|| वाल्मीकि रामायण - बालकाण्ड ||
|| सर्ग ||
७०
एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः |
श्रोतुमर्हसि भद्रं ते कुलं नः कीर्तितं परम् || १||
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः |
वक्तव्यं कुलजातेन तन्निबोध महामुने || २||
राजाभूत्त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा |
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः || ३||
तस्य पुत्रो मिथिर्नाम जनको मिथि पुत्रकः |
प्रथमो जनको नाम जनकादप्युदावसुः || ४||
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः |
नन्दिवर्धन पुत्रस्तु सुकेतुर्नाम नामतः || ५||
सुकेतोरपि धर्मात्मा देवरातो महाबलः |
देवरातस्य राजर्षेर्बृहद्रथ इति श्रुतः || ६||
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान् |
महावीरस्य धृतिमान्सुधृतिः सत्यविक्रमः || ७||
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः |
धृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः || ८||
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः |
प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः || ९||
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः |
देवमीढस्य विबुधो विबुधस्य महीध्रकः || १०||
महीध्रकसुतो राजा कीर्तिरातो महाबलः |
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत || ११||
महारोंणस्तु धर्मात्मा स्वर्णरोमा व्यजायत |
स्वर्णरोंणस्तु राजर्षेर्ह्रस्वरोमा व्यजायत || १२||
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः |
ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः || १३||
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः |
कुशध्वजं समावेश्य भारं मयि वनं गतः || १४||
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् |
भ्रातरं देवसङ्काशं स्नेहात्पश्यन्कुशध्वजम् || १५||
कस्य चित्त्वथ कालस्य साङ्काश्यादगमत्पुरात् |
सुधन्वा वीर्यवान्राजा मिथिलामवरोधकः || १६||
स च मे प्रेषयामास शैवं धनुरनुत्तमम् |
सीता कन्या च पद्माक्षी मह्यं वै दीयताम् इति || १७||
तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह |
स हतोऽभिमुखो राजा सुधन्वा तु मया रणे || १८||
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् |
साङ्काश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम् || १९||
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने |
ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव || २०||
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च |
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् || २१||
द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः |
ददामि परमप्रीतो वध्वौ ते रघुनन्दन || २२||
रामलक्ष्मणयो राजन्गोदानं कारयस्व ह |
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु || २३||
मघा ह्यद्य महाबाहो तृतीये दिवसे प्रभो |
फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु |
रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् || २४||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).