|| वाल्मीकि रामायण - बालकाण्ड ||

|| सर्ग ||

१७
निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मनः |
प्रतिगृह्य सुरा भागान्प्रतिजग्मुर्यथागतम् || १||

समाप्तदीक्षानियमः पत्नीगणसमन्वितः |
प्रविवेश पुरीं राजा सभृत्यबलवाहनः || २||

यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः |
मुदिताः प्रययुर्देशान्प्रणम्य मुनिपुङ्गवम् || ३||

गतेषु पृथिवीशेषु राजा दशरथः पुनः |
प्रविवेश पुरीं श्रीमान्पुरस्कृत्य द्विजोत्तमान् || ४||

शान्तया प्रययौ सार्धमृष्यशृङ्गः सुपूजितः |
अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता || ५||

कौसल्याजनयद्रामं दिव्यलक्षणसंयुतम् |
विष्णोरर्धं महाभागं पुत्रमिक्ष्वाकुनन्दनम् || ६||

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा |
यथा वरेण देवानामदितिर्वज्रपाणिना || ७||

भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः |
साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः || ८||

अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ |
वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ || ९||

राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् |
गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः || १०||

अतीत्यैकादशाहं तु नाम कर्म तथाकरोत् |
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् || ११||

सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा |
वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा |
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् || १२||

तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः |
बभूव भूयो भूतानां स्वयम्भूरिव संमतः || १३||

सर्वे वेदविदः शूराः सर्वे लोकहिते रताः |
सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः || १४||

तेषामपि महातेजा रामः सत्यपराक्रमः |
बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः || १५||

रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः |
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः || १६||

लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः |
न च तेन विना निद्रां लभते पुरुषोत्तमः |
मृष्टमन्नमुपानीतमश्नाति न हि तं विना || १७||

यदा हि हयमारूढो मृगयां याति राघवः |
तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् || १८||

भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः |
प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः || १९||

स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः |
बभूव परमप्रीतो देवैरिव पितामहः || २०||

ते यदा ज्ञानसम्पन्नाः सर्वे समुदिता गुणैः |
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः || २१||

अथ राजा दशरथस्तेषां दारक्रियां प्रति |
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः || २२||

तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः |
अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः || २३||

स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह |
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् || २४||

तच्छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः |
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः || २५||

ते गत्वा राजभवनं विश्वामित्रमृषिं तदा |
प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा || २६||

तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः |
प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः || २७||

स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् |
प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् || २८||

स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्ट्तेन कर्मणा |
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् || २९||

वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः |
ऋषींश्च तान्यथा न्यायं महाभागानुवाच ह || ३०||

ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् |
विविशुः पूजितास्तत्र निषेदुश्च यथार्थतः || ३१||

अथ हृष्टमना राजा विश्वामित्रं महामुनिम् |
उवाच परमोदारो हृष्टस्तमभिपूजयन् || ३२||

यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके |
यथा सदृशदारेषु पुत्रजन्माप्रजस्य च |
प्रनष्टस्य यथा लाभो यथा हर्षो महोदये |
तथैवागमनं मन्ये स्वागतं ते महामुने || ३३||

कं च ते परमं कामं करोमि किमु हर्षितः |
पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि धार्मिक |
अद्य मे सफलं जन्म जीवितं च सुजीवितम् || ३४||

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः |
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया || ३५||

तदद्भुतमिदं विप्र पवित्रं परमं मम |
शुभक्षेत्रगतश्चाहं तव सन्दर्शनात्प्रभो || ३६||

ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति |
इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये || ३७||

कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक |
कर्ता चाहमशेषेण दैवतं हि भवान्मम || ३८||

इति हृदयसुखं निशम्य वाक्यं
श्रुतिसुखमात्मवता विनीतमुक्तम् |
प्रथितगुणयशा गुणैर्विशिष्टः
परम ऋषिः परमं जगाम हर्षम् || ३९||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).