ||३६||
तपनीयविचित्राणि सिक्तानि रुधिरेण च |
अदृश्यन्त यथा राजन्मेघसङ्घाः सविद्युतः ||३७||
शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले |
कालेन परिपक्वानां तालानां पततामिव ||३८||
ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति |
कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति ||३९||
नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः |
अमृष्यमाणाः कौन्तेयं सङ्ग्रामे जयगृद्धिनः ||४०||
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी |
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ||४१||
अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो |
तव सैन्येषु योधानां पार्थभूतमिवाभवत् ||४२||
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे |
पार्थभूतममन्यन्त जगत्कालेन मोहिताः ||४३||
निष्टनन्तः सरुधिरा विसञ्ज्ञा गाढवेदनाः |
शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् ||४४||
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः |
सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ||४५||
सबाणवर्माभरणाः सगदाः साङ्गदा रणे |
महाभुजगसङ्काशा बाहवः परिघोपमाः ||४६||
उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः |
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ||४७||
यो यः स्म समरे पार्थं प्रतिसंरभते नरः |
तस्य तस्यान्तको बाणः शरीरमुपसर्पति ||४८||
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा |
न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि ||४९||
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् |
लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ||५०||
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च |
अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् ||५१||
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः |
प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः ||५२||
यथोदयन्वै गगने सूर्यो हन्ति महत्तमः |
तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ||५३||
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत |
अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः ||५४||
यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा |
तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ||५५||
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप |
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ||५६||
मारुतेनेव महता मेघानीकं विधूयता |
प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ||५७||
प्रतोदैश्चापकोटीभिर्हुङ्कारैः साधुवाहितैः |
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ||५८||
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः |
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ||५९||
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे |
शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ ||६०||
तव योधा हतोत्साहा विभ्रान्तमनसस्तदा ||६०||
६५
धृतराष्ट्र उवाच||
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना |
के नु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम् ||१||
आहो स्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः |
द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः ||२||
सञ्जय उवाच||
तथार्जुनेन सम्भग्ने तस्मिंस्तव बले तदा |
हतवीरे हतोत्साहे पलायनकृतक्षणे ||३||
पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः |
न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम् ||४||
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् |
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् ||५||
स काञ्चनविचित्रेण कवचेन समावृतः |
जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ||६||
नागानीकेन महता ग्रसन्निव महीमिमाम् |
दुःशासनो महाराज सव्यसाचिनमावृणोत् ||७||
ह्रादेन गजघण्टानां शङ्खानां निनदेन च |
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ||८||
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् |
स मुहूर्तं प्रतिभयो दारुणः समपद्यत ||९||
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् |
व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ||१०||
सिंहनादेन महता नरसिंहो धनञ्जयः |
गजानीकममित्राणामभितो व्यधमच्छरैः ||११||
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् |
किरीटी तद्गजानीकं प्राविशन्मकरो यथा ||१२||
काष्ठातीत इवादित्यः प्रतपन्युगसङ्क्षये |
ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जयः ||१३||
खुरशब्देन चाश्वानां नेमिघोषेण तेन च |
तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ||१४||
देवदत्तस्य घोषेण गाण्डीवनिनदेन च ||१४||
मन्दवेगतरा नागा बभूवुस्ते विचेतसः |
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ||१५||
ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः |
अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ||१६||
आरावं परमं कृत्वा वध्यमानाः किरीटिना |
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ||१७||
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च |
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ||१८||
गजस्कन्धगतानां च पुरुषाणां किरीटिना |
आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः ||१९||
सकुण्डलानां पततां शिरसां धरणीतले |
पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम् ||२०||
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः |
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ||२१||
केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा |
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ||२२||
मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च |
रथिनां कुट्टयामास भल्लैः संनतपर्वभिः ||२३||
न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् |
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ||२४||
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः |
मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले ||२५||
उत्थितान्यगणेयानि कबन्धानि समन्ततः |
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ||२६||
सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे |
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ||२७||
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः |
चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः ||२८||
वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः |
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ||२९||
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः |
अदृश्यत मही तत्र दारुणप्रतिदर्शना ||३०||
एवं दुःशासनबलं वध्यमानं किरीटिना |
सम्प्राद्रवन्महाराज व्यथितं वै सनायकम् ||३१||
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः |
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ||३२||
६६
सञ्जय उवाच||
दुःशासनबलं हत्वा सव्यसाची धनञ्जयः |
सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् ||१||
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् |
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ||२||
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे |
भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् ||३||
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च |
तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ||४||
अश्वत्थामा यथा तात रक्षणीयस्तवानघ |
तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम ||५||
तव प्रसादादिच्छामि सिन्धुराजानमाहवे |
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो ||६||
एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव |
मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ||७||
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् |
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ||८||
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः |
द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः ||९||
विव्याध च रणे द्रोणमनुमान्य विशां पते |
क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ||१०||
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ |
विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ ||११||
इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् |
तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः ||१२||
द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् ||१२||
विव्याध च हयानस्य ध्वजं सारथिमेव च |
अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् ||१३||
एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः |
विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् ||१४||
मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् ||१४||
पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् |
चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् ||१५||
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना |
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ||१६||
विद्रुताश्च रणे पेतुः सञ्छिन्नायुधजीविताः |
रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः ||१७||
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः |
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ||१८||
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः |
हंसा हिमवतः पृष्ठे वारिविप्रहता इव ||१९||
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः |
युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः ||२०||
तं पाण्डवादित्यशरांशुजालं; कुरुप्रवीरान्युधि निष्टपन्तम् |
स द्रोणमेघः शरवर्षवेगैः; प्राच्छादयन्मेघ इवार्करश्मीन् ||२१||
अथात्यर्थविसृष्टेन द्विषतामसुभोजिना |
आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् ||२२||
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः |
धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ||२३||
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् |
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ||२४||
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी |
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ||२५||
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् |
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ||२६||
तेऽभ्ययुः समरे राजन्वासुदेवधनञ्जयौ |
द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ||२७||
तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा |
वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् ||२८||
ततोऽब्रवीद्वासुदेवो धनञ्जयमिदं वचः |
पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् ||२९||
द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् |
पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव ||३०||
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः |
परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ||३१||
ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते |
ननु नाम रणे शत्रुमजित्वा न निवर्तसे ||३२||
अर्जुन उवाच||
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते |
न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ||३३||
सञ्जय उवाच||
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः |
त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् ||३४||
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ |
अन्वयातां महात्मानौ विशन्तं तावकं बलम् ||३५||
ततो जयो महाराज कृतवर्मा च सात्त्वतः |
काम्बोजश्च श्रुतायुश्च धनञ्जयमवारयन् ||३६||
तेषां दशसहस्राणि रथानामनुयायिनाम् |
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||३७||
माचेल्लका ललित्थाश्च केकया मद्रकास्तथा |
नारायणाश्च गोपालाः काम्बोजानां च ये गणाः ||३८||
कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसंमताः |
भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति ||३९||
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् |
त्यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम् ||४०||
गाहमानमनीकानि मातङ्गमिव यूथपम् |
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् ||४१||
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |
अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ||४२||
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् |
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् ||४३||
६७
सञ्जय उवाच||
संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः |
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ||१||
किरन्निषुगणांस्तिक्ष्णान्स्वरश्मीनिव भास्करः |
तापयामास तत्सैन्यं देहं व्याधिगणो यथा ||२||
अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः |
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ||३||
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः |
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ||४||
तेषामायच्छतां सङ्ख्ये परस्परमजिह्मगैः |
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ||५||
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः |
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ||६||
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः |
अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् ||७||
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः |
अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ||८||
तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः |
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ||९||
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि |
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ||१०||
क्षरन्निव महामेघो वारिधाराः सहस्रशः |
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ||११||
अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष |
प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् ||१२||
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् |
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ||१३||
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् |
विसृजन्तं शितान्बाणानवारयत तं युधि ||१४||
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ |
आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ||१५||
वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् |
किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् ||१६||
सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् |
अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ||१७||
ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम |
अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ||१८||
तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा |
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ||१९||
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् |
एकैकं पञ्चविंशत्या सायकानां समार्पयत् ||२०||
तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः |
शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः ||२१||
अथान्यद्धनुरादाय कृतवर्मा महारथः |
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ||२२||
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः |
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ||२३||
विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति |
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ||२४||
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् |
कुरुसाम्बन्धिकं कृत्वा प्रमथ्यैनं विशातय ||२५||
ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः |
अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् ||२६||
अमर्षितस्तु हार्दिख्यः प्रविष्टे श्वेतवाहने |
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ||२७||
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ |
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ||२८||
तावविध्यत्ततो भोजः सर्वपारशवैः शरैः |
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ||२९||
तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः |
सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ||३०||
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः |
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ||३१||
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः |
तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् ||३२||
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा |
धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ||३३||
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः |
नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ||३४||
तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः |
अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ||३५||
स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् |
क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ||३६||
तमर्जुनो नवत्या तु शराणां नतपर्वणाम् |
आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् ||३७||
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् |
अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ||३८||
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च |
आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ||३९||
अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः |
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||४०||
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः |
शरैरनेकसाहस्रैः पीडयामास भारत ||४१||
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः |
विव्याध चैनं सप्तत्या नाराचानां महाबलः ||४२||
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः |
अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् ||४३||
वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः |
पर्णाशा जननी यस्य शीततोया महानदी ||४४||
तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात् |
अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ||४५||
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् |
दिव्यमस्त्रं सुतस्तेऽयं यनावध्यो भविष्यति ||४६||
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन |
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ||४७||
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा |
अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ||४८||
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् |
यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ||४९||
उवाच चैनं भगवान्पुनरेव जलेश्वरः |
अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ||५०||
स तया वीरघातिन्या जनार्दनमताडयत् |
प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् ||५१||
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः |
प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता ||५२||
जघान चास्थितं वीरं श्रुतायुधममर्षणम् |
हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत ||५३||
हाहाकारो महांस्तत्र सैन्यानां समजायत |
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम् ||५४||
अयुध्यमानाय हि सा केशवाय नराधिप |
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ||५५||
यथोक्तं वरुणेनाजौ तथा स निधनं गतः |
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ||५६||
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः |
सम्भग्न इव वातेन बहुशाखो वनस्पतिः ||५७||
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः |
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम् ||५८||
तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः |
अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ||५९||
तस्य पार्थः शरान्सप्त प्रेषयामास भारत |
ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ||६०||
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे |
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ||६१||
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः |
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ||६२||
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः |
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ||६३||
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः |
सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने ||६४||
सा ज्वलन्ती महोल्केव तमासाद्य महारथम् |
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ||६५||
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः |
साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ||६६||
रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः ||६६||
सुदक्षिणं तु काम्बोजं मोघसङ्कल्पविक्रमम् |
बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ||६७||
स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः |
पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ||६८||
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः |
निर्भग्न इव वातेन कर्णिकारो हिमात्यये ||६९||
शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः |
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ||७०||
पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः ||७०||
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते |
हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् ||७१||
६८
सञ्जय उवाच||
हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे |
जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ||१||
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः |
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम् ||२||
तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः |
ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव ||३||
ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् |
रणे सपत्नान्निघ्नन्तं जिगीषन्तन्परान्युधि ||४||
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः |
शिरांसि पातयामास बाहूंश्चैव धनञ्जयः ||५||
शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा |
अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि ||६||
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ |
श्रुतायुश्चाच्युतायुश्च धनञ्जयमयुध्यताम् ||७||
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ |
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ||८||
त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः |
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ||९||
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् |
पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा ||१०||
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम् |
आजघान रथश्रेष्ठः पीतेन निशितेन च ||११||
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः |
आजगाम परं मोहं मोहयन्केशवं रणे ||१२||
एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः |
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ||१३||
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः |
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ||१४||
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते |
सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् ||१५||
कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतसम् |
आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम् ||१६||
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम् |
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ||१७||
सचक्रकूबररथं साश्वध्वजपताकिनम् |
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ||१८||
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत |
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ||१९||
सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम् |
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ||२०||
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः |
तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ||२१||
ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् |
विचेरुराकाशगताः पार्थबाणविदारिताः ||२२||
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः |
प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् ||२३||
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ |
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ||२४||
श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः |
लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ||२५||
तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् |
अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ||२६||
श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् |
अयुतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत ||२७||
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः |
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ||२८||
तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः |
प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति ||२९||
लोडयन्तमनीकानि द्विपं पद्मसरो यथा |
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः ||३०||
अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् |
क्रुद्धाः सहस्रशो राजञ्शिखिता हस्तिसादिनः ||३१||
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः |
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ||३२||
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः |
निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् ||३३||
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः |
बभौ कनकपाषाणा भुजगैरिव संवृता ||३४||
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च |
च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ||३५||
शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः |
व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ||३६||
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः |
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ||३७||
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः |
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ||३८||
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः |
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ||३९||
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः |
भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः ||४०||
सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः ||४०||
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः |
यवनाः पारदाश्चैव शकाश्च सुनिकैः सह ||४१||
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः |
दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः ||४२||
न ते स्म शक्याः सङ्ख्यातुं व्राताः शतसहस्रशः |
वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ||४३||
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः |
मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् ||४४||
म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया ||४४||
शरैश्च शतशो विद्धास्ते सङ्घाः सङ्घचारिणः |
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ||४५||
गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः |
वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ||४६||
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम् |
शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् ||४७||
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ||४७||
शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसम्भृताम् |
अकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् ||४८||
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ||४८||
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे |
तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता ||४९||
षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् |
प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ||५०||
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः |
शेरते भूमिमासाद्य शैला वज्रहता इव ||५१||
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः |
प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा ||५२||
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् |
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ||५३||
सैन्यारण्यं तव तथा कृष्णानिलसमीरितः |
शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनञ्जयः ||५४||
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् |
प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः ||५५||
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् |
प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः ||५६||
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ||५६||
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः |
न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष ||५७||
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ||५७||
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः |
आससाद रणे पार्थं केशवं च महारथम् ||५८||
ततः स प्रहसन्वीरो गदामुद्यम्य भारत |
रथमावार्य गदया केशवं समताडयत् ||५९||
गदया ताडितं दृष्ट्वा केशवं परवीरहा |
अर्जुनो भृशसङ्क्रुद्धः सोऽम्बष्ठं प्रति भारत ||६०||
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् |
छादयामास समरे मेघः सूर्यमिवोदितम् ||६१||
ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः |
अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् ||६२||
अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् |
अर्जुनं वासुदेवं च पुनः पुनरताडयत् ||६३||
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ |
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ||६४||
स पपात हतो राजन्वसुधामनुनादयन् |
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ||६५||
रथानीकावगाढश्च वारणाश्वशतैर्वृतः |
सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ||६६||
६९
सञ्जय उवाच||
ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया |
द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ||१||
काम्बोजस्य च दायादे हते राजन्सुदक्षिणे |
श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना ||२||
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः |
प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ||३||
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् |
गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् ||४||
अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् |
अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये ||५||
यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः |
तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ||६||
असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः |
सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ||७||
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप |
जयद्रथस्य गोप्तारः संशयं परमं गताः ||८||
स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर |
नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जयः ||९||
सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते |
सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम ||१०||
जानामि त्वां महाभाग पाण्डवानां हिते रतम् |
तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् ||११||
यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम् |
प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ||१२||
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम |
पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् ||१३||
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः |
न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ||१४||
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे |
नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ||१५||
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना |
आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ||१६||
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः |
नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः ||१७||
स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः |
मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् ||१८||
द्रोण उवाच||
नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः |
सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते ||१९||
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः |
अल्पं च विवरं कृत्वा तूर्णं याति धनञ्जयः ||२०||
किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः |
पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः ||२१||
न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः |
सेनामुखे च पार्थानामेतद्बलमुपस्थितम् ||२२||
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् |
एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज ||२३||
धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे मम |
तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् ||२४||
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् |
गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ||२५||
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः |
वीर स्वयं प्रयाह्याशु यत्र यातो धनञ्जयः ||२६||
दुर्योधन उवाच||
कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः |
धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम् ||२७||
अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः |
नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः ||२८||
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः |
अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ||२९||
सुदक्षिणश्च निहतः स च राजा श्रुतायुधः |
श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः ||३०||
तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् |
प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद ||३१||
क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् |
परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः ||३२||
द्रोण उवाच||
सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः |
अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ||३३||
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः |
विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः ||३४||
एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् |
यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे ||३५||
यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः |
योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् ||३६||
न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे |
शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति ||३७||
स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् |
त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते ||३८||
सञ्जय उवाच||
एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् |
आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ||३९||
रणे तस्मिन्सुमहति विजयाय सुतस्य ते |
विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः ||४०||
द्रोण उवाच||
करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः |
सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ||४१||
ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः |
तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः ||४२||
स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च |
स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ||४३||
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा |
लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ||४४||
असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः |
वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ||४५||
धाता विधाता लोकेशो दिशश्च सदिगीश्वराः |
स्वस्ति तेऽद्य प्रयच्छन्तु कार्त्तिकेयश्च षण्मुखः ||४६||
विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः |
दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः ||४७||
अधस्ताद्धरणीं योऽसौ सदा धारयते नृप |
स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ||४८||
गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः |
पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ||४९||
हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः |
ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् ||५०||
देवा ऊचुः||
प्रमर्दितानां वृत्रेण देवानां देवसत्तम |
गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ||५१||
द्रोण उवाच||
अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् |
प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् ||५२||
रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः |
त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ||५३||
त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा |
वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ||५४||
स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली |
नागत्वा शङ्करस्थानं भगवान्दृश्यते हरः ||५५||
दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् |
यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ||५६||
पिनाकी सर्वभूतेशो भगनेत्रनिपातनः ||५६||
ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् |
अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् ||५७||
सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् |
अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः ||५८||
एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः |
तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् ||५९||
मूर्तीरीक्षष्व नो देव प्रहारैर्जर्जरीकृताः |
शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर ||६०||
महेश्वर उवाच||
विदितं मे यथा देवाः कृत्येयं सुमहाबला |
त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः ||६१||
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् |
ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् ||६२||
बधानानेन मन्त्रेण मानसेन सुरेश्वर ||६२||
द्रोण उवाच||
इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च |
स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ||६३||
नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे |
न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ||६४||
ततो जघान समरे वृत्रं देवपतिः स्वयम् |
तं च मत्रमयं बन्धं वर्म चाङ्गिरसे ददौ ||६५||
अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः |
बृहस्पतिरथोवाच अग्निवेश्याय धीमते ||६६||
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते |
तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम ||६७||
सञ्जय उवाच||
एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः |
पुनरेव वचः प्राह शनैराचार्यपुङ्गवः ||६८||
ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव |
हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे ||६९||
यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये |
शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ||७०||
बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् |
प्रेषयामास राजानं युद्धाय महते द्विजः ||७१||
स संनद्धो महाबाहुराचार्येण महात्मना |
रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् ||७२||
तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् |
अश्वानामयुतेनैव तथान्यैश्च महारथैः ||७३||
वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति |
नानावादित्रघोषेण यथा वैरोचनिस्तथा ||७४||
ततः शब्दो महानासीत्सैन्यानां तव भारत |
अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् ||७५||
७०
सञ्जय उवाच||
प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा |
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ||१||
जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च |
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ||२||
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् |
पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् ||३||
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् |
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते ||४||
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः |
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ||५||
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् |
पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः ||६||
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये |
सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते ||७||
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् |
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ||८||
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः |
गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ||९||
भारद्वाजानिलोद्धूतः शरधारासहस्रवान् |
अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् ||१०||
समुद्रमिव घर्मान्ते विवान्घोरो महानिलः |
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ||११||
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् |
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ||१२||
वारयामास तान्द्रोणो जलौघानचलो यथा |
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ||१३||
अथापरेऽपि राजानः परावृत्य समन्ततः |
महाबला रणे शूराः पाञ्चालानन्ववारयन् ||१४||
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह |
सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ||१५||
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते |
तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत ||१६||
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः |
ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः ||१७||
शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम् |
निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् ||१८||
यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् |
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ||१९||
तथा तु यतमानस्य द्रोणस्य युधि भारत |
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ||२०||
भोजमेके न्यवर्तन्त जलसन्धमथापरे |
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् ||२१||
सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः |
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ||२२||
धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः |
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ||२३||
कालः सङ्ग्रसते योधान्धृष्टद्युम्नेन मोहितान् |
सङ्ग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः ||२४||
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः |
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ||२५||
अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च |
चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा ||२६||
त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः |
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ||२७||
मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः |
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ||२८||
रथं नागं हयं चापि पत्तिनश्च विशां पते |
एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ||२९||
पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत |
दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान् ||३०||
तत्पच्यमानमर्केण द्रोणसायकतापितम् |
बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ||३१||
तथैव पार्षतेनापि काल्यमानं बलं तव |
अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ||३२||
वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः |
त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः ||३३||
तावकानां परेषां च युध्यतां भरतर्षभ |
नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ||३४||
भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् |
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ||३५||
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् |
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ||३६||
बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः |
सहसेनः सहामात्यो द्रौपदेयानवारयत् ||३७||
शैब्यो गोवासनो राजा योधैर्दशशतावरैः |
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ||३८||
अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् |
मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ||३९||
दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः |
सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ||४०||
स्वकेनाहमनीकेन संनद्धकवचावृतः |
चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ||४१||
शकुनिस्तु सहानीको माद्रीपुत्रमवारयत् |
गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः ||४२||
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् |
प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि ||४३||
शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् |
बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत् ||४४||
धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः |
आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् ||४५||
घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम् |
अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ||४६||
अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः |
सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ||४७||
सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत |
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ||४८||
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ |
द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ||४९||
पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः |
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ||५०||
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः |
सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा ||५१||
७१
सञ्जय उवाच||
राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम |
कुरूणां पाण्डवानां च यथा युद्धमवर्तत ||१||
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् |
अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ||२||
रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः |
अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ||३||
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः |
आजघ्नतुः सुसङ्क्रुद्धौ तव पुत्रहितैषिणौ ||४||
विराटश्च महाराज तावुभौ समरे स्थितौ |
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ||५||
तेषां युद्धं समभवद्दारुणं शोणितोदकम् |
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ||६||
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः |
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ||७||
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः |
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ||८||
तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् |
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ||९||
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा |
अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन ||१०||
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् |
ससैन्यो योधयामास गजः प्रतिगजं यथा ||११||
बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् |
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ||१२||
अयोधयंस्ते च भृशं तं शरौघैः समन्ततः |
इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर ||१३||
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव |
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ||१४||
सोऽतिविद्धो बलवता महेष्वासेन धन्विना |
ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः ||१५||
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् |
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ||१६||
तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ |
रेजतुः समरे राजन्पुष्पिताविव किंशुकौ ||१७||
अलम्बुसस्तु सङ्क्रुद्धः कुन्तिभोजशरार्दितः |
अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः ||१८||
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः |
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ||१९||
ततस्तौ समरे शूरौ योधयन्तौ परस्परम् |
ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा ||२०||
शकुनिं रभसं युद्धे कृतवैरं च भारत |
माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे ||२१||
तन्मूलः स महाराज प्रावर्तत जनक्षयः |
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः ||२२||
उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः |
य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ||२३||
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः |
नाभ्यजानत कर्तव्यं युधि किञ्चित्पराक्रमम् ||२४||
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ |
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ||२५||
स वध्यमानो बहुभिः शरैः संनतपर्वभिः |
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ||२६||
घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् |
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ||२७||
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् |
यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे ||२८||
ततो युधिष्ठिरो राजा मद्रराजानमाहवे |
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ||२९||
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप |
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ||३०||
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः |
अयोधयन्भीमसेनं महत्या सेनया वृताः ||३१||
७२
सञ्जय उवाच||
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रामे लोमहर्षणे |
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ||१||
जलसन्धं महाबाहुर्भीमसेनो न्यवारयत् |
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ||२||
किरन्तं शरवर्षाणि रोचमान इवांशुमान् |
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ||३||
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् |
कुरूणां सोमकानां च सङ्क्रुद्धानां परस्परम् ||४||
सङ्क्षये तु तथा भूते वर्तमाने महाभये |
द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ||५||
द्रोणः पाञ्चालपुत्रेण बली बलवता सह |
विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् ||६||
पुण्डरीकवनानीव विध्वस्तानि समन्ततः |
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ||७||
विनिकीर्णानि वीराणामनीकेषु समन्ततः |
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ||८||
तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च |
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ||९||
कुञ्जराश्वनरान्सङ्ख्ये पातयन्तः पतत्रिभिः |
तालमात्राणि चापानि विकर्षन्तो महारथाः ||१०||
असिचर्माणि चापानि शिरांसि कवचानि च |
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ||११||
उत्थितान्यगणेयानि कबन्धानि समन्ततः |
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ||१२||
गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा |
बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष ||१३||
भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् |
विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप ||१४||
आकर्षन्तः शरीराणि शरीरावयवांस्तथा |
नराश्वगजसङ्घानां शिरांसि च ततस्ततः ||१५||
कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः |
रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा ||१६||
असिमार्गान्बहुविधान्विचेरुस्तावका रणे |
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः ||१७||
गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि |
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ||१८||
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः |
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ||१९||
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः |
उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे ||२०||
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते |
धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् ||२१||
ते हया साध्वशोभन्त विमिश्रा वातरंहसः |
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ||२२||
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ||२२||
धृष्टद्युम्नश्च सम्प्रेक्ष्य द्रोणमभ्याशमागतम् |
असिचर्माददे वीरो धनुरुत्सृज्य भारत ||२३||
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा |
ईषया समतिक्रम्य द्रोणस्य रथमाविशत् ||२४||
अतिष्ठद्युगमध्ये स युगसंनहनेषु च |
जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ||२५||
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः |
न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ||२६||
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः |
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ||२७||
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् |
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ||२८||
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली |
ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी ||२९||
अथास्मै त्वरितो बाणमपरं जीवितान्तकम् |
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा ||३०||
तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः |
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ||३१||
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष |
द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ||३२||
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे |
शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् ||३३||
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान् |
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ||३४||
ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः |
सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् ||३५||
७३
धृतराष्ट्र उवाच||
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते |
तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ||१||
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः |
नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ||२||
सञ्जय उवाच||
सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः |
तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् ||३||
संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् |
नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः ||४||
उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः |
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ||५||
शरपातमहावर्षं रथघोषबलाहकम् |
कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् ||६||
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् |
द्रोणमेघमनावार्यं हयमारुतचोदितम् ||७||
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः |
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ||८||
एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् |
आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् ||९||
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् |
आचार्यं राजपुत्राणां सततं शूरमानिनम् ||१०||
ततो रजतसङ्काशा माधवस्य हयोत्तमाः |
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ||११||
इषुजालावृतं घोरमन्धकारमनन्तरम् |
अनाधृष्यमिवान्येषां शूराणामभवत्तदा ||१२||
ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा |
नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः ||१३||
इषूणां संनिपातेन शब्दो धाराभिघातजः |
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ||१४||
नाराचैरतिविद्धानां शराणां रूपमाबभौ |
आशीविषविदष्टानां सर्पाणामिव भारत ||१५||
तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः |
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ||१६||
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी |
रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा ||१७||
निर्मलानामजिह्मानां नाराचानां विशां पते |
निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः ||१८||
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ |
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ ||१९||
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ |
अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः ||२०||
गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः |
उपारमन्महाराज व्याजहार न कश्चन ||२१||
तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन् |
ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः ||२२||
रथिनो हस्तियन्तारो हयारोहाः पदातयः |
अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ ||२३||
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् |
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ||२४||
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः |
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ||२५||
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः |
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ||२६||
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु |
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ||२७||
सबलाकाः सखद्योताः सैरावतशतह्रदाः |
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ||२८||
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः |
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ||२९||
विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः |
सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः ||३०||
गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः |
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ||३१||
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ |
अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी ||३२||
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे |
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते ||३३||
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः |
सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः ||३४||
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत |
सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः ||३५||
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् |
युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् ||३६||
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये |
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ||३७||
तं चास्य मनसा द्रोणः पूजयामास विक्रमम् |
लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ||३८||
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः |
न तामालक्षयामासुर्लघुतां शीघ्रकारिणः ||३९||
देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते |
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ||४०||
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः |
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ||४१||
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः |
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ||४२||
तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे |
युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ||४३||
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः |
तमाचार्योऽप्यसम्भ्रान्तोऽयोधयच्छत्रुतापनः ||४४||
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः |
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ||४५||
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः |
अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् ||४६||
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ |
न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि ||४७||
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते |
न तावदभिषज्येते व्यावर्तदथ भास्करः ||४८||
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः |
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ||४९||
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः |
मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ||५०||
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः |
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ||५१||
ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् |
रजसा संवृते लोके शरजालसमावृते ||५२||
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन |
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ||५३||
७४
सञ्जय उवाच||
परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः |
रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः ||१||
तिष्ठतां युध्यमानानां पुनरावर्ततामपि |
भज्यतां जयतां चैव जगाम तदहः शनैः ||२||
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु |
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ||३||
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः |
चकार तत्र पन्थानं ययौ येन जनार्दनः ||४||
यत्र यत्र रथो याति पाण्डवस्य महात्मनः |
तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते ||५||
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् |
उत्तमाधममध्यानि मण्डलानि विदर्शयन् ||६||
ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः |
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ||७||
वैणवायस्मयशराः स्वायता विविधाननाः |
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ||८||
रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् |
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ||९||
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः |
तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ||१०||
न तथा गच्छति रथस्तपनस्य विशां पते |
नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च ||११||
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः |
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ||१२||
प्रविश्य तु रणे राजन्केशवः परवीरहा |
सेनामध्ये हयांस्तूर्णं चोदयामास भारत ||१३||
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः |
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः ||१४||
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः |
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ||१५||
हतानां वाजिनागानां रथानां च नरैः सह |
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ||१६||
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप |
सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् ||१७||
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् |
शराणां च शतेनाश्वानविध्येतां मुदान्वितौ ||१८||
तावर्जुनो महाराज नवभिर्नतपर्वभिः |
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ||१९||
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् |
आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः ||२०||
तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः |
चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ||२१||
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा |
पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः ||२२||
तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः |
चिच्छेद धनुषी तूर्णं भूय एव धनञ्जयः ||२३||
तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः |
जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी ||२४||
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत |
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ||२५||
विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् |
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ||२६||
अभ्यद्रवत सङ्ग्रामे भ्रातुर्वधमनुस्मरन् |
गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः ||२७||
अनुविन्दस्तु गदया ललाटे मधुसूदनम् |
स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् ||२८||
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः |
निचकर्त स सञ्छिन्नः पपाताद्रिचयो यथा ||२९||
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः |
अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ||३०||
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ |
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ||३१||
तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनञ्जयः |
विबभौ जलदान्भित्त्वा दिवाकर इवोदितः ||३२||
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः |
अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ ||३३||
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् |
सिंहनादेन महता सर्वतः पर्यवारयन् ||३४||
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः |
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ||३५||
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः |
किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते ||३६||
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा |
भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ||३७||
मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे |
हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव ||३८||
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् |
ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् ||३९||
अर्जुन उवाच||
अहमावारयिष्यामि सर्वसैन्यानि केशव |
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ||४०||
सञ्जय उवाच||
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः |
गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः ||४१||
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः |
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् ||४२||
तमेकं रथवंशेन महता पर्यवारयन् |
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ||४३||
अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् |
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ||४४||
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् |
रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ||४५||
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत |
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ||४६||
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः |
इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ||४७||
तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते |
सङ्घर्षेण महार्चिष्मान्पावकः समजायत ||४८||
तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः |
हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शनैः ||४९||
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे |
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ||५०||
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् |
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् ||५१||
असङ्ख्येयमपारं च रजोऽऽभीलमतीव च |
उष्णीषकमठच्छन्नं पताकाफेनमालिनम् ||५२||
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् |
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ||५३||
ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम् |
असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ||५४||
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन |
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ||५५||
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् |
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ||५६||
शरवंशं शरस्थूणं शराच्छादनमद्भुतम् |
शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् ||५७||
ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् |
शरवेश्मनि पार्थेन कृते तस्मिन्महारणे ||५८||
७५
सञ्जय उवाच||
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना |
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ||१||
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः |
मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ||२||
अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् |
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ||३||
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः |
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ||४||
आपतत्सु रथौघेषु प्रभूतगजवाजिषु |
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ||५||
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः |
न चाव्यथत धर्मात्मा वासविः परवीरहा ||६||
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् |
आगतानग्रसत्पार्थः सरितः सागरो यथा ||७||
अस्त्रवेगेन महता पार्थो बाहुबलेन च |
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ||८||
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः |
अपूजयन्महाराज कौरवाः परमाद्भुतम् ||९||
किमद्भुततरं लोके भविताप्यथ वाप्यभूत् |
यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ||१०||
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ |
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ||११||
अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत |
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ||१२||
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः |
मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ||१३||
तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् |
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ||१४||
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् |
उपावृत्य यथान्यायं पाययामास वारि सः ||१५||
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् |
योजयामास संहृष्टः पुनरेव रथोत्तमे ||१६||
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः |
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ||१७||
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः |
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ||१८||
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः |
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ||१९||
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ |
बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ||२०||
क्रोशतां यतमानानामसंसक्तौ परन्तपौ |
दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ||२१||
तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् |
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ||२२||
रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् |
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ||२३||
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः |
अदृष्टपूर्वं सङ्ग्रामे तद्दृष्ट्वा महदद्भुतम् ||२४||
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः |
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ||२५||
विलयं समनुप्राप्ता तच्च राजा न बुध्यते |
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ||२६||
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् |
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ||२७||
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति |
निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ||२८||
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् |
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ||२९||
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः |
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ||३०||
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् |
बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ||३१||
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः |
तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ||३२||
वातोद्धूतपताकान्तं रथं जलदनिस्वनम् |
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ||३३||
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् |
शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ||३४||
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम् |
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ||३५||
अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् |
दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ||३६||
७६
सञ्जय उवाच||
स्रंसन्त इव मज्जानस्तावकानां भयान्नृप |
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ ||१||
सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः |
स्थिरीबूता महात्मानः प्रत्यगच्छन्धनञ्जयम् ||२||
ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः |
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ||३||
असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः |
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ||४||
तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ |
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ||५||
मत्स्याविव महाजालं विदार्य विगतज्वरौ |
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ||६||
विमुक्तौ शस्त्रसम्बाधाद्द्रोणानीकात्सुदुर्भिदात् |
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ||७||
अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात् |
अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ ||८||
विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव |
व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव ||९||
तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः |
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ||१०||
तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती |
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ||११||
आशा बलवती राजन्पुत्राणामभवत्तव |
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ||१२||
तामाशां विफलां कृत्वा निस्तीर्णौ तौ परन्तपौ |
द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ||१३||
अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ |
निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे ||१४||
मिथश्च समभाषेतामभीतौ भयवर्धनौ |
जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ ||१५||
असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः |
चक्षुर्विषयसम्प्राप्तो न नौ मोक्ष्यति सैन्धवः ||१६||
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह |
तथाप्येनं हनिष्याव इति कृष्णावभाषताम् ||१७||
इति कृष्णौ महाबाहू मिथः कथयतां तदा |
सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः ||१८||
अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ |
पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ ||१९||
व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् |
अदृश्येतां महाबाहू यथा मृत्युजरातिगौ ||२०||
तथा हि मुखवर्णोऽयमनयोरिति मेनिरे |
तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः ||२१||
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् |
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ||२२||
तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ |
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ||२३||
शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् |
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ||२४||
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः |
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ||२५||
द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसङ्कटात् |
अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः ||२६||
ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः |
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ||२७||
बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः |
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ||२८||
इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ |
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् ||२९||
जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया |
रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ||३०||
यथा हि मुखवर्णोऽयमनयोरिति मेनिरे |
तव योधा महाराज हतमेव जयद्रथम् ||३१||
लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ |
सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ||३२||
शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः |
तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव ||३३||
हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः |
समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ||३४||
तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके |
सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे ||३५||
तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनञ्जयौ |
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ||३६||
द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा |
ययावेकरथेनाजौ हयसंस्कारवित्प्रभो ||३७||
कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः |
अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ||३८||
ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् |
प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनञ्जयम् ||३९||
सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः |
दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ||४०||
ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः |
ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो ||४१||
दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् |
अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः ||४२||
७७
वासुदेव उवाच||
सुयोधनमतिक्रान्तमेनं पश्य धनञ्जय |
आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ||१||
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः |
दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः ||२||
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः |
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ||३||
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ |
अत्र वो द्यूतमायातं विजयायेतराय वा ||४||
अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम् |
एष मूलमनर्थानां पाण्डवानां महारथः ||५||
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः |
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ||६||
दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम् |
स यथा जीवितं जह्यात्तथा कुरु धनञ्जय ||७||
ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान् |
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ||८||
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः |
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ||९||
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् |
जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः ||१०||
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ |
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ||११||
बहूनि सुनृशंसानि कृतान्येतेन मानद |
युष्मासु पापमतिना अपापेष्वेव नित्यदा ||१२||
तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् |
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ||१३||
निकृत्या राज्यहरणं वनवासं च पाण्डव |
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम ||१४||
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते |
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ||१५||
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह |
दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः ||१६||
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् |
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ||१७||
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् |
वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् ||१८||
सञ्जय उवाच||
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम |
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ||१९||
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् |
अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ||२०||
अपि तस्या अनर्हायाः परिक्लेशस्य माधव |
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ||२१||
इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान् |
प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम् ||२२||
तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ |
न चकार भयं प्राप्ते भये महति मारिष ||२३||
तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् |
यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् ||२४||
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते |
महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ||२५||
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति |
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् ||२६||
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना |
संरम्भमगमद्भूयः स च तस्मिन्परन्तपः ||२७||
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ |
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ||२८||
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष |
प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् ||२९||
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः |
व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ ||३०||
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयाश्च सर्वशः |
निराशाः समपद्यन्त पुत्रस्य तव जीविते ||३१||
शोकमीयुः परं चैव कुरवः सर्व एव ते |
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ||३२||
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ |
हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः ||३३||
जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् |
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ||३४||
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः |
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् ||३५||
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च |
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ||३६||
यद्बलं तव वीर्यं च केशवस्य तथैव च |
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ||३७||
अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते |
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ||३८||
७८
सञ्जय उवाच||
एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः |
प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ||१||
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे |
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ||२||
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः |
अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ||३||
तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च |
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ||४||
अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् |
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ||५||
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् |
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ||६||
कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ |
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ||७||
न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः |
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ||८||
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् |
व्यर्थान्निपततः सङ्ख्ये दुर्योधनरथं प्रति ||९||
वज्राशनिसमा घोराः परकायावभेदिनः |
शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना ||१०||
अर्जुन उवाच||
द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता |
अन्ते विहितमस्त्राणामेतत्कवचधारणम् ||११||
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि |
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ||१२||
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन |
अपि वज्रेण गोविन्द स्वयं मघवता युधि ||१३||
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् |
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ||१४||
तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव |
न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ||१५||
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् |
तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् ||१६||
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव |
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ||१७||
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन |
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ||१८||
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् |
पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् ||१९||
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् |
नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ||२०||
सञ्जय उवाच||
एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् |
विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् ||२१||
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ||२१||
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना |
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ||२२||
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन |
अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम ||२३||
ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः |
अविध्यत रणे राजञ्शरैराशीविषोपमैः ||२४||
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ||२४||
शरवर्षेण महता ततोऽहृष्यन्त तावकाः |
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ||२५||
ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् |
नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ||२६||
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः |
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ||२७||
धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् |
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ||२८||
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् |
अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ||२९||
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः |
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ||३०||
ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः |
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ||३१||
अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत |
अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ||३२||
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् |
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ||३३||
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् |
स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ||३४||
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् |
धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ||३५||
ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् |
महता शरवर्षेण तलशब्देन चार्जुनः ||३६||
पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः |
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ||३७||
तस्य शङ्खस्य नादेन धनुषो निस्वनेन च |
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ||३८||
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः |
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ||३९||
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु |
चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुन्धराम् ||४०||
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः |
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ||४१||
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् |
प्रदध्मतुस्तदा शङ्खौ वासुदेवधनञ्जयौ ||४२||
तेन शब्देन महता पूरितेयं वसुन्धरा |
सशैला सार्णवद्वीपा सपाताला विशां पते ||४३||
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश |
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ||४४||
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ |
संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ||४५||
अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ |
अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ||४६||
७९
सञ्जय उवाच||
तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ |
प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् ||१||
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः |
दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ||२||
रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते |
कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव ||३||
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः |
कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ||४||
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः |
व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ||५||
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः |
समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ||६||
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् |
व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ||७||
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः |
पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ||८||
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः |
धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ||९||
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः |
पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ||१०||
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ |
प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि ||११||
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ||११||
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः |
पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ||१२||
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः |
सर्वशब्दानतिक्रम्य पूरयामास रोदसी ||१३||
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले |
भीरूणां त्रासजनने शूराणां हर्षवर्धने ||१४||
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च |
मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः ||१५||
महारथसमाख्याता दुर्योधनहितैषिणः |
अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ||१६||
नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ||१६||
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः |
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ||१७||
बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम् |
उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ||१८||
तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम् |
बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ||१९||
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् |
त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः ||२०||
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः |
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ||२१||
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् |
अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ||२२||
तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् |
अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ||२३||
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा |
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ||२४||
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् |
भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ||२५||
कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः |
जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ||२६||
मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ||२६||
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् |
वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ||२७||
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः |
प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ||२८||
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः |
शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत ||२९||
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः |
शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ||३०||
गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह |
पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ||३१||
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः |
अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ||३२||
ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः |
प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ||३३||
८०
धृतराष्ट्र उवाच||
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया |
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ||१||
सञ्जय उवाच||
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् |
रूपतो वर्णतश्चैव नामतश्च निबोध मे ||२||
तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः |
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ||३||
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः |
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ||४||
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः |
नानावर्णविरागाभिर्विबभुः सर्वतो वृताः ||५||
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः |
नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः ||६||
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ |
दोधूयमाना रथिनां शोभयन्ति महारथान् ||७||
सिंहलाङ्गूलमुग्रास्यं धजं वानरलक्षणम् |
धनञ्जयस्य सङ्ग्रामे प्रत्यपश्याम भैरवम् ||८||
स वानरवरो राजन्पताकाभिरलङ्कृतः |
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ||९||
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत |
ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् ||१०||
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् |
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् ||११||
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे |
आहवे खं महाराज ददृशे पूरयन्निव ||१२||
पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे |
नृत्यतीव रथोपस्थे श्वसनेन समीरितः ||१३||
आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः |
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ||१४||
स तेन भ्राजते राजन्गोवृषेण महारथः |
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते ||१५||
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् |
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् ||१६||
तेन तस्य रथो भाति मयूरेण महात्मनः |
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ||१७||
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव |
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ||१८||
सा सीता भ्राजते तस्य रथमास्थाय मारिष |
सर्वबीजविरूढेव यथा सीता श्रिया वृता ||१९||
वराहः सिन्धुराजस्य राजतोऽभिविराजते |
ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः ||२०||
शुशुभे केतुना तेन राजतेन जयद्रथः |
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ||२१||
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः |
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ||२२||
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते |
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ||२३||
शलस्य तु महाराज राजतो द्विरदो महान् |
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ||२४||
स केतुः शोभयामास सैन्यं ते भरतर्षभ |
यथा श्वेतो महानागो देवराजचमूं तथा ||२५||
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः |
किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे ||२६||
व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते |
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ||२७||
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः |
व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः ||२८||
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः |
अदीप्यतार्जुनो येन हिमवानिव वह्निना ||२९||
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः |
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ||३०||
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः |
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ||३१||
तवापराधाद्धि नरा निहता बहुधा युधि |
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ||३२||
तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् |
दुर्योधनमुखानां च पाण्डूनामृषभस्य च ||३३||
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः |
यदेको बहुभिः सार्धं समागच्छदभीतवत् ||३४||
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः |
जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् ||३५||
तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः |
अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः ||३६||
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः |
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ||३७||
संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने |
महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः ||३८||
८१
धृतराष्ट्र उवाच||
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः |
पाञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय ||१||
सञ्जय उवाच||
अपराह्णे महाराज सङ्ग्रामे लोमहर्षणे |
पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत ||२||
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः |
अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष ||३||
ततः सुतुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः |
पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ||४||
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पण्डवैः सह |
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ||५||
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः |
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ||६||
तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः |
प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् ||७||
तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः |
विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ||८||
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः |
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् ||९||
तमापतन्तं सहसा व्यादितास्यमिवान्तकम् |
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ||१०||
युधिष्ठिरं महाराज जिगीषुं समवस्थितम् |
सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ||११||
नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी |
अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ||१२||
सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः |
शरैरनेकसाहस्रैः समवाकिरदाशुगैः ||१३||
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् |
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ||१४||
द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् |
संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् ||१५||
भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् |
प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः ||१६||
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे |
यादृगेव पुरा वृत्तं रामरावणयोर्नृप ||१७||
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् |
आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत ||१८||
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे |
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ||१९||
भूय एव तु विंशत्या सायकानां समाचिनोत् |
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ||२०||
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः |
अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ||२१||
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे |
चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः ||२२||
अथैनं छिन्नधन्वानं त्वरमाणो महारथः |
शरैरनेकसाहस्रैः पुरयामास सर्वतः ||२३||
अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः |
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ||२४||
केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् |
हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना ||२५||
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः |
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ||२६||
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ||२६||
ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः |
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ||२७||
छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः |
शक्तिं जग्राह समरे गिरीणामपि दारणीम् ||२८||
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ||२८||
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली |
नादेन सर्वभूतानि त्रासयन्निव भारत ||२९||
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे |
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ||३०||
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा |
प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा ||३१||
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ||३१||
तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते |
प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः ||३२||
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् |
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ||३३||
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् |
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत ||३४||
विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः |
क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः ||३५||
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः |
गदां चिक्षेप सहसा धर्मपुत्राय मारिष ||३६||
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः |
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तपः ||३७||
ते गदे सहसा मुक्ते समासाद्य परस्परम् |
सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले ||३८||
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष |
चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ||३९||
धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् |
केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ||४०||
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः |
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ||४१||
विरथं तं समालोक्य व्यायुधं च विशेषतः |
द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ||४२||
मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः |
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ||४३||
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना |
हा हेति सहसा शब्दः पाण्डूनां समजायत ||४४||
हृतो राजा हृतो राजा भारद्वाजेन मारिष |
इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः ||४५||
ततस्त्वरितमारुह्य सहदेवरथं नृपः |
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ||४६||
८२
सञ्जय उवाच||
बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् |
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ||१||
बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् |
आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया ||२||
क्षेमधूर्तिस्तु सङ्क्रुद्धः केकयस्य महात्मनः |
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ||३||
अथैनं छिन्नधन्वानं शरेण नतपर्वणा |
विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् ||४||
अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव |
व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् ||५||
ततोऽपरेण भल्लेन पीतेन निशितेन च |
जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् ||६||
तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् |
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ||७||
तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः |
सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् ||८||
धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी |
वीरधन्वा महेष्वासो वारयामास भारत ||९||
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ |
शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ||१०||
तावुभौ नरशार्दूलौ युयुधाते परस्परम् |
महावने तीव्रमदौ वारणाविव यूथपौ ||११||
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ |
युयुधाते महावीर्यौ परस्परजिघांसया ||१२||
तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते |
सिद्धचारणसङ्घानां विस्मयाद्भुतदर्शनम् ||१३||
वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् |
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ||१४||
तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः |
शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् ||१५||
तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत |
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ||१६||
स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् |
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ||१७||
तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे |
बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ||१८||
सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् |
ननाद च महानादं तर्जयन्पाण्डवं रणे ||१९||
मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः |
भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव ||२०||
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् |
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ||२१||
दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः |
जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ||२२||
अथापरेण भल्लेन पीतेन निशितेन च |
चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् ||२३||
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः |
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ||२४||
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा |
आरुरोह रथं राजन्निरमित्रस्य भारत ||२५||
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे |
जघान पृतनामध्ये भल्लेन परवीरहा ||२६||
स पपात रथोपस्थान्निरमित्रो जनेश्वरः |
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ||२७||
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत |
यथा दाशरथी रामः खरं हत्वा महाबलम् ||२८||
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर |
राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् ||२९||
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् |
मुहूर्ताज्जितवान्सङ्ख्ये तदद्भुतमिवाभवत् ||३०||
सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः |
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ||३१||
तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् |
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ||३२||
कुमारे निहते तस्मिन्मगधस्य सुते प्रभो |
मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ||३३||
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः |
भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि ||३४||
अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् |
तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः ||३५||
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ ||३५||
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः |
बलं तेऽभज्यत विभो युयुधानशरार्दितम् ||३६||
नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः |
विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः ||३७||
भज्यमानं बलं राजन्सात्वतेन महात्मना |
नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना ||३८||
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी |
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ||३९||
८३
सञ्जय उवाच||
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः |
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ||१||
ते पीडिता भृशं तेन रौद्रेण सहसा विभो |
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किञ्चन ||२||
नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् |
द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ||३||
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः |
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ||४||
स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् |
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ||५||
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना |
परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ||६||
आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः |
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ||७||
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः |
ननाद बलवन्नादं विव्याध च शितैः शरैः ||८||
यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् |
नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् ||९||
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् |
क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ||१०||
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् |
भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ||११||
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः |
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ||१२||
अलम्बुसस्तु समरे भीमसेनं महाबलम् |
योधयामास सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ||१३||
सम्प्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ |
विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ||१४||
आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः |
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ||१५||
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् |
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ||१६||
स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः |
भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ||१७||
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ||१७||
सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः |
निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ||१८||
प्रतिलभ्य ततः सञ्ज्ञां मारुतिः क्रोधमूर्छितः |
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ||१९||
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ||१९||
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः |
शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ||२०||
स वध्यमानः समरे भीमचापच्युतैः शरैः |
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ||२१||
घोरं रूपमथो कृत्वा भीमसेनमभाषत |
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ||२२||
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली |
परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ||२३||
एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा |
महाता शरवर्षेण भृशं तं समवाकिरत् ||२४||
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा |
आकाशं पूरयामास शरैः संनतपर्वभिः ||२५||
स वध्यमानो भीमेन निमेषाद्रथमास्थितः |
जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ||२६||
उच्चावचानि रूपाणि चकार सुबहूनि च |
उच्चावचास्तथा वाचो व्याजहार समन्ततः ||२७||
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः |
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ||२८||
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ||२८||
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् |
छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् ||२९||
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् |
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ||३०||
तं तथा समरे राजन्विचरन्तमभीतवत् |
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तत्स्य विक्रमम् ||३१||
तावकानां तु सैन्यानां प्रहर्षः समजायत |
वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ||३२||
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः |
नामृष्यत यथा नागस्तलशब्दं समीरितम् ||३३||
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः |
संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ||३४||
ततः शरसहस्राणि प्रादुरासन्समन्ततः |
तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ||३५||
तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे |
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ||३६||
स वध्यमानो बहुधा भीमसेनेन राक्षसः |
सन्त्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् ||३७||
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना |
अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ||३८||
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् |
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ||३९||
८४
सञ्जय उवाच||
अलम्बुसं तथा युद्धे विचरन्तमभीतवत् |
हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः ||१||
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः |
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ||२||
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् |
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ||३||
अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ||३||
तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् |
विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः ||४||
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ |
निर्विशेषमयुध्येतां मायाभिरितरेतरम् ||५||
मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् |
मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् ||६||
यां यां घटोत्कचो युद्धे मायां दर्शयते नृप |
तां तामलम्बुसो राजन्माययैव निजघ्निवान् ||७||
तं तथा युध्यमानं तु मायायुद्धविशारदम् |
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ||८||
त एनं भृशसङ्क्रुद्धाः सर्वतः प्रवरा रथैः |
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनादयो नृप ||९||
त एनं कोष्ठकीकृत्य रथवंशेन मारिष |
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ||१०||
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया |
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ||११||
स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् |
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ||१२||
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ||१२||
नकुलं च त्रिसप्तत्या द्रुपदेयांश्च मारिष |
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ||१३||
तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः |
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ||१४||
नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ||१४||
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः |
पुनर्विव्याध सप्तत्या ननाद च महाबलः ||१५||
सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः |
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ||१६||
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः |
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ||१७||
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः |
व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ||१८||
ते शरा नतपर्वाणो विविशू राक्षसं तदा |
रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः ||१९||
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् |
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ||२०||
स वध्यमानः समरे पाण्डवैर्जितकाशिभिः |
दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् ||२१||
समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः |
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ||२२||
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च |
भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ||२३||
स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः |
घटोत्कचेन वीरेण हतः सालकटङ्कटः ||२४||
ततः सुमनसः पार्था हते तस्मिन्निशाचरे |
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ||२५||
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् |
अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् ||२६||
हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ||२६||
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः |
यदृच्छया निपतितं भूमावङ्गारकं यथा ||२७||
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् |
मुमोच बलवन्नादं बलं हत्वेव वासवः ||२८||
स पूज्यमानः पितृभिः सबान्धवै; र्घटोत्कचः कर्मणि दुष्करे कृते |
रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वमलम्बुसं यथा ||२९||
ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधबाणघोषवान् |
निशम्य तं प्रत्यनदंस्तु कौरवा; स्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् ||३०||
८५
धृतराष्ट्र उवाच||
भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत् |
सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ||१||
सञ्जय उवाच||
शृणु राजन्महाप्राज्ञ सङ्ग्रामं लोमहर्षणम् |
द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ||२||
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष |
अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ||३||
तमापतन्तं सहसा भारद्वाजं महारथम् |
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ||४||
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः |
अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः ||५||
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः |
अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः ||६||
दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः |
द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः ||७||
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् |
सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ||८||
ततः क्रुद्धो महेष्वासो भूय एव महाबलः |
सात्वतं पीडयामास शतेन नतपर्वणा ||९||
स वध्यमानः समरे भारद्वाजेन सात्यकिः |
नाभ्यपद्यत कर्तव्यं किञ्चिदेव विशां पते ||१०||
विषण्णवदनश्चापि युयुधानोऽभवन्नृप |
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ||११||
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते |
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ||१२||
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् |
युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत ||१३||
एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् |
ग्रस्यते युधि वीरेण भानुमानिव राहुणा ||१४||
अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ||१४||
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप |
अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत ||१५||
न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् ||१५||
असौ द्रोणो महेष्वासो युयुधानेन संयुगे |
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ||१६||
तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः |
त्वयैव सहिता यत्ता युयुधानरथं प्रति ||१७||
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः |
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ||१८||
एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः |
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ||१९||
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् |
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ||२०||
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् |
अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ||२१||
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् |
अतिथीनागतान्यद्वत्सलिलेनासनेन च ||२२||
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः |
आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा ||२३||
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् |
मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो ||२४||
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः |
अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ||२५||
वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा |
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ||२६||
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः |
घभस्तय इवार्कस्य प्रतपन्तः समन्ततः ||२७||
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः |
महारथसमाख्याता धृष्टद्युम्नस्य संमताः ||२८||
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च |
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ||२९||
केकयानां शतं हत्वा विद्राव्य च समन्ततः |
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ||३०||
पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि |
द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ||३१||
तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः |
वनौकसामिवारण्ये दह्यतां धूमकेतुना ||३२||
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप |
एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ||३३||
तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे |
न चाप्यभिययुः केचिदपरे नैव विव्यधुः ||३४||
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये |
अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् ||३५||
पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् |
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ||३६||
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ||३६||
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः |
कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ||३७||
न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् |
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ||३८||
एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना |
अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ||३९||
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः |
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ||४०||
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः |
साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ||४१||
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव |
त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ||४२||
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः |
स कार्ये साम्पराये तु नियोज्य इति मे मतिः ||४३||
यथा च केशवो नित्यं पाण्डवानां परायणम् |
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ||४४||
सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि |
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ||४५||
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे |
कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ||४६||
त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः |
लोके विख्यायसे वीर कर्मभिः सत्यवागिति ||४७||
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् |
पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् ||४८||
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः |
दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ||४९||
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः |
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ||५०||
एक एव सदा कृष्णो मित्राणामभयङ्करः |
रणे सन्त्यजति प्राणान्द्वितीयस्त्वं च सात्यके ||५१||
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः |
शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ||५२||
ईदृशे तु परामर्दे वर्तमानस्य माधव |
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ||५३||
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः |
मम सञ्जनयन्हर्षं पुनः पुनरकीर्तयत् ||५४||
लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः |
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ||५५||
महास्कन्धो महोरस्को महाबाहुर्महाधनुः |
महाबलो महावीर्यः स महात्मा महारथः ||५६||
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे |
युयुधानः सहायो मे प्रमथिष्यति कौरवान् ||५७||
अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः |
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ||५८||
गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः |
सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि ||५९||
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् |
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः ||६०||
इति द्वैतवने तात मामुवाच धनञ्जयः |
परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ||६१||
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि |
धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ||६२||
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति |
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ||६३||
न तत्सौहृदमन्येषु मया शैनेय लक्षितम् |
यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ||६४||
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च |
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ||६५||
सत्यस्य च महाबाहो अनुकम्पार्थमेव च |
अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ||६६||
सोयोधनो हि सहसा गतो द्रोणेन दंशितः |
पूर्वमेव तु यातास्ते कौरवाणां महारथाः ||६७||
सुमहान्निनदश्चैव श्रूयते विजयं प्रति |
स शैनेय जवेनात्र गन्तुमर्हसि माधव ||६८||
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः |
द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति ||६९||
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे |
महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ||७०||
महामारुतवेगेन समुद्रमिव पर्वसु |
धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना ||७१||
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह |
सैन्यं रजःसमुद्धूतमेतत्सम्परिवर्तते ||७२||
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः |
अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा ||७३||
नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः |
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ||७४||
शरशक्तिध्वजवनं हयनागसमाकुलम् |
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ||७५||
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् |
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ||७६||
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः |
सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ||७७||
पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः |
बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ||७८||
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् |
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ||७९||
सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् ||७९||
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः |
लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् ||८०||
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते |
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ||८१||
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ||८१||
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् |
अविषह्यां महाबाहुः सुरैरपि महामृधे ||८२||
न च मे वर्तते बुद्धिरद्य युद्धे कथञ्चन |
द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ||८३||
प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः ||८३||
युगपच्च समेतानां कार्याणां त्वं विचक्षणः |
महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव ||८४||
तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा |
अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे ||८५||
नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् |
स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान् ||८६||
विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते |
किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् ||८७||
अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि |
प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ||८८||
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा |
तादृशस्येदृशे काले मादृशेनाभिचोदितः ||८९||
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ |
प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ||९०||
अस्त्रे नारायणसमः सङ्कर्षणसमो बले |
वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि ||९१||
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् |
त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ||९२||
नासाध्यं विद्यते लोके सात्यकेरिति माधव |
तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ||९३||
सम्भावना हि लोकस्य तव पार्थस्य चोभयोः |
नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि ||९४||
परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत् |
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ||९५||
अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम् |
भीरूणामसतां मार्गो नैष दाशार्हसेवितः ||९६||
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गव |
वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ||९७||
कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम् |
मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ||९८||
वासुदेवमतं चैतन्मम चैवार्जुनस्य च |
सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः ||९९||
एतद्वचनमाज्ञाय मम सत्यपराक्रम |
प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ||१००||
प्रविश्य च यथान्यायं सङ्गम्य च महारथैः |
यथार्हमात्मनः कर्म रणे सात्वत दर्शय ||१०१||
८६
सञ्जय उवाच||
प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च |
कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् ||१||
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः |
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ||२||
श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत |
न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् ||३||
एवंविधे तथा काले मदृशं प्रेक्ष्य संमतम् |
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् ||४||
न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन |
त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे ||५||
लोकत्रयं योधयेयं सदेवासुरमानुषम् |
त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् ||६||
सुयोधनबलं त्वद्य योधयिष्ये समन्ततः |
विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते ||७||
कुशल्यहं कुशलिनं समासाद्य धनञ्जयम् |
हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ||८||
अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप |
वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ||९||
दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः |
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ||१०||
अद्य माधव राजानमप्रमत्तोऽनुपालय |
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् ||११||
त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे |
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ||१२||
जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् |
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ||१३||
ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति |
शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् ||१४||
एवं त्वयि समाधाय धर्मराजं नरोत्तमम् |
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि ||१५||
जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव |
धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् ||१६||
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव |
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ||१७||
एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि |
अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः ||१८||
सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति |
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ||१९||
स त्वमद्य महाबाहो प्रियार्थं मम माधव |
जयार्थं च यशोर्थं च रक्ष राजानमाहवे ||२०||
स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना |
भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो ||२१||
तस्यापि च महाबाहो नित्यं पश्यति संयुगे |
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो ||२२||
मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः ||२२||
सोऽहं सम्भावनां चैतामाचार्यवचनं च तत् |
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ||२३||
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः |
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ||२४||
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः |
तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः ||२५||
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि |
यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् ||२६||
मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम् |
न स जातु महाबाहुर्भारमुद्यम्य सीदति ||२७||
ये च सौवीरका योधास्तथा सैन्धवपौरवाः |
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ||२८||
ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः |
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ||२९||
उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा |
सराक्षसगणा राजन्सकिंनरमहोरगा ||३०||
जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे |
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये ||३१||
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ |
न तत्र कर्मणो व्यापत्कथञ्चिदपि विद्यते ||३२||
दैवं कृतास्त्रतां योगममर्षमपि चाहवे |
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ||३३||
मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति |
द्रोणे चित्रास्त्रतां सङ्ख्ये राजंस्त्वमनुचिन्तय ||३४||
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति |
प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ||३५||
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि |
यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति ||३६||
न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे |
क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ||३७||
एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर |
दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् ||३८||
युधिष्ठिर उवाच||
एवमेतन्महाबाहो यथा वदसि माधव |
न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष ||३९||
करिष्ये परमं यत्नमात्मनो रक्षणं प्रति |
गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः ||४०||
आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति |
विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये ||४१||
स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः |
ममापि रक्षणं भीमः करिष्यति महाबलः ||४२||
पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः |
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः ||४३||
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः |
विराटो द्रुपदश्चैव शिखण्डी च महारथः ||४४||
धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष |
नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा ||४५||
एते समाहितास्तात रक्षिष्यन्ति न संशयः ||४५||
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे |
समासादयितुं शक्तो न च मां धर्षयिष्यति ||४६||
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः |
वारयिष्यति विक्रम्य वेलेव मकरालयम् ||४७||
यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा |
न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथञ्चन ||४८||
एष द्रोणविनाशाय समुत्पन्नो हुताशनात् |
कवची स शरी खड्गी धन्वी च वरभूषणः ||४९||
विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम् |
धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति ||५०||
८७
सञ्जय उवाच||
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः |
पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः ||१||
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः |
न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति ||२||
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः |
धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ ||३||
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते |
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ||४||
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते |
यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ||५||
तस्याहं पदवीं यास्ये संदेशात्तव मानद |
त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन ||६||
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर |
तथा तवापि वचनं विशिष्टतरमेव मे ||७||
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ |
तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव ||८||
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो |
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम ||९||
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् |
तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ||१०||
यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् |
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ||११||
इतस्त्रियोजनं मन्ये तमध्वानं विशां पते |
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ||१२||
त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् |
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ||१३||
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः |
आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः ||१४||
अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो ||१४||
हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् |
इष्वस्त्रवरसम्बाधं क्षोभयिष्ये बलार्णवम् ||१५||
यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि |
कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः ||१६||
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः |
नागा मेघनिभा राजन्क्षरन्त इव तोयदाः ||१७||
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः |
अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ||१८||
अथ यान्रथिनो राजन्समन्तादनुपश्यसि |
एते रुक्मरथा नाम राजपुत्रा महारथाः ||१९||
रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते |
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ||२०||
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा |
खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः ||२१||
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् |
नित्यं च समरे राजन्विजिगीषन्ति मानवान् ||२२||
कर्णेन विजिता राजन्दुःशासनमनुव्रताः |
एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ||२३||
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः |
तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ||२४||
ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः |
मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ||२५||
एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव |
प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ||२६||
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च |
प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् ||२७||
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना |
स्वलङ्कृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः ||२८||
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् |
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ||२९||
तेषामेते महामात्राः किराता युद्धदुर्मदाः |
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ||३०||
एते विनिर्जिताः सर्वे सङ्ग्रामे सव्यसाचिना |
मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ||३१||
एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् |
सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् ||३२||
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः |
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ||३३||
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः |
लब्धलक्ष्या रणे राजन्नैरावणसमा युधि ||३४||
उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः |
कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः ||३५||
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः |
अनेकयोनयश्चान्ये तथा मानुषयोनयः ||३६||
अनीकमसतामेतद्धूमवर्णमुदीर्यते |
म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् ||३७||
एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् |
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ||३८||
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् |
कृतार्थमथ चात्मानं मन्यते कालचोदितः ||३९||
ते च सर्वेऽनुसम्प्राप्ता मम नाराचगोचरम् |
न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ||४०||
तेन सम्भाविता नित्यं परवीर्योपजीविना |
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ||४१||
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः |
एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः ||४२||
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः |
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ||४३||
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत |
यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः ||४४||
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः |
तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः ||४५||
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च |
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ||४६||
अस्मिंस्तु खलु सङ्ग्रामे ग्राह्यं विविधमायुधम् |
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ||४७||
काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः |
नानाशस्त्रसमावापैर्विविधायुधयोधिभिः ||४८||
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः |
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ||४९||
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः |
अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ||५०||
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः |
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ||५१||
तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः |
उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे ||५२||
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च |
रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च ||५३||
ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः |
रसवत्पाययामासुः पानं मदसमीरिणम् ||५४||
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान् |
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ||५५||
तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः |
संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे ||५६||
महाध्वजेन सिंहेन हेमकेसरमालिना |
संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः ||५७||
पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते ||५७||
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे |
योजयामास विधिवद्धेमभाण्डविभूषितान् ||५८||
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा |
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ||५९||
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः |
स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् ||६०||
आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ||६०||
ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु |
लोहिताक्षो बभौ तत्र मदविह्वललोचनः ||६१||
आलभ्य वीरकांस्यं च हर्षेण महतान्वितः |
द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः ||६२||
उत्सङ्गे धनुरादाय सशरं रथिनां वरः ||६२||
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः |
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ||६३||
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः |
तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ||६४||
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः |
अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः ||६५||
अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् |
त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ||६६||
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् |
आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ||६७||
जानीषे मम वीर्यं त्वं तव चाहमरिंदम |
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ||६८||
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये |
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ||६९||
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः |
गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम ||७०||
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः |
निमित्तानि च धन्यानि यथा भीम वदन्ति मे ||७१||
निहते सैन्धवे पापे पाण्डवेन महात्मना |
परिष्वजिष्ये राजानं धर्मात्मानं न संशयः ||७२||
एतावदुक्त्वा भीमं तु विसृज्य च महामनाः |
सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ||७३||
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप |
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ||७४||
ततः प्रयातः सहसा सैन्यं तव स सात्यकिः |
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ||७५||
८८
सञ्जय उवाच||
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया |
धर्मराजो महाराज स्वेनानीकेन संवृतः ||१||
प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः ||१||
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः |
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ||२||
आगच्छत प्रहरत द्रुतं विपरिधावत |
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ||३||
महारथा हि बहवो यतिष्यन्त्यस्य निर्जये |
इति ब्रुवन्तो वेगेन समापेतुर्बलं तव ||४||
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः |
ततः शब्दो महानासीद्युयुधानरथं प्रति ||५||
प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी |
सात्वतेन महाराज शतधाभिव्यदीर्यत ||६||
तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः |
सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् ||७||
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना |
आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् ||८||
रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष |
चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः ||९||
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः |
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते ||१०||
हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः |
ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम ||११||
शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः |
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ||१२||
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः |
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ||१३||
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः |
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः ||१४||
गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ||१४||
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः |
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ||१५||
ततस्तेनैव मार्गेण येन यातो धनञ्जयः |
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ||१६||
भरद्वाजं समासाद्य युयुधानस्तु मारिष |
नाभ्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः ||१७||
निवार्य तु रणे द्रोणो युयुधानं महारथम् |
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ||१८||
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः |
हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ||१९||
तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् |
स तं न ममृषे द्रोणं युयुधानो महारथः ||२०||
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः |
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ||२१||
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः |
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् ||२२||
ध्वजमेकेन बाणेन विव्याध युधि मारिष ||२२||
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः |
त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ||२३||
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः |
प्राच्छादयदसम्भ्रान्तस्ततो द्रोण उवाच ह ||२४||
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा |
युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत ||२५||
त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव |
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ||२६||
सात्यकिरुवाच||
धनञ्जयस्य पदवीं धर्मराजस्य शासनात् |
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ||२७||
सञ्जय उवाच||
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् |
प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ||२८||
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे |
यत्तो याहि रणे सूत शृणु चेदं वचः परम् ||२९||
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् |
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् ||३०||
तदनन्तरमेतच्च बाह्लिकानां बलं महत् |
बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् ||३१||
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे |
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ||३२||
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् |
मध्यमं जवमास्थाय वह मामत्र सारथे ||३३||
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः |
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ||३४||
हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते |
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ||३५||
एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् |
स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् ||३६||
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् |
युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् ||३७||
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः |
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ||३८||
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च |
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ||३९||
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः |
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ||४०||
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः |
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ||४१||
स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः |
सात्वतेन महाराज कृतवर्मा न चक्षमे ||४२||
स वत्सदन्तं सन्धाय जिह्मगानलसंनिभम् |
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ||४३||
स तस्य देहावरणं भित्त्वा देहं च सायकः |
सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः ||४४||
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् |
समार्गणगुणं राजन्कृतवर्मा शरासनम् ||४५||
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् |
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ||४६||
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः |
अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः ||४७||
ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः |
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ||४८||
सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् |
छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः ||४९||
अथास्य भल्लेन शिरः सारथेः समकृन्तत |
स पपात हतः सूतो हार्दिक्यस्य महारथात् ||५०||
ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् ||५०||
अथ भोजस्त्वसम्भ्रान्तो निगृह्य तुरगान्स्वयम् |
तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ||५१||
स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् |
व्यपेतभीरमित्राणामावहत्सुमहद्भयम् ||५२||
सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् ||५२||
युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः |
प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् ||५३||
स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः |
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ||५४||
सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च |
अन्वधावद्रणे यत्तो युयुधानं युयुत्सया ||५५||
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः |
न्यवारयन्त सङ्क्रुद्धाः पाण्डुसैन्ये बृहत्तमाः ||५६||
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् |
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः ||५७||
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा ||५७||
यतमानांस्तु तान्सर्वानीषद्विगतचेतसः |
अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् ||५८||
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे |
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः ||५९||
८९
धृतराष्ट्र उवाच||
एवं बहुविधं सैन्यमेवं प्रविचितं वरम् |
व्यूढमेवं यथान्यायमेवं बहु च सञ्जय ||१||
नित्यं पूजितमस्माभिरभिकामं च नः सदा |
प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् ||२||
नातिवृद्धमबालं च न कृशं नातिपीवरम् |
लघुवृत्तायतप्राणं सारगात्रमनामयम् ||३||
आत्तसंनाहसम्पन्नं बहुशस्त्रपरिच्छदम् |
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ||४||
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते |
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ||५||
नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् |
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ||६||
न गोष्ठ्या नोपचारेण न सम्बन्धनिमित्ततः |
नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह ||७||
कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् |
कृतमानोपकारं च यशस्वि च मनस्वि च ||८||
सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः |
लोकपालोपमैस्तात पालितं नरसत्तमैः ||९||
बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः |
अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ||१०||
महोदधिमिवापूर्णमापगाभिः समन्ततः |
अपक्षैः पक्षिसङ्काशै रथैरश्वैश्च संवृतम् ||११||
योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् |
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् ||१२||
ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् |
वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् ||१३||
द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् |
जलसन्धमहाग्राहं कर्णचन्द्रोदयोद्धतम् ||१४||
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे |
सञ्जयैकरथेनैव युयुधाने च मामकम् ||१५||
तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि |
सात्वते च रथोदारे मम सैन्यस्य सञ्जय ||१६||
तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ |
सिन्धुराजं च सम्प्रेक्ष्य गाण्डीवस्येषुगोचरे ||१७||
किं तदा कुरवः कृत्यं विदधुः कालचोदिताः |
दारुणैकायने काले कथं वा प्रतिपेदिरे ||१८||
ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात सङ्गतान् |
विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै ||१९||
अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ |
न च वारयिता कश्चित्तयोरस्तीह सञ्जय ||२०||
भृताश्च बहवो योधाः परीक्ष्यैव महारथाः |
वेतनेन यथायोग्यं प्रियवादेन चापरे ||२१||
अकारणभृतस्तात मम सैन्ये न विद्यते |
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ||२२||
न च योधोऽभवत्कश्चिन्मम सैन्ये तु सञ्जय |
अल्पदानभृतस्तात न कुप्यभृतको नरः ||२३||
पूजिता हि यथाशक्त्या दानमानासनैर्मया |
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ||२४||
ते च प्राप्यैव सङ्ग्रामे निर्जिताः सव्यसाचिना |
शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ||२५||
रक्ष्यते यश्च सङ्ग्रामे ये च सञ्जय रक्षिणः |
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः ||२६||
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् |
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ||२७||
सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् |
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ||२८||
सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ |
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ||२९||
दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् |
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ||३०||
दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च |
पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ||३१||
विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये |
पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ||३२||
शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च |
हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः ||३३||
व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः |
धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः ||३४||
विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् |
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ||३५||
पत्तिसङ्घान्रणे दृष्ट्वा धावमानांश्च सर्वशः |
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ||३६||
द्रोणस्य समतिक्रान्तावनीकमपराजितौ |
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ||३७||
संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ |
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ||३८||
तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे |
भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः ||३९||
तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु |
कथं युद्धमभूत्तत्र तन्ममाचक्ष्व सञ्जय ||४०||
द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः |
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ||४१||
बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः |
भारद्वाजस्तथा तेषु कृतवैरो महारथः ||४२||
अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति |
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय ||४३||
९०
सञ्जय उवाच||
आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ |
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ||१||
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च |
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ||२||
आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ||२||
सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः |
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ||३||
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः |
न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत ||४||
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ||४||
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् |
शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् ||५||
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे |
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ||६||
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् |
दधारैको रणे पाण्डून्कृतवर्मा महारथः ||७||
यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् |
पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यः समवारयत् ||८||
तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् |
यदेनं सहिताः पार्था नातिचक्रमुराहवे ||९||
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः |
शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् ||१०||
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः |
शतेन नकुलश्चापि हार्दिक्यं समविध्यत ||११||
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः |
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ||१२||
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ||१२||
शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः |
पुनर्विव्याध विंशत्या सायकानां हसन्निव ||१३||
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् |
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ||१४||
धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् ||१४||
अथैनं छिन्नधन्वानं त्वरमाणो महारथः |
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ||१५||
स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः |
चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः ||१६||
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः |
विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् ||१७||
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष |
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ||१८||
प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः |
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् ||१९||
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ||१९||
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा |
कृतवर्माणमभितः प्रजज्वाल सुदारुणा ||२०||
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् |
द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा ||२१||
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा |
द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता ||२२||
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ||२२||
ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् |
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ||२३||
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे |
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह ||२४||
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष |
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ||२५||
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव |
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ||२६||
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् |
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ||२७||
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः |
धनुश्चिच्छेद समरे प्रहसन्निव भारत ||२८||
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् |
असिं जग्राह समरे शतचन्द्रं च भास्वरम् ||२९||
भ्रामयित्वा महाचर्म चामीकरविभूषितम् |
तमसिं प्रेषयामास कृतवर्मरथं प्रति ||३०||
स तस्य सशरं चापं छित्त्वा सङ्ख्ये महानसिः |
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ||३१||
एतस्मिन्नेव काले तु त्वरमाणा महारथाः |
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ||३२||
अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः |
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ||३३||
विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः |
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ||३४||
धनुरन्यत्समादाय शिखण्डी तु महायशाः |
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ||३५||
ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसम्भवः |
अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ||३६||
भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः |
विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ||३७||
तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ |
समासेदतुरन्योन्यं शरसङ्घैररिंदमौ ||३८||
विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् |
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ||३९||
तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ |
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ||४०||
कृतवर्मा तु रभसं याज्ञसेनिं महारथम् |
विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः ||४१||
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् |
विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः ||४२||
तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ |
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ||४३||
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् |
अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ||४४||
सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् |
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ||४५||
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः |
यदेकः समरे पार्थान्वारयामास सानुगान् ||४६||
पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि |
केकयांश्च महावीर्यान्कृतवर्मा महारथः ||४७||
ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः |
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ||४८||
जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् |
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ||४९||
ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः |
विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः ||५०||
९१
सञ्जय उवाच||
शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि |
द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना ||१||
लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः |
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ||२||
श्रुत्वा तु निनदं भीमं तावकानां महाहवे |
शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् ||३||
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः |
अवाकिरत्सुसङ्क्रुद्धस्ततोऽक्रुध्यत सात्यकिः ||४||
ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे |
प्रेषयामास समरे शरांश्च चतुरोऽपरान् ||५||
ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः |
पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ||६||
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः |
सेनामस्यार्दयामास शरैः संनतपर्वभिः ||७||
साभज्यताथ पृतना शैनेयशरपीडिता |
ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः ||८||
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् |
अतीत्य स महाराज द्रोणानीकमहार्णवम् ||९||
पराजित्य च संहृष्टः कृतवर्माणमाहवे |
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम् ||१०||
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसङ्कुलम् |
पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः ||११||
यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः |
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ||१२||
एते हि बहवः सूत दुर्निवार्याश्च संयुगे |
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ||१३||
राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः ||१३||
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः |
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ||१४||
अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे |
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ||१५||
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः |
रथेनादित्यवर्णेन भास्वरेण पताकिना ||१६||
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः |
वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः ||१७||
आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः |
परिवव्रुस्ततः शूरा गजानीकेन सर्वतः ||१८||
किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः ||१८||
सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् |
पर्वतानिव वर्षेण तपान्ते जलदो महान् ||१९||
वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः |
प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः ||२०||
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः |
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ||२१||
सम्भिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः |
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः ||२२||
रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः |
नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः ||२३||
तस्मिन्द्रुते गजानीके जलसन्धो महारथः |
यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति ||२४||
रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः |
कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः ||२५||
शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् |
उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ||२६||
चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि |
अशोभत महाराज सविद्युदिव तोयदः ||२७||
तमापतन्तं सहसा मागधस्य गजोत्तमम् |
सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम् ||२८||
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः |
अक्रुध्यत रणे राजञ्जलसन्धो महाबलः ||२९||
ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः |
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि ||३०||
ततोऽपरेण भल्लेन पीतेन निशितेन च |
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ||३१||
सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत |
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ||३२||
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान् |
नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् ||३३||
अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली |
धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह ||३४||
एतावदुक्त्वा शैनेयो जलसन्धं महोरसि |
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ||३५||
क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः |
जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः ||३६||
जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम् |
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ||३७||
स निर्भिद्य भुजं सव्यं माधवस्य महारणे |
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ||३८||
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः |
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत् ||३९||
प्रगृह्य तु ततः खड्गं जलसन्धो महाबलः |
आर्षभं चर्म च महच्छतचन्द्रमलङ्कृतम् ||४०||
तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह ||४०||
शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् |
अलातचक्रवच्चैव व्यरोचत महीं गतः ||४१||
अथान्यद्धनुरादाय सर्वकायावदारणम् |
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् ||४२||
विस्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह ||४२||
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः |
साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव ||४३||
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् |
वसुन्धरधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ ||४४||
ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम् |
क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः ||४५||
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् |
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत ||४६||
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः |
नैषादिं पातयामास गजस्कन्धाद्विशां पते ||४७||
रुधिरेणावसिक्ताङ्गो जलसन्धस्य कुञ्जरः |
विलम्बमानमवहत्संश्लिष्टं परमासनम् ||४८||
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् |
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ||४९||
हाहाकारो महानासीत्तव सैन्यस्य मारिष |
जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण ह ||५०||
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः |
पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ||५१||
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः |
अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् ||५२||
तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः |
द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् ||५३||
ततः प्रववृते युद्धं कुरूणां सात्वतस्य च |
द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् ||५४||
९२
सञ्जय उवाच||
ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः |
त्वरमाणा महाराज युयुधानमयोधयन् ||१||
तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः |
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ||२||
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः |
विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ||३||
दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः |
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ||४||
दुर्योधनश्च महता शरवर्षेण माधवम् |
अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः ||५||
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः |
तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः ||६||
भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा |
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ||७||
दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् |
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ||८||
ततो रुक्माङ्गदं चापं विधुन्वानो महारथः |
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ||९||
राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् |
शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः ||१०||
विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान् |
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ||११||
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत |
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ||१२||
सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव |
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ||१३||
माधवस्तु रणे राजन्कुरुराजस्य धन्विनः |
धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव ||१४||
अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ||१४||
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा |
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ||१५||
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् |
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ||१६||
सोऽतिविद्धो बलवता पुत्रेण तव धन्विना |
अमर्षवशमापन्नस्तव पुत्रमपीडयत् ||१७||
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः |
सात्वतं शरवर्षेण छादयामासुरञ्जसा ||१८||
स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः |
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ||१९||
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः |
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ||२०||
नागं मणिमयं चैव शरैर्ध्वजमपातयत् |
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ||२१||
सारथिं पातयामास क्षुरप्रेण महायशाः ||२१||
एतस्मिन्नन्तरे चैव कुरुराजं महारथम् |
अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ||२२||
स वध्यमानः समरे शैनेयस्य शरोत्तमैः |
प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ||२३||
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ||२३||
हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे |
ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ||२४||
तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः |
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ||२५||
विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः |
भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः ||२६||
तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम् |
युयुधानो महाराज यन्तारमिदमब्रवीत् ||२७||
कृतवर्मा रथेनैष द्रुतमापतते शरी |
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ||२८||
ततः प्रजविताश्वेन विधिवत्कल्पितेन च |
आससाद रणे भोजं प्रतिमानं धनुष्मताम् ||२९||
ततः परमसङ्क्रुद्धौ ज्वलन्ताविव पावकौ |
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ||३०||
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् |
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः ||३१||
चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः |
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह ||३२||
रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् |
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् ||३३||
ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे |
प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनञ्जयम् ||३४||
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः |
समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः ||३५||
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः |
विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः ||३६||
सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः |
व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम् ||३७||
सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः |
जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् ||३८||
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ||३८||
सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः |
प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे ||३९||
स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः |
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ||४०||
सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् |
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ||४१||
खड्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम् |
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ||४२||
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः |
अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् ||४३||
समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः |
तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् ||४४||
९३
सञ्जय उवाच||
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः |
भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् ||१||
स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत् |
पश्यतां सर्वसैन्यानां बलिवासवयोरिव ||२||
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः |
त्रिभिराशीविषाकारैर्ललाटे समविध्यत ||३||
तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः |
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ||४||
ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् |
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ||५||
तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् |
द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ||६||
तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते |
प्रहस्य सहसाविध्यद्विंशत्या शिनिपुङ्गवम् ||७||
पुनः पञ्चाशतेषूणां शतेन च समार्पयत् |
लघुतां युयुधानस्य लाघवेन विशेषयन् ||८||
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः |
तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः ||९||
तथैव युयुधानेन सृष्टाः शतसहस्रशः |
अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ||१०||
लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष |
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ||११||
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः |
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः ||१२||
सारथिं च शतेनैव भारद्वाजस्य पश्यतः ||१२||
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः |
सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः ||१३||
ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् ||१३||
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा |
धनुश्चिच्छेद समरे माधवस्य महात्मनः ||१४||
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः |
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ||१५||
तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् |
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः ||१६||
अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः |
विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः ||१७||
स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत |
तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ||१८||
तथः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम् |
तरसा प्रेषयामास माधवस्य रथं प्रति ||१९||
अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा |
भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ||२०||
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा |
दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ ||२१||
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः |
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ||२२||
मुमोह सरथिस्तस्य रथशक्त्या समाहतः |
स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ||२३||
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् |
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ||२४||
ततः शरशतेनैव युयुधानो महारथः |
अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशां पते ||२५||
तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत |
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ||२६||
निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम् |
सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ||२७||
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि |
अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः ||२८||
स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः |
चकार राजतो राजन्भ्राजमान इवांशुमान् ||२९||
अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत |
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ||३०||
ते सात्यकिमपास्याशु राजन्युधि महारथाः |
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ||३१||
तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् |
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ||३२||
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः |
वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः ||३३||
पाण्डुपाञ्चालसम्भग्नं व्यूहमालोक्य वीर्यवान् |
शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे ||३४||
निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव |
तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः ||३५||
९४
सञ्जय उवाच||
द्रोणं स जित्वा पुरुषप्रवीर; स्तथैव हार्दिक्यमुखांस्त्वदीयान् |
प्रहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुङ्गवाग्र्य ||१||
निमित्तमात्रं वयमत्र सूत; दग्धारयः केशवफल्गुनाभ्याम् |
हतान्निहन्मेह नरर्षभेण; वयं सुरेशात्मसमुद्भवेन ||२||
तमेवमुक्त्वा शिनिपुङ्गवस्तदा; महामृधे सोऽग्र्यधनुर्धरोऽरिहा |
किरन्समन्तात्सहसा शरान्बली; समापतच्छ्येन इवामिषं यथा ||३||
तं यान्तमश्वैः शशिशङ्खवर्णै; र्विगाह्य सैन्यं पुरुषप्रवीरम् |
नाशक्नुवन्वारयितुं समन्ता; दादित्यरश्मिप्रतिमं नराग्र्यम् ||४||
असह्यविक्रान्तमदीनसत्त्वं; सर्वे गणा भारत दुर्विषह्यम् |
सहस्रनेत्रप्रतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये ||५||
अमर्षपूर्णस्त्वतिचित्रयोधी; शरासनी काञ्चनवर्मधारी |
सुदर्शनः सात्यकिमापतन्तं; न्यवारयद्राजवरः प्रसह्य ||६||
तयोरभूद्भरत सम्प्रहारः; सुदारुणस्तं समभिप्रशंसन् |
योधास्त्वदीयाश्च हि सोमकाश्च; वृत्रेन्द्रयोर्युद्धमिवामरौघाः ||७||
शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य; त्सुदर्शनः सात्वतमुख्यमाजौ |
अनागतानेव तु तान्पृषत्कां; श्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ||८||
तथैव शक्रप्रतिमोऽपि सात्यकिः; सुदर्शने यान्क्षिपति स्म सायकान् |
द्विधा त्रिधा तानकरोत्सुदर्शनः; शरोत्तमैः स्यन्दनवर्यमास्थितः ||९||
सम्प्रेक्ष्य बाणान्निहतांस्तदानीं; सुदर्शनः सात्यकिबाणवेगैः |
क्रोधाद्दिधक्षन्निव तिग्मतेजाः; शरानमुञ्चत्तपनीयचित्रान् ||१०||
पुनः स बाणैस्त्रिभिरग्निकल्पै; राकर्णपूर्णैर्निशितैः सुपुङ्खैः |
विव्याध देहावरणं विभिद्य; ते सात्यकेराविविशुः शरीरम् ||११||
तथैव तस्यावनिपालपुत्रः; सन्धाय बाणैरपरैर्ज्वलद्भिः |
आजघ्निवांस्तान्रजतप्रकाशां; श्चतुर्भिरश्वांश्चतुरः प्रसह्य ||१२||
तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेरिन्द्रसमानवीर्यः |
सुदर्शनस्येषुगणैः सुतीक्ष्णै; र्हयान्निहत्याशु ननाद नादम् ||१३||
अथास्य सूतस्य शिरो निकृत्य; भल्लेन वज्राशनिसंनिभेन |
सुदर्शनस्यापि शिनिप्रवीरः; क्षुरेण चिच्छेद शिरः प्रसह्य ||१४||
सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् |
यथा पुरा वज्रधरः प्रसह्य; बलस्य सङ्ख्येऽतिबलस्य राजन् ||१५||
निहत्य तं पार्थिवपुत्रपौत्रं; रणे यदूनामृषभस्तरस्वी |
मुदा समेतः परया महात्मा; रराज राजन्सुरराजकल्पः ||१६||
ततो ययावर्जुनमेव येन; निवार्य सैन्यं तव मार्गणौघैः |
सदश्वयुक्तेन रथेन निर्या; ल्लोकान्विसिस्मापयिषुर्नृवीरः ||१७||
तत्तस्य विस्मापयनीयमग्र्य; मपूजयन्योधवराः समेताः |
यद्वर्तमानानिषुगोचरेऽरी; न्ददाह बाणैर्हुतभुग्यथैव ||१८||
९५
सञ्जय उवाच||
ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुङ्गवः |
सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् ||१||
रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् |
खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ||२||
प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् |
योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् ||३||
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् |
जलसन्धबलेनाजौ पुरुषादैरिवावृतम् ||४||
अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव |
तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम् ||५||
हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम् |
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ||६||
हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनञ्जयम् |
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः ||७||
वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् ||७||
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना |
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ||८||
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् |
स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः ||९||
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै |
अनस्तङ्गत आदित्ये हन्ता सैन्धवमर्जुनः ||१०||
शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम् |
यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः ||११||
दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः |
शरबाणासनधरा यवनाश्च प्रहारिणः ||१२||
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः |
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ||१३||
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ||१३||
एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः |
इदं दुर्गं महाघोरं तीर्णमेवोपधारय ||१४||
सूत उवाच||
न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम |
यद्यपि स्यात्सुसङ्क्रुद्धो जामदग्न्योऽग्रतः स्थितः ||१५||
द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा |
तथापि सम्भ्रमो न स्यात्त्वामाश्रित्य महाभुज ||१६||
त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन |
न च मे सम्भ्रमः कश्चिद्भूतपूर्वः कदाचन ||१७||
किमु चैतत्समासाद्य वीर संयुगगोष्पदम् ||१७||
आयुष्मन्कतरेण त्वा प्रापयामि धनञ्जयम् |
केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः ||१८||
केषां संयमनीमद्य गन्तुमुत्सहते मनः ||१८||
के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् |
दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे ||१९||
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ||१९||
सात्यकिरुवाच||
मुण्डानेतान्हनिष्यामि दानवानिव वासवः |
प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह ||२०||
अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ||२०||
अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः |
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् ||२१||
अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे |
श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः ||२२||
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः |
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे ||२३||
अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः |
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ||२४||
अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् |
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ||२५||
मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु |
सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः ||२६||
अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् |
द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः ||२७||
अद्य राजसहस्राणि निहतानि मया रणे |
दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे ||२८||
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु |
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ||२९||
सञ्जय उवाच||
एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः |
शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् ||३०||
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः |
प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः ||३१||
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् |
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ||३२||
तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः |
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ||३३||
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः |
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ||३४||
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः |
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ||३५||
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे |
शतशो न्यपतंस्तत्र व्यसवो वसुधातले ||३६||
सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः |
पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः ||३७||
काम्बोजानां सहस्रैस्तु शकानां च विशां पते |
शबराणां किरातानां बर्बराणां तथैव च ||३८||
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् |
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ||३९||
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः |
तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव ||४०||
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ |
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ||४१||
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः |
ते साश्वयाना निहताः समावव्रुर्वसुन्धराम् ||४२||
अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः |
जिताः सङ्ख्ये महाराज युयुधानेन दंशिताः ||४३||
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान् |
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ||४४||
काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत |
यवनानां च तत्सैन्यं शकानां च महद्बलम् ||४५||
स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः |
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ||४६||
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते |
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् ||४७||
९६
सञ्जय उवाच||
जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम् |
जगाम तव सैन्यस्य मध्येन रथिनां वरः ||१||
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः |
मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ||२||
स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम् |
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ||३||
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः |
रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ ||४||
सधनुर्मण्डलः सङ्ख्ये तेजोभास्वररश्मिवान् |
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ||५||
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः |
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ||६||
मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम् |
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ||७||
व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे ||७||
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् |
जलसन्धार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् ||८||
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् |
परिवव्रुः सुसङ्क्रुद्धास्त्वदीयाः सात्यकिं रथाः ||९||
दुर्योधनश्चित्रसेनो दुःशासनविविंशती |
शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः ||१०||
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः |
पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः ||११||
अथ शब्दो महानासीत्तव सैन्यस्य मारिष |
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ||१२||
तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः |
शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ||१३||
इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम् |
मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ||१४||
नादयन्वै दिशः सर्वा रथघोषेण सारथे |
पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि ||१५||
एतद्बलार्णवं तात वारयिष्ये महारणे |
पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् ||१६||
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे |
एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ||१७||
निहतानाहवे पश्य पदात्यश्वरथद्विपान् |
मच्छरैरग्निसङ्काशैर्विदेहासून्सहस्रशः ||१८||
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः |
समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ||१९||
जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः ||१९||
तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः |
जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ||२०||
स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् |
देवासुररणप्रख्यः प्रावर्तत जनक्षयः ||२१||
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष |
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ||२२||
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् |
असम्भ्रमं महाराज तावकानवधीद्बहून् ||२३||
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् |
न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ||२४||
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः |
शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ||२५||
सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः |
तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः ||२६||
बभ्राम तत्र तत्रैव गावः शीतार्दिता इव ||२६||
पदातिनं रथं नागं सादिनं तुरगं तथा |
अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ||२७||
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः |
यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ||२८||
अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ ||२८||
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः |
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ||२९||
सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः |
दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ||३०||
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः |
दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ||३१||
उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः |
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ||३२||
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः |
शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ||३३||
सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च |
दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ||३४||
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा |
दुःशासनं च विंशत्या विव्याध शिनिपुङ्गवः ||३५||
अथान्यद्धनुरादाय स्यालस्तव विशां पते |
अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ||३६||
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः |
दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ||३७||
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम् |
ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ||३८||
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् |
पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ||३९||
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् |
आजघानाशु भल्लेन स हतो न्यपतद्भुवि ||४०||
पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो |
वातायमानैस्तैरश्वैरपानीयत सङ्गरात् ||४१||
ततस्तव सुता राजन्सैनिकाश्च विशां पते |
राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ||४२||
विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः |
अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ||४३||
विद्राव्य सर्वसैन्यानि तावकानि समन्ततः |
प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ||४४||
तं शरानाददानं च रक्षमाणं च सारथिम् |
आत्मानं मोचयन्तं च तावकाः समपूजयन् ||४५||
९७
धृतराष्ट्र उवाच||
सम्प्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् |
निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय ||१||
कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम् |
शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः ||२||
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः |
कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ||३||
कथं च मम पुत्राणां जीवतां तत्र सञ्जय |
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः ||४||
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् |
एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः ||५||
विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति |
यत्रावध्यन्त समरे सात्वतेन महात्मना ||६||
एकस्य हि न पर्याप्तं मत्सैन्यं तस्य सञ्जय |
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ||७||
निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् |
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ||८||
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे |
युयुधानो न शकितो हन्तुं यः पुरुषर्षभः ||९||
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः |
यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः ||१०||
सञ्जय उवाच||
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च |
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ||११||
ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः |
परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् ||१२||
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः |
शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा ||१३||
कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः |
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ||१४||
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् |
शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् ||१५||
ततो रथसहस्रेण महारथशतेन च |
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ||१६||
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः |
अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः ||१७||
तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत |
दुःशासनो महाराज सात्यक्तिं पर्यवारयत् ||१८||
तत्राद्भुतमपश्याम शैनेयचरितं महत् |
यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत ||१९||
अवधीच्च रथानीकं द्विरदानां च तद्बलम् |
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ||२०||
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः |
अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ||२१||
कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः |
वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुन्धरा ||२२||
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष |
सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ||२३||
गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः |
अञ्जनस्य कुले जाता वामनस्य च भारत ||२४||
सुप्रतीककुले जाता महापद्मकुले तथा ||२४||
ऐरावणकुले चैव तथान्येषु कुलेषु च |
जाता दन्तिवरा राजञ्शेरते बहवो हताः ||२५||
वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् |
तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः ||२६||
नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः |
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ||२७||
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् |
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ||२८||
तांश्चापि सर्वान्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव |
पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् ||२९||
अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः |
अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम् ||३०||
तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः |
अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः ||३१||
ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः |
उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः ||३२||
क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः |
चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् ||३३||
तेषामापततामेव शिलायुद्धं चिकीर्षताम् |
सात्यकिः प्रतिसन्धाय त्रिंशतं प्राहिणोच्छरान् ||३४||
तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् |
बिभेदोरगसङ्काशैर्नाराचैः शिनिपुङ्गवः ||३५||
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः |
प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष ||३६||
ततः पञ्चशताः शूराः समुद्यतमहाशिलाः |
निकृत्तबाहवो राजन्निपेतुर्धरणीतले ||३७||
पाषाणयोधिनः शूरान्यतमानानवस्थितान् |
अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ||३८||
ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः |
अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः ||३९||
अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः |
नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः ||४०||
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः |
शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः ||४१||
अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च |
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ||४२||
हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः |
कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रथि ||४३||
ततः शब्दः समभवत्तव सैन्यस्य मारिष |
माधवेनार्द्यमानस्य सागरस्येव दारुणः ||४४||
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् |
एष सूत रणे क्रुद्धः सात्वतानां महारथः ||४५||
दारयन्बहुधा सैन्यं रणे चरति कालवत् |
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ||४६||
पाषाणयोधिभिर्नूनं युयुधानः समागतः |
तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः ||४७||
विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च |
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ||४८||
इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः |
प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् ||४९||
आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः |
पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः ||५०||
एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह |
त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः ||५१||
अत्र कार्यं समाधत्स्व प्राप्तकालमरिंदम |
स्थाने वा गमने वापि दूरं यातश्च सात्यकिः ||५२||
तथैवं वदतस्तस्य भारद्वाजस्य मारिष |
प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् ||५३||
ते वध्यमानाः समरे युयुधानेन तावकाः |
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ||५४||
यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत |
ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ||५५||
९८
सञ्जय उवाच||
दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् |
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ||१||
दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः |
कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः ||२||
राजपुत्रो भवानत्र राजभ्राता महारथः |
किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि ||३||
स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह |
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ||४||
न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे |
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ||५||
अप्रियाणां च वचनं पाण्डवेषु विशेषतः |
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा ||६||
क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम् |
आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि ||७||
शोच्येयं भारती सेना राजा चैव सुयोधनः |
यस्य त्वं कर्कशो भ्राता पलायनपरायणः ||८||
ननु नाम त्वया वीर दीर्यमाणा भयार्दिता |
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ||९||
स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् ||९||
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन |
कोऽन्यः स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये ||१०||
एकेन सात्वतेनाद्य युध्यमानस्य चानघ |
पलायने तव मतिः सङ्ग्रामाद्धि प्रवर्तते ||११||
यदा गाण्डीवधन्वानं भीमसेनं च कौरव |
यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि ||१२||
युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् |
न तुल्याः सात्यकिशरा येषां भीतः पलायसे ||१३||
यदि तावत्कृता बुद्धिः पलायनपरायणा |
पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् ||१४||
यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः |
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ||१५||
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे |
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ||१६||
यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः |
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ||१७||
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् |
सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः ||१८||
पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः |
अजेयाः पाण्डवाः सङ्ख्ये सौम्य संशाम्य पाण्डवैः ||१९||
न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः ||१९||
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः |
गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः ||२०||
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत |
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ||२१||
एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ |
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ||२२||
सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् |
आसाद्य च रणे यत्तो युयुधानमयोधयत् ||२३||
द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा |
अभ्यद्रवत सङ्क्रुद्धो जवमास्थाय मध्यमम् ||२४||
प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम् |
द्रावयामास योधान्वै शतशोऽथ सहस्रशः ||२५||
ततो द्रोणो महाराज नाम विश्राव्य संयुगे |
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ||२६||
तं जयन्तमनीकानि भारद्वाजं ततस्ततः |
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ||२७||
स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः |
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ||२८||
तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे |
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत ||२९||
संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष |
आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः ||३०||
ते शरैरग्निसङ्काशैस्तोमरैश्च महाधनैः |
शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् ||३१||
निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः |
महाजलधरान्व्योम्नि मातरिश्वा विवानिव ||३२||
ततः शरं महाघोरं सूर्यपावकसंनिभम् |
संदधे परवीरघ्नो वीरकेतुरथं प्रति ||३३||
स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम् |
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ||३४||
ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः |
पर्वताग्रादिव महांश्चम्पको वायुपीडितः ||३५||
तस्मिन्हते महेष्वासे राजपुत्रे महाबले |
पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् ||३६||
चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत |
तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः ||३७||
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः |
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ||३८||
स वध्यमानो बहुधा राजपुत्रैर्महारथैः |
व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे ||३९||
तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः |
पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत् ||४०||
ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः |
देवासुरे पुरा युद्धे यथा दैतेयदानवाः ||४१||
तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् |
कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ||४२||
पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान् |
धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम् ||४३||
अभ्यवर्तत सङ्ग्रामे क्रुद्धो द्रोणरथं प्रति ||४३||
ततो हा हेति सहसा नादः समभवन्नृप |
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ||४४||
सञ्छाद्यमानो बहुधा पार्षतेन महात्मना |
न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ||४५||
ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः |
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ||४६||
स गाढविद्धो बलिना भारद्वाजो महायशाः |
निषसाद रथोपस्थे कश्मलं च जगाम ह ||४७||
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी |
समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान् ||४८||
अवप्लुत्य रथाच्चापि त्वरितः स महारथः |
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष ||४९||
हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः ||४९||
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः |
शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः ||५०||
योधयामास समरे धृष्टद्युम्नं महारथम् ||५०||
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः |
द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् ||५१||
स वध्यमानो बहुभिः सायकैस्तैर्महाबलः |
अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ||५२||
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः |
विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ||५३||
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन् |
क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः ||५४||
अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः |
वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः ||५५||
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः |
शिरः प्रच्यावयामास फलं पक्वं तरोरिव ||५६||
ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः ||५६||
तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा |
व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी ||५७||
विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् |
स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः ||५८||
न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो ||५८||
९९
सञ्जय उवाच||
ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत् |
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ||१||
स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः |
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ||२||
स तु दुःशासनं वीरः सायकैरावृणोद्भृशम् |
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ||३||
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् |
त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ||४||
तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः |
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ||५||
ते तु तं रथवंशेन महता पर्यवारयन् |
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ||६||
तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम् |
योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् ||७||
तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः |
महामारुतवेगेन रुग्णा इव महाद्रुमाः ||८||
रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते |
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ||९||
शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः |
अशोभत महाराज किंशुकैरिव पुष्पितैः ||१०||
ते वध्यमानाः समरे युयुधानेन तावकाः |
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ||११||
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति |
भयात्पतगराजस्य गर्तानीव महोरगाः ||१२||
हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः |
प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति ||१३||
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव |
विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः ||१४||
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः |
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ||१५||
सात्यकिं तु महाराज प्रहसन्निव भारत |
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ||१६||
शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः |
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ||१७||
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते |
सर्वपारशवीं शक्तिं विससर्ज जिघांसया ||१८||
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः |
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ||१९||
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर |
सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह ||२०||
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव |
शरैरग्निशिखाकारैराजघान स्तनान्तरे ||२१||
सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः ||२१||
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत |
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ||२२||
त्रिभिरेव महावेगैः शरैः संनतपर्वभिः ||२२||
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः |
सारथिं च सुसङ्क्रुद्धः शरैः संनतपर्वभिः ||२३||
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः |
ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् ||२४||
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ||२४||
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
त्रिगर्तसेनापतिना स्वरथेनापवाहितः ||२५||
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत |
न जघान महाबाहुर्भीमसेनवचः स्मरन् ||२६||
भीमसेनेन हि वधः सुतानां तव भारत |
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ||२७||
तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो |
जगाम त्वरितो राजन्येन यातो धनञ्जयः ||२८||
१००
धृतराष्ट्र उवाच||
किं तस्यां मम सेनायां नासन्केचिन्महारथाः |
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ||१||
एको हि समरे कर्म कृतवान्सत्यविक्रमः |
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ||२||
अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः |
एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः ||३||
कथं च युध्यमानानामपक्रान्तो महात्मनाम् |
एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय ||४||
सञ्जय उवाच||
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् |
तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् ||५||
आह्णिकेषु समूहेषु तव सैन्यस्य मानद |
नास्ति लोके समः कश्चित्समूह इति मे मतिः ||६||
तत्र देवाः स्म भाषन्ते चारणाश्च समागताः |
एतदन्ताः समूहा वै भविष्यन्ति महीतले ||७||
न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते |
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ||८||
चण्डवाताभिपन्नानां समुद्राणामिव स्वनः |
रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ||९||
पार्थिवानां समेतानां बहून्यासन्नरोत्तम |
त्वद्बले पाण्डवानां च सहस्राणि शतानि च ||१०||
संरब्धानां प्रवीराणां समरे दृढकर्मणाम् |
तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः ||११||
अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष |
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ||१२||
आगच्छत प्रहरत बलवत्परिधावत |
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ||१३||
यथा सुखेन गच्छेतां जयद्रथवधं प्रति |
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत् ||१४||
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ||१४||
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् |
क्षोभयध्वं महावेगाः पवनाः सागरं यथा ||१५||
भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः |
आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वासूनात्मनः प्रियान् ||१६||
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः |
स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् ||१७||
तथैव तावका राजन्प्रार्थयन्तो महद्यशः |
आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे ||१८||
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये |
हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् ||१९||
कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः |
दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः ||२०||
तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः |
दुर्योधनो महाराज व्यगाहत महद्बलम् ||२१||
स संनिपातस्तुमुलस्तेषां तस्य च भारत |
अभवत्सर्वसैन्यानामभावकरणो महान् ||२२||
धृतराष्ट्र उवाच||
तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् |
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ||२३||
एकस्य च बहूनां च संनिपातो महाहवे |
विशेषतो नृपतिना विषमः प्रतिभाति मे ||२४||
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः |
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ||२५||
सञ्जय उवाच||
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत |
एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम् ||२६||
दुर्योधनेन सहसा पाण्डवी पृतना रणे |
नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता ||२७||
तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव |
भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् ||२८||
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः |
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ||२९||
धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः |
केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः ||३०||
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे |
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ||३१||
न संदधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः |
अदृश्यत रिपून्निघ्नञ्शिक्षयास्त्रबलेन च ||३२||
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः |
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ||३३||
विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः |
वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन् ||३४||
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् |
यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः ||३५||
अथ दुर्योधनो राजा दृढमादाय कार्मुकम् |
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ||३६||
तं तथा वादिनं राजंस्तव पुत्रं महारथम् |
प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः ||३७||
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् |
चण्डवातोद्धुतान्मेघान्सजलानचलो यथा ||३८||
तत्र राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः |
रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम् ||३९||
१०१
सञ्जय उवाच||
अपराह्णे महाराज सङ्ग्रामः समपद्यत |
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ||१||
शोणाश्वं रथमास्थाय नरवीरः समाहितः |
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ||२||
तव प्रियहिते युक्तो महेष्वासो महाबलः |
चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः ||३||
वरान्वरान्हि योधानां विचिन्वन्निव भारत |
अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ||४||
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः |
भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः ||५||
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम् |
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ||६||
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् |
प्रेषयामास सङ्क्रुद्धः सायकान्दश सप्त च ||७||
तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान् |
एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् ||८||
तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः |
प्रेषयामास विशिखानष्टौ संनतपर्वणः ||९||
तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान् |
अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः ||१०||
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः |
बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ||११||
ततो द्रोणो महाराज केकयं वै विशेषयन् |
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः ||१२||
तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः |
ब्राह्मेणैव महाबाहुराहवे समुदीरितम् ||१३||
प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे |
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ||१४||
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् |
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ||१५||
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम |
तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ||१६||
सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् |
क्रोधेन महताविष्टो व्यावृत्य नयने शुभे ||१७||
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः |
सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् ||१८||
द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष |
असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति ||१९||
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् |
व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत ||२०||
स गाढविद्धस्तेनाशु महाराज स्तनान्तरे |
रथात्पुरुषशार्दूलः सम्भिन्नहृदयोऽपतत् ||२१||
बृहत्क्षत्रे हते राजन्केकयानां महारथे |
शैशुपालिः सुसङ्क्रुद्धो यन्तारमिदमब्रवीत् ||२२||
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः |
विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् ||२३||
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् |
द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ||२४||
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः |
सहसा प्रापतद्द्रोणं पतङ्ग इव पावकम् ||२५||
सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम् |
पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ||२६||
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह |
चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे ||२७||
अथान्यद्धनुरादाय शैशुपालिर्महारथः |
विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः ||२८||
तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः |
अथैनं पञ्चविंशत्या सायकानां समार्पयत् ||२९||
विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे |
गदां चिक्षेप सङ्क्रुद्धो भारद्वाजरथं प्रति ||३०||
तामापतन्तीं सहसा घोररूपां भयावहाम् |
अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ||३१||
शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् ||३१||
सा पपात गदा भूमौ भारद्वाजेन सादिता |
रक्तमाल्याम्बरधरा तारेव नभसस्तलात् ||३२||
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः |
तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् ||३३||
तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे |
शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः ||३४||
ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः |
प्रेषयामास समरे भारद्वाजः प्रतापवान् ||३५||
स तस्य कवचं भित्त्वा हृदयं चामितौजसः |
अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा ||३६||
पतङ्गं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः |
तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे ||३७||
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् |
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ||३८||
तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् |
महाव्याघ्रो महारण्ये मृगशावं यथा बली ||३९||
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत |
जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ||४०||
स तु द्रोणं महाराज छादयन्सायकैः शितैः |
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ||४१||
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः |
व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ||४२||
छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् |
जारासन्धिमथो जघ्ने मिषतां सर्वधन्विनाम् ||४३||
यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः |
आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ||४४||
ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे |
शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् ||४५||
ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः |
नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे ||४६||
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः |
समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ||४७||
ततो निष्टानको घोरः पाण्डवानामजायत |
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ||४८||
मोहिताः शरवर्षेण भारद्वाजस्य संयुगे |
ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः ||४९||
चेदयश्च महाराज सृञ्जयाः सोमकास्तथा |
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ||५०||
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः |
यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् ||५१||
निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति ||५१||
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः |
यमाय प्रेषयामास चेदिमुख्यान्विशेषतः ||५२||
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत |
पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ||५३||
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति |
दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ||५४||
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् |
तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् ||५५||
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः |
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ||५६||
द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः |
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ||५७||
यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः |
मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ||५८||
तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः |
अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ||५९||
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः |
अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ||६०||
तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् |
आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ||६१||
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् |
स भिन्नहृदयो वाहादपतन्मेदिनीतले ||६२||
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते |
अथ द्रोणं समारोहच्चेकितानो महारथः ||६३||
स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे |
चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ||६४||
तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम् |
ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ||६५||
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः |
समरे शरसंवीता भारद्वाजेन मारिष ||६६||
चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम् |
पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् ||६७||
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् |
समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ||६८||
आकर्णपलितः श्यामो वयसाशीतिकात्परः |
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ||६९||
अथ द्रोणं महाराज विचरन्तमभीतवत् |
वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ||७०||
ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप |
लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ||७१||
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः |
यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ||७२||
शतशः शेरते भूमौ निकृत्ता गोवृषा इव |
रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः ||७३||
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः |
पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ||७४||
१०२
सञ्जय उवाच||
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः |
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ||१||
वर्तमाने तथा रौद्रे सङ्ग्रामे लोमहर्षणे |
प्रक्षये जगतस्तीव्रे युगान्त इव भारत ||२||
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः |
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ||३||
नापश्यच्छरणं किञ्चिद्धर्मराजो युधिष्ठिरः |
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ||४||
तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया |
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ||५||
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् |
गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ||६||
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् |
चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः ||७||
नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ ||७||
लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः |
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ||८||
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे |
शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः ||९||
तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै |
सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनञ्जयः ||१०||
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् |
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ||११||
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि |
युयुधानमनन्विष्य लोको मां गर्हयिष्यति ||१२||
भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः |
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ||१३||
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् |
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ||१४||
यथैव च मम प्रीतिरर्जुने शत्रुसूदने |
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ||१५||
अतिभारे नियुक्तश्च मया शैनेयनन्दनः |
स तु मित्रोपरोधेन गौरवाच्च महाबलः ||१६||
प्रविष्टो भारतीं सेनां मकरः सागरं यथा ||१६||
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् |
मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ||१७||
प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे |
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ||१८||
गमनं रोचते मह्यं यत्र यातौ महारथौ ||१८||
न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चन |
शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः ||१९||
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ||१९||
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः |
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ||२०||
इतो गते भीमसेने सात्वतं प्रति पाण्डवे |
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ||२१||
कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ |
रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ ||२२||
अवश्यं तु मया कार्यमात्मनः शोकनाशनम् |
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ||२३||
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ||२३||
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः |
यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम् ||२४||
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः |
रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ||२५||
भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन् |
कश्मलं प्राविशद्राजा बहु तत्र समादिशन् ||२६||
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् |
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ||२७||
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् |
नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् ||२८||
पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः |
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ||२९||
न ह्यसाध्यमकार्यं वा विद्यते मम मानद |
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ||३०||
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् |
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ||३१||
यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते |
प्रेरितो वासुदेवेन संरब्धेन यशस्विना ||३२||
नूनमद्य हतः शेते तव भ्राता धनञ्जयः ||३२||
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः |
यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः ||३३||
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः |
स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ||३४||
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः |
श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः ||३५||
व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः |
चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः ||३६||
तदिदं मम भद्रं ते शोकस्थानमरिंदम |
अर्जुनार्थं महाबाहो सात्वतस्य च कारणात् ||३७||
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः |
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ||३८||
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् |
स तं महारथं पश्चादनुयातस्तवानुजम् ||३९||
तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् ||३९||
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः |
यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः ||४०||
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः |
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ||४१||
वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते ||४१||
न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा |
चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः ||४२||
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ||४२||
भीमसेन उवाच||
ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः |
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ||४३||
आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः |
समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ||४४||
सञ्जय उवाच||
एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् |
धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः ||४५||
धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ||४५||
विदितं ते महाबाहो यथा द्रोणो महारथः |
ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ||४६||
न च मे गमने कृत्यं तादृक्पार्षत विद्यते |
यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ||४७||
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे |
प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ||४८||
धर्मराजस्य वचने स्थातव्यमविशङ्कया ||४८||
सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् |
एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ||४९||
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् |
ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् ||५०||
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन |
निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ||५१||
ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः |
अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः ||५२||
परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत |
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ||५३||
भीमसेनो महाबाहुः कवची शुभकुण्डली |
साङ्गदः सतनुत्राणः सशरी रथिनां वरः ||५४||
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् |
विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः ||५५||
पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः |
कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः ||५६||
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया |
पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते ||५७||
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् |
पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत ||५८||
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् |
पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् ||५९||
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि |
कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ||६०||
नूनमार्या महत्कुन्ती पापमद्य निदर्शनम् |
द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः ||६१||
स भीमस्त्वरया युक्तो याहि यत्र धनञ्जयः |
मुह्यन्तीव हि मे सर्वा धनञ्जयदिदृक्षया ||६२||
दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् ||६२||
गच्छ गच्छेति च पुनर्भीमसेनमभाषत |
भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियङ्करः ||६३||
आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् ||६३||
विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः |
दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात् ||६४||
तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः |
विशोकेनाभिसंयत्ता मनोमारुतरंहसः ||६५||
आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना |
सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् ||६६||
तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः |
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ||६७||
तं ससेना महाराज सोदर्याः पर्यवारयन् |
दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः ||६८||
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा |
विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः ||६९||
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः |
अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ||७०||
विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः |
संयत्ताः समरे शूरा भीमसेनमुपाद्रवन् ||७१||
तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी |
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ||७२||
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् |
वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ||७३||
स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत् |
अग्रतश्च गजानीकं शरवर्षैरवाकिरत् ||७४||
सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः |
दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः ||७५||
त्रासिताः शरभस्येव गर्जितेन वने मृगाः |
प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् ||७६||
पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत् |
तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ||७७||
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव |
ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ||७८||
स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा |
भीमः करिष्यते पूजामित्युवाच वृकोदरम् ||७९||
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् |
मामनिर्जित्य समरे शत्रुमध्ये महाबल ||८०||
यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम |
अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया ||८१||
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः |
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ||८२||
तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् |
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ||८३||
येन वै परमां पूजां कुर्वता मानितो ह्यसि |
नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः ||८४||
पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम् |
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ||८५||
अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते |
यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह ||८६||
एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् ||८६||
अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः |
द्रोणायावसृजद्राजन्स रथादवपुप्लुवे ||८७||
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा |
प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा ||८८||
तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम् |
अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः ||८९||
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी |
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ||९०||
ते वध्यमानाः समरे तव पुत्रा महारथाः |
भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः ||९१||
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् |
सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ||९२||
आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम् |
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ||९३||
अथान्यैर्निशितैर्बाणैः सङ्क्रुद्धः कुण्डभेदिनम् |
सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली ||९४||
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् |
पुत्राणां तव वीराणां युध्यतामवधीत्पुनः ||९५||
अभयं रौद्रकर्माणं दुर्विमोचनमेव च |
त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ||९६||
वध्यमाना महाराज पुत्रास्तव बलीयसा |
भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् ||९७||
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् |
प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम् ||९८||
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ |
विव्याध समरे तूर्णं स पपात ममार च ||९९||
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः |
दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः ||१००||
ततो वै रथघोषेण गर्जितेन मृगा इव |
वध्यमानाश्च समरे पुत्रास्तव विशां पते ||१०१||
प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः ||१०१||
अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम् |
विव्याध समरे राजन्कौरवेयान्समन्ततः ||१०२||
वध्यमाना महाराज भीमसेनेन तावकाः |
त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् ||१०३||
तांस्तु निर्जित्य समरे भीमसेनो महाबलः |
सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ||१०४||
तलशब्दं च सुमहत्कृत्वा भीमो महाबलः |
व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् ||१०५||
१०३
सञ्जय उवाच||
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा |
दिधारयिषुराचार्यः शरवर्षैरवाकिरत् ||१||
पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान् |
सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् ||२||
तं मृधे वेगमास्थाय परं परमधन्विनः |
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ||३||
स तथा संवृतो भीमः प्रहसन्निव भारत |
उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् ||४||
अवासृजच्च वेगेन तेषु तान्प्रमथद्बली ||४||
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना |
घोषेण महता राजन्पूरयित्वेव मेदिनीम् ||५||
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ||५||
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् |
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ||६||
तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष |
प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ||७||
स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदः |
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ||८||
तथा तं विप्रकुर्वाणं रथयूथपयूथपम् |
भारद्वाजो महाराज भीमसेनं समभ्ययात् ||९||
द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः |
अकरोत्सहसा नादं पाण्डूनां भयमादधत् ||१०||
तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम् |
द्रोणस्य च महाराज भीमस्य च महात्मनः ||११||
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः |
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ||१२||
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः |
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ||१३||
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया |
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ||१४||
स वध्यमानः समरे रथं द्रोणस्य मारिष |
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ||१५||
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे |
रथमन्यं समास्थाय व्यूहद्वारमुपाययौ ||१६||
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् |
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ||१७||
ततः स्वरथमास्थाय भीमसेनो महाबलः |
अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ||१८||
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः |
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ||१९||
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् |
प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् ||२०||
सन्त्रासयन्ननीकानि तलशब्देन मारिष |
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ||२१||
भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् |
तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ||२२||
सात्यकिं चापि सम्प्रेक्ष्य युध्यमानं नरर्षभम् |
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ||२३||
भीमसेनो महाराज द्रष्टुकामो धनञ्जयम् |
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ||२४||
सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् |
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ||२५||
अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् |
तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ||२६||
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह |
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ||२७||
वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः |
पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ||२८||
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः |
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ||२९||
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् |
धनञ्जयस्य च रणे जयमाशास्तवान्विभुः ||३०||
तथा तु नर्दमाने वै भीमसेने रणोत्कटे |
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ||३१||
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः |
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ||३२||
न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव |
दिष्ट्या जीवति सङ्ग्रामे सव्यसाची धनञ्जयः ||३३||
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः |
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ||३४||
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः |
स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः ||३५||
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः |
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ||३६||
निवातकवचा येन देवैरपि सुदुर्जयाः |
निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ||३७||
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् |
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ||३८||
कालकेयसहस्राणि चतुर्दश महारणे |
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ||३९||
गन्धर्वराजं बलिनं दुर्योधनकृतेन वै |
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ||४०||
किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः |
मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः ||४१||
पुत्रशोकाभिसन्तप्तश्चिकीर्षुः कर्म दुष्करम् |
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ||४२||
कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः ||४२||
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् |
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ||४३||
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः |
नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः ||४४||
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् |
दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति ||४५||
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे |
कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ||४६||
दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले |
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ||४७||
कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति |
शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः ||४८||
एवं बहुविधं तस्य चिन्तयानस्य पार्थिव |
कृपयाभिपरीतस्य घोरं युद्धमवर्तत ||४९||
१०४
धृतराष्ट्र उवाच||
तथा तु नर्दमानं तं भीमसेनं महाबलम् |
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ||१||
न हि पश्याम्यहं तं वै त्रिषु लोकेषु सञ्जय |
क्रुद्धस्य भिमसेनस्य यस्तिष्ठेदग्रतो रणे ||२||
गदामुद्यच्छमानस्य कालस्येव महामृधे |
न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ||३||
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च |
कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ||४||
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः |
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ||५||
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम् |
प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ||६||
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे |
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ||७||
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः |
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ||८||
सञ्जय उवाच||
तथा तु नर्दमानं तं भीमसेनं महारथम् |
तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ||९||
व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः |
कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ||१०||
प्रावेपन्निव गात्राणि कर्णभीमसमागमे |
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ||११||
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे |
खं च भूमिं च सम्बद्धां मेनिरे क्षत्रियर्षभाः ||१२||
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः |
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ||१३||
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः |
वाहनानि महाराज बभूवुर्विमनांसि च ||१४||
प्रादुरासन्निमित्तानि घोराणि च बहूनि च |
तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ||१५||
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् |
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ||१६||
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे |
सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ||१७||
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् |
असम्प्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ||१८||
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ||१८||
तं कर्णश्छादयामास शरव्रातैरनेकशः |
सञ्छाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ||१९||
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः |
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ||२०||
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः |
विव्याध समरे भीमं भीमकर्मा महारथः ||२१||
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः |
निचखानोरसि तदा सूतपुत्रस्य वेगितः ||२२||
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा |
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ||२३||
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः |
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ||२४||
किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः |
ससायकं धनुः कृत्वा भीमं विव्याध मारिष ||२५||
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ||२५||
स छाद्यमानः सहसा कर्णेन दृढधन्विना |
धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ||२६||
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् |
वाहांश्च चतुरः सङ्ख्ये व्यसूंश्चक्रे महारथः ||२७||
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते |
स्यन्दनं वृषसेनस्य समारोहन्महारथः ||२८||
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् |
ननाद सुमहानादं पर्जन्यनिनदोपमम् ||२९||
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः |
कर्णं च निर्जितं मत्वा भीमसेनेन भारत ||३०||
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा |
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ||३१||
गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ||३१||
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः |
अश्रूयत महाराज सर्वसैन्येषु भारत ||३२||
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ |
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ||३३||
१०५
सञ्जय उवाच||
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते |
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ||१||
त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् ||१||
स रथस्तव पुत्रस्य त्वरया परया युतः |
तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् ||२||
उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः |
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ||३||
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः |
सम्प्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः ||४||
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ||४||
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः |
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ||५||
आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम् |
निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च ||६||
तथैव भीमसेनेन लोकः संवदते भृशम् |
कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः ||७||
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे |
यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः ||८||
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् |
यद्गतं गतमेवेह शेषं चिन्तय मानद ||९||
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् |
तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् ||१०||
द्रोण उवाच||
चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु |
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ||११||
यावदेव भयं पश्चात्तावदेषां पुरःसरम् ||११||
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ |
सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ||१२||
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् |
स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ||१३||
गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ |
सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ||१४||
न सभायां जयो वृत्तो नापि तत्र पराजयः |
इह नो ग्लहमानानामद्य तात जयाजयौ ||१५||
यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि |
अक्षान्संमन्यमानः स प्रा क्षरास्ते दुरासदाः ||१६||
यत्र ते बहवस्तात कुरवः पर्यवस्थिताः |
सेनां दुरोदरं विद्धि शरानक्षान्विशां पते ||१७||
ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः |
सैन्धवे हि महाद्यूतं समासक्तं परैः सह ||१८||
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः |
सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ||१९||
तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ ||१९||
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् |
तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ||२०||
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् |
निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ||२१||
ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात् |
उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ||२२||
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ |
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ||२३||
तौ हि पूर्वं महाराज वारितौ कृतवर्मणा |
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ||२४||
ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम् |
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ||२५||
तावभिद्रवतामेनमुभावुद्यतकार्मुकौ |
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ||२६||
युधामन्युस्तु सङ्क्रुद्धः शरांस्त्रिंशतमायसान् |
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ||२७||
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः |
जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी ||२८||
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे |
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ||२९||
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः |
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ||३०||
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा |
युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे ||३१||
हताश्वसूतात्स रथादवप्लुत्य महारथः |
गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ||३२||
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं परपुरञ्जयम् |
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ||३३||
ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी |
गदया पोथयामास साश्वसूतध्वजं रणे ||३४||
हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः |
मद्रराजरथं तूर्णमारुरोह परन्तपः ||३५||
पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ |
रथमन्यं समारुह्य धनञ्जयमभीयतुः ||३६||
१०६
धृतराष्ट्र उवाच||
यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ |
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ||१||
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे |
कथं भूयस्तु राधेयो भीममागान्महारथः ||२||
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे |
महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ||३||
भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः |
नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ||४||
भयान्न शेते सततं चिन्तयन्वै महारथम् |
तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ||५||
ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम् |
कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ||६||
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति |
कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ||७||
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः |
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ||८||
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् |
सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ||९||
आशास्ते च सदा सूत पुत्रो दुर्योधनो मम |
कर्णो जेष्यति सङ्ग्रामे सहितान्पाण्डवानिति ||१०||
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे |
स कथं भीमकर्माणं भीमसेनमयुध्यत ||११||
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः |
तं सूततनयं तात कथं भीमो ह्ययोधयत् ||१२||
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् |
स्मरमाणः कथं भीमो युयुधे सूतसूनुना ||१३||
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् |
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ||१४||
यो जातः कुण्डलाभ्यां च कवचेन सहैव च |
तं सूतपुत्रं समरे भीमः कथमयोधयत् ||१५||
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः |
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ||१६||
सञ्जय उवाच||
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् |
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ ||१७||
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः |
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ||१८||
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली |
आजुहाव रणे यान्तं भीममाधिरथिस्तदा ||१९||
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि |
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ||२०||
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः |
द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ||२१||
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् |
तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ||२२||
तस्मै प्रासृजदुग्राणि विविधानि परन्तपः |
अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष ||२३||
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः |
सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ||२४||
स यथावन्महाराज विद्यया वै सुपूजितः |
आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ||२५||
संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव |
अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ||२६||
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे |
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ||२७||
तं भीमसेनः सम्प्राप्तं वत्सदन्तैः स्तनान्तरे |
विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ||२८||
सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः |
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ||२९||
कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः |
विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ||३०||
ततो बाणमयं जालं भीमसेनरथं प्रति |
कर्णेन विहितं राजन्निमेषार्धाददृश्यत ||३१||
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा |
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ||३२||
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् |
क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ||३३||
ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् |
समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः ||३४||
स कर्णचापप्रभवानिषूनाशीविषोपमान् |
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ||३५||
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः |
विव्याध समरे कर्णं भीमसेनः प्रतापवान् ||३६||
अयत्नेनैव तं कर्णः शरैरुप समाकिरत् |
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ||३७||
मृदुपूर्वं च राधेयो भीममाजावयोधयत् |
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ||३८||
तं भीमसेनो नामृष्यदवमानममर्षणः |
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ||३९||
ते शराः प्रेषिता राजन्भीमसेनेन संयुगे |
निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ||४०||
हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः |
अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ||४१||
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः |
राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ||४२||
तस्य तानशनिप्रख्यानिषून्समरशोभिनः |
चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः ||४३||
पुनश्च शरवर्षेण छादयामास भारत |
कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् ||४४||
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः |
समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव ||४५||
हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान् |
दधार समरे वीरः स्वरश्मीनिव भास्करः ||४६||
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत |
तपनीयनिभैः पुष्पैः पलाश इव कानने ||४७||
तत्तु भीमो महाराज कर्णस्य चरितं रणे |
नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ||४८||
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् |
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ||४९||
तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च |
मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ||५०||
ततः कर्णस्य सङ्क्रुद्धो भीमसेनः प्रतापवान् |
चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ||५१||
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः |
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ||५२||
ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष |
यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ||५३||
स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः |
तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ||५४||
१०७
धृतराष्ट्र उवाच||
यस्मिञ्जयाशा सततं पुत्राणां मम सञ्जय |
तं दृष्ट्वा विमुखं सङ्ख्ये किं नु दुर्योधनोऽब्रवीत् ||१||
कर्णो वा समरे तात किमकार्षीदतः परम् ||१||
सञ्जय उवाच||
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् |
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः ||२||
अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः ||२||
क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते |
भीमसेनममन्यन्त वैवस्वतमुखे हुतम् ||३||
चापशब्दं महत्कृत्वा तलशब्दं च भैरवम् |
अभ्यवर्तत राधेयो भीमसेनरथं प्रति ||४||
पुनरेव ततो राजन्महानासीत्सुदारुणः |
विमर्दः सूतपुत्रस्य भीमस्य च विशां पते ||५||
संरब्धौ हि महाबाहू परस्परवधैषिणौ |
अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः ||६||
क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ |
युद्धेऽन्योन्यं समासाद्य ततक्षतुररिंदमौ ||७||
व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ |
शरभाविव सङ्क्रुद्धौ युयुधाते परस्परम् ||८||
ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च |
विराटनगरे चैव प्राप्तं दुःखमरिंदमः ||९||
राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः |
सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् ||१०||
दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम् |
कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः ||११||
पतिमन्यं परीप्सस्व न सन्ति पतयस्तव |
नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः ||१२||
समक्षं तव कौरव्य यदूचुः कुरवस्तदा |
दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव ||१३||
यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः |
परुषाण्युक्तवान्कर्णः सभायां संनिधौ तव ||१४||
तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह |
विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः ||१५||
बाल्यात्प्रभृति चारिघ्नस्तानि दुःखानि चिन्तयन् |
निरविद्यत धर्मात्मा जीवितेन वृकोदरः ||१६||
ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम् |
चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ||१७||
स सायकमयैर्जालैर्भीमः कर्णरथं प्रति |
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ||१८||
ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान् |
व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः ||१९||
महारथो महाबाहुर्महावेगैर्महाबलः |
विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः ||२०||
स तोत्त्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः |
अभ्यधावदसम्भ्रान्तः सूतपुत्रं वृकोदरः ||२१||
तमापतन्तं वेगेन रभसं पाण्डवर्षभम् |
कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तमिव द्विपम् ||२२||
ततः प्रध्माप्य जलजं भेरीशतनिनादितम् |
अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः ||२३||
तदुद्धूतं बलं दृष्ट्व रथनागाश्वपत्तिमत् |
भीमः कर्णं समासाद्य छादयामास सायकैः ||२४||
अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः |
व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्शरैः ||२५||
ऋश्यवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः |
निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम् ||२६||
ते हया बह्वशोभन्त मिश्रिता वातरंहसः |
सितासिता महाराज यथा व्योम्नि बलाहकाः ||२७||
संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ |
सन्त्रस्ताः समकम्पन्त त्वदीयानां महारथाः ||२८||
यमराष्ट्रोपमं घोरमासीदायोधनं तयोः |
दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा ||२९||
समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः |
नालक्षयञ्जयं व्यक्तमेकैकस्य निवारणे ||३०||
तयोः प्रैक्षन्त संमर्दं संनिकृष्टमहास्त्रयोः |
तव दुर्मन्त्रिते राजन्सपुत्रस्य विशां पते ||३१||
छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः |
शरजालावृतं व्योम चक्राते शरवृष्टिभिः ||३२||
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ |
प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ ||३३||
सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिंदमौ |
भास्वरं व्योम चक्राते वह्न्युल्काभिरिव प्रभो ||३४||
ताभ्यां मुक्ता व्यकाशन्त कङ्कबर्हिणवाससः |
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ||३५||
संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिंदमम् |
अतिभारममन्येतां भीमे कृष्णधनञ्जयौ ||३६||
तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढाहताः |
इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः ||३७||
पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः |
कृतो महान्महाराज पुत्राणां ते जनक्षयः ||३८||
मनुष्याश्वगजानां च शरीरैर्गतजीवितैः |
क्षणेन भूमिः सञ्जज्ञे संवृता भरतर्षभ ||३९||
१०८
धृतराष्ट्र उवाच||
अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् |
यत्कर्णं योधयामास समरे लघुविक्रमम् ||१||
त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि |
वारयेद्यो रणे कर्णः सयक्षासुरमानवान् ||२||
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया |
नातरत्संयुगे तात तन्ममाचक्ष्व सञ्जय ||३||
कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे |
अत्र मन्ये समायत्तो जयो वाजय एव वा ||४||
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः |
जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् ||५||
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा |
भीमसेनेन समरे मोह आविशतीव माम् ||६||
विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः |
न हि कर्णो महेष्वासान्पार्थाञ्ज्येष्यति सञ्जय ||७||
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह |
सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे ||८||
अजय्याः पाण्डवास्तात देवैरपि सवासवैः |
न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ||९||
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः |
मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ||१०||
निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् |
जितानित्येव मन्वानः पाण्डवानवमन्यते ||११||
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना |
धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः ||१२||
शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः |
अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः ||१३||
तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः |
हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् ||१४||
तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे |
अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ ||१५||
सञ्जय उवाच||
शृणु राजन्यथा वृत्तः सङ्ग्रामः कर्णभीमयोः |
परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव ||१६||
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम् |
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः ||१७||
महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः |
आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ||१८||
तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः |
रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ ||१९||
स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो वृषः |
शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत् ||२०||
प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम् |
समुत्क्षिप्य च राधेयः सन्धाय च महाबलः ||२१||
चिक्षेप भीमसेनाय जीवितान्तकरीमिव ||२१||
शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम् |
ननाद सुमहानादं बलवान्सूतनन्दनः ||२२||
तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन् ||२२||
तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम् |
शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः ||२३||
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम् |
मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष ||२४||
प्राहिणोन्नव संरब्धः शरान्बर्हिणवाससः |
स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे ||२५||
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् |
विकृष्य च महातेजा व्यसृजत्सायकान्नव ||२६||
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः |
वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् ||२७||
छित्त्वा भीमो महाराज नादं सिंह इवानदत् ||२७||
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे |
शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम् ||२८||
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ |
अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ ||२९||
महागजाविवासाद्य विषाणाग्रैः परस्परम् |
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||३०||
निर्दहन्तौ महाराज शरवृष्ट्या परस्परम् |
अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ ||३१||
प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः |
शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् ||३२||
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष |
शङ्खवर्णाश्च तानश्वान्बाणैर्निन्ये यमक्षयम् ||३३||
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः |
वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् ||३४||
गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः |
जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् ||३५||
एवमुक्तस्तथेत्युक्त्वा तव पुत्रस्तवात्मजम् |
अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्शरान् ||३६||
स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत् |
षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः ||३७||
भीमसेनोऽपि सङ्क्रुद्धः साश्वयन्तारमाशुगैः |
दुर्जयं भिन्नमर्माणमनयद्यमसादनम् ||३८||
स्वलङ्कृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम् |
रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् ||३९||
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् |
समाचिनोद्बाणगणैः शतघ्नीमिव शङ्कुभिः ||४०||
तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः |
न जहौ समरे भीमं क्रुद्धरूपं परन्तपः ||४१||
१०९
सञ्जय उवाच||
स तथा विरथः कर्णः पुनर्भीमेन निर्जितः |
रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् ||१||
महागजाविवासाद्य विषाणाग्रैः परस्परम् |
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||२||
अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत् |
ननाद बलवन्नादं पुनर्विव्याध चोरसि ||३||
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः |
पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् ||४||
कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे |
ध्वजमेकेन विव्याध सायकेन शितेन ह ||५||
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत |
तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् ||६||
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना |
सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः ||७||
ततः शरं महाराज सर्वकायावदारणम् |
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ||८||
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः |
अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ||९||
सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम् |
प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् ||१०||
तया जघानाधिरथेः सदश्वान्साधुवाहिनः |
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ||११||
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ |
ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा ||१२||
हताश्वसूतमुत्सृज्य रथं स पतितध्वजम् |
विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ||१३||
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् |
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ||१४||
विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे |
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ||१५||
एष दुर्मुख राधेयो भीमेन विरथीकृतः |
तं रथेन नरश्रेष्ठं सम्पादय महारथम् ||१६||
दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः |
त्वरमाणोऽब्ययात्कर्णं भीमं चावारयच्छरैः ||१७||
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम् |
वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन् ||१८||
ततः कर्णं महाराज वारयित्वा शिलीमुखैः |
दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः ||१९||
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः |
सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ||२०||
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते |
आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ||२१||
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् |
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ||२२||
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् |
दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ||२३||
तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः |
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ||२४||
ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः |
हेमचित्रा महाराज द्योतयन्तो दिशो दश ||२५||
अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः |
क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः ||२६||
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः |
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ||२७||
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः |
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ||२८||
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः |
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ||२९||
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम् |
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ||३०||
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः |
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ||३१||
स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः |
सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ||३२||
स विह्वलो महाराज कर्णो भीमबलार्दितः |
प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः ||३३||
भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम् |
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ||३४||
११०
धृतराष्ट्र उवाच||
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् |
यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे ||१||
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे |
न च कर्णसमं योधं लोके पश्यामि कञ्चन ||२||
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ||२||
कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः |
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ||३||
वसुषेणसहायं मां नालं देवापि संयुगे |
किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः ||४||
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम् |
युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् ||५||
अहो दुर्मुखमेवैकं युद्धानामविशारदम् |
प्रावेशयद्धुतवहं पतङ्गमिव मोहितः ||६||
अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः |
न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय ||७||
तेऽपि चास्य महाघोरं बलं नागायुतोपमम् |
जानन्तो व्यवसायं च क्रूरं मारुततेजसः ||८||
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् |
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ||९||
कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः |
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ||१०||
योऽजयत्समरे कर्णं पुरंदर इवासुरम् |
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ||११||
द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम् |
भीमो धनञ्जयान्वेषी कस्तमर्छेज्जिजीविषुः ||१२||
को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः |
उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः ||१३||
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः |
न भीमसेनं सम्प्राप्य निवर्तेत कदाचन ||१४||
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः |
ये भीमसेनं सङ्क्रुद्धमभ्यधावन्विमोहिताः ||१५||
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् |
शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ||१६||
तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम् |
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ||१७||
यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः |
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ||१८||
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् |
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति सञ्जय ||१९||
दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान् |
आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः ||२०||
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् |
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ||२१||
वडवामुखमध्यस्थो मुच्येतापि हि मानवः |
न भीममुखसम्प्राप्तो मुच्येतेति मतिर्मम ||२२||
न पाण्डवा न पाञ्चाला न च केशवसात्यकी |
जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् ||२३||
सञ्जय उवाच||
यत्संशोचसि कौरव्य वर्तमाने जनक्षये |
त्वमस्य जगतो मूलं विनाशस्य न संशयः ||२४||
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः |
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ||२५||
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् |
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ||२६||
यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम् |
अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत ||२७||
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् |
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष ||२८||
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः |
पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् ||२९||
ते समन्तान्महाबाहुं परिवार्य वृकोदरम् |
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ||३०||
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः |
प्रतिजग्राह समरे भीमसेनो हसन्निव ||३१||
तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान् |
अभ्यवर्तत राधेयो भीमसेनं महाबलम् ||३२||
विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान् |
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ||३३||
कुरवस्तु ततः कर्णं परिवार्य समन्ततः |
अवाकिरन्भीमसेनं शरैः संनतपर्वभिः ||३४||
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् |
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ||३५||
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः |
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ||३६||
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् |
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ||३७||
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः |
सूतपुत्रो महाराज भीमसेनमवैक्षत ||३८||
तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः |
विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ||३९||
१११
सञ्जय उवाच||
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् |
क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् ||१||
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा |
भीमसेनं ततः क्रुद्धः समाद्रवत सम्भ्रमात् ||२||
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव |
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ||३||
अवहासं तु तं पार्थो नामृष्यत वृकोदरः |
ततो विव्याध राधेयं शतेन नतपर्वणाम् ||४||
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः |
धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ||५||
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः |
इषुभिश्छादयामास भीमसेनं समन्ततः ||६||
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् |
प्रजहास महाहासं कृते प्रतिकृतं पुनः ||७||
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः |
तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ||८||
अवारोहद्रथात्तस्मादथ कर्णो महारथः |
गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् ||९||
तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः |
शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ||१०||
ततो बाणसहस्राणि प्रेषयामास पाण्डवः |
सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ||११||
तानिषूनिषुभिः कर्णो वारयित्वा महामृधे |
कवचं भीमसेनस्य पातयामास सायकैः ||१२||
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् |
पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् ||१३||
ततो भीमो महाराज नवभिर्नतपर्वणाम् |
रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष ||१४||
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् |
अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ||१५||
राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम् |
भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् ||१६||
त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ||१६||
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् |
अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् ||१७||
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः |
चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ||१८||
आगच्छतस्तान्सहसा भीमो राजन्महारथः |
साश्वसूतध्वजान्यत्तान्पातयामास संयुगे ||१९||
ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः ||१९||
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् |
अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ||२०||
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः |
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ||२१||
तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः |
व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ ||२२||
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः |
व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ||२३||
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ |
शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ||२४||
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ |
विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ ||२५||
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् |
शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ ||२६||
वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः |
तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ ||२७||
प्रच्छादयन्तौ समरे शरजालैः परस्परम् |
रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः ||२८||
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु |
व्यरोचेतां महात्मानौ वृत्रवज्रधराविव ||२९||
सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः |
व्यरोचत रणे भीमः सविद्युदिव तोयदः ||३०||
स चापघोषस्तनितः शरधाराम्बुदो महान् |
भीममेघो महाराज कर्णपर्वतमभ्ययात् ||३१||
ततः शरसहस्रेण धनुर्मुक्तेन भारत |
पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः ||३२||
तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् |
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः ||३३||
स नन्दयन्रणे पार्थं केशवं च यशस्विनम् |
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ||३४||
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः |
पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह ||३५||
११२
सञ्जय उवाच||
भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् |
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ||१||
अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात् |
तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् ||२||
भीमसेनेन निहतान्विमना दुःखितोऽभवत् |
निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ||३||
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः |
बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः ||४||
रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ |
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः ||५||
कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः |
विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् ||६||
कर्णचापच्युता बाणाः सम्पतन्तस्ततस्ततः |
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ||७||
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् |
प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः ||८||
खं पूरयन्महावेगान्खगमान्खगवाससः |
सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् ||९||
तमन्तकमिवायस्तमापतन्तं वृकोदरः |
त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः ||१०||
तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः |
महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् ||११||
ततो विधम्याधिरथेः शरजालानि पाण्डवः |
विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः ||१२||
यथैव हि शरैः पार्थः सूतपुत्रेण छादितः |
तथैव कर्णं समरे छादयामास पाण्डवः ||१३||
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत |
अभ्यनन्दंस्त्वदीयाश्च सम्प्रहृष्टाश्च चारणाः ||१४||
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः |
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ||१५||
कुरुपाण्डवानां प्रवरा दश राजन्महारथाः |
साधु साध्विति वेगेन सिंहनादमथानदन् ||१६||
तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे |
अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् ||१७||
राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः |
कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ||१८||
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः |
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ||१९||
दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष |
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ||२०||
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः |
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ||२१||
तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः |
प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ||२२||
ततो वामेन कौन्तेयः पीडयित्वा शरासनम् |
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ||२३||
मनुष्यसमतां ज्ञात्वा सप्त सन्धाय सायकान् |
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ||२४||
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव |
भीमसेनो महाराज पूर्ववैरमनुस्मरन् ||२५||
ते क्षिप्ता भीमसेनेन शरा भारत भारतान् |
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ||२६||
तेषां विदार्य चेतांसि शरा हेमविभूषिताः |
व्यराजन्त महाराज सुपर्णा इव खेचराः ||२७||
शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः |
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ||२८||
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ |
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ||२९||
शत्रुञ्जयः शत्रुसहश्चित्रश्चित्रायुधो दृढः |
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ||३०||
तान्निहत्य महाबाहू राधेयस्यैव पश्यतः |
सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ||३१||
स रवस्तस्य शूरस्य धर्मराजस्य भारत |
आचख्याविव तद्युद्धं विजयं चात्मनो महत् ||३२||
तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः |
बभूव परमा प्रीतिर्धर्मराजस्य संयुगे ||३३||
ततो हृष्टो महाराज वादित्राणां महास्वनैः |
भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः ||३४||
अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम् |
हर्षेण महता युक्तः कृतसञ्ज्ञे वृकोदरे ||३५||
एकत्रिंशन्महाराज पुत्रांस्तव महारथान् |
हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ||३६||
तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः |
इति सञ्चिन्त्य राजासौ नोत्तरं प्रत्यपद्यत ||३७||
यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव |
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ||३८||
प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते |
कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ ||३९||
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः |
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ||४०||
यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम् |
पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः ||४१||
तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् |
विसृजंस्तव पुत्राणामन्तं गच्छति कौरव ||४२||
विलपंश्च बहु क्षत्ता शमं नालभत त्वयि |
सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् ||४३||
हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् ||४३||
प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान् |
यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् ||४४||
पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह ||४४||
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् |
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ||४५||
११३
धृतराष्ट्र उवाच||
महानपनयः सूत ममैवात्र विशेषतः |
स इदानीमनुप्राप्तो मन्ये सञ्जय शोचतः ||१||
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् |
इदानीमत्र किं कार्यं प्रकरिष्यामि सञ्जय ||२||
यथा त्वेष क्षयो वृत्तो ममापनयसम्भवः |
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि सञ्जय ||३||
सञ्जय उवाच||
कर्णभीमौ महाराज पराक्रान्तौ महाहवे |
बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ ||४||
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः |
विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् ||५||
तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः |
आकीर्यत रणे भीमः शतशोऽथ सहस्रशः ||६||
तयोः शरैर्महाराज सम्पतद्भिः समन्ततः |
बभूव तव सैन्यानां सङ्क्षोभः सागरोपमः ||७||
भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम |
अवध्यत चमूमध्ये घोरैराशीविषोपमैः ||८||
वारणैः पतितै राजन्वाजिभिश्च नरैः सह |
अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ||९||
ते वध्यमानाः समरे भीमचापच्युतैः शरैः |
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ||१०||
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् |
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ||११||
ते शरातुरभूयिष्ठा हताश्वनरवाहनाः |
उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् ||१२||
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः |
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ||१३||
एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः |
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ||१४||
ततः प्रावर्तत नदी घोररूपा महाहवे |
बभूव च विशेषेण भीरूणां भयवर्धिनी ||१५||
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा |
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः ||१६||
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः |
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः ||१७||
जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः |
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ||१८||
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः |
प्रासतोमरसङ्घातैः खड्गैश्च सपरश्वधैः ||१९||
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः |
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ||२०||
शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ||२०||
कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः |
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ||२१||
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि |
गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ||२२||
तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुन्धरा |
पतितैरपविद्धैश्च सम्बभौ द्यौरिव ग्रहैः ||२३||
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् |
दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत ||२४||
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे |
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ||२५||
निपातितध्वजरथं हतवाजिनरद्विपम् ||२५||
गजाभ्यां सम्प्रयुक्ताभ्यामासीन्नडवनं यथा |
तथाभूतं महत्सैन्यमासीद्भारत संयुगे ||२६||
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ||२६||
११४
सञ्जय उवाच||
ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः |
मुमोच शरवर्षाणि चित्राणि च बहूनि च ||१||
वध्यमानो महाराज सूतपुत्रेण पाण्डवः |
न विव्यथे भीमसेनो भिद्यमान इवाचलः ||२||
स कर्णं कर्णिना कर्णे पीतेन निशितेन च |
विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा ||३||
स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि |
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ||४||
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे |
आजघान भृशं भीमः स्मयन्निव महाबलः ||५||
पुनरस्य त्वरन्भीमो नाराचान्दश भारत |
रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा ||६||
ते ललाटं समासाद्य सूतपुत्रस्य मारिष |
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ||७||
ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत |
नीलोत्पलमयीं मालां धारयन्स पुरा यथा ||८||
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना |
वेगं चक्रे महावेगो भीमसेनवधं प्रति ||९||
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् |
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत ||१०||
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः |
समरे तमनादृत्य नास्य वीर्यमचिन्तयत् ||११||
ततः कर्णो महाराज पाण्डवं निशितैः शरैः |
आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तपः ||१२||
जीमूताविव चान्योन्यं तौ ववर्षतुराहवे |
तलशब्दरवैश्चैव त्रासयन्तौ परस्परम् ||१३||
शरजालैश्च विविधैश्छादयामासतुर्मृधे |
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ||१४||
ततो भीमो महाबाहू राधेयस्य महात्मनः |
क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा ||१५||
तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः |
अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम् ||१६||
दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम् |
सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ||१७||
हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः |
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत ||१८||
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् |
भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा ||१९||
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत |
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ||२०||
मरीचिविकचस्येव राजन्भानुमतो वपुः |
आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः ||२१||
कराभ्यामाददानस्य संदधानस्य चाशुगान् |
विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे ||२२||
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् |
कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः ||२३||
स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः |
प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम् ||२४||
ततः कनकपुङ्खानां शराणां नतपर्वणाम् |
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ||२५||
शरासनादाधिरथेः प्रभवन्तः स्म सायकाः |
श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे ||२६||
गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् |
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ||२७||
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः |
अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति ||२८||
ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः |
शलभानामिव व्राताः शराः कर्णसमीरिताः ||२९||
चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः |
एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः ||३०||
पर्वतं वारिधाराभिश्छादयन्निव तोयदः |
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ||३१||
तत्र भारत भीमस्य बलवीर्यपराक्रमम् |
व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह ||३२||
तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम् |
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ||३३||
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते |
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् ||३४||
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ||३४||
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः |
गगने रचिता माला काञ्चनीव व्यराजत ||३५||
ततो व्योम्नि विषक्तानि शरजालानि भागशः |
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ||३६||
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः |
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे ||३७||
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ||३७||
स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः |
उपारोहदनादृत्य तस्य वीर्यं महात्मनः ||३८||
तयोर्विसृजतोस्तत्र शरजालानि मारिष |
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ||३९||
तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान् |
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया ||४०||
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् |
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ||४१||
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः |
अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः ||४२||
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् |
युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया ||४३||
तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः |
रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत् ||४४||
अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम् |
सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ ||४५||
उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः |
ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत् ||४६||
स विधन्वा महाराज रथशक्तिं परामृशत् |
तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ||४७||
तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम् |
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ||४८||
सापतद्दशधा राजन्निकृत्ता कर्णसायकैः |
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ||४९||
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् |
खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा ||५०||
तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव ||५०||
स विचर्मा महाराज विरथः क्रोधमूर्छितः |
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ||५१||
स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः |
अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् ||५२||
ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम् |
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ||५३||
स भीमसेनः कुपितो बलवान्सत्यविक्रमः |
विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः ||५४||
तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः |
लयमास्थाय राधेयो भीमसेनमवञ्चयत् ||५५||
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् |
ध्वजमस्य समासाद्य तस्थौ स धरणीतले ||५६||
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् |
यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम् ||५७||
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् |
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ||५८||
तद्विहत्यास्य राधेयस्तत एनं समभ्ययात् |
संरब्धः पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम् ||५९||
तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ |
जीमूताविव घर्मान्ते गर्जमानौ नभस्तले ||६०||
तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः |
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ||६१||
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः |
दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् ||६२||
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ||६२||
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च |
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् ||६३||
व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम् |
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः ||६४||
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः |
हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन् ||६५||
चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले |
तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः ||६६||
तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः |
व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ||६७||
धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत् |
उत्स्मयन्निव राधेयो भीमसेनमुवाच ह ||६८||
पुनः पुनस्तूबरक मूढ औदरिकेति च |
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ||६९||
यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव |
तत्र त्वं दुर्मते योग्यो न युद्धेषु कथञ्चन ||७०||
मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते |
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ||७१||
फलमूलाशने युक्तस्त्वं तथातिथिभोजने |
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ||७२||
पुष्पमूलफलाहारो व्रतेषु नियमेषु च |
उचितस्त्वं वने भीम न त्वं युद्धविशारदः ||७३||
क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर |
न त्वं युद्धोचितस्तात वनवासरतिर्भव ||७४||
सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् |
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ||७५||
कौमारे यानि चाप्यासन्नप्रियाणि विशां पते |
पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम् ||७६||
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः |
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ||७७||
योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः |
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ||७८||
गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे |
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक ||७९||
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत |
प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ||८०||
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः |
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ||८१||
ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः |
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ||८२||
स भुजङ्गैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः |
भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः ||८३||
स छिन्नधन्वा भीमेन धनञ्जयशराहतः |
कर्णो भीमादपायासीद्रथेन महता द्रुतम् ||८४||
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः |
अन्वयाद्भ्रातरं सङ्ख्ये पाण्डवं सव्यसाचिनम् ||८५||
ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्जयः |
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ||८६||
स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम् |
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ||८७||
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा |
धनञ्जयभयात्कर्णमुज्जिहीर्षुर्महारथः ||८८||
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः |
शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत् ||८९||
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम् |
तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः ||९०||
ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे |
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ||९१||
धनञ्जयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात् |
नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम् ||९२||
विदार्य देहान्नाराचैर्नरवारणवाजिनाम् |
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः ||९३||
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् |
पाकशासनिरायस्तः पार्थः संनिजघान ह ||९४||
११५
धृतराष्ट्र उवाच||
अहन्यहनि मे दीप्तं यशः पतति सञ्जय |
हता मे बहवो योधा मन्ये कालस्य पर्ययम् ||१||
धनञ्जयस्तु सङ्क्रुद्धः प्रविष्टो मामकं बलम् |
रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि ||२||
ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः |
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ||३||
तदा प्रभृति मा शोको दहत्यग्निरिवाशयम् |
ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् ||४||
अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः |
चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः ||५||
अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः |
युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः ||६||
यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् |
एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः ||७||
तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम् |
धनञ्जयार्थे यत्तस्य कुशलो ह्यसि सञ्जय ||८||
सञ्जय उवाच||
तथा तु वैकर्तनपीडितं तं; भीमं प्रयान्तं पुरुषप्रवीरम् |
समीक्ष्य राजन्नरवीरमध्ये; शिनिप्रवीरोऽनुययौ रथेन ||९||
नदन्यथा वज्रधरस्तपान्ते; ज्वलन्यथा जलदान्ते च सूर्यः |
निघ्नन्नमित्रान्धनुषा दृढेन; सङ्कम्पयंस्तव पुत्रस्य सेनाम् ||१०||
तं यान्तमश्वै रजतप्रकाशै; रायोधने नरवीरं चरन्तम् |
नाशक्नुवन्वारयितुं त्वदीयाः; सर्वे रथा भारत माधवाग्र्यम् ||११||
अमर्षपूर्णस्त्वनिवृत्तयोधी; शरासनी काञ्चनवर्मधारी |
अलम्बुसः सात्यकिं माधवाग्र्य; मवारयद्राजवरोऽभिपत्य ||१२||
तयोरभूद्भारत सम्प्रहार; स्तथागतो नैव बभूव कश्चित् |
प्रैक्षन्त एवाहवशोभिनौ तौ; योधास्त्वदीयाश्च परे च सर्वे ||१३||
अविध्यदेनं दशभिः पृषत्कै; रलम्बुसो राजवरः प्रसह्य |
अनागतानेव तु तान्पृषत्कां; श्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ||१४||
पुनः स बाणैस्त्रिभिरग्निकल्पै; राकर्णपूर्णैर्निशितैः सुपुङ्खैः |
विव्याध देहावरणं विदार्य; ते सात्यकेराविविशुः शरीरम् ||१५||
तैः कायमस्याग्न्यनिलप्रभावै; र्विदार्य बाणैरपरैर्ज्वलद्भिः |
आजघ्निवांस्तान्रजतप्रकाशा; नश्वांश्चतुर्भिश्चतुरः प्रसह्य ||१६||
तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेश्चक्रधरप्रभावः |
अलम्बुसस्योत्तमवेगवद्भि; र्हयांश्चतुर्भिर्निजघान बाणैः ||१७||
अथास्य सूतस्य शिरो निकृत्य; भल्लेन कालानलसंनिभेन |
सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् ||१८||
निहत्य तं पार्थिवपुत्रपौत्रं; सङ्ख्ये मधूनामृषभः प्रमाथी |
ततोऽन्वयादर्जुनमेव वीरः; सैन्यानि राजंस्तव संनिवार्य ||१९||
अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम् |
घ्नन्तं कुरूणामिषुभिर्बलानि; पुनः पुनर्वायुरिवाभ्रपूगान् ||२०||
ततोऽवहन्सैन्धवाः साधु दान्ता; गोक्षीरकुन्देन्दुहिमप्रकाशाः |
सुवर्णजालावतताः सदश्वा; यतो यतः कामयते नृसिंहः ||२१||
अथात्मजास्ते सहिताभिपेतु; रन्ये च योधास्त्वरितास्त्वदीयाः |
कृत्वा मुखं भारत योधमुख्यं; दुःशासनं त्वत्सुतमाजमीढ ||२२||
ते सर्वतः सम्परिवार्य सङ्ख्ये; शैनेयमाजघ्नुरनीकसाहाः |
स चापि तान्प्रवरः सात्वतानां; न्यवारयद्बाणजालेन वीरः ||२३||
निवार्य तांस्तूर्णममित्रघाती; नप्ता शिनेः पत्रिभिरग्निकल्पैः |
दुःशासनस्यापि जघान वाहा; नुद्यम्य बाणासनमाजमीढ ||२४||
११६
सञ्जय उवाच||
तमुद्यतं महाबाहुं दुःशासनरथं प्रति |
त्वरितं त्वरणीयेषु धनञ्जयहितैषिणम् ||१||
त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः |
सेनासमुद्रमाविष्टमानर्तं पर्यवारयन् ||२||
अथैनं रथवंशेन सर्वतः संनिवार्य ते |
अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः ||३||
अजयद्राजपुत्रांस्तान्यतमानान्महारणे |
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः ||४||
सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम् |
असिशक्तिगदापूर्णमप्लवं सलिलं यथा ||५||
तत्राद्भुतमपश्याम शैनेयचरितं रणे |
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् ||६||
उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा |
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा ||७||
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः |
त्रिगर्ताः संन्यवर्तन्त सन्तप्ताः स्वजनं प्रति ||८||
तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारयन् |
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः ||९||
तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः |
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः ||१०||
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् |
अथ पार्थं महाबाहुर्धनञ्जयमुपासदत् ||११||
तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् |
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् ||१२||
तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत् |
असावायाति शैनेयस्तव पार्थ पदानुगः ||१३||
एष शिष्यः सखा चैव तव सत्यपराक्रमः |
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः ||१४||
एष कौरवयोधानां कृत्वा घोरमुपद्रवम् |
तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः ||१५||
एष द्रोणं तथा भोजं कृतवर्माणमेव च |
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः ||१६||
धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान् |
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः ||१७||
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः |
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः ||१८||
बहूनेकरथेनाजौ योधयित्वा महारथान् |
आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः ||१९||
स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम् |
प्रेषितो धर्मपुत्रेण पर्थैषोऽभ्येति सात्यकिः ||२०||
यस्य नास्ति समो योधः कौरवेषु कथञ्चन |
सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः ||२१||
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव |
निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः ||२२||
एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः |
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः ||२३||
एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे |
निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः ||२४||
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् |
तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः ||२५||
ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् |
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः ||२६||
न हि जानामि वृत्तान्तं धर्मराजस्य केशव |
सात्वतेन विहीनः स यदि जीवति वा न वा ||२७||
एतेन हि महाबाहो रक्षितव्यः स पार्थिवः |
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः ||२८||
राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः |
प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे ||२९||
सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः |
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः ||३०||
जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः |
श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम् ||३१||
परिश्रान्ता हयाश्चास्य हययन्ता च माधव |
न च भूरिश्रवाः श्रान्तः ससहायश्च केशव ||३२||
अपीदानीं भवेदस्य क्षेममस्मिन्समागमे |
कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः ||३३||
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः ||३३||
अपि कौरवमुख्येन कृतास्त्रेण महात्मना |
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् ||३४||
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव |
आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम् ||३५||
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् |
नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः ||३६||
११७
सञ्जय उवाच||
तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम् |
क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ||१||
तमब्रवीन्महाबाहुः कौरव्यः शिनिपुङ्गवम् |
अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत ||२||
चिराभिलषितं काममद्य प्राप्स्यामि संयुगे |
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ||३||
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् |
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् ||४||
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले |
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ ||५||
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया |
सव्रीडो भविता सद्यो येनासीह प्रवेशितः ||६||
अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः |
त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते ||७||
चिराभिलषितो ह्यद्य त्वया सह समागमः |
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ||८||
अद्य युद्धं महाघोरं तव दास्यामि सात्वत |
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् ||९||
अद्य संयमनीं याता मया त्वं निहतो रणे |
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै ||१०||
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव |
हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम् ||११||
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः |
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे ||१२||
चक्षुर्विषयसम्प्राप्तो न त्वं माधव मोक्ष्यसे |
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा ||१३||
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव |
कौरवेय न सन्त्रासो विद्यते मम संयुगे ||१४||
स मां निहन्यात्सङ्ग्रामे यो मां कुर्यान्निरायुधम् |
समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे ||१५||
किं मृषोक्तेन बहुना कर्मणा तु समाचर |
शारदस्येव मेघस्य गर्जितं निष्फलं हि ते ||१६||
श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते |
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव ||१७||
त्वरते मे मतिस्तात त्वयि युद्धाभिकाङ्क्षिणि |
नाहत्वा संनिवर्तिष्ये त्वामद्य पुरुषाधम ||१८||
अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुङ्गवौ |
जिघांसू परमक्रुद्धावभिजघ्नतुराहवे ||१९||
समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे |
द्विरदाविव सङ्क्रुद्धौ वाशितार्थे मदोत्कटौ ||२०||
भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ |
शरवर्षाणि भीमानि मेघाविव परस्परम् ||२१||
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः |
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ||२२||
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् |
मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुङ्गवम् ||२३||
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते |
अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो ||२४||
तौ पृथक्षरवर्षाभ्यामवर्षेतां परस्परम् |
उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ ||२५||
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ |
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ||२६||
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् |
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ ||२७||
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ |
परस्परमयुध्येतां वारणाविव यूथपौ ||२८||
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ |
जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः ||२९||
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् |
हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ||३०||
सम्प्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती |
यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ ||३१||
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च |
विरथावसियुद्धाय समेयातां महारणे ||३२||
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे |
विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ||३३||
चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः |
मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ ||३४||
सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ |
रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम् ||३५||
मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम् |
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः ||३६||
असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे |
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ||३७||
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ |
बाहुभिः समसज्जेतामायसैः परिघैरिव ||३८||
तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा |
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः ||३९||
तयोर्नृवरयो राजन्समरे युध्यमानयोः |
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव ||४०||
द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ |
युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ ||४१||
क्षीणायुधे सात्वते युध्यमाने; ततोऽब्रवीदर्जुनं वासुदेवः |
पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम् ||४२||
प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः |
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः ||४३||
परिश्रान्तो युधां श्रेष्ठः सम्प्राप्तो भूरिदक्षिणम् |
युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन ||४४||
ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम् |
उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम् ||४५||
रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः |
केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः ||४६||
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत |
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ||४७||
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् |
तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम् ||४८||
न वशं यज्ञशीलस्य गच्छेदेष वरारिहन् |
त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो ||४९||
अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः |
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम् ||५०||
महाद्विपेनेव वने मत्तेन हरियूथपम् ||५०||
हाहाकारो महानासीत्सैन्यानां भरतर्षभ |
यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ||५१||
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः |
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ||५२||
अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे |
मूर्धजेषु निजग्राह पदा चोरस्यताडयत् ||५३||
तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे |
वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत ||५४||
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् |
तव शिष्यं महाबाहो धनुष्यनवरं त्वया ||५५||
असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे |
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ||५६||
एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः |
मनसा पूजयामास भूरिश्रवसमाहवे ||५७||
विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे |
संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः ||५८||
प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम् |
महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति ||५९||
एवं तु मनसा राजन्पार्थः सम्पूज्य कौरवम् |
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत ||६०||
सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव |
एष त्वसुकरं कर्म यादवार्थे करोम्यहम् ||६१||
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः |
सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत् ||६२||
११८
सञ्जय उवाच||
स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः |
आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः ||१||
प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना |
वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः ||२||
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः |
उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम् ||३||
नृशंसं बत कौन्तेय कर्मेदं कृतवानसि |
अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः ||४||
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् |
किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति ||५||
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना |
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ||६||
ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः |
अयुध्यमानस्य कथं रणे प्रहृतवानसि ||७||
न प्रमत्ताय भीताय विरथाय प्रयाचते |
व्यसने वर्तमानाय प्रहरन्ति मनस्विनः ||८||
इदं तु नीचाचरितमसत्पुरुषसेवितम् |
कथमाचरितं पार्थ त्वया कर्म सुदुष्करम् ||९||
आर्येण सुकरं ह्याहुरार्यकर्म धनञ्जय |
अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ||१०||
येषु येषु नरः पार्थ यत्र यत्र च वर्तते |
आशु तच्छीलतामेति तदिदं त्वयि दृश्यते ||११||
कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः |
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः ||१२||
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया |
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ||१३||
को हि नाम प्रमत्ताय परेण सह युध्यते |
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ||१४||
व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः |
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ||१५||
एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः |
युयुधानं परित्यज्य रणे प्रायमुपाविशत् ||१६||
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः |
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ||१७||
सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः |
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ||१८||
ततः स सर्वसेनायां जनः कृष्णधनञ्जयौ |
गर्हयामास तं चापि शशंस पुरुषर्षभम् ||१९||
निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम् |
प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः ||२०||
तांस्तथा वादिनो राजन्पुत्रांस्तव धनञ्जयः |
अमृष्यमाणो मनसा तेषां तस्य च भाषितम् ||२१||
असङ्क्रुद्धमना वाचा स्मारयन्निव भारत |
उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ||२२||
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् |
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ||२३||
यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि |
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ||२४||
आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः |
यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः ||२५||
न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः |
अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् ||२६||
एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत् |
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ||२७||
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः |
यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ||२८||
अर्जुन उवाच||
या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे |
नकुले सहदेवे च सा मे त्वयि शलाग्रज ||२९||
मया तु समनुज्ञातः कृष्णेन च महात्मना |
गच्छ पुण्यकृताँल्लोकाञ्शिबिरौशीनरो यथा ||३०||
सञ्जय उवाच||
तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना |
खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ||३१||
निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् |
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ||३२||
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् |
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ||३३||
वार्यमाणः स कृष्णेन पार्थेन च महात्मना |
भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च ||३४||
कर्णेन वृषसेनेन सैन्धवेन तथैव च |
विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् ||३५||
प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे |
सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः ||३६||
नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा |
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ||३७||
सहस्राक्षसमं तत्र सिद्धचारणमानवाः |
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् ||३८||
अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः |
पक्षवादांश्च बहुशः प्रावदंस्तस्य सैनिकाः ||३९||
न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा |
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम् ||४०||
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा |
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ||४१||
सात्यकिरुवाच||
न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ |
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ||४२||
यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः |
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ||४३||
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि |
यो मां निष्पिष्य सङ्ग्रामे जीवन्हन्यात्पदा रुषा ||४४||
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ||४४||
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः |
मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम् ||४५||
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः ||४५||
यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता |
सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ||४६||
भवितव्यं च यद्भावि दैवं चेष्टयतीव च |
सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ||४७||
अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि |
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ||४८||
सञ्जय उवाच||
एवमुक्ते महाराज सर्वे कौरवपाण्डवाः |
न स्म किञ्चिदभाषन्त मनसा समपूजयन् ||४९||
मन्त्रैर्हि पूतस्य महाध्वरेषु; यशस्विनो भूरिसहस्रदस्य |
मुनेरिवारण्यगतस्य तस्य; न तत्र कश्चिद्वधमभ्यनन्दत् ||५०||
सुनीलकेशं वरदस्य तस्य; शूरस्य पारावतलोहिताक्षम् |
अश्वस्य मेध्यस्य शिरो निकृत्तं; न्यस्तं हविर्धानमिवोत्तरेण ||५१||
स तेजसा शस्त्रहतेन पूतो; महाहवे देहवरं विसृज्य |
आक्रामदूर्ध्वं वरदो वरार्हो; व्यावृत्य धर्मेण परेण रोदसी ||५२||
११९
धृतराष्ट्र उवाच||
अजितो द्रोणराधेयविकर्णकृतवर्मभिः |
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ||१||
स कथं कौरवेयेण समरेष्वनिवारितः |
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ||२||
सञ्जय उवाच||
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा |
यथा च भूरिश्रवसो यत्र ते संशयो नृप ||३||
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः |
बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ||४||
पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः |
नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः ||५||
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः |
यदोरभूदन्ववाये देवमीढ इति श्रुतः ||६||
यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः |
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः ||७||
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि |
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ||८||
एतस्मिन्नेव काले तु देवकस्य महात्मनः |
दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ||९||
तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान् |
निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ||१०||
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः |
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ||११||
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् |
बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव ||१२||
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः |
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ||१३||
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः |
कृपया च पुनस्तेन जीवेति स विसर्जितः ||१४||
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष |
प्रसादयन्महादेवममर्षवशमास्थितः ||१५||
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः |
वरेण छन्दयामास स तु वव्रे वरं नृपः ||१६||
पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् |
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ||१७||
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव |
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ||१८||
स तेन वरदानेन लब्धवान्भूरिदक्षिणम् |
न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् ||१९||
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि |
न हि शक्या रणे जेतुं सात्वता मनुजर्षभ ||२०||
लब्धलक्ष्याश्च सङ्ग्रामे बहवश्चित्रयोधिनः |
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ||२१||
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ||२१||
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो |
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ||२२||
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः |
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ||२३||
जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ||२३||
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः |
एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि ||२४||
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः |
समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ||२५||
नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः |
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ||२६||
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् |
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ||२७||
एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो |
कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् ||२८||
१२०
धृतराष्ट्र उवाच||
तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे |
यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय ||१||
सञ्जय उवाच||
भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत |
वासुदेवं महाबाहुरर्जुनः समचूचुदत् ||२||
चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः |
अस्तमेति महाबाहो त्वरमाणो दिवाकरः ||३||
एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया |
कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ||४||
नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः |
चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ||५||
ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् |
हयज्ञश्चोदयामास जयद्रथरथं प्रति ||६||
तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः |
त्वरमाणा महाराज सेनामुख्याः समाव्रजन् ||७||
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् |
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ||८||
समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् |
नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव ||९||
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् |
अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति ||१०||
अयं स वैकर्तन युद्धकालो; विदर्शयस्वात्मबलं महात्मन् |
यथा न वध्येत रणेऽर्जुनेन; जयद्रथः कर्ण तथा कुरुष्व ||११||
अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः |
दिनक्षयं प्राप्य नरप्रवीर; ध्रुवं हि नः कर्ण जयो भविष्यति ||१२||
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति |
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् ||१३||
अनर्जुनायां च भुवि मुहूर्तमपि मानद |
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः ||१४||
विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् |
वसुन्धरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् ||१५||
दैवेनोपहतः पार्थो विपरीतश्च मानद |
कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे ||१६||
नूनमात्मविनाशाय पाण्डवेन किरीटिना |
प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति ||१७||
कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः |
अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम् ||१८||
रक्षितं मद्रराजेन कृपेण च महात्मना |
जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः ||१९||
द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च |
कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः ||२०||
युध्यन्ते बहवः शूरा लम्बते च दिवाकरः |
शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद ||२१||
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः |
युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ||२२||
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष |
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ||२३||
दृढलक्ष्येण शूरेण भीमसेनेन धन्विना |
भृशमुद्वेजितः सङ्ख्ये शरजालैरनेकशः ||२४||
स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद |
नैवाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य रणेषुभिः ||२५||
योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे |
यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् ||२६||
न हि मे युध्यमानस्य सायकांश्चास्यतः शितान् |
सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः ||२७||
यत्तु शक्तिमता कार्यं सततं हितकारिणा |
तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ||२८||
अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः |
त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ||२९||
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः |
पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् ||३०||
कर्णकौरवयोरेवं रणे सम्भाषमाणयोः |
अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ||३१||
चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम् |
भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे ||३२||
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः |
हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः ||३३||
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् |
क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च ||३४||
हयवारणमुख्याश्च प्रापतन्त सहस्रशः |
ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च ||३५||
कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम् |
अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ||३६||
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली |
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ||३७||
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः |
स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ||३८||
तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः |
नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः ||३९||
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् |
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ||४०||
संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् |
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः ||४१||
सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः |
अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ||४२||
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ |
सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे ||४३||
ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान् |
मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति ||४४||
तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः |
द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे ||४५||
सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः |
शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् ||४६||
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः |
अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन् ||४७||
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः |
महता रथवंशेन सर्वतः पर्यवारयन् ||४८||
विस्फारयन्तश्चापानि विसृजन्तश्च सायकान् |
सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते ||४९||
तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत |
इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ||५०||
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च |
एकैकं नवभिर्बाणैः सर्वानेव समर्पयत् ||५१||
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः |
दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ||५२||
त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः |
विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन् ||५३||
श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते |
सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः ||५४||
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च |
सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः ||५५||
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् |
धनञ्जयस्य गात्रेषु शूराः परिघबाहवः ||५६||
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली |
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ||५७||
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः |
मिषतो भीमसेनस्य सात्वतस्य च भारत ||५८||
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे |
सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ||५९||
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष |
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ||६०||
तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः |
तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ||६१||
तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष |
यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत् ||६२||
फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे |
सायकानां शतेनैव सर्वमर्मस्वताडयत् ||६३||
रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् |
शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत ||६४||
तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः ||६४||
ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे |
सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः ||६५||
वधार्थं चास्य समरे सायकं सूर्यवर्चसम् |
चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः ||६६||
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् |
अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि ||६७||
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् |
कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् ||६८||
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ||६८||
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ |
सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः ||६९||
अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम् ||६९||
पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन |
इत्येवं तर्जयन्तौ तौ वाक्षल्यैस्तुदतां तथा ||७०||
युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च |
प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे ||७१||
प्रशस्यमानौ समरे सिद्धचारणवातिकैः |
अयुध्येतां महाराज परस्परवधैषिणौ ||७२||
ततो दुर्योधनो राजंस्तावकानभ्यभाषत |
यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् ||७३||
निवर्तिष्यति राधेय इति मामुक्तवान्वृषः ||७३||
एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् |
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् ||७४||
अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः ||७४||
सारथिं चास्य भल्लेन रथनीडादपाहरत् |
छादयामास च शरैस्तव पुत्रस्य पश्यतः ||७५||
स छाद्यमानः समरे हताश्वो हतसारथिः |
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ||७६||
तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा |
अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ||७७||
मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः |
शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् ||७८||
धनञ्जयं द्वादशभिराजघान शिलीमुखैः ||७८||
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः |
पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम् ||७९||
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः |
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ||८०||
सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः |
शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् ||८१||
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः |
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम् ||८२||
अथार्जुनः सर्वतोधारमस्त्रं; प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् |
तं प्रत्युदीयुः कुरवः पाण्डुसूनुं; रथैर्महार्हैः शरवर्षाण्यवर्षन् ||८३||
ततस्तु तस्मिंस्तुमुले समुत्थिते; सुदारुणे भारत मोहनीये |
नामुह्यत प्राप्य स राजपुत्रः; किरीटमाली विसृजन्पृषत्कान् ||८४||
राज्यप्रेप्सुः सव्यसाची कुरूणां; स्मरन्क्लेशान्द्वादशवर्षवृत्तान् |
गाण्डीवमुक्तैरिषुभिर्महात्मा; सर्वा दिशो व्यावृणोदप्रमेयैः ||८५||
प्रदीप्तोल्कमभवच्चान्तरिक्षं; देहेषु भूरीण्यपतन्वयांसि |
यत्पिङ्गलज्येन किरीटमाली; क्रुद्धो रिपूनाजगवेन हन्ति ||८६||
किरीटमाली महता महायशाः; शरासनेनास्य शराननीकजित् |
हयप्रवेकोत्तमनागधूर्गता; न्कुरुप्रवीरानिषुभिर्न्यपातयत् ||८७||
गदाश्च गुर्वीः परिघानयस्मया; नसींश्च शक्तीश्च रणे नराधिपाः |
महान्ति शस्त्राणि च भीमदर्शनाः; प्रगृह्य पार्थं सहसाभिदुद्रुवुः ||८८||
स तानुदीर्णान्सरथाश्ववारणा; न्पदातिसङ्घांश्च महाधनुर्धरः |
विपन्नसर्वायुधजीवितान्रणे; चकार वीरो यमराष्ट्रवर्धनान् ||८९||
१२१
सञ्जय उवाच||
स रणे व्यचरत्पार्थः प्रेक्षणीयो धनञ्जयः |
युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन् ||१||
मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे |
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ||२||
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः |
सङ्ग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे ||३||
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः |
दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ||४||
स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः |
मोहयन्निव नाराचैर्जयद्रथवधेप्सया ||५||
विसृजन्दिक्षु सर्वासु शरानसितसारथिः |
स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः ||६||
भ्रमन्त इव शूरस्य शरव्राता महात्मनः |
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ||७||
आददानं महेष्वासं संदधानं च पाण्डवम् |
विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा ||८||
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे |
आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ||९||
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ||९||
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना |
न चक्षमे सुसङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः ||१०||
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् |
आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् ||११||
मुमोच निशितान्सङ्ख्ये सायकान्सव्यसाचिनि ||११||
त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम् |
अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा ||१२||
स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान् |
युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह ||१३||
सारथेश्च शिरः कायाद्ध्वजं च समलङ्कृतम् ||१३||
स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः |
वराहः सिन्धुराजस्य पपाताग्निशिखोपमः ||१४||
एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे |
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ||१५||
धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः |
अस्तं महीधरश्रेष्ठं यियासति दिवाकरः ||१६||
शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति ||१६||
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः |
स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् ||१७||
जयद्रथममित्रघ्नं तं चोवाच ततो नृपम् |
अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना ||१८||
तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः |
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः ||१९||
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ||१९||
शत्रुभिर्युध्यमानस्य सङ्ग्रामे त्वस्य धन्विनः |
शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुर्नालक्षितो भुवि ||२०||
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम |
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः ||२१||
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम् |
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ||२२||
तस्यापि शतधा मूर्धा फलिष्यति न संशयः ||२२||
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् |
वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः ||२३||
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् |
समन्तपञ्चकादस्माद्बहिर्वानरकेतन ||२४||
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे |
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ||२५||
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज |
उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत ||२६||
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले |
तवापि शतधा मूर्धा फलिष्यति न संशयः ||२७||
यथा चैतन्न जानीयात्स राजा पृथिवीपतिः |
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ||२८||
न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन |
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ||२९||
एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन् |
इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् ||३०||
सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् |
विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः ||३१||
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः |
शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत् ||३२||
अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनञ्जयः |
दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ||३३||
शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः |
समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः ||३४||
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः |
सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष ||३५||
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् |
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ||३६||
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् |
वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम ||३७||
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः |
उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् ||३८||
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् |
गते तस्यापि शतधा मूर्धागच्छदरिंदम ||३९||
ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम् |
वासुदेवश्च बीभत्सुं प्रशशंस महारथम् ||४०||
ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् |
पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् ||४१||
भीमसेनोऽपि सङ्ग्रामे बोधयन्निव पाण्डवम् |
सिंहनादेन महता पूरयामास रोदसी ||४२||
तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः |
सैन्धवं निहतं मेने फल्गुनेन महात्मना ||४३||
ततो वादित्रघोषेण स्वान्योधानभिहर्षयन् |
अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया ||४४||
ततः प्रववृते राजन्नस्तं गच्छति भास्करे |
द्रोणस्य सोमकैः सार्धं सङ्ग्रामो लोमहर्षणः ||४५||
ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः |
सैन्धवे निहते राजन्नयुध्यन्त महारथाः ||४६||
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च |
अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः ||४७||
अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान् |
अयोधयन्महाराज हत्वा सैन्धवकं नृपम् ||४८||
स देवशत्रूनिव देवराजः; किरीटमाली व्यधमत्समन्तात् |
यथा तमांस्यभ्युदितस्तमोघ्नः; पूर्वां प्रतिज्ञां समवाप्य वीरः ||४९||
घटोत्कचवधपर्व
१२२
धृतराष्ट्र उवाच||
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना |
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय ||१||
सञ्जय उवाच||
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष |
अमर्षवशमापन्नः कृपः शारद्वतस्तदा ||२||
महता शरवर्षेण पाण्डवं समवाकिरत् |
द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम् ||३||
तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् |
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ||४||
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः |
पीड्यमानः परामार्तिमगमद्रथिनां वरः ||५||
सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च |
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः ||६||
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च |
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ||७||
ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः |
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ||८||
अथ शारद्वतो राजन्कौन्तेयशरपीडितः |
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ||९||
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् |
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ||१०||
तस्मिन्सन्ने महाराज कृपे शारद्वते युधि |
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ||११||
दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम् |
रथ एव महेष्वासः कृपणं पर्यदेवयत् ||१२||
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् |
कुलान्तकरणे पापे जातमात्रे सुयोधने ||१३||
नीयतां परलोकाय साध्वयं कुलपांसनः |
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ||१४||
तदिदं समनुप्राप्तं वचनं सत्यवादिनः |
तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् ||१५||
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् |
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ||१६||
ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा |
एष शेते रथोपस्थे मद्बाणैरभिपीडितः ||१७||
अकामयानेन मया विशिखैरर्दितो भृशम् |
अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे ||१८||
शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः |
प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ||१९||
शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम् |
कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् ||२०||
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः |
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ||२१||
ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः |
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ||२२||
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् |
आचार्यं शरवर्षेण रथे सादयता कृपम् ||२३||
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः |
न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ||२४||
तदिदं वचनं साधोराचार्यस्य महात्मनः |
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ||२५||
नमस्तस्मै सुपूज्याय गौतमायापलायिने |
धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम् ||२६||
तथा विलपमाने तु सव्यसाचिनि तं प्रति |
सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् ||२७||
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः |
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ||२८||
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति |
न मृष्यति हतं नूनं भूरिश्रवसमाहवे ||२९||
यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन |
मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः ||३०||
एवमुक्तो महाबाहुः केशवः सव्यसाचिना |
प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ||३१||
अलमेष महाबाहुः कर्णायैको हि पाण्डव |
किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ||३२||
न च तावत्क्षमः पार्थ कर्णेन तव सङ्गरः |
प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी ||३३||
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ||३३||
अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा |
अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः ||३४||
धृतराष्ट्र उवाच||
योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः |
हते तु भूरिश्रवसि सैन्धवे च निपातिते ||३५||
सात्यकिश्चापि विरथः कं समारूढवान्रथम् |
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय ||३६||
सञ्जय उवाच||
हन्त ते वर्णयिष्यामि यथावृत्तं महारणे |
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ||३७||
पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो |
विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना ||३८||
अतीतानागतं राजन्स हि वेत्ति जनार्दनः |
अतः सूतं समाहूय दारुकं संदिदेश ह ||३९||
रथो मे युज्यतां काल्यमिति राजन्महाबलः ||३९||
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः |
मानवा वा विजेतारः कृष्णयोः सन्ति केचन ||४०||
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः |
तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा ||४१||
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम् |
दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः ||४२||
दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम् |
रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ||४३||
स केशवस्यानुमते रथं दारुकसंयुतम् |
आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् ||४४||
कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः |
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ||४५||
युक्तं समारुह्य च तं विमानप्रतिमं रथम् |
अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ||४६||
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ |
धनञ्जयरथं हित्वा राधेयं प्रत्युदीययुः ||४७||
राधेयोऽपि महाराज शरवर्षं समुत्सृजन् |
अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् ||४८||
नैव दैवं न गान्धर्वं नासुरोरगराक्षसम् |
तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत ||४९||
उपारमत तत्सैन्यं सरथाश्वनरद्विपम् |
तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् ||५०||
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् |
तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ||५१||
गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः |
सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ||५२||
नभस्तलगताश्चैव देवगन्धर्वदानवाः |
अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ||५३||
मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे |
कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः ||५४||
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् |
प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ||५५||
अमृष्यमाणो निधनं कौरव्यजलसन्धयोः |
कर्णः शोकसमाविष्टो महोरग इव श्वसन् ||५६||
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा |
अभ्यद्रवत वेगेन पुनः पुनररिंदमः ||५७||
तं तु सम्प्रेक्ष्य सङ्क्रुद्धं सात्यकिः प्रत्यविध्यत |
महता शरवर्षेण गजः प्रतिगजं यथा ||५८||
तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ |
अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ||५९||
ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः |
बिभेद सर्वगात्रेषु पुनः पुनररिंदमः ||६०||
सारथिं चास्य भल्लेन रथनीडादपाहरत् |
अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः ||६१||
छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः |
चकार विरथं कर्णं तव पुत्रस्य पश्यतः ||६२||
ततो विमनसो राजंस्तावकाः पुरुषर्षभाः |
वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ||६३||
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् |
ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन ||६४||
तथा सात्यकिना वीरे विरथे सूतजे कृते |
हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् ||६५||
कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः |
दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् ||६६||
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् |
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ||६७||
तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव |
दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी ||६८||
रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा |
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ||६९||
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः |
पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः ||७०||
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा |
नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः ||७१||
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः |
निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ||७२||
काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ||७२||
कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः |
कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः ||७३||
शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते ||७३||
धृतराष्ट्र उवाच||
अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः |
विरथं कृतवान्कर्णं वासुदेवसमो युवा ||७४||
दारुकेण समायुक्तं स्वबाहुबलदर्पितः |
कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः ||७५||
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् |
असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय ||७६||
सञ्जय उवाच||
शृणु राजन्यथा तस्य रथमन्यं महामतिः |
दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् ||७७||
आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम् |
तारासहस्रखचितं सिंहध्वजपताकिनम् ||७८||
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः |
पाण्डुरैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः ||७९||
चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते |
घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ||८०||
वृतं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम् |
रथं सम्पादयामास मेघगम्भीरनिस्वनम् ||८१||
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् |
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ||८२||
कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः |
चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः ||८३||
हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम् |
अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् ||८४||
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् |
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ||८५||
भूयश्चापि निबोध त्वं तवापनयजं क्षयम् |
एकत्रिंशत्तव सुता भीमसेनेन पातिताः ||८६||
दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् |
शतशो निहताः शूराः सात्वतेनार्जुनेन च ||८७||
भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष |
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ||८८||
१२३
धृतराष्ट्र उवाच||
तथा गतेषु शूरेषु तेषां मम च सञ्जय |
किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व सञ्जय ||१||
सञ्जय उवाच||
विरथो भीमसेनो वै कर्णवाक्षल्यपीडितः |
अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् ||२||
पुनः पुनस्तूबरक मूढ औदरिकेति च |
अकृतास्त्रक मा योधीर्बाल सङ्ग्रामकातर ||३||
इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय |
एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत ||४||
एतद्व्रतं महाबाहो त्वया सह कृतं मया |
यथैतन्मम कौन्तेय तथा तव न संशयः ||५||
तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम |
यथा भवति तत्सत्यं तथा कुरु धनञ्जय ||६||
तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः |
ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे ||७||
कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत |
अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि साम्प्रतम् ||८||
द्विविधं कर्म शूराणां युद्धे जयपराजयौ |
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः ||९||
मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः |
यदृच्छया भीमसेनं विरथं कृतवानसि ||१०||
अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः |
युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम् ||११||
पूरयन्तं यथाशक्ति शूरकर्माहवे तथा ||११||
पश्यतां सर्वसैन्यानां केशवस्य ममैव च |
विरथो भीमसेनेन कृतोऽसि बहुशो रणे ||१२||
न च त्वां परुषं किञ्चिदुक्तवान्पण्डुनन्दनः ||१२||
यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः |
परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम ||१३||
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि |
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते ||१४||
तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः |
कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् ||१५||
हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे |
ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः ||१६||
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे ||१६||
त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे |
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ||१७||
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु |
महान्सुतुमुलः शब्दो बभूव रथिनां तदा ||१८||
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये |
मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत् ||१९||
ततो राजन्हृषीकेशः सङ्ग्रामशिरसि स्थितम् |
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत् ||२०||
दिष्ट्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया |
दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः ||२१||
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत |
सीदेत समरे जिष्णो नात्र कार्या विचारणा ||२२||
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् |
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ||२३||
महाप्रभावा बहवस्त्वया तुल्याधिकापि वा |
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ||२४||
ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः ||२४||
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् |
नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम् ||२५||
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ||२५||
एवमेव हते कर्णे सानुबन्धे दुरात्मनि |
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् ||२६||
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव |
प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा ||२७||
अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव |
त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः ||२८||
तवैव भारो वार्ष्णेय तवैव विजयः प्रभो |
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन ||२९||
एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान् |
दर्शयामास पार्थाय क्रूरमायोधनं महत् ||३०||
श्रीकृष्ण उवाच||
प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः |
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ||३१||
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः |
सञ्छिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः ||३२||
ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः |
सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः ||३३||
तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः |
वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम् ||३४||
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः |
उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः ||३५||
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः |
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ||३६||
चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः |
विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः ||३७||
कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः |
संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम् ||३८||
नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह |
सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान् ||३९||
संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान् |
पदातिसादिसङ्घांश्च क्षतजौघपरिप्लुतान् ||४०||
सञ्जय उवाच||
एवं संदर्शयन्कृष्णो रणभूमिं किरीटिनः |
स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत् ||४१||
१२४
सञ्जय उवाच||
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत |
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ||१||
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् |
अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम् ||२||
दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ |
दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ||३||
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता |
दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे ||४||
न तेषां दुष्करं किञ्चित्त्रिषु लोकेषु विद्यते |
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ||५||
तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून् |
यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः ||६||
पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा |
ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव ||७||
न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः |
त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव ||८||
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः |
त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि ||९||
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर |
अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् ||१०||
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन |
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ||११||
त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम् |
स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते ||१२||
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् |
त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम ||१३||
स्रष्टारं सर्वलोकानां परमात्मानमच्युतम् |
ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् ||१४||
अनादिनिधनं देवं लोककर्तारमव्ययम् |
त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते ||१५||
परं पुराणं पुरुषं पुराणानां परं च यत् |
प्रपद्यतस्तं परमं परा भूतिर्विधीयते ||१६||
योऽगात चतुरो वेदान्यश्च वेदेषु गीयते |
तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् ||१७||
धनञ्जयसखा यश्च धनञ्जयहितश्च यः |
तं धनञ्जयगोप्तारं प्रपद्य सुखमेधते ||१८||
इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ |
तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् ||१९||
तव कोपाग्निना दग्धः पापो राजा जयद्रथः |
उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे ||२०||
हन्यते निहतं चैव विनङ्क्ष्यति च भारत |
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ||२१||
त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः |
समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ||२२||
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः |
शरतल्पगतः शेते भीष्मः कुरुपितामहः ||२३||
दुर्लभो हि जयस्तेषां सङ्ग्रामे रिपुसूदन |
याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव ||२४||
राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च |
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ||२५||
विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् |
राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर ||२६||
ततो भीमो महाबाहुः सात्यकिश्च महारथः |
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ ||२७||
स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ ||२७||
तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ |
अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ||२८||
दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् |
द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात् ||२९||
दिष्ट्या च निर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः ||२९||
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे |
दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महाबलः ||३०||
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ |
समरश्लाघिनौ वीरौ समरेष्वपलायिनौ ||३१||
मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम् ||३१||
इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ |
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह ||३२||
ततः प्रमुदितं सर्वं बलमासीद्विशां पते |
पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे ||३३||
१२५
सञ्जय उवाच||
सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः |
अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये ||१||
अमन्यतार्जुनसमो योधो भुवि न विद्यते ||१||
न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च |
क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष ||२||
निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् |
अवधीत्सैन्धवं सङ्ख्ये नैनं कश्चिदवारयत् ||३||
सर्वथा हतमेवैतत्कौरवाणां महद्बलम् |
न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः ||४||
यमुपाश्रित्य सङ्ग्रामे कृतः शस्त्रसमुद्यमः |
स कर्णो निर्जितः सङ्ख्ये हतश्चैव जयद्रथः ||५||
परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान् |
स कर्णो निर्जितः सङ्ख्ये सैन्धवश्च निपातितः ||६||
यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् |
तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि ||७||
एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम् |
आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ ||८||
ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् |
परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ||९||
दुर्योधन उवाच||
पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम् |
कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् ||१०||
तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः |
पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति ||११||
अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना |
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ||१२||
अस्मद्विजयकामानां सुहृदामुपकारिणाम् |
गन्तास्मि कथमानृण्यं गतानां यमसादनम् ||१३||
ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः |
ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते ||१४||
सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम् |
नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे ||१५||
मम लुब्धस्य पापस्य तथा धर्मापचायिनः |
व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् ||१६||
कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः |
विवरं नाशकद्दातुं मम पार्थिवसंसदि ||१७||
सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् |
शयानं नाशकं त्रातुं भीष्ममायोधने हतम् ||१८||
तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् |
किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् ||१९||
जलसन्धं महेष्वासं पश्य सात्यकिना हतम् |
मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् ||२०||
काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च |
अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम ||२१||
व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः |
यतमानाः परं शक्त्या विजेतुमहितान्मम ||२२||
तेषां गत्वाहमानृण्यमद्य शक्त्या परन्तप |
तर्पयिष्यामि तानेव जलेन यमुनामनु ||२३||
सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर |
इष्टापूर्तेन च शपे वीर्येण च सुतैरपि ||२४||
निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह |
शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम् ||२५||
न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः |
श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज ||२६||
स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे |
भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनञ्जये ||२७||
अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः |
कर्णमेव तु पश्यामि सम्प्रत्यस्मज्जयैषिणम् ||२८||
यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः |
मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ||२९||
तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः |
मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः ||३०||
हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान् |
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||३१||
सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः |
हता मदर्थं सङ्ग्रामे युध्यमानाः किरीटिना ||३२||
न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् |
आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् ||३३||
१२६
धृतराष्ट्र उवाच||
सिन्धुराजे हते तात समरे सव्यसाचिना |
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ||१||
दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि |
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय ||२||
सञ्जय उवाच||
निष्टानको महानासीत्सैन्यानां तव भारत |
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ||३||
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे |
येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः ||४||
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः |
मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत ||५||
दुर्योधन किमेवं मां वाक्षरैरभिकृन्तसि |
अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् ||६||
एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे |
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ||७||
अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः |
तदैवाज्ञासिषमहं नेयमस्तीति भारती ||८||
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि |
तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे ||९||
यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि |
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः ||१०||
त एते घ्नन्ति नस्तात विशिखा जयचोदिताः |
यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे ||११||
तास्ता विलपतश्चापि विदुरस्य महात्मनः |
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ||१२||
तदिदं वर्तते घोरमागतं वैशसं महत् |
तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव ||१३||
यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम् |
अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् ||१४||
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया |
नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् ||१५||
यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह |
प्राव्राजयस्तदारण्ये रौरवाजिनवाससः ||१६||
पुत्राणामिव चैतेषां धर्ममाचरतां सदा |
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ||१७||
पाण्डवानामयं कोपस्त्वया शकुनिना सह |
आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि ||१८||
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः |
क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः ||१९||
यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम् |
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ||२०||
कथं त्वयि च कर्णे च कृपे शल्ये च जीवति |
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ||२१||
यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते |
सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः ||२२||
मय्येव हि विशेषेण तथा दुर्योधन त्वयि |
आशंसत परित्राणमर्जुनात्स महीपतिः ||२३||
ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् |
न किञ्चिदनुपश्यामि जीवितत्राणमात्मनः ||२४||
मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे |
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ||२५||
तन्मा किमभितप्यन्तं वाक्षरैरभिकृन्तसि |
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ||२६||
सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः |
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ||२७||
मध्ये महारथानां च यत्राहन्यत सैन्धवः |
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ||२८||
कृप एव च दुर्धर्षो यदि जीवति पार्थिव |
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ||२९||
यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै |
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ||३०||
अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः ||३०||
न ते वसुन्धरास्तीति तदहं चिन्तये नृप |
इमानि पाण्डवानां च सृञ्जयानां च भारत ||३१||
अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष ||३१||
नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम् |
कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव ||३२||
राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे |
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ||३३||
यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय |
आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव ||३४||
धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् |
धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः ||३५||
चक्षुर्मनोभ्यां सन्तोष्या विप्राः सेव्याश्च शक्तितः |
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ||३६||
एष त्वहमनीकानि प्रविशाम्यरिसूदन |
रणाय महते राजंस्त्वया वाक्षल्यपीडितः ||३७||
त्वं च दुर्योधन बलं यदि शक्नोषि धारय |
रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः ||३८||
एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान् |
मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ||३९||
१२७
सञ्जय उवाच||
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः |
अमर्षवशमापन्नो युद्धायैव मनो दधे ||१||
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव |
पश्य कृष्णसहायेन पाण्डवेन किरीटिना ||२||
आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् ||२||
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः |
मिषतां योधमुख्यानां सैन्धवो विनिपातितः ||३||
पश्य राधेय राजानः पृथिव्यां प्रवरा युधि |
पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः ||४||
मम व्यायच्छमानस्य समरे शत्रुसूदन |
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ||५||
कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः |
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ||६||
प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः |
ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन ||७||
अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परन्तपः |
प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम ||८||
यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति |
सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः ||९||
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति |
मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ||१०||
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि |
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् ||११||
कर्ण उवाच||
आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः |
अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे ||१२||
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः |
दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ||१३||
ततो नो युध्यमानानां परं शक्त्या सुयोधन |
सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् ||१४||
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे |
हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः ||१५||
सततं चेष्टमानानां निकृत्या विक्रमेण च ||१५||
दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् |
कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते ||१६||
यत्कर्तव्यं मनुष्येण व्यवसायवता सता |
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ||१७||
निकृत्या निकृताः पार्था विषयोगैश्च भारत |
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ||१८||
राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् |
यत्नेन च कृतं यत्ते दैवेन विनिपातितम् ||१९||
युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम् |
यततस्तव तेषां च दैवं मार्गेण यास्यति ||२०||
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् |
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ||२१||
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा |
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि ||२२||
बहूनि तव सैन्यानि योधाश्च बहवस्तथा |
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ||२३||
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः |
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ||२४||
सञ्जय उवाच||
एवं सम्भाषमाणानां बहु तत्तज्जनाधिप |
पाण्डवानामनीकानि समदृश्यन्त संयुगे ||२५||
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् |
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ||२६||
१२८
सञ्जय उवाच||
तदुदीर्णगजाश्वौघं बलं तव जनाधिप |
पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः ||१||
पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् |
यमराष्ट्राय महते परलोकाय दीक्षिताः ||२||
शूराः शूरैः समागम्य शरतोमरशक्तिभिः |
विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम् ||३||
रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम् |
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् ||४||
वारणाश्च महाराज समासाद्य परस्परम् |
विषाणैर्दारयामासुः सङ्क्रुद्धाश्च मदोत्कटाः ||५||
हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः |
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः ||६||
पत्तयश्च महाबाहो शतशः शस्त्रपाणयः |
अन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे ||७||
गोत्राणां नामधेयानां कुलानां चैव मारिष |
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ||८||
अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः |
प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत् ||९||
शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः |
न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च ||१०||
तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः |
दुर्योधनो महाराज व्यवगाहत तद्बलम् ||११||
सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः |
मर्तव्यमिति सञ्चिन्त्य प्राविशत्तु द्विषद्बलम् ||१२||
नादयन्रथघोषेण कम्पयन्निव मेदिनीम् |
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ||१३||
स संनिपातस्तुमुलस्तस्य तेषां च भारत |
अभवत्सर्वसैन्यानामभावकरणो महान् ||१४||
मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः |
तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः ||१५||
न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम् |
पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ||१६||
पर्यधावन्त पाञ्चाला वध्यमाना महात्मना |
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना ||१७||
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ||१७||
न तादृशं रणे कर्म कृतवन्तस्तु तावकाः |
यादृशं कृतवान्राजा पुत्रस्तव विशां पते ||१८||
पुत्रेण तव सा सेना पाण्डवी मथिता रणे |
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ||१९||
क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी |
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ||२०||
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत |
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् ||२१||
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः |
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ||२२||
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः |
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ||२३||
सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः |
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ||२४||
शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे |
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ||२५||
तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः |
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ||२६||
विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः |
मर्माणि भित्त्वा ते सर्वे सम्भग्नाः क्षितिमाविशन् ||२७||
ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम् |
वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम् ||२८||
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष |
शरं परमदुर्वारं प्रेषयामास संयुगे ||२९||
स तेन भृशसंविद्धो निषसाद रथोत्तमे ||२९||
ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान् |
हतो राजेति राजेन्द्र मुदितानां समन्ततः ||३०||
बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष |
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ||३१||
हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् |
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ||३२||
प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः |
तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् ||३३||
चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा ||३३||
ततो राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः |
तावकानां परेषां च समेतानां युयुत्सया ||३४||
१२९
धृतराष्ट्र उवाच||
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी |
उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम् ||१||
प्रविश्य विचरन्तं च रणे शूरमवस्थितम् |
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् ||२||
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः |
के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे ||३||
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः |
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ||४||
सञ्जय उवाच||
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च |
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ||५||
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः |
पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम् ||६||
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः |
धृष्टद्युम्नः शतानीको विराटश्च सकेकयः ||७||
मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि ||७||
द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः |
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ||८||
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः |
ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम् ||९||
प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः |
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ||१०||
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः |
सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम् ||११||
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ |
बभूव रजनी घोरा भीरूणां भयवर्धिनी ||१२||
योधानामशिवा रौद्रा राजन्नन्तकगामिनी |
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ||१३||
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः |
न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः ||१४||
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् |
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम् ||१५||
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् |
भेरीशब्देन महता मृदङ्गानां स्वनेन च ||१६||
गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः |
खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् ||१७||
ततः समभवद्युद्धं सन्ध्यायामतिदारुणम् |
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः ||१८||
तमसा चावृते लोके न प्राज्ञायत किञ्चन |
सैन्येन रजसा चैव समन्तादुत्थितेन ह ||१९||
नरस्याश्वस्य नागस्य समसज्जत शोणितम् |
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ||२०||
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते |
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ||२१||
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते |
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ||२२||
भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम् |
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात् ||२३||
ततः सा भारती सेना मणिहेमविभूषिता |
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ||२४||
गोमायुबडसङ्घुष्टा शक्तिध्वजसमाकुला |
दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ||२५||
ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः |
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः ||२६||
सा निशीथे महाराज सेनादृश्यत भारती |
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ||२७||
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः |
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ||२८||
ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः |
सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः ||२९||
दुर्योधनपुरोवातां रथनागबलाहकाम् |
वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम् ||३०||
द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् |
शरधारास्त्रपवनां भृशं शीतोष्णसङ्कुलाम् ||३१||
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम् |
तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः ||३२||
तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते |
भीरूणां त्रासजनने शूराणां हर्षवर्धने ||३३||
रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे |
द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ||३४||
ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः |
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ||३५||
१३०
धृतराष्ट्र उवाच||
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि |
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ||१||
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम |
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ||२||
निहते सैन्धवे वीरे भूरिश्रवसि चैव हि |
यदभ्यगान्महातेजाः पाञ्चालानपराजितः ||३||
किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने |
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ||४||
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् |
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः ||५||
के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे ||५||
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् |
शिशिरे कम्पमाना वै कृशा गाव इवाभिभो ||६||
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः |
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ||७||
सर्वेषु सैन्येषु च सङ्गतेषु; रात्रौ समेतेषु महारथेषु |
संलोड्यमानेषु पृथग्विधेषु; के वस्तदानीं मतिमन्त आसन् ||८||
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि |
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ||९||
कथमेषां तदा तत्र पार्थानामपलायिनाम् |
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय ||१०||
सञ्जय उवाच||
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे |
द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः ||११||
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् |
प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः ||१२||
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः |
तान्सर्वान्प्रेषयामास परलोकाय भारत ||१३||
प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम् |
अभ्यवर्तत सङ्क्रुद्धः शिबी राजन्प्रतापवान् ||१४||
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम् |
विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः ||१५||
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः |
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् ||१६||
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः |
अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ||१७||
कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे |
पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् ||१८||
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः |
विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा ||१९||
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः |
रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह ||२०||
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा |
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ||२१||
तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः |
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ||२२||
ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः |
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत् ||२३||
स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् ||२३||
तं निहत्य महाराज भीमसेनो महाबलः |
जयरातरथं प्राप्य मुहुः सिंह इवानदत् ||२४||
जयरातमथाक्षिप्य नदन्सव्येन पाणिना |
तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् ||२५||
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् |
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ||२६||
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः |
तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना ||२७||
ततस्तव सुता राजन्भीमस्य रथमाव्रजन् |
महता शरवर्षेण छादयन्तो वृकोदरम् ||२८||
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे |
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ||२९||
दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे ||२९||
तावेकरथमारूढौ भ्रातरौ परतापनौ |
सङ्ग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् ||३०||
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ||३०||
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ |
रथमेकं समारुह्य भीमं बाणैरविध्यताम् ||३१||
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च |
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ||३२||
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् |
पादप्रहारेण धरां प्रावेशयदरिंदमः ||३३||
ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ |
मुष्टिनाहत्य सङ्क्रुद्धो ममर्द चरणेन च ||३४||
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन् |
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति ||३५||
एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः |
विसञ्ज्ञावाहयन्वाहान्न च द्वौ सह धावतः ||३६||
ततो बले भृशलुलिते निशामुखे; सुपूजितो नृपवृषभैर्वृकोदरः |
महाबलः कमलविबुद्धलोचनो; युधिष्ठिरं नृपतिमपूजयद्बली ||३७||
ततो यमौ द्रुपदविराटकेकया; युधिष्ठिरश्चापि परां मुदं ययुः |
वृकोदरं भृशमभिपूजयंश्च ते; यथान्धके प्रतिनिहते हरं सुराः ||३८||
ततः सुतास्तव वरुणात्मजोपमा; रुषान्विताः सह गुरुणा महात्मना |
वृकोदरं सरथपदातिकुञ्जरा; युयुत्सवो भृशमभिपर्यवारयन् ||३९||
ततोऽभवत्तिमिरघनैरिवावृतं; महाभये भयदमतीव दारुणम् |
निशामुखे बडवृकगृध्रमोदनं; महात्मनां नृपवरयुद्धमद्भुतम् ||४०||
१३१
सञ्जय उवाच||
प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः |
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ||१||
क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः |
तं त्वं सात्वत सन्त्यज्य दस्युधर्मे कथं रतः ||२||
पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते |
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ||३||
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ |
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ||४||
कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे |
नृशंसं पतनीयं च तादृशं कृतवानसि ||५||
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च |
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ||६||
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् |
न हन्यां निरये घोरे पतेयं वृष्णिपांसन ||७||
एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महाबलः |
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ||८||
ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः |
सात्वतो भृशसङ्क्रुद्धः सोमदत्तमथाब्रवीत् ||९||
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः |
शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः ||१०||
त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम् |
तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः ||११||
यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा |
अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ||१२||
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा |
सकर्णसौबलः सङ्ख्ये विनाशं समुपेष्यसि ||१३||
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह |
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ||१४||
अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि ||१४||
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ |
प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ ||१५||
ततो गजसहस्रेण रथानामयुतेन च |
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ||१६||
शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः |
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः ||१७||
स्यालस्तव महाबाहुर्वज्रसंहननो युवा ||१७||
साग्रं शतसहस्रं तु हयानां तस्य धीमतः |
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ||१८||
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् |
तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः ||१९||
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ||१९||
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः |
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ||२०||
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः |
सात्यकिर्दशभिश्चैनमवधीत्कुरुपुङ्गवम् ||२१||
सोऽतिविद्धो बलवता समरे दृढधन्वना |
रथोपस्थं समासाद्य मुमोह गतचेतनः ||२२||
तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः |
अपोवाह रणाद्वीरं सोमदत्तं महारथम् ||२३||
तं विसञ्ज्ञं समालोक्य युयुधानशरार्दितम् |
द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि ||२४||
तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति |
भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारयत् ||२५||
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् |
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः ||२६||
विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता |
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ||२७||
लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् |
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ||२८||
शूलमुद्गरधारिण्या शैलपादपहस्तया |
रक्षसां घोररूपाणामक्षौहिण्या समावृतः ||२९||
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः |
युगान्तकालसमये दण्डहस्तमिवान्तकम् ||३०||
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी |
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ||३१||
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः |
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ||३२||
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः |
सन्ध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ ||३३||
आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः |
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ||३४||
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः |
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ||३५||
तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे |
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ||३६||
निहतायां तु मायायाममर्षी स घटोत्कचः |
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् ||३७||
भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः |
ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् ||३८||
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ||३८||
अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् |
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ||३९||
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु |
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ||४०||
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् |
अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया ||४१||
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः |
अभाग्यस्येव सङ्कल्पस्तन्मोघं न्यपतद्भुवि ||४२||
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् |
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ||४३||
घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः |
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ||४४||
पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा |
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः ||४५||
अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः |
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ||४६||
द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम् |
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ||४७||
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् |
विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् ||४८||
गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बसूनुना |
भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् ||४९||
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् |
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ||५०||
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि |
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ||५१||
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते |
महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः ||५२||
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् |
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ||५३||
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् |
द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः ||५४||
प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम् |
दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम् ||५५||
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि |
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ||५६||
अश्वत्थामोवाच||
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम |
न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम् ||५७||
कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि |
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ||५८||
सञ्जय उवाच||
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः |
अश्वत्थामानमायस्तो भैमसेनिरभाषत ||५९||
किमहं कातरो द्रौणे पृथग्जन इवाहवे |
भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले ||६०||
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् |
रक्षसामधिराजोऽहं दशग्रीवसमो बले ||६१||
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि |
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ||६२||
इत्युक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः |
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ||६३||
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः |
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ||६४||
शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् |
ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् ||६५||
अथास्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैः समाबभौ |
विभावरीमुखे व्योम खद्योतैरिव चित्रितम् ||६६||
निशाम्य निहतां मायां द्रौणिना रणमानिना |
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ||६७||
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः |
शूलप्रासासिमुसलजलप्रस्रवणो महान् ||६८||
तमञ्जनचयप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् |
प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न चुक्षुभे ||६९||
ततः स्मयन्निव द्रौणिर्वज्रमस्त्रमुदीरयत् |
स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत ||७०||
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि |
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे ||७१||
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः |
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ||७२||
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः |
शतं रथसहस्राणां जघान द्विपदां वरः ||७३||
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् |
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ||७४||
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः |
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि ||७५||
विवृतास्यशिरोग्रीवैर्हैडिम्बानुचरैः सह |
पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः ||७६||
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः |
महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ||७७||
उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः |
विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ||७८||
तिष्ठ दुर्योधनाद्य त्वं न कार्यः सम्भ्रमस्त्वया |
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ||७९||
निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः |
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ||८०||
दुर्योधन उवाच||
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः |
अस्मासु च परा भक्तिस्तव गौतमिनन्दन ||८१||
सञ्जय उवाच||
अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् |
वृतः शतसहस्रेण रथानां रणशोभिनाम् ||८२||
षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनञ्जयम् |
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ||८३||
उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः |
दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः ||८४||
पुरञ्जयो दृढरथः पताकी हेमपङ्कजः |
शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः ||८५||
कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः |
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् ||८६||
जहि भीमं यमौ चोभौ धर्मराजं च मातुल |
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता ||८७||
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् |
जहि मातुल कौन्तेयानसुरानिव पावकिः ||८८||
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः |
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ||८९||
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे |
विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव ||९०||
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् |
जघानोरसि सङ्क्रुद्धो विषाग्निप्रतिमैर्दृढैः ||९१||
स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः |
चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ||९२||
भूयश्चाञ्जलिकेनास्य मार्गणेन महाप्रभम् |
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ||९३||
ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् |
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ||९४||
ततः शारद्वतीपुत्रः प्रेषयामास भारत |
सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति ||९५||
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् |
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ||९६||
विधम्य राक्षसान्बाणैः साश्वसूतरथान्विभुः |
ददाह भगवान्वह्निर्भूतानीव युगक्षये ||९७||
स दग्ध्वाक्षौहिणीं बाणैर्नैरृतान्रुरुचे भृशम् |
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ||९८||
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः |
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ||९९||
तेषु राजसहस्रेषु पाण्डवेयेषु भारत |
नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे ||१००||
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ||१००||
स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः |
तलं तलेन संहत्य संदश्य दशनच्छदम् ||१०१||
स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह ||१०१||
स ययौ घोररूपेण तेन जैत्रपताकिना |
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ||१०२||
स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः |
अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् ||१०३||
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः |
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ||१०४||
साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा |
विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा ||१०५||
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् |
यदवप्लुत्य जग्राह घोरां शङ्करनिर्मिताम् ||१०६||
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप |
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ||१०७||
धृष्टद्युम्नोऽप्यसम्भ्रान्तो मुमोचाशीविषोपमान् |
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ||१०८||
ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः |
तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान् ||१०९||
अतितीव्रमभूद्युद्धं तयोः पुरुषसिंहयोः |
योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ ||११०||
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः |
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत् ||१११||
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् |
अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् ||११२||
तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् |
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ||११३||
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् |
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ||११४||
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च |
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च ||११५||
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः |
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ||११६||
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः |
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ||११७||
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ |
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये ||११८||
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् |
छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ||११९||
कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् |
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ||१२०||
शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् |
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ||१२१||
केशशैवलकल्माषां भीरूणां कश्मलावहाम् |
नागेन्द्रहययोधानां शरीरव्ययसम्भवाम् ||१२२||
शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् |
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ||१२३||
प्रायादतिमहाघोरं यमक्षयमहोदधिम् |
निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत् ||१२४||
पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान् |
स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः ||१२५||
जघान सुरथं नाम द्रुपदस्य सुतं विभुः |
पुनः श्रुतञ्जयं नाम सुरथस्यानुजं रणे ||१२६||
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् |
श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् ||१२७||
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् |
शत्रुञ्जयं च बलिनं शक्रलोकं निनाय ह ||१२८||
जघान स पृषध्रं च चन्द्रदेवं च मानिनम् |
कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान् ||१२९||
अश्वत्थामा सुसङ्क्रुद्धः सन्धायोग्रमजिह्मगम् |
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ||१३०||
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ||१३०||
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः |
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ||१३१||
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः |
द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम् ||१३२||
तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप |
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह ||१३३||
पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत ||१३३||
अथ शरशतभिन्नकृत्तदेहै; र्हतपतितैः क्षणदाचरैः समन्तात् |
निधनमुपगतैर्मही कृताभू; द्गिरिशिखरैरिव दुर्गमातिरौद्रा ||१३४||
तं सिद्धगन्धर्वपिशाचसङ्घा; नागाः सुपर्णाः पितरो वयांसि |
रक्षोगणा भूतगणाश्च द्रौणि; मपूजयन्नप्सरसः सुराश्च ||१३५||
१३२
सञ्जय उवाच||
द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा |
द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ||१||
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः |
युयुधानश्च संयत्ता युद्धायैव मनो दधुः ||२||
सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे |
महता शरवर्षेण छादयामास सर्वतः ||३||
ततः समभवद्युद्धमतीव भयवर्धनम् |
त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् ||४||
दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् |
सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत ||५||
सात्वतस्त्वभिसङ्क्रुद्धः पुत्राधिभिरभिप्लुतम् |
वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् ||६||
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः |
शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः ||७||
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् |
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ||८||
सात्यकिश्चाग्निसङ्काशं मुमोच शरमुत्तमम् |
सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ||९||
युगपत्पेततुरथ घोरौ परिघमार्गणौ |
शरीरे सोमदत्तस्य स पपात महारथः ||१०||
व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् |
विसृजञ्शरवर्षाणि कालवर्षीव तोयदः ||११||
भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः |
पीडयन्वै महात्मानं विव्याध रणमूर्धनि ||१२||
प्रातिपीयस्तु सङ्क्रुद्धः शक्तिं भीमस्य वक्षसि |
निचखान महाबाहुः पुरंदर इवाशनिम् ||१३||
स तयाभिहतो भीमश्चकम्पे च मुमोह च |
प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह ||१४||
सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् |
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ||१५||
तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे |
पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः ||१६||
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् |
कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ||१७||
ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः |
जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली ||१८||
ततः सप्त रथान्वीरः स्यालानां तव भारत |
निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ||१९||
अमर्षयन्तो निहतं शतचन्द्रं महारथम् |
शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः ||२०||
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ||२०||
स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः |
जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान् ||२१||
तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ||२१||
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् |
मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ ||२२||
अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि |
प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः ||२३||
अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान् |
निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ||२४||
यौधेयारट्टराजन्यमद्रकाणां गणान्युधि |
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः ||२५||
हताहरत गृह्णीत विध्यत व्यवकृन्तत |
इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति ||२६||
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् |
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् ||२७||
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् |
विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ||२८||
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे |
वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च ||२९||
चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ||२९||
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः |
जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ||३०||
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः |
प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत ||३१||
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः ||३१||
पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथुलोहिताक्षः |
प्रादुश्चकारास्त्रमहीनतेजा; माहेन्द्रमन्यत्स जघान तेऽस्त्रे ||३२||
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः |
युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् ||३३||
ततो नाज्ञासिषं किञ्चिद्घोरेण तमसावृते |
सर्वभूतानि च परं त्रासं जग्मुर्महीपते ||३४||
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः |
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् ||३५||
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ |
द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ ||३६||
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् |
व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत ||३७||
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् |
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ||३८||
ततः किरीटी भीमश्च सहसा संन्यवर्तताम् |
महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव ||३९||
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः |
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ||४०||
तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः |
अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः ||४१||
ततः सा भारती सेना वध्यमाना किरीटिना |
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ||४२||
नाशक्यन्त महाराज योधा वारयितुं तदा ||४२||
१३३
सञ्जय उवाच||
उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम् |
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् ||१||
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल |
त्रायस्व समरे कर्ण सर्वान्योधान्महाबल ||२||
पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः |
वृतान्समन्तात्सङ्क्रुद्धैर्निःश्वसद्भिरिवोरगैः ||३||
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः |
शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः ||४||
कर्ण उवाच||
परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरः |
तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् ||५||
सत्यं ते प्रतिजानामि समाश्वसिहि भारत |
हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् ||६||
जयं ते प्रतिजानामि वासवस्येव पावकिः |
प्रियं तव मया कार्यमिति जीवामि पार्थिव ||७||
सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः |
तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् ||८||
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद |
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ||९||
मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् |
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् ||१०||
पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान् |
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् ||११||
सञ्जय उवाच||
एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् |
स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः ||१२||
शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः |
त्वया नाथेन राधेय वचसा यदि सिध्यति ||१३||
बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः |
न तु ते विक्रमः कश्चिद्दृश्यते बलमेव वा ||१४||
समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि |
सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन ||१५||
ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे |
तदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः ||१६||
विराटनगरे चापि समेताः सर्वकौरवाः |
पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ||१७||
एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे |
कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ||१८||
अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतज |
अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् ||१९||
गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम् |
निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते ||२०||
तावद्गर्जसि राधेय यावत्पार्थं न पश्यसि |
पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् ||२१||
त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि |
पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् ||२२||
बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः |
धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः ||२३||
एवं परुषितस्तेन तदा शारद्वतेन सः |
कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् ||२४||
शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः |
फलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव ||२५||
दोषमत्र न पश्यामि शूराणां रणमूर्धनि |
तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ||२६||
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति |
दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते ||२७||
व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन् |
गर्जामि यद्यहं विप्र तव किं तत्र नश्यति ||२८||
वृथा शूरा न गर्जन्ति सजला इव तोयदाः |
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः ||२९||
सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ |
उत्सहे तरसा जेतुं ततो गर्जामि गौतम ||३०||
पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः |
हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान् ||३१||
दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् ||३१||
कृप उवाच||
मनोरथप्रलापो मे न ग्राह्यस्तव सूतज |
यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् ||३२||
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ |
देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् ||३३||
दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ ||३३||
ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः |
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः ||३४||
धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः ||३४||
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः |
गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः ||३५||
सम्बन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः |
धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः ||३६||
चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः |
वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः ||३७||
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् |
येषामर्थाय संयत्तो मत्स्यराजः सहानुगः ||३८||
शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः |
बलानीको जयानीको जयाश्वो रथवाहनः ||३९||
चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः |
यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः ||४०||
येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः ||४०||
कामं खलु जगत्सर्वं सदेवासुरमानवम् |
सयक्षराक्षसगणं सभूतभुजगद्विपम् ||४१||
निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ ||४१||
युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा |
अप्रमेयबलः शौरिर्येषामर्थे च दंशितः ||४२||
कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् ||४२||
महानपनयस्त्वेष तव नित्यं हि सूतज |
यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह ||४३||
सञ्जय उवाच||
एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ |
अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् ||४४||
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः |
एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै ||४५||
अजय्याश्च रणे पार्था देवैरपि सवासवैः |
सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः ||४६||
तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया ||४६||
ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज |
एतया निहनिष्यामि सव्यसाचिनमाहवे ||४७||
हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः |
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन ||४८||
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा |
अयत्नात्कौरवेयस्य वशे स्थास्यति गौतम ||४९||
सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः |
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम ||५०||
त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे |
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे ||५१||
यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विज |
ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते ||५२||
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे |
भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते ||५३||
अत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज ||५३||
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः |
दुःशासनो वृषसेनो मद्रराजस्त्वमेव च ||५४||
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः ||५४||
तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः |
जयेदेतान्रणे को नु शक्रतुल्यबलोऽप्यरिः ||५५||
शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः |
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि ||५६||
एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः |
जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः ||५७||
दैवायत्तमहं मन्ये जयं सुबलिनामपि |
यत्र भीष्मो महाबाहुः शेते शरशताचितः ||५८||
विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः |
भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः ||५९||
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् |
एते चान्ये च राजानो देवैरपि सुदुर्जयाः ||६०||
निहताः समरे शूराः पाण्डवैर्बलवत्तराः |
किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम ||६१||
यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज |
तेषामपि हताः शूराः शतशोऽथ सहस्रशः ||६२||
क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह |
प्रभावं नात्र पश्यामि पाण्डवानां कथञ्चन ||६३||
यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम |
यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे ||६४||
दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः ||६४||
१३४
सञ्जय उवाच||
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् |
खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ||१||
अश्वत्थामोवाच||
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम |
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ||२||
सञ्जय उवाच||
तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् |
न्यवारयन्महाराज कृपश्च द्विपदां वरः ||३||
कर्ण उवाच||
शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः |
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ||४||
अश्वत्थामोवाच||
तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते |
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ||५||
दुर्योधन उवाच||
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद |
कोपः खलु न कर्तव्यः सूतपुत्रे कथञ्चन ||६||
त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले |
महत्कार्यं समायत्तं प्रसीद द्विजसत्तम ||७||
एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः |
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ||८||
सञ्जय उवाच||
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् |
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव ||९||
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ||९||
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः |
संरब्धस्य महाराज सिंहनादविनादितम् ||१०||
ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः |
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ||११||
अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे |
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ||१२||
अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन् |
हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ||१३||
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता |
अत्यन्तवैरी पार्थानां सततं पापपूरुषः ||१४||
एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः |
हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ||१५||
महता शरवर्षेण छादयन्तो महारथाः |
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ||१६||
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् |
न विव्यथे सूतपुत्रो न च त्रासमगच्छत ||१७||
दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम् |
पिप्रीषुस्तव पुत्राणां सङ्ग्रामेष्वपराजितः ||१८||
सायकौघेन बलवान्क्षिप्रकारी महाबलः |
वारयामास तत्सैन्यं समन्ताद्भरतर्षभ ||१९||
ततस्तु शरवर्षेण पार्थिवास्तमवारयन् |
धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः ||२०||
अयोधयन्त राधेयं शक्रं दैत्यगणा इव ||२०||
शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् |
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ||२१||
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् |
यथा देवासुरे युद्धे शक्रस्य सह दानवैः ||२२||
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् |
यदेनं समरे यत्ता नाप्नुवन्त परे युधि ||२३||
निवार्य च शरौघांस्तान्पार्थिवानां महारथः |
युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च ||२४||
आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् ||२४||
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः |
बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ||२५||
हयानां वध्यमानानां गजानां रथिनां तथा |
तत्र तत्राभ्यवेक्षामः सङ्घान्कर्णेन पातितान् ||२६||
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः |
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ||२७||
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः |
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ||२८||
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् |
अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह ||२९||
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः |
पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ||३०||
कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव ||३०||
दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता |
अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ||३१||
तद्यथा पश्यमानानां सूतपुत्रं महारथम् |
न हन्यात्पाण्डवः सङ्ख्ये तथा नीतिर्विधीयताम् ||३२||
ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः |
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया ||३३||
आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव |
प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् ||३४||
धृतराष्ट्र उवाच||
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् |
कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ||३५||
स ह्यस्पर्धत पार्थेन नित्यमेव महारथः |
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे ||३६||
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् |
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ||३७||
सञ्जय उवाच||
आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा |
असम्भ्रान्ततरः कर्णः पर्त्युदीयाद्धनञ्जयम् ||३८||
तमापतन्तं वेगेन वैकर्तनमजिह्मगैः |
वारयामास तेजस्वी पाण्डवः शत्रुतापनः ||३९||
तं कर्णः शरजालेन छादयामास मारिष |
विव्याध च सुसङ्क्रुद्धः शरैस्त्रिभिरजिह्मगैः ||४०||
तस्य तल्लाघवं पार्थो नामृष्यत महाबलः |
तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ||४१||
प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः |
विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ||४२||
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव |
तस्य विद्धस्य वेगेन कराच्चापं पपात ह ||४३||
पुनरादाय तच्चापं निमेषार्धान्महाबलः |
छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ||४४||
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत |
व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः ||४५||
तौ परस्परमासाद्य शरवर्षेण पार्थिव |
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ||४६||
तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे |
क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव ||४७||
ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् |
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः ||४८||
अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् |
सारथेश्च शिरः कायादहरच्छत्रुतापनः ||४९||
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् |
विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ||५०||
हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः |
आरुरोह रथं तूर्णं कृपस्य शरपीडितः ||५१||
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ |
धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ||५२||
द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप |
निवर्तयामास तदा वाक्यं चेदमुवाच ह ||५३||
अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः |
एष पार्थवधायाहं स्वयं गच्छामि संयुगे ||५४||
अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ||५४||
अद्य मे युध्यमानस्य सह गाण्डीवधन्वना |
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ||५५||
अद्य मद्बाणजालानि विमुक्तानि सहस्रशः |
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ||५६||
अद्य बाणमयं वर्षं सृजतो मम धन्विनः |
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ||५७||
जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः |
तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ||५८||
न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति |
यथा वेलां समासाद्य सागरो मकरालयः ||५९||
इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः |
फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः ||६०||
तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा |
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ||६१||
एष राजा महाबाहुरमर्षी क्रोधमूर्छितः |
पतङ्गवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ||६२||
यावन्नः पश्यमानानां प्राणान्पार्थेन सङ्गतः |
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ||६३||
यावत्फल्गुनबाणानां गोचरं नाधिगच्छति |
कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् ||६४||
यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसंनिभैः |
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ||६५||
अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद |
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ||६६||
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना |
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ||६७||
मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः |
दुर्योधनमिदं वाक्यं त्वरितं समभाषत ||६८||
मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि |
मामनादृत्य कौरव्य तव नित्यं हितैषिणम् ||६९||
न हि ते सम्भ्रमः कार्यः पार्थस्य विजयं प्रति |
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ||७०||
दुर्योधन उवाच||
आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति |
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम ||७१||
मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि |
धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् ||७२||
धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः |
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ||७३||
को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि |
शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ||७४||
अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् |
तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ ||७५||
पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् |
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ||७६||
एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः |
मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् ||७७||
तान्वारय महाबाहो केकयांश्च नरोत्तम |
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ||७८||
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष |
त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति ||७९||
करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत |
एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा ||८०||
न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः |
किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम ||८१||
१३५
सञ्जय उवाच||
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः |
प्रत्युवाच महाबाहो यथा वदसि कौरव ||१||
प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे |
तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह ||२||
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् ||२||
अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च |
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम ||३||
ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह |
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे ||४||
युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युयुत्सताम् |
तेजस्तु तेज आसाद्य प्रशमं याति भारत ||५||
अशक्या तरसा जेतुं पाण्डवानामनीकिनी |
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते ||६||
आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः |
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत ||७||
त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव |
सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे ||८||
अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः |
एष गच्छामि सङ्ग्रामं त्वत्कृते कुरुनन्दन ||९||
योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् |
पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा ||१०||
पाण्डवेयैश्च सङ्ग्रामे त्वत्प्रियार्थमरिंदम ||१०||
अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा |
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः ||११||
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् |
अश्वत्थाममयं लोकं मंस्यते सह सोमकैः ||१२||
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः |
दृष्ट्वा विनिहतान्सङ्ख्ये पाञ्चालान्सोमकैः सह ||१३||
ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत |
न हि ते वीर मुच्येरन्मद्बाह्वन्तरमागताः ||१४||
एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव |
अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः ||१५||
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः ||१५||
ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः |
प्रहरध्वमितः सर्वे मम गात्रे महारथाः ||१६||
स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् ||१६||
एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन् |
द्रौणिं प्रति महाराज जलं जलधरा इव ||१७||
तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् |
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो ||१८||
ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा |
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश ||१९||
तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् |
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि ||२०||
ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् |
वृतः शतेन शूराणां रथानामनिवर्तिनाम् ||२१||
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः |
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् ||२२||
आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव |
समागच्छ मया सार्धं यदि शूरोऽसि संयुगे ||२३||
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः ||२३||
ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् |
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ ||२४||
ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः |
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः ||२५||
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् ||२५||
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः |
मानी द्रौणिरसम्भ्रान्तो बाणपाणिरभाषत ||२६||
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय |
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ||२७||
द्रौणिरेवमथाभाष्य पार्षतं परवीरहा |
छादयामास बाणौघैः समन्ताल्लघुहस्तवत् ||२८||
स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः |
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा ||२९||
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च |
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते ||३०||
ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे ||३०||
इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते |
निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे ||३१||
नेष्यामि मृत्युलोकायेत्येवं मे मनसि स्थितम् ||३१||
यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च |
तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे ||३२||
यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः |
स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम ||३३||
इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः |
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ||३४||
निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत |
छादयामास च शरैर्निःश्वसन्पन्नगो यथा ||३५||
स छाद्यमानः समरे द्रौणिना राजसत्तम |
सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः ||३६||
नाकम्पत महाबाहुः स्वधैर्यं समुपाश्रितः |
सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह ||३७||
तौ पुनः संन्यवर्तेतां प्राणद्यूतपरे रणे |
निवारयन्तौ बाणौघैः परस्परममर्षिणौ ||३८||
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः ||३८||
द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् |
दृष्ट्वा सम्पूजयामासुः सिद्धचारणवातिकाः ||३९||
शरौघैः पूरयन्तौ तावाकाशं प्रदिशस्तथा |
अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः ||४०||
नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ |
परस्परवधे यत्तौ परस्परजयैषिणौ ||४१||
अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च |
सम्पूज्यमानौ समरे योधमुख्यैः सहस्रशः ||४२||
तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव |
उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत ||४३||
सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष |
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः ||४४||
तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने |
मुहूर्तमिव तद्युद्धं समरूपं तदाभवत् ||४५||
ततो द्रौणिर्महाराज पार्षतस्य महात्मनः |
ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी ||४६||
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे ||४६||
पाञ्चालांश्चैव तान्सर्वान्बाणैः संनतपर्वभिः |
व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः ||४७||
ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ |
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे ||४८||
शतेन च शतं हत्वा पाञ्चालानां महारथः |
त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् ||४९||
द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः |
नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः ||५०||
ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः |
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः ||५१||
स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः |
ननाद सुमहानादं तपान्ते जलदो यथा ||५२||
स निहत्य बहूञ्शूरानश्वत्थामा व्यरोचत |
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ||५३||
सम्पूज्यमानो युधि कौरवेयै; र्विजित्य सङ्ख्येऽरिगणान्सहस्रशः |
व्यरोचत द्रोणसुतः प्रतापवा; न्यथा सुरेन्द्रोऽरिगणान्निहत्य ||५४||
१३६
सञ्जय उवाच||
ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः |
द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् ||१||
ततो दुर्योधनो राजा भारद्वाजेन संवृतः |
अभ्ययात्पाण्डवान्सङ्ख्ये ततो युद्धमवर्तत ||२||
घोररूपं महाराज भीरूणां भयवर्धनम् ||२||
अम्बष्ठान्मालवान्वङ्गाञ्शिबींस्त्रैगर्तकानपि |
प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो युधिष्ठिरः ||३||
अभीषाहाञ्शूरसेनान्क्षत्रियान्युद्धदुर्मदान् |
निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् ||४||
यौधेयारट्टराजन्यान्मद्रकांश्च गणान्युधि |
प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः ||५||
प्रगाढमञ्जोगतिभिर्नाराचैरभिपीडिताः |
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ||६||
निकृत्तैर्हस्तिहस्तैश्च लुठमानैस्ततस्ततः |
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ||७||
क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ |
द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये ||८||
हत प्रहरताभीता विध्यत व्यवकृन्तत |
इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति ||९||
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे |
व्यधमत्तान्यथा वायुर्मेघानिव दुरत्ययः ||१०||
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् |
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ||११||
ततः किरीटी भीमश्च सहसा संन्यवर्तताम् |
महता रथवंशेन परिगृह्य बलं तव ||१२||
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः |
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ||१३||
तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महारथाः |
अन्वगच्छन्महाराज मत्स्याश्च सह सोमकैः ||१४||
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः |
महत्या सेनया सार्धं जग्मुर्द्रोणरथं प्रति ||१५||
ततः सा भरती सेना वध्यमाना किरीटिना |
तमसा निद्रया चैव पुनरेव व्यदीर्यत ||१६||
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च |
न शक्यन्ते महाराज योधा वारयितुं तदा ||१७||
सा पाण्डुपुत्रस्य शरैर्दार्यमाणा महाचमूः |
तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी ||१८||
उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः |
प्राद्रवन्त महाराज भयाविष्टाः समन्ततः ||१९||
१३७
सञ्जय उवाच||
सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः |
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह ||१||
न ह्यहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम् |
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम ||२||
ततः सम्प्रेषयद्यन्ता सैन्धवांस्तान्महाजवान् |
तुरङ्गमाञ्शङ्खवर्णान्सर्वशब्दातिगान्रणे ||३||
तेऽवहन्युयुधानं तु मनोमारुतरंहसः |
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् ||४||
तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे |
सोमदत्तो महाबाहुरसम्भ्रान्तोऽभ्यवर्तत ||५||
विमुञ्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान् |
छादयामास शैनेयं जलदो भास्करं यथा ||६||
असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम् |
छादयामास बाणौघैः समन्ताद्भरतर्षभ ||७||
सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् |
सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः ||८||
तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ |
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ ||९||
रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ |
परस्परमवेक्षेतां दहन्ताविव लोचनैः ||१०||
रथमण्डलमार्गेषु चरन्तावरिमर्दनौ |
घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्बुदौ ||११||
शरसम्भिन्नगात्रौ तौ सर्वतः शकलीकृतौ |
श्वाविधाविव राजेन्द्र व्यदृष्येतां शरक्षतौ ||१२||
सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यरोचताम् |
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती ||१३||
सम्प्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ |
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ ||१४||
ततो युधि महाराज सोमदत्तो महारथः |
अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः ||१५||
अथैनं पञ्चविंशत्या सायकानां समार्पयत् |
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः ||१६||
अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् |
पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत ||१७||
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् |
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव ||१८||
सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम् |
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् ||१९||
सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः |
धनुश्चिच्छेद समरे क्षुरप्रेण शितेन ह ||२०||
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् |
आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम् ||२१||
अथान्यद्धनुरादाय सोमदत्तो महारथः |
सात्यकिं छादयामास शरवृष्ट्या महाबलः ||२२||
सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः |
सात्यकिं चेषुजालेन सोमदत्तो अपीडयत् ||२३||
दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् |
सोमदत्तोऽप्यसम्भ्रान्तः शैनेयमवधीच्छरैः ||२४||
ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम् |
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि ||२५||
तमापतन्तं वेगेन परिघं घोरदर्शनम् |
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः ||२६||
स पपात द्विधा छिन्न आयसः परिघो महान् |
महीधरस्येव महच्छिखरं वज्रदारितम् ||२७||
ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे |
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः ||२८||
चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान् |
समीपं प्रेषयामास प्रेतराजस्य भारत ||२९||
सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा |
जहार रथशार्दूलः प्रहसञ्शिनिपुङ्गवः ||३०||
ततः शरं महाघोरं ज्वलन्तमिव पावकम् |
मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम् ||३१||
स विमुक्तो बलवता शैनेयेन शरोत्तमः |
घोरस्तस्योरसि विभो निपपाताशु भारत ||३२||
सोऽतिविद्धो बलवता सात्वतेन महारथः |
सोमदत्तो महाबाहुर्निपपात ममार च ||३३||
तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः |
महता शरवर्षेण युयुधानमुपाद्रवन् ||३४||
छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः |
महत्या सेनया सार्धं द्रोणानीकमुपाद्रवत् ||३५||
ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् |
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः ||३६||
सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् |
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः ||३७||
ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः |
सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन् ||३८||
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च ||३८||
स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः |
अन्यदादत्त वेगेन कार्मुकं समरे दृढम् ||३९||
ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः |
साश्वसूतध्वजरथं तदद्भुतमिवाभवत् ||४०||
ततो मुहूर्तं व्यथितः शरघातप्रपीडितः |
निषसाद रथोपस्थे द्रोणो भरतसत्तम ||४१||
प्रतिलभ्य ततः सञ्ज्ञां मुहूर्ताद्द्विजसत्तमः |
क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत् ||४२||
असम्भ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् |
तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत ||४३||
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् |
युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु ||४४||
उपारमस्व युद्धाय द्रोणाद्भरतसत्तम |
गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे ||४५||
नानुरूपमहं मन्ये युद्धमस्य त्वया सह |
योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति ||४६||
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः |
भीमश्च रथशार्दूलो युध्यते कौरवैः सह ||४७||
वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः |
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम् ||४८||
प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः |
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः ||४९||
रथघोषेण महता नादयन्वसुधातलम् |
पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश ||५०||
भीमस्य निघ्नतः शत्रून्पार्ष्णिं जग्राह पाण्डवः |
द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे ||५१||
१३८
सञ्जय उवाच||
वर्तमाने तथा युद्धे घोररूपे भयावहे |
तमसा संवृते लोके रजसा च महीपते ||१||
नापश्यन्त रणे योधाः परस्परमवस्थिताः ||१||
अनुमानेन सञ्ज्ञाभिर्युद्धं तद्ववृते महत् |
नरनागाश्वमथनं परमं लोमहर्षणम् ||२||
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः |
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ||३||
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः |
तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः ||४||
ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः |
अहन्यन्त महाराज धावमानाश्च संयुगे ||५||
महारथसहस्राणि जघ्नुरन्योन्यमाहवे |
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते ||६||
ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत |
व्यमुह्यन्त रणे तत्र तमसा संवृते सति ||७||
धृतराष्ट्र उवाच||
तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् |
अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा ||८||
कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः |
बभूव लोके तमसा तथा सञ्जय संवृते ||९||
सञ्जय उवाच||
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै |
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ||१०||
द्रोणः पुरस्ताज्जघने तु शल्य; स्तथा द्रौणिः पार्श्वतः सौबलश्च |
स्वयं तु सर्वाणि बलानि राज; न्राजाभ्ययाद्गोपयन्वै निशायाम् ||११||
उवाच सर्वांश्च पदातिसङ्घा; न्दुर्योधनः पार्थिव सान्त्वपूर्वम् |
उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ||१२||
ते चोदिताः पार्थिवसत्तमेन; ततः प्रहृष्टा जगृहुः प्रदीपान् |
सा भूय एव ध्वजिनी विभक्ता; व्यरोचताग्निप्रभया निशायाम् ||१३||
महाधनैराभरणैश्च दिव्यैः; शस्त्रैः प्रदीप्तैरभिसम्पतद्भिः |
क्षणेन सर्वे विहिताः प्रदीपा; व्यदीपयंश्च ध्वजिनीं तदाशु ||१४||
सर्वास्तु सेना व्यतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः |
प्रकाश्यमाना ददृशुर्निशायां; यथान्तरिक्षे जलदास्तडिद्भिः ||१५||
प्रकाशितायां तु तथा ध्वजिन्यां; द्रोणोऽग्निकल्पः प्रतपन्समन्तात् |
रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली ||१६||
जाम्बूनदेष्वाभरणेषु चैव; निष्केषु शुद्धेषु शरावरेषु |
पीतेषु शस्त्रेषु च पावकस्य; प्रतिप्रभास्तत्र ततो बभूवुः ||१७||
गदाश्च शैक्याः परिघाश्च शुभ्रा; रथेषु शक्त्यश्च विवर्तमानाः |
प्रतिप्रभा रश्मिभिराजमीढ; पुनः पुनः सञ्जनयन्ति दीप्ताः ||१८||
छत्राणि बालव्यजनानुषङ्गा; दीप्ता महोल्काश्च तथैव राजन् |
व्याघूर्णमानाश्च सुवर्णमाला; व्यायच्छतां तत्र तदा विरेजुः ||१९||
शस्त्रप्रभाभिश्च विराजमानं; दीपप्रभाभिश्च तदा बलं तत् |
प्रकाशितं चाभरणप्रभाभि; र्भृशं प्रकाशं नृपते बभूव ||२०||
पीतानि शस्त्राण्यसृगुक्षितानि; वीरावधूतानि तनुद्रुहाणि |
दीप्तां प्रभां प्राजनयन्त तत्र; तपात्यये विद्युदिवान्तरिक्षे ||२१||
प्रकम्पितानामभिघातवेगै; रभिघ्नतां चापततां जवेन |
वक्त्राण्यशोभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि ||२२||
महावने दाव इव प्रदीप्ते; यथा प्रभा भास्करस्यापि नश्येत् |
तथा तवासीद्ध्वजिनी प्रदीप्ता; महाभये भारत भीमरूपा ||२३||
तत्सम्प्रदीप्तं बलमस्मदीयं; निशाम्य पार्थास्त्वरितास्तथैव |
सर्वेषु सैन्येषु पदातिसङ्घा; नचोदयंस्तेऽथ चक्रुः प्रदीपान् ||२४||
गजे गजे सप्त कृताः प्रदीपा; रथे रथे चैव दश प्रदीपाः |
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये; ध्वजेषु चान्ये जघनेषु चान्ये ||२५||
सेनासु सर्वासु च पार्श्वतोऽन्ये; पश्चात्पुरस्ताच्च समन्ततश्च |
मध्ये तथान्ये ज्वलिताग्निहस्ताः; सेनाद्वयेऽपि स्म नरा विचेरुः ||२६||
सर्वेषु सैन्येषु पदातिसङ्घा; व्यामिश्रिता हस्तिरथाश्ववृन्दैः |
मध्ये तथान्ये ज्वलिताग्निहस्ता; व्यदीपयन्पाण्डुसुतस्य सेनाम् ||२७||
तेन प्रदीप्तेन तथा प्रदीप्तं; बलं तदासीद्बलवद्बलेन |
भाः कुर्वता भानुमता ग्रहेण; दिवाकरेणाग्निरिवाभितप्तः ||२८||
तयोः प्रभाः पृथिवीमन्तरिक्षं; सर्वा व्यतिक्रम्य दिशश्च वृद्धाः |
तेन प्रकाशेन भृशं प्रकाशं; बभूव तेषां तव चैव सैन्यम् ||२९||
तेन प्रकाशेन दिवङ्गमेन; सम्बोधिता देवगणाश्च राजन् |
गन्धर्वयक्षासुरसिद्धसङ्घाः; समागमन्नप्सरसश्च सर्वाः ||३०||
तद्देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश्च |
हतैश्च वीरैर्दिवमारुहद्भि; रायोधनं दिव्यकल्पं बभूव ||३१||
रथाश्वनागाकुलदीपदीप्तं; संरब्धयोधाहतविद्रुताश्वम् |
महद्बलं व्यूढरथाश्वनागं; सुरासुरव्यूहसमं बभूव ||३२||
तच्छक्तिसङ्घाकुलचण्डवातं; महारथाभ्रं रथवाजिघोषम् |
शस्त्रौघवर्षं रुधिराम्बुधारं; निशि प्रवृत्तं नरदेवयुद्धम् ||३३||
तस्मिन्महाग्निप्रतिमो महात्मा; सन्तापयन्पाण्डवान्विप्रमुख्यः |
गभस्तिभिर्मध्यगतो यथार्को; वर्षात्यये तद्वदभून्नरेन्द्र ||३४||
१३९
सञ्जय उवाच||
प्रकाशिते तथा लोके रजसा च तमोवृते |
समाजग्मुरथो वीराः परस्परवधैषिणः ||१||
ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः |
परस्परमुदैक्षन्त परस्परकृतागसः ||२||
प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः |
विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत ||३||
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत |
दह्यमानेव लोकानामभावे वै वसुन्धरा ||४||
प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः |
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः ||५||
असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् |
नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः ||६||
रथा रथवरैरेव समाजग्मुर्मुदान्विताः |
तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् ||७||
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् |
व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् ||८||
धृतराष्ट्र उवाच||
तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् |
अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा ||९||
किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने |
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ||१०||
के चैनं समरे वीरं प्रत्युद्ययुररिंदमम् |
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः ||११||
के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः |
के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे ||१२||
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः |
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् ||१३||
ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान् |
धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान् ||१४||
अव्यग्रानेव हि परान्कथयस्यपराजितान् |
हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि ||१५||
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ||१५||
सञ्जय उवाच||
द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम् |
दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत ||१६||
विकर्णं चित्रसेनं च महाबाहुं च कौरवम् |
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः ||१७||
द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः |
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा ||१८||
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः |
तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः ||१९||
आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः |
तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे ||२०||
द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी |
निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् ||२१||
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः |
द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात् ||२२||
पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम् |
यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः ||२३||
तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् |
स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान् ||२४||
सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे |
धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम् ||२५||
तथार्जुनं रणे कर्णो विजेष्यति महारथः |
भीमसेनमहं चापि युद्धे जेष्यामि दंशितः ||२६||
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति |
तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथाः ||२७||
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव |
व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे ||२८||
ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ |
उभयोः सेनयोर्घोरं विजयं प्रति काङ्क्षिणोः ||२९||
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः |
नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन् ||३०||
द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जयान् |
छादयामासतुः सङ्ख्ये शरैः संनतपर्वभिः ||३१||
पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष |
आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ||३२||
नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम् |
युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभयम् ||३३||
१४०
सञ्जय उवाच||
वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते |
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः ||१||
अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान् |
अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया ||२||
राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा |
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् ||३||
तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः |
यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे ||४||
कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत् |
द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् ||५||
शैनेयं शरवर्षाणि विकिरन्तं समन्ततः |
अभ्ययात्कौरवो राजन्भूरिः सङ्ग्राममूर्धनि ||६||
सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् |
कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् ||७||
भीमसेनमथायान्तं व्यादितास्यमिवान्तकम् |
स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत् ||८||
नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् |
शकुनिः सौबलो राजन्वारयामास सत्वरः ||९||
शिखण्डिनमथायान्तं रथेन रथिनां वरम् |
कृपो शारद्वतो राजन्वारयामास संयुगे ||१०||
प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः |
दुःशासनो महाराज यत्तो यत्तमवारयत् ||११||
भैमसेनिमथायान्तं मायाशतविशारदम् |
अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत् ||१२||
द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् |
वारयामास समरे द्रोणप्रेप्सुं महारथम् ||१३||
विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति |
मद्रराजः सुसङ्क्रुद्धो वारयामास भारत ||१४||
शतानीकमथायान्तं नाकुलिं रभसं रणे |
चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया ||१५||
अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् |
अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् ||१६||
तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे |
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् ||१७||
तथान्यान्पाण्डुपुत्राणां समायातान्महारथान् |
तावका रथिनो राजन्वारयामासुरोजसा ||१८||
गजारोहा गजैस्तूर्णं संनिपत्य महामृधे |
योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः ||१९||
निशीथे तुरगा राजन्नाद्रवन्तः परस्परम् |
समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः ||२०||
सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः |
समागच्छन्महाराज विनदन्तः पृथक्पृथक् ||२१||
नरास्तु बहवस्तत्र समाजग्मुः परस्परम् |
गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च सङ्घशः ||२२||
कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् |
वारयामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम् ||२३||
युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः |
पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत् ||२४||
कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष |
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ||२५||
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः |
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||२६||
माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष |
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः ||२७||
तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च |
प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान् ||२८||
ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् |
प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः ||२९||
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् |
विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः ||३०||
तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् |
चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः ||३१||
सा हेमचित्रा महती पाण्डवेन प्रवेरिता |
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् ||३२||
एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः |
हार्दिक्यं छादयामास शरैः संनतपर्वभिः ||३३||
ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी |
व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् ||३४||
ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे |
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे ||३५||
तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् |
प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः ||३६||
तमापतन्तं सहसा धर्मराजभुजच्युतम् |
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव ||३७||
ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् |
कवचं चास्य सङ्क्रुद्धः शरैस्तीक्ष्णैरदारयत् ||३८||
हार्दिक्यशरसञ्छिन्नं कवचं तन्महात्मनः |
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात् ||३९||
स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः |
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः ||४०||
कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् |
पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः ||४१||
१४१
सञ्जय उवाच||
भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् |
आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् ||१||
अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः |
विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् ||२||
तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् |
दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे ||३||
तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् |
क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके ||४||
तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा |
क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः ||५||
तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ |
मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् ||६||
ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव |
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः ||७||
अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः |
विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ||८||
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः |
धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत ||९||
स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशां पते |
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव ||१०||
छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः |
प्रजहार महावेगां शक्तिं तस्य महोरसि ||११||
स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् |
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ||१२||
तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः |
अभ्यधावत वेगेन शैनेयं प्रति संयुगे ||१३||
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः ||१३||
तमापतन्तं संरब्धं शैनेयस्य रथं प्रति |
घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः ||१४||
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि |
एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव ||१५||
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ||१५||
इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा |
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ||१६||
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः |
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ||१७||
शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः |
शातयामास समरे तरसा द्रौणिरुत्स्मयन् ||१८||
ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः |
समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिंदम ||१९||
स शरैराचितस्तेन राक्षसो रणमूर्धनि |
व्यकाशत महाराज श्वाविच्छललितो यथा ||२०||
ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् |
शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः ||२१||
क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः |
वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः ||२२||
तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् |
पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः ||२३||
सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः |
व्यधमत्स महातेजा महाभ्राणीव मारुतः ||२४||
ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् |
घोररूपो महाराज योधानां हर्षवर्धनः ||२५||
ततोऽस्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैः समन्ततः |
बभौ निशामुखे व्योम खद्योतैरिव संवृतम् ||२६||
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः |
प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् ||२७||
ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे |
विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव ||२८||
ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे |
जघानोरसि सङ्क्रुद्धः कालज्वलनसंनिभैः ||२९||
स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः |
चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः ||३०||
स मोहमनुसम्प्राप्तो ध्वजयष्टिं समाश्रितः ||३०||
ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप |
हतं स्म मेनिरे सर्वे तावकास्तं विशां पते ||३१||
तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे |
पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ||३२||
प्रतिलभ्य ततः सञ्ज्ञामश्वत्थामा महाबलः |
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ||३३||
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् |
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ||३४||
स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः |
विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते ||३५||
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् |
राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना ||३६||
दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात् |
द्रौणेः सकाशात्सम्भ्रान्तस्त्वपनिन्ये त्वरान्वितः ||३७||
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् |
ननाद सुमहानादं द्रोणपुत्रो महाबलः ||३८||
पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत |
वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः ||३९||
भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति |
स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ||४०||
तं भीमसेनो नवभिः शरैर्विव्याध मारिष |
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ||४१||
तौ सायकैरवच्छन्नावदृश्येतां रणाजिरे |
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ ||४२||
अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः |
पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत् ||४३||
तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः |
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् ||४४||
ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष |
चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम् ||४५||
तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् |
कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ||४६||
दुर्योधनस्तु सङ्क्रुद्धो भीमसेनस्य मारिष |
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत ||४७||
अथान्यद्धनुरादाय भीमसेनो महाबलः |
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः ||४८||
तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् |
द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा ||४९||
आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् |
तव पुत्रो महाराज जितकाशी मदोत्कटः ||५०||
स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः |
शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् ||५१||
अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः |
पश्यतः सर्वलोकस्य भीमस्य च महात्मनः ||५२||
ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् |
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति ||५३||
ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे |
सारथिं च गदा गुर्वी ममर्द भरतर्षभ ||५४||
पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् |
आप्लुतः सहसा यानं नन्दकस्य महात्मनः ||५५||
ततो भीमो हतं मत्वा तव पुत्रं महारथम् |
सिंहनादं महच्चक्रे तर्जयन्निव कौरवान् ||५६||
तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् |
ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः ||५७||
तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् |
भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः ||५८||
ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् |
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः ||५९||
पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशां पते |
सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया ||६०||
तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह |
घोरे तमसि मग्नानां निघ्नतामितरेतरम् ||६१||
१४२
सञ्जय उवाच||
सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते |
कर्णो वैकर्तनो युद्धे वारयामास भारत ||१||
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः |
पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः ||२||
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् |
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ||३||
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् |
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ||४||
तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः |
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ||५||
विरथः सहदेवस्तु खड्गं चर्म समाददे |
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ||६||
ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् |
प्रेषयामास समरे वैकर्तनरथं प्रति ||७||
तामापतन्तीं सहसा सहदेवप्रवेरिताम् |
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ||८||
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः |
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ||९||
ससम्भ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् |
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ||१०||
रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति ||१०||
तमापतन्तं सहसा कालचक्रमिवोद्यतम् |
शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः ||११||
तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना |
वार्यमाणश्च विशिखैः सहदेवो रणं जहौ ||१२||
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ |
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते ||१३||
मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह |
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ||१४||
अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः |
एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह ||१५||
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ||१५||
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः |
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव ||१६||
वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा |
कुन्त्याः स्मृत्वा वचो राजन्सत्यसन्धो महारथः ||१७||
सहदेवस्ततो राजन्विमनाः शरपीडितः |
कर्णवाक्षल्यतप्तश्च जीवितान्निरविद्यत ||१८||
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः |
जनमेजयस्य समरे त्वरायुक्तो महारथः ||१९||
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् |
मद्रराजः शरौघेण छादयामास धन्विनम् ||२०||
तयोः समभवद्युद्धं समरे दृढधन्विनोः |
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ||२१||
मद्रराजो महाराज विराटं वाहिनीपतिम् |
आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् ||२२||
प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः |
पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह ||२३||
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः |
सूतं ध्वजं च समरे रथोपस्थादपातयत् ||२४||
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |
तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् ||२५||
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् |
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ||२६||
शतानीकमथायान्तं मद्रराजो महामृधे |
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ||२७||
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः |
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ||२८||
ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः |
मद्रराजरथं तूर्णं छादयामास पत्रिभिः ||२९||
ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् |
आजघानोरसि दृढं विराटं वाहिनीपतिम् ||३०||
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् |
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ ||३१||
सारथिस्तमपोवाह समरे शरविक्षतम् ||३१||
ततः सा महती सेना प्राद्रवन्निशि भारत |
वध्यमाना शरशतैः शल्येनाहवशोभिना ||३२||
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ |
प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ||३३||
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः |
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ||३४||
तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः |
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् ||३५||
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ||३५||
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता |
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ||३६||
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः |
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ||३७||
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ||३७||
अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे |
द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ ||३८||
तमर्जुनः शतेनैव पत्रिणामभ्यताडयत् |
नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् ||३९||
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् |
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ||४०||
विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् ||४०||
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ |
पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् ||४१||
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ |
किरञ्शरगणान्राजन्नरवारणवाजिषु ||४२||
वध्यमाना महाराज पाण्डवेन यशस्विना |
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ||४३||
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना |
सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते ||४४||
१४३
सञ्जय उवाच||
शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव |
चित्रसेनस्तव सुतो वारयामास भारत ||१||
नाकुलिश्चित्रसेनं तु नाराचेनार्दयद्भृशम् |
स च तं प्रतिविव्याध दशभिर्निशितैः शरैः ||२||
चित्रसेनो महाराज शतानीकं पुनर्युधि |
नवभिर्निशितैर्बाणैराजघान स्तनान्तरे ||३||
नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः |
गात्रात्सञ्च्यावयामास तदद्भुतमिवाभवत् ||४||
सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप |
उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः ||५||
ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः |
धनुश्चैव महाराज यतमानस्य संयुगे ||६||
स छिन्नधन्वा समरे विवर्मा च महारथः |
धनुरन्यन्महाराज जग्राहारिविदारणम् ||७||
ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः |
विव्याध समरे क्रुद्धो भरतानां महारथः ||८||
शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष |
जघान चतुरो वाहान्सारथिं च नरोत्तमः ||९||
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः |
नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली ||१०||
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे |
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् ||११||
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः ||१२||
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् |
वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा ||१३||
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् |
षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ ||१४||
वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम् |
बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे ||१५||
तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे |
व्यभ्राजेतां महाराज श्वाविधौ शललैरिव ||१६||
रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ |
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ||१७||
तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ |
किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे ||१८||
वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः |
विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः ||१९||
ततः शरसहस्राणि विमुञ्चन्विबभौ तदा |
कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः ||२०||
ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् |
सम्प्राद्रवद्रणे राजन्निशीथे भैरवे सति ||२१||
प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः |
व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः ||२२||
तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा |
प्रावृट्काले महाराज विद्युद्भिरिव तोयदः ||२३||
ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः |
यथेन्द्रभयवित्रस्ता दानवास्तारकामये ||२४||
तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः |
व्यराजन्त महाराज प्रदीपैरवभासिताः ||२५||
तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत |
मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत ||२६||
तेषु राजसहस्रेषु तावकेषु परेषु च |
एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् ||२७||
स विजित्य रणे शूरान्सोमकानां महारथान् |
जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः ||२८||
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् |
दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः ||२९||
तयोः समागमो राजंश्चित्ररूपो बभूव ह |
व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव ||३०||
प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् |
दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत ||३१||
सोऽतिविद्धो बलवता पुत्रेण तव धन्विना |
विरराज महाबाहुः सशृङ्ग इव पर्वतः ||३२||
दुःशासनं तु समरे प्रतिविन्ध्यो महारथः |
नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः ||३३||
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् |
प्रतिविन्ध्यहयानुग्रैः पातयामास यच्छरैः ||३४||
सारथिं चास्य भल्लेन ध्वजं च समपातयत् |
रथं च शतशो राजन्व्यधमत्तस्य धन्विनः ||३५||
पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो |
चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः ||३६||
विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः |
अयोधयत्तव सुतं किरञ्शरशतान्बहून् ||३७||
क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत् |
अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत् ||३८||
तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः |
अन्ववर्तन्त वेगेन महत्या सेनया सह ||३९||
आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् |
धनुर्गृह्य महाराज विव्याध तनयं तव ||४०||
ततस्तु तावकाः सर्वे परिवार्य सुतं तव |
अभ्यवर्तन्त सङ्ग्रामे महत्या सेनया वृताः ||४१||
ततः प्रववृते युद्धं तव तेषां च भारत |
निशीथे दारुणे काले यमराष्ट्रविवर्धनम् ||४२||
१४४
सञ्जय उवाच||
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव |
अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ||१||
कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ |
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||२||
यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति |
तथैव नकुलो राजञ्शिक्षां संदर्शयन्युधि ||३||
तावुभौ समरे शूरौ शरकण्टकिनौ तदा |
व्यराजेतां महाराज कण्टकैरिव शाल्मली ||४||
सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ |
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् ||५||
स्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव |
कर्णिनैकेन विव्याध हृदये निशितेन ह ||६||
नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना |
निषसाद रथोपस्थे कश्मलं चैनमाविशत् ||७||
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम् |
ननाद शकुनी राजंस्तपान्ते जलदो यथा ||८||
प्रतिलभ्य ततः सञ्ज्ञां नकुलः पाण्डुनन्दनः |
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः ||९||
सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ |
पुनश्चैव शतेनैव नाराचानां स्तनान्तरे ||१०||
ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे |
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् ||११||
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् |
तं विसञ्ज्ञं निपतितं दृष्ट्वा स्यालं तवानघ ||१२||
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ||१२||
ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः |
निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः ||१३||
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह ||१३||
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः |
प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत ||१४||
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते |
कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः ||१५||
गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम् |
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ||१६||
तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः |
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव ||१७||
महद्युद्धं तयोरासीद्घोररूपं विशां पते |
यथा देवासुरे युद्धे शम्बरामरराजयोः ||१८||
शरजालावृतं व्योम चक्रतुस्तौ महारथौ |
प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः ||१९||
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् |
कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा ||२०||
शिखण्डी तु महाराज गौतमस्य महद्धनुः |
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ||२१||
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् |
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ||२२||
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः |
सापतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा ||२३||
अथान्यद्धनुरादाय गौतमो रथिनां वरः |
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् ||२४||
स छाद्यमानः समरे गौतमेन यशस्विना |
व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ||२५||
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि |
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ||२६||
विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम् |
पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ||२७||
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् |
महत्या सेनया सार्धं ततो युद्धमभूत्पुनः ||२८||
रथानां च रणे राजन्नन्योन्यमभिधावताम् |
बभूव तुमुलः शब्दो मेघानां नदतामिव ||२९||
द्रवतां सादिनां चैव गजानां च विशां पते |
अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ ||३०||
पत्तीनां द्रवतां चैव पदशब्देन मेदिनी |
अकम्पत महाराज भयत्रस्तेव चाङ्गना ||३१||
रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम् |
न्यगृह्णन्बहवो राजञ्शलभान्वायसा इव ||३२||
तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः |
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ||३३||
सादी सादिनमासाद्य पदाती च पदातिनम् |
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ||३४||
धावतां द्रवतां चैव पुनरावर्ततामपि |
बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि ||३५||
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु |
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ||३६||
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता |
दिवसप्रतिमा राजन्बभूव रणमूर्धनि ||३७||
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति |
तथा नष्टं तमो घोरं दीपैर्दीप्तैरलङ्कृतम् ||३८||
शस्त्राणां कवचानां च मणीनां च महात्मनाम् |
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ||३९||
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे |
अवधीत्समरे पुत्रं पिता भरतसत्तम ||४०||
पुत्रश्च पितरं मोहात्सखायं च सखा तथा |
सम्बन्धिनं च सम्बन्धी स्वस्रीयं चापि मातुलः ||४१||
स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् |
निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम् ||४२||
१४५
सञ्जय उवाच||
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे |
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत ||१||
संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः |
अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम् ||२||
धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया |
परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह ||३||
तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् |
पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे ||४||
बलार्णवौ ततस्तौ तु समेयातां निशामुखे |
वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव ||५||
ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः |
विव्याध हृदये तूर्णं सिंहनादं ननाद च ||६||
तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे |
चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम् ||७||
धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ |
उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम् ||८||
ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् |
आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया ||९||
विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा |
द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः ||१०||
स विसृष्टो बलवता शरो घोरो महामृधे |
भासयामास तत्सैन्यं दिवाकर इवोदितः ||११||
तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः |
स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः ||१२||
तं तु सायकमप्राप्तमाचार्यस्य रथं प्रति |
कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत् ||१३||
स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष |
निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः ||१४||
छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः |
धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः ||१५||
पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः |
शल्यश्च नवभिर्बाणैस्त्रिभिर्दुःशासनस्तथा ||१६||
दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः |
पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः ||१७||
स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे |
सर्वानसम्भ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः ||१८||
द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम् ||१८||
ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे |
विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः ||१९||
द्रुमसेनस्तु सङ्क्रुद्धो राजन्विव्याध पत्रिणा |
त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ||२०||
स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः |
स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि ||२१||
भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् |
उन्ममाथ शिरः कायाद्द्रुमसेनस्य वीर्यवान् ||२२||
तच्छिरो न्यपतद्भूमौ संदष्टौष्ठपुटं रणे |
महावातसमुद्धूतं पक्वं तालफलं यथा ||२३||
तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः |
राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः ||२४||
न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा |
निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः ||२५||
सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् |
अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम् ||२६||
दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड्रथर्षभाः |
पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया ||२७||
षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् |
मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि ||२८||
एतस्मिन्नेव काले तु दाशार्हो विकिरञ्शरान् |
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत ||२९||
तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् |
राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ||३०||
तं सात्यकिर्महाराज विव्याध दशभिः शरैः |
पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत् ||३१||
स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः |
आसीत्समागमो घोरो बलिवासवयोरिव ||३२||
त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः |
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत ||३३||
कम्पयन्निव घोषेण धनुषो वसुधां बली |
सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् ||३४||
विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि |
कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत ||३५||
तथैव युयुधानोऽपि वृष्णीनां प्रवरो रथः |
अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम् ||३६||
तावकाश्च महाराज कर्णपुत्रश्च दंशितः |
सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः ||३७||
अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो |
अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे ||३८||
तेन बाणेन निर्विद्धो वृषसेनो विशां पते |
न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् ||३९||
ततः कर्णो हतं मत्वा वृषसेनं महारथः |
पुत्रशोकाभिसन्तप्तः सात्यकिं प्रत्यपीडयत् ||४०||
पीड्यमानस्तु कर्णेन युयुधानो महारथः |
विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः ||४१||
स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः |
सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः ||४२||
तावन्ये धनुषी सज्ये कृत्वा शत्रुभयङ्करे |
युयुधानमविध्येतां समन्तान्निशितैः शरैः ||४३||
वर्तमाने तु सङ्ग्रामे तस्मिन्वीरवरक्षये |
अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः ||४४||
श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् |
सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः ||४५||
एष सर्वाञ्शिबीन्हत्वा मुख्यशश्च नरर्षभान् |
पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान् ||४६||
श्रूयते रथघोषश्च वासवस्येव नर्दतः |
करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः ||४७||
एषा विदीर्यते राजन्बहुधा भारती चमूः |
विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित् ||४८||
वातेनेव समुद्धूतमभ्रजालं विदीर्यते |
सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे ||४९||
द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः |
विद्धानां शतशो राजञ्श्रूयते निनदो महान् ||५०||
निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे ||५०||
हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान् |
शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति ||५१||
अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः |
इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् ||५२||
एष पाञ्चालराजस्य पुत्रो द्रोणेन सङ्गतः |
सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः ||५३||
सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम् |
असंशयं महाराज ध्रुवो नो विजयो भवेत् ||५४||
सौभद्रवदिमौ वीरौ परिवार्य महारथौ |
प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ ||५५||
सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत |
संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः ||५६||
तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः |
यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् ||५७||
ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् |
यथा तूर्णं व्रजत्येष परलोकाय माधवः ||५८||
कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् |
यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् ||५९||
वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् |
रथैश्च दशसाहस्रैर्वृतो याहि धनञ्जयम् ||६०||
दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः |
एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः ||६१||
जहि कृष्णौ महाबाहो धर्मराजं च मातुल |
नकुलं सहदेवं च भीमसेनं च भारत ||६२||
देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता |
जहि मातुल कौन्तेयानसुरानिव पावकिः ||६३||
एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः |
महत्या सेनया सार्धं तव पुत्रैस्तथा विभो ||६४||
प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् |
ततः प्रववृते युद्धं तावकानां परैः सह ||६५||
प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् |
बलेन महता युक्तः सूतपुत्रस्तु सात्वतम् ||६६||
अभ्ययात्त्वरितं युद्धे किरञ्शरशतान्बहून् |
तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन् ||६७||
महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत |
धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः ||६८||
१४६
सञ्जय उवाच||
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः |
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति ||१||
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः |
सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम् ||२||
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः |
सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् ||३||
तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् |
त्वरमाणा महावीर्या माधवस्य वधैषिणः ||४||
तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा |
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् ||५||
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः |
निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः ||६||
हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् |
क्षुरप्रैः पातयामास तावकानां स माधवः ||७||
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत |
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो ||८||
तेषां तु युयुधानेन युध्यतां युधि भारत |
बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् ||९||
तेन शब्देन महता पूरितासीद्वसुन्धरा |
रात्रिः समभवच्चैव तीव्ररूपा भयावहा ||१०||
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् |
श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् ||११||
सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः |
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः ||१२||
तेन सञ्चोद्यमानस्तु ततस्तांस्तुरगोत्तमान् |
सूतः सञ्चोदयामास युयुधानरथं प्रति ||१३||
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः |
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् ||१४||
ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः |
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत ||१५||
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः |
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः ||१६||
ततः समभवद्युद्धमाकुलं भरतर्षभ |
पाञ्चालानां च सर्वेषां भारतानां च दारुणम् ||१७||
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् |
सायकानामशीत्या तु विव्याधोरसि भारत ||१८||
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् |
सारथिं च रथात्तूर्णं पातयामास पत्रिणा ||१९||
हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते |
मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति ||२०||
शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत् |
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते ||२१||
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः |
चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष ||२२||
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः |
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ||२३||
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् |
द्रावयामास विशिखैर्निशामध्ये विशां पते ||२४||
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः |
रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः ||२५||
तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत् ||२५||
ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति |
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः ||२६||
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् |
प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् ||२७||
ततस्तु समरे शूरः शकुनिः सौबलस्तदा |
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव ||२८||
पुनश्चैव शतेनास्य संरुरोध महारथम् |
तमर्जुनस्तु विंशत्या विव्याध युधि भारत ||२९||
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत |
संवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः ||३०||
अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् ||३०||
भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः |
समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता ||३१||
स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः |
उलूकं त्रिभिराजघ्ने त्रिभिरेव महायसैः ||३२||
तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत् |
ननाद च महानादं पूरयन्वसुधातलम् ||३३||
अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् |
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ||३४||
ततो रथादवप्लुत्य सौबलो भरतर्षभ |
उलूकस्य रथं तूर्णमारुरोह विशां पते ||३५||
तावेकरथमारूढौ पितापुत्रौ महारथौ |
पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवोत्थितौ ||३६||
तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः |
विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः ||३७||
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः |
विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते ||३८||
तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि |
प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् ||३९||
उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे |
सम्भ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ||४०||
विजित्य समरे योधांस्तावकान्भरतर्षभ |
दध्मतुर्मुदितौ शङ्खौ वासुदेवधनञ्जयौ ||४१||
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः |
चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ||४२||
तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः |
आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ||४३||
धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः |
सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे ||४४||
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः |
व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः ||४५||
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष |
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ||४६||
उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी |
यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति ||४७||
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् |
अत्यराजत तेजस्वी शक्रो देवगणेष्विव ||४८||
अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ |
यमौ च युयुधानश्च पाण्डवश्च वृकोदरः ||४९||
जित्वा रथसहस्राणि तावकानां महारथाः |
सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः ||५०||
पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः |
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते ||५१||
१४७
सञ्जय उवाच||
विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः |
क्रोधेन महताविष्टः पुत्रस्तव विशां पते ||१||
अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् |
अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् ||२||
भवद्भ्यामिह सङ्ग्रामो क्रुद्धाभ्यां सम्प्रवर्तितः |
आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना ||३||
निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् |
भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः ||४||
यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि |
आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ ||५||
तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम् |
कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् ||६||
यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ |
युध्येतामनुरूपेण विक्रमेण सुविक्रमौ ||७||
वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते |
प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ ||८||
ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ |
शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे ||९||
तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः |
अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः ||१०||
अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम् |
अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः ||११||
कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः |
दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः ||१२||
एते कौरव सङ्क्रन्दे शैनेयं पर्यवारयन् ||१२||
दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् |
विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ||१३||
ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते |
रश्मिभिर्भास्करो राजंस्तमसामिव भारत ||१४||
द्रोणेन वध्यमानानां पाञ्चालानां विशां पते |
शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् ||१५||
पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् |
भागिनेयान्वयस्यांश्च तथा सम्बन्धिबान्धवान् ||१६||
उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः ||१६||
अपरे मोहिता मोहात्तमेवाभिमुखा ययुः |
पाण्डवानां रणे योधाः परलोकं तथापरे ||१७||
सा तथा पाण्डवी सेना वध्यमाना महात्मभिः |
निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ||१८||
पश्यतो भीमसेनस्य विजयस्याच्युतस्य च |
यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः ||१९||
तमसा संवृते लोके न प्राज्ञायत किञ्चन |
कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे ||२०||
द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ |
जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् ||२१||
पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः |
जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् ||२२||
द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी |
पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् ||२३||
एतयोः शरवर्षेण प्रभग्ना नो महारथाः |
वार्यमाणापि कौन्तेय पृतना नावतिष्ठते ||२४||
एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदायुधैः |
द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् ||२५||
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ |
उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम् ||२६||
एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम् ||२६||
वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः |
पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् ||२७||
एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः |
रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ ||२८||
एतेन सहितो युध्य पाञ्चालैश्च महारथैः |
आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन ||२९||
ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ |
द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि ||३०||
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् |
ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि ||३१||
स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान् |
यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः ||३२||
तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी |
युयुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षये ||३३||
रजसा तमसा चैव संवृते भृशदारुणे |
केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः ||३४||
अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः |
प्रहरद्भिर्महाराज स्वयंवर इवाहवे ||३५||
निःशब्दमासीत्सहसा पुनः शब्दो महानभूत् |
क्रुद्धानां युध्यमानानां जयतां जीयतामपि ||३६||
यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम |
तत्र तत्र स्म ते शूरा निपतन्ति पतङ्गवत् ||३७||
तथा संयुध्यमानानां विगाढाभून्महानिशा |
पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः ||३८||
१४८
सञ्जय उवाच||
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा |
आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः ||१||
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष |
पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत् ||२||
तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथौ |
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् ||३||
ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे |
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः ||४||
कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः |
सारथिं चास्य भल्लेन रथनीडादपातयत् ||५||
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः |
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् ||६||
विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः |
ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत ||७||
आरुरोह रथं चापि सहदेवस्य मारिष ||७||
कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत् |
शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः ||८||
लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान् |
अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान् ||९||
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः |
सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी ||१०||
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले |
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः ||११||
धावमानस्य योधस्य क्षुरप्रैः स महामृधे |
बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् ||१२||
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते |
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष ||१३||
नाज्ञासिषुर्धावमाना बहवश्च महारथाः |
सञ्छिन्नान्यात्मगात्राणि वाहनानि च संयुगे ||१४||
ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह |
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे ||१५||
अपि स्वं समरे योधं धावमानं विचेतसः |
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते ||१६||
तान्यनीकानि भग्नानि द्रवमाणानि भारत |
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान् ||१७||
अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः |
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना ||१८||
कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः |
द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः ||१९||
ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् |
अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत् ||२०||
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् |
निशीथे दारुणे काले तपन्तमिव भास्करम् ||२१||
कर्णसायकनुन्नानां क्रोशतामेष निस्वनः |
अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् ||२२||
यथा विसृजतश्चास्य संदधानस्य चाशुगान् |
पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् ||२३||
यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि |
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय ||२४||
एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत् |
भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् ||२५||
एवं गते प्राप्तकालं कर्णानीके पुनः पुनः |
भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी ||२६||
द्रोणसायकनुन्नानां भग्नानां मधुसूदन |
कर्णेन त्रास्यमानानामवस्थानं न विद्यते ||२७||
पश्यामि च तथा कर्णं विचरन्तमभीतवत् |
द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः ||२८||
नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि |
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः ||२९||
स भवानत्र यात्वाशु यत्र कर्णो महारथः |
अहमेनं वधिष्यामि मां वैष मधुसूदन ||३०||
वासुदेव उवाच||
पश्यामि कर्णं कौन्तेय देवराजमिवाहवे |
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ||३१||
नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनञ्जय |
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ||३२||
न तु तावदहं मन्ये प्राप्तकालं तवानघ |
समागमं महाबाहो सूतपुत्रेण संयुगे ||३३||
दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी |
त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च ||३४||
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः |
स हि भीमेन बलिना जातः सुरपराक्रमः ||३५||
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च |
सततं चानुरक्तो वो हितैषी च घटोत्कचः ||३६||
विजेष्यति रणे कर्णमिति मे नात्र संशयः ||३६||
सञ्जय उवाच||
एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः |
आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः ||३७||
कवची स शरी खड्गी सधन्वा च विशां पते |
अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम् ||३८||
अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम् ||३८||
ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम् |
अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव ||३९||
घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक |
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित् ||४०||
स भवान्मज्जमानानां बन्धूनां त्वं प्लवो यथा |
विविधानि तवास्त्राणि सन्ति माया च राक्षसी ||४१||
पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी |
काल्यमाना यथा गावः पालेन रणमूर्धनि ||४२||
एष कर्णो महेष्वासो मतिमान्दृढविक्रमः |
पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान् ||४३||
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः |
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा ||४४||
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः |
एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः ||४५||
एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे |
निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम ||४६||
स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः |
मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च ||४७||
एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः |
कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् ||४८||
तव ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः |
सङ्ग्रामे युध्यमानस्य सततं भीमनन्दन ||४९||
पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः |
मज्जतां धार्तराष्ट्रेषु भव पारं परन्तप ||५०||
रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः |
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ||५१||
जहि कर्णं महेष्वासं निशीथे मायया रणे |
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः ||५२||
केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् |
अभ्यभाषत कौरव्य घटोत्कचमरिंदमम् ||५३||
घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः |
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः ||५४||
स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि |
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः ||५५||
जहि कर्णं रणे शूरं सात्वतेन सहायवान् |
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् ||५६||
घटोत्कच उवाच||
अलमेवास्मि कर्णाय द्रोणायालं च सत्तम |
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् ||५७||
अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि |
यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ||५८||
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् |
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः ||५९||
सञ्जय उवाच||
एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा |
अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् ||६०||
तमापतन्तं सङ्क्रुद्धं दीप्तास्यमिव पन्नगम् |
अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः ||६१||
तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि |
गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव ||६२||
१४९
सञ्जय उवाच||
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति |
प्रयान्तं त्वरर्या युक्तं जिघांसुं कर्णमाहवे ||१||
अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः |
एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् ||२||
अभियाति द्रुतं कर्णं तद्वारय महारथम् |
वृतः सैन्येन महता याहि यत्र महाबलः ||३||
कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति |
रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद ||४||
एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली |
दुर्योधनमुपागम्य प्राह प्रहरतां वरः ||५||
दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् |
पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान् ||६||
जटासुरो मम पिता रक्षसामग्रणीः पुरा |
प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः ||७||
तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर ||७||
तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः |
द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे ||८||
त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम् ||८||
तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् |
जटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् ||९||
अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम् |
हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव ||१०||
ततो मायामयं दृष्ट्वा रथं तूर्णमलम्बलः |
घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दयत् ||११||
विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलम्बलः |
व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् ||१२||
तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष |
निशीथे विप्रकीर्यन्त वातनुन्ना घना इव ||१३||
घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी |
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ||१४||
अलम्बलस्ततः क्रुद्धो भैमसेनिं महामृधे |
आजघ्ने निशितैर्बाणैस्तोत्त्रैरिव महाद्विपम् ||१५||
तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च |
घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम् ||१६||
ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः |
अलम्बलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् ||१७||
ततः सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् |
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह ||१८||
जटासुरिर्महाराज विरथो हतसारथिः |
घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम् ||१९||
मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः |
क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् ||२०||
ततः स परिघाभेन द्विट्सङ्घघ्नेन बाहुना |
जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् ||२१||
तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् |
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले ||२२||
अलम्बलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् |
घटोत्कचं रणे रोषान्निष्पिपेष महीतले ||२३||
तयोः समभवद्युद्धं गर्जतोरतिकाययोः |
घटोत्कचालम्बलयोस्तुमुलं लोमहर्षणम् ||२४||
विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ |
युयुधाते महावीर्याविन्द्रवैरोचनाविव ||२५||
पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ |
पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ ||२६||
पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ ||२६||
एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ |
भृशं चित्रमयुध्येतामलम्बलघटोत्कचौ ||२७||
परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः |
मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः ||२८||
हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः |
युयुधाते महामायौ राक्षसप्रवरौ युधि ||२९||
ततो घटोत्कचो राजन्नलम्बलवधेप्सया |
उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह ||३०||
गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बलम् |
उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे ||३१||
ततो घटोत्कचः खड्गमुद्गृह्याद्भुतदर्शनम् |
चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम् ||३२||
तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः |
घटोत्कचो ययावाशु दुर्योधनरथं प्रति ||३३||
अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः |
रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् ||३४||
प्राणदद्भैरवं नादं प्रावृषीव बलाहकः ||३४||
अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः |
एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः ||३५||
पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः ||३५||
एवमुक्त्वा ततः प्रायात्कर्णं प्रति जनेश्वर |
किरञ्शरशतांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि ||३६||
ततः समभवद्युद्धं घोररूपं भयानकम् |
विस्मापनं महाराज नरराक्षसयोर्मृधे ||३७||
१५०
धृतराष्ट्र उवाच||
यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः |
निशीथे समसज्जेतां तद्युद्धमभवत्कथम् ||१||
कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः |
रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च ||२||
किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा |
कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् ||३||
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय ||३||
सञ्जय उवाच||
लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः |
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः ||४||
आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् |
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः ||५||
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः |
महाकायो महाबाहुर्महाशीर्षो महाबलः ||६||
विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः |
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् ||७||
तथैव हस्ताभरणी महामायोऽङ्गदी तथा |
उरसा धारयन्निष्कमग्निमालां यथाचलः ||८||
तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् |
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत ||९||
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् |
धारयन्विपुलं कांस्यं कवचं च महाप्रभम् ||१०||
किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् |
ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् ||११||
सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् |
अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् ||१२||
तत्र मातङ्गसङ्काशा लोहिताक्षा विभीषणाः |
कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः ||१३||
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः |
रश्मिभिः सूर्यरश्म्याभैः सञ्जग्राह हयान्रणे ||१४||
स तेन सहितस्तस्थावरुणेन यथा रविः ||१४||
संसक्त इव चाभ्रेण यथाद्रिर्महता महान् |
दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः ||१५||
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः ||१५||
वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् |
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् ||१६||
रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः |
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् ||१७||
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः |
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः ||१८||
तेन वित्रास्यमानानि तव सैन्यानि भारत |
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः ||१९||
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् |
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् ||२०||
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् |
मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् ||२१||
स संनिपातस्तुमुलस्तयोरासीद्विशां पते |
कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ||२२||
तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने |
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ||२३||
ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः |
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ||२४||
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ |
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ||२५||
सञ्छिन्दन्तौ हि गात्राणि संदधानौ च सायकान् |
धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम् ||२६||
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ |
व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ ||२७||
तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् |
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती ||२८||
तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् |
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे ||२९||
तस्य संदधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः |
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् ||३०||
घटोत्कचं यदा कर्णो विशेषयति नो नृप ||३०||
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः |
कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः ||३१||
प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः ||३१||
शूलमुद्गरधारिण्या शैलपादपहस्तया |
रक्षसां घोररूपाणां महत्या सेनया वृतः ||३२||
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः |
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् ||३३||
घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः |
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ||३४||
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः |
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ||३५||
आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः |
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ||३६||
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः |
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ||३७||
तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे |
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ||३८||
मायायां तु प्रहीणायाममर्षात्स घटोत्कचः |
विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् ||३९||
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे |
विविशुर्धरणीं बाणाः सङ्क्रुद्धा इव पन्नगाः ||४०||
सूतपुत्रस्तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् |
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः ||४१||
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु |
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् ||४२||
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् |
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया ||४३||
प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः |
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ||४४||
घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम् |
कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ||४५||
सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः |
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः ||४६||
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा |
क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् ||४७||
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् |
प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् ||४८||
ततो मायाविनं कर्णो भीमसेनसुतं दिवि |
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ||४९||
तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम् |
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ||५०||
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् |
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ||५१||
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् |
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ||५२||
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् |
मायायुद्धेन मायावी सूतपुत्रमयोधयत् ||५३||
सोऽयोधयत्तदा कर्णं मायया लाघवेन च |
अलक्ष्यमाणोऽथ दिवि शरजालेषु सम्पतन् ||५४||
भैमसेनिर्महामायो मायया कुरुसत्तम |
प्रचकार महामायां मोहयन्निव भारत ||५५||
स स्म कृत्वा विरूपाणि वदनान्यशुभाननः |
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया ||५६||
पुनश्चापि महाकायः सञ्छिन्नः शतधा रणे |
गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत ||५७||
हतं तं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः ||५७||
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत |
पुनश्चापि महाकायः शतशीर्षः शतोदरः ||५८||
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः |
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः ||५९||
सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत ||५९||
वसुधां दारयित्वा च पुनरप्सु न्यमज्जत |
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ||६०||
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते |
क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः ||६१||
गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः |
प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशां पते ||६२||
तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि |
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ||६३||
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् |
उत्पपातान्तरिक्षं च जहास च सुविस्वरम् ||६४||
कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी ||६४||
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः |
रथिनामृषभं कर्णं धाराभिरिव तोयदः ||६५||
शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत् ||६५||
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ |
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ||६६||
सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसङ्कटैः |
शूलप्रासासिमुसलजलप्रस्रवणो महान् ||६७||
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् |
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे ||६८||
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत् |
ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ||६९||
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि |
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ||७०||
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः |
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा ||७१||
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः |
जघानास्त्रं महाराज घटोत्कचसमीरितम् ||७२||
ततः प्रहस्य समरे भैमसेनिर्महाबलः |
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् ||७३||
स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् |
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ||७४||
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः |
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा ||७५||
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः |
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् ||७६||
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् ||७६||
घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः |
ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् ||७७||
भूयश्चाञ्जलिकेनाथ समार्गणगणं महत् |
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ||७८||
अथान्यद्धनुरादाय दृढं भारसहं महत् |
व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् ||७९||
ततः कर्णो महाराज प्रेषयामास सायकान् |
सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति ||८०||
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् |
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् ||८१||
विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः |
ददाह भगवान्वह्निर्भूतानीव युगक्षये ||८२||
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः |
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ||८३||
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष |
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव ||८४||
ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् |
भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव ||८५||
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत |
महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः ||८६||
तलं तलेन संहत्य संदश्य दशनच्छदम् |
रथमास्थाय च पुनर्मायया निर्मितं पुनः ||८७||
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः |
स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह ||८८||
स ययौ घोररूपेण रथेन रथिनां वरः |
द्वैरथं सूतपुत्रेण पुनरेव विशां पते ||८९||
स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः |
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् ||९०||
तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः |
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ||९१||
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा |
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः ||९२||
कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा |
यदवप्लुत्य जग्राह देवसृष्टां महाशनिम् ||९३||
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः |
ततो मुमोच नाराचान्सूतपुत्रः परन्तपः ||९४||
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद |
यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने ||९५||
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः |
गन्धर्वनगराकारः पुनरन्तरधीयत ||९६||
एवं स वै महामायो मायया लाघवेन च |
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः ||९७||
निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा |
असम्भ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत ||९८||
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः |
चकार बहुधात्मानं भीषयाणो नराधिपान् ||९९||
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः |
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः ||१००||
स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः |
नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत ||१०१||
राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः |
ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् ||१०२||
अथैनं वाग्भिरुग्राभिस्त्रासयां चक्रिरे तदा ||१०२||
उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः |
तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः ||१०३||
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् |
आजघान हयानस्य शरैः संनतपर्वभिः ||१०४||
ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः |
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः ||१०५||
स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः |
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत ||१०६||
१५१
सञ्जय उवाच||
तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे |
अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ||१||
महत्या सेनया युक्तः सुयोधनमुपागमत् |
राक्षसानां विरूपाणां सहस्रैः परिवारितः ||२||
नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ||२||
तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः |
किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा ||३||
स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् |
विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ||४||
स मत्त इव मातङ्गः सङ्क्रुद्ध इव चोरगः |
दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः ||५||
विदितं ते महाराज यथा भीमेन राक्षसाः |
हिडिम्बबककिर्मीरा निहता मम बान्धवाः ||६||
परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा |
किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह ||७||
तमहं सगणं राजन्सवाजिरथकुञ्जरम् |
हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् ||८||
अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् |
हत्वा सम्भक्षयिष्यामि सर्वैरनुचरैः सह ||९||
निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् ||९||
तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा |
प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः ||१०||
त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् |
न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ||११||
एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः |
अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः ||१२||
दीप्यमानेन वपुषा रथेनादित्यवर्चसा |
तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ||१३||
तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः |
ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः ||१४||
तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः |
शतं युक्ता महाकाया मांसशोणितभोजनाः ||१५||
तस्यापि रथनिर्घोषो महामेघरवोपमः |
तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् ||१६||
तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः |
सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः ||१७||
तस्यापि गोमायुबडाभिगुप्तो; बभूव केतुर्ज्वलनार्कतुल्यः |
स चापि रूपेण घटोत्कचस्य; श्रीमत्तमो व्याकुलदीपितास्यः ||१८||
दीप्ताङ्गदो दीप्तकिरीटमाली; बद्धस्रगुष्णीषनिबद्धखड्गः |
गदी भुशुण्डी मुसली हली च; शरासनी वारणतुल्यवर्ष्मा ||१९||
रथेन तेनानलवर्चसा च; विद्रावयन्पाण्डववाहिनीं ताम् |
रराज सङ्ख्ये परिवर्तमानो; विद्युन्माली मेघ इवान्तरिक्षे ||२०||
ते चापि सर्वे प्रवरा नरेन्द्रा; महाबला वर्मिणश्चर्मिणश्च |
हर्षान्विता युयुधुस्तत्र राज; न्समन्ततः पाण्डवयोधवीराः ||२१||
१५२
सञ्जय उवाच||
तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे |
हर्षमाहारयां चक्रुः कुरवः सर्व एव ते ||१||
तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः |
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम् ||२||
पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा |
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् ||३||
तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे |
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने ||४||
उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः |
तथैव तावका राजन्घूर्णमानास्ततस्ततः ||५||
चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः |
तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे ||६||
सर्वमाविग्नमभवद्धाहाभूतमचेतनम् |
तव सैन्यं महाराज निराशं कर्णजीविते ||७||
दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम् |
अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् ||८||
एष वैकर्तनः कर्णो हैडिम्बेन समागतः |
कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे ||९||
पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना |
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना ||१०||
तवैष भागः समरे राजमध्ये मया कृतः |
तवैवानुमते वीर तं विक्रम्य निबर्हय ||११||
पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः |
मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः ||१२||
एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः |
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् ||१३||
ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो |
प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः ||१४||
तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः |
मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने ||१५||
रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः |
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा ||१६||
तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् |
अलायुधेन समरे सिंहेनेव गवां पतिम् ||१७||
रथेनादित्यवपुषा भीमः प्रहरतां वरः |
किरञ्शरौघान्प्रययावलायुधरथं प्रति ||१८||
तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो |
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् ||१९||
तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो |
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् ||२०||
तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः |
अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः ||२१||
तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् |
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः ||२२||
स ताड्यमानो बलिभिर्भीमसेनो महाबलः |
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः ||२३||
ते वध्यमाना भीमेन राक्षसाः खरयोनयः |
विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश ||२४||
तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् |
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् ||२५||
तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः |
अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे ||२६||
चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् ||२६||
स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः |
गदां चिक्षेप वेगेन वज्रपातोपमां तदा ||२७||
तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः |
गदया ताडयामास सा गदा भीममाव्रजत् ||२८||
स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत् |
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ||२९||
ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः |
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् ||३०||
पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः |
न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः ||३१||
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे |
अब्रवीत्पुरुषश्रेष्ठो धनञ्जयमिदं वचः ||३२||
पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम् |
पदवीमस्य गच्छ त्वं मा विचारय पाण्डव ||३३||
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ |
सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः ||३४||
नकुलः सहदेवश्च युयुधानश्च वीर्यवान् |
इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव ||३५||
त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम् |
वारयस्व नरव्याघ्र महद्धि भयमागतम् ||३६||
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः |
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे ||३७||
अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः |
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् ||३८||
हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः |
जघान मिषतः सङ्ख्ये भीमसेनस्य भारत ||३९||
सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः |
तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह ||४०||
ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् |
गदया राक्षसो घोरो निजघान ननाद च ||४१||
तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् |
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ||४२||
तयोः समभवद्युद्धं तुमुलं नररक्षसोः |
गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम् ||४३||
गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् |
मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः ||४४||
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः |
यथासन्नमुपादाय निजघ्नतुरमर्षणौ ||४५||
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् |
मत्ताविव महानागावकृष्येतां पुनः पुनः ||४६||
तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः |
स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत् ||४७||
१५३
सञ्जय उवाच||
सम्प्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् |
वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा ||१||
पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात् |
पश्यतां सर्वसैन्यानां तव चैव महाद्युते ||२||
स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् |
जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि ||३||
स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् |
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः ||४||
तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः ||४||
अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान् |
वेगेनापततः शूरान्प्रगृहीतशरासनान् ||५||
आत्तायुधः सुसङ्क्रुद्धो युयुधानो महारथः |
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः ||६||
सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् |
परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान् ||७||
कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् |
धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् ||८||
तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः |
अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे ||९||
ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः |
नकुलः सहदेवश्च सात्यकिश्च महारथः ||१०||
ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च ||१०||
अलायुधस्तु सङ्क्रुद्धो घटोत्कचमरिंदमम् |
परिघेणातिकायेन ताडयामास मूर्धनि ||११||
स तु तेन प्रहारेण भैमसेनिर्महाबलः |
ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान् ||१२||
ततो दीप्ताग्निसङ्काशां शतघण्टामलङ्कृताम् |
चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् ||१३||
सा हयान्सारथिं चैव रथं चास्य महास्वना |
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा ||१४||
स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः |
उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम् ||१५||
स समास्थाय मायां तु ववर्ष रुधिरं बहु |
विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः ||१६||
ततो वज्रनिपाताश्च साशनिस्तनयित्नवः |
महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे ||१७||
तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु |
ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत् ||१८||
सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि |
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे ||१९||
अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान् |
दिशो विध्वंसयामास तदद्भुतमिवाभवत् ||२०||
ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् |
आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः ||२१||
पिनाकैः करवालैश्च तोमरप्रासकम्पनैः |
नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः ||२२||
अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि |
उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः ||२३||
शमीपीलुकरीरैश्च शम्याकैश्चैव भारत |
इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः ||२४||
पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः |
महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः ||२५||
विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः |
तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव ||२६||
युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप |
हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा ||२७||
तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा |
प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः ||२८||
तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ |
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ ||२९||
तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप |
रुधिरं च महाकायावभिवृष्टाविवाचलौ ||३०||
अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् |
बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत् ||३१||
सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् |
तदा सुतुमुलं नादं ननाद सुमहाबलः ||३२||
हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम् |
पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे ||३३||
ततो भेरीसहस्राणि शङ्खानामयुतानि च |
अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते ||३४||
अतीव सा निशा तेषां बभूव विजयावहा |
विद्योतमाना विबभौ समन्ताद्दीपमालिनी ||३५||
अलायुधस्य तु शिरो भैमसेनिर्महाबलः |
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् ||३६||
अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् |
बभूव परमोद्विग्नः सह सैन्येन भारत ||३७||
तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि |
हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् ||३८||
ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः |
जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत ||३९||
स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै |
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत ||४०||
१५४
सञ्जय उवाच||
निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः |
ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः ||१||
तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् |
तावकानां महाराज भयमासीत्सुदारुणम् ||२||
अलायुधविषक्तं तु भैमसेनिं महाबलम् |
दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् ||३||
दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ |
दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः ||४||
ततः परमनाराचैर्युधामन्यूत्तमौजसौ |
सात्यकिं च रथोदारं कम्पयामास मार्गणैः ||५||
तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् |
मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप ||६||
तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह |
मेघानामिव घर्मान्ते बभूव तुमुलो निशि ||७||
ज्यानेमिघोषस्तनयित्नुमान्वै; धनुस्तडिन्मण्डलकेतुशृङ्गः |
शरौघवर्षाकुलवृष्टिमांश्च; सङ्ग्राममेघः स बभूव राजन् ||८||
तदुद्धतं शैल इवाप्रकम्प्यो; वर्षं महच्छैलसमानसारः |
विध्वंसयामास रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी ||९||
ततोऽतुलैर्वज्रनिपातकल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः |
शत्रून्व्यपोहत्समरे महात्मा; वैकर्तनः पुत्रहिते रतस्ते ||१०||
सञ्छिन्नभिन्नध्वजिनश्च के चि; त्केचिच्छरैरर्दितभिन्नदेहाः |
केचिद्विसूता विहयाश्च के चि; द्वैकर्तनेनाशु कृता बभूवुः ||११||
अविन्दमानास्त्वथ शर्म सङ्ख्ये; यौधिष्ठिरं ते बलमन्वपद्यन् |
तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च; घटोत्कचो रोषमतीव चक्रे ||१२||
आस्थाय तं काञ्चनरत्नचित्रं; रथोत्तमं सिंह इवोन्ननाद |
वैकर्तनं कर्णमुपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः ||१३||
तौ कर्णिनाराचशिलीमुखैश्च; नालीकदण्डैश्च सवत्सदन्तैः |
वराहकर्णैः सविषाणशृङ्गैः; क्षुरप्रवर्षैश्च विनेदतुः खम् ||१४||
तद्बाणधारावृतमन्तरिक्षं; तिर्यग्गताभिः समरे रराज |
सुवर्णपुङ्खज्वलितप्रभाभि; र्विचित्रपुष्पाभिरिव स्रजाभिः ||१५||
समं हि तावप्रतिमप्रभावा; वन्योन्यमाजघ्नतुरुत्तमास्त्रैः |
तयोर्हि वीरोत्तमयोर्न कश्चि; द्ददर्श तस्मिन्समरे विशेषम् ||१६||
अतीव तच्चित्रमतीव रूपं; बभूव युद्धं रविभीमसून्वोः |
समाकुलं शस्त्रनिपातघोरं; दिवीव राह्वंशुमतोः प्रतप्तम् ||१७||
घटोत्कचो यदा कर्णं न विशेषयते नृप |
तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः ||१८||
तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः |
सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत ||१९||
धृतराष्ट्र उवाच||
तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे |
मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय ||२०||
सञ्जय उवाच||
अन्तर्हितं राक्षसं तं विदित्वा; सम्प्राक्रोशन्कुरवः सर्व एव |
कथं नायं राक्षसः कूटयोधी; हन्यात्कर्णं समरेऽदृश्यमानः ||२१||
ततः कर्णो लघुचित्रास्त्रयोधी; सर्वा दिशो व्यावृणोद्बाणजालैः |
न वै किञ्चिद्व्यापतत्तत्र भूतं; तमोभूते सायकैरन्तरिक्षे ||२२||
न चाददानो न च संदधानो; न चेषुधी स्पृशमानः कराग्रैः |
अदृश्यद्वै लाघवात्सूतपुत्रः; सर्वं बाणैश्छादयानोऽन्तरिक्षम् ||२३||
ततो मायां विहितामन्तरिक्षे; घोरां भीमां दारुणां राक्षसेन |
सम्पश्यामो लोहिताभ्रप्रकाशां; देदीप्यन्तीमग्निशिखामिवोग्राम् ||२४||
ततस्तस्या विद्युतः प्रादुरास; न्नुल्काश्चापि ज्वलिताः कौरवेन्द्र |
घोषश्चान्यः प्रादुरासीत्सुघोरः; सहस्रशो नदतां दुन्दुभीनाम् ||२५||
ततः शराः प्रापतन्रुक्मपुङ्खाः; शक्त्यः प्रासा मुसलान्यायुधानि |
परश्वधास्तैलधौताश्च खड्गाः; प्रदीप्ताग्राः पट्टिशास्तोमराश्च ||२६||
मयूखिनः परिघा लोहबद्धा; गदाश्चित्राः शितधाराश्च शूलाः |
गुर्व्यो गदा हेमपट्टावनद्धाः; शतघ्न्यश्च प्रादुरासन्समन्तात् ||२७||
महाशिलाश्चापतंस्तत्र तत्र; सहस्रशः साशनयः सवज्राः |
चक्राणि चानेकशतक्षुराणि; प्रादुर्बभूवुर्ज्वलनप्रभाणि ||२८||
तां शक्तिपाषाणपरश्वधानां; प्रासासिवज्राशनिमुद्गराणाम् |
वृष्टिं विशालां ज्वलितां पतन्तीं; कर्णः शरौघैर्न शशाक हन्तुम् ||२९||
शराहतानां पततां हयानां; वज्राहतानां पततां गजानाम् |
शिलाहतानां च महारथानां; महान्निनादः पततां बभूव ||३०||
सुभीमनानाविधशस्त्रपातै; र्घटोत्कचेनाभिहतं समन्तात् |
दौर्योधनं तद्बलमार्तरूप; मावर्तमानं ददृशे भ्रमन्तम् ||३१||
हाहाकृतं सम्परिवर्तमानं; संलीयमानं च विषण्णरूपम् |
ते त्वार्यभावात्पुरुषप्रवीराः; पराङ्मुखा न बभूवुस्तदानीम् ||३२||
तां राक्षसीं घोरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम् |
दृष्ट्वा बलौघांश्च निपात्यमाना; न्महद्भयं तव पुत्रान्विवेश ||३३||
शिवाश्च वैश्वानरदीप्तजिह्वाः; सुभीमनादाः शतशो नदन्त्यः |
रक्षोगणान्नर्दतश्चाभिवीक्ष्य; नरेन्द्रयोधा व्यथिता बभूवुः ||३४||
ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाशकायाः |
नभोगताः शक्तिविषक्तहस्ता; मेघा व्यमुञ्चन्निव वृष्टिमार्गम् ||३५||
तैराहतास्ते शरशक्तिशूलै; र्गदाभिरुग्रैः परिघैश्च दीप्तैः |
वज्रैः पिनाकैरशनिप्रहारै; श्चक्रैः शतघ्न्युन्मथिताश्च पेतुः ||३६||
हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः; स्थूणाश्च कार्ष्णायसपट्टनद्धाः |
अवाकिरंस्तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं प्रादुरासीत् ||३७||
निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः; सम्भग्नाङ्गाः शेरते तत्र शूराः |
भिन्ना हयाः कुञ्जराश्चावभग्नाः; सञ्चूर्णिताश्चैव रथाः शिलाभिः ||३८||
एवं महच्छस्त्रवर्षं सृजन्त; स्ते यातुधाना भुवि घोररूपाः |
मायाः सृष्टास्तत्र घटोत्कचेन; नामुञ्चन्वै याचमानं न भीतम् ||३९||
तस्मिन्घोरे कुरुवीरावमर्दे; कालोत्सृष्टे क्षत्रियाणामभावे |
ते वै भग्नाः सहसा व्यद्रवन्त; प्राक्रोशन्तः कौरवाः सर्व एव ||४०||
पलायध्वं कुरवो नैतदस्ति; सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे |
तथा तेषां मज्जतां भारतानां; न स्म द्वीपस्तत्र कश्चिद्बभूव ||४१||
तस्मिन्सङ्क्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम् |
अनीकानां प्रविभागेऽप्रकाशे; न ज्ञायन्ते कुरवो नेतरे वा ||४२||
निर्मर्यादे विद्रवे घोररूपे; सर्वा दिशः प्रेक्षमाणाः स्म शून्याः |
तां शस्त्रवृष्टिमुरसा गाहमानं; कर्णं चैकं तत्र राजन्नपश्यम् ||४३||
ततो बाणैरावृणोदन्तरिक्षं; दिव्यां मायां योधयन्राक्षसस्य |
ह्रीमान्कुर्वन्दुष्करमार्यकर्म; नैवामुह्यत्संयुगे सूतपुत्रः ||४४||
ततो भीताः समुदैक्षन्त कर्णं; राजन्सर्वे सैन्धवा बाह्लिकाश्च |
असंमोहं पूजयन्तोऽस्य सङ्ख्ये; सम्पश्यन्तो विजयं राक्षसस्य ||४५||
तेनोत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश्चतुरोऽश्वाञ्जघान |
ते जानुभिर्जगतीमन्वपद्य; न्गतासवो निर्दशनाक्षिजिह्वाः ||४६||
ततो हताश्वादवरुह्य वाहा; दन्तर्मनाः कुरुषु प्राद्रवत्सु |
दिव्ये चास्त्रे मायया वध्यमाने; नैवामुह्यच्चिन्तयन्प्राप्तकालम् ||४७||
ततोऽब्रुवन्कुरवः सर्व एव; कर्णं दृष्ट्वा घोररूपां च मायाम् |
शक्त्या रक्षो जहि कर्णाद्य तूर्णं; नश्यन्त्येते कुरवो धार्तराष्ट्राः ||४८||
करिष्यतः किं च नो भीमपार्थौ; तपन्तमेनं जहि रक्षो निशीथे |
यो नः सङ्ग्रामाद्घोररूपाद्विमुच्ये; त्स नः पार्थान्समरे योधयेत ||४९||
तस्मादेनं राक्षसं घोररूपं; जहि शक्त्या दत्तया वासवेन |
मा कौरवाः सर्व एवेन्द्रकल्पा; रात्रीमुखे कर्ण नेशुः सयोधाः ||५०||
स वध्यमानो रक्षसा वै निशीथे; दृष्ट्वा राजन्नश्यमानं बलं च |
महच्च श्रुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमोक्षाय कर्णः ||५१||
स वै क्रुद्धः सिंह इवात्यमर्षी; नामर्षयत्प्रतिघातं रणे तम् |
शक्तिं श्रेष्ठां वैजयन्तीमसह्यां; समाददे तस्य वधं चिकीर्षन् ||५२||
यासौ राजन्निहिता वर्षपूगा; न्वधायाजौ सत्कृता फल्गुनस्य |
यां वै प्रादात्सूतपुत्राय शक्रः; शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय ||५३||
तां वै शक्तिं लेलिहानां प्रदीप्तां; पाशैर्युक्तामन्तकस्येव रात्रिम् |
मृत्योः स्वसारं ज्वलितामिवोल्कां; वैकर्तनः प्राहिणोद्राक्षसाय ||५४||
तामुत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम् |
भीतं रक्षो विप्रदुद्राव राज; न्कृत्वात्मानं विन्ध्यपादप्रमाणम् ||५५||
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां; नेदुर्भूतान्यन्तरिक्षे नरेन्द्र |
ववुर्वातास्तुमुलाश्चापि राज; न्सनिर्घाता चाशानिर्गां जगाम ||५६||
सा तां मायां भस्म कृत्वा ज्वलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य |
ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणामन्तराण्याविशन्ती ||५७||
युद्ध्वा चित्रैर्विविधैः शस्त्रपूगै; र्दिव्यैर्वीरो मानुषै राक्षसैश्च |
नदन्नादान्विविधान्भैरवांश्च; प्राणानिष्टांस्त्याजितः शक्रशक्त्या ||५८||
इदं चान्यच्चित्रमाश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय |
तस्मिन्काले शक्तिनिर्भिन्नमर्मा; बभौ राजन्मेघशैलप्रकाशः ||५९||
ततोऽन्तरिक्षादपतद्गतासुः; स राक्षसेन्द्रो भुवि भिन्नदेहः |
अवाक्षिराः स्तब्धगात्रो विजिह्वो; घटोत्कचो महदास्थाय रूपम् ||६०||
स तद्रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात |
हतोऽप्येवं तव सैन्येकदेश; मपोथयत्कौरवान्भीषयाणः ||६१||
ततो मिश्राः प्राणदन्सिंहनादै; र्भेर्यः शङ्खा मुरजाश्चानकाश्च |
दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः ||६२||
ततः कर्णः कुरुभिः पूज्यमानो; यथा शक्रो वृत्रवधे मरुद्भिः |
अन्वारूढस्तव पुत्रं रथस्थं; हृष्टश्चापि प्राविशत्स्वं स सैन्यम् ||६३||
द्रोणवधपर्व
१५५
सञ्जय उवाच||
हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम् |
पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः ||१||
वासुदेवस्तु हर्षेण महताभिपरिप्लुतः |
ननाद सिंहवन्नादं व्यथयन्निव भारत ||२||
विनद्य च महानादं पर्यष्वजत फल्गुनम् ||२||
स विनद्य महानादमभीशून्संनियम्य च |
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ||३||
ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत् |
रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः ||४||
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम् |
अब्रवीदर्जुनो राजन्नातिहृष्टमना इव ||५||
अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन |
शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै ||६||
विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् |
वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् ||७||
नैतत्कारणमल्पं हि भविष्यति जनार्दन |
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ||८||
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम |
धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन ||९||
समुद्रस्येव सङ्क्षोभो मेरोरिव विसर्पणम् |
तथैतल्लाघवं मन्ये तव कर्म जनार्दन ||१०||
वासुदेव उवाच||
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय |
अतीव मनसः सद्यः प्रसादकरमुत्तमम् ||११||
शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते |
कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय ||१२||
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह |
य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे ||१३||
दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः |
दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ||१४||
यदि हि स्यात्सकवचस्तथैव च सकुण्डलः |
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली ||१५||
वासवो वा कुबेरो वा वरुणो वा जलेश्वरः |
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ||१६||
गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम् |
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ||१७||
त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः |
विहीनकवचश्चायं कृतः परपुरञ्जयः ||१८||
उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते |
प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः ||१९||
आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा |
तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः ||२०||
यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना |
वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे ||२१||
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च |
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ||२२||
एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित् |
ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ ||२३||
ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः |
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ||२४||
युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः |
केसरीव वने मर्दन्मत्तमातङ्गयूथपान् ||२५||
विमदान्रथशार्दूलान्कुरुते रणमूर्धनि ||२५||
मध्यङ्गत इवादित्यो यो न शक्यो निरीक्षितुम् |
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः ||२६||
शरजालसहस्रांशुः शरदीव दिवाकरः ||२६||
तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ |
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ||२७||
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ||२७||
एको हि योगोऽस्य भवेद्वधाय; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् |
कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु सञ्ज्ञां विचार्य ||२८||
जरासन्धश्चेदिराजो महात्मा; महाबलश्चैकलव्यो निषादः |
एकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मयैव ||२९||
अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः |
अलायुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी ||३०||
१५६
अर्जुन उवाच||
कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन |
जरासन्धप्रभृतयो घातिताः पृथिवीष्वराः ||१||
वासुदेव उवाच||
जरासन्धश्चेदिराजो नैषादिश्च महाबलः |
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः ||२||
सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान् |
तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान् ||३||
ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः |
धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुरमरा इव ||४||
सूतपुत्रो जरासन्धश्चेदिराजो निषादजः |
सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ||५||
योगैरपि हता यैस्ते तान्मे शृणु धनञ्जय |
अजय्या हि विना योगैर्मृधे ते दैवतैरपि ||६||
एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम् |
योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् ||७||
जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः |
अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम् ||८||
सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम् |
व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः ||९||
तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः |
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ||१०||
अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि |
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् ||११||
तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा |
सन्धयामास तं जातं जरासन्धमरिंदमम् ||१२||
द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् |
तया स सन्धितो यस्माज्जरासन्धस्ततः स्मृतः ||१३||
सा तु भूमिगता पार्थ हता ससुतबान्धवा |
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ||१४||
विनाभूतः स गदया जरासन्धो महामृधे |
निहतो भीमसेनेन पश्यतस्ते धनञ्जय ||१५||
यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान् |
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ||१६||
त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः |
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ||१७||
स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः |
अस्यन्नेको वनचरो बभौ राम इवापरः ||१८||
एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः |
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ||१९||
किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् |
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् ||२०||
त्वद्धितार्थं तु स मया हतः सङ्ग्राममूर्धनि |
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव ||२१||
स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वैः सुरासुरैः |
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् ||२२||
त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया |
हिडिम्बबककिर्मीरा भीमसेनेन पातिताः ||२३||
रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः ||२३||
हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः |
हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः ||२४||
यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे |
मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ||२५||
मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया |
एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः ||२६||
धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः |
व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ ||२७||
ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव |
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ||२८||
ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा |
यत्र तत्र रमे नित्यमहं सत्येन ते शपे ||२९||
न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति |
उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ||३०||
सुयोधनं चापि रणे हनिष्यति वृकोदरः |
तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव ||३१||
वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति |
विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ||३२||
लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव |
दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ||३३||
१५७
धृतराष्ट्र उवाच||
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा |
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ||१||
तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः |
एकवीरवधे कस्मान्न युद्धे जयमादधत् ||२||
आहूतो न निवर्तेयमिति तस्य महाव्रतम् |
स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः ||३||
ततो द्वैरथमानीय फल्गुनं शक्रदत्तया |
न जघान वृषा कस्मात्तन्ममाचक्ष्व सञ्जय ||४||
नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः |
शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् ||५||
या ह्यस्य परमा शक्तिर्जयस्य च परायणम् |
सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे ||६||
कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा |
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ||७||
यथा वराहस्य शुनश्च युध्यतो; स्तयोरभावे श्वपचस्य लाभः |
मन्ये विद्वन्वासुदेवस्य तद्व; द्युद्धे लाभः कर्णहैडिम्बयोर्वै ||८||
घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम् |
वैकर्तनो वा यदि तं निहन्या; त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ||९||
इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे |
अयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च ||१०||
सञ्जय उवाच||
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप |
नियोजयामास तदा द्वैरथे राक्षसेश्वरम् ||११||
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः |
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ||१२||
तदैव कृतकार्या हि वयं स्याम कुरूद्वह |
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ||१३||
साश्वध्वजरथः सङ्ख्ये धृतराष्ट्र पतेद्भुवि |
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ||१४||
तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव |
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ||१५||
सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् |
हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ||१६||
धृतराष्ट्र उवाच||
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः |
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति ||१७||
तवापि समतिक्रान्तमेतद्गावल्गणे कथम् |
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ||१८||
सञ्जय उवाच||
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च |
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना ||१९||
श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जयम् |
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ||२०||
अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः |
स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् ||२१||
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः |
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसञ्ज्ञिताः ||२२||
कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः |
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ||२३||
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज |
कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा ||२४||
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् |
कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः ||२५||
यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा |
ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत ||२६||
सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे |
अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत ||२७||
अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः |
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ||२८||
अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः |
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ||२९||
ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः |
पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् ||३०||
अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम |
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ||३१||
वासुदेव उवाच||
दुःषासनश्च कर्णश्च शकुनिश्च ससैन्धवः |
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः ||३२||
कर्ण कर्ण महेष्वास रणेऽमितपराक्रम |
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ||३३||
ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनञ्जयात् |
स हि तेषामतियशा देवानामिव वासवः ||३४||
तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह |
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ||३५||
तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव |
हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः ||३६||
अहमेव तु राधेयं मोहयामि युधां वर |
यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने ||३७||
फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः |
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर ||३८||
घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव |
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनञ्जयम् ||३९||
न पिता न च मे माता न यूयं भ्रातरस्तथा |
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे ||४०||
त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम् |
नेच्छेयं सात्वताहं तद्विना पार्थं धनञ्जयम् ||४१||
अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् |
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जयम् ||४२||
अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः |
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ||४३||
सञ्जय उवाच||
इति सात्यकये प्राह तदा देवकिनन्दनः |
धनञ्जयहिते युक्तस्तत्प्रिये सततं रतः ||४४||
१५८
धृतराष्ट्र उवाच||
कर्णदुर्योधनादीनां शकुनेः सौबलस्य च |
अपनीतं महत्तात तव चैव विशेषतः ||१||
यदाजानीत तां शक्तिमेकघ्नीं सततं रणे |
अनिवार्यामसह्यां च देवैरपि सवासवैः ||२||
सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा |
न देवकीसुते मुक्ता फल्गुने वापि सञ्जय ||३||
सञ्जय उवाच||
सङ्ग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पते |
रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत ||४||
प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा |
शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः ||५||
ततः प्रभातसमये राजन्कर्णस्य दैवतैः |
अन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः ||६||
दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया |
न जघान रणे पार्थं कृष्णं वा देवकीसुतम् ||७||
तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता |
दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् ||८||
कृष्णे वा देवकीपुत्रे मोहितो देवमायया |
पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो ||९||
धृतराष्ट्र उवाच||
दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च |
गता हि वासवी हत्वा तृणभूतं घटोत्कचम् ||१०||
कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः |
अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् ||११||
भूय एव तु मे शंस यथा युद्धमवर्तत |
कुरूणां पाण्डवानां च हैडिम्बे निहते तदा ||१२||
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः |
सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ||१३||
सौमदत्तेर्वधाद्द्रोणमायस्तं सैन्धवस्य च |
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ||१४||
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् |
कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः ||१५||
आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः |
द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे ||१६||
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ |
समार्छन्मामका युद्धे कथं सञ्जय शंस मे ||१७||
सिन्धुराजवधेनेमे घटोत्कचवधेन ते |
अमर्षिताः सुसङ्क्रुद्धा रणं चक्रुः कथं निशि ||१८||
सञ्जय उवाच||
हते घटोत्कचे राजन्कर्णेन निशि राक्षसे |
प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ||१९||
आपतत्सु च वेगेन वध्यमाने बलेऽपि च |
विगाढायां रजन्यां च राजा दैन्यं परं गतः ||२०||
अब्रवीच्च महाबाहुर्भीमसेनं परन्तपः |
आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् ||२१||
हैडिम्बस्याभिघातेन मोहो मामाविशन्महान् ||२१||
एवं भीमं समादिश्य स्वरथे समुपाविशत् |
अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः ||२२||
कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् ||२२||
तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् |
मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते ||२३||
वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ||२३||
उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो |
त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ||२४||
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः |
विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ||२५||
विदिता ते महाबाहो धर्माणां परमा गतिः |
ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते ||२६||
अस्माकं हि वनस्थानां हैडिम्बेन महात्मना |
बालेनापि सता तेन कृतं साह्यं जनार्दन ||२७||
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम् |
असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः ||२८||
उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः ||२८||
गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः |
पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना ||२९||
आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभो |
मदर्थं दुष्करं कर्म कृतं तेन महात्मना ||३०||
स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन |
सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ||३१||
भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे |
येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः ||३२||
पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः |
द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ ||३३||
निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम् |
गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् ||३४||
अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव |
चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः ||३५||
एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः |
निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ||३६||
कथमस्मासु जीवत्सु त्वयि चैव जनार्दन |
हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण सङ्गतः ||३७||
कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः |
निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः ||३८||
यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः |
नासीत्तत्र रणे कृष्ण सव्यसाची महारथः ||३९||
निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना |
निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ||४०||
उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् |
व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह ||४१||
व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् |
अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी ||४२||
तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् ||४२||
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना |
सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम ||४३||
यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैः |
द्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः ||४४||
एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ |
एतौ रणे समासाद्य पराश्वस्तः सुयोधनः ||४५||
यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः |
तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ||४६||
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः |
ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया ||४७||
भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः ||४७||
एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः |
स विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ||४८||
ततो रथसहस्रेण गजानां च शतैस्त्रिभिः |
वाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैः ||४९||
वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् ||४९||
ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताः |
पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ||५०||
ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम् |
एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः ||५१||
जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ||५१||
एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् |
दूरं च यातं राजानमन्वगच्छज्जनार्दनः ||५२||
तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया |
शोकोपहतसङ्कल्पं दह्यमानमिवाग्निना ||५३||
अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ||५३||
कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः |
सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः ||५४||
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभ |
सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ||५५||
वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः |
वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर ||५६||
ततो भवेत्ते व्यसनं घोरं भरतसत्तम |
दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ||५७||
वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ |
तवैव कारणाद्रक्षो निहतं तात संयुगे ||५८||
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः |
प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ||५९||
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः |
कौरवान्समरे राजन्नभियुध्यस्व भारत ||६०||
पञ्चमे दिवसे चैव पृथिवी ते भविष्यति ||६०||
नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय |
आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ||६१||
सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः |
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत ||६२||
१५९
सञ्जय उवाच||
घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् |
दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः ||१||
दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव |
धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय ||२||
त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् |
सशरः कवची खड्गी धन्वी च परतापनः ||३||
अभिद्रव रणे हृष्टो न च ते भीः कथञ्चन ||३||
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः |
अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः ||४||
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः |
द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ ||५||
सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः |
अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया ||६||
तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन |
पादाताश्च रणे द्रोणं प्रापयन्तु महारथम् ||७||
तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना |
अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया ||८||
आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् |
प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ||९||
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् |
अभ्यद्रवत्सुसङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम् ||१०||
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् |
पाण्डवानां कुरूणां च गर्जतामितरेतरम् ||११||
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे |
नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः ||१२||
त्रियामा रजनी चैषा घोररूपा भयानका |
सहस्रयामप्रतिमा बभूव प्राणहारिणी ||१३||
वध्यतां च तथा तेषां क्षतानां च विशेषतः ||१३||
अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः |
सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः ||१४||
तव चैव परेषां च गतास्त्रा विगतेषवः ||१४||
ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः |
स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् ||१५||
शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः |
गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत ||१६||
निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिपाः |
तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम् ||१७||
स्वप्नायमानास्त्वपरे परानिति विचेतसः |
आत्मानं समरे जघ्नुः स्वानेव च परानपि ||१८||
नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे |
योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः ||१९||
संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम् |
जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे ||२०||
हन्यमानं तथात्मानं परेभ्यो बहवो जनाः |
नाभ्यजानन्त समरे निद्रया मोहिता भृशम् ||२१||
तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः |
उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः ||२२||
श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः |
तमसा चावृते सैन्ये रजसा बहुलेन च ||२३||
ते यूयं यदि मन्यध्वमुपारमत सैनिकाः |
निमीलयत चात्रैव रणभूमौ मुहूर्तकम् ||२४||
ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः |
संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः ||२५||
तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते |
अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् ||२६||
चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च |
उपारमत पाण्डूनां विरता हि वरूथिनी ||२७||
तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः |
उपारमत पाण्डूनां सेना तव च भारत ||२८||
तामस्य वाचं देवाश्च ऋषयश्च महात्मनः |
सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन् ||२९||
तत्सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत |
मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ ||३०||
सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत |
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् ||३१||
त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ |
धर्मस्त्वयि महाबाहो दया भूतेषु चानघ ||३२||
यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते |
मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि ||३३||
इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः |
निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते ||३४||
अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे |
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ||३५||
सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः |
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ||३६||
गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः |
निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम् ||३७||
गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले |
विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः ||३८||
समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम् |
हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः ||३९||
सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ||३९||
तत्तथा निद्रया भग्नमवाचमस्वपद्बलम् |
कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम् ||४०||
ते क्षत्रियाः कुण्डलिनो युवानः; परस्परं सायकविक्षताङ्गाः |
कुम्भेषु लीनाः सुषुपुर्गजानां; कुचेषु लग्ना इव कामिनीनाम् ||४१||
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना |
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ||४२||
ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः |
अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः ||४३||
अरुणस्य तु तस्यानु जातरूपसमप्रभम् |
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् ||४४||
उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः |
पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा ||४५||
ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् |
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा ||४६||
प्रतिप्रकाशिते लोके दिवाभूते निशाकरे |
विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः ||४७||
बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः |
बुबुधे शतपत्राणां वनं महदिवाम्भसि ||४८||
यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत् |
तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः ||४९||
ततः प्रववृते युद्धं पुनरेव विशां पते |
लोके लोकविनाशाय परं लोकमभीप्सताम् ||५०||
१६०
सञ्जय उवाच||
ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् |
अमर्षवशमापन्नो जनयन्हर्षतेजसी ||१||
न मर्षणीयाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः |
सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः ||२||
तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया |
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ||३||
सर्वथा परिहीनाः स्म तेजसा च बलेन च |
भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः ||४||
दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि |
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः ||५||
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः |
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ||६||
ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम |
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ||७||
स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः |
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ||८||
एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते |
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ||९||
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे |
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना ||१०||
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ||१०||
यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम् |
तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा ||११||
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् |
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ||१२||
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे |
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ||१३||
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः |
उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् ||१४||
खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः |
सायकैर्वारितश्चापि वर्षमाणो महात्मना ||१५||
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः |
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ||१६||
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः |
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ||१७||
निवातकवचाश्चापि देवानां शत्रवस्तथा |
सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः ||१८||
दानवानां सहस्राणि हिरण्यपुरवासिनाम् |
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ||१९||
प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव |
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते ||२०||
तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा |
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ||२१||
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे |
हनिष्यामोऽर्जुनं सङ्ख्ये द्वैधीकृत्याद्य भारतीम् ||२२||
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव |
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ||२३||
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा |
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ||२४||
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः |
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ||२५||
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत |
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ||२६||
त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः |
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ||२७||
गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम् |
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ||२८||
इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः |
त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् ||२९||
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः |
दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे ||३०||
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः |
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ||३१||
त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत् |
असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ||३२||
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे |
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ||३३||
इति ते कत्थमानस्य श्रुतं संसदि संसदि |
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ||३४||
एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः |
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ||३५||
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् |
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ||३६||
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे |
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ||३७||
१६१
सञ्जय उवाच||
त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत |
कुरूणां पाण्डवानां च संहृष्टानां विशां पते ||१||
अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः |
अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम् ||२||
ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् |
अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः ||३||
द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् |
सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून् ||४||
स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः |
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ||५||
अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः |
आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत् ||६||
भीम उवाच||
अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः |
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ||७||
अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे |
असम्भावितरूपः सन्नानृशंस्यं करिष्यसि ||८||
सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि |
भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु ||९||
सञ्जय उवाच||
स सव्यसाची भीमेन चोदितः केशवेन च |
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् ||१०||
तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् |
पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः ||११||
नाशक्नुवन्वारयितुं वर्धमानमिवानलम् ||११||
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः |
अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनञ्जयम् ||१२||
तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः |
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् ||१३||
अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जयः |
सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ||१४||
उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च |
तमश्च घोरं शब्दश्च तदा समभवन्महान् ||१५||
न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते |
सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् ||१६||
नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम् |
उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः ||१७||
विरथा रथिनो राजन्समासाद्य परस्परम् |
केषेशु समसज्जन्त कवचेषु भुजेषु च ||१८||
हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा |
जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः ||१९||
हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः |
गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः ||२०||
ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम् |
अतिष्ठदाहवे द्रोणो विधूम इव पावकः ||२१||
तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु |
समकम्पन्त सैन्यानि पाण्डवानां विशां पते ||२२||
भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा |
द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष ||२३||
आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् |
नैनं शशंसिरे जेतुं दानवा वासवं यथा ||२४||
केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः |
विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः ||२५||
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः |
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ||२६||
व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान् |
अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ||२७||
पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः |
समसज्जन्त राजेन्द्र समरे भृशवेदनाः ||२८||
ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे |
तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम् ||२९||
द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते |
चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ||३०||
तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः |
त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ||३१||
ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् |
मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः ||३२||
ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् |
द्रोणं प्रति महाराज विराटश्चैव संयुगे ||३३||
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः |
द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम् ||३४||
हते विराटे द्रुपदे केकयेषु तथैव च |
तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च ||३५||
हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु ||३५||
द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः |
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ||३६||
इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु |
द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः ||३७||
इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् |
आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा ||३८||
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः ||३८||
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः |
सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ||३९||
रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः |
यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् ||४०||
तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष |
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ ||४१||
द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः |
कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ||४२||
पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् |
विशेषतस्तु शपथं शपित्वा राजसंसदि ||४३||
एष वैश्वानर इव समिद्धः स्वेन तेजसा |
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ||४४||
पुरा करोति निःशेषां पाण्डवानामनीकिनीम् |
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ||४५||
इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः |
दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम् ||४६||
धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् |
आससाद रणे द्रोणं तदासीत्तुमुलं महत् ||४७||
नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् |
यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् ||४८||
संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष |
हतानि च विकीर्णानि शरीराणि शरीरिणाम् ||४९||
केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः |
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे ||५०||
तथा संसक्तयुद्धं तदभवद्भृशदारुणम् |
अथ सन्ध्यागतः सूर्यः क्षणेन समपद्यत ||५१||
१६२
सञ्जय उवाच||
ते तथैव महाराज दंशिता रणमूर्धनि |
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ||१||
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे |
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ||२||
द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात् |
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ||३||
रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः |
हया हयैः समाजग्मुः पादाताश्च पदातिभिः ||४||
संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे ||४||
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा |
क्षुत्पिपासापरीताङ्गा विसञ्ज्ञा बहवोऽभवन् ||५||
शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् |
विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् ||६||
शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ |
द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् ||७||
हयानां हेषतां चैव रथानां च निवर्तताम् |
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ||८||
विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः |
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ||९||
भूमावश्रूयत महांस्तदासीत्कृपणं महत् |
पततां पतितानां च पत्त्यश्वरथहस्तिनाम् ||१०||
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः |
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे ||११||
वीरबाहुविसृष्टाश्च योधेषु च गजेषु च |
असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ||१२||
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः |
स एव शब्दस्तद्रूपो वाससां निज्यतामिव ||१३||
अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः |
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ||१४||
गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् |
शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम् ||१५||
आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम् |
नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम् ||१६||
शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः |
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ||१७||
संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ||१७||
युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः |
क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि ||१८||
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ||१८||
मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः |
कथञ्चिदवहञ्श्रान्ता वेपमानाः शरार्दिताः ||१९||
कुलसत्त्वबलोपेता वाजिनो वारणोपमाः ||१९||
विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम् |
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ||२०||
तावेवास्तां निलयनं तावार्तायनमेव च |
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ||२१||
आविग्नमभवत्सर्वं कौरवाणां महद्बलम् |
पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन ||२२||
अन्तकाक्रीडसदृशे भीरूणां भयवर्धने |
पृथिव्यां राजवंशानामुत्थिते महति क्षये ||२३||
न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम् |
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ||२४||
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ |
न कृपं मद्रराजं वा कृतवर्माणमेव च ||२५||
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा |
पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् ||२६||
सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते |
द्वितीयामिव सम्प्राप्ताममन्यन्त निशां तदा ||२७||
न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः |
न दिशो न दिवं नोर्वीं न समं विषमं तथा ||२८||
हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् |
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ||२९||
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च |
प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च ||३०||
तत्र नागा हया योधा रथिनोऽथ पदातयः |
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ||३१||
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा |
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ||३२||
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत |
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ||३३||
तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः |
रथर्षभाणामुग्राणां संनिपातममानुषम् ||३४||
रथमार्गैर्विचित्रैश्च विचित्ररथसङ्कुलम् |
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ||३५||
यतमानाः पराक्रान्ताः परस्परजिगीषवः |
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ||३६||
ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः |
अशोभन्त यथा मेघाः शारदाः समुपस्थिताः ||३७||
स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः |
अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव ||३८||
न नूनं देहभेदोऽस्ति काले तस्मिन्समागते |
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ||३९||
बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः |
कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः ||४०||
नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः |
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ||४१||
चित्रैश्च विविधाकारैः शरीरावरणैरपि |
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ||४२||
शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः |
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ||४३||
वातायमानैरसकृद्धतवीरैरलङ्कृतैः |
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ||४४||
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः |
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ||४५||
उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च |
आसीदायोधनं तत्र नभस्तारागणैरिव ||४६||
ततो दुर्योधनस्यासीन्नकुलेन समागमः |
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ||४७||
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् |
किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत् ||४८||
अपसव्यं कृतः सङ्ख्ये भ्रातृव्येनात्यमर्षिणा |
सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः ||४९||
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् |
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ||५०||
सर्वतो विनिवार्यैनं शरजालेन पीडयन् |
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ||५१||
तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव |
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च ||५२||
१६३
सञ्जय उवाच||
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् |
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ||१||
तस्यापतत एवाशु भल्लेनामित्रकर्शनः |
माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ||२||
नैनं दुःशासनः सूतं नापि कश्चन सैनिकः |
हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ||३||
यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम् |
ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् ||४||
स हयान्संनिगृह्याजौ स्वयं हयविशारदः |
युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च ||५||
तदस्यापूजयन्कर्म स्वे परे चैव संयुगे |
हतसूतरथेनाजौ व्यचरद्यदभीतवत् ||६||
सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् |
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ||७||
स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् |
धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् ||८||
छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् |
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ||९||
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः |
आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत् ||१०||
संन्यवर्तत तं कर्णः सङ्घट्टित इवोरगः |
तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा ||११||
तौ वृषाविव सङ्क्रुद्धौ विवृत्तनयनावुभौ |
वेगेन महतान्योन्यं संरब्धावभिपेततुः ||१२||
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः |
अभिन्नशरपातत्वाद्गदायुद्धमवर्तत ||१३||
गदया भीमसेनस्तु कर्णस्य रथकूबरम् |
बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत् ||१४||
ततो भीमस्य राधेयो गदामादाय वीर्यवान् |
अवासृजद्रथे तां तु बिभेद गदया गदाम् ||१५||
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् |
तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः ||१६||
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ||१६||
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः |
पपात सारथिश्चास्य मुमोह गदया हतः ||१७||
स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः |
ध्वजे शरासने चैव शरावापे च भारत ||१८||
ततः पुनस्तु राधेयो हयानस्य रथेषुभिः |
ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ||१९||
स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् |
हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः ||२०||
तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ |
आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि ||२१||
लघुसन्धानयोगाभ्यां रथयोश्च रणेन च |
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ||२२||
उपारमन्त ते सर्वे योधास्माकं परे तथा |
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः ||२३||
विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः |
अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः ||२४||
पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः ||२४||
तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् |
आमिषार्थं महाराज गगने श्येनयोरिव ||२५||
यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया |
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ||२६||
यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे |
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ||२७||
ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् |
मुक्तं मुक्तं द्रोणचापात्तज्जघान धनञ्जयः ||२८||
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः |
ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ||२९||
यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया |
तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः ||३०||
स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि |
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ||३१||
मेने चात्मानमधिकं पृथिव्यामपि भारत |
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः ||३२||
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् |
यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन् ||३३||
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः |
ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया ||३४||
तदप्सरोभिराकीर्णं यक्षराक्षससङ्कुलम् |
श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा ||३५||
तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः |
द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः ||३६||
विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश ||३६||
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् |
न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् ||३७||
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ||३७||
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः |
नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् ||३८||
यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना |
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ||३९||
ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे |
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ||४०||
नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः |
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ||४१||
इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ |
अन्तर्हितानि भूतानि प्रकाशानि च सङ्घशः ||४२||
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः |
सन्तापयन्रणे पार्थं भूतान्यन्तर्हितानि च ||४३||
ततश्चचाल पृथिवी सपर्वतवनद्रुमा |
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ||४४||
ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः |
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ||४५||
ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान् |
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ||४६||
यदा न गम्यते पारं तयोरन्यतरस्य वा |
ततः सङ्कुलयुद्धेन तद्युद्धं व्यकुलीकृतम् ||४७||
नाज्ञायत ततः किञ्चित्पुनरेव विशां पते |
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे ||४८||
शरजालैः समाकीर्णे मेघजालैरिवाम्बरे |
न स्म सम्पतते कश्चिदन्तरिक्षचरस्तदा ||४९||
१६४
सञ्जय उवाच||
तस्मिंस्तथा वर्तमाने नराश्वगजसङ्क्षये |
दुःशासनो महाराज धृष्टद्युम्नमयोधयत् ||१||
स तु रुक्मरथासक्तो दुःशासनशरार्दितः |
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ||२||
क्षणेन स रथस्तस्य सध्वजः सहसारथिः |
नादृश्यत महाराज पार्षतस्य शरैश्चितः ||३||
दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः |
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ||४||
स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः |
किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे ||५||
प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् |
सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् ||६||
तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ |
द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् ||७||
सम्प्रहारमकुर्वंस्ते सर्वे सप्त महारथाः |
अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ||८||
शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः |
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ||९||
शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः |
धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम् ||१०||
न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च |
नात्र कर्णी न नालीको न लिप्तो न च वस्तकः ||११||
न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः |
इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ||१२||
ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् |
सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च ||१३||
तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् |
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ||१४||
धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान् |
यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् ||१५||
निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः |
समसज्जन्त चत्वारो वाताः पर्वतयोरिव ||१६||
द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ |
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ||१७||
दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् |
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ||१८||
दुर्योधनो महाराज किरञ्शोणितभोजनान् |
तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ||१९||
तौ परस्परमासाद्य समीपे कुरुमाधवौ |
हसमानौ नृशार्दूलावभीतौ समगच्छताम् ||२०||
बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ |
अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः ||२१||
अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत |
प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः ||२२||
धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् |
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ||२३||
यत्त्वं मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव |
त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव ||२४||
स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ |
तानि सर्वाणि जीर्णानि साम्प्रतं नौ रणाजिरे ||२५||
किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत ||२५||
तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत |
प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ||२६||
नेयं सभा राजपुत्र न चाचार्यनिवेशनम् |
यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ||२७||
दुर्योधन उवाच||
क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुङ्गव |
क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः ||२८||
किं नु नो विद्यते कृत्यं धनेन धनलिप्सया |
यत्र युध्यामहे सर्वे धनलोभात्समागताः ||२९||
सञ्जय उवाच||
तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् |
एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि ||३०||
यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः |
त्वत्कृते सुकृताँल्लोकान्गच्छेयं भरतर्षभ ||३१||
या ते शक्तिर्बलं चैव तत्क्षिप्रं मयि दर्शय |
नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् ||३२||
इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः |
अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते ||३३||
तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः |
शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ||३४||
ततः प्रववृते युद्धं कुरुमाधवसिंहयोः |
अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ||३५||
ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् |
दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः ||३६||
तं सात्यकिः प्रत्यविद्धत्तथैव दशभिः शरैः |
पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ||३७||
तस्य संदधतश्चेषून्संहितेषुं च कार्मुकम् |
अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् ||३८||
स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम् |
दुर्योधनो महाराज दाशार्हशरपीडितः ||३९||
समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् |
विसृजन्निषुजालानि युयुधानरथं प्रति ||४०||
तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति |
प्रततं व्यसृजद्राजंस्तत्सङ्कुलमवर्तत ||४१||
तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः |
अग्नेरिव महाकक्षे शब्दः समभवन्महान् ||४२||
तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् |
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव ||४३||
न तु तं मर्षयामास भीमसेनो महाबलः |
अभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् ||४४||
तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव |
धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ||४५||
भीमसेनस्तु सङ्क्रुद्धो गदामादाय पाण्डवः |
ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः ||४६||
अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत |
विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे ||४७||
सङ्कुले वर्तमाने तु राजा धर्मसुतोऽब्रवीत् |
पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान् ||४८||
ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः |
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ||४९||
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः |
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ||५०||
क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः |
जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ ||५१||
जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः |
हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् ||५२||
ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः |
चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः ||५३||
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिः शरैः |
भीमसेनपुरोगाश्च एकतः पर्यवारयन् ||५४||
आसंस्तु पाण्डुपुत्राणां त्रयोऽजिह्मा महारथाः |
यमौ च भीमसेनश्च प्राक्रोशन्त धनञ्जयम् ||५५||
अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद |
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ||५६||
कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत् |
पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् ||५७||
पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् |
यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा ||५८||
द्रोणास्त्रेण महाराज वध्यमानाः परे युधि |
नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः ||५९||
वध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा |
द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम् ||६०||
तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः |
अभवद्भैरवो नादो वध्यतां शरशक्तिभिः ||६१||
वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना |
उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् ||६२||
दृष्ट्वाश्वनरसङ्घानां विपुलं च क्षयं युधि |
पाण्डवेया महाराज नाशंसुर्विजयं तदा ||६३||
कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् |
समिद्धः शिशिरापाये दहन्कक्षमिवानलः ||६४||
न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् |
न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् ||६५||
त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् |
मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् ||६६||
नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन |
अपि वृत्रहणा युद्धे रथयूथपयूथपः ||६७||
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव |
यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ||६८||
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम |
तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ||६९||
एतन्नारोचयद्राजन्कुन्तीपुत्रो धनञ्जयः |
अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ||७०||
ततो भीमो महाबाहुरनीके स्वे महागजम् |
जघान गदया राजन्नश्वत्थामानमित्युत ||७१||
भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे |
अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह ||७२||
अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् |
कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा ||७३||
भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् |
मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि ||७४||
शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै |
हतः स इति च श्रुत्वा नैव धैर्यादकम्पत ||७५||
स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् |
अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः ||७६||
स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः |
अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् ||७७||
तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः |
तथा चरन्तं सङ्ग्रामे सर्वतो व्यकिरञ्शरैः ||७८||
ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परन्तपः |
वधाय तेषां शूराणां पाञ्चालानाममर्षितः ||७९||
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान् |
शिरांस्यपातयच्चापि पाञ्चालानां महामृधे ||८०||
तथैव परिघाकारान्बाहून्कनकभूषणान् ||८०||
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः |
मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः ||८१||
कुञ्जराणां च पततां हयौघानां च भारत |
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ||८२||
हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् |
अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ||८३||
तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् |
वसुदानस्य भल्लेन शिरः कायादपाहरत् ||८४||
पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान् |
हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः ||८५||
क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् |
ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः ||८६||
विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः |
वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः ||८७||
सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः |
भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः ||८८||
त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् |
अधर्मतः कृतं युद्धं समयो निधनस्य ते ||८९||
न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान् |
नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि ||९०||
वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च |
ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ||९१||
न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते |
परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे ||९२||
इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् |
धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाभवत् ||९३||
स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् |
अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ||९४||
स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् |
त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन ||९५||
तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्विशेषतः |
तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे ||९६||
ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम् |
द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् ||९७||
यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः |
सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति ||९८||
स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं भवेत् |
अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः ||९९||
तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् |
श्रुत्वैव तं महाराज वधोपायं महात्मनः ||१००||
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः |
अश्वत्थामेति विख्यातो गजः शक्रगजोपमः ||१०१||
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् |
अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति ||१०२||
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः |
स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः ||१०३||
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम् |
त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः ||१०४||
सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप ||१०४||
तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः |
भावित्वाच्च महाराज वक्तुं समुपचक्रमे ||१०५||
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः |
अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत ||१०६||
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः |
बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम् ||१०७||
युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः |
पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत् ||१०८||
आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् |
ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् ||१०९||
विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च |
योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिंदम ||११०||
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् |
पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् ||१११||
य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे |
लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् ||११२||
स धनुर्जैत्रमादाय घोरं जलदनिस्वनम् |
दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान् ||११३||
संदधे कार्मुके तस्मिञ्शरमाशीविषोपमम् |
द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् ||११४||
तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे |
द्योततो भास्करस्येव घनान्ते परिवेशिनः ||११५||
पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः |
अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः ||११६||
तमिषुं संहितं तेन भारद्वाजः प्रतापवान् |
दृष्ट्वामन्यत देहस्य कालपर्यायमागतम् ||११७||
ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे |
न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः ||११८||
तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता |
तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः ||११९||
स शरक्षयमासाद्य पुत्रशोकेन चार्दितः |
विविधानां च दिव्यानामस्त्राणामप्रसन्नताम् ||१२०||
उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः |
तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम् ||१२१||
अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः |
शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् ||१२२||
ततस्तं शरवर्षेण महता समवाकिरत् |
व्यशातयच्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणः ||१२३||
तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः |
ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् ||१२४||
धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् |
शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे ||१२५||
सोऽतिविद्धो महेष्वासः सम्भ्रान्त इव संयुगे |
भल्लेन शितधारेण चिच्छेदास्य महद्धनुः ||१२६||
यच्चास्य बाणं विकृतं धनूंषि च विशां पते |
सर्वं सञ्छिद्य दुर्धर्षो गदां खड्गमथापि च ||१२७||
धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः |
जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परन्तपः ||१२८||
धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः |
अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् ||१२९||
ते मिश्रा बह्वशोभन्त जवना वातरंहसः |
पारावतसवर्णाश्च शोणाश्च भरतर्षभ ||१३०||
यथा सविद्युतो मेघा नदन्तो जलदागमे |
तथा रेजुर्महाराज मिश्रिता रणमूर्धनि ||१३१||
ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च |
प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः ||१३२||
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
उत्तमामापदं प्राप्य गदां वीरः परामृशत् ||१३३||
तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः |
निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः ||१३४||
तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः |
विमलं खड्गमादत्त शतचन्द्रं च भानुमत् ||१३५||
असंशयं तथाभूते पाञ्चाल्यः साध्वमन्यत |
वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः ||१३६||
ततः स्वरथनीडस्थः स्वरथस्य रथेषया |
अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् ||१३७||
चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः |
इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे ||१३८||
सोऽतिष्ठद्युगमध्ये वै युगसंनहनेषु च |
शोणानां जघनार्धेषु तत्सैन्याः समपूजयन् ||१३९||
तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः |
नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् ||१४०||
क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः |
तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे ||१४१||
तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी |
सर्वानेकैकशो द्रोणः कपोताभानजीघनत् ||१४२||
ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः |
शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते ||१४३||
तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः |
नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः ||१४४||
विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः |
द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् ||१४५||
तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः |
यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे ||१४६||
सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् |
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ||१४७||
परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् |
सम्पातं समुदीर्णं च दर्शयामास पार्षतः ||१४८||
ततः शरसहस्रेण शतचन्द्रमपातयत् |
खड्गं चर्म च सम्बाधे धृष्टद्युम्नस्य स द्विजः ||१४९||
ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः |
निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः ||१५०||
शारद्वतस्य पार्थस्य द्रौणेर्वैकर्तनस्य च |
प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः ||१५१||
अथास्येषुं समाधत्त दृढं परमसंशितम् |
अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम् ||१५२||
तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः |
पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः ||१५३||
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ||१५३||
चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् |
द्रोणकर्णान्तरगतं कृपस्यापि च भारत ||१५४||
अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ ||१५४||
अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति |
दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् ||१५५||
अभिपत्य ततः सेनां विष्वक्सेनधनञ्जयौ ||१५५||
धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव |
आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः ||१५६||
आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः |
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् ||१५७||
यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः |
महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः ||१५८||
तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः |
अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् ||१५९||
योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् ||१५९||
१६५
सञ्जय उवाच||
क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे |
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा ||१||
हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत |
छत्राणां चापविद्धानां चामराणां च संयुगे ||२||
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः |
सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाभवत् ||३||
बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम |
चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ||४||
वर्तमाने तथा युद्धे घोरे देवासुरोपमे |
अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ||५||
अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः ||५||
एष वै पार्षतो वीरो भारद्वाजेन सङ्गतः |
घटते च यथाशक्ति भारद्वाजस्य नाशने ||६||
यादृशानि हि रूपाणि दृश्यन्ते नो महारणे |
अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः ||७||
ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत ||७||
युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः |
अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः ||८||
तान्समापततः सर्वान्भारद्वाजो महारथः |
अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः ||९||
प्रयाते सत्यसन्धे तु समकम्पत मेदिनी |
ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम् ||१०||
पपात महती चोल्का आदित्यान्निर्गतेव ह |
दीपयन्तीव तापेन शंसन्तीव महद्भयम् ||११||
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष |
रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ||१२||
हतौजा इव चाप्यासीद्भारद्वाजो महारथः |
ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति ||१३||
सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ||१३||
ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः |
निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे ||१४||
हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः |
दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः ||१५||
सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः |
क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः ||१६||
पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी |
अविषण्णं महात्मानं त्वरमाणः समभ्ययात् ||१७||
ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः |
अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ||१८||
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् |
त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः ||१९||
स तथोक्तो महाबाहुः सर्वभारसहं नवम् |
अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् ||२०||
संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे |
विवारयिषुराचार्यं शरवर्षैरवाकिरत् ||२१||
तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ |
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः ||२२||
स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे |
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ||२३||
स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि |
रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः ||२४||
धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान् |
बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः ||२५||
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः |
मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् ||२६||
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् |
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् ||२७||
यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः |
स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत् ||२८||
अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः |
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ||२९||
श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् |
अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया ||३०||
एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा |
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ||३१||
स चाद्य पतितः शेते पृष्टेनावेदितस्तव |
धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि ||३२||
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः |
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत ||३३||
कर्ण कर्ण महेष्वास कृप दुर्योधनेति च ||३३||
सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः |
पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् ||३४||
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च |
उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च ||३५||
अभयं सर्वभूतानां प्रददौ योगयुक्तवान् ||३५||
तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः |
खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ||३६||
हाहाकृतानि भूतानि मानुषाणीतराणि च |
द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् ||३७||
हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् |
द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः ||३८||
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः |
दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् ||३९||
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते |
एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः ||४०||
समपद्यत चार्काभे भारद्वाजनिशाकरे ||४०||
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत |
आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् ||४१||
ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते ||४१||
वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः |
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ||४२||
अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः |
वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः ||४३||
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः |
महिमानं महाराज योगमुक्तस्य गच्छतः ||४४||
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः |
नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः ||४५||
आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम् ||४५||
वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम् |
धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् ||४६||
तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः |
किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः ||४७||
हर्षेण महता युक्तो भारद्वाजे निपातिते |
सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे ||४८||
आकर्णपलितः श्यामो वयसाशीतिपञ्चकः |
त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् ||४९||
उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः |
जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ||५०||
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह |
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत् ||५१||
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः |
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ||५२||
शोणितेन परिक्लिन्नो रथाद्भूमिमरिंदमः |
लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत ||५३||
एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः ||५३||
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् |
तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् ||५४||
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः |
पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् ||५५||
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् |
अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप ||५६||
ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च |
विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव ||५७||
अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ||५७||
हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः |
अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ||५८||
निहता हयभूयिष्ठाः सङ्ग्रामे निशितैः शरैः |
तावका निहते द्रोणे गतासव इवाभवन् ||५९||
पराजयमथावाप्य परत्र च महद्भयम् |
उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः ||६०||
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः |
नाध्यगच्छंस्तदा राजन्कबन्धायुतसङ्कुले ||६१||
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः |
बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ||६२||
भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः |
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ||६३||
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् |
भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत ||६४||
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ||६४||
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः |
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः ||६५||
तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि |
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः ||६६||
पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते |
अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन् ||६७||
ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः |
हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः ||६८||
विचेतसो हतोत्साहाः कश्मलाभिहतौजसः |
आर्तस्वरेण महता पुत्रं ते पर्यवारयन् ||६९||
रजस्वला वेपमाना वीक्षमाणा दिशो दश |
अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते ||७०||
स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव |
अशक्नुवन्नवस्थातुमपायात्तनयस्तव ||७१||
क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत |
आदित्येन च सन्तप्ता भृशं विमनसोऽभवन् ||७२||
भास्करस्येव पतनं समुद्रस्येव शोषणम् |
विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् ||७३||
अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् |
त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् ||७४||
गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह |
हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः ||७५||
वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् |
परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् ||७६||
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् |
मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् ||७७||
हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः |
वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन् ||७८||
भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः |
कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः ||७९||
पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः |
उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् ||८०||
दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः |
दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः ||८१||
गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः |
दुर्योधनो महाराज प्रायात्तत्र महारथः ||८२||
गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः |
प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः ||८३||
नेदमस्तीति पुरुषा हतोत्साहा हतौजसः |
उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो ||८४||
अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ |
तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे ||८५||
धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलङ्कृतान् |
अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् ||८६||
द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि |
प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् ||८७||
हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः |
कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरदविक्रमः ||८८||
द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् |
दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् ||८९||
किमियं द्रवते सेना त्रस्तरूपेव भारत |
द्रवमाणां च राजेन्द्र नावस्थापयसे रणे ||९०||
त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप |
कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः ||९१||
अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा |
कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत ||९२||
कस्मिन्निदं हते राजन्रथसिंहे बलं तव |
एतामवस्थां सम्प्राप्तं तन्ममाचक्ष्व कौरव ||९३||
तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् |
घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः ||९४||
भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे |
बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् ||९५||
ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् |
शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम् ||९६||
अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः |
शशंस द्रोणपुत्राय यथा द्रोणो निपातितः ||९७||
कृप उवाच||
वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् |
प्रावर्तयाम सङ्ग्रामं पाञ्चालैरेव केवलैः ||९८||
ततः प्रवृत्ते सङ्ग्रामे विमिश्राः कुरुसोमकाः |
अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् ||९९||
ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः |
अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः ||१००||
पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः |
सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः ||१०१||
सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् |
द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे ||१०२||
आकर्णपलितः श्यामो वयसाशीतिपञ्चकः |
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ||१०३||
क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु |
अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन् ||१०४||
तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित् |
दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः ||१०५||
स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् |
मध्यङ्गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् ||१०६||
ते दह्यमाना द्रोणेन सूर्येणेव विराजता |
दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः ||१०७||
तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः |
जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् ||१०८||
नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः |
अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः ||१०९||
ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः |
यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ||११०||
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम |
हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः ||१११||
एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः |
अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः ||११२||
भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव |
अश्वत्थामा हत इति तच्चाबुध्यत ते पिता ||११३||
स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत |
हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः ||११४||
तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः |
अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत ||११५||
भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः ||११५||
उपसृत्य तदा द्रोणमुच्चैरिदमभाषत |
यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि ||११६||
पुत्रस्ते दयितो नित्यं शोऽश्वत्थामा निपातितः ||११६||
तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम् |
नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा ||११७||
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् |
पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् ||११८||
तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः |
दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् ||११९||
ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा |
पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः ||१२०||
न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् |
तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् ||१२१||
उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः |
जीवन्तमानयाचार्यं मा वधीरिति धर्मवित् ||१२२||
तथापि वार्यमाणेन कौरवैरर्जुनेन च |
हत एव नृशंसेन पिता तव नरर्षभ ||१२३||
सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः |
वयं चापि निरुत्साहा हते पितरि तेऽनघ ||१२४||
सञ्जय उवाच||
तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे |
क्रोधमाहारयत्तीव्रं पदाहत इवोरगः ||१२५||
नारायणास्त्रमोक्षपर्व
१६६
धृतराष्ट्र उवाच||
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय |
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् ||१||
मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् |
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् ||२||
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन सञ्जय |
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ||३||
येन रामादवाप्येह धनुर्वेदं महात्मना |
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे ||४||
एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् |
इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथञ्चन ||५||
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् |
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा ||६||
स शिल्पं प्राप्य तत्सर्वं सविशेषं च सञ्जय |
शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः ||७||
रामस्यानुमतः शास्त्रे पुरंदरसमो युधि |
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ ||८||
महीधरसमो धृत्या तेजसाग्निसमो युवा |
समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः ||९||
स रथी प्रथमो लोके दृढधन्वा जितक्लमः |
शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः ||१०||
अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता |
यो न व्यथति सङ्ग्रामे वीरः सत्यपराक्रमः ||११||
वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः |
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा ||१२||
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे |
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ||१३||
धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना |
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् ||१४||
तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना |
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ||१५||
सञ्जय उवाच||
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा |
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ ||१६||
तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत |
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये ||१७||
अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः |
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः ||१८||
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः |
धर्मध्वजवता पापं कृतं तद्विदितं मम ||१९||
अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् ||१९||
युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ |
द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते ||२०||
न्यायवृत्तो वधो यस्तु सङ्ग्रामे युध्यतो भवेत् |
न स दुःखाय भवति तथा दृष्टो हि स द्विजः ||२१||
गतः स वीरलोकाय पिता मम न संशयः |
न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः ||२२||
यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान् |
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ||२३||
कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः |
वैधर्मिकानि कुर्वन्ति तथा परिभवेन च ||२४||
तदिदं पार्षतेनेह महदाधर्मिकं कृतम् |
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना ||२५||
तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् |
अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ||२६||
यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा |
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ||२७||
सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे |
धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् ||२८||
कर्मणा येन तेनेह मृदुना दारुणेन वा |
पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ||२९||
यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः |
प्रेत्य चेह च सम्प्राप्तं त्राणाय महतो भयात् ||३०||
पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा |
मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ||३१||
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् |
यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् ||३२||
स तथाहं करिष्यामि यथा भरतसत्तम |
परलोकगतस्यापि गमिष्याम्यनृणः पितुः ||३३||
आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः |
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ||३४||
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः |
मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः ||३५||
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः |
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ ||३६||
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः |
अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् ||३७||
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः ||३७||
कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे |
दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् ||३८||
अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः |
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह ||३९||
किरन्हि शरजालानि सर्वतो भैरवस्वरम् |
शत्रून्निपातयिष्यामि महावात इव द्रुमान् ||४०||
न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः |
न भीमसेनो न यमौ न च राजा युधिष्ठिरः ||४१||
न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः |
यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् ||४२||
नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् |
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते ||४३||
तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ |
वव्रे पिता मे परममस्त्रं नारायणं ततः ||४४||
अथैनमब्रवीद्राजन्भगवान्देवसत्तमः |
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ||४५||
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन |
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते ||४६||
न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो |
अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् ||४७||
वधः सङ्ख्ये द्रवश्चैव शस्त्राणां च विसर्जनम् |
प्रयाचनं च शत्रूणां गमनं शरणस्य च ||४८||
एते प्रशमने योगा महास्त्रस्य परन्तप |
सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे ||४९||
तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः |
त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः ||५०||
अनेनास्त्रेण सङ्ग्रामे तेजसा च ज्वलिष्यसि ||५०||
एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः |
एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना ||५१||
तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान् |
विद्रावयिष्यामि रणे शचीपतिरिवासुरान् ||५२||
यथा यथाहमिच्छेयं तथा भूत्वा शरा मम |
निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत ||५३||
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः |
अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ||५४||
परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् ||५४||
सोऽहं नारायणास्त्रेण महता शत्रुतापन |
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ||५५||
मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः |
पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते ||५६||
तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी |
ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः ||५७||
भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः |
तथा ननाद वसुधा खुरनेमिप्रपीडिता ||५८||
स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् ||५८||
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् |
समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् ||५९||
तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत |
प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा ||६०||
१६७
सञ्जय उवाच||
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा |
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ||१||
चचाल पृथिवी चापि चुक्षुभे च महोदधिः |
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ||२||
शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत |
अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे ||३||
तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् |
सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ||४||
देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते |
कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ||५||
व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः |
तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम् ||६||
धृतराष्ट्र उवाच||
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे |
भृशं शोकाभितप्तेन पितुर्वधममृष्यता ||७||
कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे |
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय ||८||
सञ्जय उवाच||
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः |
पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत ||९||
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे |
निहते वज्रहस्तेन यथा वृत्रे महासुरे ||१०||
नाशंसन्त जयं युद्धे दीनात्मानो धनञ्जय |
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा ||११||
केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः |
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ||१२||
भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः |
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः ||१३||
युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः ||१३||
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः |
शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ||१४||
विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः |
सञ्छिन्ना नेमिषु गता मृदिताश्च हयद्विपैः ||१५||
क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात् |
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ||१६||
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् |
जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि ||१७||
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् |
पुनरावर्तितं केन यदि जानासि शंस मे ||१८||
हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् |
रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान् ||१९||
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे |
मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् ||२०||
य एष तुमुलः शब्दः श्रूयते लोमहर्षणः |
सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम ||२१||
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः |
द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ||२२||
प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः |
धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ||२३||
क एष कौरवान्दीर्णानवस्थाप्य महारथः |
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ||२४||
अर्जुन उवाच||
उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः |
धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः ||२५||
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते |
धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह ||२६||
ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् |
व्याख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम् ||२७||
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् |
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ||२८||
जातमात्रेण वीरेण येनोच्चैःश्रवसा इव |
हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ||२९||
तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा |
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ||३०||
योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा |
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ||३१||
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् |
तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ||३२||
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् |
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ||३३||
सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः |
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ||३४||
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् |
आचार्य उक्तो भवता हतः कुञ्जर इत्युत ||३५||
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः |
आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः ||३६||
स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः |
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ||३७||
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् |
रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् ||३८||
ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना |
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ||३९||
सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः |
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ||४०||
विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि |
अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः ||४१||
यदा गतं वयो भूयः शिष्टमल्पतरं च नः |
तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान् ||४२||
पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः |
सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः ||४३||
धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते |
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ||४४||
स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः |
अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः ||४५||
अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः |
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ||४६||
तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः |
कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः ||४७||
पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः |
त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः ||४८||
स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः |
तस्मादवाक्षिरा राजन्प्राप्तोऽस्मि नरकं विभो ||४९||
ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम् |
घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम् ||५०||
१६८
सञ्जय उवाच||
अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः |
अप्रियं वा प्रियं वापि महाराज धनञ्जयम् ||१||
ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत |
उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ ||२||
मुनिर्यथारण्यगतो भाषसे धर्मसंहितम् |
न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः ||३||
क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु |
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् ||४||
स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः |
अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे ||५||
पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः |
न चातिवर्तसे धर्मं वेलामिव महोदधिः ||६||
न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम् |
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ||७||
दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते |
आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ||८||
यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः |
द्रौपदी च परामृष्टा सभामानीय शत्रुभिः ||९||
वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः |
अनर्हमाणास्तं भावं त्रयोदश समाः परैः ||१०||
एतान्यमर्षस्थानानि मर्षितानि त्वयानघ |
क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ||११||
तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वया |
सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ||१२||
त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम् |
घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ||१३||
स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते |
भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ||१४||
वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन |
विदीर्यते मे हृदयं त्वया वाक्षल्यपीडितम् ||१५||
अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे |
यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि ||१६||
यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि ||१६||
स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम् |
दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ||१७||
आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम् |
गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ||१८||
स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ |
द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम ||१९||
अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः |
अहमेनं गदापाणिर्जेष्याम्येको महाहवे ||२०||
ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् |
सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः ||२१||
बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् |
याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ ||२२||
षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः |
हतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे ||२३||
अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः |
अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् ||२४||
तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् |
माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् ||२५||
तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा |
कुरुते भैरवं नादं तत्र किं मम हीयते ||२६||
न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जया |
घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ||२७||
यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् |
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ||२८||
यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे |
तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय ||२९||
यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः |
सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ||३०||
विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् |
जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे ||३१||
नृशंसः स मयाक्रम्य रथ एव निपातितः |
तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ||३२||
कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् |
भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि ||३३||
योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् |
छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः ||३४||
तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया |
निषादविषये क्षिप्तं जयद्रथशिरो यथा ||३५||
अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन |
क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः ||३६||
स शत्रुर्निहतः सङ्ख्ये मया धर्मेण पाण्डव |
यथा त्वया हतः शूरो भगदत्तः पितुः सखा ||३७||
पितामहं रणे हत्वा मन्यसे धर्ममात्मनः |
मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ||३८||
नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन |
शिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव ||३९||
१६९
धृतराष्ट्र उवाच||
साङ्गा वेदा यथान्यायं येनाधीता महात्मना |
यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः ||१||
तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा |
नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना ||२||
यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः |
अमानुषाणि सङ्ग्रामे देवैरसुकराणि च ||३||
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः |
नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम् ||४||
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः |
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय ||५||
सञ्जय उवाच||
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः |
तूष्णीं बभूवू राजानः सर्व एव विशां पते ||६||
अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् |
सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् ||७||
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे |
आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् ||८||
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् |
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ||९||
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते |
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ||१०||
याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः |
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ||११||
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् |
वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ||१२||
कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः |
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ||१३||
सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः |
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ||१४||
उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम् |
तथान्तो विहितस्तेन स्वयमेव महात्मना ||१५||
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः |
नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ||१६||
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल |
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ||१७||
पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः |
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ||१८||
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि |
शिरस्ते पातयिष्यामि गदया वज्रकल्पया ||१९||
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् |
संरब्धः सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव ||२०||
श्रूयते श्रूयते चेति क्षम्यते चेति माधव |
न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि ||२१||
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् |
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ||२२||
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः |
आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ||२३||
यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया |
वार्यमाणेन निहतस्ततः पापतरं नु किम् ||२४||
व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे |
विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ||२५||
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् |
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् ||२६||
निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् |
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ||२७||
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः |
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ||२८||
यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् |
किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् ||२९||
स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् |
वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ ||३०||
कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम |
पापानां च त्वमावासः कर्मणां मा पुनर्वद ||३१||
जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम् |
अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि ||३२||
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् |
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ||३३||
न चैव मूर्ख धर्मेण केवलेनैव शक्यते |
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ||३४||
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः |
द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके ||३५||
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया |
सर्वस्वमपकृष्टं च तथाधर्मेण बालिश ||३६||
अधर्मेणापकृष्टश्च मद्रराजः परैरितः |
इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः ||३७||
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ||३७||
एवं परैराचरितं पाण्डवेयैश्च संयुगे |
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ||३८||
दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः |
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ||३९||
एवमादीनि वाक्यानि क्रूराणि परुषाणि च |
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ||४०||
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् |
विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ||४१||
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् |
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ||४२||
तमापतन्तं सहसा महाबलममर्षणम् |
पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकायान्तकोपमम् ||४३||
चोदितो वासुदेवेन भीमसेनो महाबलः |
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ||४४||
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली |
प्रस्कन्दमानमादाय जगाम बलिनं बलात् ||४५||
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः |
निगृहीतः पदे षष्ठे बलेन बलिनां वरः ||४६||
अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा |
उवाच श्लक्ष्णया वाचा सहदेवो विशां पते ||४७||
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते |
परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव ||४८||
तथैवान्धकवृष्णीनां तव चैव विशेषतः |
कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते ||४९||
पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् |
नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः ||५०||
स भवानीदृशं मित्रं मन्यते च यथा भवान् |
भवन्तश्च यथास्माकं भवतां च तथा वयम् ||५१||
स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन् |
नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गव ||५२||
पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः |
वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ||५३||
प्रशाम्यमाने शैनेये सहदेवेन मारिष |
पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ||५४||
मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् |
आसादयतु मामेष धराधरमिवानिलः ||५५||
यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् |
युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे ||५६||
किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम् |
सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ||५७||
अथ वा फल्गुनः सर्वान्वारयिष्यति संयुगे |
अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः ||५८||
मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे |
उत्सृजैनमहं वैनमेष मां वा हनिष्यति ||५९||
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् |
भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ||६०||
त्वरया वासुदेवश्च धर्मराजश्च मारिष |
यत्नेन महता वीरौ वारयामासतुस्ततः ||६१||
निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ |
युयुत्सवः परान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः ||६२||
१७०
सञ्जय उवाच||
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः |
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ||१||
ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् |
अश्वकिम्पुरुषाकीर्णं शरासनलतावृतम् ||२||
शूलक्रव्यादसङ्घुष्टं भूतयक्षगणाकुलम् |
निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ||३||
ततो वेगेन महता विनद्य स नरर्षभः |
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् ||४||
यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः |
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ||५||
तस्मात्सम्पश्यतस्तस्य द्रावयिष्यामि वाहिनीम् |
विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु ||६||
सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे |
सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् ||७||
तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् |
सिंहनादेन महता व्यपोह्य सुमहद्भयम् ||८||
ततः समागमो राजन्कुरुपाण्डवसेनयोः |
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव ||९||
संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः |
उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ||१०||
तेषां परमहृष्टानां जयमात्मनि पश्यताम् |
संरब्धानां महावेगः प्रादुरासीद्रणाजिरे ||११||
यथा शिलोच्चये शैलः सागरे सागरो यथा |
प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः ||१२||
ततः शङ्खसहस्राणि भेरीणामयुतानि च |
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ||१३||
ततो निर्मथ्यमानस्य सागरस्येव निस्वनः |
अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः ||१४||
प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा |
अभिसन्धाय पाण्डूनां पाञ्चालानां च वाहिनीम् ||१५||
प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः |
पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः ||१६||
ते दिशः खं च सैन्यं च समावृण्वन्महाहवे |
मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः ||१७||
तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले |
प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः ||१८||
चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः |
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ||१९||
शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ |
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः ||२०||
यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः |
तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप ||२१||
वध्यमानास्तथास्त्रेण तेन नारायणेन वै |
दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे ||२२||
यथा हि शिशिरापाये दहेत्कक्षं हुताशनः |
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ||२३||
आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो |
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः ||२४||
द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् |
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् ||२५||
धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया |
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् ||२६||
वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् |
उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः ||२७||
सङ्ग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः |
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ||२८||
भीष्मद्रोणार्णवं तीर्त्वा सङ्ग्रामं भीरुदुस्तरम् |
अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे ||२९||
कामः सम्पद्यतामस्य बीभत्सोराशु मां प्रति |
कल्याणवृत्त आचार्यो मया युधि निपातितः ||३०||
येन बालः स सौभद्रो युद्धानामविशारदः |
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः ||३१||
येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता |
उपेक्षिता सपुत्रेण दासभावं नियच्छती ||३२||
जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् |
कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च ||३३||
येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः |
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः ||३४||
येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः |
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ||३५||
योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् |
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः ||३६||
एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः |
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् ||३७||
शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत |
एष योगोऽत्र विहितः प्रतिघातो महात्मना ||३८||
द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत |
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् ||३९||
यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति |
तथा तथा भवन्त्येते कौरवा बलवत्तराः ||४०||
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये |
तान्नैतदस्त्रं सङ्ग्रामे निहनिष्यति मानवान् ||४१||
ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन |
निहनिष्यति तान्सर्वान्रसातलगतानपि ||४२||
ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत |
ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च ||४३||
तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः |
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः ||४४||
न कथञ्चन शस्त्राणि मोक्तव्यानीह केनचित् |
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः ||४५||
अथ वाप्यनया गुर्व्या हेमविग्रहया रणे |
कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन् ||४६||
न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह |
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ||४७||
पश्यध्वं मे दृढौ बाहू नागराजकरोपमा |
समर्थौ पर्वतस्यापि शैशिरस्य निपातने ||४८||
नागायुतसमप्राणो ह्यहमेको नरेष्विह |
शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः ||४९||
अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि |
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे ||५०||
यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते |
अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु ||५१||
एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः |
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ||५२||
स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः |
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ||५३||
ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च |
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ||५४||
पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे |
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ||५५||
तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे |
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये ||५६||
तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति |
अवर्धत महाराज यथाग्निरनिलोद्धतः ||५७||
विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् |
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् ||५८||
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले |
अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ||५९||
तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च |
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ||६०||
हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः |
भीमसेनमपश्यन्त तेजसा संवृतं तदा ||६१||
१७१
सञ्जय उवाच||
भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनञ्जयः |
तेजसः प्रतिघातार्थं वारुणेन समावृणोत् ||१||
नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम् |
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः ||२||
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः |
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः ||३||
यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति |
समापेतुस्तथा बाणा भीमसेनरथं प्रति ||४||
स हि भीमो रथश्चास्य हयाः सूतश्च मारिष |
संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् ||५||
यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम् |
गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत् ||६||
सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः |
तथा प्रविष्टं तत्तेजो न प्राज्ञायत किञ्चन ||७||
विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति |
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वमाहवे ||८||
सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः |
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान् ||९||
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती |
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः ||१०||
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम् |
विगाह्य तौ सुबलिनौ माययाविशतां तदा ||११||
न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः |
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः ||१२||
ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च |
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् ||१३||
अपकृष्यमाणः कौन्तेयो नदत्येव महारथः |
वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम् ||१४||
तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन |
वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे ||१५||
यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः |
वयमप्यत्र युध्येम तथा चेमे नरर्षभाः ||१६||
रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः |
तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम ||१७||
एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत् |
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् ||१८||
यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि |
ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् ||१९||
तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे |
बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च ||२०||
प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः |
वाहनानि च हृष्टानि योधाश्च मनुजेश्वर ||२१||
व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत |
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः ||२२||
हतशेषं बलं तत्र पाण्डवानामतिष्ठत |
अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया ||२३||
व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा |
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् ||२४||
अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय |
व्यवस्थिता हि पाञ्चालाः पुनरेव जयैषिणः ||२५||
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष |
सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत् ||२६||
नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते |
आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः ||२७||
एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् |
अन्यथा विहितः सङ्ख्ये वधः शत्रोर्जनाधिप ||२८||
पराजयो वा मृत्युर्वा श्रेयो मृत्युर्न निर्जयः |
निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः ||२९||
दुर्योधन उवाच||
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते |
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर ||३०||
त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा |
इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरंदरः ||३१||
धृतराष्ट्र उवाच||
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते |
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः ||३२||
दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय समवस्थितान् |
नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे ||३३||
सञ्जय उवाच||
जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः |
सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम् ||३४||
अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः |
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम् ||३५||
धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् |
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् ||३६||
सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः |
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः ||३७||
विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पयन्निव मेदिनीम् |
आददत्सर्वलोकस्य प्राणानिव महारणे ||३८||
पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः |
द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् ||३९||
ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि |
अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः ||४०||
तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः |
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् ||४१||
द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके |
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् ||४२||
व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे |
तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादयच्छरैः ||४३||
प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते |
सम्भ्रान्तरूपमार्तं च शरवर्षपरिक्षतम् ||४४||
दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम् |
शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति ||४५||
अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत् |
विंशत्या पुनराहत्य नानारूपैरमर्षणम् ||४६||
विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् ||४६||
सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः |
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् ||४७||
शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः |
न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च ||४८||
एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् |
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः ||४९||
स तं निर्भिद्य तेनास्तः सायकः सशरावरम् |
विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः ||५०||
स भिन्नकवचः शूरस्तोत्त्रार्दित इव द्विपः |
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः ||५१||
सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् |
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् ||५२||
अथान्येन सुपुङ्खेन शरेण नतपर्वणा |
आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परन्तपः ||५३||
स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः |
ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम् ||५४||
तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम् |
जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः ||५५||
किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः |
युवराजश्च चेदीनां मालवश्च सुदर्शनः ||५६||
पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् ||५६||
आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरैः |
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान् ||५७||
सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत् |
मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम् ||५८||
ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः |
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः ||५९||
युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम् |
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः ||६०||
ततोऽर्जुनं षड्भिरथाजघान; द्रौणायनिर्दशभिर्वासुदेवम् |
भीमं दशार्धैर्युवराजं चतुर्भि; र्द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च ||६१||
पुनः पार्थं शरवर्षेण विद्ध्वा; द्रौणिर्घोरं सिंहनादं ननाद ||६१||
तस्यास्यतः सुनिशितान्पीतधारा; न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च |
धरा वियद्द्यौः प्रदिशो दिशश्च; छन्ना बाणैरभवन्घोररूपैः ||६२||
आसीनस्य स्वरथं तूग्रतेजाः; सुदर्शनस्येन्द्रकेतुप्रकाशौ |
भुजौ शिरश्चेन्द्रसमानवीर्य; स्त्रिभिः शरैर्युगपत्सञ्चकर्त ||६३||
स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश्चापि बाणैः |
छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच्छिर उच्चकर्त ||६४||
युवानमिन्दीवरदामवर्णं; चेदिप्रियं युवराजं प्रहस्य |
बाणैस्त्वरावाञ्ज्वलिताग्निकल्पै; र्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम् ||६५||
तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः |
दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः ||६६||
ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः |
धृष्टद्युम्नरथं भीतास्त्यक्त्वा सम्प्राद्रवन्दिशः ||६७||
तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः |
अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम् ||६८||
ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः |
द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे ||६९||
१७२
सञ्जय उवाच||
तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः |
न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया ||१||
ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे |
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ||२||
एक एव तु बीभत्सुः सोमकावयवैः सह |
मत्स्यैरन्यैश्च सन्धाय कौरवैः संन्यवर्तत ||३||
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् |
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ||४||
या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् |
धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते ||५||
यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय ||५||
स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः |
कालानलसमप्रख्यो द्विषतामन्तको युधि ||६||
समासादय पाञ्चाल्यं मां चापि सहकेशवम् ||६||
धृतराष्ट्र उवाच||
आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय |
प्रीतिर्धनञ्जये चास्य प्रियश्चापि स वासवेः ||७||
न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् |
अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् ||८||
सञ्जय उवाच||
युवराजे हते चैव वृद्धक्षत्रे च पौरवे |
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ||९||
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते |
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ||१०||
अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो |
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ||११||
तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् |
मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा ||१२||
एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप |
पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा ||१३||
द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ||१३||
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् |
देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ||१४||
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः |
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ||१५||
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ||१५||
ततस्तुमुलमाकाशे शरवर्षमजायत |
ववुश्च शिशिरा वाताः सूर्यो नैव तताप च ||१६||
चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् |
रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे ||१७||
पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः |
परमं प्रयतात्मानो न शान्तिमुपलेभिरे ||१८||
भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् |
त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवातुरम् ||१९||
शरतेजोऽभिसन्तप्ता नागा भूमिशयास्तथा |
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ||२०||
जलजानि च सत्त्वानि दह्यमानानि भारत |
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ||२१||
दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः |
उच्चावचा निपेतुर्वै गरुडानिलरंहसः ||२२||
तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः |
प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः ||२३||
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः |
नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् ||२४||
अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः |
त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः ||२५||
द्रुमाणां शिखराणीव दावदग्धानि मारिष |
अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो ||२६||
अपतन्त रथौघाश्च तत्र तत्र सहस्रशः ||२६||
तत्सैन्यं भगवानग्निर्ददाह युधि भारत |
युगान्ते सर्वभूतानि संवर्तक इवानलः ||२७||
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे |
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ||२८||
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत |
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ||२९||
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः |
तमसा संवृते लोके नादृश्यत महाहवे ||३०||
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् |
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ||३१||
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् |
सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना ||३२||
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह |
प्रववौ चानिलः शीतो दिशश्च विमलाभवन् ||३३||
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् |
अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया ||३४||
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ |
सहितौ सम्प्रदृश्येतां नभसीव तमोनुदौ ||३५||
सपताकध्वजहयः सानुकर्षवरायुधः |
प्रबभौ स रथो मुक्तस्तावकानां भयङ्करः ||३६||
ततः किलकिलाशब्दः शङ्खभेरीरवैः सह |
पाण्डवानां प्रहृष्टानां क्षणेन समजायत ||३७||
हताविति तयोरासीत्सेनयोरुभयोर्मतिः |
तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ ||३८||
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ |
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् ||३९||
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः |
मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष ||४०||
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः |
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा ||४१||
ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः |
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ||४२||
ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् |
आवासं च सरस्वत्याः स वै व्यासं ददर्श ह ||४३||
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह |
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ||४४||
भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् |
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ||४५||
अधरोत्तरमेतद्वा लोकानां वा पराभवः |
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ||४६||
नासुरामरगन्धर्वा न पिशाचा न राक्षसाः |
न सर्पयक्षपतगा न मनुष्याः कथञ्चन ||४७||
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् |
तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत् ||४८||
केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ |
एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ||४९||
व्यास उवाच||
महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात् |
तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ||५०||
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः |
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ||५१||
स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः |
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः ||५२||
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च |
अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः ||५३||
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् |
द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ||५४||
स तेन तपसा तात ब्रह्मभूतो यदाभवत् |
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ||५५||
ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम् |
अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम् ||५६||
रुद्रमीशानमृषभं चेकितानमजं परम् |
गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् ||५७||
दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं प्रचेतसम् |
दिव्यं चापमिषुधी चाददानं; हिरण्यवर्माणमनन्तवीर्यम् ||५८||
पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं स्वायतासिम् |
सुभ्रुं जटामण्डलचन्द्रमौलिं; व्याघ्राजिनं परिघं दण्डपाणिम् ||५९||
शुभाङ्गदं नागयज्ञोपवीतिं; विश्वैर्गणैः शोभितं भूतसङ्घैः |
एकीभूतं तपसां संनिधानं; वयोतिगैः सुष्टुतमिष्टवाग्भिः ||६०||
जलं दिवं खं क्षितिं चन्द्रसूर्यौ; तथा वाय्वग्नी प्रतिमानं जगच्च |
नालं द्रष्टुं यमजं भिन्नवृत्ता; ब्रह्मद्विषघ्नममृतस्य योनिम् ||६१||
यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः; क्षीणे पापे मनसा ये विशोकाः |
स तन्निष्ठस्तपसा धर्ममीड्यं; तद्भक्त्या वै विश्वरूपं ददर्श ||६२||
दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम् ||६२||
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् |
ततो नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् ||६३||
वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् |
अजमीशानमव्यग्रं कारणात्मानमच्युतम् ||६४||
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने |
पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् ||६५||
त्वत्सम्भूता भूतकृतो वरेण्य; गोप्तारोऽद्य भुवनं पूर्वदेवाः |
आविश्येमां धरणीं येऽभ्यरक्ष; न्पुरा पुराणां तव देव सृष्टिम् ||६६||
सुरासुरान्नागरक्षःपिशाचा; न्नरान्सुपर्णानथ गन्धर्वयक्षान् |
पृथग्विधान्भूतसङ्घांश्च विश्वां; स्त्वत्सम्भूतान्विद्म सर्वांस्तथैव ||६७||
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ||६७||
रूपं ज्योतिः शब्द आकाशवायुः; स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी |
कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च; त्वत्सम्भूतं स्थास्नु चरिष्णु चेदम् ||६८||
अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं; ताभिश्चैक्यं सङ्क्षये यान्ति भूयः |
एवं विद्वान्प्रभवं चाप्ययं च; हित्वा भूतानां तत्र सायुज्यमेति ||६९||
दिव्यावृतौ मानसौ द्वौ सुपर्णा; ववाक्षाखः पिप्पलः सप्त गोपाः |
दशाप्यन्ये ये पुरं धारयन्ति; त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् ||७०||
भूतं भव्यं भविता चाप्यधृष्यं; त्वत्सम्भूता भुवनानीह विश्वा ||७०||
भक्तं च मां भजमानं भजस्व; मा रीरिषो मामहिताहितेन |
आत्मानं त्वामात्मनोऽनन्यभावो; विद्वानेवं गच्छति ब्रह्म शुक्रम् ||७१||
अस्तौषं त्वां तव संमानमिच्छ; न्विचिन्वन्वै सवृषं देववर्य |
सुदुर्लभान्देहि वरान्ममेष्टा; नभिष्टुतः प्रतिकार्षीश्च मा माम् ||७२||
तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् |
अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः ||७३||
नीलकण्ठ उवाच||
मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु |
अप्रमेयबलात्मा त्वं नारायण भविष्यसि ||७४||
न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः |
न पिशाचा न गन्धर्वा न नरा न च राक्षसाः ||७५||
न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः |
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ||७६||
न शस्त्रेण न वज्रेण नाग्निना न च वायुना |
नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा ||७७||
कश्चित्तव रुजं कर्ता मत्प्रसादात्कथञ्चन |
अपि चेत्समरं गत्वा भविष्यसि ममाधिकः ||७८||
व्यास उवाच||
एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा |
स एष देवश्चरति मायया मोहयञ्जगत् ||७९||
तस्यैव तपसा जातं नरं नाम महामुनिम् |
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ||८०||
तावेतौ पूर्वदेवानां परमोपचितावृषी |
लोकयात्राविधानार्थं सञ्जायेते युगे युगे ||८१||
तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च |
तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते ||८२||
स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् |
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ||८३||
शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् |
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ||८४||
स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् |
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ||८५||
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः |
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे ||८६||
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् |
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ||८७||
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः |
प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् ||८८||
स एष रुद्रभक्तश्च केशवो रुद्रसम्भवः |
कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः ||८९||
सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् |
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ||९०||
सञ्जय उवाच||
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः |
नमश्चकार रुद्राय बहु मेने च केशवम् ||९१||
हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये |
वरूथिनीमभिप्रेत्य अवहारमकारयत् ||९२||
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते |
कौरवाणां च दीनानां द्रोणे युधि निपातिते ||९३||
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् |
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ||९४||
१७३
धृतराष्ट्र उवाच||
तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय |
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ||१||
सञ्जय उवाच||
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै |
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः ||२||
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् |
यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ ||३||
सङ्ग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम् |
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ||४||
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते |
तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने ||५||
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति |
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ||६||
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः |
तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् ||७||
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः |
शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः ||८||
व्यास उवाच||
प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् |
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ||९||
ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् |
तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् ||१०||
महादेवं महात्मानमीशानं जटिलं शिवम् |
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ||११||
दातारं चैव भक्तानां प्रसादविहितान्वरान् ||११||
तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः |
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ||१२||
महाकाया महोत्साहा महाकर्णास्तथापरे |
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ||१३||
ईदृशैः स महादेवः पूज्यमानो महेश्वरः |
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ||१४||
तस्मिन्घोरे तदा पार्थ सङ्ग्रामे लोमहर्षणे ||१४||
द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः |
कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ||१५||
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ||१५||
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते |
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ||१६||
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः |
विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ||१७||
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि |
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ||१८||
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् |
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ||१९||
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा |
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ||२०||
कपर्दिने करालाय हर्यक्ष्णे वरदाय च |
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ||२१||
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च |
हरिकेशाय मुण्डाय कृशायोत्तरणाय च ||२२||
भास्कराय सुतीर्थाय देवदेवाय रंहसे |
बहुरूपाय शर्वाय प्रियाय प्रियवाससे ||२३||
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे |
गिरिशाय प्रशान्ताय पतये चीरवाससे ||२४||
हिरण्यबाहवे चैव उग्राय पतये दिशाम् |
पर्जन्यपतये चैव भूतानां पतये नमः ||२५||
वृक्षाणां पतये चैव अपां च पतये तथा |
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ||२६||
स्रुवहस्ताय देवाय धन्विने भार्गवाय च |
बहुरूपाय विश्वस्य पतये चीरवाससे ||२७||
सहस्रशिरसे चैव सहस्रनयनाय च |
सहस्रबाहवे चैव सहस्रचरणाय च ||२८||
शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् |
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ||२९||
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ||२९||
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् |
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ||३०||
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् |
वृषायुधं वृषशरं वृषभूतं महेश्वरम् ||३१||
महोदरं महाकायं द्वीपिचर्मनिवासिनम् |
लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ||३२||
त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् |
पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ||३३||
प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ||३३||
नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा |
सुवाससे नमो नित्यं सुव्रताय सुधन्विने ||३४||
स्रुवहस्ताय देवाय सुखधन्वाय धन्विने |
धन्वन्तराय धनुषे धन्वाचार्याय धन्विने ||३५||
उग्रायुधाय देवाय नमः सुरवराय च |
नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने ||३६||
नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने |
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ||३७||
वनस्पतीनां पतये नराणां पतये नमः |
अपां च पतये नित्यं यज्ञानां पतये नमः ||३८||
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च |
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ||३९||
कर्माणि चैव दिव्यानि महादेवस्य धीमतः |
तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् ||४०||
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः |
सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः ||४१||
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा |
धनुषा बाणमुत्सृज्य सघोषं विननाद च ||४२||
ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा |
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ||४३||
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः |
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ||४४||
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा |
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ||४५||
अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः |
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ||४६||
चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च |
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ||४७||
पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव |
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ||४८||
ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम् |
पुनश्च संदधे दीप्तं देवानां निशितं शरम् ||४९||
रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन् |
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ||५०||
तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा |
यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति ||५१||
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि |
आयसं राजतं चैव सौवर्णमपरं महत् ||५२||
आयसं तारकाक्षस्य कमलाक्षस्य राजतम् |
सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च ||५३||
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि |
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ||५४||
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः |
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ||५५||
निपातयिष्यसे चैनानसुरान्भुवनेश्वर ||५५||
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया |
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ||५६||
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै |
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ||५७||
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् |
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ||५८||
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः |
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् ||५९||
बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः |
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ||६०||
न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम् |
सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ||६१||
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् |
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ||६२||
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः |
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ||६३||
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः |
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ||६४||
स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् |
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ||६५||
स भवः स च पर्जन्यो महादेवः स चानघः |
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ||६६||
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च |
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ||६७||
स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् |
सर्वासां देवतानां च धारयत्यवपुर्वपुः ||६८||
सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः |
शतधा सहस्रधा चैव तथा शतसहस्रधा ||६९||
ईदृशः स महादेवो भूयश्च भगवानजः |
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ||७०||
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् |
स मोचयति सुप्रीतः शरण्यः शरणागतान् ||७१||
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् |
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ||७२||
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते |
स चैव व्याहृते लोके मनुष्याणां शुभाशुभे ||७३||
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते |
महेश्वरश्च भूतानां महतामीश्वरश्च सः ||७४||
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् |
अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत ||७५||
एष चैव श्मशानेषु देवो वसति नित्यशः |
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ||७६||
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च |
लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च ||७७||
नामधेयानि लोकेषु बहून्यत्र यथार्थवत् |
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ||७८||
वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् |
नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः ||७९||
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः |
स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् ||८०||
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा |
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ||८१||
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः |
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ||८२||
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् |
महयन्ति च लोकाश्च महेश्वर इति स्मृतः ||८३||
ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा |
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ||८४||
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः |
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः ||८५||
यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम् |
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ||८६||
एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा |
क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः ||८७||
धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते |
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ||८८||
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः |
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ||८९||
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु |
शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः ||९०||
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा |
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ||९१||
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् |
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ||९२||
विषमस्थः शरीरेषु समश्च प्राणिनामिह |
स वायुर्विषमस्थेषु प्राणापानशरीरिषु ||९३||
पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् |
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ||९४||
ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः |
आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते ||९५||
तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः |
भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते ||९६||
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया |
यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ||९७||
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् |
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ||९८||
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः |
सङ्ग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् ||९९||
एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः |
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ||१००||
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सञ्ज्ञितम् |
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ||१०१||
सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् |
सर्वपापप्रशमनं सर्वदुःखभयापहम् ||१०२||
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा |
विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते ||१०३||
चरितं महात्मनो दिव्यं साङ्ग्रामिकमिदं शुभम् |
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ||१०४||
भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा |
वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः ||१०५||
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः |
यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः ||१०६||
सञ्जय उवाच||
एवमुक्त्वार्जुनं सङ्ख्ये पराशरसुतस्तदा |
जगाम भरतश्रेष्ठ यथागतमरिंदम ||१०७||
Mahabharata Critical Edition Only for Personal Studies
Encoding: ISCII
Electronic text (C) Bhandarkar Oriental Research Institute,
Pune, India, 1999
http://bombay.indology.info/mahabharata/statement.html
for further details
% File name : mbh07.itx
%--------------------------------------------
% Text title : 7 mahAbhArate droNaparva.n
% Author : Veda Vyasa
% Language : sanskrit
% Subject : religion
% Description/comments : Access available at Prof John Smith's site
% http://bombay.indology.info/mahabharata/statement.html
% Transliterated by : Prof. Tokunaga
% Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga
% Latest update : September 16, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .