|| वाल्मीकि रामायण - बालकाण्ड ||

|| सर्ग ||

३६
तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा |
सेनापतिमभीप्सन्तः पितामहमुपागमन् || १||

ततोऽब्रुवन्सुराः सर्वे भगवन्तं पितामहम् |
प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः || २||

यो नः सेनापतिर्देव दत्तो भगवता पुरा |
स तपः परमास्थाय तप्यते स्म सहोमया || ३||

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया |
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः || ४||

देवतानां वचः श्रुत्वा सर्वलोकपितामहः |
सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् || ५||

शैलपुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषु |
तस्या वचनमक्लिष्टं सत्यमेव न संशयः || ६||

इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः |
जनयिष्यति देवानां सेनापतिमरिन्दमम् || ७||

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् |
उमायास्तद्बहुमतं भविष्यति न संशयः || ८||

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन |
प्रणिपत्य सुराः सर्वे पितामहमपूजयन् || ९||

ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् |
अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः || १०||

देवकार्यमिदं देव समाधत्स्व हुताशन |
शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज || ११||

देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः |
गर्भं धारय वै देवि देवतानामिदं प्रियम् || १२||

इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् |
स तस्या महिमां दृष्ट्वा समन्तादवकीर्यत || १३||

समन्ततस्तदा देवीमभ्यषिञ्चत पावकः |
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन || १४||

तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् |
अशक्ता धारणे देव तव तेजः समुद्धतम् |
दह्यमानाग्निना तेन सम्प्रव्यथितचेतना || १५||

अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः |
इह हैमवते पादे गर्भोऽयं संनिवेश्यताम् || १६||

श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् |
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ || १७||

यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् |
काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् || १८||

ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत |
मलं तस्याभवत्तत्र त्रपुसीसकमेव च || १९||

तदेतद्धरणीं प्राप्य नानाधातुरवर्धत || २०||

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् |
सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् || २१||

जातरूपमिति ख्यातं तदा प्रभृति राघव |
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् || २२||

तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः |
क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् || २३||

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् |
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः || २४||

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् |
पुत्रस्त्रैलोक्य विख्यातो भविष्यति न संशयः || २५||

तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे |
स्नापयन्परया लक्ष्म्या दीप्यमानमिवानलम् || २६||

स्कन्द इत्यब्रुवन्देवाः स्कन्नं गर्भपरिस्रवात् |
कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम् || २७||

प्रादुर्भूतं ततः क्षीरं कृत्तिकानाम् अनुत्तमम् |
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः || २८||

गृहीत्वा क्षीरमेकाह्ना सुकुमार वपुस्तदा |
अजयत्स्वेन वीर्येण दैत्यसैन्यगणान्विभुः || २९||

सुरसेनागणपतिं ततस्तममलद्युतिम् |
अभ्यषिञ्चन्सुरगणाः समेत्याग्निपुरोगमाः || ३०||

एष ते राम गङ्गाया विस्तरोऽभिहितो मया |
कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च || ३१||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).