|| वाल्मीकि रामायण - बालकाण्ड ||
|| सर्ग ||
७४
राम दाशरथे वीर वीर्यं ते श्रूयतेऽधुतम् |
धनुषो भेदनं चैव निखिलेन मया श्रुतम् || १||
तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया |
तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् || २||
तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः |
पूरयस्व शरेणैव स्वबलं दर्शयस्व च || ३||
तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे |
द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमिदं तव || ४||
तस्य तद्वचनं श्रुत्वा राजा दशरतःस्तदा |
विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् || ५||
क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणस्य महायशाः |
बालानां मम पुत्राणामभयं दातुमर्हसि || ६||
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् |
सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि || ७||
स त्वं धर्मपरो भूत्वा काश्यपाय वसुन्धराम् |
दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः || ८||
मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने |
न चैकस्मिन्हते रामे सर्वे जीवामहे वयम् || ९||
ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् |
अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत || १०||
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते |
दृढे बलवती मुख्ये सुकृते विश्वकर्मणा || ११||
अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे |
त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्श यत्त्वया || १२||
इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः |
समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् || १३||
तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् |
शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया || १४||
अभिप्रायं तु विज्ञाय देवतानां पितामहः |
विरोधं जनयामास तयोः सत्यवतां वरः || १५||
विरोधे च महद्युद्धमभवद्रोमहर्षणम् |
शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः || १६||
तदा तज्जृम्भितं शैवं धनुर्भीमपराक्रमम् |
हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः || १७||
देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः |
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ || १८||
जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः |
अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा || १९||
धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः |
देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् || २०||
इदं च विष्णवं राम धनुः परपुरञ्जयम् |
ऋचीके भार्गवे प्रादाद्विष्णुः स न्यासमुत्तमम् || २१||
ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः |
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः || २२||
न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते |
अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः || २३||
वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् |
क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः || २४||
पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने |
यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे || २५||
दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः |
श्रुतवान्धनुषो भेदं ततोऽहं द्रुतमागतः || २६||
तदिदं वैष्णवं राम पितृपैतामहं महत् |
क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् || २७||
योजयस्व धनुः श्रेष्ठे शरं परपुरञ्जयम् |
यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः || २८||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).